________________
प्रथमोऽध्यायः ।
किं पुनर्नानिमित्तं किं वा निमित्तांतरं ? इत्याह ;
१४॥
नाम्नो वक्तुरभिप्रायो निमित्तं कथितं समम् । तस्मादन्यत्तु जात्यादिनिमित्तांतर मिष्यते ॥ २ ॥ जातिद्वारेण शब्दो हि यो द्रव्यादिषु वर्तते । जातिहेतुः स विज्ञेयो गौरव इति शब्दवत् ॥३॥ जातावेव तु यत्संज्ञाकर्म तन्नाम मन्यते । तस्यामपरजात्यादिनिमित्तानामभावतः ॥ ४ ॥ गुणे कर्मणि वा नाम संज्ञा कर्म तथेष्यते । गुणकर्मातराभावाज्जातेरप्यनपेक्षणात् ॥ ५ ॥ गुणप्राधान्यतो वृत्तो द्रव्ये गुणनिमित्तकः । शुक्लः पाटल इत्यादिशब्दवत्संप्रतीयते ॥ ६ ॥ कर्मप्राधान्यतस्तत्र कर्महेतुर्निबुध्यते । चरति लवते यद्वत् कश्चिदित्यतिनिश्चितम् ॥ ७ ॥ द्रव्यांतरमुखे तु स्यात्प्रवृत्तो द्रव्यहेतुकः । शब्दस्तद्विविधस्तज्ज्ञैर्निराकुलमुदाहृतः ॥ ८ ॥ संयोगिद्रव्यशब्दः स्यात् कुंडलीत्यादिशब्दवत् । समवायिद्रव्यशब्दो विषाणीत्यादिरास्थितः ९ कुंडलीत्यादयः शब्दा यदि संयोगहेतवः । विषाणीत्यादयः किं न समवायनिबंधनाः ॥ १०॥ तथा सति न शब्दानां वाच्या जातिगुणक्रियाः । द्रव्यवत्समवायेन स्वसंबंधिषु वर्तनात् ११ यथा जात्यादयो द्रव्ये समवायबलात् स्थिताः । शब्दानां विषयस्तद्वत् द्रव्यं तत्रास्तु किंचन १२ संयोगवश्चैवं वर्तमानं तथेष्यताम् । द्रव्यमात्रे तु संज्ञानं नामेति स्फुटमीक्ष्यते ॥ १३ ॥ तेन पंचतयी वृत्तिः शब्दानामुपवर्णिता । शास्त्रकारैर्न बाध्येत न्यायसामर्थ्य संगता वक्तुर्विवक्षायामेव शब्दस्य प्रवृत्तिस्तत्प्रवृत्तेः सैव निमित्तं न तु जातिद्रव्यगुणक्रियास्तदभावात् । स्वलक्षणेध्यक्षतस्तदनवभासनात्, अन्यथा सर्वस्य तावतीनां बुद्धीनां सकृदुदयप्रसंगात् । प्रत्यक्षपृष्टभाविन्यां तु कल्पनायामवभासमाना जात्यादयो यदि शब्दस्य विषयास्तदा कल्पनैव तस्य विषय इति केचित् । तेप्यनालोचितवचनाः । प्रतीतिसिद्धत्वाज्जात्यादीनां शब्दनिमित्तानां वक्तुरभिप्रायनिमित्तांतर तोपपत्तेः । सदृशपरिणामो हि जातिः पदार्थानां प्रत्यक्षतः प्रतीयते विसदृशपरिणामाख्यविशेषवत् । पिंडोयं गौरयं च गौरिति प्रत्ययात् खंडोयं मुंडोयमितिप्रत्ययवत् । भ्रांतोयं सादृश्यप्रत्ययः इति चेत् विसदृशप्रत्ययः कथमभ्रांतः ? सोपि भ्रांत एव खलक्षणप्रत्ययस्यैवाभ्रांतत्वात् तस्य स्पष्टाभत्वादविसंवादकत्वाच्चेति चेत्, नाक्षजस्य सादृश्यादिप्रत्ययस्य स्पष्टाभत्वाविशेषादभ्रांतत्वस्य निराकर्तुमशक्तेः । सादृश्यवैसदृश्यव्यतिरेकेण खलक्षणस्य जातुचिदप्रतिभासनात् । सदृशेतरपरिणामात्मकस्यैव सर्वदोपलंभात् । सर्वतो व्यावृत्तानंशक्षणिकस्खलक्षणस्य प्रत्ययविषयतया निराकरिष्यमाणत्वात् । सविकल्पप्रत्यक्षे सदृश - परिणामस्य स्पष्टमवभासनात् सर्वथा बाधकाभावात् । वृत्तिविकल्पादिदूषणस्यात्रानवतारात् । न हि सदृशपरिणामो विशेषेभ्योत्यंतं भिन्नो नाप्यभिन्नो येन भेदाभेदैकांतदोषोपपातः । कथंचिद्भेदाभेदात् । न च तेषु तस्य कथंचित्तादात्म्यादन्या वृत्तिरेकदेशेन सर्वात्मना वा यतः सावयवत्वं सादृश्यपरिणामस्य व्यक्त्यंतरा वृत्तिर्वा स्यात् । न चास्य सर्वगतत्वं येन कर्कादिषु गोत्वादिप्रत्ययसांकर्ये, नापि स्वव्यक्तिषु सर्वाखेक एव येनोत्पित्सुव्यक्तौ पूर्वाधारस्य त्यागेनागमने तस्य निःसामान्यत्वं तदत्यागेनागतौ सावयवत्वं प्रागेव तद्देशेस्तित्वे खमप्रत्ययहेतुत्वं प्रसज्यते, विसदृशपरिणामेनेव सदृशपरिणामेनाक्रांताया एवोत्लित्सुव्यक्तेः खकारणादुत्पत्तेः । कथमेवं नित्या जातिरुत्पत्तिमद्व्यक्तिवदिति चेत्, द्रव्यार्थादेशादिति ब्रूमः । व्यक्तिरपि तथा नित्या स्यादिति चेत् न किंचिदनिष्टं, पर्यायार्थादेशादेव विशेषपर्यायस्य सामान्यपर्यायस्य वा नित्यत्वोपगमात् । नोत्पत्तिमत्सामान्यमुत्पित्सुव्यक्तेः पूर्वं व्यक्त्यंतरे तत्प्रत्ययादिति चेत् । तत एव विशेषोप्युत्पत्तिमान्मा भूत् । पूर्वो विशेषः स्वप्रत्ययहेतुरन्य एवोत्पित्सुविशेषादिति चेत्, पूर्वव्यक्तिसामान्यमप्यन्यदस्तु । तर्हि सामान्यं समानप्रत्ययविषयो न स्यात् व्यक्त्यात्मकत्वाद्व्यक्तिस्वात्मवदिति
Jain Education International
For Private & Personal Use Only
९९
www.jainelibrary.org