Book Title: Kadambari Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
Catalog link: https://jainqq.org/explore/002411/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ महोपाध्यायवर्यश्रीभानुचंद्र - सिद्धिचन्द्रगणिभ्यां विरचितया टीकया परिमंडिता महाकविबाणभट्ट - तदपत्यभूषणभट्टविनिर्मिता कादम्बरी -: सम्पादयिता पूज्य - मुनिराज श्रीहितवर्धनविजयमहाराजः ૧ 225 कुसुम प्रकाशक अमृत ट्रस्ट वापी - Page #2 -------------------------------------------------------------------------- ________________ ॥ जयउ सवण्णू सासणं ॥ ॥ नमामि नित्यं गुरुरामचन्द्रम् ॥ जगद्गुरु - श्रीहीरविजयसूरीश्वरसाम्राज्यवर्तिभ्याम्, शाहीश्रीअकब्बरजलालुद्दीन - सम्मानिताऽघ्रियुगलाभ्याम्, जैनोपाध्याय - श्रीमद्भानुचन्द्र-सिद्धिचन्द्रगणिवराभ्याम् समुद्भुतया टीकया परिमण्डिता महाकवि - बाणभट्ट - तदपत्य - भूषणभट्ट - विनिर्मिता कादम्बरी ॥ पूर्वभागः ॥ सपादक व्याख्यानवाचस्पति - देवद्रव्यादिधर्मद्रव्यसंरक्षक - पूज्यपाद - परमगुरुदेव आ.भ.श्री.वि.रामचन्द्रसूरीश्वराणा पट्टालङ्कार - परमशासनप्रभावक - पू.आ.भ.श्री.वि.नयवर्धनसूरीश्वराणां कृपापात्रशिष्यरत्न, अध्यात्मनिधि, पूज्यगुरुदेव - मुनिराजश्रीभव्यवर्धनविजयमहाराज्ञां विनेयरत्न - पूज्यगुरुदेव - मुनिश्रीमङ्गलवर्धनविजयमहाराज्ञां शिष्याणुः मुनिहितवर्धनविजयः प्रकाशक कुसुम अमृत ट्रस्ट - शांतिनगर, अलकापुरी, वापी (वेस्ट) - ३९६१९१.. Page #3 -------------------------------------------------------------------------- ________________ નામ ભાષા ગ્રંથના વર્ગો પૂર્વખંડના સર્જક ઉત્તરખંડના સર્જક મૂળકાવ્યનો નિર્માણ સમય પૂર્વખંડ પર વૃત્તિનું સર્જન ઉત્તરખંડ પર વૃત્તિનું સર્જન વૃત્તિરચનાનો સમય પ્રથમમુદ્રિત પ્રતિનું સંશોધન પૂર્વાવૃત્તિ (આઠમી) પ્રકાશન પૂર્વપ્રકાશક નવ્યાવૃત્તિ પ્રકાશન પ્રતિ મૂલ્ય સૂચના પ્રાપ્તિસ્થાન મુદ્રક ગ્રંથ પરિચય : कादम्बरी : સંસ્કૃત. : ૧ અને ૨ / પૂર્વખંડ અને ઉત્તરખંડ. : મહાકવિ બાણભટ્ટ. - સન્ ૧૯૪૦. गद्यबद्ध. : બાણભટ્ટ પુત્ર - ભૂષણભટ્ટ. : ઈસુની ૭મી શતાબ્દીનો મધ્યયુગ. : મહોપાધ્યાય ભાનુચંદ્ર ગણિવર. : મહોપાધ્યાય સિધ્ધિચંદ્ર ગણિવર. : વિક્રમના ૧૭મા શતકનો ઉત્તરભાગ. : કાશિનાથ પાંડુરંગ પરબ આદિ વિદ્વદ્ગણ દ્વારા. : : નિર્ણય સાગર પ્રેસ - મુંબઈ. : અષાઢ સુદ બીજી છઠ્ઠ, બુધવાર, ૧૩-૭-૨૦૦૫ : ૫૫૦ સેટ : રૂા. ૩૬૫/- (બંને ભાગના ) : પ્રસ્તુત ગ્રંથરત્નના બન્નેય ભાગોનું પ્રકાશન જ્ઞાનદ્રવ્ય દ્વારા કરવામાં આવ્યું છે. આથી સ્વાધ્યાયેચ્છુ મુમુક્ષુવર્ગે ગ્રંથ વસાવવો હોય તો ઉપર લખ્યા મુજબનું સંપૂર્ણ મૂલ્ય જ્ઞાન દ્રવ્યમાં ભરપાઈ કરવું અને ગ્રંથનો કેવળ વાંચનાર્થે ઉપયોગ કરવો હોય તો યોગ્ય નકરો જ્ઞાન દ્રવ્યમાં નોંધાવી દેવો. પૂ. સાધુ-સાધ્વીજી ભગવંતોને તેમજ ભારતભરના જ્ઞાનભંડારોને પ્રસ્તુત ગ્રંથરત્ન સાદર સમર્પિત કરવામાં આવશે. : કુસુમ અમૃત ટ્રસ્ટ શાંતિનગર, અલકાપુરી, વાપી (વેસ્ટ) - ૩૯૬ ૧૯૧. : 7ejas Platera 403, Vimal Vihar Apartment, 22, Saraswati Society, Nr. Jain Merchant Soc., Paldi, Ahmedabad - 380 007. Ph. : (079) 26601045 Page #4 -------------------------------------------------------------------------- ________________ आशीर्वचनम् ભાદરવા વદ બીજી નોમ - ૨૦૬૦ वसलविद्यानगर (गु४रात) બહુગુણ સંપન્ન, વિદ્વાન મુનિ શ્રી હિતવર્ધનવિજયજી.... તમારો પત્ર મળ્યો. તમો વ્યાવશ્ર્વરી મહાકાવ્ય ઉપર વીશહજાર શ્લોક પ્રમાણ મહોપાધ્યાય શ્રીભાનુચંદ્ર - સિધ્ધિચંદ્ર ગણિવર વિરચિત અપ્રાપ્ય ગ્રંથ(વૃત્તિ)નું સંપાદન કાર્ય કરો છો, તેમાં મારા આશીર્વચન છે, આશીર્વાદ છે, અભિવાદન છે. આવી શ્રુત ભક્તિ ખૂબ-ખૂબ કરો એજ એક અભ્યર્થના. प्रजाइर भूमिमा साहर अनु * भगवती सरस्वती निजजिह्वाग्रे निमन्त्रिता । * नृपतिद्वयी स्वकीयक्रमकमले भृङ्गायिता । * देवाङ्गनानिर्जिताहोरूपराजिः समग्राङ्गेऽवतारिता । પ્રભાકરસૂરિની સાદર અનુવંદના समर्पणम् महोपाध्याय - श्री भानुचन्द्र - सिद्धिचन्द्र गणिवरौ ! भवद्भ्यामसामान्याऽऽश्चर्यश्रेणिर्विरचिता, यथा - * जगद्गुरु श्रीहीरविजयसूरीणां साम्राज्यं स्वीयप्रतिभया धवलीकृतम् । * महाकाव्येषु प्राप्ताग्रपङ्क्तिः कादम्बरी वृत्तिविनिर्माणेन समलङ्कृता । है कृपावन्ती भगवन्तौ ! भवदीयकरकमलयोरर्पयामीमां नवसंपादितां सवृत्तिं कादम्बरीम् संपादयिता Page #5 -------------------------------------------------------------------------- ________________ लसल्लालित्यराजिः कादम्बरी कोशशतसंघीकृतक्लिष्टशब्दसंस्तरतया चातिशयपृथुलपदावलीतया च सुकुमारमतीनां प्रस्वेदजननीय कादम्बरी लसल्लालित्यराजिः कविचूडामणिना बाणभट्टेन परिकल्पिता काव्यगात्रेषु पिण्डीकृता च । मन्दमतीनां मतेरगोचराऽप्यसौ विदुषां चित्तरञ्जनाय रचितशपथेवाऽऽभाति । कल्पनाधरणीसमुद्गतापीयं पाठकहृदयं विकसद्वास्तवीव स्पृशति । कविद्वयेन परिपूर्णीकृताऽप्येषा यावदान्तिम्यं प्रथमपदाद् रसैकतानतां बिभर्ति । एवं प्रत्यक्षाश्चमत्कृतयः, प्रगटा विरोधायलकारसंततिः, विद्वद्विनोदननन्दितजन्मन्यां कादम्बर्याम् । s/ नाऽत्र छन्दसा बाधा, नाइत्र व्यस्तपदसमारचनसंश्रमः, भूरि रसप्राचूर्यम्, स्फूर्तिमती प्रतिपादन शैलिः, नावीन्यमयी प्रस्तावपद्धती, रुचिरं कथावस्तु, गद्यात्मकः प्रबन्धः, परम-प्रौढिमा च शब्दार्थयोः, एवमत्र गणनातीतगुणगणा विराजन्ते । प्रद्योतयत्पाण्डित्यमरीचिना कविना बाणभट्टेन प्रारब्धाऽसौ कादम्बरी तदपत्यभूषणभट्टेन समापितेति विश्वासार्हा वृद्धोक्तिः । काव्यगुम्फनक्रिया प्रारभ्य मध्य एव महाकविर्दिवंगतः । तत्पश्चात् तादृशसामर्थ्यविधुरेणाऽपि भूषणभट्टेनाऽवशिष्टा कथा तातभक्त्याऽनुसन्धिता । विबुधसंप्रदायः बाणपुत्रं ‘भूषणभट्ट' इति नाम्ना परिचाययति, किन्त्वस्मिन् विषये पौर्वात्येषु ग्रन्थेषु मतान्तरा अप्यवलोक्यन्ते । तिलकमञ्जरीरचयित्रा धनपालेन बाणपुत्रः 'पुलिन्द' इत्यभिधया परिचायितः । अन्ये 'पुलिन' इत्याहूवमपि प्रचारयन्ति । अस्तु. नैतन्निर्णेतुं नोऽभिरुचिः । खिष्टीयकालगणनासु प्रायः सप्तमशताब्याः मध्ययुगो महाकवेर्बाणस्य कर्मसमयः । राजाहर्षवर्धनो बाणेन साकं परां मैत्रीमदधत् । बाणविनिर्मिता कादम्बरी पञ्चसु महाकाव्येषु लब्धाऽस्पदा । दण्डी सुबन्धुश्च बाणस्य पुरोयायिनौ, एतौ द्वावपि गद्यकवी प्रतिभाभारभूरी बभूवतुः । तदनुयायी कविवतंसोबाणोऽपूर्वगद्यप्रबन्धनिर्माणेन स्फूर्जप्रतिभया च द्वावपि पुरोगामिनौ विजित्य साहित्यसृष्टौ परां निषद्यां लेभे। बाणोद्भुतायां कादम्बाँ बढ्यो वृत्तयः निरीक्ष्यन्ते, तासु प्राथम्यं जैनोपाध्याययुगलविनिर्मितायाः टीकायाः । महोपाध्याययुगोऽसौ शाहीश्रीअकब्बर-जलालुद्दीननरेश्वरसमर्पित-'जगद्गुरु बिरुदशालिना, जिनशासनशिरोमुकुटाना, पूज्यपाद-हीरविजयसूरीश्वराणां कृपापात्रता मलप्सीद् । नाम्ना श्रीभानुचन्द्र - सिद्धिचन्द्रगणिवरौ, सहस्रशो जनसमूहैर्निसेवितचरणौ, पृथुलविद्याधनौ, निर्वर्तितमन्मथरुपगर्छ, साक्षात्कन्दर्परुपौ, समासादितब्राह्मीप्रसादौ, स्वकीयचातुरीपटाच्छादितदिशान्ती, निधूतपरमतवादिमदरजसौ बाणग्रथितां कादम्बरीमवलम्ब्य सुसमृद्धा वृत्तिं निरमीमाताम् । अहो, आकस्मिकीय घटना!, यथा कादम्बरीग्रथनकाले कृतिमसमाप्यैव बाणभट्टीयमसाद्भूतस्तथाऽकब्बरनृपानुरोधाद् वृत्तिमिमामारब्धवान् भगवान् भानुचन्द्रमहोपाध्यायवर्योऽपि वृत्तावपूर्णायां कालसाज्जातः । बाणान्वयेन भूषणभट्टेन यथाऽवशिष्टा कादम्बरी परिपूर्णतामिता तथाऽवशिष्टामेतां वृत्तिं भगवद्भानुचन्द्रगणिवराणां विनेयवरः सुगृहीतनामधेयो महोपाध्याय-श्रीमत्सिद्धिचन्द्रगणी पारितवान् । निर्मातृबन्द्वतायारेवं यथामूलं वृत्तावप्यनुवृत्तिः । Page #6 -------------------------------------------------------------------------- ________________ टीकाकारा शारिखषा रागानिता । जना गमभरगगनाता पार गुपाचा सागलगार लाभापासुमन सिद्धिचन्द्रयोरुपदेशः शिरोधारितः । शाहिद्वयशासने वृत्त्या निर्माणमतोऽनुमीयते विवृत्त्याः समुद्भवसमयः विक्रमसंवत्सरस्य सप्ताधिकदशमशताब्या मध्ययुगः । एषा वृत्तिःशब्दवैविध्यरसिकेभ्यो वरदानरुपा, मूलस्य नैकोऽपि शब्दः टीकाविधात्रा पर्यायप्रोटनप्रक्रियायामुपेक्षाविषयीकृतः । क) भारतीयेषु शिक्षाप्रणालीषु बहुश्लोकतामिता कादम्बरी नानुपलब्धा न चाऽप्रचारिता किन्तु तदुपर्याः प्राय आदिमाया एतवृत्त्या आयुःक्षये समुपस्थित उभयासामपि प्रकाशनोपक्रमं वयमङ्गीकृतवन्तः । अस्या वृत्त्याः प्रकाशनावश्यकता मत्सुहृदयैर्विद्वत्सु प्राप्ताऽभिधैः पूज्यपादमुनिप्रवरश्रीधर्मतिलकविजयैर्मत्समक्षं वर्षत्रयीं पूर्वमेवाऽऽवेदिता । प्राप्तानुकूलसामग्या वर्षद्वयीपूर्वं वयं ग्रन्थस्याऽस्य संशोधन-संपादनक्रियामारब्धवन्तः । बहुलश्रमेण सा साम्प्रतं सफलीभूता । अस्या वृत्त्याः पूर्वप्रकाशनं खिष्टीय १९४० तमे संवत्सरे संजातम् । वर्तमानेऽनेहसि ज्ञानागारेष्वपि प्रायोऽनुपलब्धिः, उपलब्धप्रतीनामपि भङ्गुरप्राया दशा । अतोऽस्मत्कृतमेतत्प्रकाशनं सामयिकमावश्यकञ्चेति सुतरां संसिद्धिः ।। पूर्व संस्करणे वृत्त्यास्तिरोलिखिता टिप्पणी पूर्वसम्पादकेन द्वेषजोभिराप्लावितोच्चारणद्वारा धूलिसात्कृता, साऽस्माभिर्भृशं संशोधिता निराधाराक्षेपप्रत्याक्षेपनिरासनेन मात्सर्यजन्यानां दोषारोपणकारिशब्दानां दूरीकरणेन च सुस्वच्छीकृता । अर्वाचीनमुद्रणशैल्या सवृत्ति-कादम्बर्याः पुनर्मुद्रणेऽप्येकं विनोदपदम् । काव्यमिदं कविद्वयेन समुद्भुतम्, वृत्तिरेषा महोपाध्यायद्वयेन विनिर्मिता, तदभूयोरत्र प्रकाशनं भागद्वयेन प्रस्ततम् । ग्रन्थस्याऽस्य प्रुफशोधनकर्मणि मद्गुरुदेवानां, समाधिधर्मज्योतिर्दण्डधराणा, दिवि संप्राप्तसंवासाना, पूज्यपादमुनिप्रवरश्रीभव्यवर्धनविजयमहाराज्ञा बाढं सहकर्म समुपलब्धम्, नाऽथ भगवतां तातपादानामत्र पार्थिवी समुपस्थितिः किन्तु दिव्यकृपापिण्डेन भवान् सदैव मे शिरोऽधियायी एवेति नितान्तं श्रद्दधे । यथा सकलकृत्यकलापमस्मिन्प्रस्तावेऽपि भवतां कृपाप्रसादी नः प्रति हर्षितमुखी संवेद्यते । अनन्ता अञ्जलयोभवच्चरणयोरनन्तं वन्दनं भवत्क्रमाम्बुजयोः । एवञ्च पूज्यपादाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वराणां साम्राज्यवर्तिनीनां तथा प्रवर्तिनीपूज्यसाध्वीश्रीरोहितश्रियां शिष्यरत्ना-विद्यारुचिसाध्वीवर्याश्रीचन्दनबालाश्रियामपि यथावसरः सहकारः सम्प्राप्तः सोऽप्यवश्यमुल्लेखनीयः । प्रान्ते, काव्यजगत्सु मूर्धन्यभूतां कादम्बरी सवृत्तिं साधनग्रंथरूपेण स्वीकृत्वा जगतस्त्रयीणां मूर्धन्यभूतायाः द्वादशाङ्ग्या शरणाऽऽसन्ना भवतु भुवनत्रयीत्याकाङक्षामभिव्यनज्मि । - हितवर्धनविजयो मुनिः । कार्तिकशुक्ला पञ्चमी - वि.सं. २०६१ रत्नपुरी (रतलाम) मध्यप्रदेशः प्रान्तः । Page #7 -------------------------------------------------------------------------- ________________ संक्षिप्ततया कथारसमास्वादयन् (कादम्बरीसारः ।। (पूर्वकादम्बरी) विदिशेतिख्यातनाम्न्यां राजधान्यामासीत्समस्तगुणाकरो राजा शूद्रको नाम । सभास्थानमलंकुर्वति तस्मिन्नेकदा तत्प्रतीहारी कस्याश्चिच्चाण्डालदारिकाया आगमनमावेदयामास । अथ कौतुकिना भूमिपतिना दत्तानुमतिः सा पुरोयायिना वृद्धेन, पञ्जरवाहिना शिशुना चैकेन सममागत्य राजानं प्रणनाम । वृद्धस्त्वसौ वैशम्पायनाभिधानं शुकमेकं पञ्जरगतं राज्ञः पुरो निधाय, तद्गुणावलीं चाभिधाय सहसाऽपससार । गते तु तस्मिन् स शुको दक्षिणं चरणमुन्नमय्य - 'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥' इत्यार्यया नरपतिमेनमभिननन्द । सह सदस्यैर्विस्मयमापन्नो राजा शुकमेनमन्तःपुरे प्रवेशयितुमाज्ञाप्य सभास्थानादुदतिष्ठत् । कृताहिककृत्यस्तु राजा परमबुद्धिमता कुमारपालिताभिधानेन मन्त्रिवरेण सह सुखोपविष्टः शुकमेनमानाय्य समग्रं तद्वृत्तान्तमावेदयितुमाज्ञापयामास । शुकोऽप्येवं कथयामास - “विन्ध्याटव्यां विशाल एकस्मिन् शाल्मलीवृक्षे कृतनीडौ मत्पितरौ न्यवास्ताम् । मा प्रसूय लोकान्तरमुपगतायां जनन्यां वृद्धो मे पिता मामपालयत् । एकदा मृगयार्थमागतस्य मतङ्गनामकस्य शबरसेनापतेरनुगतः कश्चिदृद्धशबरः शाल्मलीवृक्षमेनमारुह्य स्नेहवशात्पक्षपुटेन मामाच्छादयन्तं जनक मे व्यापाद्य, मामपि वृक्षादधः शुष्कपल्लवपुञोपरि न्यपातयत् । भाग्यवशाज्जीवितोऽहं जलान्चेषणार्थं प्रचलन् स्नानागतेन हारीतनाम्ना मुनिकुमारेण निजपितुर्जाबालेराश्रममुपनीतः । स मुनिर्मामालोक्य हसन्, कौतुकादन्यैर्मुनिभिः पृष्टो मदृत्तान्तमेवं निशि निजगाद (इति कथामुखम्) "अवन्तिदेशे उज्जयिन्यां राजधान्यां महाप्रतापस्तारापीडो नाम राजासीत्, यस्य महिषी विलासवती । निखिलगुणाकरो मन्त्री तु तस्य शुकनासाख्योभूत् यस्य पत्नी मनोरमा । निःसंतानतया परमविषण्णा विलासवती यावदपत्यार्थं व्रतादिकमाचरति तावदकस्मादेकदा राज्या मुखे प्रविशन्तं चन्द्रं ददर्श स्वप्ने राजा शुकनासोपि, विप्रेण केनचिन्मनोरमायाः क्रोडे निहितं पुण्डरीकमेकमालोकयामास स्वप्ने । ततश्च विलासवत्याश्चन्द्रापीडः, मनोरमायाश्च पुण्डरीकाभिधानः सुतोऽभवत् । मिथः सौहार्दमापन्नौ द्वावप्येतौ कुमारौ राज्ञा सकलविद्यासु पारगामितामुपनीतौ । ततो विद्यास्नातकोऽसौ चन्द्रापीडो राजाज्ञया बलाहकाभिधानेन सेनाध्यक्षेण समानीतमिन्द्रायुधनामानं तुरंगवरमारुह्य विद्यागृहाद्राजधानीमाययौ । जनकजनन्योः संदर्शनेनानन्दितः, मृगयां विधाय नगरमुपागतो जनन्या प्रेषितां पत्रलेखामवाप्य मुदितः शुकनासोपदेशेन प्रगुणीकृतः, तारापीडेन यौवराज्येभिषिक्तोऽसौ दिग्विजयाय प्रातिष्ठत । त्रिभिः संवत्सरैः सर्वा दिशो विदिशश्च विजित्य, हेमकूटवासिकिरातानामावासं सुवर्णपुरमधितिष्ठन्नेकाकी चन्द्रापीडः कदाचिदिन्द्रायुधमारुह्य मृगयार्थमटन किंनरयुगलानुसरणप्रसङ्गेन पञ्चदशयोजनानि ययौ । किंनरमिथुने गिरिशिखरमारूढे, भृशमनुतप्तः श्रमेण तृषातुरो जलमन्विष्यन् विशालमनोरममच्छोदाख्यं सरः प्राप्तवान् । जलावगाहनपानोत्तरं तत्तटे विश्राम्यन्, वीणाक्वणसहितं गानमाकर्ण्य तदनुसरन्, अतिगौरमनोरमामेकां कन्यकां शिवालयगतां ददर्श । अथ प्राप्तातिथिसत्कारेण तेन पृष्टा सा निजतपोवृत्तमेवमाह स्म - “अरिष्टातनयो गन्धर्वराजो हंसः सोममयूखसंभवकुलजाता गौरी परिणीतवान् । तयोस्तनया महाश्वेतानाम्न्यहमतिक्रान्तशैशवा कदाचिदस्मिन् सरसि स्नातुमागत्य कुतोप्यलौकिक सौरभमाजिघ्रती तदनुसरणं च विदधती केनचिदन्येन कुमारेण सहितं मूर्तिमन्तमिव मन्मथं मुनिकुमार कादम्बरीसारः। Page #8 -------------------------------------------------------------------------- ________________ मेकमवलोक्य 'कोयं युवा, किंनामकस्य तरोरियं सुरभिता मञ्जरी' इति तत्सहचरं कुमारमप्राक्षम् । स प्रत्युवाच- 'महर्षेः श्वेतकेतोः सौन्दर्यमोहितायां-लक्ष्मीदेव्यामुत्पन्नः पुण्डरीकमध्ये जाततया पुण्डरीकनामा सोयं कुमारः । नन्दनवनदेवतया सादरमुपहृता सेयं पारिजातस्य मञ्जरी । निर्जितमारः स तु कुमारः-'कुतूहलिनि ! किं वा प्रश्नायासेन । यदि रुचिता तर्हि गृह्यतामियम्' इत्यभिधाय मञ्जरी तां मे कर्णे कुर्वन् हस्तानिपतितामक्षमालामपि न ज्ञातवान् । अहं तु मालामिमामगृह्णाम् । मन्मथविकारमिममालोक्य कुपितेन द्वितीयेन कुमारेण तिरस्क्रियमाणः कुमारोऽसौ (पुंडरीकः ) मामुपेत्य मालामयाचत् । अहं तु मुक्तामयं निजहारमेव कण्ठादुन्मुच्य तस्मै समर्पा, तां च स्फटिकमयीं जपमालां कण्ठे वहन्ती जनन्या सह कृतस्नाना गृहमुपागच्छम् । ततो मत्परिचारिका तरलिका तेन कुमारेण कृतं मत्परिचयादिप्रश्नवृत्तं मह्यमावेद्य पत्रमेकमर्पितवती, यत्र चेयमार्याऽऽसील्लिखिता - 'दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे । हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥ सायं तु तत्सहचरः कुमारः (कपिञ्जलः) कामविह्वलां मां तस्य कुमारस्य मन्मथव्यथां यावदावेदयति तावदेव समागच्छन्ती मज्जननी ज्ञात्वा स त्वरितं परावर्तत । प्रतिगतायां जनन्याम्, उपस्थितायां च रजन्याम्, समुदिते चन्द्रमसि, उत्कण्ठिताहं तरलिकाद्वितीया निभृतं गृहानिर्गत्य तमभिसरन्ती दूरात्कपिञ्जलविलापमाकर्ण्य द्रुततरमभिपतन्ती मन्दभाग्या महाभाग्यं तं कुमारमुपरतमद्राक्षम् । शोकात्कृतमरणव्यवसायां माम्'वत्से महाश्वेते ! न त्वया त्याज्याः प्राणाः, पुनरपि ते भविष्यत्यनेन सह समागमः' इति चन्द्रमण्डलादवतीर्णः कश्चिन्महापुरुषोऽभिधाय तं कुमारदेहं कराभ्यामुत्क्षिपन् नभसि न्यलीयत । 'क्व मे सुहृदमपहरसि' इति रोषाद्वद्धपरिकरः कपिजलोऽपि तमन्वसरत् । विस्मयविषादाभ्यां गृहीताऽहं तु संसारानिर्विण्णा व्रतमेतदवालम्बिषि । इति अथ 'परिचारिका सा तरलिका क्व गता' इति चन्द्रापीडेन जिज्ञासिते सा पुनरवदत्- “गन्धर्वराजाच्चित्ररथान्मदिरादेव्यां जाता कुमारी कादम्बरी मम द्वितीयं हृदयम् । सा ममाऽनेन शोकवृत्तान्तेन प्रतिज्ञामकरोत्-'सशोकायां महाश्वेतायां नाहमात्मनः पाणिं ग्राहयिष्यामि । कादम्बरीपाणिग्रहणायाऽनुनेतुं गन्धर्वराजेन कृतानुरोधाहमयैव कादम्बरीसकाशे तां प्राहैषम्" । इति द्वितीयेऽहनि प्रातरेव तरलिकया सह समागतः केयूरकनामकः कादम्बरीवीणावाहकः पाणिग्रहणे तस्या असंमतिमावेदयत् । कादम्बरीबोधनाय हेमकूटं प्रयान्त्या महाचेताया अनुरोधेन चन्द्रापीडोऽपि गन्धर्वराजधानीं गतोऽलौकिकसौन्दर्यशालिनी कादम्बरीमालोक्य प्रणयपरंतन्त्रोऽभवत् । कादम्बर्यपि तत्प्रणयवशंवदा दिव्यं दुकूलयुगं शेषनामक रत्नहारं च निजसख्या मदलेखाया हस्तेन तस्मै प्रजिघाय । अथ प्रीतिपरतन्त्रः स कादम्बर्या हृदयमादाय निजस्कन्धावार प्रत्यागतः सुहृदे वैशम्पायनाय सर्वं वृत्तमाचख्यौ । द्वितीयेऽहनि प्रत्यूष एव समुपेतेन कादम्बरीवैकल्यनिवेदकेन केयूरकेण सह पत्रलेखामादाय हेमकूटं गतश्चन्द्रापीडो हिमगृहगता मदनपरवशां कादम्बरी ददर्श । तया सह व्यङ्ग्यार्थगर्भ ललितमालप्य, तदनुरोधात्पत्रलेखां तत्रैवावस्थाप्य निजस्कन्धावार पराववृते । तत्र च पितुः पत्रमवाप्य, 'पत्रलेखामादाय त्वया परस्तादागन्तव्यम्' इति सेनापतिसुतं मेघनादमादिश्य, तत्रैव चावस्थाप्य, मार्गे द्रविडधार्मिकाधिष्ठितां चण्डिकां पश्यनुज्जयिनीमाजगाम । कतिचिद्दिनानन्तरं मेघनादेन सहागता पत्रलेखा कादम्बर्या विरहावस्थामुपालम्भोक्ति च चन्द्रापीडाय न्यवदेयत् । कादम्बरीपूर्वभागः ॥ (उत्तरकादम्बरी) हेमकूटात्प्रत्यागता पत्रलेखा चन्द्रापीडविरहनिमित्तं कादम्बर्याः परमं वैकल्यमावेदयांबभूव । तेन हि कादम्बर्याः प्रेमणि संदिहानश्चन्द्रापीडो भृशमात्मानमुपालेभे । तद्दिनादारभ्य बहिरप्रकाशयन्नपि हृदये वियोगवह्निनाऽतितरामदूयत । एकदा मनोविनोदाय सायं नगराबहिर्धमन् बहुभिस्तुरगैः सह दूरादायान्तं केयूरकमकस्माद्ददर्श । नगरे आगत्य केयूरको रहसि कादम्बर्याः सुभृशमुपचितं मदनसंतापं तथाऽऽवेदयद् यथा शोकेन मूर्छितप्रतिबुद्धश्चन्द्रापीडः प्रत्युवाच-'किमित्यहं नाहूतो देव्या । संप्रत्यहं प्राणपणेनापि तत्तापनिवृत्तये संनद्धः । केयूरकः (कादम्बरीसारः। Page #9 -------------------------------------------------------------------------- ________________ शीघ्रगमनाय चन्द्रापीडं प्रार्थयत । निशि चन्द्रापीडः-पित्रादीननिवेद्य गमनं नोचितम् । आज्ञाग्रहणे तु इदानीमेव दिग्विजयप्रत्यागताय मे तौ गमनानुमतिं दास्यतो न वेति सदेह एव । वैशम्पायनोऽपि अच्छोदसरस्तटे त्यक्तः । कोऽधुना मे सहायकः' इति नानाचिन्तामकरोत् । प्रातः सहसा शुश्राव 'दशपुरं यावत्परागतः स्कन्धावारः' इति । ततश्चात्र प्रत्यागतेन वैशम्पायनेन सह कादम्बरीमनुसरिष्यामीति हृदि संतुतोष चन्द्रापीडः । केयूरकस्तु ‘याववैशम्पायनेन सह देवो हेमकूटाय प्रतिष्ठते ततः पूर्वं भवदागमननिवेदनाय विसर्जयतु मां देवः' इति गमनानुमतिं ययाचे । चन्द्रापीडस्तु स्वागमनप्रत्ययार्थं पत्रलेखामपि तेन सह पुरतो विससर्ज । चन्द्रापीडश्चिरवियुक्तस्य प्रियसुहृदो वैशम्पायनस्य मार्ग एव प्रत्युद्गमनाय पितृभ्यां शुकनासाच्चानुमतिमाचकाङ्क्ष । तारापीडश्चन्द्रापीडस्य यौवनारोहमालोक्य विवाहस्य प्रस्तावमाकलयन् शुकनासमुखेन प्रत्युद्गमनानुमतिं ददौ । अथ चन्द्रापीडस्तुरगसैन्यमादाय वैशम्पायनाभिमुखं प्रतस्थे । मार्गे च निजं स्कन्धावारमागच्छन्तमालोकयत् । सुहृद्दर्शनप्रत्याशया तत्र गतोपि शुश्राव यत् “वैशम्पायनोऽच्छोदसरस्तटे आगत्य सहसैव विकृतचित्तोऽभवत् । स्नानभोजनादिकं परित्यज्य लतामण्डपैकदत्तद्दष्टिरस्मान् गन्तुमाज्ञापयत । आगमनाय कृतानुरोधस्तु सोत्तेजनमवादीत्- 'नाहं गन्तुं शक्नोमि । न मे देहो मनो वा वशे । अत एव कुमारस्य कार्योपरोधहरणाय यूयं गच्छत इति । दिनत्रयं तत्सान्त्वनचेष्टायां निष्प्रत्याशाः संप्रति वयं तत्प्रबन्धं तत्रैव विधाय कुमारसूचनाय परावृत्ताः स्मः" इति । कथमकस्मादिदं तस्य चित्तवैकृत्यमभूदिति विषण्णचित्तो बहुधा विकल्पयँस्तुरङ्गसैन्येनोज्जयिनी पराववृते कुमारः । तारापीडो वैशम्पायनवैराग्ये चन्द्रापीडस्य कञ्चिदपराधमाशशङ्के, किन्तु शुकनासः सर्वमिदमपममार्ज । परतस्तु - वैशम्पायनानयनाय अच्छोदतटे गमनानुज्ञामयाचच्चन्द्रापीडः । प्रवासाय प्रेषयन्ती माता हृदयेऽभूतपूर्वं विषादमकस्मादनुभूय अतिशीघ्रमागन्तुमाज्ञाप्य यथाकथंचिद्विससर्ज । मनसि नानामनोरथानावर्तयश्चन्द्रापीडो मार्गे यात्राविघ्नकरं प्रावृटकालं यापयामास । त्रिभागमात्रावशिष्टे चाध्वनि अच्छोदात्परावर्तमान मेघनादम् (सेनाध्यक्षम्) अलोकयत् । उत्कण्ठितेन चन्द्रापीडेन-'अच्छोदसरस्तटे द्दष्टस्त्वया वैशम्पायनः ? ' इति पृष्टः सेनाध्यक्षो व्यजिज्ञपत् - 'अच्छोदसरःसमीपे वैशम्पायनागमनस्य कथैव न श्रुता मया । विशेषतश्च पत्रलेखाकेयूरकाभ्यामहमुज्जयिनी विसर्जितो यत्त्वरितमागमनाय कृतप्रतिज्ञोऽपि कुमारः प्रावृष्यस्यां न राजदम्पतिभ्यां प्रेषितः । तत्तवानुपदमावामप्यागतावेव' इति ।। चन्द्रापीडस्तु विरहविकलायाः कादम्बर्याः का दशा स्यादस्यां प्रावृषि, इति नानाविचारसंतप्तो यथाकथंचिदच्छोदमासाद्य तत्र च सर्वतो विचिन्वन्नपि वैशम्पायनमनासाद्य तद्वृत्तान्तोपलम्भाशया महाश्वेतामुपजगाम । तत्र च तरलिकया यथाकथंचिदवस्थाप्यमानशरीरामतिविकलां तां ददर्श । 