________________
प्रथमोऽध्यायः। संदिग्धासिद्धत्वान्न सद्दर्शनस्य गमका इति चेन्न, कायवाग्व्यवहारविशेषेभ्यस्तेषां तत्र सद्भावनिर्णयस्योक्तत्वात् । तेषां तद्व्यभिचारान्न तत्सद्भावनिर्णयहेतुत्वमिति चेन्न, सुपरीक्षितानामव्यभिचारात् । सुपरीक्षितं हि कार्य कारणं गमयति नान्यथा । यदि पुनरतींद्रियत्वात् परप्रशमादीनां तद्भावे कायादिव्यवहारविशेषसद्भावोऽशक्यो निश्चेतुमिति मतिः, तदा तदभावे तद्भाव इति कथं निश्चीयते ? तत एव संशयोस्त्विति , चेन्न, तस्य क्वचित्कदाचिन्निर्णयमंतरेणानुपपत्तेः स्थाणुपुरुषसंशयवत् । वसंताने निर्णयोस्तीति चेत् , तर्हि
यादृशाः प्रशमादिषु सत्सु कायादिव्यवहारविशेषाः खस्मिन्निर्णीतास्तादृशाः परत्रापि तेषु सत्वेवेति निर्णीयतां । यादृशास्तु तेष्वसत्सु प्रतीतास्तादृशाः तदभावस्य गमकाः कथं न स्युः ? संशयितखभावास्तु तत्संशयहेतव इति युक्तं वक्तुं । नन्वेवं यथा सरागेषु तत्त्वार्थश्रद्धानं प्रशमादिभिरनुमीयते तथा वीतरागेष्वपि तत्तैः किं नानुमीयते ? इति चेन्न, तस्य खस्मिन्नात्मविशुद्धिमात्रत्वात् सकलमोहाभावे समारोपानवतारात् खसंवेदनादेव निश्चयोपपत्तेरनुमेयत्वाभावः । परत्र तु प्रशमादीनां तल्लिङ्गानां सतामपि निश्चयोपायानां कायादिव्यवहारविशेषाणामपि तदुपायानामभावात् । कथमिदानीमप्रमत्तादिषु सूक्ष्मसांपरायांतेषु सद्दर्शनं प्रशमादेरनुमातुं शक्यं ? तन्निर्णयोपायानां कायादिव्यवहारविशेषाणामभावादेव । न हि तेषां कश्चिद्व्यापारोस्ति वीतरागवत् , व्यापारे वा तेषामप्रमत्तत्वादिविरोधादिति कश्चित् । सोप्यभिहितानभिज्ञः, सर्वेषु सरागेषु सद्दर्शनं प्रशमादिभिरनुमीयत इत्यनभिधानात् , यथासंभवं सरागेषु वीतरागेषु च सद्दर्शनस्य तदनुमेयत्वमात्मविशुद्धिमात्रत्वं चेत्यभिहितत्वात् । तत एव सयोगकेवलिनो वाग्व्यवहारविशेषदर्शनात् सूक्ष्माद्यर्थविज्ञानानुमानं न विरुध्यते । प्रधानस्य विवर्तोऽयं श्रद्धानाख्य इतीतरे । तदसत्पुंसि सम्यक्त्वभावासंगात्ततो परे ॥ १३ ॥
न हि प्रधानस्य परिणामः श्रद्धानं ततोऽपरस्मिन् पुरुषे सम्यक्त्वमिति युक्तं लक्ष्यलक्षणयोर्भिन्नाश्रयत्वविरोधादम्युप्णत्ववत् ॥
प्रधानस्यैव सम्यक्त्वाच्चैतन्यं सम्यगिष्यते । बुधध्यवसितार्थस्य पुंसा संचेतनाद्यदि ॥१४॥ तदाहंकारसम्यक्त्वात् बुद्धेः सम्यक्त्वमश्नुते । अहंकारास्पदार्थस्य तथाप्यध्यवसानतः ॥१५॥ मनःसम्यक्त्वतः सम्यगहंकारस्तथा न किम् । मनःसंकल्पितार्थेषु तत्प्रवृत्तिप्रकल्पनात् ॥१६॥ तथैवेंद्रियसम्यक्त्वान्मनः सम्यगुपेयताम् । इंद्रियालोचितार्थेषु मनःसंकल्पनोदयात् ॥ १७॥ इंद्रियाणि च सम्यश्चि भवंतु परतस्तव । स्वाभिव्यंजकसम्यक्त्वादिभिः सम्यक्त्वतः किमु १८ अर्थवव्यंजकाधीनं मुख्यं सम्यक्त्वमिष्यते । इंद्रियादिषु तद्वत्स्यात् पुंसि तत्परमार्थतः ॥१९॥ एवं प्रधानसम्यक्त्वाच्चैतन्यसम्यक्त्वेऽभ्युपगम्यमानेऽतिप्रसंजनमुक्तं । तत्त्वतस्तुन च प्रधानधर्मत्वं श्रद्धानस्य चिदात्मनः । चैतन्यस्यैव संसियेदन्यथा स्याद्विपर्ययः ॥२०॥ चिदात्मकत्वमसिद्धं श्रद्धानस्येति चेन्न, तस्य स्वसंवेदनतः प्रसिद्धर्ज्ञानवत् । साधितं ज्ञानादीनां चेतनात्मकत्वं पुरस्तात् ॥ न श्रद्धत्ते प्रधानं वा जडत्वात्कलशादिवत् । प्रतीत्याश्रयणे त्वात्मा श्रद्धातास्तु निराकुलम् ॥२१ __न हि श्रद्धाताहमिति प्रतीतिरचेतनस्य प्रधानस्य जातुचित्संभाव्यते कलशादिवत् । यतोयमात्मैव श्रद्धाता निराकुलं न स्यात् । प्रांतेयमात्मनि प्रतीतिरिति चेन्न, बाधकाभावात् । नात्मधर्मः श्रद्धानं भंगुरत्वाद्धटवदित्यपि न तद्बाधकं, ज्ञानेन व्यभिचारित्वात् । न च ज्ञानस्यानात्मधर्मत्वं युक्तमात्मधर्मत्वेन प्रसाधितत्वात् । ततः सूक्तमात्मस्वरूपं दर्शनमोहरहितं तत्त्वार्थश्रद्धानं सम्यग्दर्शनस्य लक्षणमिति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org