________________
Se
Jain Education International
श्रीपरमात्मने नमः । श्रीमद्विद्यानंदिस्वामिविरचितं
तत्त्वार्थश्लोकवार्तिकम् ।
प्रथमोऽध्यायः ।
श्री वर्धमानमाध्याय घातिसंघातघातनम् । विद्यास्पदं प्रवक्ष्यामि तत्त्वार्थश्लोकवार्तिकम् ॥ १ ॥
श्रेयस्तत्त्वार्थश्लोकवार्तिकप्रवचनात्पूर्वं परापरगुरुप्रवाहस्याध्यानं तत्सिद्धि निबंधनत्वात् । तत्र परमो गुरुस्तीर्थकरत्वश्रियोपलक्षितो वर्धमानो भगवान् घातिसंघातघातनत्वाद्यस्तु न परमो गुरुः स न घातिसंघातघातनो यथास्मदादिः । घातिसंघातघातनोसौ विद्यास्पदत्वाद्विद्यैकदेशास्पदेनास्मदा दिनानैकांतिक इति चेन्न, सकलविद्यास्पदत्वस्य हेतुत्वाद्यभिचारानुपपत्तेः । प्रसिद्धं च सकलविद्यास्पदत्वं भगवतः सर्वज्ञत्वसाधनादतो नान्यः परमगुरुरेकांततत्त्वप्रकाशनाद् दृष्टेष्टविरुद्धवचनत्वादविद्यास्पदत्वादक्षीणकल्मषसमूहत्वाच्चेति न तस्याध्यानं युक्तम् । एतेना परगुरुर्गणधरादिः सूत्रकारपर्यंतो व्याख्यातस्तस्यैकदेश विद्यास्पदत्वेन देशतो घातिसंघातघातनत्वसिद्धेस्सामर्थ्यादपरगुरुत्वोपपत्तेः । नन्वेवं प्रसिद्धोऽपि परापरगुरुप्रवाहः कथं तत्त्वार्थश्लोकवार्तिकप्रवचनस्य सिद्धिनिबंधनं यतस्तस्य ततः पूर्वमाध्यानं साधीय इति कश्चित्, तदाध्यानाद्धर्मविशेषोत्पत्तेरधर्मध्वंसात्तद्धेतुक विघ्नोपशमनादभिमतशास्त्र परिसमाप्तितस्तत्सिद्धिनिबंधनमित्येके । तान् प्रति समादधते । तेषां पात्रदानादिकमपि शास्त्रारंभात्प्रथममाचरणीयं परापरगुरुप्रवाहाध्यानवत्तस्यापि धर्म - विशेषोत्पत्तिहेतुत्वाविशेषाद्यथोक्तक्रमेण शास्त्रसिद्धिनिबंधनत्वोपपत्तेः । परममंगलत्वादाप्तानुध्यानं शास्त्र.सिद्धिनिबंधनमित्यन्ये, तदपि तागेव । सत्पात्रदानादेरपि मंगलतोपपत्तेः, न हि जिनेंद्रगुणस्तोत्रमेव मंगलमिति नियमोस्ति स्वाध्यायादेरेव मंगलत्वाभावप्रसंगात् । परमात्मानुध्यानाथकारस्य नास्तिकतापरिहारसिद्धिस्तद्वचनस्यास्तिकैरादरणीयत्वेन सर्वत्र ख्यात्युपपत्तेस्तदाध्यानं तत्सिद्धिनिबंधन मित्यपरे । तदप्यसारं । श्रेयोमार्गसमर्थनादेव वक्तुर्नास्तिकता परिहारघटनात् । तदभावे सत्यपि शास्त्रारंभे परमात्मानुध्यानवचने तदनुपपत्तेः । शिष्टाचारपरिपालनसाधनत्वात्तदनुध्यानवचनं तत्सिद्धिनिबंधन मिति केचित् । `तदपि तादृशमेव । स्वाध्यायादेरेव सकलशिष्टाचारपरिपालनसाधनत्वनिर्णयात् । ततः शास्त्रस्योत्पत्तिहेतुत्वात्तदर्थनिर्णयसाधनत्वाच्च परापर गुरुप्रवाहस्तत्सिद्धिनिबंधनमिति धीमद्धृतिकरं । सम्यग्बोध एव वक्तुः शास्त्रोत्पत्तिज्ञप्तिनिमित्तमिति चेन्न, तस्य गुरूपदेशायत्तत्वात् । श्रुतज्ञानावरणक्षयोपशमाद्गुरूपदेशस्यापायेपि श्रुतज्ञानस्योत्पत्तेर्न तत्तदायत्तमिति चेन्न, द्रव्यभावश्रुतस्याप्तोपदेशविरहे कस्यचिदभावात् । द्रव्यश्रुतं हि द्वादशांगं वचनात्मक माप्तोपदेशरूपमेव, तदर्थज्ञानं तु भावश्रुतं तदुभयमपि गणधरदेवानां भगवदर्हत्सर्वज्ञवचनातिशयप्रसादात्खमतिश्रुतज्ञानावरण वीर्यांतरायक्षयोपशमातिशयाच्चोत्पद्यमानं कथमाप्ता
For Private & Personal Use Only
www.jainelibrary.org