________________
१४८
तत्त्वार्थश्लोकवार्तिके
[सू०७ तस्य तु रूपश्लेषस्याप्रतिषेधात् न स तात्त्विकः संबंधोस्ति प्रकृतिभिन्नानां स्वस्वभावव्यवस्थितेः अन्यथा सांतरत्वस्य संबंधप्रसंगादिति केचित् । तदुक्तं । “रूपश्लेषो हि संबंधो द्वित्वे स च कथं भवेत् । तस्मात् प्रकृतिभिन्नानां संबंधो नास्ति तत्त्वतः ॥” इति । तदेतदेकांतवादिनश्चोद्यं न पुनः स्याद्वादिनां । ते हि कथंचिदेकत्वापत्तिं संबंधिनो रूपश्लेषं संबंधमाचक्षते । न च सा द्वित्वविरोधिनी कथंचित्स्वभावनैरंतर्य वा तदपि नांतराभावरूपमस्तित्वं छिद्रमध्यविरहेष्वन्यतमस्यांतरस्याभावो हि तत्वभावांतरात्मको वस्तुभूत एव यदा रूपश्लेषः कयोश्चिदास्थीयते निर्बाध तथा प्रत्ययविषयस्तदा कथं कल्पनारोपितः स्यात् । केनचिदंशेन तादात्म्यमतादात्म्यं च संबंधिनोविरुद्धमित्यपि न मंतव्यं तथानुभवाच्चित्राकारसंवेदनवत् । एतेन प्राप्त्यादिरूपं नैरंतर्य रूपश्लेष इत्यपि खीकृतं तस्यापि कथंचित्तादात्म्यानतिक्रमात् । ततः खखभावव्यवस्थितेः प्रकृतिभिन्नानामर्थानां न संबंधस्तात्त्विक इत्ययुक्तं तत एव तेषां संबंधसिद्धेः । खखभावो हि भावानां प्रतीयमानः कथंचित्प्रत्यासत्तिविप्रकर्षश्च सर्वथा तदप्रतीतेस्तेन चावस्थितिः कथं संबंधाभावैकांतं साधयेत् संबंधैकांतवत् । न चापेक्षत्वात् संबंधस्वभावस्य मिथ्याप्रतिभासः सूक्ष्मत्वादिवदसंबंधखभावस्यापि तथानुषंगात् । स चासंबंधस्वभावोऽनापेक्षिकः कथंचिदर्थमपेक्ष्य कस्यचित्तव्यवस्थितेरन्यथानुपपत्तेः । स्थूलत्वादिवत् प्रत्यक्षबुद्धौ प्रतिभासमानो अनापेक्षिक एव तत्पृष्टभाविना तु विकल्पेनाध्यवसीयमानो यथापेक्षिकस्तथा वास्तवो भवतीतिचेत् , संबंधखभावोपि समानं । न हि स प्रत्यक्षेन प्रतिभासते यतोऽनापेक्षिको न स्यात् । ननु च परापेक्षैव संबंधस्तस्य तन्निष्ठत्वात् तदभावे सर्वथाप्यसंभवात् । परापेक्षमाणो भावः खयमसत्त्वादपेक्षते स तथा न तावदसन्नपेक्षो धर्माश्रयत्वविरोधात् खरश्रृंगवत् । नापि सन् सर्वनिराशंसत्वादन्यथा सत्त्वविरोधात् कथंचित्सन्नसन्नापेक्ष्य इत्ययमपि पक्षो न श्रेयान् पक्षद्वयदोषानतिक्रमात् । न चैकोर्थः सन्नसंश्व केनचिद्रूपेण संभवति विरोधादन्यथातीतानागताद्यशेषात्मको वर्तमानार्थः स्यादिति न क्वचित्सदसत्त्वव्यवस्था, संकरव्यतिकरापत्तेः । ततोपरापेक्षाणामसन्निबंधनः संबंधः सिध्येत् । तदुक्तं । “परापेक्षादिसंबंधः सोसत्कथमपेक्षते । संश्च सर्वनिराशंसो भावः कथमपेक्ष्यते ॥” इति कश्चित् । सोपि सर्वथा सदसत्त्वाभ्यां भावस्य परापेक्षाया विरोधमप्रतिपद्यमानः कथं तां प्रतिषेध्यात् । प्रतिपद्यमानस्तु स्वयं प्रतिषेद्भुमसमर्थस्तस्याः क्वचिसिद्धेरन्यथा विरोधायोगात् कथं चानिराकुर्वन्नपि परापेक्षा सर्वत्र संबंधस्यानापेक्षिकत्वं प्रत्याचक्षीत ? न चेदुन्मत्तः । खलक्षणमेव संबंधोऽनापेक्षिकः स्यान्न ततोऽन्यः । स चेष्टो नाममात्रे विवादाद्वस्तुन्यविवादादितिचेत् । कः पुनः संबंधमस्खलक्षणमाहतस्यापि खेन रूपेण लक्ष्यमाणस्य खलक्षणत्वात् । ननु कुतः संबंधस्तथा द्वयोः संबंधिनोः सिद्धः ? एकेन गुणाख्येन संयोगेनान्येन वा धर्मेणांतरस्थितेनावाच्येन वा वस्तुरूपेण संबंधादितिचेत् , स तत्संबंधिनोरनर्थातरम तरं वा ? यद्यनर्थातरं तदा संबंधिनावेव प्रसज्यते । तथा च न संबंधो नाम । स ततो तरं चेत् संबंधिनौ केवलौ कथं संबंधौ स्यातां तत्त्वान्यत्वाभ्यामवाच्यश्चेत् कथं वस्तुभूतः स्यात् । भवतु चार्थातरमनर्थातरं वा संबंधः । स तु द्वयोरेकेन कुतः स्यात् । परेणैकेन संबंधादिति चेत् तेनापि न संबंधः । परेणैकेन संबंधादित्यनवस्थानात् संबंधमतिः सुदूरमपि गत्वा द्वयोरेकाभिसंबंधमंतरेणापि संबंधत्वेन ...(2) अभिसंबंधत्वमतिः केवलयोः संबंधिनोरतिप्रसंगात् । यदि संबंधश्च खेनासाधारणेन रूपेण स्थितस्तदा सिद्धममिश्रणमर्थानां परमार्थतः । तदुक्तं । "द्वयोरेकाभिसंबंधात् संबंधो यदि तद्वयोः । कः संबंधोऽनवस्था च न संबंधमतिस्तथा ॥" "तौ च भावौ तदन्यश्च सर्वे ते खात्मनि स्थिताः । इत्यमिश्राः खयं भावास्तन्मिश्रयति कल्पना ॥" इति कथं संबंधः खलक्षणमिष्यते संबंधिनोरीतरं ततोऽनतिरस्य तु तथेष्टौ न वस्तुव्यतिरेकेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org