________________
१४२ तत्त्वार्थश्लोकवार्तिके
[सू० ७ सारं । तत्रास्त्यवक्तव्यावक्तव्यादिभंगांतरप्रसंगात् । ततोपि सहार्पिततदन्यधर्मद्वयविशिष्टस्य ततोप्यपरसहार्पितधर्मद्वयविशिष्टस्य वस्तुनो विवक्षाया निराकर्तुमशक्तेः प्रतियोगिधर्मयुगलानामेकत्र वस्तुन्यनंतानां संभवात् तेषां च सहार्पितानां वक्तुमशक्यत्वात् अस्त्यनंतावक्तव्यं वस्तु स्यात् तच्चानिष्टं । येन रूपेण वस्त्विति तेन तत्प्रतियोगिना च सहाक्रांतं यदा प्रतिपत्तुमिष्टं तदास्त्यवक्तव्यमिति केचित् , तेपि यावद्भिः खभावैः यावंति वस्तुनोस्तित्वानि तत्प्रतियोगिभिस्तावद्भिरेव धर्मः, यावंति च नास्तित्वानि तद्युगलैः सहार्पि- . तैस्तावत्यवक्तव्यानि च रूपाणि ततस्तावत्यः सप्तभंग्य इत्याचक्षते चेत् प्रतिष्ठत्येव युक्त्यागमाविरोधात् । एतेन नास्त्यवक्तव्यं चिंतितं प्रत्येयं, स्यादस्ति नास्त्यवक्तव्यं च वस्त्विति प्रमाणसप्तभंगी सकलविरोधवैधुर्यात् सिद्धा । नयसप्तभंगी तु नयसूत्रे प्रपंचतो निरूपयिष्यते । ततः परार्थोधिगमः प्रमाणनयैर्वचनात्मभिः कर्तव्यः स्वार्थ इव ज्ञानात्मभिः, अन्यथा कात्येनैकदेशेन च तत्त्वार्थाधिगमानुपपत्तेः ॥ तदेवं संक्षेपतोधिगमोपायं प्रतिपाद्य मध्यमप्रस्थानतस्तमुपदर्शयितुमनाः सूत्रकारः प्राह;
निर्देशवामित्वसाधनाधिकरणस्थितिविधानतः ॥७॥ निर्देशादीनामितरेतरयोगे द्वंद्वः करणनिर्देशश्च बहुवचनांतः प्रत्येयस्तथा तसि विधानात् । स्थितिशब्दस्य स्वतंत्रत्वादल्पाक्षरत्वाच्च पूर्वनिपातोस्त्विति न चोद्यं, बहुप्वनियमात् । सर्वस्य निर्देशपूर्वकत्वात्खामित्वादिनिरूपणस्य पूर्व निर्देशग्रहणमर्थान्न्यायान्न विरुध्यते स्वामित्वादीनां तु प्रश्नवशात् क्रमः । ननु च संक्षिप्तैः प्रमाणनयैः संक्षेपतोऽधिगमो वक्तव्यो मध्यमप्रस्थानतस्तैरेव मध्यमप्रपंचैर्न पुननिर्देशादिभिस्ततो नेदं सूत्रमारंभणीयमित्यनुपपत्तिचोदनायामिदमाह;निर्देशाद्यैश्च कर्तव्योधिगमः कांश्चन प्रति । इत्याह सूत्रमाचार्यः प्रतिपाद्यानुरोधतः ॥ १॥
ये हि निर्देश्यमानादिषु स्वभावेषु तत्त्वान्यप्रतिपन्नाः प्रतिपाद्यास्तान् प्रति निर्देशादिभिस्तेषामधिगमः कर्तव्यो न केवलं प्रमाणनयैरेवेति सूक्तं निर्देशादिसूत्रं विनेयाशयवशवर्तित्वात्सूत्रकारवचनस्य । विनेयाशयः कुतस्तादृश इति चेत् ततोन्यादृशः कुतः तथा विवादादिति । तत एवायमीदृशोस्तु न्यायस्य समानत्वात् ॥
किं पुनर्निर्देशादय इत्याह;यत्किमित्यनुयोगेर्थखरूपप्रतिपादनम् । कास्य॑तो देशतो वापि स निर्देशो विदां मतः ॥२॥ कस्य चेत्यनुयोगे सत्याधिपत्यनिवेदनं । स्वामित्वं साधनं केनेत्यनुयोगे तथा वचः ॥३॥ केति पर्यनुयोगे तु वचोधिकरणं विदुः । कियच्चिरमिति प्रश्ने प्रत्युत्तरवचः स्थितिः ॥४॥ कतिधेदमिति प्रश्ने वचनं तत्त्ववेदिनाम् । विधानं कीर्तितं शब्दं तत्त्वज्ञानं च गम्यताम्॥५॥ किं कस्य केन कस्मिन् कियच्चिरं कतिविधं वा वस्तु तद्रूपं चेत्यनुयोगे कायेन देशेन च तथा प्रतिवचनं । निर्देशादय इति वचनात् प्रवक्तुः पदार्थाः शब्दात्मकास्ते प्रत्येयाः तथा प्रकीर्तितास्तु सर्वे सामर्थ्यात्ते ज्ञानात्मका गम्यतेऽन्यथा तदनुपपत्तेः । सत्यज्ञानपूर्वका मिथ्याज्ञानपूर्वका वा? शब्दा निर्देशादयः सत्या नाम सुषुप्तादिवत् , नाप्यसत्या एव ते संवादकत्वात् प्रत्यक्षादिवत् ॥
किं खभावनिर्देशादिभिरर्थस्याधिगमः स्यादित्याह;तैराधिगमो भेदात्स्यात्प्रमाणनयात्मभिः । अधिगम्यस्वभावैर्वा वस्तुनः कर्मसाधनः ॥ ६॥ कर्तृस्थोऽधिगमस्तावद्वस्तुनः साकल्येन प्रमाणात्मभिर्भेदेन निर्देशादिभिर्भवतीति प्रमाणविशेषास्त्वते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org