________________
प्रस्तावना । ॐ
प्रियविज्ञपाठकाः ! अद्याहं श्रीजिनेंद्रदेवकृपया गुरुकृपया च भवत्संमुखमीदृशं ग्रंथरत्नमुपस्थापयामि यद्द्वादशांगश्रुतस्य सारभूतमस्ति । एतन्मूलमात्रं तत्त्वार्थसूत्रनाम्ना प्रथितं तजैनदर्शनापरनाम्नाप्युच्यते । एतन्मूलग्रंथस्य रचयिता भगवानुमाखाम्याचार्यः सत्तपोयोगात् प्राप्तचारणाः पद्मनंधाद्यपराभिधानो बभूव । श्वेताम्बरसंप्रदायेऽस्याचार्यस्य उमाखातिरिति ख्यातिः, अनेन ज्ञायतेऽस्याचार्यस्य सर्वत्र जैनसंप्रदाये मान्यतास्ति । ख्रिस्त शतकात्पूर्वं महावीरशतकं षट्शतवार्षिकमिति प्रसिद्धिस्तत्प्रमाणत्वेन गृहीतं चेदितोऽष्टादशशतवर्षतः पूर्वमयमुमाखामी बभूवेति निश्चीयते । एकदा स जैनसिद्धांत विषयिणीं खमनोगतां कांचिच्छंकामपाकर्तुं श्रीमदर्हत्परमेश्वरश्रीमंधरतीर्थकरचरणाराधनार्थं चारणर्द्धिबलादाकाशमार्गेण विदेहक्षेत्रं गतवान्, गमनसंभ्रमात्तस्य हस्तन्यस्ता मयूरपिच्छिका कापि निःसृत्याधः पतिता, तदानीमाकाशे विहरतः कस्यचिद्भृद्धस्य पिच्छं गृहीत्वा स्वकार्य विधायाग्रे गतवानिति तेन गृद्धपिच्छ इत्यपरं नाम संप्राप्तमिति कथा वृद्धपरंपरया श्रूयतेऽस्माभिः । एतद्विषयेऽन्यत्राप्युक्तं । “तत्त्वार्थसूत्रकर्तारं गृद्धपिच्छोपलक्षितं । वंदे गणीन्द्रसंजातमुमाखामि मुनीश्वरं " इति । अयं भगवानुमास्वामी स्वजन्मना कां भूमिमलंचकारेति नास्माभिर्ज्ञायते साधनाभावात् । एतद्वंथरचने निमित्तमुभयप्रकारेण दर्शितमन्यत्र तदिह समुद्धियते । तथाहि - कश्चित् शिवकुमारमहाराजनामा निकटभव्यः चतुर्गतिसंसारदुःखभयभीतः प्रज्ञावान् खहितमुपलिप्सुः समुत्पन्नपरमभेदविज्ञानप्रकाशातिशयसामर्थ्येन समस्तदुर्नयैकांत - तदुराग्रहः अत्यंतमध्यस्थो भूत्वा विविक्ते परमरम्ये भव्य सत्त्वविश्रामास्पदे क्वचिदाश्रमपदे मुनिप - मध्ये सन्नि' ``मूर्तमिव मोक्षमार्गमवाग्विसर्ग वपुषा निरूपयंतं युक्त्यागमकुशलं परहितप्रतिपाद
अनया
श्रीश पूर्वोक्तनिर्ग्रथाचार्यवर्यमुपसद्य सविनयं परिपृच्छतिस्म । भगवन् ! किं नु खलु अन्यश्चापिति ? स आह मोक्ष इति । स एव पुनः प्रत्याह - सर्ववाद्यभिमतस्य कृत्स्नकर्मविप्रमो - मोक्षस्य कः प्राप्युपायः १ स आह सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इति । एतत्सूख्यनप्रायेणैवास्य ग्रंथस्य रचना इत्येकं निमित्तं । अथवा आरातीयपुरुषशक्त्यपेक्षत्वात् सिद्धांत - ‘अहिष्करणार्थं मोक्षकारणनिर्देश संबंधेन शास्त्रानुपूर्वी रचयितुमन्विच्छन्निदं कृतवान्नात्र शिष्याचार्य - रे' विवक्षितः, किंतु संसारसागर निमग्नानेकप्राणिगणाभ्युज्जिहीर्षी प्रत्यागूर्णान्तरेण मोक्षमार्गोपदेशं तोपदेशो दुष्प्राप इति निश्चित्य स्वयं मोक्षमार्ग व्याचिख्यासुरिदं ग्रंथसदर्भ कृतवानिति द्वितीयं निमित्तम् । तत्त्वार्थसूत्रनाम्नाख्यातस्यैतस्य जैनदर्शनस्योपरि बह्व्यष्टीकाः श्रीमदनेकाचार्यवर्यैनिर्मिताः परं ताखिनीं या उपलभ्यंते तासां नामोल्लेखः क्रियते । सर्वार्थसिद्धिनाम्नी वृत्तिः श्रीमत्पूज्यपादखामिविरता १, तवार्थवार्तिकालंकारः श्रीमदकलंकदेवविरचितः षोडशसहस्रपरिमितः २, तच्चार्थश्लोकगर्तिकालंकारः श्रीमद्विद्यानं दिखा मिविरचितः विंशतिसहस्रपरिमितः ३, गंधहस्तिमहाभाष्यं श्रीमत्सस्वामिविरचितं चतुरशीतिसहस्रपरिमितं ४, श्रुतसागरीटीका श्रीश्रुतसागरसूरिविरचिता ५, इति । तासु टीका श्रुतसागरी नाम्नी सुबोधिनीटीका मुद्रितैव न, परं लिखिता तु यत्र तत्र सरखतीभवने ते । गंधहस्तिमहाभाष्यं तु लुप्तप्रायमेवेति तदवलोकनस्यापि निराशैव । केवलमधुनातनसमये सर्वो
बृहट्टीका तत्त्वार्थश्लोकवार्तिकनाम्नी एव मुमुक्षुभाग्योदयेन श्रीश्रेष्ठिवर्यनाथारंगगांधी - ग्रंथमालातः भाकाश्यपदवीं नीता । अस्यामेव महाभाष्यदर्शनाभिलाषिणः सहृदया हृदयं संतोषयं तु ।
एतत्कर्तुः विद्यानंदिखामिनः पात्रकेसरीत्यपराख्यस्य परिचय :- “ जीयान्निरस्त निःशेषसर्वथैकांतशासनं । सदा श्रीवर्द्धमानस्य विद्यानंदस्य शासनं ||" इति पत्रपरीक्षायाम् । विद्यानंदिन वाप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org