________________
प्रथमोऽध्यायः ।
१४९ संबंधोन्यत्र कल्पनामात्रादिति वदन्नपि न स्याद्वादिमतमवबुध्यते । तद्विभेदाभेदैकांतपराङ्मुखं न तद्दोषास्पदं । येन रूपेण लक्ष्यमाणः संबंधो अन्यो वार्थः खलक्षणमिति तु परस्परापेक्षभेदाभेदात्मकं जात्यं तरमेवोक्तं तस्याबाधितप्रतीतिसिद्धत्वेन खलक्षणव्यपदेशात् । ततो न कल्पनामेवानुरुंधानैः प्रतिपत्तृभिः क्रियाकारकवाचिनः शब्दाः संयोज्यंतेऽन्यापोहप्रतीत्यर्थमेवेति घटते येनेदं शोभेत । “तामेव चानुरुंधानौ । क्रियाकारकवाचिनः । भावभेदप्रतीत्यर्थ संयोज्यंतेऽभिधायिकाः ॥” इति क्रियाकारकादीनां संबंधिन
तत्संबंधस्य च वस्तुरूपप्रतीतये तदभिधायिकानां प्रयोगसिद्धेः सर्वत्रान्यापोहस्यैव शब्दार्थत्वनिराकरणाच्च । ततः कश्चित्कस्यचित्स्वामी संबंधात्सिध्यत्येवेति स्वामित्वमर्थानामधिगम्यं निर्देश्यत्ववदुपपन्नमेव ॥
न किंचित्केनचिद्वस्तु साध्यते सन्न चाप्यसत् । ततो न साधनं नामेत्यन्ये तेप्यसदुक्तयः १३
साधनं हि कारणं तच्च न सदेव कार्य साधयति स्वरूपवत् , नाप्यसत्खरविषाणवत् । प्रागसत्साधय' तीति न वा युक्तं, सदेव साधयतीति पक्षानतिक्रमात् । न ह्युत्पत्तेः प्रागसत् प्रागेव कारणं निष्पादयति, तस्यासत एव निष्पादनप्रसक्तेः । उत्पत्तिकाले सदेव करोतीति तु कथनेन कथं न सत्पक्षः । कथंचित्सह करोतीत्यपि न व्यवतिष्ठते, येन रूपेण सत्तेन करणायोगादन्यथा खात्मनोपि करणप्रसंगात् । येन चात्मना तदसत्तेनापि न कार्यतामियर्ति शशविषाणवदित्युभयदोषावकाशात् । सदसद्रपं कार्य नाऽनाकुलं, न च कथंचिदपि कार्यमसाधयत् किंचित्साधनं नाम कार्यकरणभावस्य तत्त्वतोसंभवाच्च । तदुक्तं । "कार्यकारणभावोपि तयोरसहभावतः । प्रसिद्ध्यति कथं द्विष्ठोऽद्विष्ठे संबंधता कथं ॥" "क्रमेण भाव एकत्र वर्तमानोन्यनिस्पृहः । तदभावेपि भावाच्च संबंधो नैकवृत्तिमान् ॥” “यद्यपेक्ष्य तयोरेकमन्यत्रासौ प्रवर्तते । उपकारी ह्यपेक्षः स्यात् कथं चोपकरोत्यसत् ॥” “यद्येकार्थाभिसंबंधात्कार्यकारणता तयोः । प्राप्ता द्वित्वादिसंबंधात् सव्येतरविषाणयोः ॥” “द्विष्ठो हि कश्चित्संबंधो नातोन्यत्तस्य लक्षणं । भावाभावोपधिर्योगः कार्यकारणता यदि ॥" योगोपाधी न तावेव कार्यकारणतात्र किं । भेदाच्चेन्न त्वयं शब्दो नियोक्तारं समाश्रितः ॥” “पश्यन्नेकमदृष्टस्य दर्शने तददर्शने । अपश्यत्कार्यमन्वेति विनाप्याख्यातृभिर्जनः ॥" "दर्शनादर्शने मुक्त्वा कार्यबुद्धरसंभवात् । कार्यादिश्रुतिरप्यत्र लाघवाथै निवेशिता ।' "तद्भावभावात्तत्कार्यगतिर्यस्य तु वर्तते । संकेतविषयाख्या सा सानादेोगतिर्यथा ॥" "भावे भाविनि तद्भावो भाव एव च भाविता । प्रसिद्ध हेतुफलते प्रत्यक्षानुपलंभतः ॥" "एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः । विकल्पा दर्शयंत्यर्थान् मिथ्यार्थान् घटितानिव ॥" "भिन्ने का घटनाऽभिन्ने कार्यकारणतापि का । भावे वान्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं न तौ ॥” इति । तदेतदसढूषणं । खाभिमतेप्यकार्यकारणभावे समानत्वात् । तथाहि । अकार्यकारणभावोद्विष्ठ एव कथमसहभाविनोः कार्यकारणत्वाभ्यां निषेध्ययोरर्थयोर्वर्तते । न वा द्विष्ठोसौ संबंधाभावत्त्वविरोधात् । पूर्वत्र भावे वर्तित्वा परत्र क्रमेण वर्तमानोपि यदि सोन्यनिस्पृह एवैकत्र तिष्ठत्कथमसंबंधः ? परस्य ह्यनुत्पन्नस्याभावेपि पूर्वत्र वर्तमानः पूर्वस्य च नष्टत्वेनाभावेपि परत्र वर्तमानोसावेकवृत्तिरेव स्यात् । पूर्वत्र वर्तमानः परमपेक्षते परत्र च तिष्ठत्पूर्वमतो संबंधो द्विष्ठ एवान्यनिस्पृहत्वाभावादिति चेत् कथमनुपकारं तथोत्तरमपेक्ष्यतेति प्रसंगात् । सोपकारकमपेक्षत इति चेत् नासतस्तदोपकारकत्वायोगात् । यदि पुनरेकेनाभिसंबंधात्पूर्वपरयोरकार्यकारणभावस्तदा सव्येतरविषाणयोः स स्यादेकेन द्वित्वादिनाभिसंबंधात् । तथा च सिद्धसाध्यता । द्विष्ठो हि कश्चिदसंबंधो नातोन्यत्तस्य लक्षणं येनाभिमतसिद्धिः । यदि पुनः पूर्वस्याभाव एव यो भावोऽभावेऽभावस्तदुपधियोगोकार्यकारणभावस्तदा तावेव भावाभावावयोगोपाधी किं नोऽकार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org