________________
४९२ तत्त्वार्थश्लोकवार्तिके
[सू० १३ वेदनीयनिमित्तास्ते मा भूवंस्तत एव चेत् । व्यक्तिरूपा न संत्येव शक्तिरूपेण तत्र ते ॥४॥ मोहनीयसहायस्य वेदनीयस्य तत्फलं । केवलस्यापि तद्भावेतिप्रसंगो हि दुस्त्यजः ॥५॥
न हि साधनादिसहायस्यामेधूमः कार्यमिति केवलस्यापि स्यात् । तथा मोहसहायस्य वेदनीयस्य यत्फलं क्षुदादि तदेकाकिनोपि न युज्यत एव तस्य सर्वदा मोहानपेक्षत्वप्रसंगात् । तथा च समाध्यवस्थायामपि कस्यचिदुद्भूतिप्रसंगः । तस्मान्न क्षुदादयः सूक्ष्मसांपराये व्यक्तिरूपाः संति मोहादिसहायासंभवात् छद्मस्थवीतरागवदिति, शक्तिरूपा एव ते तत्रावगंतव्याः ॥ अथ भगवति केवलिनि कियंतः परीषहा इत्याह;
एकादश जिने ॥ ११ ॥ तत्र केचित् संतीति व्याचक्षते, परे तु न संतीति । तदुभयव्याख्यानाविरोधमुपदर्शयन्नाह;एकादश जिने संति शक्तितस्ते परीषहाः । व्यक्तितो नेति सामर्थ्याद्याख्यानद्वयमिष्यते ॥१॥
वेदनीयोदयभावात् क्षुदादिप्रसंग इति चेन्न, घातिकर्मोदयसहायाभावात् तत्सामर्थ्यविरहात् । तद्भावोपचाराध्यानकल्पनवच्छक्तित एव केवलिन्येकादशपरीषहाः संति न पुनर्व्यक्तितः, केवलाद्वेदनीयाध्यक्तक्षुदाद्यसंभवादित्युपचारतस्ते तत्र परिज्ञातव्याः । कुतस्ते तत्रोपचर्यते इत्याह
लेश्यैकदेशयोगस्य सद्भावादुपचर्यते । यथा लेश्या जिने तद्वद्वेदनीयस्य तत्त्वतः ॥२॥ घातिहत्युपचर्यते सत्तामात्रात् परीषहाः । छमस्थवीतरागस्य यथेति परिनिश्चितं ॥३॥ न क्षुदादेरभिव्यक्तिस्तत्र तद्धेतुभावतः । योगशून्ये जिने यद्वदन्यथातिप्रसंगतः ॥४॥ . नैकं हेतुः क्षुदादीनां व्यक्तौ चेदं प्रतीयते । तस्य मोहोदयाद्यक्तेरसद्वेद्योदयेपि च ॥५॥ क्षामोदरत्वसंपत्तौ मोहापाये न सेक्ष्यते । सत्याहाराभिलापेपि नासद्वेद्योदयादृते ॥६॥ न भोजनोपयोगस्यासत्त्वेनाप्यनुदीरणा । असातावेदनीयस्य न चाहारेक्षणाद्विना ॥७॥ क्षुदित्यशेषसामग्रीजन्याभिव्यज्यते कथं । तद्वैकल्ये सयोगस पिपासादेरयोगतः ॥८॥ क्षुदादिवेदनोद्भूतौ नाहतोऽनंतशर्मता । निराहारस्य चाशक्तौ स्थातुं नानंतशक्तिता ॥९॥ नित्योपयुक्तबोधस्य न च संज्ञास्ति भोजने । पाने चेति क्षुदादीनां नाभिव्यक्तिर्जिनाधिपे ॥१० अथ बादरसांपराये कियंतः परीषहा इत्याह;
बादरसांपराये सर्वे ॥ १२ ॥ बादरसांपरायग्रहणात् प्रमत्तादिनिर्देशः निमित्तविशेषस्याक्षीणत्वात् सर्वेषु सामायिकछेदोपस्थापनापरिहारविशुद्धिसंयमेषु सर्वसंभवः । केन रूपेण ते तत्र संतीत्याह
बादरः सांपरायोस्ति येषां सर्वे परीषहाः। संति तेषां निमित्तस्य साकल्यायक्तिरूपतः॥१॥ अथ कस्मिन्निमित्ते कः परीषहः ?
ज्ञानावरणे प्रज्ञाज्ञाने ॥ १३ ॥ ज्ञानावरणे अज्ञानं न प्रज्ञेति चेन्न, ज्ञानावरणसद्भावे तद्भावात् । मोहादिति चेन्न, तद्भेदानां परिगणितत्वात् । सावलेपायाः प्रज्ञाया अपि ज्ञानावरणनिमित्तत्वोपपत्तेः मिथ्याज्ञानवत् । एतदेवाहज्ञानावरणनिष्पाद्ये प्रज्ञाज्ञाने परीषहौ । प्रज्ञावलेपनिवृत्तेानावरणतोन्यतः ॥१॥
अन्यद्विज्ञानावरणं प्रज्ञावलेपनिमित्तमज्ञाननिमित्ताद् ज्ञानावरणात् । न चैवं ज्ञानावरणोत्तरप्रकृतिसंज्ञाक्षतिस्तस्य मतिज्ञानावरणमात्रोपरोधात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org