________________
प्रथमोऽध्यायः। चेत् , नानात्वमनिषेधदेकत्वं कथं विदधीत ? तस्यैकत्वविधानमेव नानात्वप्रतिषेधकत्वमिति चेत् , नानात्वविधानमेवैकत्वनिषेधनमस्तु । किं पुनः प्रत्यक्षमात्मनो नानात्वस्य विधायकमिति चेत् तदेकत्वस्य किं ? न ह्यस्मदादिप्रत्यक्षमिंद्रियजं मानसं वा स्वसंवेदनमेक एवात्मा सर्व इति विधातुं समर्थ नानात्मभेदेषु तस्य प्रवृत्तेः । योगिप्रत्यक्षं समर्थमिति चेत् , पुरुषनानात्वमपि विधातुं तदेव समर्थमस्तु तत्पूर्वकागम, श्चेत्यविरोधः । स्वसंवेदनमेवास्मदादेः खैकत्वस्य विधायकमिति चेत्, तथान्येषां स्लैकत्वस्य तदेव विधायकमनुमन्यतां । कथं ?
यथैव च ममाध्यक्षं विधात न निषेध वा । प्रत्यक्षत्वात्तथान्येषामन्यथैतत्तथा कुतः ॥ ३८ ॥
परेषां प्रत्यक्षं स्वस्य विधायकं परस्य न निषेधकं वा प्रत्यक्षत्वान्मम प्रत्यक्षवत् । विपर्ययो वा अतिप्रसंगविपर्ययाभ्यां प्रत्यात्मस्वसंवेदनस्यैकत्वविधायित्वासिद्धेरात्मबहुत्वसिद्धिरात्मैकत्वासिद्धिर्वा । न च विधायकमेव प्रत्यक्षमिति नियमोस्ति, निषेधकत्वेनापि तस्य प्रतीयमानत्वात् । तथाहि;
विधात्रहं सदैवान्यनिषेद्ध न भवाम्यहम् । स्वयं प्रत्यक्षमित्येवं वेत्ति चेन्न निषेद्धकम् ॥३९॥
विधातृ च नान्यनिषेद्धप्रत्यक्षमिति न प्रमाणांतरान्निश्चयो द्वैतप्रसंगात् । खत एव यथा निश्चये सिद्धं तस्य निषेधकत्वं परस्य निषेहं न भवामीति स्वयं प्रतीतेः ।। संति सत्यास्ततो नाना जीवाः साध्यक्षसिद्धयः । प्रतिपाद्याः परेषां ते कदाचित्प्रतिपादकाः ४०
यतश्चैवं प्रमाणतो नानात्मनः सिद्धास्ततो न तेषां प्रतिपाद्यप्रतिपादकभावो मिथ्या येन परार्थ जीवसाधनमसिद्धं स्यात् ॥
परार्थ निर्णयोपायो वचनं चास्ति तत्त्वतः। तच जीवात्मकं नेति तद्वदन्यच किं न नः॥४१॥
न ह्युपायापाये परार्थसाधनं सिद्ध्यति तस्योपेयत्वादन्यथातिप्रसक्तेरिति । तस्योपायोस्ति वचनमन्यथानुपपत्तिलक्षणलिंगप्रकाशकं जीवात्मकमेव तदित्ययुक्तं, प्रतिपादकजीवात्मकत्वे तस्य प्रतिपाद्याद्यसंवेद्यत्वापत्तेः । प्रतिपाद्यजीवात्मकत्वे प्रतिपादकाद्यसंवेद्यतानुषक्तेः, सत्यजीवात्मकत्वे प्रतिपाद्यप्रतिपादकासंवेद्य. त्वासंगात् । प्रतिपादकाद्यशेषजीवात्मकत्वे तदनेकत्वे विरोधादेकवचनात्मकत्वेन तेषामेकत्वसिद्धेः । सत्यमेक एवात्मा प्रतिपादकादिभेदमास्तिष्णुते अनाद्यविद्यावशादित्यप्युक्तोत्तरप्रायमात्मनानात्वसाधनात् । कथं चात्मनः सर्वथैकत्वे प्रतिपादकस्यैव तत्र संप्रतिपत्तिर्न तु प्रतिपाद्यस्येति प्रतिपद्येमहि । तस्यैव वा विप्रतिपत्तिर्न पुनः प्रतिपादकस्येति तथा तद्भेदस्यैव सिद्धेः । यदि पुनरविद्याप्रभेदात्तथा विभागस्तदा साप्यविद्या प्रतिपादकगता कथं प्रतिपाद्यादिगता न स्यात् ? तद्गता वा प्रतिपादकगता तदभेदेपीति साश्चर्य नश्चेतः । प्रतिपादकगतेयमविद्या प्रतिपाद्यादिगतेयमिति च विभागसंप्रत्ययोनाद्यविद्याकृत एवेति चेत्, किमिदानीं सर्वोप्यविद्याप्रपंचः। सर्वात्मगतस्तत्त्वोस्तु सोप्यविद्यावशात्तथेति चेत् , तर्हि तत्त्वतो न क्वचिदविद्याप्रपंच इति न तत्कृतो विभागः । परमार्थतः एव प्रतिपादिकादिजीवविभागस्य सिद्धेः । ततो नैकात्मव्यवस्थानं येन वचसोशेषजीवात्मकत्वे यथोक्तो दोषो न भवेदिति न जीवात्मकं वचनं । तद्वच्छरीरादिकमप्यजीवात्मकमस्माकं प्रसिद्ध्यत्येव ।।
बायेंद्रियपरिच्छेद्यः शब्दो नात्मा यथैव हि । तथा कार्यादिरअॅपि तदजीवोस्ति वस्तुतः४२
न केवलं प्रतिपादकस्य शरीरं लिप्यक्षरादिकं वा परप्रतिपत्तिसाधनं वचनवत् साक्षात् परसंवेद्यत्वादजीवात्मकं । किं तर्हि ? बायेंद्रियग्राह्यत्वाच्च । जीवात्मकत्वे तदनुपपत्तेरिति सूक्तं परार्थसाधनान्यथानुपपत्तेरजीवास्तित्वसाधनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.