________________
१०२
तत्त्वार्थश्लोकवार्तिके
[सू०५ द्रव्यत्वादित्यपि न शंकनीयं, कालशब्दस्य त्रुटिलवादिकालभेदेष्वनुस्यूतप्रत्ययावच्छेद्ये कालत्वसामान्ये प्रवर्तनात् । पूर्वापरादिदिग्भेदेष्वन्वयज्ञानगम्ये दिक्त्वसामान्ये दिक्छब्दस्य प्रवृत्तेः । पाटलिपुत्रचित्रकूटाद्याकाशभेदेष्वनुस्यूतप्रतीतिगोचरे चाकाशसामान्ये प्रवर्तमानस्याकाशशब्दस्य संप्रत्ययाज्जातिशब्दत्वोपपत्तेः । कालादीनामुपचरिता एव भेदा न परमार्थसंत इति दर्शनेन तजातिरप्युपचरिता तेष्वस्तु । तथा च उपचरितजातिशब्दाः कालादय इति न व्यक्तिशब्दाः । कथमतत्त्वशब्दो जातौ प्रवर्तत इति च नोपा- । लंभः, तत्त्वसामान्यस्यैव विचारितस्यातत्त्वशब्देनाभिधानात् । तदुक्तं । “न तत्त्वातत्त्वयोर्भेद इति वृद्धेभ्य आगमः । अतत्त्वमिति मन्यते तत्त्वमेवाविभावितम् ॥” इति । एतेन प्रागभावादिशब्दानां भावसामान्ये वृत्तिरुक्ता, प्रागभावादीनां भावखभावत्वादन्यथा निरुपाख्यत्वापत्तेरिति । तदेतदसत्यम् । सर्वदा जातिशब्दाघ्यक्तिसंप्रत्ययस्याभावानुषंगात् । तथा चार्थाक्रियार्थिनः प्रतिपत्तन् प्रति शब्दप्रयोगोनर्थकः स्यात् । ततः प्रतीयमानया जात्याभिप्रेतार्थस्य वाहदोहादेरसंपादनात् । खविषयज्ञानमात्राक्रियायाः संपादनाददोष इति चेन्न, तद्विज्ञानमात्रेण व्यवहारिणः प्रयोजनाभावात् । न शब्दजातौ लक्षितायामर्थक्रियाथिनां व्यक्तौ प्रवृत्तिरुत्पद्यते अति प्रसंगात् ॥
शब्देन लक्षिता जातिर्व्यक्तीर्लक्षयति स्वकाः । संबंधादित्यपि व्यक्तमशब्दार्थज्ञतेहितम् ॥१६ तथाह्यनुमितेरर्थो व्यक्तिर्जातिः पुनलनेः । कान्यथाक्षार्थताबाधा शब्दार्थस्यापि सिध्यतु १७ अक्षणानुगतः शब्दो जातिं प्रत्यापयेदिह । संबंधात् सापि निःशेषा स्वव्यक्तीरिति तनयः १८
द्रव्यत्वजातिः शब्देन लक्षिता द्रव्यं लक्षयति तत्र तस्याः समवायात् । गुणत्वजातिर्गुणं कर्मत्वजातिः कर्म । तत एव द्रव्यं तु समवेतसमवायाप्रत्यापयति । विवक्षासामान्यं तु शब्दात्प्रतीतं विवक्षितार्थ संयुक्तसमवायादेरित्येतदशब्दार्थज्ञताया एव विजृमितं । द्रव्यगुणकर्मणां विवक्षितार्थानां चैवमनुमेयानां शब्दार्थत्वाभिधानात् । शब्दात्परंपरया तेषां प्रतीयमानत्वात् शब्दार्थत्वे कथमक्षार्थता न स्यादक्षात्परंपरायाः प्रतीयमानत्वात् । शब्दो हि श्रोत्रेणावगतो जातिं प्रत्यायः यति सापि खव्यक्तीरिति सर्वः शब्दार्थोक्षार्थ एव । तथानुमानार्थाः करणेन प्रतीताल्लिंगाल्लिंगिनि ज्ञानोत्पत्तेः । एतेनार्थापत्त्यादिपरिच्छेद्यस्यार्थस्याक्षार्थताप्रसक्तिर्व्याख्याता, पारंपर्येणाक्षात्परिच्छिद्यमानत्वाविशेषादित्यक्षार्थ एव शब्दो निर्वाधः स्यान्न शब्दाद्यर्थः सामान्यशब्दार्थवादिनो न चैवं प्रसिद्धः ॥ यद्यस्पष्टावभासित्वाच्छब्दार्थः कश्चनेष्यते । लिंगार्थोपि तदा प्राप्तः शब्दार्थो नान्यथा स्थितिः १९ __ शब्दाप्रतीता जातिर्जात्या वा लक्षिता व्यक्तिः शब्दार्थ एवास्पष्टावभासित्वादित्ययुक्तं, लिंगार्थेन व्यभिचारात् । तस्यापि पक्षीकरणे लिंगार्थयोः स्थित्ययोगात् ॥ यत्र शब्दात्प्रतीतिः स्यात्सोर्थः शब्दस्य चेन्ननु । व्यक्तेः शब्दार्थता न स्यादेवं लिंगात्प्रतीतितः२०
शब्दादेव प्रतीयमानं शब्दार्थमभिप्रेत्य शब्दलक्षितात्सामान्याल्लिंगात् प्रतीयमानां व्यक्तिं शब्दार्थमाचक्षाणः कथं स्वस्थः, परंपरया शब्दात्प्रतीयमानत्वात्तस्याः शब्दार्थत्वेक्षार्थतां कथं बाध्यते तथाक्षेणापि प्रतीयमानत्वादुपचारस्योभयत्राविशेषात् । नच लक्षितलक्षणयापि शब्दव्यक्तौ प्रवृत्तिः संभवतीत्याहशब्दप्रतीतया जात्या न च व्यक्तिः स्वरूपतः । प्रत्येतुं शक्यते तस्याः सामान्याकारतो गतेः॥२१ व्यक्तिसामान्यतो व्यक्तिप्रतीतावनवस्थितेः । क विशेषे प्रवृत्तिः स्यात्पारंपर्येण शब्दतः ।। २२॥
शब्दलक्षणतया हि जात्या व्यक्तेः प्रतिपत्तुरनुमानमर्थापत्तिर्वा ? प्रथमपक्षे न तस्याः व्यक्तेः खरूपेणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org