________________
प्रथमोऽध्यायः ।
माणं सर्वथाप्यसंभवद्बाधकत्वादात्मादिप्रतिपादकागमवत् । ततः सिद्धम सर्वगतद्रव्यत्वमात्मनः क्रियावत्त्वं साधयत्येव । कालाणुनानैकांतिकमिति चेन्न, तत्रासर्वगतद्रव्यत्वस्याभावात् । सर्वगतद्रव्यत्वप्रतिषेधे हि तत्सदृशेन्यत्र सकृन्नानादेशसंबंधिनि संप्रत्ययो न पुनर्निरंशे कालाणौ । ' नञिव युक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिरिति वचनात् प्रसह्यप्रतिषेधानाश्रयणात् । असंख्येयभागादिषु जीवानामिति जीवाव• गाहस्य नानालोकाकाशप्रदेशवर्तितया वक्ष्यमाणत्वात् । तथा च कतिपयप्रदेशव्यापि द्रव्यत्वादिति हेत्वर्थः प्रतिष्ठितः । न च कालाणुः स्याद्वादिनां कतिपयप्रदेशव्यापिद्रव्यं यतस्तेन हेतोर्व्यभिचारः । कालादन्यत्वे सत्य सर्वगतद्रव्यत्वादिति स्पष्टं साधनव्यभिचारि वाच्यमिति चेन्न किंचिदनिष्टमीहगर्थस्य हेतोरिष्टत्वात् । परेषां तु कालस्य सर्वगतद्रव्यत्वेनाभिप्रेतत्वात्तेन व्यभिचारचोदनस्यासंभवाद्वार्तिके तथा विशेषणाभावः । एवं च निरवद्यात्साधनादात्मनः क्रियावत्त्वसिद्धेः कायादिक्रियारूपोऽस्यास्रवः प्रसिद्ध्यत्येव । कायालंबनाया जीवप्रदेश परिस्पंदनक्रियायाः कायास्रवत्वाद्वागालंबनाया वागाश्रयत्वान्मनोवर्गणालंबनाया मानसाश्रयत्वात् ॥
बंधः पुंधर्मतां धत्ते द्विष्ठत्वान्न प्रधानके । केवलेsसंभवात्तस्य धर्मोसौ नावधार्यते ॥ ४६ ॥
न हि प्रधानस्यैव धर्मो बंधः संभवति तस्य द्विष्ठत्वादिति । जीवस्यापि धर्मः सोवधार्यते सर्वथा पुरुषस्य बंधाभावे बंधफलानुभवनायोगाद्वंधवत् प्रकृतिसंसर्गाद्वंधफलानुभवनं तस्येति चेत्, स एव बंधवि - बर्तात्मिकया प्रकृत्या संसर्गः पुरुषस्य बंधः । इति सिद्धः कथंचित्पुरुषधर्मः संसर्गस्य द्विष्ठत्वात् ॥
संवरो जीवधर्मः स्यात् कर्तृस्थो निर्जरापि च । मोक्षश्च कर्मधर्मोपि कर्मस्थो बंधवन्मतः ॥४७॥ धर्मिधर्मात्मकं तत्त्वं सप्तभेदमितीरितम् । श्रद्धेयं ज्ञेयमाध्येयं मुमुक्षोर्नियमादिह ॥ ४८ ॥ जीवाजीवौ हि धर्मिणौ तद्धर्मास्त्वावादय इति धर्मिधर्मात्मकं तत्त्वं सप्तविधमुक्तं मुमुक्षोरवश्यं श्रद्धेयत्वाद्विज्ञेयत्वादाध्येयत्वाच्च सम्यग्दर्शनज्ञानध्यानविषयत्वान्निर्विषयसम्यग्दर्शनाद्यनुपपत्तेस्तद्विषयांतरस्यासंभवात् । संभवे तत्रैवांतर्भावात् ॥
"
न च तत्त्वांतराभावस्तत्त्वमष्टममासजेत् । सप्ततत्त्वास्तितारूपो ह्येषोऽन्यस्याप्रतीतितः ॥ ४९ ॥ तत्त्वं सतश्च सद्भावोऽसतोऽसद्भाव इत्यपि । वस्तुन्येव द्विधा वृत्तिर्व्यवहारस्य वक्ष्यते ॥ ५० ॥ यथा हि सति सवेन वेदनं सिद्धमंजसा । तथा सदंतरे सिद्धमसत्त्वेन प्रवेदनम् ॥ ५१ ॥ असद्रूपप्रतीतिर्हि नावस्तुविषया कचित् । भावांशविषयत्वात् स्यात् सितत्वादिप्रतीतिवत् ॥ ५२ ॥ भावांशोसत्सदाभावविशेषणतयेक्षणात् । सर्वथाभावनिर्मुक्तस्यादृष्टेः पाटलादिवत् ॥ ५३ ॥ न ह्यभावः सर्वथा तुच्छः प्रत्यक्षतोऽनुमानतो वा प्रतीयते यतोस्य सर्वदा भावविशेषणतया दर्शनमप्रसिद्धं स्यात् तत्प्रसिद्ध्यदभावस्य भावांशत्वं साधयति सितत्वादिवत् । ततो न क्वचिदवस्तुनि कस्यचिदसत्त्वप्रतीतिर्वस्तुन्येव तत्प्रतीतेस्तत्त्वांतराभावस्य सप्ततत्त्व..... • (?) सिद्धेरन्यमतत्वासंभावनैवेति सर्वसंग्रहः ॥
प्रमाणादय एव स्युः पदार्थाः षोडशेति तु । बुवाणानां न सर्वस्य संग्रहो व्यवतिष्ठते ॥५४॥ तत्रानध्यवसायस्य विपर्यासस्य वा गतेः । नास्याप्रमाणरूपस्य प्रमाणग्रहणागतिः ।। ५५ ।। संशीतिवत्प्रमेयांतर्भावे तत्त्वद्वयं भवेत् । संशयादेः पृथग्भावे पृथग्भावोस्य किं ततः ॥ ५६ ॥ प्रमाणविधिसामर्थ्यादप्रमाणगतौ यदि । तत्रानध्यवसायादेरंतर्भावो विरुध्यते ॥ ५७ ॥ संशयस्य तदत्रैव नांतर्भावः किमिष्यते । प्रमाणभावरूपत्वाविशेषात्तस्य सर्वथा ॥ ५८
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org