________________
तत्त्वार्थश्लोकवार्तिके
[सू० ४ साधनस्य भावात् परार्थ जीवसाधनमसिद्धमिति चेत् , कथं परेषां तत्त्वप्रत्यायनं ? तदभावे कथं केचिप्रतिपादकास्तत्त्वस्य परे प्रतिपाद्यास्तेषामिति प्रतीतिः स्यात् ॥
न जीवा बहवः संति प्रतिपाद्यप्रतिपादकाः । भ्रांतेरन्यत्र मायादिदृष्टजीववदित्यसत् ॥२९॥
एक एव हि परमात्मा प्रतिपाद्यप्रतिपादकरूपतयानेको वा प्रतिभासते अनाद्यविद्याप्रभावात् । न पुनर्बहवो जीवाः संति भ्रांतेरन्यत्र मायाखानादिजीववत् तेषां पारमार्थिकतानुपपत्तेः । तथाहि । जीव- . बहुत्वप्रत्ययो मिथ्या बहुत्वप्रत्ययत्वात् खप्नादिदृष्टजीवबहुत्वप्रत्ययवदिति कश्चित् , तदनालोचितवचनम् ॥
अद्वयस्यापि जीवस्य विभ्रांतत्वानुषंगतः। एकोऽहमिति संवित्तेः स्वप्नादौ भ्रमदर्शनात् ॥३०॥
शक्यं हि वक्तुं जीवैकत्वप्रत्ययो मिथ्या एकत्वप्रत्ययत्वात् खप्नैकत्वप्रत्ययवदिति । एकत्वप्रत्ययश्च स्यान्मिथ्या च न स्याद्विरोधाभावात् । कस्यचिदेकत्वप्रत्ययस्य मिथ्यात्वदर्शनात् सर्वस्य मिथ्यात्वसाधनेतिप्रसंगादिति चेत् समानमन्यत्र ।।
व्यभिचारविनिर्मुक्तेः संविन्मात्रस्य सर्वदा। न भ्रांततेति चेत्सिद्धा नानासंतानसंविदः॥३१॥ यथैव मम संवित्तिमात्रं सत्यं व्यवस्थितम् । स्वसंवेदनसंवादात्तथान्येषामसंशयम् ॥ ३२ ॥
बहुत्वप्रत्ययवदेकत्वप्रत्ययोपि मिथ्यास्तु तस्य व्यभिचारित्वात् खप्नादिवत् । खसंविन्मात्रस्य तु परमात्मनो निरुपाधेर्व्यभिचारविनिर्मुक्तत्वात् सर्वदा संवादान मिथ्यात्वमिति वदतां सिद्धाः स्वसंविदात्मनो नानासंतानाः । खस्येव परेषामपि संविन्मात्रस्याव्यभिचारित्वात् । तथाहि । नानासंतानसंविदः सत्याः सर्वदा व्यभिचारविनिर्मुक्तत्वात् खसंविदात्मवदिति न मिथ्या प्रतिपाद्यप्रतिपादका, यतः परार्थ जीवसाधनमभ्रांतं न सिद्ध्येत् ॥
अन्ये त्वत्तो न संतीति स्वस्य निर्णीत्यभावतः । नान्ये मत्तोपि संतीति वचने सर्वशून्यता ३३ तस्याप्यन्यैरसंवित्तेविशेषाभावतोन्यथा । सिद्धं तदेव नानात्वं पुंसां सत्यसमाश्रयम् ॥ ३४ ॥
मत्तोन्येपि निरुपाधिकं स्वरूपमात्रमव्यभिचारि संविदंतीति निर्णीतेरसंभवात् तत्र प्रत्यक्षस्याप्रवृत्तेरव्यभिचारिणो लिंगस्याभावादनुमानानुत्थानादिति वचने सर्वशून्यतापत्तिः । त्वत्संविदोपि तथान्यैर्निश्चेतुमशक्तेः सर्वथा विशेषाभावात् । यदि पुनरपरैरनिश्चयेपि तथा स्वसंविदः खयं निश्चयात् सत्यत्वसिद्धिस्तदा त्वया निश्चेतुमशक्यानामपि तथा परसंविदां सत्यत्वसिद्धेः सिद्धं पुंसां नानात्वं पारमार्थिकम् ।।
आत्मानं संविदंत्यन्ये न वेति यदि संशयः । तदा न पुरुषाद्वैतनिर्णयो जातु कस्यचित् ॥३५।। मत्तः परेप्यात्मानः खसंविदंतो न संत्येवेति निर्णये हि कस्यचित्पुरुषाद्वैते निर्णयो युक्तो न पुनः संशये तत्रापि संशयप्रसंगात् । “पुरुष एवेदं सर्व" इत्यागमात्पुरुषाद्वैतसिद्धिरिति चेत् "संत्यनंताजीवा” इत्यागमान्नानाजीवसिद्धिरस्तु । पुरुषाद्वैतविधिस्रगागमेन प्रकाशनात् प्रत्यक्षस्यापि विधातृतया स्थितस्य तत्रैव प्रवृत्तेस्तेन तस्याविरोधात् ततः पुरुषाद्वैतनिर्णय इति चेत्, नानात्वागमस्यापि तेनाविरोधान्नानाजीवनिर्णयोऽस्तु । तथाहि;
आहुर्विधातृप्रत्यक्षं न निषेद्धृविपश्चितः । न नानात्वागमस्तेन प्रत्यक्षेण विरुध्यते ॥३६॥ तेनानिषेधतेऽन्यस्याभावाभावात् कथंचन । संशीतिगोचरत्वाद्वान्यस्याभावाविनिश्चयात् ॥३७॥ . भवतु नाम विधातृप्रत्यक्षमनिषेद्ध च तथापि तेन नानात्वविधायिनो नागमस्य विरोधः संभवत्येकत्वविधायिन इव विधायकत्वाविशेषात् । कथमेकत्वमनिषेधत्प्रत्यक्षं नानात्वमात्मनो विदधातीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org