'हन्त न किञ्चिदनिष्टं स्याद्देव्याः कादम्बर्याःइति मनसि विषीदन्कुमारो वैकल्यस्य कारणं पप्रच्छ । गद्गदकण्ठा सा जगाद - "महाभाग, मन्दभाग्याहं हेमकूटायावदिह परावृत्ता तावदेव भवत्तुल्याकृतिमेकं ब्राह्मणयुवानं प्रनष्टमिव किञ्चिद्विचिन्वन्तमितस्ततो व्यलोकयम् । स तु मां दृष्ट्वैव परिचित इव स्निग्धया दृष्टया विलोकयन्, भूयसा निवार्यमाणोऽपि चाटूनि वदन् कामातेन मुहुरभ्यसरत् । अहं तु तमनभिवीक्ष्यैवोपेक्षयाऽन्यतोऽगच्छम् । अथैकदा ज्योत्स्नापूरप्लावितायां गाढयामिन्यां सर्वेषु सुप्तेषु निभृतपदसंचारी, मदनाविष्टतया युक्तायुक्तविचार-शून्योसौ मामागत्य - ‘चन्द्रमुखि ! हन्तुमुद्यतो मामेष कुसुमशरसहायश्चन्द्रमाः । तत्त्वां शरणमागतोऽस्मि' इत्यादि शुक इव नाना प्रलपन् मुहुर्निवार्यमाणोऽपि यदा न व्यरमत्तदा प्रियतमशोकोद्दीप्तमन्युश्चन्द्राभिमुखी भूत्वा । 'सकलभुवनचूडामणे ! यदि मया देवस्य पुण्डरीकस्य दर्शनात्प्रभृति न मनागप्यपरः पुमाश्चिन्तितस्तर्हि शुक इव परप्रणोदितं जल्पनयं तस्यामेव जातौ पततु' इत्यशपम् । स तु मद्वचनानन्तरमेव छिनमूलस्तरुरिवाचेतनः क्षितावपतत् । एतदाकण्येव कादम्बरीविरहदुःखेन पूर्वमेव भेदोन्मुखं चन्द्रापीडस्य हृदयं सहसाऽस्फुटत् । अनेनानर्थेन हा किमिदमिति मुक्ताक्रन्दायां तरलिकायाम्, स्तब्धदृष्टिनिश्चेष्टायां महाचेतायाम्, नानविधं विलपत्सु चन्द्रापीडपरिजनेषु, केयूरकाच्चन्द्रापीडागमनमाकर्ण्य तदर्शनोत्कलिकावगृहीता कादम्बरी पत्रलेखाहस्तावलम्बिनी तत्रैवाजगाम । सा तून्मुक्तजीवितं तमालोक्य निश्चलस्तब्धदृष्टिर्न व्यलपन्न रुरोद अनुमरणाय कृताध्यवसाया सा यावच्चन्द्रापीडचरणौ स्पृशति तावदेव तत्करस्पर्शादुच्छसत इव चन्द्रापीडदेहात्किमपि चन्द्रधवलं ज्योतिरुज्जगाम, अन्तरिक्षे . कादम्बरीसारः ।। Page #10 -------------------------------------------------------------------------- ________________ चाशरीरिणी वागश्रूयत - 'वत्से महाश्वेते, पुनरपि त्वं मयैव समाश्चासयितव्या वर्तसे । तत्ते पुण्डरीकशरीरं मल्लोके मत्तेजसाऽऽप्याय्यमानं भूयस्त्वत्समागमाय तिष्ठत्येव । इदमपरं मत्तेजोमयं चन्द्रापीडस्य शरीरं शापदोषादात्मशुन्यमपि, कृतशरीरान्तरसंक्रान्तेोगिन इवाऽत्रैव भवत्योः प्रत्ययार्थमा शापक्षयादास्ताम् । नेदमग्निना संस्कर्तव्यम् । यत्नतः पालनीयमा समागमप्राप्तेः ।। ___ अथ किमेतदिति विस्मयाक्षिप्तहृदयेषु सर्वेषु, आविष्टेव पत्रलेखा ‘विना वाहनमेकाकिनी प्रस्थिते देवे, न क्षणमपि शोभसे त्वम् इतीन्द्रायुधमाकर्षन्ती सह तेनाच्छोदसरस्यपतत् । तत्क्षणमेव च तस्मादच्छोदाम्भसो निर्गत्य कपिजलो महाश्वेतामुपजगाम । सपहर्षं कृतवन्दनया तया सर्वं वृत्तजातं पृष्टोऽसौ जगाद - "-'क्व मे प्रियसुहृदमपहृत्य गच्छसि इत्यभिधाय पुण्डरीकशरीरमुत्क्षिपन्तं तं पुरुषमनुबध्ननहं तेन सह चन्द्रलोकं गतोऽस्मि । पुरुषोऽसौ स्वयं चन्द्रमाः । असौ तच्छरीरं पर्यः स्थापयित्वा मामवादीत् - "कपिजल ! जानीहि मां चन्द्रमसम् । अनेन (पुण्ड.)हि स्वव्यापारमनुतिष्ठनहम् 'यथाहमप्राप्तप्रियासमागम एव त्वया प्राणैर्वियोजितस्तथा त्वमपि कर्मभूमिभूतेऽस्मिन्भारते जन्मनि जन्मन्येवोत्पन्नानुरागोऽप्राप्तप्रियासमागमो जीवितमुत्सक्ष्यसि इति निरपराधमेव शप्तः । शापक्रोधाज्वलितोहम् 'त्वमपि मत्तुल्यदुःखसुख एव भविष्यसि' इति प्रतिशापमस्मै प्रायच्छम् । अपगतामर्षश्च महाश्वेताव्यतिकरं विवेकेन विचार्य दयमानहृदयोहम्, मद्दत्तशापदोषमोचनपर्यन्तमस्य शरीरं मा व्यनशदिति शरीरमिदमानैषमहम् । वत्सा च महाश्वेता समाश्वासिता । तदनेन स्वयंकृतादात्मदोषान्मया सह मर्त्यलोके जन्मनि जन्मनीति वीप्सावशाद्, वारद्वयमवश्यमुत्पत्तव्यम् । त्वमिदं वृत्तं प्रतिकारं कर्तुं चेतकेतवे निवेदय । 'अहं तु वयस्यशोकान्धतया सुरवर्त्मनि धावनेन वैमानिकमेकं लङ्घयन् कोधोद्दीप्तेन तेन- 'तुरङ्गम इव मामवहेलयन् तुरङ्गम एव भूत्वा त्वं मर्त्यलोकेऽवतर' इति शप्तोऽस्मि । शापप्रतिसंहाराय बहुशः कृतानुनयोऽसौ जगाद - 'उज्जयिन्यामपत्यहेतोस्तपस्यतस्तारापीडनाम्नो राज्ञश्चन्द्रमसा तनयत्वमुपगन्तव्यम् । वयस्येनापि ते पुण्डरीकेण तन्मन्त्रिण एव शुकनासस्य (तनयत्वम्.) । त्वमपि तस्य चन्द्रात्मनो राजपुत्रस्य वाहनतामुपगत्य सहचारी भविष्यसि । अहं तु तद्वचनानन्तरमेव महोदधौ निपत्य तुरगीभूयोदतिष्ठम् । पूर्वजन्मप्रभावात्सर्वं स्मरनहमेव किनरयुग्मानुसरणप्रसङ्गेन चन्द्रावतारं चन्द्रापीडमिहाऽऽनयम् । योऽसौ प्राक्तनसंस्कारात्त्वामभिलषन् त्वया शापाग्निना दग्धः सोऽपि मे सुहृदः पुण्डरीकस्यावतारः । 'हन्त पुनरपि निघृणया मयैव देवः पुण्डरीको निपातितः' इति सोरस्ताडं विलपन्ती महाश्वेताम् ‘अचिरादेव पुनः समागमो भवेत्' इत्याश्वास्य कपिञ्जलः श्वेतकेतोः समीपमुदपतत् । गते तस्मिन् पुनः समागमोपदेशेन समाधास्यमाना कादम्बरी शिलातले चन्द्रापीडतनुमवस्थाप्य प्रयता देवोचितं पूजयन्ती तस्थौ । इतो जलदकालात्यये चन्द्रापीडवार्तामादाय प्रतिगतदूतमुखेन 'शापच्युतदिव्यप्रकृतीनामखिलं मङ्गलोद भविष्यतीति' समाचासेन मरणव्यवसायानिवार्यमाणा अपि तारापीडशुकनासादयः सान्तःपुरपरिजनाः स्नेहवशादखिलप्रजाभिरनुगम्यमानाश्चन्द्रापीडदर्शनाय तत्राजग्मुः । तत्र च शयानस्येवाऽविकृतां चन्द्रापीडस्य तनूमालोक्य विस्मिताः सर्वे सौन्दर्यपातिव्रत्याधिदेवतामन्वहमुपचरन्ती कादम्बरीमभिननन्दुः । कादम्बरीमहाश्वेताप्रबन्धेन राजोचितसपर्ययोपचर्यमाणोऽपि सप्रजापरिजनो राजा तपस्विजनचर्ययाऽऽश्रमभूमिमिमामधितष्ठौ । हारीतप्रमुखानामृषीणां सविधे सर्वमिमं वृत्तान्तं कथयित्वा भगवान् जाबालिः सस्मितमवादीत् - 'योऽयं कामोपहततया दिव्यलोकात्परिभ्रश्य वैशम्पायननामा शुकनाससूनुरभूत्स एवैष कुपितस्य पितुराक्रोशान्महाश्वेताशापाच्चास्यां शुकजातौ पतितोऽस्ति' - ।" राज्ञः शूद्रकस्य सविधे शुकः स्ववृत्तान्तं कथयति यत् - 'एवं वदत्येव जाबालौ सुप्तप्रबुद्धस्येव मे सकलविद्यानां पूर्वपरिचितवस्तूनां च परिचयो यथावदभूत, आसीच्च मनुजस्येव वाक् । जाबालिपुत्रेण हारीतेन स्नेहादुपचर्यमाणोपि चन्द्रापीड-महाश्वेतादीनां स्मरणवशादुत्कण्ठया ताम्यन् पक्षोद्धेदपर्यन्तं कालं तत्र यथाकथंचिदगमयम् । पितुः (वेतकेतोः) समीपादागतेन कपिञ्जलेन दुर्दैवावसानं यावत्तत्रैवावस्थातुमागृहीतोऽपि उत्पतनसामर्थ्योदये एव महाघेतादीनां दर्शनार्थमुत्तरदिङ्मुखो नभस्युदपतम् । अशक्ततया क्षुत्तृड्भ्यां परीतोऽहं विश्रमार्थं यावनिशि मार्गतरौ विश्राम्यामि तावदेव प्रातस्तन्तुपाशैर्बद्धं चाण्डालहस्तगतं चात्मानमालोकयम् । ततः पक्कणाधिपतिदुहित्रा चाण्डालदारिकया पञ्जरे (कादम्बरीसारः।। Page #11 -------------------------------------------------------------------------- ________________ निबध्य मुनिभोजनोचितैः फलादिभिरेव यौवनमुपनीतोऽस्मि । कियत्कालानन्तरमेकदा प्रातरकस्मादात्मानं सुवर्णपञ्जरगतं तां च चाण्डालदारिकामीदृशीमपश्यं यादृशी देवेनाद्य दृष्टा । यावदहमाश्चर्यमिदं जिज्ञासितुं मौनमुत्सृजामि तावदेव सेयं मामादाय देवपादमूलमायाता । तत्केयम्, किमर्थं वाऽहमाबध्य इहानीत इत्यस्मिन्विषये भवानिवाहमप्यनपगतकुतूहल एवास्मि" इत्युक्त्वा शुको विरराम । प्रवृद्धकुतूहलेन राज्ञाऽऽहूता चाण्डालकन्यका त्वागत्य स्वतेजसा राजानमभिभवन्ती प्रागल्भ्येन बभाषे - 'कादम्बरीलोचनानन्द चन्द्र ! सर्वस्त्वयाऽस्य दुर्मतेरात्मनश्च पूर्वजन्मवृत्तान्तः श्रुत एव । अस्मिन् शुकजन्मन्यपि पित्रा निषिद्धेऽपि सोऽयं परिचितप्रणयाय प्रस्थित इत्यनेन स्वयं कथितम् । अहमस्य दुरात्मनो जननी श्रीः । दुर्देवशमनपर्यन्तं मर्त्यलोके एवैनमभिरक्षितुं पित्राऽस्य समादिष्टा, तथाप्रस्थितमेनमिहानीतवती । भवतश्चास्य च शापावसानसमयः । तद् द्वावपि दुःखबहुले तनू परित्यज्य सममेव स्वेष्टजनसमागमसुखमनुभवतम्' इति कथयन्त्येव विद्युदिव चमत्कृत्य क्षितेर्गगनमुदपतत् । जन्मान्तरस्मरणेन द्वयोरपि (शूद्रकवैशम्पायनयोः) शरीरं काष्ठीभूतमभूत् । इतो मनोवृत्तिमुद्दीपयतो वसन्तस्य विजृम्भणेन सहसैव प्रोद्दीपितरागा कादम्बरी आत्मानं धारयितुमपारयन्ती तां चन्द्रापीडतनुं रागाद्यावत्कण्ठे गृह्णाति तावदेव कादम्बरीस्पर्शतो निवृत्तशापस्यास्य पुनः परववृते जीवः । सुप्तप्रबुद्ध इवायमवादीत् 'प्रत्युज्जीवितोऽस्मि तवानेन कण्ठग्रहेण । निवृत्ता सा शुद्रकाख्या तनुः । तव प्रियसख्या महाश्वेताया अपि प्रियतमो मयैव सह निवृत्तशापः ' । इत्यभिदधत्येव कपिञ्जलकरावलम्बी गगनादवतरन्पुण्डरीकोऽपि संमुखमदृश्यत । यावत्कादम्बरी प्रियसखीं महाश्वेतां प्रियसमागमप्रियाख्यानेनाभिवर्द्धयति तावदेव विलासवतीतारापीडादयोऽपि समागत्य परमं प्रमोदमन्वभवन् । चन्द्रात्मकत्वेऽपि तारापीडादीनां पूर्ववत्पादयोः प्रणमस्तैश्चाशीर्भिरभिवर्द्धितश्चन्द्रापीडः स्वपित्रोस्तत्पित्रोश्च 'एष वो वैशम्पायनः' इति विनयविलक्षवदनं पुण्डरीकमदर्शयत् । अस्मिन्नवसरे कपिञ्जलः समुपसृत्य शुकनासमवादीत् - ' एवं संदिष्टमार्यस्य श्वेतकेतुना - अयं पुण्डरीकः केवलं संवर्द्धितो. मया, आत्मजः पुनस्तव । अस्यापि भवत्स्वेव लग्नः स्नेहः । तद्वैशम्पायन इत्येवावगत्याऽयमविनयेभ्यो निवारणीयः' । अपरेद्युः सकलगन्धर्वानुगतौ मदिरा - गौरीभ्यां सह चित्ररथ - हंसौ गन्धर्वराजावपि तत्रैवाजग्मतुः । चित्ररथश्चन्द्रापीडविवाहाय स्वराजधानी नेतुं तारापीडं प्रार्थयत । तारापीडस्तं प्रत्यवादीत् - 'गन्धर्वराज ! मदीयं सर्वस्वमपि मया ते जामातरि संक्रमितम् । संप्रत्यहं सर्वं सुतसात्कृत्य तपोवन एव निवस्तुमिच्छामि ।' सर्वैः सह हेमकूटं गतश्चित्ररथः । कादम्बर्या सह समग्रमेव स्वं राज्यं चन्द्रापीडाय न्यवेदयत् । हंसोऽपि पुण्डरीकाय समं महाश्वेतया निजपदमदात् । एकदा विषण्णमुखी कादम्बरी चन्द्रापीडमूर्ति चन्द्रमप्राक्षीत् - 'आर्यपुत्र ! सर्वे वयं वियुक्ताः परस्परं संघटिताः । सा पुनर्वराकी पत्रलेखा न दृश्यते ।' चन्द्रापीडः प्रत्यवादीत् - 'सा खलु मद्दुःखदुःखिता रोहिणी । शापवशान्महीमागतेन मया सह स्नेहादवतीर्णा । संप्रति मया साऽऽत्मलोकं विसर्जिता, तत्रैव तां पुनर्द्रक्ष्यसि ।' एवं पुण्डरीके समारोपितराज्यभारः परित्यक्तस्वकार्ययोः पित्रोः पादावनुचरन्, कदाचिदुज्जयिन्यां कदाचिद्धेमकूटे कदाचिच्च पुण्डरीकप्रीत्या लक्ष्मीनिवाससरसि, यथेच्छं विहरश्चन्द्रापीडमूर्तिश्चन्द्रः कादम्बर्या सह, कादम्बरी महाश्वेतया सह महाश्वेता पुण्डरीकेण सह, पुण्डरीकोऽपि चन्द्रमसा सह परस्परावियोगेन सुखान्यनुभवन्तः सर्वे परां कोटिमानन्दस्याऽध्यगच्छन् । (‘कादम्बरी-सार' इत्यभिलेखस्य पूर्वावृत्तितः साभारमत्र प्रस्तुतिः ) 10 कादम्बरीसारः Page #12 -------------------------------------------------------------------------- ________________ ७-१४ गावाना............. ४७ ............. ५० - urrour 9 MI9 - - - : ............ ........... (: विषयानुक्रमणिका :) पूर्वभागे क्रमः विषयाः पृष्ठाङ्काः क्रमः विषयाः पृष्ठाकाः मङ्गलाचरणम् .... .१-२ ४२ स्वप्नविषयालोचनम् ......... ............. १४७ २ सुजनदुर्जनाख्यानम् ..... ३-४ ४३ गर्भवार्तावगमः ..... .............१४९-१५२ कविवंशवर्णनम् ......................... ............... ५-६ गर्भवती विलासवती ............................. १५३-१५४ शूद्रकवर्णनम् ..... ४५ राज्ञो गर्भवाविगमः .............. १५५-१५६ शुकमादाय चाण्डालकन्यकायाः प्रवेशः चन्द्रापीडजन्मोत्सवः ............ ............. १५७ शूद्रकवर्णनम् ............. ............१७-२० सूतिकागृहवर्णनम् .. .............१५९-१६१ चाण्डालकन्यकावर्णनम् ........ २१-२४ ४८ जातस्य कुमारस्य वर्णनम् ........ शुकप्रशंसा .... ........... २५-२७ शुकनासपुत्रजन्मोत्सवः .. १६५ शूद्रकसभाविसर्जनम् ........ ......... २८-३० चन्द्रापीडस्य शिक्षा .............. शूद्रकस्नानम् ...... ...........३१-३४ चन्द्रापीडस्य यौवनोद्गमः .......... ११ सभामण्डपवर्णनम् .. ........... ३५-३६ तारापीडस्य गृहागमनादेशः ........... ............. १२ शुककथारम्भः ...........३७-३८ इन्द्रायुधः ....................................... १७३-१७७ विन्ध्याटयी ............... ...........३९-४३ चन्द्रापीडस्य विद्यागृहात् प्रत्यावर्तनम् .................... १७९ अगस्त्याश्रमः......... ...............४५ नगरं प्रति प्रस्थानम्.................................... १८१ पम्पासरः............. ...........४७-५० चन्द्रापीडप्रवेशे पुरनारीणां भावाः ....................... १८३ शाल्मलितरुः ......... ...........५१-५२ चन्द्रापीडप्रवेशे नारीणां भावालापाः ............... १८५-१८८ शुकानां निवासादि. राजभवनम् ......................................१८९-२०२ शुकोत्पत्तिः ......... चन्द्रापीडस्य मातापित्रोदर्शनम् .................... २०३-२०६ १९ प्रभातवर्णनम्...... चन्द्रापीडस्य शुकनाससाक्षात्कारः ................. २०७-२०९ २० शबरमृगया .......... ............. चन्द्रापीडस्य शुकनास-तत्पत्नीसाक्षात्कारः ............... २१० मृगया कोलाहलः. .............. सन्ध्यावर्णनम् ....................................२११-२१४ २२ शबरसैन्यवर्णनम् .... .............. ६३ ६३ चन्द्रापीडस्य मृगया..... २१५ २३ शबरसेनापतिः... ...........६५-६८ चन्द्रापीडस्य विश्रामभोजनादिव्यापारः.................... २१७ शबरचरित्रालोचनम् ............ ...........६९-७२ ताम्बूलकरङ्कवाहिन्याः परिचयः ....................... २१९ शुकंस्य पतनम् ............. ............... ७३ शुकनासोपदेशः .......... .................... २२१-२३८ शुकस्य स्वदशार्णवनम् ...........७५-७७ ६७ चन्द्रापीडस्य दिग्विजययात्रा . ............ २३९-२५४ हारीतवर्णनम् ........ ........ ७८-८२ दिग्विजयः....... .............. २५५ जाबाल्याश्रमः ............. ...........८३-८९ ६९ किन्नरमिथुनाऽप्राप्तौ निर्वेदः ...................... २५७-२५९ जाबालिः................. .........९०-१०० जलान्वेषणम् ... ............. २६१ शुकस्य स्ववृत्तान्तः ............ ............. १०१ अच्छोदसरः ..................................... २६३-२६८ ३१ सन्ध्यावर्णनम् ....... १०३-१०४ जलपान-विश्रामौ... ............ ......................... २६९ रात्रिवर्णनम् . .......१०५-१०८ शिवसिद्धायतनम् ............. .................. २७१-२७६ __ कथारम्भः-उज्जयिनी.. ....... १०९-१२० ७४ महावेता ....... .............. २७७-२८६ तारापीडः ....... १२१-१२६ महाश्वेताकृतमातिथ्यम् .......... .......... २८७-२८९ शुकनासवर्णनम् ........... ............. १२७ महाश्वेतां प्रति प्रश्नः. राज्ञो भोगविलासः .......... ....... १२९-१३२ महाश्वेताया वृत्तान्तः ........... शुकनासगौरवम् ७८ महाश्वेताजन्म....................... ............ २९५ विलासवतीगौरवम् ............. महाश्वेतास्नानागमनवृत्तान्तः ........... ............ २९७ विलासवतीदुःखप्रश्नः .......... ८० पुण्डरीकः ....................................... २९९-३०२ ४० राज्ञा विलासवतीसान्त्वनम् ....... ............. १३९ तदर्शने महाचेताया अवस्था..................... ३०३-३०६ विलासवत्या देवताराधनम् ......... ....... १४३-१४६ ८२ महाश्वेतादर्शने पुण्डरीकावस्था...... ............. ३०७ ............. : : - - My my my - ७९ : .............. (विषयानुक्रमणिका Page #13 -------------------------------------------------------------------------- ________________ पूर्वभागे my ............. : my my : سه سه سه سه له له له سه क्रमः विषयाः पृष्ठाङ्काः ८३ पुण्डरीकजन्मवृत्तान्तः ....... ३०९-३११ पुण्डरीकाय कपिञ्जलोपदेशः ....... ...........३१३ विरहातुरा महाचेता. ............ ३१५ पुण्डरीकस्य प्रवृत्तिनिवेदनम् ........ ........३१७-३२० महाचेताया विह्वलता. .............. ३२१ कपिजलस्यागमनम् ............ ३२३ मदनार्तपुण्डरीकस्य दशा ............ ......... ३२५ कपिजलकृत उपदेशः ............. ............. पुण्डरीकोपचारः............... पुण्डरीककृते कपिजलस्य चिन्ता ....... ........... महाश्वेताया स्वकर्तव्यविचारः ......... ३३७ चन्द्रोदयः ........... ............. ३३९ महाश्वेताया अभिसारः ............ ......... ३४१-३४७ ९६ उपरतः पुण्डरीकः .........३४९-३५१ महाश्वेता-विलापः .................. .........३५३-३५६ पुण्डरीकशरीरस्य गगने नयनम् ......... ............. ३५७ ९९ महाचेतावृत्तान्तोपसंहारः... ............. ३६१ १०० चन्द्रापीडस्य महाश्वेतासान्त्वनम् .......... .........३६३-३६८ १०१ महाश्वेता-चन्द्रापीडयोः सान्ध्यविधिः ........ ............ ३६९ १०२ कादम्बरीजन्मादिकथा .......... ३७१ १०३ केयूरकेण सह तरलिकाया आगमनम् ...... १०४ कादम्बर्याः प्रतिसंदेशः .. १०५ कादम्बरीभवनप्राप्तिः ... ............. १०६ कुमारीपुरस्य वृत्तान्तः ........ १०७ कुमारीपुरकौतुकानि.. ............. १०८ कुमारीपुरवृत्तान्तः ............. ............. ३८५ १०९ कादम्बरीवर्णनम् ............. .........३८७-३९४ ११० कादम्बरीचन्द्रापीडयोमिथोभावावेशः .... ............. ३९५ क्रमः विषयाः पृष्ठाङ्काः १११ चन्द्रापीडदर्शने कादम्बर्या भावावेशः .............. ३९७-४०२ ११२ शुकसारिकामुखेन कौतुकारम्भः .................... ४०३ ११३ कादम्बर्या स्वविकारजा चिन्ता .................... ४०५-४०८ ११४ चन्द्रापीडस्य मनसि विचाराः......................४०९-४११ ११५ कादम्बरीप्रहितमदलेखाऽऽगमनम् ..................... ४१३ ११६ कादम्बरीप्रहितहारदर्शनम् ................. .............. ४१५ ११७ कादम्बरीप्रहितोपहारसमर्पणम् ..................... ४१७-४१९ ११८ सन्ध्यावर्णनम् ................. ....................... ४२१ ११९ काद०चन्द्रापी० प्रीतिवर्धक उपचारः .............. ४२३-४२५ १२० चन्द्रापीडस्य कादम्बर्युपगमनम् ....... १२१ चन्द्रापीडस्य गृहप्रस्थानम् ........... १२२ कादम्बर्याः संवादप्रेषणम् ............ १२३ कादम्बरीविषयकः प्रश्नः .... ............... ४३३ १२४ चन्द्रापीडस्य पुनः कादम्बरीभवने प्रयाणम् ............... ४३५ १२५ कादम्बरीभवने शीतोपचारसज्जा .............४३७-४४१ १२६ उत्कण्ठिता कादम्बरी ............. .......... ४४१-४४५ १२७ द्वयो सभङ्गि भाषणम् ............... ................. ४४७ १२८ स्कन्धावारे तारापीडस्य पत्रप्राप्तिः ... १२९ चन्द्रापीडस्योज्जयिनीप्रस्थानम् .......... १३० मार्गे शून्याटवी..... १३१ रक्तध्वजस्य दर्शनम् ... .............. ४५५ १३२ चण्डिकावर्णनम् ............... .............४५७-४५९ १३३ जरद्रविडधार्मिकवर्णनम् .............. ४६१ १३४ द्रविडधार्मिकपरिचयः ........... १३५ उज्जयिनीप्रवेशः ............... १३६ पत्रलेखाया आगमनम् ............. ..............४६७ १३७ पत्रलेखातः कादम्बरीवृत्तश्रवणम् ..................