________________
प्रथमोऽध्यायः ।
१०५
D
भूत् । तस्य सत्यत्वे वा द्वैतसिद्धिः शब्दज्योतिः परमब्रह्मणोः खभावतद्वतोर्वस्तुसतोर्भावात् शब्दज्योति - रसत्यमपि परमब्रह्मणोधिगत्युपायत्वात्तत्स्वरूपमुच्यते " शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीति" वचनात् । न तथा रूपादय इति चेत् कथमसत्यं तद्वदधिगतिनिमित्तं रूपादीनामपि तथानुषंगाभावात् । तस्य विद्यानुकूलत्वाद्भावनाप्रकर्षसात्मभावे विद्यावभासमर्थकारणता न तु रूपादीनामिति चेत्, रूपादयः कुतो न विद्यानुकूलाः ? भेदव्यवहारस्याविद्यात्मनः कारणत्वादिति चेत्, तत एव शब्दोपि विद्यानुकूलो मा भूत् । गुरुणोपदिष्टस्य तस्य रागादिप्रशमहेतुत्वाद्विद्यानुकूलत्वे रूपादीनां तथैव तदस्तु विशेषाभावात् । तेषामनिर्दिश्यत्वान्न गुरूपदिष्टत्वसंभव इति चेत् न, खमत विरोधात् । " न सोस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिवाभाति सर्वे शब्दे प्रतिष्ठितम् ॥” इति वचनात् । शाब्दः प्रत्ययः सर्वः शब्दान्वितो नान्य इति चायुक्तं, श्रोत्रजशब्दप्रत्ययस्याशब्दान्वितत्वप्रसक्तेः खाभिधानविशेषात् प्रत्यक्ष एवार्थः प्रत्ययैर्निश्चीयत इत्यभ्युपगमाच्च । ननु च रूपादयः शब्दान्नार्थांतरं तेषां तद्विवत् । ततो न ते गुरुणोपदिश्यते येन विद्यानुकूलाः स्युरिति चेत्, तर्हि शब्दोपि परमब्रह्मणो नान्य इति कथं गुरुणोपदेश्यः । ततो भेदेन प्रकल्प्य शब्दं गुरुरुपदिशतीति चेत्, रूपादीनपि तथोपदिशतु । तथा च शब्दाद्वैतमुपायतत्त्वं परमब्रह्मणो न पुना रूपाद्वैतं रसाद्वैतादि चेति ब्रुवाणो न प्रेक्षावान् । ननु च लोके शब्दस्य परप्रतिपादनोपायत्वेन सुप्रतीतत्वात् सुघटस्तस्य गुरूपदेशो न तु रूपादीनामिति चेत् न, तेषामपि खप्रतिपत्त्युपायतया हि प्रतीतत्वात् । तद्विज्ञानं खप्रतिपत्त्युपायो न त एवेति चेत् तर्हि शब्दज्ञानं परस्य प्रतिपत्त्युपायो न शब्द इति समानं । परंपरया शब्दस्य प्रतिपत्त्युपायत्वे रूपादीनां सुप्रतिपत्त्युपायतास्तु । न हि धूमादिरूपादीनां विज्ञानात् पावकादिप्रत्तिपत्तिर्जनस्याप्रसिद्धाः । शब्दः साक्षात्परप्रतिपत्त्युपायस्तस्य प्रतिभासादभिन्नत्वादिति चेत्, तत एव रूपादयः साक्षात्स्वप्रतिपत्तिहेतवः संतु । एवं च यथा श्रोत्रप्रतिभासादभिन्नः शब्दस्तत्समानाधिकरणतया संवेदनाच्छ्रोत्रप्रतिभासश्च परमब्रह्म तत्त्वविकल्पाच्छब्दात् सोपि च ब्रह्मतत्त्वात्संवेदनमात्र लक्षणादव्यभिचारिखरूपादिति । ततः परमब्रह्मसिद्धिः । तथा रूपादयः खप्रतिभासादभिन्नाः, सोपि प्रतिभासमात्र विकल्पाल्लिंगात्, सोपि च परमात्मनः खसंवेदनमात्रलक्षणादिति न शब्दाद्रूपादीनां कंचन विशेषमुत्पश्यामः । सर्वथा तमपश्यंतश्च शब्द एव खरूपप्रकाशनो न तु रूपादयः, स एव परमब्रह्मणोधिगमोपायस्तत्स्वभावो वा न पुनस्त इि कथं प्रतिपद्येमहि । अत्रापरः प्राह । पुरुषाद्वैतमेवास्तु पदार्थः प्रधानशब्दब्रह्मादेस्तत्स्वभावत्वात्तस्यैव विधिरूपस्य नित्यद्रव्यत्वादिति । तदप्यसारं । तदन्यापोहस्य पदार्थत्वसिद्धेः । शब्दो हि ब्रह्म ब्रुवाणः स्वप्रतिपक्षादपोढं ब्रूयात् । किं वान्यथा प्रथमपक्षे विधिप्रतिषेधात्मनो वस्तुनः पदार्थत्वसिद्धिः । द्वितीयपक्षेपि सैव, स्वप्रतिपक्षादव्यावृतस्य परमात्मनः शब्देनाभिधानात् । तद्विधिरेवान्यनिषेध इति चेत्, तदन्यप्रतिषेध एव तद्विधिरस्तु । तथा चान्यापोह एव पदार्थः स्यात् स्वरूपस्य विधेस्तदपोह इति नाम - मात्रभेदादर्थो न भिद्यते एव यतोनिष्टसिद्धिः स्यादिति चेत् । न । अन्यापोहस्यान्यार्थापेक्षत्वात् स्वरूपविधेः परानपेक्षत्वादर्थभेदगतेः । परमात्मन्यद्वये सति ततोन्यस्यार्थस्याभावात् कथं तदपेक्षयान्यापोह इति चेत् न । परपरिकल्पितस्यावश्याभ्युगमनीयत्वात् । सोप्यविद्यात्मक एवेति चेत्, किमविद्यातोपोहस्तदपेक्षो नेष्टः ? सोप्यविद्यात्मक एवेति चेत् तर्हि तत्त्वतो नाविद्यातपोहः परमात्मन इति कुतोविद्यात्वं येन स एव पदस्यार्थो नित्यः प्रतिष्ठेत । सत्यपि च परमात्मनि संवेदनात्मन्यद्वये कथं शब्दविषयत्वं ? खसंवेदनादेव तस्य प्रसिद्धेस्तत्प्रतिपत्तये शब्दवैयर्थ्यात् । ततो मिथ्याप्रवाद एवायं नित्यं द्रव्यं पदार्थ इति ॥
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org