________________
तत्त्वार्थश्लोकवार्तिके
[सू०५ प्रमाणवृत्तिहेतुत्वात् संशयश्चेत् पृथकृतः । तत एव विधीयेत जिज्ञासादिस्तथा न किम् ॥५९ अभावस्याविनाभावसंबंधादेरसंग्रहात् । प्रमाणादिपदार्थानामुपदेशो न दोषजित् ॥ ६० ॥ द्रव्यादिषट्पदार्थानामुपदेशोपि तादृशः । सर्वार्थसंग्रहाभावादनाप्तोपज्ञमित्यतः ॥ ६१ ॥ सूत्रेवधारणाभावाच्छेषार्थस्यानिराकृतौ । तत्त्वेनैकेन पर्याप्तमुपदिष्टेन धीमताम् ॥ ६२॥
प्रमाणादिसूत्रे द्रव्यादिसूत्रे वावधारणाभावादनध्यवसायविपर्ययजिज्ञासाद्यविनाभावविशेषणविशेष्य- . भावप्रागभावादयः संगृहीता एवेति सर्वसंग्रहे प्रमाणं तत्त्वं द्रव्यं तत्त्वमिति चोपदेशः कर्तव्यस्तत्रानवधारणादेव प्रमेयादीनां गुणादीनां वानध्यवसायादिवत्संग्रहोपपत्तेरित्याकुलत्वादनाप्तमूल एवायं प्रमाणाधुपदेशो द्रव्याद्युपदेशो वा प्रकृत्याधुपदेशवत् ॥
नन्वेवं सप्ततत्त्वार्थवचनेनाप्यसंग्रहात् । रत्नत्रयस्य तद्बाध्येप्ययुक्तत्वमितीतरे ॥ ६३॥
न हि रत्नत्रयं जीवादिष्वंतर्भवत्यद्रव्यत्वादास्रवादित्वाभावाच्च । तस्य तत्त्वांतरत्वे कथं सप्तैव तत्त्वानि यतो जीवादिसूत्रेण सर्वतत्त्वासंग्रहात् , तदप्ययुक्तं न भवेदिति केचित् ॥
तदसत्तस्य जीवादिस्वभावत्वेन निर्णयात् । तथा पुण्यास्रवत्वेन संवरत्वेन वा स्थितेः ॥६४॥ जीवाजीवप्रभेदानामनंतत्वेपि नान्यता । प्रसिद्धयत्यास्रवादिभ्य इत्यव्याप्त्याद्यसंभवः॥६५॥
न हि जीवो द्रव्यमेव पर्याय एव वा येन तत्पर्यायविशेषाः सम्यग्दर्शनादयः तद्रहणेन न गृह्यते, द्रव्यपर्यायात्मकस्य जीवत्वस्याभिप्रेतत्वात् । ततो नाद्रव्यत्वेपि रत्नत्रयस्य जीवेंतर्भावाभावः । तथास्रवादित्वाभावोप्यसिद्धस्तस्य पुण्यास्रवत्वेन संवरत्वेन च वक्ष्यमाणत्वात् इति नास्रवादिप्वनंतर्भावः । येपि च जीवाजीवयोरनंताः प्रभेदास्तेपि जीवस्य पुण्यागमस्य हेतवः पापागमस्य वा पुण्यपापागमननिरोधिनो वा तद्वंधनिर्जरणहेतवो वा मोक्षस्वभावा वा, गत्यंतराभावात् । इति नास्रवादिभ्योऽन्यतां लभ्यते येनाव्याप्तिरतिव्याप्त्यसंभवौ तु दूरोत्सारितावेवेति निरवा जीवादिसप्ततत्त्वप्रतिपादकं सूत्रं, ततस्तदाप्तोपज्ञमेव ॥
नन्वेते जीवादयः शब्दब्रह्मणो विवर्ताः शब्दब्रह्मैव नाम तत्त्वं नान्यदिति केचित् । तेषां कल्पनारोपमात्रत्वात् । तस्य च स्थापनामात्रमेवेत्यन्ये, तेषां द्रव्यांतःप्रविष्टत्वात् । तद्व्यतिरेकेणासंभवात् द्रव्यमेवेत्येके । पर्यायमात्रव्यतिरेकेण सर्वस्याघटनाद्भाव एवेत्यपरे । तन्निराकरणाय लोकसमयव्यवहारेष्वप्रकृतापाकरणाय प्रकृतव्याकरणाय च संक्षेपतो निक्षेपप्रसिद्ध्यर्थमिदमाह;
नामस्थापनाद्रव्यभावतस्तन्यासः॥५॥ न नाममात्रत्वेन स्थापनामात्रत्वेन द्रव्यमानत्वेन भावमात्रत्वेन वा संकरव्यतिरेकाभ्यां वा जीवादीनां निक्षेप इत्यर्थः । तत्र
संज्ञाकानपेक्ष्यैव निमित्तांतरमिष्टितः । नामानेकविध लोकव्यवहाराय सूत्रितम् ॥ १॥
न हि नाम्नोऽनभिधाने लोके तद्व्यवहारस्य प्रवृत्तिर्घटते येन तन्न सूत्र्यते । नापि तदेकविधमेव विशेषतोनेकविधत्वेन प्रतीतेः। किंचिद्धि प्रतीतमेकजीवनाम यथा डित्थ इति, किंचिदनेकजीवनाम यथा यूथ इति, किंचिदेकाजीवनाम यथा घट इति, किंचिदनेकाजीवनाम यथा प्रासाद इति । किंचिदेकजीवैकाजीवनाम यथा प्रतीहार इति, किंचिदेकजीवानेकाजीवनाम यथा काहार इति, किंचिदेकाजीवानेकजीवनाम यथा मंदुरेति, किंचिदनेकजीवाजीवनाम यथा नगरमिति प्रतिविषयमवांतरभेदाहुहुधा भिद्यते संव्यवहाराय नाम लोके । तच्च निमित्तांतरमनपेक्ष्य संज्ञाकरणं वक्तुरिच्छातः प्रवर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org