४६९-४८० ९८ or ........... ............... M : : له سه : ४६३ قسم मान.......... ........... ४६५ 12 | विषयानुक्रमणिका) Page #14 -------------------------------------------------------------------------- ________________ कादम्बरी पूर्वभागः । रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे । अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ १ ॥ *********** श्रेयःश्रीललनाविलासकुशलः पायादपायात्स वः श्रीमन्नाभिनरेन्द्रसनुरमरैः संसेव्यमानान्तिकः । रेजे यस्य कचावली भुजशिरोदेशे लुठन्ती प्रभोलग्ना शैवलमञ्जरी भवसरित्पारं प्रयातुः किमु ॥ सर्वेऽन्ये जनतानिषेविततया मानाभिभूता भृशं मन्यन्ते तृणवत्रिलोकमखिलं दुर्बुद्धिबद्धाशयाः । कृत्स्नैश्चर्यजुषापि येन सुधिया देवेन्द्रसेव्याङ्ग्रिणा नैवाकारि कदापि गर्वमलिनं चेतः स शान्तिः श्रिये ।। यत्कीर्तिर्धवलीचकार सहसा ब्रह्माण्डभाण्डोदरं दाशार्होऽपि तदन्तरा निपतितः सद्यो न संलक्षितः । तेनाद्यापि निरीश्वरं जगदिदं जल्पन्ति सांख्यादयः स श्रीनेमिजिनेश्वरो भवभृतां देयादमन्दा मुदम् ।। मूर्ध्नि न्यस्तद्विजिह्वाधिपतिफणगणस्पष्टसंरम्भदम्भाद्धत्ते यः सप्तविश्वाद्भुतपरममनोहारिसाम्राज्यलक्ष्मीम् । नम्रालुस्वर्गिमौलिप्रकरमणिलसत्कान्तिभिश्चित्रिताङ्ग्रिः स श्रीपार्धाधिराजो भवतु भवभिदे पार्श्वसंसेव्यमानः ।। यद्वाचामधिकां विलासपदवीमीहेद् भृशं भारती यत्सत्त्वैकपरम्परां कलयितुं सिंहोऽङ्कदम्भादियात् । यत्सौन्दर्यदिदृक्षयेव समभूदक्ष्णां सहसं हरेः स श्रीवीरविभुर्ददातु भविनां शश्चन्मनोवाञ्छितम् ॥ श्रीमत्तपःपक्षसहसदीधितिः श्रीहीरसूरिः समभून्महोदयः । यद्वक्त्रसौन्दर्यगुणं विलोकयन्ययौ सुरौघः किमु निर्निमेषताम् ॥ अनन्यसौजन्यगुणैर्गरीयान्विशिष्टशिष्टाचरणैर्वरीयान् । तत्पट्टपाथोनिधिपूर्णचन्द्रो विराजते श्रीविजयादिसेनः ॥ तत्पट्टोदयचूलावलम्बिपूर्णेन्दुसंनिभः श्रीमान् । श्रीविजयतिलकसूरि रिगुणैर्भूषितो जयति । तत्संप्रदाये प्रथितप्रभावो बभूव दानर्षिरतिप्रसिद्धः । यदीयवैराग्यकथा प्रवक्तुं प्राप्तो गुरुः किं हरिसंनिधानम् ॥ Page #15 -------------------------------------------------------------------------- ________________ जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपासवः ॥ २ ॥ *********** तद्दीक्षितानेकविनेयवर्गमुक्तालतामध्यमणिप्रकारः । श्रीवाचकेन्द्रः सकलादिचन्द्रो बभूव विश्वाद्भुतवाग्विलासः ॥ श्रीसूरचन्द्रः समभूत्तदीयशिष्याग्रणीायविदां वरेण्यः । यत्तर्कयुक्त्या त्रिदिवं निषेवे तिरस्कृतश्चित्रशिखण्डिजोऽपि ॥ तदीयपादाम्बुजचञ्चरीको विराजतेऽद्धा हरिधीसखाभः । श्रीवाचकः संप्रति भानुचन्द्रो ह्यकब्बरक्ष्मापतिदत्तमानः । श्रीशाहिचेतोब्जषड ितुल्यः श्रीसिद्धचन्द्रोऽस्ति मदीयशिष्यः । कादम्बरीवृत्तिरियं तदीयमनोमुदे तेन मया प्रतन्यते ॥ इह हि विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं प्रारिप्सितविघ्नविघातफलकं हिरण्यगर्भनमस्कारात्मक मङ्गलमाचरति - रजोजुष इति । अजाय स्वयंभुवे नम इत्यन्वयः । किंभूताय । प्रजानां जन्मनि सृष्टिकाले रजोजुषे रजोगुणयुक्ताय । पुनः किंविशिष्टाय । प्रजानां स्थितौ स्थितिकाले सत्त्ववृत्तये सत्त्वस्य वृत्तिर्यस्मिन् । सत्त्वगुणयुक्तायेत्यर्थः । पुनः किंलक्षणाय । प्रजानां प्रलये विनाशकाले तमःस्पृशे तमोगुणयुक्ताय । अमीषां च गुणानां लक्षणम् ‘सत्त्वं लघु प्रकाशकं च, चलमवष्टम्भकं च रजः, गुर्वावरणं च तमः' इति द्रष्टव्यम् । जन्मनि स्थितौ प्रलये चेति निमित्तसप्तमी वा । पुनः किंविशिष्टाय । सर्गस्थितिनाशहेतवे प्रजानामित्यस्य सर्वत्रानुषङ्गः । तेन प्रजानां सर्गः स्थितिश्च नाशश्च तेषां हेतवे कारणीभूताय । पुनः किंलक्षणाय । त्रयीमयाय । त्रयी ब्रह्मविष्णुमहेशानाम् । वेदानां वा त्रयी तन्मयाय तत्स्वरूपाय । पुनः किंविशिष्टाय । त्रिगुणात्मने ब्रह्मविष्णुमहेशात्मकत्वेन तत्तद्गुणयोगात्रिगुणात्मकाय । सत्त्वरजस्तमोगुणस्वरूपायेत्यर्थः । तादृशाय पितामहाय नम इति प्राचीनव्याख्या ॥ अत्र च व्याख्याने विधेः सृष्टिमात्रकर्तृत्वेन केवलं रजोगुणस्यैव संबन्धात्रिगुणात्मकत्वमतिविरुद्धम् । किं च विधेस्तमोगुणवत्त्वे सत्त्वगुणवत्त्वे वा शिवत्वं विष्णुत्वं च व्यपदिश्येत । एतेषां त्रयाणां गुणभेदादेव मूर्तिभेद इति पौराणिकाः । अपि च पूर्वार्धे जन्मस्थितिप्रलयकर्तृत्वस्य रजोजुषे सत्त्ववृत्तये तमःस्पृश इत्यनेन त्रिगुणात्मकत्वस्यापि चोक्तत्वेन पुनरुत्तरार्धे मर्गस्थितिनाशहेतव इति त्रिगुणात्मनं इति च पुनरुक्तं स्यादिति प्रकारान्तरेण व्य इत्यन्वयः । किंभूताय । प्रजानां सर्गस्थितिनाशहेतवे । प्रजानामित्यनित्यमात्रपदार्थोपलक्षकम् । तेनानित्यपदार्थाना सर्गस्थितिनाशकारणायेत्यर्थः । अनित्यपदार्थानां सृष्टिस्थितिनाशहेतुत्वं च श्रुतिसिद्धम् । 'जगत्कारणं ब्रह्म' इति श्रुतेः । पुनः किंभूताय । त्रयीमयाय । त्रयी वेदानां त्रयी तत्त्स्वरूपाय । 'वेद एव परं ब्रहा' इत्युक्तत्वात् । यद्वा । त्रयी ब्रहाविष्णुमहेशानां त्रयी तत्स्वरूपाय । यथा मृद उत्पन्नेऽपि घटे मृन्मय इति व्यवहारस्तथा ब्रह्मणस्त्रयाणामुत्पादकत्वेऽपि त्रयीमयत्वव्यवहारः समुचितः । ब्रह्मविष्णुमहेशास्त्रयो जीया एवेति वेदान्तिनः । अत एव त्रिगुणात्मकाय । भेदाभेदविवक्षयेत्यर्थः । तस्य परब्रह्मणः कथं ब्रह्मविष्णुमहेशात्मकत्वमत आह-प्रजाना जन्मनि सृष्टौ रजोजुट् प्रजापतिस्तत्स्वरूपायेत्यर्थः । पुनः प्रजानां स्थितौ सत्त्ववृत्तिर्विष्णुस्तत्स्वरूपाय । पुनः प्रजानां प्रलये तमःस्पृक् शिवस्तत्स्वरूपाय । यथैकस्यैव स्फटिकस्य नीलपीतादिगुणसंबन्धानीलः पीत इति व्यवहारस्तथैकस्यैव परब्रह्मणः सृष्टिकाले रजोगुणसंवन्धाद् ब्रहोति, स्थितिकाले सत्त्वसंबन्धाद्विष्णुरिति, प्रलये तमःसंबन्धादीश्वर इति व्यवहारः । तेन परब्रह्मण एवायं नमस्कार इति किं बहुना ॥१॥ जयन्तीति । त्र्यम्बकस्य शिवस्य पादपांसवश्चरणरेणवो जयन्ति । सर्वोत्कर्षेण वर्तन्त इत्यर्थः । कथंभूताः । बाणासुरेति । वाणो बाणनामासुरस्तस्य मौलिना मुकुटेन मस्तकेन वा लालिताः परिचिताः । पुनः किंविशिष्टाः । कादम्बरी । Page #16 -------------------------------------------------------------------------- ________________ जयत्युपेन्द्रः स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्येया । दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिनमिवासपाटलम् ॥३॥ नमामि भेत्सोश्चरणाम्बुजद्वयं सशेखरैर्मोखरिभिः कृतार्चनम् । समस्तसामन्तकिरीटवेदिकाविटङ्कपीठोल्लुठितारुणाङ्गुलि ॥४॥ __ अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते । विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥५॥ कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनश्रृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥६॥ *********** दशास्येति । दशास्यो रावणस्तस्य चूडामणयः शिरोमणयस्तेषां चक्र समूहं चुम्बन्ति स्पृशन्तीत्येवंशीलाः । पुनः किंविशिष्टाः । सुरेति । सुराश्चासुराश्च तेषामधीशाः स्वामिनस्तेषां शिखाः चूडास्तासामन्तः प्रान्तस्तत्र शेरत इत्येवंशीलाः । पुनः किंविशिष्टाः । भवच्छिदः संसारविच्छेदिन इत्यर्थः । अत्र पूर्वविशेषणत्रयेण परमेश्वरचरणरजसः परमैश्वर्यं भवच्छिद इत्यनेन च संसारिणां संसारदुःखनिवारकत्वमुक्तमिति ॥२॥ जयतीति । स उपेन्द्रो विष्णुसिंहावतारी जयति सर्वोत्कृष्टत्वेन वर्तते । स कः । यो नृसिंहो बिभित्सया भेत्तुमिच्छया दूरतो दूरादिव क्षणं लब्धं लक्ष्यमवलोकनैकाग्रत्वं यया अत एव कोपेन रोषेण अरुणया आरक्तया दृशैव दृष्ट्यैव रिपोः शत्रोर्हिरण्यकशिपोः उरो वक्षःस्थलमसं रुधिरं तद्वापाटलमारक्तं चकार । भयाद्विदारणभीत्या स्वयमेव भिन्नमिवेति कवेरुत्प्रेक्षा ॥३॥ शश्वद्गुरोर्नमस्कारं कुर्वनाह-नमामिति । भत्सुरिति गुरोर्नाम । कचित्तु 'भत्सुः' इति पाठः । तस्य चरणाम्बुजद्वयं पादकमलयुगल नमामि नमस्करोमि । किंभूतम् । सशेखरैः समुकुटैर्मोखरिभिः क्षत्रियविशेषैः कृतं विहितमर्चनं पूजनं यस्य तत्तथा । पुनः किंविशिष्टम् । समस्तेति । समस्ताः समग्रा ये सामन्ता विषयान्तरराजानस्तेषां किरीटानि कोटीराण्येव वेदिका परिष्कृता भूमिः । विस्तीर्णत्वात्त-त्साम्यम् । तस्या विटड्डो मध्य उन्नतप्रदेशः । विटङ्कशब्दस्य कपोताद्याधारभूतकाष्ठवाचित्वेऽप्यत्र लक्षणयोन्नतत्वमात्रवाचित्वम् । विटङ्ग एव पीट स्थल तत्रोल्लुटिता घृष्टा अत एवारुणा रक्ताः । तत्रत्यरक्तादिसंबन्धात्स्वभावेन चारुणा अङ्गुलयः करशाखा यस्येति तत्तथा ॥४॥ अकारणेति । असज्जनात्खलात्कस्य साधोभयं साध्वसं न जायते न भवति । अपितु सर्वस्यापि भवतीत्यर्थः । कथंभूतादसज्जनात् । अकारणेत्यादि । अकारणनिमित्तमेवाविष्कृतं प्रकटीकृतं यद्वैरं विरोधः तेन दारुणात् क्रूरानिष्ठुरात । यस्य खलस्य सदा निरन्तरं मुख आनने संनिहितं निकटस्थं दुर्वचो दुष्टवचनं सदुःसहमत्यन्तोद्वेगजनकं भवति । यथा महाहेर्महोरगस्य विषं गरलं मुखे संनिहितं परमसंतापकत्वाद्दुःसहमित्युपमा ॥५॥ कट्विति । खला दुर्जनाः साधून्सज्जनानलमत्यर्थं तुदन्ति पीडयन्ति । किं कुर्वन्तः । क्वणन्तो रटन्तः । किम् । कटु । अर्थादुर्वचनमित्यर्थः । पुनः किंविशिष्टाः । मलदायकाः मलो मिथ्याकलङ्कस्तस्य दायकाः । आरोपका इत्यर्थः । क इव । बन्धनश्रृङ्खला इव । बन्धन मनुष्यादेस्तदर्थं श्रृङ्खला लोहनिगडा इव । तेऽपि कटु कुत्सितं शब्दायमाना मलः स्वसंपर्कात्स्वमालिन्यं तस्यारोपकाः स्वाच्छन्येन गतागतावरोधका भवन्तीति । उत्तरार्धेन साधूनस्तौति-सन्तः सुजनास्तु साधुध्वनिभिर्मनोहारिशब्दैर्वचनैः पदे पदे शब्दे शब्दे प्रतिक्षणं वा, मनश्चित्त हरन्ति गृह्णन्ति । क इव । यथा मणिखचिता नपुरा मञ्जीराणि पदे पदे अर्थात्कामिनीनां चरणप्रक्षेपे प्रक्षेपे साधुध्वनिभिर्मञ्जुलसिञ्जितहृदयहारिणो भवन्तीत्युपमा ॥६॥ १ 'बद्ध'. २ 'लक्षया'. ३ 'भो '. पूर्वभागः । Page #17 -------------------------------------------------------------------------- ________________ सुभाषितं हारि विशत्यधो गलान दुर्जनस्यार्करिपोरिवामृतम् । तदेव धत्ते हृदयेन सज्जनो हरिर्महारतमिवातिनिर्मलम् ॥७॥ स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम् । रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव ॥८॥ हरन्ति कं नोज्ज्वलदीपकोपमैर्नवैः पदार्थेरूपपादिताः कथाः । निरन्तरश्लेषघनाः सुजातयो महासजश्चम्पककुड्मलैरिव ॥९॥ बभूव वात्स्यायनवंशसंभवो द्विजो जगद्गीतगुणोऽग्रणीः सताम् । अनेकगुप्तार्चितपादपङ्कजः कुबेरनामांश इव स्वयंभुवः ॥१०॥ *********** - सुभाषितमिति । सुभाषितं सुकाव्यादि हारि मनोहार्यपि दुर्जनस्य खलस्य गलात् कण्ठानिगरणादधो न विशति न गच्छति । हृदयशून्यत्वादिति भावः । कस्येव । अर्करिपोः पीयमानममृतं यथा न हृदयं विशति पूर्वोक्तहेतोरेव । तदेव सुभाषितं सज्जनो गुणग्राहको हृदयेन स्वान्तेन धत्ते धारयति । स हृदयगतत्वान कदाचिद्विस्मरतीति भावः । यथा हरिः विष्णुारायणो हृदयेन वक्षःस्थलेनातिनिर्मल स्वच्छ महारत्नं कौस्तुभं दधाति ॥७॥ स्फुरदिति । अभिनवा कथा गद्यपद्यमयी रसेन श्रृङ्गारादिना कृत्वा जनस्य सहृदयजनस्य हृद्यन्तःकरणे कौतुकं कुतूहलमधिकं यस्मिस्तत्कौतुकाधिकाम् । कौतुकपूर्णमित्यर्थः । तादृशं रागं प्रीतिं करोति जनयति । किंभूता । स्फुरदिति । स्फुरच्चञ्चत्कलो मधुरो य आलापः शब्दरचना तस्य विलासो माधुर्यं तेन कोमला मृद्वी । अन्यत्रापि कथायामालापादिकं भवत्येवेति ध्वनिः । पुनः किंविशिष्टा । शय्यामभ्युपागता प्राप्ता । ‘शय्या तल्पे शब्दगुम्फे' इत्यनेकार्थः । यथाभिनवा नवोढा वधूः रसेन प्रेम्णा स्वयमेव अर्थाद्भर्तृजनस्य शय्या पल्यङ्कमागता कौतुकमनुरागं च करोति । किंभूता वधूः । स्फुरन् प्रसर्पन्यः कलो मन्द्र आलापविलासो वचनव्यापारस्तेन कोमला सुन्दरा । 'कोमलं मृदु सुन्दरे' इति विश्वः ॥८॥ हरन्तीति । नवैः स्वबुद्ध्यैव रचितैः पदार्थैः पदानां शब्दानामर्थैरभिधेयैः उपपादिता निर्मिता रचिताः कथा गद्यपद्यादिप्रवन्धः के सहृदयं जनं न हरन्ति न वशीकुर्वन्ति । सर्वस्यापि मनोहारिण्यो भवन्तीति भावः । कीदृशैः पदार्थैः । उज्ज्वलदीपकोपमैरुज्ज्वलः प्रकटो दीपकोऽलंकारविशेष उपमा च येषु ते तथा तैः । 'श्रृङ्गार शुचिरुज्ज्वलः' इत्यमरः । कीदृश्यः कथाः । निरन्तरेति । निरन्तरमव्यवधानां प्रतिपदं वा । उपमानोपमेययोरर्थसाम्यरूपः शब्दसाम्यरूपो वा यः श्लेषस्तेन घना बहुलतराः । पुनः किंभूताः । सुजातय इति । सुष्टु जातिश्छन्दोविशेषो यासु । यद्वा । सुष्टु जातिःस्वरूपं यासां ता इव । यथा नवैरम्लानैश्चम्पककुड्मलैहेमपुष्पकमुकुलैरुपपादिता महासजो महामाला मनो हरन्ति । अत्र यद्यपि कुड्मलैर्मालानिर्माणे नातीव रम्यत्वं तथाप्यग्रिमक्षणे विकासोन्मुखकुड्मलैर्मालानिर्माणे त्वौचित्यमेव । कीदृशैश्चम्पककुड्मलैः । उज्जवलो यो दीपकः प्रदीपस्तदुपमस्तत्तुल्यैः । किंभूता सजः । निरन्तरं यः श्लेषो ग्रथना तेन घना निबिडाः पुनः किंभूताः । सुष्टु जातयो जातिपुष्पाणि यासु ताः ॥९॥ कीर्त्यनुवृत्त्यर्थं स्ववंश्यानाह-बभूवेति । कुबेरनामा द्विजो ब्राहाणो बभूवासीत् । कथम्भूतः । यात्यायन इति । वात्स्यायननामा ऋषिस्तस्यायं वातस्यायनो वंशोऽन्वयस्तस्मिन्संभवः समुत्पन्नः । वत्सगोत्रीय इत्यर्थः । द्विज इति च द्विजोत्कृष्टत्वसूचनार्थम् । यथा गजमात्रस्य दन्तवत्त्वेऽप्युत्कृष्टदन्ते दन्तीति प्रयोगः । पुनः कीदृशः । जगदिति । जगति विश्वस्मित्रुद्गीता उत्प्राबल्येन गानविषयीकृता गुणाः शौर्यादयो यस्य स - कादम्बरी । Page #18 -------------------------------------------------------------------------- ________________ उवास यस्य श्रुतिशान्तकल्मषे सदा पुरोडाशपवित्रिताधरे । सरस्वती सोमकषायितोदरे समस्तशास्त्रस्मृतिबन्धुरे मुखे ॥११॥ जगुर्गृहेऽभ्यस्तसमस्तवाङ्मयैः ससारिकैः पञ्जरवर्तिभिः शुकैः । निगृह्यमाणा बटवः पदे पदे यजूंषि सामानि च यस्य शङ्किताः ॥१२॥ हिरण्यगर्भो भुवनाण्डकादिव क्षपाकरः क्षीरमहार्णवादिव । अभूत्सुपर्णो विनतोदरादिव द्विजन्मनामर्थपतिः पतिस्ततः ॥१३॥ विवृण्वतो यस्य विसारि वाङ्मयं दिने दिने शिष्यगणा नवा नवाः । उषःसु लग्नाः श्रवणेऽधिकां श्रियं प्रचक्रिरे चन्दनपल्लवा इव ॥१४॥ *********** तथा । पुनः कीदृशः । सताम् अग्रणीः साधूनामग्रेसरः । किंभूतः । अनेकेति । अनेकेऽसंख्या ये गुप्ता गुप्तनामाङ्किता वैश्यशूद्रादयः । तदुक्तम्- 'शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥' इति । तैरर्चितं पादपङ्कजं चरणसरोजं यस्य स तथा । पुनः कीदृश इव । स्वयंभुवो ब्रह्मणोऽशोऽवतार एकदेशरूप इव । अतिवैदिकत्वादिति भावः ॥ १०॥ 1 उवासेति । यस्य कुबेरद्विजस्य मुख आनने सरस्वती वाग्देव्युवास । वसति स्मेत्यर्थः । किंभूते मुखे । श्रुतीति । श्रुतिभिर्वेदाध्ययनैः शान्तमुपशमितं कल्मषं पापं यस्य तत्तथा । परमपवित्र इत्यर्थः । पुनः कथंभूते । सदेति । सदा सर्वकालं पुरोडाशेनाग्निहोत्रे देवेभ्यो दत्तहविःशेषेण पवित्रितः पावनीकृतोऽधर ओष्ठो यस्य तत्तथा तस्मिन् । पुनः किंविशिष्टे । सोमेति । सोमेन सोमयागे सोमसंज्ञकलतारसेन कषायितं किंचित्कटुकीभूतमुदरं मध्यभागो यस्य तत्तथा तस्मिन् । सोमस्य किंचित्कटुत्वादिति भावः । पुनः कीदृशे । समस्तेति । समस्तानि समग्राणि यानि शास्त्राणि व्यासादिप्रणीतसूत्ररूपाणि स्मृतयश्च मन्वादिप्रणीता धर्मनिबन्धास्तैर्बन्धुरम् । मनोहरमित्यर्थः : तस्मिन् ॥११॥ जगुरिति । यस्य कुबेरविप्रस्य गृहे बटवः शिष्यभूता ब्रह्मचारिणः शङ्किताः सत्रासाः सन्तो यजूंषि यजुर्वेदान् सामानि सामवेदांश्च जगुः । पठन्ति स्मेत्यर्थः । शङ्कितत्वे बीजमाह - किंभूता बटवः । निगृह्यमाणा निग्रहो निर्भर्त्सनं तेन त्रास्यमानाः । कस्मिन् । पदे पदे शुद्धपाठकैः शुकैः कीरैः । कथंभूतैस्तैः । ससारिकैः सारिकाभिः सह वर्तमानैः । अनेन सारिकाणामपि विद्यावत्त्वं सूचितम् । पुनः कथंभूतैः । पञ्जरवर्तिभिरिति । पञ्जरो लोहशलाकानिर्मितं पक्षिगृहं तत्र वर्तिभिः । तन्निष्ठैरित्यर्थः । पुनः कीदृशैः । अभ्यस्तेति । अभ्यस्तं जिह्वाग्रवर्ति समस्तं समग्रं चतुर्दशविद्यात्मकं वाङ्मयं येषां ते तथा तैः । समस्तविद्या पारंगतैरित्यर्थः । ' भवद्भिरशुद्धं पठ्यते । वयं गुरुनिकटे कथयित्वा ताडनं कारयिष्यामः ' ईदृशं शुकवचनमाकर्ण्य ते भीताः सन्तः पठन्ति बटवः । यद्गृहे शुकानामप्येतादृशज्ञानमिति तन्महिमोपवर्णनम् ॥१२॥ हिरण्येति । ततः कुबेरादर्थपतिनामा पुत्रोऽभूत् । किंभूतः । द्विजन्मनां ब्राह्मणानां पतिः श्रेष्ठः । कः कस्मादिव । यथा भुवनस्याण्डकं ब्रह्माण्डं तस्माद्धिरण्यगर्भः स्वयंभूः । हिरण्यगर्भोपमया वेदपारगत्वं सूचितम् । पुनः कः कस्मादिव । क्षीरमहार्णवाद्दुग्धोदधेः क्षपाकरः शशाङ्कः । क्षीरसमुद्रोत्थचन्द्रोपमया च समस्तजनाह्लादकत्वं सूचितम् । पुनः कः कस्मादिव । विनता पक्षिणी तस्या उदरात्कुक्षेः सुपर्णो गरुड इव । अनेन नारायणपरायणत्वं सूचितम् । गरुडपक्षे द्विजन्मनां पक्षिणाम् । ब्रह्मपक्षे चन्द्रपक्षे च द्विजन्मनां ब्राह्मणानां पतिरित्यपि योज्यम् ॥१३॥ विवृण्वत इति । नवा नवा नूतनाः । उत्तरोत्तरं बुद्धिशालिन इति यावत् । एतादृशाः शिष्यगणाश्छात्रचया यस्य अर्थपतेर्गुरोरधिकां श्रियं शोभां प्रचक्रिरे वितेनिर । पुनः किंभूतस्य यस्य । दिने दिन उषः सु - १ 'ग्रस्त'. पूर्वभागः । 5 Page #19 -------------------------------------------------------------------------- ________________ विधानसंपादितदानशोभितैः स्फुरन्महावीरसनाथमूर्तिभिः । मखैरसंख्यैरजयत्सुरालयं सुखेन यो यूपकरैर्गजैरिव ॥ १५॥ स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशास्त्रशालिनाम् । अवाप मध्ये स्फटिकोपैलोपमं क्रमेण कैलासमिव क्षमाभृताम् ॥१६॥ महात्मनो यस्य सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलामलत्विषः । द्विषन्मनः प्राविविशुः कृतान्तरा गुणा नृसिंहस्य नेखाङ्कुरा इव ॥१७॥ दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः । चकार यस्याध्वरधूमसंचयो मैलीमसः शुक्लतरं निजं यशः ॥ १८ ॥ *********** प्रातः समयेषु विसारि विसरणशीलं वाङ्गमयं चतुर्दशविद्यात्मकं विवृण्वतः । अध्यापयत इत्यर्थः । किंभूताः शिष्याः । श्रवणे गुरोर्वचनाकर्णने लग्नाः सावधानाः । यद्वा । श्रवणे कर्णे लग्नाः । जगद्विदिता इत्यर्थः । क इव । यथा चन्दनवृक्षस्य मलयजतरोः पल्लवाः किसलयानि नवा नवाः प्रतिदिनमम्लानाः श्रवणे कर्णे लग्नाः सन्तः शोभां कुर्वन्ति । रमण्या इति शेषः ||१४|| विधानेति । योऽर्थपतिरसंख्यैरगण्यैर्मखैर्यज्ञैः सुखेनाप्रयासेन सुरालयं स्वर्गमजयत् । आचक्रामेत्यर्थः । किंभूतैर्मखैः । विधानेति । विधानेन विध्युक्तमार्गेण संपादितं विहितं यद्दानं ब्राह्मणेभ्यः स्वर्णादिप्रतिपादनं तेन शोभितैः । विशिष्टदक्षिणैरित्यर्थः । पुनः किंभूतैः । स्फुरदिति । स्फुरन्त उज्ज्वलन्तो ये महावीराः श्रौताग्नयस्तैः सनाथा सहिता मूर्तिः स्वरूपं येषां ते तथा तैः । अग्नित्रयसहितैरित्यर्थः । ‘होमाग्निस्तु महाज्वालो महावीरः प्रवर्गवत्' इति कोशः । पुनः किंभूतैः । यूपकरैरिति । यूपा यज्ञे पशुबन्धनार्थं स्तम्भविशेषास्त एव करा हस्ता येषां ते तथा तैः । कैरिव गजैरिवेति यज्ञगजयोः शब्दसाम्येनोपमा । किंभूतैर्गजैः । विधानेन मदोद्रेकार्थं गजादीनां दीयमानभक्ष्यविशेषेण । अत एव '... विधानपिण्डस्नेहश्रुतिस्नपितबाहुरिभाधिराजम्' इति माघे । तेन संपादितं निष्पन्नं यद्दानं मदजलं तेन शोभितैः । पुनः पक्षे स्फुरन्तः शूरा ये महावीरा योद्धारस्तैः सनाथमूर्तिभिः । अधिष्ठितैरित्यर्थः । पुनः पक्षे यूपवद्यज्ञस्तम्भवत्करः शुण्डादण्डो येषां ते तथा तैः ||१५|| स इति । सोऽर्थपतिः क्रमेण । वंशक्रमेणेत्यर्थः । महात्मनां जितेन्द्रियाणां श्रुतिशास्त्रशालिनां श्रुतिशास्त्राध्यापकानां सुतोत्तमानां पुत्राणां मध्ये चित्रभानुसंज्ञकं पुत्रमवाप लेभे । किंभूतम् । स्फटिकेति । स्फटिकोपलः क्षीरतैलस्फटिकाभ्यामन्यः स्वच्छस्फटिकस्तद्वदुपमा यस्य स तथा तम् । निष्कलङ्कमित्यर्थः । किंभूतानां सुतोत्तमानाम् । क्षमाभृतां क्षान्तिमताम् । किंभूतमिव । कैलासमिव । पक्षे क्षमाभृतां भूधराणां मध्ये वरमित्यर्थः । 'क्षितिक्षान्त्योः क्षमा' इत्यमरः । पक्षे स्फटिकाश्मभिर्निर्मितं स्फटिकमयत्वात्कैलासस्येति ॥१६॥ I महेति । महात्मनो यस्य चित्रभानोर्गुणाः । अपिशब्दाध्याहारेण पितुः समाना अपि द्विषन्मनः शत्रूणामप्यन्तःकरणं प्राविविशुः प्रवेश चक्रुः । किं पुनः सज्जनानामिति । किंभूता गुणाः । सुदूरनिर्गताः । दिगन्तं गता इत्यर्थः । पुनः कीदृशा । कलङ्केति । कलङ्केनाङ्कलक्षणेन मुक्तो वर्जितो य इन्दुश्चन्द्रस्तस्य कला षोडशोंऽशस्तद्वदमला विशदा त्विट् कान्तिर्येषां ते तथा । पुनः कीदृशाः । कृतेति । कृतं निष्पादि-तमन्तरमवकाशः प्रवेशपद्धतिरिति यावत्, यैस्ते तथा । कस्य क इव । नृसिंहस्य विष्णोर्नखाङ्कुराः पुनर्भवाग्रभागा इव । यथा नृसिंहस्य नखाङ्कुराद्विषहृदयं प्रविष्टास्तथैतेऽपीति भावः ||१७|| दिशामिति । यस्य चित्रभानोर्मलीमसोऽप्यध्वरधूमसंचयो यज्ञधूमसमूहो निजं स्वकीयं यशः शुक्लतरमतिशयेनोज्ज्वलं चकार विदध इति विशेषोक्तिः । किंविशष्टोऽध्वरधूमसंचयः । दिशामिति । दिग्वधूनाम - १ ‘पलामलं'. २ 'नखाडुशा' ३ 'मलीमसं'. 6 कादम्बरी | Page #20 -------------------------------------------------------------------------- ________________ सरस्वतीपाणिसरोजसंपुटप्रमृष्टहोमश्रमशीकराम्भसः । यशोऽशुशुक्लीकृतसप्तविष्टपात्ततः सुतो बाण इति व्यजायत ॥१९॥ द्विजेन तेनाक्षतकण्ठकौण्ठ्यया महामनोमोहमलीमसान्धया । अलब्धवैदग्ध्यविलासमुग्धया धिया निबद्धेयमतिद्वयी कथा ॥२०॥ आसीदशेषनरपतिशिरःसमभ्यर्चितशासनः पाकशासन इवापरः, चतुरुदधिमालामेखलाया भुवो भर्ता, प्रतापानुरागावनतसमस्तसामन्तचक्रः, चक्रवर्तिलक्षणोपेतः, चक्रघर - *********** लीके ललाटदेशेऽलकभङ्गतामलकाचर्णकुन्तलास्तेषां भङ्गो रचनाविशेषस्तस्य भावस्तां गतः प्राप्तः । एतेनाजसं क्रतुसमूहविधानेन धूमस्य दिगन्तव्यापित्वं सूचितमिति । पुनः किंविशिष्टः । त्रयीति । त्रयी वेदत्रयी सैव वधूस्तस्याः कर्णे श्रोत्रे तमालपल्लव इव तमालपल्लवः । श्यामत्वसाधात्तमालकिसलयेनोपमानम ॥१८॥ सरस्वतीति । ततश्चित्रभानोर्बाण इति बाणाभिधानः सुतः पुत्रो व्यजायताभवत् । किंविशिष्टात्ततः । सरस्वतीति । सरस्वत्या भारत्याः पाणिसरोजसंपुटेन हस्तकमलयुग्मेन स्वयमेव प्रमृष्टं प्रोञ्छितं होमादिकर्मसंबन्धि श्रमस्य खेदस्य शीकराम्भः प्रस्वेदजलं यस्य स तथा तस्मात् । पुनः कथंभूतात् । यश इति । यशसः कीर्तेरंशवो दीप्तयस्तैः शुक्लीकृतानि शुभ्रीकृतानि सप्त रवितुरगप्रमितानि विष्टपानि भुवनानि येन स तथा तस्मात् । 'विष्टपं भवनं जगत् इत्यमरः ॥१९॥ द्विजेनेति । इदानीं बाणः कथां चिकीर्षुरतितीक्ष्णबुद्धिरप्यहंकारं निराकुर्वनाह-तेनेति । तेन वाणेन द्विजेनेयं कादम्बरीरूपा कथा धिया बुद्ध्यैव निबद्धा ग्रथिता । पूर्वं बुद्ध्यारूढीकृत्य पश्चाल्लिखितेति भावः । समुद्रसमकादम्बरीकथोपबन्धने धियः सामर्थ्यं ज्ञात्वापि 'मन्दः कवियशःप्रार्थी' इत्यादिवद्धियो मान्द्यमेवारोपयति-अक्षतेति । अक्षतमच्छिन्नं कण्ठे गले कौण्ठ्यं कुण्ठता यस्याः सा तथा तया । कण्ठेऽपि कुण्ठिता किमुत सभायामपीति भावः । पुनः कथंभूतया । महेति । महानुत्कृष्टो यो मनोमोहश्चित्तविकलता तेन मलीमसा मलिना चासावन्धा चेति तया । पुनः कथंभूतया । अलब्धेति । अलब्धोऽप्राप्तो यो वैदग्ध्यविलासश्चातुर्यलीला तेन मुग्धाऽप्रगल्भा तया । एतादृश्यापि बुद्ध्या रचिता कथा । अतिद्वयीति विशेषणबलाद्बुद्धेरतितीक्ष्णत्वं फलितम् । द्वयीं बृहत्कथां वासवदत्तां चातिक्रान्तेत्यर्थः ॥२०॥ "प्रसिद्धो वापि वर्ण्यः स्यान्महिपालोऽथवा.........................॥ दशरूपकेऽपि 'प्रख्यातोत्पाद्यमिश्रत्वभेदात्रेधापि तनिधा । प्रख्यातमितिहासादेरुत्पाद्य कविकल्पितम् । मिश्रं च संकरात्' इत्यादेरुक्तभेदानां काव्यनाटकचम्पूनां मध्ये 'गद्यपद्यमयी चम्पूर्विधा श्लेषवती च या । राजवर्णनमादौ स्यानगरीवर्णनं ततः । तया चामुकमन्यस्मिन्न तु तन्नृषु कुत्रचित् ॥ यथा- 'शूलुसंबन्धो देवतायतनेषु न नृषु' इति नलचम्वाम् । तथात्रैवाग्रे 'चित्रकर्मसु वर्णसंकरो न मनुष्येषु' इत्यादिचम्पूलक्षणयुक्तां कादम्बरीसंज्ञिका कथामारचयतिआसीदिति । शूद्रको नाम राजासीदिति दूरेणान्वयः । अथ राजानं विशेषयन्नाह-अशेषेति । अशेषाः समग्रा ये नरपतयो राजानस्तेषां शिरांस्युत्तमाङ्गानि तैः समभ्यर्चित सादरतया गृहीतं शासनमाज्ञा यस्य स तथा । सर्वेषामाज्ञापको न त्वाज्ञाकरः । अत एवापरो भिन्नः पाकशासन इव । इन्द्रसाम्यम् । चतुरिति । चत्वारश्च त उदधयश्च चतुरुदधयस्तेषां माला पङ्क्तिः सैव मेखलावधिर्यस्यास्तादृश्या भुवः पृथिव्या भर्ता नायकः । प्रताप इति । प्रतापः कोशदण्डज तेजः, अनुरागः स्नेहः ताभ्यामवनतं नम्रीभूतं समस्तं समग्र सामन्तचक्र सामन्तमण्डलं स्वदेशपर्यन्तवर्ति राजचक्रं यस्य तथा । अन्यदपि लोहचक्रमग्निप्रतापादवनतं भवतीति ध्वन्यते । चक्रेति । चक्रवर्ती सार्व पूर्वभागः । Page #21 -------------------------------------------------------------------------- ________________ इव करकमलोपलक्ष्यमाणशङ्खचक्रलाञ्छनः, हर इव जितमन्मथः, गुह इवाप्रतिहतशक्तिः, कमलयोनिरिव विमानीकृतराजहंसमण्डलः, जलधिरिव लक्ष्मीप्रसूतिः, गङ्गाप्रवाह इव भगीरथपथप्रवृत्तः, रविरिव प्रतिदिवसोपंजायमानोदयः, मेरुरिव संकलोपजीव्यमानपादच्छायः, दिग्गज इवानवरतप्रवृत्तदानार्दीकृतकरः, कर्ता महाश्चर्याणाम्, आहर्ता ऋतूनाम्, आदर्शः सर्वशास्त्राणाम्, उत्पत्तिः कलानाम्, कुलभवनं गुणानाम्, आगमः काव्यामृतरसानाम्, उदयशैलो मित्रमण्डलस्य, उत्पातकेतुरहितजनस्य, प्रवर्त - *********** भौमस्तस्य यानि लक्षणानि सामुद्रिकशास्त्रप्रतिपादितानि तैरुपेतः सहितः । पुनस्तमेव विशेषयन्नाह-चक्रधर इति । करकमले हस्तपद्म उपलक्ष्यमाणं दृश्यमानं शङ्खचक्राकारं च रेखोपरेखास्वरूपं लाञ्छनं चिह्न यस्य स तथा । क इव । चक्रधर इव विष्णुरिव । सोऽपि शङ्खचक्रायुधलाञ्छितकरः स्यादित्युपमानोपमेयभावः । हर इवेति । जितो निर्जितो मन्मथजनकत्वान्मन्मथानीन्द्रियाणि येन स तथा । क इव । हर इव शंभुरिव । सोऽपि जितमन्मथः स्यादित्युभयोः साम्यम् । गृह इवेति । अप्रतिहताऽकुण्ठिता शक्तिः सामर्थ्य यस्येति स तथा । क इव । गुह इव कार्तिकेय इव । सोऽप्यप्रतिहतशक्तिः स्यादित्युभयोः साम्यम् । एतत्यक्षे शक्तिरस्त्रविशेषः । अत एव 'पाण्मातुरः शक्तिधरः' इत्यमरः । विगतेति । विगतो मानो दर्पो यस्य तद्विमानं तथा कृतं राजहंसानां श्रेष्ठनृपाणां मण्डलं वृन्दं येन स तथा । क इव । कमलयोनिरिव विधातेव । एतत्पक्षे विमानं देवयानं तत्स्वरूपीकृतं राजहंसानां पक्षिविशेषाणां मण्डलं येन स तथा । हंसाधिरूढत्वादिति भावः । 'देवयानं विमानं स्यात्' इत्यमरः । 'राजहंसास्तु ते चञ्चुचरणैरतिलोहितैः' इत्यमरः । जलधीति । लक्ष्मीः संपत्तिः शोभ वा । 'लक्ष्मीश्छाया च शोभायाम्' इति हैमः । तस्याः प्रसूतिरुत्पत्तिस्थानं शोभाया वा । क इव । जलधिरिव समुद्र इव । सोऽपि लक्ष्म्या रमायाः शोभाया वोत्पत्तिस्थानं समद्रमथनादेव तन्निर्गमात । तथा च जगद्विभषितमिति शोभाजनकत्वमिति भावः । गङ्गेति । भगीरथस्य राज्ञः पन्थाः पितॄणामुद्धारस्तत्र प्रवृत्तो लग्नः । क इव । गङ्गाप्रवाह इव स्वधुनीरय इव । सोऽपि भगीरथपथप्रवृत्तः स्यात्तदनुयायित्वादित्युभयोः साम्यम् । रविरिति । प्रतिदिवसं प्रत्यहम् उपजायमान उत्पद्यमान उदयः संपत्तेरुद्रेको यस्य स तथा । क इव । रविरिव भानुरिव । सोऽपि निरन्तरमुदयाचलाज्जायमानोद्गमः स्यादित्युपमा । मेरुरिति । सकलैः समोराल्लोकैरुपजीव्यमाना सेव्या पादच्छाया कान्तिर्यस्य स तथा । क इव । मेरुरिव स्वर्णाद्रिरिव । स कथंभूतः । सकलैरर्थाद्देवैः । अन्येषां तत्र प्रवेशाभावात् । उपजीव्याः पादाः प्रत्यन्तपर्वतास्तेषां छायाऽऽतपाभावो यस्य स तथा । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । दिग्गज इति । अनवरतं निरन्तरं प्रवृत्तं कृतं यद्दानं जलसहितं देयद्रव्यं तेनार्दीकृतः स्तिमितः करो हस्तो यस्य स तथा । क इव । दिग्गज इव दिङ्नाग इव । एतत्पक्षे निरन्तरप्रवृत्तं प्रचलितं यद्दानं मदः । 'मदो दानं प्रवृत्तिश्च' इति कोशः । तेन स्तिमितः करः शुण्डादण्डो यस्य स तथेत्युपमा । कर्तेति । महाश्चर्याण्यनन्यकृतयुद्धादीनि तेषां कर्ता निष्पादकः । आहर्तेति । क्रतूनां यज्ञानामाहर्ता कारकः । आदर्श इति । सर्वशास्त्राणां समग्रवाङ्मयानामादर्शो मुकुरः । तत्र तेषां प्रतिबिम्बितत्वादिति भावः । उत्पत्तिरिति । कलानामिति द्विसप्ततिप्रमिता याः कलाः शिल्पादिरूपास्तासामुत्पत्तिर्जन्मभूः । गुणानामिति । गुणा गाम्भीर्यादयस्तेषां कुलभवनं परम्परास्थानम् । आगम इति । काव्यामृतेति । काव्यं कविकर्म तत्संबन्धिनो येऽमृतरसास्तेषामागम उद्गमरूपः । उदयेति । मित्राणि सुहृदस्तेषां मण्डलं समुदायस्तस्योदयशैलोऽभ्युनतेः स्थानम् । पक्षे मित्रमण्डलस्य सूर्यबिम्बस्योदयशैल उदयाचलः । उत्पातेति । अहितजनस्य - १ 'पचीयमानो'. २ 'सकलभुवनो'; 'सकलभुवनतलो'. ३ 'बृहस्पतिरिव सकलशास्त्रार्थतत्त्वज्ञः, दिग्गज'. (8 कादम्बरी । Page #22 -------------------------------------------------------------------------- ________________ यिता गोष्ठीबन्धानाम्, आश्रयो रसिकानाम्, प्रत्यादेशो धनुष्मताम्, धौरेयः साहसिकानाम्, अग्रणीर्विदग्धानाम्, वैनतेय इव विनतानन्दजननः, वैन्य इव चापकोटिसमुत्सारितारांतिकुलाचलो राजा शूद्रको नाम । नाम्नैव यो निर्भिन्नारातिहृदयो विरचितनारसिंहरूपाडम्बरम्, एकविक्रमाक्रान्तसकलभुवनतलो विक्रमत्रयायासितभुवनत्रयं च जहासेव वासुदेवम् । अतिचिरकाललग्नमतिक्रान्तकुनृपतिसहससंपर्ककलङ्कमिव क्षालयन्ती यस्य विमले कृपाधाराजले चिरमुवास राजलक्ष्मीः । यच मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, भुजे भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि - *********** शत्रुलोकस्योत्पातकेतुधूमकेतुः । प्रवर्तयितेति । गोष्ठीबन्धानां मधुरकथानां प्रवर्तयिता प्रवर्तकः । आश्रय इति । रसिकानां रसवेतृणामाश्रयः आश्रयस्थानम् । प्रत्यादेश इति । धनुष्मतां धनुर्धारिणां प्रत्यादेशो निराकर्ता । 'प्रत्यादेशो निराकृतिः' इति कोशः । सर्वधनुर्धरोत्कृष्ट इत्यर्थः । धौरेय इति । साहसिकानां सत्त्ववतां मध्ये धौरेयो धुर्यः । अग्रणीरिति । विदग्धानां पण्डितानां मध्येऽग्रणीमुख्यः । वैनतेय इति । विनतेभ्यः कृतनतिभ्य आनन्दस्य प्रमोदस्य जननः कर्ता । क इव । वैनतेय इव सुपर्ण इव । सोऽपि विनतायाः स्वमातुः प्रमोदकृत्स्यादित्युभयोः साम्यम् । वैन्य इवेति । चापो धनुस्तस्य कोटिरग्रभागस्तेन समुत्सारिता निराकृता अरातय एव शत्रव एव कुलाचलाः कुलपर्वताः क्षेत्रसीमावर्तिपर्वताः येन स तथा । क इव । वैन्य इव पृथुराज इव । एतत्पक्षेऽरातयः कुलाचलाश्चेति द्वन्द्वः । शेषं पूर्ववत् । पृथुना पूर्व पर्वताकीर्णां धरित्री विलोक्य धनुःकोट्या पर्वतानुत्सार्य भूः समीकृतेति पुराणम् । नाम्नेति । यः शूद्रको वासुदेवं श्रीकृष्णं जहासेव हास्यं चकारेव । कथम्भूतः । नाम्नैवाभिधानश्रवणमात्रेणैव निर्भिवानि द्वैधीकृतान्यरातीनां शत्रूणां हृदयानि वक्षांसि येन स तथा । कीदृशं वासुदेवम् । विरचितेति । विरचितो विहितो नारसिंहरूपलक्षण एवाडम्बर आटोपो येन स तथा तम् । एकेति । एकनाद्वितीयेन विक्रमेण पराक्रमेणाक्रान्तं व्याप्तं सकलं समग्रं भुवनतलं विष्टपतलं येन स तथा । कथम्भूतं वासुदेवम् । विक्रमेति । विक्रमः पादविक्षेपस्तस्य त्रयं त्रितयं तेनायासितं संप्राप्तखेदम् । 'आसितम्' इति पाठ आसितं स्थितम् । अत्रायं भावः - अस्य राज्ञो नामश्रवणादेव वक्षोविदारणं भवति । वासुदेवेन तु शत्रुवक्षोविदारणे नृसिंहावताराडम्बरं कृतम् । राज्ञा चैकेनैव विक्रमेण पराक्रमेण सर्वं जगदाक्रान्तम् । वासुदेवन भुवनाक्रमणाय विक्रमत्रयं कृतमिति हास्ये हेतुः । अतीति । यस्य कृपाणधाराजले खड्गधारारूपे जले चिरं बहुकालं यावलक्ष्मीः पद्मोवास वसतिं चक्रे । खड्गबलाल्लक्षीः स्ववशीकृतेति भावः । किं कुर्वतीव । क्षालयन्तीव प्रमार्जयन्तीव । कम् । अतीति । अतिचिरकालो भूयानतीतः समयस्तेन लग्नं जातम् । पुनः । कीदृशम् । अतीति । अतिक्रान्ता व्यतीता ये कुनृपतयः कदर्यनरपतयस्तेषां सहसं तेन संपर्कः संबन्धस्तेन यः कलङ्कोऽभिज्ञानम् । अन्योऽपि पङ्कादिकं जलादिना क्षालयतीति ध्वनिः । यश्चेति । यः शूद्रको भगवतो नारायणस्यानुकरोति । तत्तुल्यतां भजतीत्यर्थः । तदेव दर्शयति - मनसि धर्मेणेत्यादि । अत्र वसतेति वसतापदस्य सर्वत्रान्चयो यथालिङ्गम् । मनसि स्वान्ते धर्मेण वृषेण वसता वासं कुर्वता । सदैव धर्मचिन्तनात् । कोपे क्रोधे यमेन कृतान्तेन । तत्कालमेव सापराधिना प्राणहरणात् । तथा प्रसादे प्रसन्नतायां धनदेन श्रीदेन । सेवाकृत्समीहिताधिकप्रदानात् । प्रतापे पूर्वोक्तलक्षणे वह्निनाग्निना । समग्रशत्रुदाहकत्वात् । भुजे बाहौ भुवा पृथिव्या । राज्यभारक्षमत्वात् । दृशि चक्षुषि श्रिया लक्ष्म्या । सप्रीतिनिरीक्षणमात्रेणैव तत्संभवात् । वाचि वचने सरस्वत्या भारत्या । अनवरतगद्यपद्यायनेकप्रबन्धविधानात् । मुखे वदने शशिना - १ पृथु. २ सकलाराति. ३ नरसिंह. ४ हसति स्मेव. पूर्वभागः । Page #23 -------------------------------------------------------------------------- ________________ सवित्रा च वसता सर्वदेवमयस्य प्रकटितविश्वरूपाकृतेरनुकरोति भगवतो नारायणस्य । यस्य च मदकलकरिकुम्भपीटपाटनं विद॑धतो लग्नस्थूलमुक्ताफलेन दृढमुष्टिनिष्पीडैनान्निष्ठ्यूतधारार्जेलबिन्दुदन्तुरेणेव कृपाणेनाकृष्यमाणा, सुभटोरःकपाटविर्घटितकवचसहस्रान्धकारमध्यवर्तिनी करिकैरटगलितमदजलासारदुर्दिनास्वभिसारिकेव समरनिशासु समीप सँकृर्दगाद्राजलक्ष्मीः । यस्य च हृदिस्थितानपि भर्तृन्दिधक्षुरिव प्रतापानलो वियोगिनीनामपि रिपुसुन्दरीणामन्तर्जनितदाघो दिवानिशं जज्वाल । यस्मिंश्च राजनि जितजगति पौलयति महीं चित्रकर्मसु वर्णसंकराः, रतेषु केशग्रहाः, काव्येषु दृढबन्धाः, शास्त्रेषु चिन्ता, स्वप्नेषु विप्रलम्भाः, *********** चन्द्रेण । तदनुकारित्वाज्जनाह्लादकत्वाच्च । बले सामर्थ्ये मरुता वायुना । अतिबलत्वात् । तथा प्रज्ञायां प्रतिभायां सुरगुरुणा वृहस्पतिना । निःप्रतिमप्रतिभावत्त्वात् । एवंरूपे सौन्दर्ये मनसिजेन कामेन । मानिनीमानहरणात् । तेजसि प्रतापलक्षणे सवित्रा सूर्येण । शत्रूणां दुर्निरीक्ष्यत्वात् । किंविशिष्टस्य नारायणस्य । सर्वेति । सर्वे च ते देवाश्च सर्वदेवास्तत्स्वरूपः सर्वदेवमयः । अत्र 'प्राचुर्यविकारप्राधान्यादिषु' इति सूत्र आदिशब्दात्स्वरूपार्थेऽपि मयग्रहस्तस्य । प्रकटितेति । प्रकटिता प्रकाशिता विश्वरूपा त्रिजगत्स्वरूपाकृतिराकारो येन स तथा तस्य । अनेन राज्ञस्तत्साम्यं सूचितं भवतीति भावः । यस्य चेति । यस्य राज्ञः समरनिशासु सङ्ग्रामरात्रिषु राजलक्ष्मीर्वैरिनृपश्रीरभिसारिकेव ध्वान्ते दत्तसंकेतेव समीपं संनिधिमगादागतवती । सकृदित्येकवारम् । पुनर्न गतेति भावः । यस्य किं कुर्वतः । विदधत् आचरतः । किम् । मदेति । मदेन दानवारिणा कलं मनोज्ञं यत्करिकुम्भपीठं हस्तिशिरः पिण्डफलकं तस्य पाटनं विदारणम् । अर्थाद्वैरिणामित्यर्थः । पुना राजलक्ष्मीं विशेषयन्नाह - आकृष्येति । आकृष्यमाणा समन्ताद् गृह्यमाणा । केन । कृपाणेन खड्गेन । इतः खड्गं विशिनष्टिलग्नेति । लग्नानि संबद्धानि स्थूलानि स्थविष्ठानि गजसंबन्धीनि मुक्ताफलानि रसोद्भवानि यस्य स तथा तेन । दृढेति । दृढमुष्ट्या यन्निपीडनम् । अत्र दार्ढ्यमात्रविवक्षया न पुंवद्भावनिषेधः । तस्मान्निष्ठ्यूतं निर्गतं धारैव जलमिति रूपकं तस्य ये विन्दवः पृषताः तैरेव दन्तुरेणोदग्रदशनेनेत्युपमा । 'उदग्रदो दन्तुरः स्यात्' इति कोशः । सुभटोर इति । परस्य ये सुभटा योद्धारस्तेषामुरांस्येव कपाटा तेभ्यो विघटितानि विभिन्नानि यानि कवचानि तनुत्राणि तेषां यत्सहस्रं तदेव नैल्यसादृश्यादन्धकारस्तमिसं तन्मध्यवर्तिनी तदन्तःपातिनी । अथ समरनिशां विशेषयन्नाह - करीति । करिणां गजानां करटानि कपोलानि तेभ्यो गलितं च्युतं यन्मदजलं दानवारि तस्यासारो वेगवान्वर्षस्तेन दुर्दिनं मेघजं तमो यासु तास्तथा तासु । यस्य चेति । यस्य पूर्वोक्तस्य राज्ञः प्रतापः कोशदण्डजं तेजस्तदेवानलो वह्निर्दिवानिशमहोरात्रं जज्वाल प्रदीप्तोबभूव । किं कर्तुमिच्छुरिव । भर्तृन् दिधक्षुरिव दग्धुमिच्छुरिव । किंविशिष्टान्भर्तृन् । हृदिस्थितानपि हृदयवर्तिनोऽपीत्यनेन दाहायोग्यत्वं सूचितम् । अथ पूर्वोक्तं प्रतापानलं विशिनष्टि - अन्तरिति । अन्तर्मध्ये जनित उत्पादितो दाघो दग्धिर्येन स तथा । तासाम् । रिपुसुन्दरीणां शत्रुवनितानाम् । कीदृशीनाम् । वियोगिनीनामपि वियुक्तानामपि पूर्वमेव भर्तृव्यापादनात् । एतेन हृदयान्तर्गतं शत्रुगणं यत्प्रतापो न सहत इति तत्प्रतापाधिक्यवर्णनेन राज्ञ आधिक्यवर्णनम् । पुनस्तदाधिक्यं वर्णयन्नाह यस्मिंश्चेति । यस्मिन्राजनि जितजगति निर्जितविष्टपे महीं पृथ्वीं पालयति शासति सत्येतानि वस्तून्येतेषु स्थलेष्वासन्वभूवुः । न प्रजानामित्यन्वयः । तान्येवाह - चित्रेत्यादि । चित्रकर्मस्वालेख्यक्रियासु वर्णा रक्तपीतादयस्तेषां संकराः परस्परसंबन्धाः । चित्रकर्मणि सुवर्णसंकरा इति वा । सुवर्णमिश्रालेख्यानीत्यर्थः । द्वितीयपक्षे वर्णा ब्राह्मणादयस्तेषां संकराः । अन्यतोऽन्योत्पत्तिरित्यर्थः । रतेष्विति । रतेषु मैथुनेषु केशग्रहाः । नान्यत्र कलहेषु । तदभावात् । काव्येष्विति । काव्येषु कविकर्मसु दृढबन्धाः कठिनबन्धाः । १ आचरतो; आचरता. २ दृष्ट. ३ निःपीडन. ४ जलदन्तुरेण. ५ घटित. ६ करटतट; करतट. ७ असकृत्. ८ आजगाम. ९ हृदय. १० पतीन्. ११ धक्षु. १२ दाहो. १३ परिपालयति. १४ चिन्ताः. 10 कादम्बरी | Page #24 -------------------------------------------------------------------------- ________________ छत्रेषु कनकदण्डाः, ध्वजेषु प्रकम्पाः, गीतेषु रागविलसितानि, करिषु मदविकाराः, चापेषु गुणच्छेदाः, गवाक्षेषु जालमार्गाः, शशिकृपाणकवचेषु कलङ्काः, रतिकलहेषु दूतप्रेषेणानि, सार्यक्षेषु शून्यगृहा ने प्रजानामासन् । यस्य च परलोकाद्भयम्, अन्तःपुरिकाकुन्तलेषु भङ्गः, नूपुरेषु मुखरता, विवाहेषु कैरग्रहणम्, अनवरतमखाग्निधूमेनाश्रुपातः, तुरङ्गेषु कशाभिधातः, मकरध्वजे चापध्वनिर्रभूत् तस्य च राज्ञः कलिकालभयपुञ्जीभूतकृतयुगानुकारिणी, त्रिभुवनप्रसवभूमिरिव विस्तीर्णा, मज्जन्मालवविलासिनीकुचतटास्फालनजर्जरितोर्मिमालया जलावगाहनागतजयकुञ्जरकुम्भ *********** नान्यत्र । अपराधाभावात् । शास्त्रेष्विति । शास्त्रेषु सिद्धान्तेषु चिन्ता चिन्तनम् । नान्यत्र । समग्रवस्तुनः सद्भावात् । स्वप्नेष्विति । स्वप्नदशायां विप्रलम्भा वियोगाः । नान्यत्र । पुरुषायुषजीवित्वाज्जनस्येति भावः । छत्रेष्विति । छत्रेष्वातपत्रेषु कनकदण्डाः सुवर्णयष्टयः। नान्यत्र । कनकदण्डाः दण्डेन सुवर्णग्रहणम् । स्वस्वमार्गानतिक्रमेण तासां प्रवर्तनात् । ध्वजेष्विति । ध्वजेषु पताकासु प्रकम्पाः प्रकर्षेण वेल्लनम् । नान्यत्र । भीतेरभावात् । गीतेष्विति । गीतेषु गानेषु रागा वसन्तादयः शास्त्रीयाः देशीया धनाश्रीप्रभृतयस्तेषां विलसितानि चेष्टितानि । नान्यत्र रागाः । क्रोधादयस्तेषां विलसितानि हननादिरूपाणि । तादृग्रागद्वेषाभावात् । करिष्विति । करिषु हस्तिषु मदो दानं तस्य विकारा विकृतयः । नान्यत्र मदोऽहंकारस्तस्य विकारास्तत्तद्विचेष्टितानि । मदो रागस्तस्य विकारा इति वा । सर्व गुरुवचनामृतास्वादमेदुरितमानसत्वात् । चापेष्विति । चापेषु धनुःषु गुणस्य ज्यारूपस्य छेदः त्रुटनम् । नान्यत्र गुणस्य शौर्यादिर्विच्छेदः । सर्वदा 'सदाचारित्वात् । गवाक्षेष्विति । गवाक्षेषु वातायनेषु जालामार्गा वातागमनहेतवो जालिकाः । नान्यत्र कुवेणीस्थापनपन्थानः । सर्वदाऽभयदानप्रवृत्तत्वात् । शशीति । शशी चन्द्रः, कृपाणं खड्गम्, कवचः संनाहः, एतेषां द्वन्द्वः । एषु कलङ्काश्चिह्नानि । नान्यत्र कुलमालिन्यादिहेतवो व्यभिचारादिदोषाः । रतिकलहेष्विति । रतिकलहेषु कामकेलिषु विग्रहेषु दूतप्रेषणानि संचारकगमनानि । नान्यत्र । सर्वदा प्रबंलविरोधिनोऽभावात् । सार्यक्षेष्विति । सारयः खेलिन्यः, अक्षाः पाशकाः, तेषु शून्यगृहाः शून्यस्थानानि । नान्यत्रोद्वसवगृहाणि । राजदेयद्रव्यजनितपीडाभावात् । यस्य चेति । यस्य राज्ञः । अभूदिति क्रिययान्वितम् । कर्मीभूतमाह - भयमिति । परलोकादेव जन्मान्तरादेव तत् । न तु शत्रुलोकात् । तथा यस्य राज्ञः । अन्तःपुरे भवा आन्तःपुरिकाः । भवार्थे ठक् । तासां नायिकानां कुन्तलेषु केशेषु भङ्गो वक्रता । नान्यत्र । तथा नूपुरेषु हंसकेषु मुखरतानुरणनरूपा । न तु प्रजासु मौखर्यं वाचालत्वम् । विवाहेष्विति । विवाहेषूपयामेषु करग्रहणं हस्तग्रहणम् । न तु प्रजासु करो राजदेयद्रव्यं तद्ग्रहः । अनवरतेति । अनवरतं निरन्तरं मखाग्निधूमेन यज्ञाग्निधूमेनाश्रुपातो नेत्रजलच्युतिः । न तु शोकादिना । तुरङ्गेति । तुरङ्गेष्वश्वेषु कशा चर्मदण्डस्तस्याभिघातः प्रहारः । नान्यत्र । मकर इति । मकरध्वजे कंदर्पे चापस्य धनुषो ध्वनिः । अन्यत्र न भयाभावात्तदारोपणमिति भावः । तस्येति । तस्य च राज्ञो राजधान्यासीदित्यन्वयः । तां विशेषयन्नाह - कलीति । कलिकालाद्यद्भयं त्रासस्तस्मात्पुञ्जीभूतं समुदायीभूतं यत्कृतयुगं सत्ययुगं तदनुकरोतीत्येवंशीला या सा । विस्तीर्णेति । विस्तीर्णा विपुला । केव । त्रिभुवनेति । त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य प्रसवभूमिरुत्पत्तिस्थलं धरित्री तद्वदिव । परीति । परिगता संगता। कया । वेत्रवत्या नद्या । अथ नदीं विशिनष्टिमज्जन्निति । मज्जन्त्यः स्नान्त्यो या मालवविलासिन्योऽवन्तिकामिन्यस्तासां यानि कुचतटानि पयोधरस्थलानि - - १ संप्रेषणानि. २ प्रजानां. ३ यस्यान्तःपुरिका. ४ अलकेषु. ५ करपीडनम्. ६ अनवरतप्रवृत्त. ७ तुरगेषु. ८ उदभूत्. ९ अनुसारिणी. १० आयात; अवतारित. पूर्वभागः । 