________________
नवमोऽध्यायः।
५०३ हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥ ३५॥ ध्यानोत्पत्तौ हिंसादीनां निमित्तभावाद्धेतु निर्देशः । तेन स्मृतिसमन्वाहाराभिसंबंधः । तत इदमुच्यतेहिंसादिभ्योतितीव्रमोहोदयेभ्यः प्रजायते । रौद्रं ध्यानं स्मृतेः पौनःपुन्यं दुर्गतिकारणं ॥१॥ तत्स्यादविरतस्योचैर्देशसंयमिनोपि च । यथायोगं निमित्तानां शेषं सद्भावसिद्धितः॥२॥
देशविरतस्यापि हिंसाद्यावेशाद्वित्तादिसंरक्षणतंत्रत्वाच्च रौद्रं ध्यानं संभवति तदनुरूपकथादोषोदयात् । केवलमविरतवन्न तस्य नारकादिनामनिमित्तं सम्यक्त्वसामर्थ्यात् । संयतेपि कदाचिदस्तु रौद्रध्यानं हिंसाद्यावेशादिति चेत् तदयुक्तं, संयते तदावेशे संयमप्रच्युतेः ॥
ततश्चतुर्विधं रौद्रं ध्यानं समुपजायते । पुंसोतिकृष्णलेश्यस्याविरतस्यैव तत्परं ॥३॥ तथा कापोतलेश्यस्य विरताविरतस्य च । प्रमादानामधिष्ठानं विरतस्य न जातुचित् ॥४॥ अथ प्रशस्तस्य ध्यानस्य धर्म्यस्य तावत्प्रतिपादनार्थमाह;
आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ॥ ३६॥ विचितिर्विवेको विचारणा विचयः । तदपेक्षया आज्ञादीनां कर्मनिर्देशः । अधिकारात् स्मृतिसमन्वाहारसंबंधः, आज्ञाविचयाय स्मृतिसमन्वाहार इत्यादि । तदेवं
आज्ञादिविचयायोक्तं धयं ध्यानं चतुर्विधं । आरौिद्रपरित्यक्तैः कार्य चिंतास्वभावकं ॥१॥ तत्राज्ञा द्विविधा हेतुवादेतरविकल्पतः । सर्वज्ञस्य विनेयांतःकरणायत्तवृत्तितः ॥२॥ तद्विचयाय स्मृतिसमन्वाहारो द्विविध इत्याज्ञाविचयध्यानं द्वेधा । तत्रागमप्रामाण्यादावधारणमाज्ञाविचयः, सोयमहेतुवादविषयोननुमेयार्थगोचरार्थत्वात् । आज्ञाप्रकाशनार्थों वा हेतुवादः। सामर्थ्यादयमप्याज्ञा विचयः । कः पुनरपाय इत्याह--
असन्मार्गादपायः स्यादनपायः स्वमार्गतः । स एवोपाय इत्येष ततो भेदेन नोदितः ॥३॥
तस्य विचयो धर्म्यध्यानं द्वितीयं । अथवासन्मार्गापायविचयः सर्वज्ञोपदेशपराङ्मुखजनापेक्षया संप्रत्येयः, असन्मार्गापायसमाधानं वा तदपेक्षयैव । कः पुनर्विपाक इत्याह
विपाकोनुभवः पूर्व कृतानां कर्मणां स्वयं । जीवाद्याश्रयभेदेन चतुर्थो धीमतां मतः॥४॥
ततः कर्मफलानुभवनविवेकं प्रति प्रणिधानं विपाकविचयः । स च प्रपंचतो गुणस्थानभेदेन कर्मप्रकृतीनामुदयोदीरणचिंतनेन परमागमात्प्रत्येतव्यः । लोकसंस्थानखभावावधानं संस्थानविचयः । कोसौ लोक इत्याह
लोकः संस्थानभेदाद्वा स्वभावाद्वा निवेदितः । तदाधारो जनो वापि मानभेदोपि वा कचित् ॥५ लोकस्याधोमध्योर्ध्वभेदस्य संस्थानं सन्निवेशः, लोक्यमानखभावस्य च लोकस्य संस्थानं प्रतिद्रव्यखाकृतिः तदाधारस्य च जनस्य लोकस्य संस्थानं खोपात्तशरीरपरिणामाकारः, मानभेदस्य च लोकस्य संख्याविशेषाकारः संस्थानं तस्य विचयः संस्थानविचयः । कः पुनर्विचय इत्याहविचयस्तत्र मीमांसा प्रमाणनयतः स्थितः । तसिंश्चिताप्रबंधो नुश्चिंतांतरनिरोधतः ॥६॥ युक्तं ध्यानं तदाध्यायमैकाग्र्येण प्रवृत्तितः। ध्यातुश्चिंताप्रबंधस्य धर्म्य पापव्यपायतः ॥७॥ धर्मादनपेतं धर्म्य तस्योत्तमक्षमादिमत एव प्रवृत्तेः । अनुप्रेक्षाणां धर्म्यध्यानसजातीयत्वात् पृथगनुपदेश इति चेन्न, ज्ञानप्रवृत्तिविकल्पात् । सर्वानुप्रेक्षाणामनित्यत्वाद्यनुचिंतनस्य ज्ञानविशेषत्वात् ध्यानस्यानुचिंतनं निरोधरूपत्वात् । कस्य तद्धर्मध्यानं स्यादित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org