________________
१०६
तत्त्वार्थश्लोकवार्तिके
[सू० ५ व्यक्तावेकत्र शब्देन निर्णीतायां कथंचन । तद्विशेषणभूताया जातेः संप्रत्ययः स्वतः॥२५॥ गुडशब्दाद्यथा ज्ञाने गुडे माधुर्यनिर्णयः । स्वतः प्रतीयते लोके प्रोक्तो निंबे च तिक्तता ॥२६॥ प्रतीतया पुनर्जात्या विशिष्टां व्यक्तिमीहिताम् । यां यां पश्यति तत्रायं प्रवर्तेतार्थसिद्धये ॥२७॥ तथा च सकलः शाब्दव्यवहारः प्रसिद्ध्यति । प्रतीतेर्वाधशून्यत्वादित्येके संप्रचक्षते ॥ २८ ॥
न प्रधानं शुद्धद्रव्यं शब्दतत्त्वमात्मतत्त्वं वाद्वयं पदार्थः प्रतीतिबाधितत्वात् । नापि भेदवादिनां । नानाव्यक्तिषु नित्यासु वाशब्दस्य प्रवृत्तिः तत्र संकेतकरणासंभवादिदोषावतारात् । किं तर्हि ? व्यक्तावेकस्यां शब्दः प्रवर्तते शृंगग्राहिकया परोपदेशाल्लिंगदर्शनाद्वा तस्यां ततो निर्णीतायां तद्विशेषणभूतायां जातौ खत एव निश्चयो यथा गुडादिशब्दाद्गुडादेनिर्णये तद्विशेषणे माधुर्यादौ तथाभ्यासादिवशाल्लोके संप्रत्ययात् । ततः खनिश्चतया जात्या विशिष्टामभिप्रेतां यां व्यक्तिं पश्यति तत्र तत्रेष्टसिद्धये प्रवर्तते । तावता च सकलशाब्दव्यवहारः सिद्ध्यति बाधकामावादिति व्यक्तिपदार्थवादिनः प्राहुः ॥ तदप्यसंगतं जातिप्रतीतेत्तिसंभवे । शब्देनाजन्यमानायाः शब्दवृत्तिविरोधतः ॥ २९ ॥ पारंपर्येण चेच्छब्दात्सा वृत्तिः करणान्न किम् । ततो न शब्दतो वृत्तिरेषां स्याज्जातिवादिवत् ३०
प्रतीतायामपि शब्दाद्यक्तावेकत्र यावत् खतस्तज्जातिर्न प्रतीता न तावत्तद्विशिष्टां व्यक्तिं प्रतीत्य कश्चित् प्रवर्तते इति । जातिप्रत्ययादेव प्रवृत्तिसंभवे शब्दात् सा प्रवृत्तिरिति विरुद्धं, जातिप्रत्ययस्य शब्देनाजन्यमानत्वात् । शब्दायक्तिप्रतीतिभावे तद्विशेषणभूताया जातेः संप्रत्ययात्तत एव जातिर्गम्यत एवेति चेत् , कथमेवं व्यक्तिवज्जातिरपि शब्दार्थो न स्यात् ? तस्याः शब्दतोऽश्रयमाणत्वादिति चेत् , किमिदानीं शब्दतो गम्यमानोर्थः शब्दस्याविषयः । प्रधानभावेनाविषय एवेति चेन्न, गम्यमानस्यापि प्रधानभावदर्शनात् यथा गुडशब्दाद्गम्यमानं माधुर्य पित्तोपशमनप्रकरणे । न चात्र जातेरप्रधानत्वमुचितं तत्प्रतीतिमंतरेण प्रवृत्त्यर्थिनः प्रवृत्त्यनुपपत्तेः । यदि पुनर्जातिः शब्दाद्गम्यमानापि नेष्यते तत्प्रत्ययस्याभ्यासादिवशादेवोत्पत्तेस्तदा कथमशब्दाजातिप्रत्ययान्न प्रवृत्तिः ? पारंपर्येण शब्दात् सा प्रवृत्तिरिति चेत् , करणात् किं न स्यात् ? यथैव हि शब्दाव्यक्तिप्रतीतिस्ततो जातिप्रत्ययस्ततस्तद्विशिष्टे हि तव्यक्तौ संप्रत्ययात्प्रवृत्तिरिति शब्दमूला सा तथा शब्दस्याप्यक्षाप्रतीतेरक्षमूलास्तु तथा व्यवहारान्नैवमिति चेत् , समानमन्यत्र । ततो न व्यक्तिपदार्थवादिनां जातिपदार्थवादिनामिव शब्दात्समीहितार्थे प्रवृत्तिः शब्देनापरिच्छिन्न एव तत्र तेषां प्रवर्तनात् ॥
एतेन तद्द्वयस्यैव पदार्थत्वं निवारितम् । पक्षे द्वयोक्तदोषस्याशक्तेः स्याद्वादविद्विषाम् ॥३१॥
न हि जातिव्यक्ती परमभिन्ने भिन्ने वा सर्वथा संभाव्येते येन पदार्थत्वेन युगपत्प्रतीमः । येन खभावेन भिन्ने तेनैवाभिन्ने इत्यपि विरुद्धं, क्रमेण जातिव्यक्त्योः परस्परानपेक्षयोः पदार्थत्वे पक्षद्वयोक्तदोषासक्तिः। कचिजातिशब्दात् प्रतीत्य लक्षणया व्यक्ति प्रतिपद्यते, कचियक्तिं प्रतीत्य जातिमिति हि जातिव्यक्तिपदार्थवादिपक्षादेवासकृजातिव्यक्त्यात्मवस्तुनः पदार्थत्वे किमनेन स्याद्वादविद्वेषेण । केचिदत्राकृतिपदार्थवादिनः प्राहुः ॥ लोहिताकृतिमाचष्टे यथोक्तो लोहितध्वनिः । लोहिताकृत्यधिष्ठाने विभागालोहिते गुणे ॥३२॥
तदावेशात्तथा तत्र प्रत्ययस्य समुद्भवात् । द्रव्ये च समवायेन प्रसूयेत तदाश्रये ॥ ३३ ॥ गुणे समासृतत्वेन समवायात्तदाकृतेः । संयुक्तसमवेते च द्रव्येन्यत्रोपपादयेत् ॥ ३४ ॥ लोहितप्रत्ययं रक्तवस्त्रद्वयवृतेपि च । तथा गौरिति शब्दोपि कथयत्याकृतिं स्वतः ॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org