11 Page #25 -------------------------------------------------------------------------- ________________ सिन्दूरसंध्यायमानसलिलयोन्मदकलहंसकुलकोलाहलमुखरीकृतकूलया वेत्रवत्या परिगता विदिशाभिधाना नगरी राजधान्यासीत् । स तस्यामवजिताशेषभुवनमण्डलतया विगतराज्यचिन्ताभारनिर्वृतः, द्वीपान्तरागतानेकभूमिपालमौलिमालालालितचरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुखहन्, अमरगुरुमपि प्रज्ञयोपहसद्भिरनेककुलक्रमागतैरसकृदालोचितनीतिशास्त्रनिर्मलमनोभिरलुब्धैः स्निग्धैः प्रबुद्धैश्चामात्यैः परिवृतः, समानवयोविद्यालङ्कारैरनेकमूर्धाभिषिक्तपार्थिवकुलोद्गतैरखिलकलाकलापालोचनकठोरमतिभिरतिप्रगल्भैः कालविद्भिः प्रभावानुरक्तहृदयैरग्राम्याँपहासकुशलैरि - *********** तेषामास्फालनेनाघातेन जर्जरिताः क्षीणा ऊर्मिमालाः कल्लोलपङ्क्तयो यस्यां सा तथा तया । अत्र कुचानामतिकाठिन्यं व्यङ्ग्यम् । जलेति। जलं पानीयं तस्यावगाहनमवलोडनं तदर्थमागताः समायाता जयकुञ्जराः परदलदलनसमर्था हस्तिनस्तेषां कुम्भाः शिरःपिण्डाः तेषु शोभाकृयत्सिन्दूरं नागजं तेन संध्यायमानं संध्यावदाक्तं सलिलं जलं यस्याः सा तथा तया । उन्मदेति । उन्मदानां प्रबलमदानां कलहसानां कादम्बानां यानि कुलानि तेषां यः कोलाहलोऽनभिव्यक्तध्वनिस्तेन मुखरीकृतं प्रतिध्वनियुक्तं कूलं सैकतं यस्याः सा तथा तया । अत्र विस्तृतकमलस्वच्छपानीयादि व्यङ्ग्यम् । किमभिधाना राजधानीत्याशयेनाह विदिशेति । विदिशेत्यभिधानं यस्याः सा तथा । स तस्यामिति । तस्यां नगर्यां स राजातिचिरं बहुकालं प्रथम आये वयस्ववस्थायां सुखं सातं यथा स्यात्तथोवास वास चक्र इत्यन्वयः । अथ राजानं विशेषयन्नाह - विगतेति । विगतो दूरीभूतो यो राज्यचिन्ताभारस्तेन निवृतो निष्पन्नप्रयोजनः । तत्र हेतुमाहअवजितेति । अवजितानि स्वायत्तीकृतान्यशेषाणि समग्राणि भुवनमण्डलानि येन तस्य भावस्तत्ता तया । द्वीपेति । एकस्माद्वीपादन्ये द्वीपा द्वीपान्तराणि तेभ्य आगताः समायाता येऽनेके बहवो भूमिपाला राजानस्तेषां मौलयः किरीटानि शिरांसि वा तेषां मालाः सजः पङ्क्तयो वा ताभिर्लालित क्रीडितं चरणयुगलं पादयुग्मं यस्य स तथा । किं कुर्वन् । उद्बहनुत्पाटयन् (?) । किम् । भुवनभारं जगदीवधम् । केन । भुजेन बाहुना । किमिव वलयमिव बाहुभूषणमिव । कया । लीलया क्रीडया । स्वल्पप्रयासेनेत्यर्थः । किंविशिष्टः सः । परीति । परिवृतः । परिवेष्टितः । कैः । अमात्यैर्मन्त्रिभिः । 'अमात्यः सचिवो मन्त्री धीसखः' इति कोशः । किं कुर्वद्भिस्तैर्मन्त्रिभिः । उपहसद्भिपहासं कुर्वद्भिः । कम् । अमरगुरुमपि बृहस्पतिमपि । कया । प्रज्ञया बुद्ध्या । अथ मन्त्रिणो विशिनष्टि - अनेकेति । अनेके च ते कुलक्रमागताश्चानेककुलक्रमागताः । कुलपारम्यागतैर्न त्वाधुनिकरित्यर्थः । असकृदिति । असकृनिरन्तरमालोचितं निदिध्यासितं. यन्नीतिशास्त्रं नृपोचिताचारबोधको ग्रन्थस्तेन निर्मलानि स्वच्छानि मनांसि येषां ते तथा तैः । अलुब्धैरिति । अलुब्धः अलोलुपैः स्निग्धैर्वत्सलैः । 'स्निग्धस्तु वत्सलः' इति कोशः । प्रबुद्धैः पण्डितैः । पुनः किं कुर्वाणो नृपतिः । राजपुत्रैर्नृपतनयैः सह रममाणः क्रीडां कुर्वाणः । इतो राजपुत्रान्विशेषयन्नाह - आत्मन इति । आत्मनः स्वकीयस्य प्रतिबिम्बैरिव प्रतिच्छायैरिव । सर्वदा तदनुयायित्वात् । समानैरिति । समानाः सदृशाः वयोवस्थाविशेषाः, विद्याश्चतुर्दश प्रतीताः, अलङ्कारा विभूषणानि येषां ते तथा तैः । अनेकेति । अनेके सहसशो ये मूर्धाभिषिक्ताः कृताभिषेकाः पार्थिवा राजानस्तेषां कुलानि वंशास्तेभ्य उद्गतैः प्रभवैः । अखिलेति । अखिलाः समग्रा याः कला विज्ञानानि तासां कलापाः समुदायास्तेषां यदालोचनं विमर्शनं तेन कठोरा शास्त्रे दृढा मतिर्बुद्धिर्येषां ते तथा तैः । एतेन मन्त्रदाय सूचितम् । अतीति । अतिप्रगल्भैः प्रतिभान्वितैः । 'प्रगल्भः प्रतिभान्विते' इति कोशः । कालेति । कालविद्भिः - १ मुखरित. २ वेत्रवत्या सत्या; वेत्रवत्या सरिता. ३ महिला. ४ च विजिता. ५ कुलोद्भूतैः. ६ प्रेमा, प्रेमभावा. ७ परिहास. (12 कादम्बरी। Page #26 -------------------------------------------------------------------------- ________________ ङ्गिताकारवेदिभिः काव्यनाटकाख्यानकाख्यायिकालेख्यव्याख्यानादिक्रियानिपुणैरतिकठिनपीवरस्कन्धोरुबाहुभिरसकृदवदलितसमदरिपुगजघटापीठबन्धैः केसरिकिशोरकैरिव विक्रमैकरसैरपि विनयव्यवहारिभिरात्मनः प्रतिबिम्बैरिव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखमतिचिरमुवास । तस्य चातिविजिगीषुतया महासत्त्वतया च तृणमिव लघुवृत्ति स्त्रैणमाकलयतः प्रथमे वयसि वर्तमानस्यापि रूपवतोऽपिसन्तानार्थिभिरमात्यैरपेक्षितस्यापि सुरतसुखस्योपरि द्वेष इवासीत्सत्यपि रूपविलासोपहसितरतिविभ्रमे लावण्यवति विनयवत्यैन्वयवति हृदयहारिणि चावरोधजने । स कदाचिदनवरतदोलायमानरत्नवलयो घर्घरिकास्फालनप्रकम्पझणझणा **** ******* समयज्ञैः । अवसरज्ञैरिति यावत् । प्रभावेति । प्रभावो माहात्म्यं तेनानुरक्तान्यासक्तानि हृदयानि चेतांसि येषां ते तथा । अग्राम्येति । अग्राम्यो नागरिको य उपहासो नर्मवचोविलासस्तत्र कुशलैश्चतुरैः । 'कुशलश्चतुरोऽभिज्ञः -' इति कोशः । इङ्गितेति । इङ्गितं चेष्टाविशेषः । आकार आकृतिः तौ विदन्तीत्येवंशीलास्ते तथा तैः । काव्येति । काव्यं निपुणकविकर्म, अवस्थानुकृतिर्नाटकम्, आख्यानकानि चूर्णकानि, आख्यायिका वासवदत्तादिः, आलेख्यानि चित्रकर्माणि, व्याख्यानान्यर्थनिर्वचनानि, इत्यादिका याः क्रियाः कार्याणि तेषु निपुणैर्दक्षैः । ‘निष्णातो निपुणो दक्षः' इति कोशः । अतीति । अतिकठिना अतिकठोराः पीवराः पुष्टाः स्कन्धा बाहुशिरांस्युरवो विस्तीर्णा बाहवश्च येषां ते तथा तैः । असकृदिति । असकृन्निरन्तरमवदलिता मर्दिताः समदा मदयुक्ता या रिपुगजघटाः शत्रुद्विपपङ्क्तयस्ता एव पीठबन्धाः स्थलविशेषा यैस्ते तथा तैः । केसरीति । केसरिणां सिंहानां किशोरकैरिव बालैरिव । अत्र किशोरशब्दोऽल्पवयसि सामान्येन प्रयुक्तः । ‘किशोराऽल्पवया हयः' इति तु विशेषो ग्रन्थकृता नाश्रितः । विक्रमैरिति । विक्रम एव पराक्रम एवैको - द्वितीयो रसो येषां ते तथैवंविधैरपि । विनयेन प्रश्रयेण व्यवहारो व्यवहरणं विद्यते येषां ते तथा तैः । एतेन शक्तौ सत्यामपि विनयाधिक्यं सूचितम् । अन्ययस्तु प्रागेवोक्तः । तस्य चेति । तस्य राज्ञः प्रथमे वयसि वर्तमानस्यापि । अत्र वृद्धत्वापेक्षया वयसः प्राथम्यं ज्ञेयम् । अन्यथाग्रेतनेनान्वयानुपपत्तिः । एवंविधेऽवरोधजने सत्यपि सुरतसुखस्योपरि निधुवनसातस्योपरि द्वेष इव मत्सर इवासीद्बभूव । किं कुर्वतो राज्ञः । आकलयतः संभावयतः । किम् । स्त्रैणं स्त्रीसमूहम् । तदेव विशिनष्टि - लध्विति । लघु तुच्छा वृत्तिर्वर्तनं यस्य तत् । किमिव । तृणमिवं यवसमिव । एतेन तासामकिंचित्करत्वं सूचितम् । कया हेतुभूतया । अतीति । अतिशयेन विजेतुमिच्छुर्विजिगीषुस्तस्य भावस्तत्ता तया । तद्रसाक्षिप्तचेतस्कत्वेन कामोत्पत्तेरसंभवात् । पुनर्हेत्वन्तरं प्रतिपादयन्नाह - महेति । महासत्त्वमतिशा भावस्तत्ता तया । प्रायशो महासत्त्वस्य सिंहवत्स्वल्प एव कामः स्यात् । किंविशिष्टस्य राज्ञः । रूपवतोऽपि सौन्दर्यवतोऽपि । एतेन युवतिमनो ( न उ ) न्मादकत्वेऽपि तदभिलाषाभाव इति विभावनोक्तिः । अत्रापिशब्दो विरोधालङ्कारयोतनार्थः । एतादृशोऽपि विषयसुखोपरत इति विरोधः । पुनरेवं राजानं विशेषयन्नाह - संतानार्थिभिरिति । संतानमपत्यं तदेवार्थः प्रयोजनं विद्यते येषां ते तथा तैरमात्यैः सचिवैरपेक्षितस्यापि वाञ्छितस्यापि । एतेन सचिवानुकूल्यं दर्शितम् । अथावरोधजनं विशेषयन्नाह - रूपेति । रूपं सौन्दर्यम्, विलासा विलसनानि तैरूपहसिता हास्यास्पदीकृता रतेः कामस्त्रियो विभ्रमा भ्रूसमुद्भवा येन स तथा तस्मिन् । लावण्येति । लावण्यं लवणिमा तद्वति । विनयेति । विनयोऽभ्युत्थानादिरूपस्तद्युक्ते । एतेन तदानुकूल्यं सूचितम् । अन्वयेति । अन्वयो वंशः स विद्य तथा तस्मिन् । अत्रास्त्यर्थे वतुः । सुवंशज इत्यर्थः । अत्र प्रौढकुलोत्पन्नत्वेन रूपलावण्यातिशयत्वं व्यङ्ग्यम् । हृदयेति । हृदयस्य चित्तस्य हारिण्याक्षेपके । अनेन सर्वजनस्पृहणीयत्वं व्यङ्ग्यं सूचितम् । स कदाचिदिति । स राजा दिवसमनैषीन्निनायेति सर्वत्र संबध्यते । केन । कदेति । कदाचित्कस्मिंश्चित्प्रस्तावे । १ आख्यानकालेख्य २ अतिरूपवतोऽपि ३ अन्वयवत्यभिजनवति. पूर्वभागः । 13 Page #27 -------------------------------------------------------------------------- ________________ यमानमणिकर्णपूरः स्वयमारब्धमृदङ्गवायः संगीतकप्रसङ्गेन, कदाचिदविरलविमुक्तशरासारशून्यीकृतकाननो मृगयाव्यापारेण, कदाचिदाबद्धविदग्धमण्डलः काव्यप्रबन्धरचनेन, कदाचिच्छास्त्रालापेन, कदाचिदाख्यानकाख्यायिकेतिहासपुराणाकर्णनेन, कदाचिदालेख्यविनोदेन, कदाचिद्वीणया, कदाचिद्दर्शनागतमुनिजनचरणशुश्रूषया, कदाचिदक्षरच्युतकमात्राच्युतकबिन्दुमतीगूढचतुर्थपादप्रहेलिकाप्रदानादिभिर्वनितासंभोगसुखपराङ्मुखः सुहृत्परिवृतो दिवसमैनैषीत् । यथैव च दिवसमेवमारब्धविविधक्रीडापरिहासचतुरैः सुहृद्भिरूपेतो निशामनैषीत् । *********** गीतनृत्यवायत्रयं प्रेक्षणार्थे कृतं संगीतकमुच्यते तत्प्रसङ्गेन । तत्संबन्धेनेत्यर्थः । इतो राजानं विशेषयन्नाह - अनवरतेति । अनवरत निरन्तरं दोलायमानं कम्पमानं रत्नवलयं कङ्कणं यस्य स तथा । घर्घरिकेति । धर्धरिका वाद्यविशेषस्तस्या आस्फालनं वादनं तेन यः प्रकम्पश्चलनं तेन झणझणायमानो झणझणेति शब्दं कुर्वाणो मणिकर्णपूरो मणिखचितः कर्णालङ्कारो यस्य स तथा । स्वयमिति । स्वयमात्मनैवारब्धं विहितं मृदङ्गवद्वायं वादित्रे येन स तथा । उभयहस्ताभ्यां तद्वादनादिति भावः । पुनः कदाचित् । मृगयेति । मृगयाखेटकस्तस्या व्यापारेण व्या (पृत्या) । अविरलेति । अविरलमविच्छिन्नं विमुक्ताः क्षिप्ता ये शरा बाणास्तेषामासारो वेगेन वर्षस्तेन शून्यीकृतं काननं वनं येन स तथा । अत्र समग्रवनचारिव्यापादनं व्यङ्ग्यम् । आबद्धेति । आबद्धमारचितं विदग्धानां प्रेक्षावता मण्डलं येन स तथा । कदेति । काव्यं पूर्वव्यावर्णितस्वरूपं, प्रबन्धाः कथास्तेषां रचनेन ग्रथनेन । एतेन राज्ञोऽपि । पण्डितजनानुरागित्वं प्रेक्षावत्त्वं च सूचितम् । पुनः केन । शास्त्रेति । शास्त्राणां न्यायादीनामालापेनापृच्छनेन । 'आपृच्छालापः संभाषः' इति कोशः । पुनः केन । आख्यानकेति । आख्यानं व्यक्तकथा, आख्यायिका वासवदत्तादिका, इतिहासः पुरावृत्तम्, पुराणं मत्स्यादि, तेषामाकर्णनेन श्रवणेन । कदाचिदिति । आलेख्यं चित्रकर्म तस्य विनोदेन क्रीडयेत्यर्थः । पुनः केन । वीणयेति । वीणा विपञ्ची तद्वादनेन तच्छ्रवणेन चेत्यर्थः । पुनः केन । दर्शनेति । दर्शनार्थं विलोकनार्थमागताः प्राप्ता ये मुनिजनाः साधुलोकास्तेषां चरणशुश्रूषा पादसपर्या तया । पुनः केन । अक्षरेति । अक्षरस्य वर्णस्य च्युतिर्यत्र तदक्षरच्युतकम् । यथा - 'कुर्वन्दिवाकराश्लेषं दधच्चरणडम्बरम् । देव यौष्माकसेनायाः करेणुः प्रसरत्यसौ ॥ इति । अत्र करेणुपदात्ककारच्युतौ द्वितीयार्थप्रतीतिः । मात्रायाश्च्युतिर्यत्र तन्मात्राच्यतकम् । यथा - 'मलस्थितिमधः कुर्वन्यात्रैर्जुष्टो गताक्षरैः । विटः सेव्यः कुलीनस्य तिष्ठतः पथिकस्य सः ॥ इति । विटपदादिकारमात्राच्युतौ वटस्यार्थस्य प्रतीतिः । पद्यवर्णसंख्यया बिन्दुमात्रव्यवस्थापनेन तद्वर्णोपलब्धिः । बिन्दुमती यथा - गिळं एिं लिंगेः पुणः । ००१००० पुण०००००००ः ॥ इति एतत्पद्यं यथा - 'त्रिनयनचूडा रत्नं मित्रं सिन्धोः कुमुदतीबन्धुः । अयमुदयति घुसृणारुणरमणीवदनोपमश्चन्द्रः ॥ गूढो गुम्फश्चतुर्थः पादो यस्य तद्गूढचतुर्थपादं चित्रम् । एतदुदाहरणं विदग्धमुखमण्डनादवसेयम् । प्रहेलिका प्रवलिका । सा शाब्दी, आर्थी च । आद्योदाहरणं यथा - ‘पयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृह गतः ॥' अत्र धेन्वा ऊना धेनूना तां धेनूनामिति विंशतेर्विशेषणेनार्थावगमः सुगमः । आर्थी यथा - 'जइ सासुआइ भणिआ पियवासधरमि दीवयं देसु । ता कीस मुद्धडमुही हिययंमि निवेसए दिठ्ठिम् ॥ एतेन सर्वदा मम हृदयान्तर्वर्तित्वेन मम हृदयमेव भर्तुर्वासगृहम् । तेन तत्र दीपककरणानहत्वमिति ज्ञापितम् । एतासां प्रदान समर्पणम् । आदिशब्दात्स्वात्मना तन्निर्माणं च तैः । अथ नृपं विशेषयन्नाह - वनितेति । वनितानां योषितां यः संभोग उपभोगस्तजनितं यत्सुखं सातं तस्मात्पराङ्मुखोऽनभिमुखः । सुहृद्भिः सज्जनैमित्रैर्वा परिवृतः परिवेष्टितः । यथैवेति । यथा येन प्रकारेण दिवसं - १ संगीत. २ अनयत्. ३ चतुरः. कादम्बरी। Page #28 -------------------------------------------------------------------------- ________________ एकदा तु नातिदूरोदिते नवनलिनदलसंपुटभिदि किंचिन्मुक्तपाटलिम्नि भेगवति सहसमरीचिमालिनि राजानमास्थानमण्डपगतमङ्गनाजनविरुद्धेन वामपार्श्वावलम्बिना कौक्षेयकेण संनिहितविषधरेव चन्दनलता भीषणरमणीयाकृतिः, अविरलमैलयजानुलेपनधवलितस्तनतटोन्मज्जदैरावतकुम्भमण्डलेव मन्दाकिनी, चूडामणिप्रतिबिम्बच्छलेन राजाज्ञेव मूर्तिमती राजभिः शिरोभिरुह्यमाना, शरदिव कलहंसधवलाम्बरा, जामदग्न्यपरशुधारेव वशीकृतसकलराजमण्डला, विन्ध्यवनभूमिरिव वेत्रलतावती, राज्याधिदेवतेव विग्रहिणी प्रतीहारी सैमुपसृत्य *********** वासरमनैषीत् । एवं तथैव निशां त्रियामामपि । सुहृद्धिर्मित्रैरुपेतः संयुतः । कीदृशैः । आरब्धेति । आरब्धाः प्रारब्धा ये विविधक्रीडासु परिहासास्तेषु चतुरैर्दक्षैः अनैषीदगमयदिति संबन्धः । - एकदेति । एकस्मिन्समये प्रतीहारी द्वारदेशे नियुक्ता स्त्री समुपसृत्य निकटदेशमागत्य राजानं सविनयमब्रवीदित्यन्वयः । विनयेन सहवर्तमानमवोचदित्यर्थः । सूर्यवर्णनाव्याज उक्त्यवसरमाह- भगवतीति । श्रीसूर्ये सतीत्यर्थः । इतः सूर्यं विशेषयन्नाह - सहस्रेति । सहस्रसंख्या ये मरीचयः किरणास्तैर्मालते शोभते तान्धारयतीति वा यः स तथा तस्मिन् । नेति । नातिदूरं स्वल्पकालीनमुदितमुद्गमनं यस्य स तथा तस्मिन् । नवेति । नवानि प्रत्यग्राणि यानि नलिनानि तेषां दलानि पत्राणि तेषां यः संपुटो मुकुलस्तं भिनत्तीति स तथा तस्मिन् । किंचिदिति । किंचिदीषन्मुक्तः परित्यक्तः पाटलिमा श्वेतरक्तत्वं येन स तथा तस्मिन् । दूरोदितेत्यारभ्य त्रिभिर्विशेषणैः प्रत्यूषसमयो व्यज्यते । कीदृशं राजानम् । आस्थानेति । आस्थानमण्डप उपवेशनस्थलं तत्र गतं प्राप्तम् । प्रतीहारीं विशेषयन्नाह भीषणेति । भीषणा भयानका रमणीया मनोज्ञाऽऽकृतिराकारो यस्याः सा तथा । रमणीयत्वे दृष्टान्तमाह - चन्दनलतेवेति । यथा चन्दनलता वस्तुस्वभावादेव रमणीया तथेयमपीत्यर्थः । लताया भीषणत्वे हेतुमाह - संनिहितेति । संनिहिताः पार्श्ववर्तिनो विषधराः सर्पाः सा तथेत्यर्थः । अस्या भीषणत्वे आगन्तुकहेतुमाह - वामेति । वामपार्श्वे सव्यप्रदेशेऽवलम्बतेऽवतिष्ठत इत्येवंशीलेन कौक्षेयकेण खड्गेन । ‘तरवारिर्मण्डलाग्रः खड्गकौक्षेयकौ' इति कोशः । खड्गं विशिनष्टि - अङ्गनेति । अङ्गनाजनः प्रमदावर्गस्तस्य विरुद्धेन | त्रपोत्पादकेनेत्यर्थः । यथा चन्दनलताया निसर्गतो रमणीयत्वेऽपि संनिहितविषधरत्वेन भीषणत्वं तथैतस्या अपि स्वभाव बन्धु वामपार्श्ववंर्तिनिस्त्रिंशत्वेन भीषणत्वमित्यभिप्रायः । अथ प्रतीहारीं विशिनष्टि - अविरलेति । अविरलं घनतरं यन्मलयजस्य चन्दनस्यानुलेपनमुद्वर्तनं तेन धवलितं शुक्लीकृतं स्तनतटं कुचतटं यस्याः सा तथा । तत्र दृष्टान्तमाहमन्दाकिनीव स्वर्धुनीव । इतो गङ्गां विशेषयन्नाहउन्मज्जदिति । उन्मज्जन्स्नानं कुर्वन्य ऐरावतो हस्तिमल्लस्तस्य कुम्भमण्डलं शिरः पिण्डचक्रवालं यस्यां सा तथा । चन्द्रशुभ्रकुम्भोपमानेन कुचतटस्य काठिन्यं व्यज्यते । केव । मूर्तीति । मूर्तिमती विग्रहवती राजाज्ञेव नृपशिष्टिरिव । ननु राजाज्ञा संनिहितराजशिरोभिरुह्यमाना भवेत् । इयं तु तथा न भवतीत्यत आह - चूडेति । अर्थात्संनिहितराजमस्तकेषु चूडामणयः शिरोमणयस्तेषु यः प्रतिबिम्वः प्रतिच्छायस्तस्य छलं मिषं तेन । राजभिर्नृपैः शिरोभिरुत्तमाङ्गैरुह्यमाना वहमाना । पुनः केव । शरदिव घनात्यय इव । उभयत्र विशेषणसाम्यमाह कलहंसेति । कलहंसा एव कलहंस इव वा धवलं शुभ्रमम्बरं वस्त्रं यस्याः सा तथा पुनः केव । जामदग्नयेति । जमदग्नेर्गोत्रापत्यं जामदग्न्यः परशुरामस्तस्य परशुः कुठारस्तस्य धारा प्रान्तप्रदेशस्तद्वदिव । उभयविशेषणसाम्यमाह - वशीति । वशीकृतं स्वायत्तीकृतं क्रूरत्वेन व्यामोहेन वा सकलराज्ञां समग्रभूपतीनां मण्डलं चक्रं यया सा तथा । पुनः केव । विन्ध्यस्येति । विन्ध्यस्य जलबालकस्य वनमरण्यं तस्य भूमिः पृथिवीव तत्सदृशीव । उभयत्र साम्यमाह - वेत्रेति । वेत्राणां वेतसानां लताः सरलवृक्षा यत्र पक्षे वेत्रस्य ता यष्टिः । हस्त इति शेषः । यस्याः सा तथा । पुनः केव । राज्येति । राज्यस्याधिपत्यस्याधिष्ठात्री सांनिध्यकारिणी देवेतेव सू(सु) रीवे १ उन्मुक्त. २ भगवति मरीचि ३ चन्दना ४ अनुलेप. ५ चूडामणिसंक्रान्तप्रतिबिम्ब ६ समुपासृत्य. पूर्वभागः । 15 - - Page #29 -------------------------------------------------------------------------- ________________ क्षितितलनिहितजानुकरकमला सविनयमब्रवीत् - 'देव, बोरस्थिता सुरलोकमारोहतस्त्रिशङ्कोरिव कुपितशतमखहुंकारनिपातिता राजलक्ष्मीर्दक्षिणापथादागता चाण्डालकन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति - ‘सकलभुवनतलरलानामुदधिरिवैकभाजनं देवः । विहंगमश्चायमाश्चर्यभूतो निखिलभुवनतलरत्नमिति कृत्वा देवपादमूलमादायागताहमिच्छामि देवदर्शनसुखमनुभवितुम्' इति । एतदाकर्ण्य 'देवः प्रमाणम्' इत्युक्त्वा विरराम । उपजातकुतूहलस्तु राजा समीपवर्तिनां रोज्ञामालोक्य मुखानि 'को दोषः, प्रवेश्यताम्' इत्यादिदेश । __ अथ प्रतीहारी नरपतिकथनानन्तरमुत्थाय तां मातङ्गकुमारी प्रावेशयत् । प्रविश्य च सा नरपतिसहस्रमध्यवर्तिनमशनिभयपुञ्जितकुलशैलमध्यगतमिव कनकशिखरिणम्, अनेकरत्ना - *********** त्युत्प्रेक्षा । अपूर्वेति शेषः । अत एव विग्रहिणी शरीरिणी । पुनस्तामेव विशेषयन्नाह - क्षितीति । क्षितितले भूमितले निहिती स्थापितो जानू तलकीलो, अथ च करौ तावेव कमले यया सा तादृशी । सविनयं विनयेन सहवर्तमानम् । किमब्रवीत्तदाह-देवेति । हे देव हे स्वामिन्, द्वारे स्थिता चाण्डालानां दिवाकीर्तीनां कन्यका कुमारी पञ्जरे पक्षिणामाश्रये स्थितं शुकं कीरमादाय गृहीत्वा देवं स्वामिनं विज्ञापयति । स्वरहस्यं निवेदयतीत्यर्थः । केव । सुरेति । सुराणां देवानां लोकं स्वर्गमारोहत आरोहणं कुर्वतस्त्रिशङ्कोरयाज्यस्य राजलक्ष्मीरिव । तामेव विशेषयन्नाह - कुपितेति । त्रिशङ्कोरयाज्यस्य देवयागात्स्वर्गे वासो न भवतीत्यतः कुपितः क्रुद्धो यः शतमख इन्द्रस्तस्य हुंकारः कोपध्वनिस्तेन निपातिताधः क्षिप्ता । कीदृशी चाण्डालकन्यका । दक्षिणेति । दक्षिणापथाद्दक्षिणमार्गादागता प्राप्ता । प्रतीहारी चाण्डालकन्यकायाः सामान्यतो विज्ञापनाविषयमाह - सकलेति । चाण्डालकन्यकायास्त्वियं विज्ञापना । देवेति । हे देव, इति कृत्वा तं शुकमादाय देवस्य राज्ञः पादमूलं चरणमूलमहमागता देवदर्शनसुखं महाराजस्यावलोकनसातमनुभवितुमनुभवविषयीकर्तुमिच्छामि समीहे । इतिशब्दवाच्यमाह - सकलेति । सकलानि समग्राणि यानि भुवनतलानि तेषु यानि रत्नानि तेषामेकं भाजनमुत्कर्षस्थानम् । क इव । उदधिरिव समुद्र इव । यथोदधिः सर्वरत्नानां भाजनं तथा देवो भवानपीत्यर्थः । अयं विहंगमः पक्षी शुक आश्चर्यभूत इत्यद्भुतप्रेक्षणविषयः अतस्तादृशोक्तविशेषत्वादेव निखिलानि यानि भुवनतलानि तेषां रत्नमुत्कृष्टम् । 