________________
१५० - तत्त्वार्थश्लोकवार्तिके
[सू०७ कारणभावः स्यात् तयोर्भेदादिति चेत् , शब्दस्य नियोक्तसमाश्रितत्वेन भेदेप्यभेदवाचिनः प्रयोगाभ्युपगमात् । खयं हि लोकोयमेकमदृष्टस्य दर्शनेप्यपश्यंस्तददर्शने च पश्यद्विनाप्याख्यातृभिरकार्यमवबुध्यते । न च तथा दर्शनादर्शने मुक्त्वा कचिदकार्यबुद्धिरस्ति । न च तयोरकार्यादिश्रुतिविरुध्यते लाघवार्थत्वात् तन्निवेशस्य । या पुनरतद्भावाभावादकार्यगतिरुपवर्ण्यते सा संकेतविषयाख्या, यथा असानादेरगोगतिः । नैतावता तत्त्वतोकार्यकारणभावो नाम । भावे हि अभाविनी वा भाविता अहेतुफलते प्रसिद्धे । । प्रसिद्धे प्रत्यक्षानुपलंभाभ्यामेव । तदेतावन्मात्रतत्त्वार्था एवाकार्यकारणगोचरा विकल्पा दर्शयंत्यर्थान् मिथ्यार्थात्खयमघटितानपीति समायातं । भिन्ने हि भावे का नामाघटना तत्वान्यावभासते ? येनासौ तात्त्विकी स्यात् । अभिन्ने सुतरां नाघटना । न च भिन्नावौँ केनचिदकार्यकारणभावेन योगादकार्यकारणभूतौ स्यातां संबंधविधिप्रसंगात् । तदेवं न तात्त्विकोऽर्थो नाम कार्यकारणभावो व्यवतिष्ठतेऽकार्यकारणभाववत् । खखभावव्यवस्थितार्थान् विहाय नान्यः कश्चिदकार्यकारणभावोस्त्विति । तथा व्यवहारस्तु कल्पनामात्रनिर्मित एव कार्यकारणव्यवहारवदितिचेत् तर्हि वास्तव एव कार्यकारणभावोऽकार्यकारणभाववत् । केवलं तब्यवहारो विकल्पशब्दलक्षणो विकरूपनिर्मित इति किमनिष्टं । वस्तुरूपयोरपि कार्यकारणभावे तयोरभावो वस्तुत्वेति न तु युक्तं, व्याघातात् क्वचिन्नीलेतरत्वाभाववत् । ततो यदि कुतश्चिामाणात् कार्यकारणभावः परमार्थतः केषांचिदर्थानां सिध्येत् तदा तत एव कार्यकारणभावोपि प्रतीतेरविशेषात्तथैव हि गवादीनामसाध्यसाधनभावः परस्परमतद्भावभावित्वप्रतीतेर्व्यवतिष्ठते । तथामिधूमादीनां साध्यसाधनभावोपि तद्भावमावित्वप्रतीतेर्बाधकाभावात् । नन्वकस्मादग्निं धूमं वा केवलं पश्यतः कारणत्वं कार्यत्वं वा किं न प्रतिभातीतिचेत् किं पुनरकारणत्वमकार्यत्वं वा प्रतिभाति । सातिशयसंविदा प्रतिभात्येवेति चेत् , कारणत्वं कार्यत्वं वा तत्र तेषां न प्रतिभातीति कोशपानं विधेयं । अस्मदादीनां तु तदप्रतिभासनं तथा निश्चयानुपपत्तेः क्षणक्षयादिवत् । तथोभयत्र समानं । यथैव हि तद्भावभावित्वानध्यबसायिनां न कचित्कार्यत्वकारणत्वनिश्चयोस्ति तथा खयमतद्भावभावित्वव्यवसायिनामकार्यकारणत्वनिश्चयोपि प्रतिनियतसामग्रीसापेक्षकत्वाद्वस्तुधर्मनिश्चयस्य । न हि सर्वत्र समानसामग्रीप्रभावो निर्णयस्तस्यांतरंगबहिरंगसामग्रीवैचित्र्यदर्शनात् । धूमादिज्ञानसामग्रीमात्रात्तत्कार्यत्वादिनिश्चयानुत्पत्तेः न कार्यत्वादि धूमादिखरूपमिति चेत् तर्हि क्षणिकत्वादिरपि तत्स्वरूपं माभूत्तत एव क्षणिकत्वाभावे वस्तुत्वमेव न स्यादिति चेत् कार्यत्वकारणत्वाभावेपि कुतो वस्तुत्वं खरशृंगवत् । सर्वथाप्यकार्यकारणस्य वस्तुत्वानुपपत्तेः कूटस्थवत् । क्षणिकैकांतवद्वा विशेषासंभवात् । ननु च सदपि कार्यत्वं कारणत्वं वा वस्तुत्वखरूपं न संबंधोऽद्विष्ठत्वात् । कार्यत्वं कारणे हि न वर्तते कारणत्वं वा कार्ये येन द्विष्ठं भवेत् । कार्यकारणभावस्तयोरेको वर्तमानः संबंध इति चेन्न, तस्य कार्यकारणाभ्यां भिन्नस्याप्रतीतेः । सतोपि प्रत्येकपरिसमात्या तत्र वृत्तौ तस्यानेकत्वापतेः । एकदेशेन वृत्तौ सावयवत्वानुषक्तेः खावयवेष्वपि वृत्तौ प्रकृतपर्यनुयोगस्य तदवस्थत्वादनवस्थानावतारात् । कार्यकारणांतराले तस्योपलंभप्रसंगाच्च ताभ्यां तस्याभेदेपि कथमेकत्वं भिन्नाभ्यामभिन्नस्याभिन्नत्वविरोधात् । स्वयमभिन्नस्यापि भिन्नार्थस्तादात्म्ये परमाणोरेकस्य सकलाथैस्तादात्म्यप्रसंगादेकपरमाणुमात्रं जगत्स्यात् सकलजगत्स्वरूपो वा परमाणुरिति भेदाभेदैकोतवादिनोरुपलंभः स्याद्वादिनस्तथानभ्युपगमात् । कार्यकारणभावस्य हि संबंधस्याबाधिततथाविधप्रत्ययारूढस्य खसंबंधिनो वृत्तिः कथंचित्तादात्म्यमेवानेकांतवादिनोच्यते । खाकारेषु ज्ञानवृत्तिवत् कुतोनेकसंबंधितादात्म्ये कार्यकारणभावस्य संबंधस्यैकत्वं न विरुध्यते इति चेत् , नानाकारतादात्म्ये ज्ञानस्यैकत्वं कुतो न विरुध्यते ? तदशक्यविवेचनत्वादिति चेत् तत एवान्यत्रापि कार्यकारण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org