________________
प्रथमोऽध्यायः। साधारणेनार्थक्रियासमर्थन प्रतीतिस्तेन जातेाप्त्यसिद्धेरन्वयात्तदंतरेणापि व्यत्तयंतरेषूपलब्धेर्व्यभिचाराच्च, सामान्यरूपेण तु तत्प्रतिपत्तौ नाभिमतव्यक्तौ प्रवृत्तिरतिप्रसंगात् । यदि पुनर्जातिलक्षितव्यक्तिसामान्यादभिमतव्यक्तेः प्रतीतिस्तदा साप्यनुमानमर्थापत्तिर्वेति स एव पर्यनुयोगस्तदेव चानुमानपक्षे दूषणमित्यनवस्थानं शब्दप्रतीतया जात्या व्यक्तेः प्रतिपत्तिरेवेति चेत् , प्रतिनियतरूपेण सामान्यरूपेण वा ? न ताव, दादिविकल्पस्तेन सह जातेरविनाभावाप्रसिद्धेः। द्वितीयविकल्पे तु नाभिमतव्यक्तौ प्रवृत्तिरित्यनुमानपक्षभावी दोषः । सामान्यविशेषस्यानुमानार्थत्वाददोष इत्यपरः। तस्यापि शब्दार्थो जातिमात्रं मा भूत् सामान्यविशेषस्यैव तदर्थतोपपत्तेः । संकेतस्य तत्रैव ग्रहीतुं शक्यत्वात् । तथा च शब्दाप्रत्यक्षादेरिव सामान्यविशेषात्मनि वस्तुनि प्रवृत्तेः परमतसिद्धेर्न जातिरेव शब्दार्थः ।।
द्रव्यमेव पदार्थोस्तु नित्यमित्यप्यसंगतम् । तत्रानंत्येन संकेतक्रियायुक्तेरनन्वयात् ॥ २३ ॥. वांछितार्थप्रवृत्त्यादिव्यवहारस्य हानितः । शब्दस्याक्षादिसामर्थ्यादेव तत्र प्रवृत्तितः ॥ २४॥
न हि क्षणिकखलक्षणमेव शब्दस्य विषयस्तत्र साकल्येन संकेतस्य कर्तुमशक्तेरानंत्यादेकत्र संकेतकरणे अनन्वयादभिमतार्थे प्रवृत्त्यादिव्यवहारस्य विरोधात् । खयमप्रतिपन्ने खलक्षणे संकेतस्यासंभवाच्च । वाचकानां प्रत्यक्षादिभिः प्रतिपन्नेक्षादिसामर्थ्यादेव प्रवृत्तिसिद्धेः । प्रतिपत्तुः शब्दार्थापेक्षयानर्थक्यात् किं तु द्रव्यनित्यमपि तस्यानंत्याविशेषात् । स्यान्मतं । तत्र साकल्येन संकेतस्य करणमशक्तेः । किं तर्हि कचिदेकत्र न चानन्वयोस्य संकेतव्यवहारकालव्यापित्वान्नित्यत्वादिति । तदसंगतं । कर्के संकेतितादश्वशब्दाच्छोणादौ प्रवृत्त्यभावप्रसंगात् तत्र तस्यानन्वयात् । न च प्रतिपाद्यप्रतिपादकाभ्यामध्यक्षादिना नित्येपि कर्के प्रतिपन्ने वाचकस्य संकेतकरणं किंचिदर्थ पुष्णाति प्रत्यक्षादेरेव तत्र प्रवृत्त्यादिसिद्धेः । खयं ताभ्यामप्रतिपन्ने तु कुतः संकेतो वाचकस्यातिप्रसंगात् । केचिदाहुः । न नाना द्रव्यं नित्यं शब्दस्यार्थः किंत्वेकमेव प्रधानं तस्यैवात्मा वस्तुखभावः शरीरं तत्त्वमित्यादिपर्यायशब्दरभिधानात् । यथैकोयमात्मोदकं नामेत्यात्मशब्दो द्रव्यवचनो दृष्टः । वस्त्वेकं तेज इति जलं नामैकः खभावः शरीरं तत्त्वमिति च दर्शनानतिक्रमात् । यथा च द्रव्यमात्मेत्यादयः शब्दपर्याया द्रव्यस्य वाचकास्तथान्येपि सर्वे रूपादिशब्दाः प्रत्यस्तमयादिशब्दाश्च कथंचित्सदापन्नाः सर्वे शब्दा द्रव्यस्याद्वयस्य वाचकाः शब्दत्वाद्रव्यमात्मेत्यादिशब्दवत् । तदुक्तं । "आत्मा वस्तुस्वभावश्च शरीरं तत्त्वमि त्यपि । द्रव्यमित्यस्य पर्यायास्तच्च नित्यमिति स्मृतम् ॥” इति । न च नित्यशब्देनोदयास्तमयशब्दाभ्यामद्रव्यशब्देन व्यभिचारस्तद्विपरीतार्थाभिधायकत्वादिति न मंतव्यं, द्रव्योपाधिभूतरूपादिविषयत्वादनित्यादिशब्दानां रूपादयो व्युत्पद्यते वियंति चेत्यनित्याः द्रव्यत्वाभावाचाद्रव्यत्वमिति कथ्यते । न चोपाधिविषयत्वादमीषां शब्दानामद्रव्यविषयत्वं येन तैः साधनस्य व्यभिचार एव सत्यस्यैव वस्तुनस्तरसत्यैराकारैरवधार्यमाणत्वादसत्योपाधिभिः शब्दैरपि सत्याभिधानोपपत्तेः । तदप्यभिधायि । “सत्यं वस्तु तदाकारैरसत्यैरवधार्यते । असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते ॥” कथं पुनरसत्यानुपाधीनभिधाय तदुपाधीनां सत्यमभिदधानाः शब्दा द्रव्यविषया एव तदुपाधीनामपि तद्विषयत्वात् अन्यथा नोपाधिव्यवच्छिन्नं वस्तुशब्दार्थः इति न चोद्यं, कतरद्देवदत्तस्य गृहमदो यत्रासौ काक इति खामिविशेषावच्छिन्नगृहप्रतिपत्तौ काकसंबंधस्य निबंधनत्वेनोपादानेपि तत्र वर्तमानस्य गृहशब्दस्याभिधेयत्वेन काकानपेक्षणात् । रुचकादिशब्दानां च रुचकवर्धमानखस्तिकाद्याकारैरपायिभिरुपहितं सुवर्णद्रव्यमभिदधतामपि शुद्धसुवर्णविषयतोपपत्तेः । तदुक्तं । “अध्रुवेण निमित्तेन देवदत्तगृहं यथा । गृहीतं गृहशब्देन शुद्धमेवाभिधीयते ॥" "सुवर्णादि यथा युक्तं खैराकारैरपायिभिः । रुचकाद्यभिधानानां शुद्धमेवेति वाच्यताम् ॥” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org