'जातौ जातौ यदुत्कृष्टं तद्रनमभिधीयते' इति । आदाय गृहीत्वा । देवः प्रमाणमिति । यदेवास्य राज्ञोऽनुशासनं तदेव मया विधेयमित्युक्त्वा विरराम तूष्णीं बभूवेत्यन्चयः । प्रतीहार्युक्तं चाण्डालकन्यकाविज्ञापनावाक्यं सर्वं नृपेणाकर्ण्य राजमन्त्रिवैमत्यं निराकुर्वन्प्रतीहारी प्रतीत्यादिदेश । को दोषः, प्रवेश्यतामिति । स्पष्टम् । कीदृशो राजा । उपेति । उपजातमुत्पन्नं कुतूहलं कौतुकं यस्य स तथा । किं कृत्वा । समीपवर्तिनां निकटस्थानां राज्ञां मन्त्रिणां च मुखानि वदनान्यालोक्य । निरीक्ष्येत्यर्थः । तेषामपि तद्दिदृक्षेति ज्ञात्वेत्यर्थः । अथेति । अथ नरपतिकथनानन्तरमुत्थायोत्थानं कृत्वा प्रतीहारी तां मातङ्गकुमारी प्रावेशयत्प्रवेशमकारयत् । प्रविश्य चेति । प्रविश्य प्रवेशं कृत्वा सा चाण्डालकुमारी राजानमद्राक्षीत् । अपश्यदित्यर्थः । ‘दृशिप्रेक्षणे' इत्यस्य लुङि रूपम् । राजानं विशेषयन्नाहनरपतीति । नरपतीनां राज्ञां यत्सहसां तन्मध्यवर्तिनम् । तदन्तरालस्थितमित्यर्थः । कमिव । कनकशिखरिणमिव मेरुमिव । कीदृशं मेरुम् । अशनीति । अशनेरिन्द्रायुधाद्वज्रायद्भयमातङ्कस्तेन पुञ्जिता एकत्रीभूता ये कुलशैलाः क्षेत्रसीमाकारिपर्वतास्तेषु मध्यगतं तदन्तः स्थितम् । पुनर्नृपं विशिनष्टि - अनेकेति । अनेकानि विविधानि यानि रत्नाभरणानि मणिखचितभूष - १ कमलं. २ द्वारि. ३ निपतिता. ४ चण्डालकन्यका काचित्. ५ विज्ञपयति. ६ तलसर्वरलाना. ७ भूत. ८ मूलमेनम्. ९ अवलोक्य. १० वचना. (16) कादम्बरी । - कथामुखे Page #30 -------------------------------------------------------------------------- ________________ भरणकिरणजालकन्तरितावयवमिन्द्रायुधसहससंछादिताष्टदिग्भागमिव जेलधरदिवसम्, अवलम्बितस्थूलमुक्ताकलापस्य कनकश्रृङ्खलानियमितमणिदण्डिकाचतुष्टयस्य गगनसिन्धुफेनपटलपाण्डुरस्य नातिमहतो दुकूलवितानस्याधस्तादिन्दुकान्तपर्यङ्किकानिषण्णम्, उद्धूयमानसुवर्णदण्डचामरकलापम्, उन्मयूखमुखकान्तिविजयपराभवप्रणते शनिव स्फटिकपादपीठे विन्यस्तवामपादम्, इन्द्रनीलमणिकुट्टिमप्रभासंपर्कश्यामायमानैः प्रणतरिपुनिःश्वासमलिनीकृतैरिव चरणनखमयूखजालैरुपशोभमानम्, आसनोल्लसितपद्मरागकिरणपाटलीकृतेनाचिरमृदितमधुकैटभरुधिरारुणेन हरिमिवोरुयुगलेन विराजमानम्, अमृतफेनधवले गोरोचनालिखितहंसमिथुनसनाथपर्यन्ते चारुचामरवायुप्रनर्तितान्तदेशे दुकू वसानम्, अतिसुरभिचन्दना ** *** णानि तेषां यानि किरणजालकानि । जालान्येव जालकानि स्वार्थे कपू । मरीचिमण्डलानि तैरन्तरिता आच्छादिता अवयवा अपघना यस्य स तम् । नीलपीतादिवर्णयोगात् । तत्रोपमानमाह-इन्द्रेति । इन्द्रायुधानां हरिकार्मुकाणां यत्सहसं तेन संछादितास्तिरोहिता अष्टौ दिग्भागाः ककुभां प्रदेशा यस्मिंस्तथाभूतं जलधरदिवसमिव प्रावृडूदिनमिव । पुनस्तमेव नृपं विशिनष्टि नातीति । नातिमहतः स्थानोचितप्रमाणस्य दुकूलं क्षौमं तस्य वितानमुल्लोचः । 'उल्लोचो वितानं कदकोऽपि ' इत्यभिधानचिन्तामणिः । तस्याधस्तात्तदधः प्रदेश इन्दुकान्तानां चन्द्रकान्तमणीनां या पर्यङ्किका मञ्चिका तस्यां निषण्णमुपविष्टम् । अथ वितानं विशेषयन्नाह - अवेति । अवलम्बित आश्रितः स्थूलानां स्थविष्ठानां मुक्तानां रसोद्भवानां कलापो जालं येन स तथा । कस्य तस्य । कनकेति । कनकं सुवर्णं तस्या या श्रृङ्खला बन्धनरश्मयस्तैर्नियमिता निबद्धा मणिदण्डिका रत्नखचिता यष्टयस्तासां चतुष्टयं यस्मिन्स तथा यस्य । गगनेति । गगनसिन्धोः स्वर्णाद्याः फेनो डिण्डीरः । ‘डिण्डीरोऽब्धिकफः फेन' इत्यभिधानचिन्तामणिः । तस्य पटलं समूहस्तद्वत्पाण्डुरं शुभ्रं तस्य । पुनर्नृपं विशिनष्टिउद्भूयेति । उद्भूयमानो व्यज्यमानः सुवर्णस्य काञ्चनस्य दण्डोऽवलम्बनयष्टिर्येष्वेतादृशानि चामराणि प्रकीर्णकानि तेषां कलापः समूहो यस्य स तम् । स्फटिकेति । स्फटिकानां स्वच्छमणीनां यत्पादपीठं चरणस्थापनस्थलं तत्र विन्यस्तः स्थापितो वामपादः सव्यचरणो येन स तथा तम् । पादपीठं विशेषयन्नाह - शशिनीति । शशिनीव चन्द्रमसीव । अथ शशिनं विशेषयन्नाह - उन्मयूखेति । उदूर्ध्वं मयूखाः किरणा यस्मिन्नेतादृशं यन्मुखं तस्य या कान्तिर्दीप्तिस्तया यो विजयो जयस्तेन यः पराभवस्तिरस्कारस्तेन प्रणते पादसंलग्ने । पुनर्नृपं विशेषयन्नाह चरणेति । चरणानां पादानां ये नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां जालानि समूहास्तैरुपशोभमानं भासमानम् । मयूखजालं विशेषयन्नाह - इन्द्रेति । इन्द्रनीलमणीनामिन्द्रमणीनां या कुट्टिमप्रभा बद्धभूमिकान्तिस्तस्याः संपर्को मिश्रभावस्तेन श्यामायमानैः श्यामवदाचरमाणैः । कीदृशैरिव । प्रणतेति । प्रणता नता ये रिपवः शत्रवस्तेषां ये निःश्वासाश्चेतनाः तैर्मलिनीकृतैर्मालिन्यं प्राप्तैरिव । पुनर्नृपं विशेषयन्नाह - ऊरू इति । ऊरू सक्थी तयोर्युगलं तेन विराजमानं शोभमानम् । ऊरूयुगलं विशिनष्टि-आसनेति । आसनमुपवेशनस्थलम्, उल्लसिता देदीप्यमाना ये पद्मरागा लोहितमणयस्तेषां ये किरणा मयूखास्तैः पाटलीकृतेन । श्वेतरक्तीकृतेनेत्यर्थः । ‘श्वेतरक्तस्तु पाटलः' इति कोशः । कमिव । अचिरेति । अचिरं त्वरितं मृदितो मर्दितो यो मधुकैटभो' दैत्यविशेषस्तस्य द्रुधिरं रक्तं तेनारुणेन रक्तेनोरुयुगलेन विराजमानं हरिमिव कृष्णमिव । पुनः किं कुर्वाणं नृपम् । वसानं दधानम् । किम् । दुकूले क्षीरोदवस्त्रे । अथैते विशिनष्टि - अमृतेति । अमृतस्य सुधायाः फेनस्तद्बद्धवले शुभ्रे । गोरोचनेति । गोरोचना गोपित्तं तेन लिखितानि यानि हंसमिथुनानि सितच्छदयुग्मानि तैः सनाथः सहितः पर्यन्तः प्रान्तदेशो ययोस्ते । चार्विति । चारुणी च ते चामरे च चारुचामरे तयोर्वायुना समीरणेन प्रनर्तिता आन्दोलिता अन्तदेशाः प्रान्तदेशा ययोस्ते । पुनर्नृपं विशेषयन्नाह - अतीति । - टिप्प० - 1 उत्प्रेक्षालंकारः । 2 यौ मधु-कैटभौ दैत्यविशेषौ । इत्युचितम् । पाटा० - १ जलधरसमय. २ आलम्बित ३ पाण्डरस्य ४ इन्दुकान्तमणि. ५ कनक. ६ उन्मयूखकान्तिनिचयपराभव; उन्मयूखमुखविजयपराभव; उन्मयूखमुखकान्तिविजिते पराभव. ७ स्फाटिके. ८ जालकैः ९ पवननर्तित. १० अन्तर्देशे. शूद्रकवर्णनम् पूर्वभागः । 17 Page #31 -------------------------------------------------------------------------- ________________ नुलेपनधवलितोरःस्थलम् उपरिविन्यस्तकुङ्कुमस्थासकमन्तरान्तरानिपतितबालातपच्छेदमिव कैलासशिखरिणम्, अपरशशिशङ्कया नक्षत्रमालयेव हारलतया कृतमुखपरिवेषम्, अतिचपलेराज्यलक्ष्मीबन्धनिगडकटकशङ्कामुपजनयतेन्द्रमणिकेयूरर्युग्मेन मलयजरसगन्धलुब्धेन भुजङ्गद्वयेनेव वेष्टितबाहुर्युगलम्, ईर्षंदालम्बिकर्णोत्पलम्, उन्नतघोणम्, उत्फुल्लपुण्डरीकँनेत्रम्, अमलकलधौतपट्टायतमष्टमीचन्द्रशकलाकारमशेषभुवनराज्याभिषेकपूतमूर्णासनाथं ललाटदेशमुद्वहन्तम्, आमोदिमालतीकुसुमशेखरमुषसि शिखरपर्यस्ततारकापुञ्जमिव पश्चिमाचलम्, आभरणप्रभापिशङ्गिताङ्गतया लग्नहरहुताशमिव मकरध्वजम्, आसन्नवर्तिनीभिः सर्वतः - *********** 1 अतिसुरभि अतिसुगन्धि यच्चन्दनं मलयजं तस्यानुलेपनमङ्गरागस्तेन धवलितं शुभ्रीकृतमुरःस्थलं यस्य स तथा तम् । उपरीति । उपरि । अर्थाद्वक्षसः । विन्यस्ता विहिताः कुङ्कुमस्य केसरस्य स्थासका हस्तबिम्बा यस्य स तम् । 'स्थासकस्तु हस्तबिम्बम्' इति कोशः । कमिव । अन्तरेति । 'अन्तरान्तरा मध्ये मध्ये निपतिताः पर्यस्ता बालातपस्य नवीनालोकस्य छेदाः खण्डा यस्मिन्नेतादृशं कैलासशिखरिणमिव रजताद्रिमिवं । पुनः प्रकारान्तरेण तमेव नृपं विशेषयन्नाह - अपरेति । अपरोऽन्यो यः शशी चन्द्रस्तस्य या शङ्का भ्रान्तिस्तया नक्षत्राणि तारास्तासामाली (सा माला) श्रेणी तद्रूपयैव हारलतया । ' हारो मुक्तान्तः प्रालम्बसक्कलापावली लता' इति कोशः । तेन कृ विहितो मुखस्याननस्य परिवेषः परिधिर्यस्य स तम् । अनेन हारलताया अत्यन्तनैर्मल्यं मुखस्य च चन्द्रसाम्यं सूचितम् । 'परिधिः परिवेषश्च' इति कोशः । अतीति । अतिचपलातिचञ्चला या राज्यलक्ष्मीराधिपत्यश्रीस्तस्या बन्धो नियमनं तत्र निगडेोऽन्दुकस्तस्य यत्कटकं वलयं तस्य शङ्कामारेकीमुपजनयता कुर्वता । एवंभूतेन्द्रमणियुक्तमिन्द्रनीलमणिखचितं यत्केयूरयुग्ममङ्गदद्वन्द्वं तेन वेष्टितं परिक्षिप्तं बाहुयुगलं भुजद्वितयं यस्य स तथा तम् । यद्यपि समस्तवेष्टितपदस्य बाहुपदान्वितस्य विभक्त्यन्तरबद्धेनान्चयस्तथापि विशेषे क्वचित् ‘मानेन जितेन्द्रियः' इत्यादौ तथा दृष्टत्वाददोषो द्रष्टव्यः । केनेव । मलयेति । मलयजश्चन्दनसक्तो यो रंसो द्रव्यस्तस्य गन्धे परिमले लुब्धेनासक्तेन भुजङ्गद्वयेनेव सर्पयुग्मेनेव । ईषदिति । ईषत्किंचिदालम्बि लम्बमानं कर्णोत्पलं श्रवणपङ्कजं यस्य स तथा तम् । उन्नतेति । उन्नतोच्चा घोणा नासिका यस्य स तम् । उत्फुल्लेति । उत्फुल्लं विकसितं यत्पुण्डरीकं सिताम्भोजं तद्वनेत्रे लोचने यस्य स तम् । किं कुर्वन्तम् नृपम् । ललाटदेशमलिकप्रदेशमुद्वहन्तं धारयन्तम् । अथवालीकं विशेषयन्नाह - अमलेति । अमलं निर्मलं यत्कलधौतं सुवर्णं तस्य यः पट्टस्तद्वदायतं विस्तीर्णम् । 'अयनम्' इति पाठे सुवर्णतिलकस्थानम् । 'अयनं सरणिर्मार्गः' इति कोशः । अष्टमीति । अष्टम्यां यच्चन्द्रशकलं तदर्धभागस्तद्वदाकार आकृतिर्यस्य तत्तथा । उभयोः पक्षयोरष्टम्यामष्टावेव कला इत्यर्धचन्द्रः । अतोऽष्टमीग्रहणं युक्तमेवेति भावः । अशेषेति । अशेषाणि समग्राणि यानि भुवनानि तेषां राज्यमाधिपत्यं तस्याभिषेको मङ्गलस्नानं तेन पूतं पवित्रम् । ऊर्णेति । ऊर्णा भ्रुवोरन्तरावर्तस्तेन सनाथं सहितम् । 'ऊर्णा मेषादिलोम्नि स्यादावर्तस्त्व (र्ते चा) न्तरा भ्रुवो:' इत्यमरः । स च चक्रवर्तिप्रभृतीनामेव नान्यजनस्य । तदुक्तम्- 'भूद्वयमध्ये मृणालतन्तुसूक्ष्मं शुभ्रायतमेकं प्रशस्तावर्तं महापुरुषलक्षणम्' इति । पुनरेव नृपं विशेषयन्नाह - आमोदीति । आमोदीनि सुगन्धीनि यानि मालतीकुसुमानि जातीपुष्पाणि तेषां शेखरश्चडाभूषणं यस्य स तथा तम् । कमिव । पश्चिमाचलमिवास्ताद्रिमिव । कीदृशम् । उषसीति । उषसि प्रभाते शिखरे सानुनि पर्यस्ताः पतितास्तारकाणां नक्षत्राणां पुञ्जाः समूहा यस्मिन तम् । अत्र शैलशिखरनृपोत्तमाङ्गयोः पुष्पपुञ्जतारकयोश्चोपमानोपमेयभावः । मकरेति । मकरस्य जलजन्तुविशेष ध्वजोऽङ्को यस्य तमिव । मदनसादृश्यं प्रदर्शयन्नाह - आभरणेति । आभरणानां भूषणानां या प्रभा कान्तिस्तया पिशङ्गितं पीतरक्तीकृतमङ्गं यस्य तस्य भावस्तत्ता तया कृत्वा लग्न आसक्तो हरस्येश्वरस्य हुताशोऽग्नि - टिप्पo - 1 शृङ्खला । 2 भ्रान्तिमित्यर्थः । पाठा० - १ अन्तरानिपतित; अन्तरान्तरानिपतित. २ राजलक्ष्मीबन्धननिगडशङ्कां. ३ इन्द्रनीलमणि. ४ युगलेन. ५ शिखरम्. ६ आलम्बित. ७ लोचनम्. ८ पट्टायित; पट्टायमान. ९ सलिलपूत. १० अङ्गरागतया. 18 कादम्बरी | कथामुखे Page #32 -------------------------------------------------------------------------- ________________ सेवार्थमागताभिरिव दिग्वधूभिर्वारविलासिनीभिः परिवृतम्, अमलमणिकुट्टिमसंक्रान्तसकलदेहप्रतिबिम्बतया पतिप्रेम्णा वसुंधरया हृदयेनेवोह्यमानम्, अशेषजनभोग्यतामुपनीतयाप्यसाधारणया राजलक्ष्म्या सैमालिङ्गितदेहम्, अपरिमितपरिवारजनमप्यद्वितीयम्, अनन्तगजतुरगसाधनमपि खड्गमात्रसहायम्, एकदेशस्थितमपि व्याप्तभुवनमण्डलम्, आसने स्थितमपि धनुषि निषण्णम्, उत्सादितद्विषदिन्धनमपि ज्वलातापानलम्, आयतलोचनमपि सूक्ष्मदर्शनम्, महादोषमपि सकलगुणाधिष्ठानम्, कुपतिमपि कलत्रवल्लभम्, अविरतप्रवृत्त - *********** यस्य स तम् । अत्राभरणदीप्तिहरनेत्रोद्भववढ्यो राजमकरध्वजयोचोपमानोपमेयभावो दर्शितः । आसन्नेति । आसनवर्तिनीभिर्निकटस्थायिनीभिः सर्वतो विश्वतः सेवार्थं सपर्यार्थमागताभिः प्राप्ताभिरविलासिनीभिराङ्गनाभिः । काभिरिव । व्यापकत्वाद्दिश एव वध्वः स्त्रियो दिग्वध्वस्ताभिरिव । अत्र दिग्वधूवारविलासिन्योः साम्यं सूचितम् । ताभिः परिवृतं परिवेष्टितम् । अमलेति । अमलाः स्वच्छा ये मणयश्चन्द्रकान्नाद्यास्तेषां कुट्टिम बद्धभूस्तस्मिन्संक्रान्तं यत्सकलदेहप्रतिबिम्ब समग्रशरीरप्रतिच्छायस्तस्य भावस्तत्ता तया । हेत्वर्थे तृतीया । पतिः स्वामी तेस्य प्रेम प्रीतिस्तेन च वसुंधरया पृथिव्या हृदयेनेव स्वान्तेनेवोह्यमानं वहमानम् । अशेषेति । अशेषाः समग्रा ये जना लोकास्तेषां भोग्यतां भोग्योग्यतामुपनीतया प्राप्तयापि । सर्वसाधारणयेत्यर्थः । असाधारणया च तथा चान्येषामेतादृशी राजलक्ष्मी स्तीत्यपकर्षोत्कर्षाभ्यां साधारणासाधारणया च राजलक्ष्म्या समालिङ्गितमुपगृहितं देहं शरीरं यस्य स तथा तम् । अत्र विरोधाभासोऽलंकारः । साधारणासाधारणयोर्विरुद्धधर्मत्वात् । तत्परिहारपक्षेऽसाधारणया । सर्वोत्कृष्टयेत्यर्थः । अपरिमितेति । अपरिमितोऽसंख्येयः परिवारजनः परिच्छदजनो यस्य स तम् । एवं बहुजनत्वेऽप्यद्वितीयं न द्वितीयो जनो यस्येति विरोधः । तत्परिहारपक्षेऽद्वितीय इत्यस्य सर्वोत्कृष्ट इत्यर्थः । अनन्तेति । अनन्तान्यसंख्यानि गजा हस्तिनस्तुरगा. अधास्तेषां साधनान्युपकरणानि सहाया यस्य । 'निर्वर्तनोपकरणानुव्रज्यासु च साधनम्' इत्यमरः । एवं च बहुसहायवत्त्वेऽपि केवलं खड्गः खड्गमानं सहायो यस्येति विरोधः । तत्परिहारपक्षे खड्गमात्रसहायमित्यस्य युद्धे तदन्यानपेक्षत्वमित्यर्थः । एकदेशस्थितमिति । एकदेशः सभामण्डपादिः, जनपदो वा । तत्र स्थितमपि निषण्णमपि व्याप्त समाक्रान्तं भुवनमण्डलं जगन्मण्डलं येनेति विरोधः । परिहारपक्षे व्याप्तं ख्यातं भुवनमण्डले यमिति विग्रहः । विशेषेणाप्तं व्याप्तमिति वार्थः । 'व्याप्तं ख्याते समाक्रान्ते' इति विश्वः । आसने स्थितमिति । आसने भद्रासने स्थितमप्युपविष्टमपि धनुषि कार्मुक निषण्ण स्थितमिति विरोधः । परिहारपक्षे धनुःसंज्ञा तस्मिन्स्थितमित्यर्थः । नामश्रवणेन विपक्षाणां साक्षादागत इव इति भयोत्पत्तेः । 'धनुःसंज्ञा प्रियालद्रौ इति विश्वः । उत्सादितेति । उत्सादितं व्यापादितं द्विषन्त एवेन्धनमेधो येन । एवंभूतमपि ज्वलातापानलमिति विरोधः । परिहारपक्षे ज्वलदित्यस्य दीप्यदित्यर्थः । आयतेति । आयते विस्तीर्णे लोचने यस्यैवंभूतमपि सूक्ष्ममविपुलं दर्शनं लोचनं यस्येति विरोधः । परिहारपक्षे सूक्ष्ममध्यात्मविषयं दर्शनं ज्ञानं यस्येत्यर्थः । 'सूक्ष्म स्यात्कैतवेऽध्यात्मेऽप्यणौ इति विश्वः । 'दर्शन नयनस्वप्नबुद्धिधर्मोपलब्धिषु' इति विश्वः । महादोषमिति । महान्दोषो यस्मिन्नेवभूतमपि सकलगुणाधिष्ठानं समग्रगुणस्थानमिति विरोधः । परिहारपक्षे महती दोषा बाहुर्यस्येत्यर्थः । 'दोषा रात्रौ भुजेऽपि च' इति विश्वलोचनः । कुपतिमिति । कुत्सितश्चासौ पतिश्च कुपतिरेवंभूतमपि कलत्रवल्लभं स्त्रीजनप्रियमिति विरोधः । तत्परिहारपक्षे कुः पृथिवी तस्याः पतिः । स्वामीत्यर्थः । एतादृशस्तप्रियः । स्यादिति न विरोधः । अविरतमिति । अविरतं संततं प्रवृत्तं दानं यस्यैवंभूतमप्यमदं दानरहितमिति विरोधः । तत्परिहारस्त्वेवम् । अविरतं प्रवृत्तं दानं त्यागो यस्यैवंभूतमप्यमदम् । गर्वरहित - - - - - - - - - - - - - - - - - - - -- - - - - - - - - - - - - टिप्प० - 1 धार्यमाणमित्युचितम् । 2 धनुषि आस्थितं धनुषि विजयविश्वासिनमित्यर्थः । पाठा० - १ सेवासंगता. २ संक्रान्तप्रतिबिम्ब; संक्रान्तदेहप्रतिबिम्ब. ३ समालिङ्गितम्. ४ आसनस्थितम् आसनगतम्. ५ अशेषद्विषत्. ६ दर्शिनम्. ७ कलत्रचय. शूद्रकवर्णनम् - पूर्वभागः । Page #33 -------------------------------------------------------------------------- ________________ दानमप्यमदम्, अत्यन्तशुद्धस्वभावमपि कृष्णचरितम्, अकरमपि हस्तस्थितभुवनतलं राजानमद्राक्षीत् । आलोक्य च सा दूरस्थितैव प्रचलितरत्नवलयेन रक्तकुवलयदलकोमलेन पाणिना जर्जरितमुखभागां वेणुलतामादाय नरपतिप्रतिबोधनार्थं संकृत्सभाकुट्टिममाजघान, येन सकलमेव तेंद्राजकमेकपदे वनकरियूथमिव तालशब्देन युगपदावलितवदनमवनिपालमुखादाकृष्य चक्षुस्तदभिमुखमासीत् । अवनिपतिस्तु ‘दूरादालोकय' इत्यभिधाय प्रतीहार्या निर्दिश्यमानां तां वयःपरिणाम भ्रशिरसा रक्तराजीवनेत्रापाङ्गेनानवरतकृतव्यायामतया यौवनापगमेऽप्यशिथिलशरीरसंधिना सत्यपि मातङ्गत्वे नातिनृशंसाकृतिनानुगृहीतार्यवेषण शुभ्रवाससा पुरुषेणाधिष्ठितपुरोभागाम्, - *********** मित्यर्थः । 'दानं गजमदे त्यागे पालनच्छेदशुद्धिषु' इति विश्वः । अत्यन्तेति । अत्यन्तमतिशयेन शुद्धो निर्मलः स्वभावः प्रकृतिर्यस्यैवभूतमपि कृष्णं श्याम चरितमाचारो यस्येति विरोधः । परिहारपक्षे कृष्णः केशवोऽर्जुनो वा तद्वच्चरितं यस्येत्यर्थः । 'कृष्णस्तु केशवे । व्यासेऽर्जुने कोकिले च' इति विश्वः । अकरमिति । न विद्यते करो हस्तो यस्यैवंभूतमपि हस्ते करे स्थितं भुवनतलं यस्येति विरोधः । तत्परिहारपक्षे न विद्यते करो दण्डो यस्येति विग्रहः । 'बलिः करो भागधेयः' इति कोशः । __ आलोक्य चेति । राजनमालोक्य वीक्ष्य सा चाण्डालकन्यका सहसैव नृपसंनिधौ गमनमनभिज्ञलक्षणमिति दूरस्थितैव दविष्टप्रदेशस्थैव वेणुलतां वंशयष्टिमादाय गृहीत्वा । नरेति । नरपते राज्ञः प्रतिबोधनं संमुखीकरणं तदर्थं सभाकुट्टिमं परिषद्बद्धभूमि सकृदेकवारं पाणिना हस्तेनाजघान ताडयामास । अथ पाणिं विशेषयन्नाह - प्रचलितमिति । प्रचलितं प्रकम्पितं रनवलयं मणिखचितकणं यस्मात्स तथ तेन । रक्तमिति । रक्तं यत्कुवलयं कुवेलें तस्य दलानि पत्राणि तद्वत्कोमलेन सुकुमारेण । अनेन लक्षणोपेतत्वं हस्तस्य सूचितम् । वेणुयष्टिं विशेषयन्नाह - जर्जरितेति । जर्जरितो जर्जरीभूतो मुखभागोऽग्रभागो यस्यां सा तथा ताम् । अग्रभागदलनाच्छब्दविशेषो जायत इति प्रसिद्धेः । येनेति । येन ध्वनिना सकलमेव तद्राजकं राजसमूहः । युगपदिति । युगपत्समकालमावलितं परावर्तितं वदनं मुख येनैवंभूतं तदभिमुखं तस्याः संमुखमासीदभवत् । किं कृत्वा । आकृष्याकर्षणं कृत्वा । कस्मात् । अवनिपालमुखाद्राजवदनात् । किम् । चक्षुर्नेत्रम् । तत्रोपमानम् । किमिव । वनकरिणामरण्यहस्तिनां यूथमिव समूहमिव । केन । तालशब्देन तालो वाद्यविशेषस्तस्य शब्देन तदुत्थध्वनिना एकपद एककालम् । एकश्रेणीभूतत्वमात्रे दृष्टान्तः । । अवनीति । अवनिपती राजा तु तामनिमिषे निमेषोन्मेषवर्जिते लोचने यस्यैवंभूतो ददर्शेत्यन्वयः । कथंभूता ताम् । निर्दिश्यमाना लोचनविषयीक्रियमाणाम् । कया । प्रतिहार्या द्वाररक्षानियुक्तया । किं कृत्वा । अभिधाय कथयित्वा । किम् । दूरादालोकयेति दूरादेव प्रेक्षस्वेति । राज्ञ इति शेषः । इतश्चाण्डालकन्यका विशेषयन्नाह - अधीति । अधिष्ठित आश्रितः पुरोभागो यस्याः सा तथा ताम् । केन । पुरुषेण पुंसा । तमेव पुरुषं विशेषयन्नाह - वय इति । वयसः परिणामेन वार्धक्येन शुभ्रं श्वेतम् । आधाराधेययोरभेदोपचारात् । शिरो मौलिर्यस्य स तथा तेन । रक्तेति । रक्तं लोहितं यद्राजीवं कमलं तद्वन्नेत्रापाङ्गौ लोचनप्रान्तौ यस्य स तथा तेन । अनवरतेति । अनवरतं निरन्तरं कृतो विहितो व्यायामः परिश्रमः (येन सः) तस्य भावस्तत्ता तया यौवनापगमेऽपि तारुण्यनिवृत्तावपि न शिथिलाः श्लथाः । शरीरस्य संधयो धातूनामस्थ्यादीनां च बन्धा यस्य स तथा तेन । सत्यपीति । सत्यपि विद्यमानेऽपि मातङ्गत्वे चाण्डालत्वे नातिनृशंसातिराकृतिराकारो यस्य स तथा तेन । अन्विति । अनुगृहीतः स्वीकृत आर्यस्य सभ्यस्य वेषो नेपथ्यं येन स तथा तेन । शुभ्रमिति । शुभ्रं श्वेतं वासो वस्त्रं यस्य स तथा तेन । पुनस्तां किं क्रियमाणाम् । अनुग - टिप्प० - 1 कमलमित्यर्थः । 2 तालशब्देन वनकरियूथमिवेति राजसमूहस्योपमानम् । पाठा० - १ अतिशुद्ध. २ सकलभुवन. ३ प्रबोधनार्थम् ४ असकृत्. ५ राजन्यक. ६ तेन वेणुलताध्वनिना युगपत्. ७ पाण्डुर. ८ ईक्षणा. ९ धवल. 20 कादम्बरी। कथामुखे-) Page #34 -------------------------------------------------------------------------- ________________ आकुलाकुलकाकपक्षधारिणा कनकशलाकानिर्मितमप्यन्तर्गतशुकप्रभाश्यामायमानं मरकतमयमिव पञ्जरमुरहता चाण्डालदारकेणानुगम्यमानाम्, असुरगृहीतामृतापहरणकृतकपटपटुविलासिनीवेषस्य श्यामतया भगवतो हरेरिवानुकुर्वतीम्, संचारिणीमिवेन्द्रनीलमणिपुत्रिकाम्, गुल्फावलम्बिनीलकञ्चुकेनावच्छन्नशरीराम्, उपरिरक्तांशुकरचितावगुण्ठनाम्, नीलोत्पलस्थलीमिव निपतितसंध्यातपाम्, एककर्णावंसक्तदन्तपत्रप्रभाधवलितकपोलमण्डलाम्, उद्यदिन्दुकिरणच्छुरितमुखीमिव विभावरीम्, आकपिलगोरोचनारचिततिलकतृतीयलोचनामीशानरचितानुरचितकिरातवेषामिव भवानीम्, उरःस्थलनिवाससंक्रान्तनारायणदेहप्रभाश्यामलितामिव श्रियम्, कुपितहरहुताशनदह्यमानमदनधूममलिनीकृतामिव रतिम्, उन्मदहलिहलाकर्षण - *********** म्यमानामनुव्रज्यमानाम् । केन । चाण्डालदारकेणान्त्यजसूनुना । तमेव विशिनष्टि - आकुलेति । आकुलाकुल इतस्ततः संलग्नो यः काकपक्षः शिखा तां धत्त इत्येवंशीलस्तथा तेन । 