________________
नवमोऽध्यायः ।
१९१ क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानाद
र्शनानि ॥९॥ परीषहा इति सामानाधिकरण्येनाभिसंबंधो व्यक्तिभेदेपि सामान्यविशेषयोः कथंचिदभेदात् । तेन क्षुधादयो द्वाविंशतिः परीषहाः । तत्र प्रकृष्टक्षुदग्निप्रज्वलने धृत्यंभसोपशमः क्षुज्जयः । उदन्योदीरणहेतूपनिपाते तद्वशाप्राप्तिः पिपासासहनं । पृथगवचनमैकार्थ्यादिति चेन्न, सामर्थ्यभेदात् । अभ्यवहारसामान्यादैकार्थ्यमिति चेन्न, अधिकरणभेदात् । शैत्यहेतुसंनिपाते तत्प्रतीकारानभिलाषात् संयमपरिपालनं शीतक्षमा । दाहप्रतीकारकांक्षाभावाच्चारित्ररक्षणमुष्णसहनं, दंशमशकादीनां सहनं । दंशमशकमात्रप्रसंग इति चेन्न, उपलक्षणत्वात् मशकशब्दस्य दंशजातीयानामादिशब्दार्थप्रतिपत्तेः । जातरूपधारणं नाम्यसहनं, संयमेऽरतिभावादरतिपरीषहजयः । सर्वेषामरतिकारणत्वात् पृथगरतिग्रहणानर्थक्यमिति चेन्न, क्षुदाद्यभावेपि मोहोदयात्तत्प्रवृत्तेः । वरांगनारूपदर्शनस्पर्शनादिविनिवृत्तिः स्त्रीपरीषहजयः । व्रज्यादोपनिग्रहश्चर्याविजयः । संकल्पितासनादविचलनं निषद्यातितिक्षा । आगमोदितशयनादप्रच्यवनं शय्या. सहनं । अनिष्टवचनसहनमाक्रोशपरीषहजयः । मारकेष्वमर्षापोहनभावनं वधमर्षणं । प्राणात्ययेप्याहारादिषु दीनाभिधाननिवृत्तिर्याचनाविजयः । अलाभेपि लाभवत्संतुष्टस्यालाभविजयः । नानाव्याधिप्रतीकारानपेक्षत्वं रोगसहनं । तृणादिनिमित्तवेदनायां मनसोऽप्रणिधानं तृणस्पर्शजयः । स्वपरांगमलोपचयापचयसंकल्पाभावो मलधारणं । केशखेदसहनोपसंख्यानमिति चेन्न, मलपरीषहावरोधात् । मानापमानयोस्तुल्यमनसः सत्कारपुरस्कारानभिलाषः । प्रज्ञोत्कर्षापलेपनिरासः प्रज्ञाविजयः । अज्ञानावमानज्ञानाभिलाषसहनमज्ञानपरीषहजयः। प्रव्रज्याद्यनर्थकत्वासमाधानमदर्शनसहनं । श्रद्धानालोचनग्रहणमविशेपादिति चेन्न, अव्यभिचारदर्शनार्थत्वात् । मनोरथपरिकल्पनामात्रमिात चेन्न, वक्ष्यमाणकारणसामर्थ्यात् । अवध्यादिदर्शनोपसंख्यानमिति चेन्न, अवधिज्ञानाद्यभावे तत्सहचरितदर्शनाभावादज्ञानपरीषहावरोधात् । ननु क्षुदादीनां परिसोढव्यत्वसिद्धिः कथमित्याह
ते च क्षुदादयः प्रोक्ता द्वाविंशतिरसंशयं । परिषद्यतया तेषां तत्त्वसिद्धिर्विशुद्धये ॥१॥
ते क्षुदादयो हि द्वाविंशतिपरीषहाः परिसोढव्याः प्रोक्ताः सूत्रकारैरसंशयं तेषां विशुद्ध्यर्थ परिषह्यत्वात् तत एवान्वर्था संज्ञा महती कृता परीषहा इत्युक्तं ॥ अथ कस्मिन् गुणस्थाने कियंतः संभवंतीत्याह;
सूक्ष्मसांपरायछद्मस्थवीतरागयोश्चतुर्दश ॥ १०॥ चतुर्दशवचनादन्यस्याभावः । सूक्ष्मसांपराये नियमानुपपत्तिर्मोहोदयादिति चेन्न, सन्मात्रत्वात् तत्र तस्य । अत एव परीषहाभाव इति चेन्न, बाधाविशेषोपरमे तद्भावस्याविरध्यासितत्वात् सर्वार्थसिद्धस्य सप्तमनरकपर्यंतगमनसामर्थ्यवत् । कथं पुनः सूक्ष्मसांपराये गुणे तद्वति वा छद्मस्थवीतरागे चानुत्पन्नकेवलज्ञाने क्षीणोपशांतमोहे चतुर्दशैव परीषहाः क्षुदादय इति प्रतिपादयन्नाह;
स्युः सूक्ष्मसांपराये च चतुर्दश परीपहाः । छद्मस्थवीतरागे च ततोन्येषामसंभवात् ॥१॥ छद्मस्थवीतरागे हि मोहाभावान्न तत्कृताः । अष्टौ परिषहाः संति तथातोन्ये चतुर्दश ॥२॥ ते सूक्ष्मसांपरायेपि तथाकिंचित्करत्वतः । सतोपि मोहनीयस्य सूक्ष्मस्पति प्रतीयते ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org