________________
तत्त्वार्थश्लोकवार्तिके
[सू० ५
तद्वद्रूपाद्युपाधिभिरुपधीयमानद्रव्यस्य रूपादिशब्दैरभिधानेपि शुद्धस्य द्रव्यस्यैवाभिधानसिद्धेर्न तेषामद्रव्यविषयत्वं तदुपाधीनामसत्यत्वाद् गृहस्य काकाद्युपाधिवत् सुवर्णस्य रुचकाद्याकारोपाधिवच्च । सत्यत्वे पुनरुपाधीनां रूपाद्युपाधीनामपि सत्यत्वप्रसंगात् तथा तदुपाधीनामित्यनवस्थानमेव स्यात् उपाधितद्वतोरव्यवस्थानात् । भ्रांतत्वे पुनरुपाधीनां द्रव्योपाधीनामसत्यत्वमस्तु तद्व्यतिरेकेण तेषां संभवात् स्वयमसंभवतां शब्दैरभिधाने तेषां निर्विषयत्वप्रसंगादिति सविषयत्वं शब्दानामिच्छता शुद्धद्रव्यविषयत्वमेष्टव्यं तस्य सर्वत्र सर्वदा व्यभिचाराभावादुपाधीनामेव व्यभिचारात् । न च व्यभिचारिणामप्युपाधीनामभिधायकाः शब्दाः सविषयाणामखप्नादिप्रत्ययानां खमविषयत्वप्रसंगात् इति शुद्धद्रव्यपदार्थवादिनः । तेपि न परी - क्षकाः । सर्वशब्दानां खरूपमात्राभिधायित्वप्रसंगात् । परेपि ह्येवं वदेयुः । सर्वे विवादापन्नाः शब्दाः स्वरूपमात्रस्य प्रकाशकाः शब्दत्वान्मेघशब्दवदिति । नन्विदमनुमानवाक्यं यदि स्वरूपातिरिक्तं साध्यं प्रकाशयति तदानेनैव व्यभिचारः साधनस्य । नोचेत् कथमतः साध्यसिद्धिरतिप्रसंगादिति दूषणं शुद्धद्रव्याद्वैतवाचकत्वसाधनेपि समानं । तद्वाक्येनापि द्रव्यमात्राव्यतिरिक्तस्य तद्वाचकत्वस्य शब्दधर्मस्य प्रकाशने तेनैव हेतोर्व्यभिचारात् । तदप्रकाशने साध्यसिद्धेरयोगात् । द्रव्याद्वैतवादिनः शब्दस्य तद्वाचकत्वधर्मस्य परमार्थतो द्रव्यादव्यतिरिक्तत्वात् साधनवाक्येन तत्प्रकाशनेपि न हेतोर्व्यभिचार इति चेत् तर्हि शब्दाद्वैतवादिनोपि सुतरां प्रकृतसाधनवाक्येन न व्यभिचारः खरूपमात्राभिधायकस्य साध्यस्य शब्दधर्मस्य शब्दादव्यतिरिक्तस्य तेन साधनात् द्रव्यमात्रे शब्दस्य प्रवेशनेन तद्धर्मस्यापि तत्र पारंपर्यानुषक्तेः परिहरणात् । ननु शब्दाद्वैते कथं वाच्यवाचकभावः शुद्धद्रव्याद्वैते कथं ? कल्पनामात्रादिति चेत्, इतरत्र समानं । यथैव ह्यात्मा वस्तुखभावः शरीरं तत्त्वमित्यादयः पर्याया द्रव्यस्यैवं कथ्यते तदा शब्दस्यैव ते पर्याया इत्यपि शक्यं कथयितुमविशेषात् । ननु च जातिद्रव्यगुणकर्माणि शब्देभ्यः प्रतीयते न च तानि शब्दखरूपं श्रोत्रग्राह्यत्वाभावादित्यपि न चोद्यं, जात्यादिभिराकारैरसत्यैरेव सत्यस्य शब्दखरूपस्यावधार्यमाणत्वात् । तच्छब्दैश्चासत्योपाधिवशाद्भेदमनुभवद्भिस्तस्यैवाभिधानात् । न च जात्याद्युपाधिकथनद्वारेण तदुपाधिशब्दस्वरूपाभिधानाद्, अन्यथा तदुपाधिव्यवच्छिन्नशब्दरूपप्रकाश नासंभवात् । जात्यादिशब्दा जात्याद्युपाधिप्रतिपादका एवेति न शंकनीयं, जात्याद्युपाधीनामसत्यत्वात् गृहस्य काकादिवत्सुवर्णस्य रुचकाद्याकारोपाधिवच्च । न च जात्याद्युपाधयः सत्या एव तदुपाधीनामपि सत्यत्वापत्तेः उपाधितद्वतोः क्वचिद्व्यवस्थानायोगात् । तदुपाधीनामसत्यत्वे मौलोपाधीनामप्यसत्य त्वानुषंगात् । न चासत्यानामुपाधीनां प्रकाशकाः शब्दाः सत्या नाम निर्विषयत्वात् । ततः सविषयत्वं शब्दस्येच्छता खरूपमात्रविषयत्वमेषितव्यं, तस्य तत्राव्यभिचारात् । जात्यादिशब्दानां तु जात्याद्यभावेपि भावाद्व्यभिचारदर्शनात् । न हि गौरव इत्यादयः शब्दा गोत्वाश्वत्वादिजात्यभावेपि वाहकादौ न प्रवर्तते । तत्रोपचारात् प्रवर्तत इति चेन्नापरागतयोपि यत्र वचन तेषां प्रवर्तनात् । तथा द्रव्यशब्दा दंडीविषाणीत्यादयो गुणशब्दाः शुक्लादयश्चरत्यादयश्च क्रियाशब्दाः द्रव्यादिव्यभिचारिणोभ्यूह्याः । सन्मात्रं न व्यभिचरंतीति चेत् न, असत्यपि सत्ताभिधायिनां शब्दानां प्रवृत्तिदर्शनात् । न किंचित्सदस्तीत्युपयन् सदेव सर्वमिति ब्रुवाणः कथं स्वस्थो नाम, ततोनर्थंतरे गुणादाविव शुद्धद्रव्येपि शब्दस्य व्यभिचारात् खरूपमात्राभिधायित्वमेव श्रेय इतीतरे । तकेत्र प्रष्टव्याः । कथममी शब्दाः स्वरूपमात्र प्रकाशयंतो रूपादिभ्यो भिद्येरन्? तेषामपि खरूपमात्र प्रकाशने व्यभिचाराभावात् । न स्वरूपप्रकाशिनो रूपादयोऽचेतनत्वादिति चेत् किं वै शब्दश्चेतनः ? परमब्रह्मस्वभावत्वात् शब्दज्योतिषश्चेतनत्वमेवेति चेत्, रूपादयः किं न तत्खभावाः? परमार्थतस्तेषामसत्त्वात् । अतत्खभावा एवेति चेत्, शब्दज्योतिरपि तत एव तत्खभावं मा
"
१०४
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org