'सा बालानां काकपक्षः शिखण्डकशिखाण्डकौ इति कोशः । किं कुर्वता तेन । उद्घहता धारयता । किम् । पञ्जरं पक्षिरक्षणस्थलम् । अथ पञ्जरं विशेषयन्नाह - कनकेति । कनकस्य सुवर्णस्य याः शलाका इषीकास्ताभिर्निर्मितं रचितम् । कनकस्य पीतत्वादहिःपीतमपि तदन्तर्गतः शुकः कीरस्तस्य प्रभा कान्तिस्तया श्यामायमानं श्याममिव दृश्यमानम् । किमिव । मरकतमयमिव मरकतमश्मगर्भ तनिष्पन्नमिव । किं कुर्वतीम् । अनुकुर्वती सादृश्यमनुभवन्तीम् । कस्य । भगवत ऐश्वर्यवतो हरेरिव कृष्णस्येव । कया । श्यामतया । कृष्णत्वेनेत्यर्थः । कीदृशस्य हरेः । असुरेति । असुरैर्दैत्यैर्गृहीतं यदमृतं तस्य यदपहरणमपहृतिस्तत्र कृतो विहितो यः कपटेन कैतवेन पटुःप्रकटो विलासिनी मोहिनी स्त्री तस्या वेष आकृतिर्येन स तथा तस्य । तदुक्तम्-'हरिस्त्वामाराध्य प्रणतजन सौभाग्यजननी पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्' इति । पुनस्तामेव विशेषयन्नाह - संचारेति । संचारिणी संचरणशीला जङ्गमप्राणिरूपामिन्द्रनीलमणिपुत्रिकामिवेन्द्रमणिपाञ्चालिकामिव । गुल्फेति । गुल्फावलम्बी घुटिकावलम्बी यो नीलकञ्चुको हरित्कर्पासकस्तेनावच्छन्नमाच्छादितं शरीरं देहो यस्याः सा तथा ताम् । उपरीति । उपy+प्रदेशे रक्ताशुकस्य लोहितवाससो रचितं कृतमवगुण्ठनं मुखाच्छादनं यया सा तथा ताम् । पुनः प्रकारान्तरेण तामेव विशिनष्टि - नीलोत्पलेति । निपतित उपरिप्राप्तः संध्यासंबन्धी सायंकालसक्त आतपो धर्मो यस्यामेतादृशीं नीलानामुत्पलानां कुवलयाना स्थल्यकृत्रिमा तामिव । 'जानपद इति डीप् । एकेति । एकस्मिन्कर्णपर्यन्तेऽवसक्तं लग्नं यद्दन्तपत्रं कर्णाभरणविशेषस्तस्य या प्रभा कान्तिस्तया धवलितं शुभ्रीकृतं कपोलमण्डलं गल्लात्परप्रदेशो यस्याः सा तथा ताम् । अनेनावलोकनचातुरीविशेषः सूचितः । उद्यदिन्विति । उद्यत्रुदयमासादयन्य इन्दुश्चन्द्रस्तस्य किरणैर्दीधितिभिश्छुरितं ध्वान्तनिवृत्त्या सप्रकाशं मुखं यस्यास्तादृशीं विभावरी रात्रिमिव । एतेन रात्रिनायिकयोर्दन्तपत्रचन्द्रयोश्च साम्यं सूचितम् । आकपिलेति । आ ईषत्कपिलं पीतरक्तं यद् गोरोचनं गोपित्तं तेन रचितं निर्मित यत्तिलक पुण्ड्रं तदेव तृतीयं लोचनं यस्याः सा तथा ताम् । कामिव । ईशानेन महादेवेन रचितो विहितस्तदनु यो रचितः किरात्या भिल्लया वेषो नेपथ्यं यया सैवंभूता भवानी पार्वती तामिव । श्रियमिति । श्रियं लक्ष्मीमिव । अथ लक्ष्मी विशिनष्टि - उरःस्थलेति । उरःस्थले वक्षसि यो निवासो निवसनं तेन संक्रान्तः प्रतिबिम्बितो यो नारायणस्य श्रीकष्णस्य देहः शरीरं तस्य या प्रभा तया श्यामलितां श्यामतां प्राप्ताम् । एतेन लक्ष्मीचाण्डालकन्यकयोः साम्यं ध्वनितम् । रतिमिति । रतिः कामस्त्री तामिव । कीदृशीम् । कुपित इति । कुपितः क्रोधं प्राप्तो यो हर ईश्वरस्तस्य हुताशनस्तृतीयलोचनोद्गतो - टिप्प० - 1 हरिन्मणिः 'पत्रा' इति भाषायाम् । 2 किरणैः छुरितं रञ्जितं मुखं यस्या इत्याशयः ।। - - - - - - - - - - - - - - - - - - - - पाठा० - १ कपटविलासिनी. २ वेषश्यामलतया. ३ संचारिणीमिन्द्र. ४ पुत्रिकामिव. ५ आगुल्फावलम्बिना. ६ अवमुक्त. ७ इन्दुविम्बि. ८ ईशानरञ्जनानुरचित; ईशानुरचित; ईशानाचरितानुरचित. ९ श्यामलता. १० उन्मत्त. ११ हलापकर्षण. १२ कर्षणप्रपलायिताम्. चाण्डालकन्यकावर्णनम् । पूर्वभागः । 121) Page #35 -------------------------------------------------------------------------- ________________ भयपलायितामिव कालिन्दीम, अतिबहलपिण्डालक्तकरसरागपल्लवितपादपङ्कजामचिरमृदितमहिषासुररुधिररक्तचरणामिव कात्यायनीम्, आलोहिताङ्गुलिप्रभापाटलितनखमयूखाम् अतिकठिनमणिकुट्टिमस्पर्शमसहमानां क्षितितले पल्लवभङ्गानिव निधाय संचरन्तीम्, आपिञ्जरेणोत्सर्पिणा नपुरमणीनां प्रभाजोलेन रञ्जितशरीरतया पावकेनेव भगवता रूप एव पक्षपातिता प्रजापतिमप्रमाणीकुर्वता जातिसंशोधनार्थमालिङ्गितदेहाम्, अनङ्गवारणशिरोनक्षत्रमालायमानेन रोमराजिलतालवालकेन शनादाम्ना परिर्गतजघनाम्, अतिस्थूलमुक्ताफलघटितेन शुचिना हारेण गुङ्गासोतसेव कालिन्दीशङ्कया कृतकण्ठग्रहाम्, शरदमिव विकसितपुण्डरीकलोचनाम्, - *********** वह्निस्तेन दह्यमानो ज्वाल्यमानो यो मदनो जरांभीरुस्तस्य धूमो दहनकेतुस्तेन मलिनीकृतां मालिन्यं प्राप्ताम् । पुनः कामिव । कालिन्दीमिति । कालिन्दी यमुना तामिव । यमुना विशेषयन्नाह - उन्मदेति । उन्मदस्य प्रबलगर्वस्य हलिनो बलभद्रस्य यद्धलं लागलं तेन यदाकर्षणमाकृष्टिस्तस्माद्यद्भयं साध्वसं तस्मात्पलायितां नष्टाम् । अतीति । अतिबहलोऽतिप्रचुरो यः पिण्डालक्तकः पिण्डीकृतो यावकस्तस्य रसो द्रवस्तस्य रागो रक्तिमा तेन पल्लवितं संजातकिसलयं पादपङ्कजं यस्याः सा तथा ताम् । कामिव । अचिरेति । अचिर तत्कालं मृदितो मर्दितो यो महिषासुरो दैत्यस्तस्य यद्रुधिरमाग्नेयं तेनारक्तौ लोहितौ चरणौ पादौ यस्या एवंविधां कात्यायनी दुर्गामिव । आलोहितेति । आलोहिता आरक्ता या अङ्गुलयः करशाखास्तासां प्रभा दीप्तिस्तया पाटलिताः श्वेतरक्तीकृता नखमयूखाः पुनर्भवदीप्तयो यस्याः सा तथा ताम् । यद्यपि नखानां स्वत एवारुण्यात्पाटलत्वमस्त्येव, तथापि मिथोमिश्रीभाव एव पाटलत्वं बोध्यम् । चरणयोः पल्लववर्णनप्रयोजनमाह - अतीति । अतिकठिनमतिकर्कशं यन्मणिकुट्टिम मणिबद्धभूस्तस्य स्पर्श संश्लेषमसहमानामक्षममानाम् । क्षितीति । क्षितितले धरणीतले पल्लवभङ्गानिव किसलयखण्डानिव निधाय स्थापयित्वा संचरन्तीं चलनं कुर्वतीमित्युत्प्रेक्षा । आलिङ्गित इति । आलिङ्गित आश्लिष्टो देहः शरीरं यस्याः सा तथा ताम् । केन । भगवता माहात्म्यवता पावकेन वह्निना । अथ पावक विशेषयन्नाह - रूपे सौन्दर्य एव पक्षपातिनानुरक्तचित्तेन प्रजापतिं ब्रह्माणमप्रमाणीकुर्वता । तदङ्गीकारादिति भावः । कया । आपिजरेति । आपिञ्जरेण पीतरक्तेन । 'पीतरक्तस्तु पिञ्जरः' इत्यभिधानचिन्तामणिः । उत्सर्पिणा सर्वतः प्रसारिणा नूपुरस्य हंसकस्य मणयो रत्नानि तेषां प्रभास्त्विषस्तासां जालेन समूहेन रञ्जितं यच्छरीरं तस्य भावस्तत्ता तया हेतुभूतया । एतेन नूपुरमणिप्रभावढ्योः परस्परमुपमानोपमेयभावः सूचितः । तदालिङ्गनप्रयोजनमाह - जातीति । विधात्रा चाण्डालजात्याक्रान्ता निर्मिता । सा च सर्वथाऽस्पृश्यैवाशुचित्वात् । अशुचिर्वह्निना शुचिः स्यादिति तदालिङ्गने प्रयोजनमिति भावः । रशनेति । रशना कटिमेखला सैव दाम बन्धनरज्जुस्तेन परिगतं समन्ताद् व्याप्तं जघनं कट्याः पुरोभागो यस्याः सा ताम् । 'कट्याः क्लीबे तु जघनं पुरः इत्यमरः । मेखलादाम विशेषयनाह - अनङ्गेति । अनङ्ग एव वारणो गजस्तस्य शिरसि शोभार्थं नक्षत्रमालावदाचरमाणेन । रोमेति । रोमराजिरेव लता वल्ली तस्या आलवालकेनावापेनेति रूपकम् । अतीति । अतिस्थूलानि यानि मुक्ताफलानि यानि तैर्घटितो निष्पादितस्तेन शुचिना विशदेन हारेण चतुःषष्टिलतेन । 'चतुःषष्टिलतो हारः' इत्यमरः । अत एव विशदत्वम् । गङ्गासोतसेव गङ्गाप्रवाहेणेव । चाण्डालकन्यकायाः श्यामत्वात् कालिन्दीशङ्कया यमुनाभ्रान्त्या कृतः कण्ठग्रहो गलसंश्लेषो यस्याः सा तथा ताम् । पुनः कामिव । शरदमिव घनात्ययमिव । उभयोः शब्दसाम्यं प्रदर्शयन्नाह - विकसितेति । विकसितानि पुण्डरीकाण्येव लोचनानि यस्याः सा तथेति विग्रहः । शरदि सर्वत्रापि कमलानामुन्निद्रत्वेन तथा संभवात् । पक्षे विकसितपुण्डरीकवल्लोचने यस्याः - टिप्प० -1 कामदेव इत्यर्थः । 2 क्षतजमित्यर्थः । 3 कठिनभूमिस्पर्शमसहमानश्चरणवेदनानिवारणार्थं यथा कोमलमास्तरणं निदधाति तथा लोहितनखप्रभा एव भूमौ नवपल्लवखण्डाः स्थापिता इत्याशयः । 4 ब्रह्मा अस्पृश्यजातावेनामुत्पादितवान् । अत एव विधातुरसंमतो रूपपक्षपाती वह्निः शोधनार्थं तामालिङ्गितवानित्याशयः । पाठा०-१ यमुनाम्. २ जालकेनानुरञ्जित. ३ रूपैकपक्षपातिना; रुपपक्षपातिना. ४ मेखला. ५ जघनस्थलाम्. ६ शुचिहारेण. 22 कादम्बरी। कथामुखे-) Page #36 -------------------------------------------------------------------------- ________________ प्रावृषमिव घनकेशजालाम्, मलयमेखलामिव चन्दनपल्लवावतंसाम्, नक्षत्रमालामिव चित्रश्रवणाभरणभूषिताम्, श्रियमिव हस्तस्थितकमलशोभाम्, मूर्छामिव मनोहारिणीम्, अरण्यभूमिमिव रूपसंपन्नाम्, दिव्ययोषितमिवाकुलीनाम्, निद्रामिव लोचनग्राहिणीम्, अरण्यमलिनीमिव मातङ्गकुलदूषिताम्, अमूर्तामिव स्पर्शवर्जिताम्, आलेख्यगतामिव दर्शनमात्रफलाम्, मधुमासकुसुमसमृद्धिमिवोजातिम्, अनङ्गकुसुमचापलेखामिव मुष्टिग्राह्यमध्याम्, यक्षाधिपलक्ष्मीमिवालकोद्भासिनीम्, अचिरोपारूढयौवनाम्, अतिशयरूपाकृतिमेनिमिषलोचनो ददर्श । *********** सा तथेति विग्रहः । पुनः कमिव । प्रावृषमिव वर्षाकालमिव । उभयोर्विशेषणसाम्यमाह - घनेति । घना निबिडा ये केशास्तेषां जालानि यस्याम । पक्षे घना एव केशजालानि यस्यामिति विग्रहः । मलयेति । मलयस्य पर्वतस्य मेखला मध्यभागस्तमिव । उभयोः सादृश्यमाहचन्दनेति । चन्दनस्य पल्लवाः किसला(लया)नि तेषामवतंसा यस्यां सा ताम् । पक्षे चन्दनपल्लवास्त एवावतंस; शेखरो यस्यामिति विग्रहः । नक्षत्रेति । नक्षत्राणामुडूनां माला पङ्क्तिस्तामिव । उभयोः सादृश्यमाह-चित्रेति । चित्राणि विविधप्रकाराणि श्रवणे कर्ण आभरणानि भूषणानि यस्याः सा ताम् । पक्षे चित्राश्रवणावेव आभरणे ताभ्यां भूषितेति विग्रहः । श्रियमिति । श्रीलक्ष्मीस्तामिव । उभयोः साम्यं प्रदर्शयन्नाह - हस्तेति । हस्ते पाणौ स्थिता कमलस्य पद्मस्य शोभर्भा श्रीर्यस्याः सा ताम् । पक्षे हस्ते स्थितं यत्कमल तेन शोभा यस्या इति विग्रहः । मूर्छति । मूर्छा मोहस्तामिव । एतयोः साम्यमाह - मनोहारिणीमिति । सुन्दराकृतित्वेन मनोहरामित्यर्थः । पक्षे नष्टचेतनात्मकत्वेन मनोहारिणीमिति भावः । अरण्येति । अरण्यमटवी तस्य भूमिः क्षितिस्तामिव । उभयोः सादृश्यमाह - रूपेति । रूपमाकृतिविशेषस्तेन संपन्नां सहिताम् । पक्षे रूपाः पशवस्तैः संपन्नां संगताम् । 'रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये' इत्यनेकार्थः । दिव्येति । दिव्या देवसंबन्धिनी योषित्स्त्री तामिव । उभयोः सादृश्यमाह-अकुलीनामिति । अकुलीनामकुलोत्पन्नाम् । 'कुलात्खः । खस्येनादेशः । पक्षेन को पृथिव्यां लीनां स्थिताम् । निद्रेति । निद्रा प्रमीला तामिव । उभयोः सादृश्यं प्रदर्शयन्नाह - लोचनेति । अत्यद्भुतरूपवशात्कामिजनानां लोचनग्राहिणी नेत्राकर्षिणीम् । पक्षे निमेषोन्मेषसहिते लोचने ग्रहीतुं शीलमस्या इति शीले णिनिः । नान्तत्वान्डीप् । अरण्येति । अरण्यं वनं तस्य या कमलिनी तामिव । उभयोः सादृश्यमाह-मातङ्गेति । मातङ्गश्चाण्डालस्तस्य कुलमन्वयस्तेन दूषितां मलिनीकृताम् । पक्षे मातङ्गकुलेन हस्तिसमुदायेन दूषिताम् । मर्दितामित्यर्थः । अमूर्तेति । अमूर्तेयत्तावच्छिनपरिमाणशून्या बुद्धिस्तामिव । उभयोस्तुल्यत्वमाह-स्पर्श इति । स्पर्शः संश्लेषः शिष्टानां तेन वर्जितां रहिताम् । अकुलीनत्वादेव । पक्षे स्पर्शो गुणस्तद्वर्जितां रहिताम् । अमूर्तत्वादेव । आलेख्येति । आलेख्यं चित्रं तत्र गतां प्राप्तांपुत्रिकामिव । उभयोः साम्यमाह - दर्शनेति । चाण्डालत्वादेव न भोगफलकत्वमस्याः । अतएव दर्शनमालोकनमात्रमेव फलं प्रयोजनं यस्याः सा तथा ताम् । पक्षेऽपि तथैव बोध्यम् । मध्विति । मधुमासे वसन्तसमये या कुसुमसमृद्धिस्तामिव । उभयोस्तुल्यतां प्रदर्शयन्नाह - अजातिमिति । न विद्यते जातिाह्मणत्वादिर्यस्यां सा ताम् । पक्षे न विद्यते जातिर्मालती यस्यां सा तथा ताम् । 'वसन्ते मालतीपुष्पं फलपुष्पं च चन्दने न वर्णनीयम्' इति कविप्रसिद्धिरपि । अनङ्गेति । अनङ्गस्य मदनस्य कुसुमचापस्य पुष्पधनुषो या लेखा तामिव । उभयोः साम्यं प्रदर्शयन्नाह - मुष्टीति । मुष्टिना ग्राह्यो ग्रहीतुं शक्यो मध्यो मध्यप्रदेशो यस्याः सा ताम् । यक्षाधिपलक्ष्मीमिति । यक्षाधिपानां गुह्यकेश्वराणां लक्ष्मीर्हरिप्रिया तामिव । उभयोः सादृश्यमाह - अलकेति । अलकैः केशैरुद्भासत इत्येवंशीला सा तथा ताम् । पक्षे अलकाभिर्नगरीभिरुद्भासिनीति विग्रहः । अचिरेति । अचिरं त्वरितमुपारूढं प्राप्तं यौवनं तारुण्यं यया ताम् । संप्राप्तयौवनामित्यर्थः । अतीति । अतिशयरूपोत्कृष्टाकृतिराकारो यस्याः सा तथा ताम् । अन्वयस्तु प्रागेवोक्तः । टिप्प० - 1 चित्रा-श्रवण-भरणीनामकैर्नक्षत्रभूषितामित्युचितम् । श्लेषे लिङ्गव्यत्ययोऽदुष्टः । 2 अमूर्ता मूर्तिरहिता (आकाररहिता) एव स्पर्शवर्जिता भवति, इयं तु मूर्ताऽपि अस्पृश्यत्वात, अमूर्तेव स्पर्श वर्जितेत्यर्थः । 3 संपदित्यर्थ उचितः। 4 अलकानाम्न्या नगर्या उद्भासिनीमिति ज्ञेयम् । पाठा० - १ मनोहराम्. २ अक्षतरूपसंपनाम्; अन्याक्षतबहुशोभिरूपाम्. ३ विजातिम्. ४ उपरूढ. ५ अनिमेष. (चाण्डालकन्यकावर्णनम् पूर्वभागः ।। Page #37 -------------------------------------------------------------------------- ________________ समुपजातविस्मयस्याभून्मनसि महीपतेः- 'अहो विधातुरस्थाने सौन्दर्यनिष्पादनप्रयत्नः । तथा हि-यदि नामेयमात्मरूपोपहसिताशेषरूपसंपदुत्पादिता, किमर्थमपगतस्पर्शसंभोगसुखे कृतं कुले जन्म । मन्ये च मातङ्गजातिस्पर्शदोषभयादस्पृश्यतेयमुत्पादिता प्रजापतिना, अन्यथा कथमियमक्लिष्टता लावण्यस्य । न हि करतलस्पर्शक्लेशितानामवयवानामीदृशी भवति कान्तिः । सर्वथा धिग्धिंग्विधातारमसदृशसंयोगकारिण, मनोहराकृतिरपि फ्रेंरजातितया येनेयमसुरश्रीरिव सततनिन्दितसुरता रमणीयाप्युटेजयति' इति । एवमादि चिन्तयन्तमेव राजानमीषदवगलितकर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम । कृतप्रणामायां च तस्यां मणिकुट्टिमोपविष्टायां स पुरुषस्तं विहङ्गमं शुकमादाय पञ्जरगतमेव किंचिदुपसृत्य राज्ञे न्यवेदयत् । *********** मनसीति । मनसि जातो विस्मय आश्चर्यं यस्यैवंभूतस्य महीपते राज्ञः । एवमित्यध्याहार्यम् । अभूदित्यन्वयः । एवमित्यस्य विषयमाह - अहो इति । अहो इति वितर्के । विधातुब्रह्मणोऽस्थानेऽपदे सौन्दर्यस्याद्भुतरूपस्य निष्पादनं निर्माणं तत्र प्रयत्नः परिश्रमः । तदेव दर्शयति - तथाीति । 'नामेति कोमलामन्त्रणे । यदियं चाण्डालकन्यकाऽऽत्मनः स्वकीयस्य रूपेण सौन्दर्येणोपहसितोपहास्यास्पदीकृताशेषरूपसंपत्समग्रसौन्दर्यसमृद्धिर्यया सैवंविधोत्पादिता निर्मिता । किमर्थं किं प्रयोजनम् । अपगते दूरीभूते स्पर्शः संश्लेषः संभोगसुख सुरतसातं ते च यस्मिन्नेवभूते कुले जन्मोत्पत्तिः कृतं विहितम् । किमर्थमिति विमर्श निश्चयमाह-मन्ये चेति । मन्ये जाने । अहमिति शेषः । प्रजापतिना ब्रह्मणाऽस्पृशता स्पर्शमकुर्वतेयम् । उत्पादिता निष्पादिता । अत्रार्थे हेतुमाह-मातङ्गेति । मातङ्गस्य जाति यातिस्तस्याः स्पर्शः संश्लेषस्तजनितो यो दोषस्तस्माद्यद्भयं भीतिस्तस्मादित्यर्थः । विपर्यये बाधकमाह-अन्यथेति । अन्यथा पूर्वोक्तविपर्यये । लावण्यस्य लवणिम्नः । कथमिति प्रश्ने । इयं प्रत्यक्षोपलक्ष्यमाणाऽक्लिष्टता कोमलत्वं स्यात् । अत्रार्थे हेतुमाह - न हीति । करतलस्पर्शक्लेशितानामवयवानां कुचादीनाम् । ईदृशी एतादृशी कान्तिः सौकुमार्यं नहि भवति न स्यात् । सर्वथेति । सर्वथा सर्वकारेण । धिग्धिगिति खेदातिशय आमेडितम् । विधातारं ब्रह्माणमसदृशोऽनुचितो यः संयोगः संबन्धस्तत्कारिण् । येनासदृशसंयोगेनेयं चाण्डालकन्यका मनोहराकृतिरपि क्रूरजातितया चाण्डालजातितयासुराणां दैत्यानां श्रीलक्ष्मीस्तद्वदिव । सततमिति । सततं निरन्तरं निन्दितं गर्हित सुरत मैथुनं यस्यां सैवंविधा रमणीयापि संभोगयोग्याप्युटेजयति । वैचित्यमुत्पादयतीत्यर्थः । पक्षे सततं निन्दिता सुरता सुरसमूहो ययेति दैत्यलक्ष्म्या विशेषणम् । एवमिति । एवमादि पूर्वोक्तप्रकारेण चिन्तयन्तं विमर्श कुर्वाणमेव राजानं नृपं कन्यका चाण्डालकुमारी प्रणनाम प्रणाममकरोत् । केव । प्रगल्भवनितेव संप्रत्यनारूढयौवनत्वादप्रगल्भापि प्रगल्भवनितेव नमश्चकारेत्यर्थः । अत्र वीतशङ्कत्त्वं व्यङ्ग्यम् । प्रणेति प्राद्युपसर्गयोगाण्णत्वम् । पुनः किदृशी । ईषदिति । ईषदल्पमवगलितोऽधःप्रसृतः कर्णे पल्लवस्यावतंसः शेखरो यस्याः सा तथा । अत्र कर्णपदं कटिमेखलादिवज्ञेयम् । तदुक्तम्-'कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः इति । 'सर्वदा तत्सानिध्यबोधनार्थम्' इति काव्यप्रकाशेऽपि । कृतेति । कृतो विहितः प्रणामो नतिर्यया सा तथा तस्याम् । मणीति । मणिकुट्टिम रनबद्धभूमिस्तत्रोपविष्टायां स्थितायाम् । स इति पूर्वोक्तो धवलवासाः पुरुषस्तं विहङ्गमं पक्षिणं शुकं कीरमादाय गृहीत्वा पञ्जरं पक्षिरक्षणस्थलं तत्र गतमेव प्राप्तमेव । न ततः पृथक्कृत्वेत्यर्थः । किंचिद्विनयेन पुर उपसृत्यागत्य राज्ञे नृपाय न्यवेदयत्प्रदर्शितवान् । पाठा० - १ जात; दृष्टवा च तां समुपजात. २ चाभूत. ३ रूपनिष्पादनप्रयत्नः;. रूपविधानप्रयत्नः ४ अस्या जन्म. ५ मनसोत्पादिता. ६ तथाहि. ७ धिग्विधातारम्. ८ अतिमनोहरा. ९ फरजातिजा. १० विहङ्गमादाय; विहङ्गममादाय. ११ गतं किंचित्. कादम्बरी। कथामुखे Page #38 -------------------------------------------------------------------------- ________________ अब्रवीच्च-'देव, विदितसकलशास्त्रार्थः, राजनीतिप्रयोगकुशलः, पुराणेतिहासकथालापनिपुणः, वेदिता गीतश्रुतिनाम्, काव्यनाटकाख्यायिकाख्यानकप्रभृतीनामपरिमितानां सुभाषितानामध्येता स्वयं च कर्ता, परिहासाऽऽलापपेशलः, वीणावेणुमुरादीनामसमः श्रोता, नृत्यप्रयोगदर्शननिपुणः, चित्रकर्मणि प्रवीणः, द्यूतव्यापारे प्रगल्भः, प्रणयकलहकुपितकामिनीप्रसादनोपायचतुरः, गजतुरगपुरुषस्त्रीलक्षणाभिज्ञः, सकलभूतलरत्नभूतोऽयं वैशम्पायनो नाम शुकः सर्वत्नानामुदधिरिव देवो भाजनमितिकृत्वैनमादायास्मत्स्वामिदुहिता देवपादमूलमायाता । तदयमात्मीयः क्रियताम्' इत्युक्त्वा नरपतेः पुरो निधाय पञ्जरमसावपससार । *********** अब्रवीच्च । उवाचेत्यर्थः । देवेति संबोधनपदम् । 'राजा भट्टारको देवः' इति कोशः । हे राजन्, अयं वैशम्पायनो नाम वैशम्पायन इति नाम्ना प्रसिद्धः । नामेति कोमलामन्त्रणे । शुको वर्तते । कीदृक् । विदितो ज्ञातः सकलशास्त्राणां धर्माध्यात्मयुक्तिशास्त्राणामर्थोऽभिधेयो येन स तथा । तेन वक्ष्यमाणेन न पौनरुक्त्यम् । इतः शुकं विशेषयन्नाह - राजेति । राजनीतेः कामन्दकप्रतिपादितायाः प्रयोगः शिक्षा तत्र कुशलश्चतुरः । पुराणेति । पुराणं पञ्चलक्षणम् इतिहासः पुरावृत्तम्, तेषां या कथा वार्ता तत्र य आलापस्तदर्थबोधकवाक्यरचना तत्र निपुणश्चतुरः । वेदितेति । गीतं गानम्, श्रुतयो द्वाविंशतिः । तदुक्तम् - 'सप्त स्वरास्त्रयो ग्रामा मूश्चैिकोनविंशतिः । ताना एकोनपञ्चाशद्ध्यधिका विंशतिः श्रुतिः ॥ इति । तासां वेदिता ज्ञाता । काव्येति । दोषाभावे सति गुणालंकारवत्कविकर्म काव्यम्, नाटकमभिनयात्मकम्, आख्यायिका वासवदत्तादिः, आख्यानकमिदानीतनराजवृत्तम्, एतत्प्रभृतीनां सामुद्रिकादीनां तथाऽपरिमितानामसंख्यानां, सुभाषितानां श्रृङ्गारनीतिवैराग्यप्रतिपादकानां चाध्येता पाठकः । स्वयमात्मनैव कर्ता निष्पादकश्च । अनेन तस्य सर्वकलासु नैपुण्यं सूचितम् । परीति । परिहासोऽन्येषां नर्मवचनैर्हसनं तस्य य आलापा रसव्यञ्जकशब्दप्रयोगास्तत्र पेशलः कुशलः । वीणेति । वीणाशब्दसमभिव्याहारात्ततम् । तथैव वेणुशब्देन सुषिरम्, मुरजशब्देनानद्धं, आदिशब्दाद्वादनं कांस्यतालादि गृह्यते । एतेषामसमोऽद्वितीयः श्रोता आकर्णयिता । नृत्यमिति । नृत्यं ताललयाश्रितं तस्य प्रयोगः प्रारम्भो दर्शनमवलोकनं तत्र निपुणोऽभिज्ञः । चित्रेति । चित्रकर्मण्यालेख्यकलायां प्रवीणः । कृतपरिश्रम इत्यर्थः । द्यूतेति । धूतं दुरोदरं तस्य व्यापारो व्याहर्तिस्तत्र प्रगल्भः प्रतिभान्वितः । प्रणयेति । प्रणयेन स्नेहेन यः कलहः कलिस्तेन कुपिता कोपं प्राप्ता या कामिनी स्त्री तस्याः प्रसादनं सान्त्वनं तत्र य उपायः प्रपञ्चस्तत्र चतुरोऽभिज्ञः । गजेति । गजा भद्रजातीयाः, तुरगाः शालिहोत्रोक्तदेवमणिप्रभृतयः, पुरुषा धीरोदात्तप्रभृतयः, स्त्रियः पद्मिनीप्रभृतयः, तासां लक्षणानि सामुद्रिकोक्तानि तत्राभिज्ञः कुशलः । सकलेति । सकलं समग्रं यद्भूतलं अर्थाद्भरतक्षेत्र तत्र रत्नभूतः । स्वजातावत्युत्कृष्ट इत्यर्थः । अयं च प्रत्यक्षेण दृश्यमानः संनिहितः । रत्नं च मुक्ता रत्नाश्रयत्वात् । राज्ञो रत्नाकरत्वमाह - सर्वेति । सर्वरत्नानां सर्वोत्कृष्टवस्तूनां भाजनमाश्रयः । क इव । उदधिरिव समुद्र इव । यथोदधिः सर्वरत्नानां कौस्तुभप्रभृतीनामाश्रयस्तथा भवानपीत्यर्थः । एतत्प्रयोजनमाह - इतीति । इतिकृत्वा इतिहेतोरस्मत्स्वामिनो वक्ष्यमाणस्य दुहिता कन्यकैनं शुकमादाय गृहीत्वा देवस्य राज्ञः पादमूलं चरणमूलमायातागता । तदिति । तस्माद्धेतोरयं शुक आत्मीयः स्वकीयः क्रियता विधीयतामिति पूर्वप्रतिपादितमुक्त्वा प्रतिपाद्य । 'पूर्वकालत्वस्य त्वाप्रत्ययवाच्यत्वेऽपि विवक्षितविवेकेनानन्तर्यमेव वाच्यम्' इति । नरपते राज्ञः पुरो निधायाने स्थापयित्वा पञ्जरं पक्षिरक्षणस्थलम्, असौ पुरुषोऽपससारापसृतवान् । 'सृञ् अपसरणे इत्यस्य लिटि रूपम् । - - - - - - - - - - - - - - - - टिप्प० - 1 व्यवहृतिः क्रीडेत्याशयः । 2 भूमण्डलमित्याशयः, भारतवर्षस्यैकदेशत्वात् । - - - - - - - - - पाठा० - १ नाटकाख्यानक. २ मुरजप्रभृतीनां वायविशेषाणाम्. ३ नृत्त. ४ प्रणयकुपित. ५ कामिनीजन. ६ सर्वरत्नानां च. ७ आत्मायत्त. ८ पञ्जरमपससार. (शुकप्रशंसा पूर्वभागः । Page #39 -------------------------------------------------------------------------- ________________ अपसृते च तस्मिन्स विहङ्गराजो राजाभिमुखो भूत्वोन्नमय्य दक्षिणं चरणमतिस्पष्टवैर्णस्वरसंस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्यामिमां पपाठ 'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥१॥ राजा तु तामार्यां श्रुत्वा संजातविस्मयः सहर्षमासन्नवर्तिनम्, अतिमहार्घहमासनोपविष्टम्, अमरगुरुमिवाशेषनीतिशास्त्रपारगम्, अतिवयसम्, अग्रजन्मानम्, अखिले मन्त्रिमण्डले प्रधानममात्यं कुमारपालितनामानमब्रवीत् - 'श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णोच्चारणे, स्वरे च मधुरता । प्रथमं तावदिदमेव महदाश्चर्यम्, यदयमसंकीर्णवर्णप्रविभागामभिव्यक्तमात्रानुस्वारसंस्कारयोगां विशेषसंयुक्तां गिरेमुदीरयति । तत्र पुनरपरमभिमतविषये तिरश्चोऽपि *********** अपेति । तस्मिन्पुरुषेऽपसृते दूरीभूते सति स पूर्वोक्तो विहङ्गानां पक्षिणा राजा विहङ्गराजः । 'राजाहःसखिभ्यष्टच्' । राजाभिमुखो नृपसंमुखो भूत्वा दक्षिणमपसव्यं चरणं पादमुन्नमय्यो/कृत्य । शुकादीनां शब्दोच्चारणे तादृशोऽयं जातिस्वभावः । अतीति । अतिस्पष्टा अतिव्यक्ता वर्णा अक्षराणि स्वरा उदात्तादयस्तेषां संस्कारः परिपाको यस्यां सा तथा तया । यद्यप्यन्यत्र शुकादीनामस्पष्टो वर्णस्तथाप्येतस्य स्पष्टो वर्ण इति विशेषः । एवंविधया गिरा वाण्या राजानमुद्दिश्य कृतो विहितो जयशब्दो येन स एवंविध इमामग्रे वक्ष्यमाणामापपाठापाठीत् । स्तनेति । भवतस्तव रिपुस्त्रीणां दस्युवनितानां स्तनयुगं कुचयुग्मं व्रतमिव नियममिव चरत्यासेवते । तदेव विशिनष्टि - अश्विति । अश्रुभिर्नयनसलिलैः स्नातं कृतस्नानम् । समीपेति । समीपतरवर्ति संनिहितवर्ति । कस्य । हृदयशोकः स्वभर्तृवियोगजनितं दुःखं तदेवाग्निर्वह्निस्तस्य । विमुक्तस्त्यक्त आ समन्ताद्धारो येन तत्तथा । अन्योऽपि यो व्रतं चरति सोऽपि विमुक्ताहारः कृतस्नानोऽग्निसमीपस्थायी च स्यात् ॥२१॥ ___ राजा तु नृपोऽपि तामार्यां गाथां श्रुत्वाकर्ण्य संजातविस्मयः समुत्पन्नाश्चर्यः सहर्षं सप्रमोदं यथा स्यात्तथासनवर्तिनं समीपवर्तिनम् । कुमारेति । कुमारपालित इति नाम यस्यैवंभूतममात्यं सचिवमब्रवीदवोचत् । अथामात्यं विशेषयन्नाह - अतीति । अतिमहाघमतिबहुमूल्यं यद्धेमासनं सुवर्णासनं तत्रोपविष्टं स्थितम् । अशेषेति । अशेषाणि समग्राणि यानि नीतिशास्त्राणि लोककृत्यविवेकाविचेकप्रतिपादकानि तन्त्राणि तेषां पारगं रहस्यवेत्तारम् । कमिव । अमरगुरुमिव बृहस्पतिमिव । अतीति । अत्यधिक वयो दिवसबाहुल्यं यस्य स तथा तम् । अग्रेति । अग्रे प्रथमवर्णे जन्म यस्य स तम् । ब्राह्मणमित्यर्थः । अखिलेति । अखिले समग्रे मन्त्रिमण्डले धीसचिवसमुदाये प्रधान मुख्यम् । श्रुतेति । भवद्भिर्युष्माभिरस्य विहङ्गमस्य शुकस्य वर्णाः कादयस्तेषामुच्चारणे वक्तव्यतायां स्पष्टताऽश्लिष्टता श्रुताकर्णिता । तथा स्वरे स्वरविषये मधुरता माधुर्यम् । चकारः पुनरर्थकः । प्रथममिति । प्रथममादौ तावदित्यन्यव्यवच्छेदार्थः । इदमेव प्रत्यक्षगतमेव महदाश्चर्यम् । अतिकौतूहलमित्यर्थः । तदेव दर्शयति - यदिति । यदयं गिरं वाणीमुदीरयत्युच्चरति । इतो वाणी विशेषयन्नाह - असंकीर्णेति । असंकीर्णः परस्परवैलक्षण्येन प्रतीयमानो वर्णानामक्षराणां प्रविभागो भिन्नता यस्यां सा तथा तम् । अभीति । मात्रा एकारादयः, अनुस्वारा अनुनासिकाः, संस्कारो व्याकरणशुद्धिः, अभिव्यक्ताः प्रकटाः एतेषां योगाः संबन्धा यस्यां सा तथा ताम् । विशेषेति । विशेषः शब्दश्लेषादिस्तेन संयुक्ता - टिप्प०- 1 विगतो मुक्ता(मौक्तिक हारो यस्मात्तत् । विमुक्त इत्यर्थस्य व्रतपक्षे गृहीतत्वेनात्राऽचमत्कारित्वात् । 2 परित्यक्तभोजन इत्यर्थः । 3 अवस्थे - - - -- - - -- - - - - - - - - - - - -- - - - त्याशयः । पाठा० - १ तस्मिन्विहङ्गराज. २ समुन्नमय्य. ३ वर्णसंस्कारया. ४ तां श्रुत्वा. ५ जातविस्मयः. ६ महार्हासनोपविष्टम्; महार्हहेमासनोपविष्टम्. ७ अतिपरिणतवयसम्. ८ अखिलमन्त्रिमण्डले प्रधानम्; अखिलमन्त्रिमण्डलप्रधानम्. ९ महत्तरमाश्चर्यम्; महाश्चर्यम्. १० असंकीर्ण. ११ अनुस्वारस्वरसंयोगविशेष; अनुस्वारस्वरसंयोगाम्. १२ यदयमतिपरिस्फुटाक्षरां गिरम्; यदयमतिपरिस्फुटां गिरम्. १३ पुनर्यदीयम्. 26 कादम्बरी। । कथामुखे Page #40 -------------------------------------------------------------------------- ________________ मनुजस्येव संस्कारवतो बुद्धिपूर्वा प्रवृत्तिः । तथा हि-अनेन समुत्क्षिप्तदक्षिणचरणेनोच्चार्य जयशब्दमियमार्या मामुद्दिश्य परिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहारमैथुननिद्रासंज्ञामात्रवेदिनो भवन्ति । इदं तु महच्चित्रम् इत्युक्तवति भूभुजि कुमारपालितः किंचिस्मितवदनोऽवादीत् - 'किमंत्र चित्रम् । एते हि शुकसारिकाप्रभृतयो विह ङ्गविशेषा यथाश्रुतां वाचमुच्चारयन्तीत्यधिगतमेव देवेन । तत्राप्यन्यजन्मोपात्तसंस्कारानुबन्धेन वा पुरुषप्रयत्नेन वा संस्कारातिशय उपजायत इति नातिचित्रम् । अन्यदेतेषामपि पुरा पुरुषाणामिवातिपरिस्फुटाभिधाना वागासीत् । अग्निशापात्त्वस्फुटालापता शुकानामुपजाता, कॅरिणां च जिह्वाप - *********** सहिताम् । तत्रेति । पुनरपरमधिकमभिमतविषय उपादेयेऽर्थे तिरश्चोऽपि पक्षिणोऽपि मनुजस्येव मनुष्यस्येव संस्कारवत इति तत्तदर्थविषयानुभवजन्यः संस्कारस्तद्वतो बुद्धिपूर्वा प्रतिभाहेतुका प्रवृत्तिः प्रवर्तनं भवति । किमाश्चर्यमित्यर्थः । तदेवाद्भुतं दर्शयति - तथा हीति । अनेन शुकेन समुत्क्षिप्त ऊर्चीकृतो दक्षिणचरणोऽपसव्यपादो येन स तथा तेन जयशब्दं जयजयारवमुच्चार्योदीर्येयमार्या पूर्वोक्ता मामुद्दिश्य परिस्फुटानि व्यक्तान्यक्षराणि यथा स्यात्तथेति क्रियाविशेषणम् । गीता गानविषयीकृता । किमित्यत आह - प्रायेणेति । प्रायेण बाहुल्येन पक्षिणः पतत्रिणः, पशवो मृगाद्याः । भयेति । भयमनिष्टहेतुज्ञानम्, आहारः क्षुधानिवृत्त्युपायः, मैथुनं व्यवायः, निद्रा बाह्येन्द्रियोपरमः, संज्ञा लोकव्यवहारजनकशब्दः, एतन्मात्रवेदिनो भवन्ति एतन्मात्रमेव जानन्ति नाधिकम् । इदं तु महच्चित्रं महदाश्चर्यम् । इत्युक्तवतीतिभाषितवति भूभुजि राज्ञि सति कुमारपालितः किंचित्स्मितवदनः किंचिदीषत्स्मितं हास्यं तेन युक्तं वदनं यस्य स तथावादीदब्रवीत् । सर्वथाऽसंभाव्यमानाद्भुतदर्शनेनानर्थशङ्का निराकुर्ववाह - किमत्रेति । किमत्र चित्रमाश्चर्यम् । तत्रार्थे हेतुमाह - एते हीति । एते शुकाः प्रसिद्धाः सारिकाः पीतपादा एतत्प्रभृतयो विहङ्गविशेषा यथाश्रुतामर्थबोधशून्यां वाचं गिरमुच्चारयन्ति ब्रुवन्ति । देवेन स्वामिनेति पूर्वोक्तमधिगतमेव ज्ञातमेव । एतेन स्वानुभवोऽपि सूचितः । अत्रापि कारणान्तरसाचिव्यं दर्शयन्नाह - तत्रापीति । तत्रापि प्रयत्नेनोद्योगेन वा । संस्कारेऽतिशयो दाय॒मुपजायत उत्पद्यते । ताभ्यां हेतुभ्यां वाग्व्यापारयुक्ता भवन्तीति भावः । इति अतो नातिचित्रम् । अत्रान्यदपि कारणमस्तीत्याशयेनाह - अन्यदिति । अन्यदपि कारणान्तरमस्ति । तदेव दर्शयति - एतेषामिति । एतेषां शुकादीनां पुरा पूर्व प्राचीनपुरुषाणामिवातिपरिस्फुटमतिविशदमभिधानं नाम यस्यामेवंविधा वागासीत् । तु पुनरर्थे । अग्निशापादस्फुटालापता शुकादीनामुपजातेति स्पष्टम् । अत्रायं प्रवादः । छद्मना गृहीतरूपस्य वह्वेर्यादृशं संवादं श्रुतवाञ्छुकस्तथैवोक्तवानिति तं प्रति क्रुद्धेन वह्निना स शप्तः । करिणां हस्तिनां च जिह्वापरिवृत्तिः स्वभावजनितां तां दूरीकृत्य तत्स्थले तदितररसनायाः प्रक्षेपः । सा च - - - - - - - - - - - - - - - - - - - - - -- टिप्प० - 1 पुरा तारकासुरपीडितैरमरैः प्रार्थितो ब्रा अग्निसकाशात्कार्तिकेयनामानं देवसेनानायक कुमारं प्राप्तुमादिदेश । अग्निमन्विष्यन्तो देवास्तु 'कुत्राग्निरिति' समीपगं करिणं पप्रच्छुः । 'अश्वत्थेन्तर्हितोग्निरिति स उवाच । अथाग्निनिष्क्रम्य 'तव जिह्वा प्रतीपा भविष्यति' इति करिणं शप्त्वा पुनरन्तर्हितः । ततोऽग्न्यर्थ देवैः पृष्टः शुकः शमीवृक्षेऽग्नि निर्दिदेश । ततोऽप्यभिव्यक्तो वह्निः 'तवाऽस्फुटा वाग भविष्यति' इति शुकमशपदिति महाभारतम् । 2 रसनाया जिह्वायाः परिवृत्तिर्विपरीतभावेनावस्थितिः 'जिह्वा प्रतीपा भविष्यति' इति शापवचने प्रतीपशब्दप्रयोगात् । पाटा० - १ संस्कारवती. २ वाक्प्रवृत्तिः. ३ एतेन. ४ अतिपरिस्फुटाक्षरम्. ५ निद्रामात्र. ६ नृपमवादीत्. ७ देव किमत्र. ८ विहङ्गम. ९ यथाश्रुतम्, १० तत्राप्यत्रान्य. ११ अन्यच्च. १२ स्फुटाक्षरा. १३ अपरिस्फुटा. १४ सारिकाणाम्. (शुकप्रशसा) पूर्वभागः । Page #41 -------------------------------------------------------------------------- ________________ रिवृत्तिः' इति । एवमुच्चारयत्येव तस्मिन्नशिशिरकिरणमम्बरतलस्य मध्यमध्यारूढमावेदयन्नाडिकाच्छेदप्रहतपटुपटहनादानुसारी मध्याह्नशङ्खध्वनिरुदतिष्ठत् । तमाकर्ण्य चे समासन्नस्नानसमयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ । अथ चलति महीपतावन्योन्यमतिरभससंचलनचालिताङ्गदपत्रभङ्गमकरकोटिपाटितांशुकपटानाम्, आक्षेपदोलायमानर्कण्ठदाम्नाम्, अंसस्थलोल्लासितकुङ्कुमपटवासधूलिपटलपिञ्जरीकृतदिशाम्, आलोलमालतीपुष्पशेखरोत्पतदलिकदम्बकानाम्, अर्धावलम्बिभिः कर्णोत्पलैश्चुम्ब्यमानगण्डस्थलानाम् गमनप्रणामलालसानामहमहमिकया, वक्षःस्थलप्रेड्डोलितहारलतानाम्, उत्तिष्ठतामासीत्संभ्रमो महीपतीनाम् । इतश्चेतश्च निःपतन्तीनां स्कन्धावसक्तचामराणां - *********** गजानामेव नान्येषामित्यन्यत्र विस्तरः । शुक इत्यविशदाक्षरत्वमिति । तस्मिन्निति । तस्मिन् कुमारपालित एवं पूर्वोक्तप्रकारेणोच्चारयत्येवोक्तवत्येव मध्याह्नशङ्खध्वनिर्जलजनिनाद उदतिष्ठदुत्पन्नोऽभूदित्यन्वयः । किं कुर्वन् । आवेदयज्ञापयन् । कम् । अम्बरतलस्य गगनतलस्य मध्यं मध्यप्रदेशमशिशिरकिरणं श्रीसूर्यमध्यारूढं प्राप्तम् । अथ ध्वनि विशेषयन्नाह - नाडिकेति । नाडिका घटिका तस्याश्छेदः परिसमाप्तिस्तस्यां प्रहतस्ताडितो यः पटुर्महान्पटहो दुन्दुभिस्तस्य नादो निनादस्तमनुसर्तुं शीलमस्येति स तथा । तमिति । तं ध्वनिमाकर्ण्य श्रुत्वा क्षितिपती राजाऽऽस्थानमण्डपादुत्तस्थावुत्थितो बभूव । राजानं विशिनष्टि - समासनेति । समासनो निकटवर्ती स्नानसमय आप्लवनसमयो यस्य स तथा । विसर्जित इति । विसर्जितो निवर्तितो राजलोकः सेवकजनो येन स तथा । अथेति । उत्थानान्तरं महीपतौ राज्ञि चलति सत्युत्तिष्ठतामुत्थानं कुर्वतां महीपतीनां संभ्रमः संमर्द आसीदित्यन्चयः । अथ महीपतीविशेषयन्नाह - अन्योन्येति । अन्योन्यं परस्परमतिरभसेनातिवेगेन संचलनं गमनं तेन चालितानि स्वस्थानात्प्रच्यावितानि यान्यङ्गदपत्राणि तेषां भङ्गस्त्रुटनं तस्य या मकरकोटिर्वक्रप्रदेशस्तेन पाटितानि छिन्नान्यंशुकानि गर्भसूत्रनिर्मितानि, पटाः सूत्रनिर्मिता येषु ते तथा तेषाम् । आक्षेपेति । आक्षेपः परस्परसंलग्नता तेन दोलायमानानि चञ्चलानि कण्ठदामानि निगरणबन्धनसजो येषां ते तथा तेषाम् । अंसेति । अंसस्थलेभ्यो भुजशिरःस्थलेभ्य उल्लासितान्युच्छसितानि यानि कुङ्कुमानि केसराणि पटवासः पिष्टातकश्च तयोधूलिपटल परागसमूहस्तेन पिञ्जरीकृताः पीतरक्तीकृता दिशः ककुभो यैस्ते तथा तेषाम् । आलोलेति । आलोलाश्चञ्चला ये मालतीपुष्पाणा जातीकुसुमानां शेखरा अवतंसास्तदुपरिष्टादुत्पतन्तो भ्रमन्तोऽलयो भ्रमरास्तेषां कदम्बकानि समूहा येषां ते तथा तेषाम् । अर्धेति । अर्धावलम्बिभिरर्धभागलग्नैः । एवंविधै कर्णोत्पलैः श्रवणन्यस्तनलिनैचुम्ब्यमानमाश्लिष्यमाणं गण्डस्थलं कपोलात्परो भागो येषां ते तथा तेषाम् । गमन इति । गमने व्रजने यो राज्ञः प्रणामो नमस्कारस्तत्र लालसानां कृतस्पृहाणाम् । कया । अहं शक्तोऽहं शक्त इत्यस्या साहमहमिका । मयरव्यंसकादित्वात्साधः । तया । वक्ष इति । वक्षःस्थले भजान्तरे प्रेडोलितास्तरलिता हारलता मक्ताफलस्रजो येषा ते तथा तेषाम् । ततश्चेति । तदा तस्मिन्समय आस्थानभवनं नृपोपवेशनस्थलं सर्वतः परितः क्षुभितमिव क्षोभं प्राप्तमिवाभवदभूदित्यन्चयः । केन । इतश्चेतश्च समर्दवशादितस्ततो भिन्नभिन्नप्रदेशे निःपतन्तीनां स्खलन्तीनां स्कन्धो भुजशिरस्तत्रावसक्त - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अङ्गदानां भुजभूषणानां ये पत्रभङ्गाः पत्ररचनाः (उत्किरणशिल्पचातुर्यम् 'जडाई) तासु ये मकराः (उत्कीर्णजलजन्तुविशेषाः तेषां कोट्या अग्रभागेन, इत्यर्थ उचितः । 2 कण्ठावलम्बितहारादिसजः । 3 अहं पूर्वमहं पूर्वमिति स्पर्धा, इत्युचितोऽर्थः । पाठा० - १ मध्यमारूढ. २ चासत्र. ३ पाटितानेकपटानाम्; पाटितांशुकानाम्. ४ मालतीकण्ठदाम्नाम्. ५ स्थलोल्लसित. ६ धूलिपिञ्जरित. ७ कुसुम. ८ प्रसरणसदालालसानाम्. ९ अतिमहान्सरम्भः. १० स्कन्धदेशावसक्त. 28 कादम्बरी । A कथामुखे Page #42 -------------------------------------------------------------------------- ________________ चामरग्राहिणीनां कमलमधुपानमत्तजरत्कलहंसनादर्जेर्जरितेन पदेपदे रणितमणीनां मणीनूपुराणां निनादेन, वारविलासिनीजनस्य संचरतो जघनस्थलास्फालनरसितरत्नमालिकानां मणिमेखलानां मनोहारिणा झङ्कारेण, नूपुररवाकृष्टानां च धवलितास्थानमण्डपसोपानफलकानां भवनदीर्घिकाकलहंसकानां कोलाहलेन, रसनारसितोत्सुकितानां च तारतरविराविणामुल्लिख्यमार्नकांस्यक्रेङ्कारदीर्पण गृहसारसानां कूजितेन, सरभसप्रचलितसामन्तशतचरणतलाभिहतस्य चास्थानमण्डपस्य निर्घोषगम्भीरेण कम्पयतेव वसुमती ध्वनिना, प्रतीहारिणां च पुरः संसंभ्रमसमुत्सारितजनानां दण्डिनां समारब्धहेलमुच्चैरुच्चरतामौलोकयन्त्विति तारतरदीर्पण भ - *********** न्यस्तं चामरं वालव्यजनं याभिरेतादृशीनां चामरग्राहिणीनां स्त्रीणाम् । संबन्धे षष्ठी : तासां मणिखचितानि नपुराणि पादकटकानि तेषाम् । अथ नूपुराणि विशेषयन्नाह - पदे पदे इति । पदे पदे प्रतिपदं रणिताः शब्दायमाना मणयो वैडूर्यादयो येषु तानि तेषां निनादेन तदुद्भवशब्देन । तमेव विशेषयन्नाह - कमलेति । कमलस्य नलिनस्य यन्मधु रसस्तस्य पानमास्वादस्तेन मत्ताः क्षीबा ये जरत्कलहंसाः कादम्बास्तेषां नादः शब्दस्तेन जर्जरितेन संभिन्नेन । पुनः केन । वारेति । वारविलासिनीनां वाराङ्गनानां संचरतो गच्छतो जनस्य लोकस्य जघनस्थलस्थलस्य कटिपुरोभागस्थलस्यास्फालनं ताडनं तेन रसिताः शब्दं कुर्वाणा रत्नमालिका मणिसजो यास्वेविधानां मणिमेखलानां रत्नखचितकाञ्चीपादानां मनोहारिणा सुन्दरेण झङ्कारेण झणितिशब्देन । पुनः केन । नूपुरेति । नूपुराणां पूर्वोक्तानां रवः शब्दस्तेनाकृष्टानामाकर्षितानाम् । पुनः कीदृशानाम् । धवलितेति । धवलितानि शुभ्रीकृतान्यास्थानमण्डपस्य राज्ञ उपवेशनस्थलस्य सोपानमारोहणं तस्य फलकानि प्रसिद्धानि यैरेवंविधानां भवदीर्घिका गृहवाप्यस्तासां कलहंसा एव कलहंसकाः । स्वार्थे कः । तेषा कोलाहलेन कलकलेन । पुनः केन । रसनेति । रसना कटिमेखला तस्या रसितं शब्दितं तत्रोत्सुकिता उत्कण्ठितास्तेषाम् । चः समुच्चये । तारतरोऽत्यन्तोच्चस्तरो विरावः शब्दो विद्यते येषामेवंविधानां गृहसारसानां भवनलक्ष्मणानां कूजितेन । शब्दितेन । कीदृशेन । उल्लिख्यमानं घृष्यमाणं यत्कांस्यं विद्युत्प्रियं तस्य क्रेङ्कारोऽव्यक्तध्वनिस्तद्वद्दीपेणायतेन । 'कूजितं स्याद्विहङ्गानाम्' इति कोशः । पुनः केन । सरभसेति । सरभसं ससंभ्रमं प्रचलिता गन्तुं प्रवृत्ता ये सामन्ताः स्वदेशपर्यन्तवर्तिराजानस्तेषां शतं तस्य चरणतलैः पादतलैरभिहतस्य ताडितस्यास्थानमण्डपस्य नृपोपवेशनस्थलस्य निर्घोषोऽव्यक्तध्वनिस्तेन गम्भीरेण पुष्टध्वनिना । तदुत्थशब्देनेत्यर्थः । किं कुर्वता । वसुमती पृथ्वी कम्पयतेव क्षोभयतेव । पुनः केन । आलोकशब्देनालोक्यतामालोक्यतामित्येवरूपेण । केषाम् । प्रतिहारिणां द्वारपालकानाम् । अथ प्रतीहारिणो विशेषयनाह - पुर इति । पुरोऽग्रे ससंभ्रममनुपलक्षितस्वरूपं समुत्सारिता दूरीकृता जना लोका यैस्ते तथा तेषाम् । दण्डो विद्यते येषां ते दण्डिनस्तेषाम् । किं कुर्वताम् । समारब्धहेलं प्रारब्धकीडं यथा स्यात्तथा । उच्चैरित्यर्थः । उच्चरतां ब्रुवताम् । किम् । आलोकयन्तु पश्यन्त्विति यो तारतारः शिरःसमुद्भवः शब्दस्तेन दीर्घेणायतेन । - - - - - - - - - टिप्प० -1 वसुमती कम्पयता इव निर्घोषगम्भीरेण प्रतिध्वनिना गंभीरेण आस्थानमण्डपस्य ध्वनिना शब्देनेति व्याख्योचिता । 'गम्भीरेण पुष्टध्वनिना तदुत्थशब्देनेत्यर्थः' इति व्याख्या, 'ध्वनिना' इति विशेष्यरहितः पाठस्तु विचार्य एव विवेकिनाम् । पाटा० - १ मदमत्त. २ जर्जरण. ३ जधनस्थलस्थला. ४ मेखलानाम्. ५ उत्सुकानाम्. ६ काञ्ची. ७ निर्घात; निर्घातनिर्घोष. ८ वसुमती ध्वनिना. ९ प्रतिहाराणाम्. १० ससंभ्रमजनानाम्. ११ जानपदानाम्. १२ उच्चारयताम्. १३ आलोकयतेति. १४ तारदीर्पण. (शूद्रकसभाविसर्जनम् ( पूर्वभागः । Page #43 -------------------------------------------------------------------------- ________________ वनप्रासादकुंञ्जेषूच्चरितप्रेतिच्छन्दतया दीर्घतामुपगतेनालोकशब्देन, राज्ञां च ससंभ्रमावर्जितमौलिलोलचूडामणीनां प्रणमताममलमणिशलाकादन्तुराभिः किरीटकोटिभिरुल्लिख्यमानस्य मणिकुट्टिमस्य निःस्वनेन, प्रणामपर्यस्तानामतिकठिनमणिकुट्टिमर्निपतितरणरणायितानां च मणिकर्णपूराणां निनादेन, मङ्गलपाठकानां च पुरोयायिनां जैयजीवेति मँधुरवचनानुयातेन पठतां दिगन्तव्यापिना कलकलेन, प्रचलितजनचरणशतसंक्षोभाद्विहाय कुसुमप्रकरमुत्पततां च मधुलिहां हुकृतेन, संक्षोभादतित्वरितपदप्रवृत्तैरवनिपतिभिः केयूरकोटिताडितानां क्वणितमुखररत्नदाम्नां च मणिस्तम्भानां रणितेन सर्वतः क्षुभितमिव तदास्थानभवनमभवत् । अथ विसर्जितराजलोको 'विश्रम्यताम्' इति स्वयमेवाभिधाय तां चाण्डालकन्यकाम्, *********** पुनः कीदृशेन । दीर्घतां बहुलतामुपगतेन प्राप्तेन । कया । उच्चरितेति । उच्चरित उक्तो यः शब्दस्तस्य प्रतिच्छन्दस्तस्य भावस्तत्ता तया । केषु । भवनानि सामान्यगृहाः प्रासादा देवभूपसद्मानि तेषां कुञ्जेषु लतान्तरितप्रदेशेषु । पुनः केन । मणीति । मणिकुट्टिमं रत्नबद्धभूस्तस्य निःस्वनेन । किं क्रियमाणस्य । उल्लिख्यमानस्य घृष्यमाणस्य । काभिः । किरीटकोटिभिर्मुकुटाग्रैः । कीदृशीभिः । अमलेति । अमला निर्मला मणिशलाका रत्नेषीकास्ताभिर्दन्तुराभिर्विषमाभिः । केषाम् । राज्ञां नृपाणाम् । किं कुर्वताम् । प्रणमतां नमस्कार कुर्वताम् । कीदृशानाम् । ससंभ्रमेति । संभ्रमेण सहसावर्जिता नमिता मौलौ शिरसि लोलाश्चञ्चलाश्चूडामणयः शिरोमणयो येषां ते तथा तेषाम् पुनः केन । मणीति । मणिकर्णपूराणां रत्नकर्णाभरणानां निनादेन शब्देन । कर्णपूरं विशेषयन्नाह - प्रणामेति । प्रणा नमस्कारेण शिरोनमनात्पर्यस्तानां पतितानाम् । अतीति । अतिकठिनं यन्मणिकुट्टिमं तत्र निपतितेन पातेन रणरणायितानां संजातरणरणितशब्दानाम् । पुनः केन । दिशां ककुभामन्ता दिगन्तास्तान्व्याप्नुवन्तीत्येवंशीलेन कलकलेन कोलाहलेन । केषाम् । पठताम् । कीर्तिपाठकानामित्यर्थः । कीदृशानाम् । पुरोयायिनामग्रगामिनां मङ्गलपाठकानां बन्दिनां जयजीवजयजीवेति यन्मधुरं वचनं तदनुलक्षीकृत्य यातेन प्रवृत्तेन । पुनः केन । मधुलिहां भ्रमराणां हुकृतेन हुंकारशब्देन । किं कुर्वताम् । उत्पततामुड्डीनं कुर्वताम् । किं कृत्वा । विहाय त्यक्त्वा । किम् । कुसुमप्रकरं पुष्पसमूहम् । कस्मात् । प्रचलितेति । प्रचलिता ये जनास्तेषां चरणाः पादास्तेषां शतं तस्माद्यः संक्षोभः संभ्रमस्तस्मात् । पुनः केन । मणिस्तम्भानां रत्नस्थूणानां रणितेन रणत्कारेण । कीदृशेन । क्वणितेन शब्दितेन मुखराणि वाचालान रत्नदामानि येषु ते तथा तेषाम् । केयूरेति । केयूराणामङ्गादानां कोट्योऽग्रभागास्तैस्ताडितानामाहतानामिति स्तम्भविशेषणम् । कैः । अवनिपतिभिः नृपतिभिः । कीदृशैः । संक्षोभश्चित्तवैक्लव्यं तस्मादतित्वरितपदमतिवेगवत्तरचरणं यथा स्यात्तथा प्रवृतैः प्रचलितैः । अन्वयस्तु प्रागेवोक्तः । 1 'वै - अथेति । अथेत्यानन्तर्ये । नरपती राजा कतिपयैः कियद्भिराप्तैः शिष्टै राजपुत्रैर्नृपसूनुभिः परिवृतः सहितो विसर्जितो विसृष्टो राजलोकः परिच्छदलोको येन स तथा । राज्ञो विशेषणम् । विश्रम्यतां विश्रामं गृह्यतामिति स्वयमेवात्मनैवाभिधायोक्त्वा तां चाण्डालकन्यका, वैशम्पायनश्च शुकोऽभ्यन्तरं मध्यं प्रवेश्यतां प्रवेशं कार्यतामिति ताम्बूलस्य नागवल्याः करङ्कः स्थगी तां वहतीत्येवंशीला सा तथा तामादिश्याज्ञां दत्त्वाभ्य - टिप्पo - 1 निपतिताः अत एव रणरणायिता ये मणिकर्णपूराः तेषां निनादेन । इत्याशयः । पाठा० - १ कुञ्जेषु चरित. २ प्रतिशब्दतया ३ दीर्घतरयाताम्; दीर्घतरताम्. ४ स्वनेन. ५ निपतन. ६ जयजयेति. ७ मङ्गलमधुरवचनानुपातेन; मधुरवचनानुयातेन ८ दिगन्तर. ९ संक्षोभभयादपहाय. १० त्वरितपदम्. ११ प्रसृतैः. 30 कादम्बरी । कथामुखे Page #44 -------------------------------------------------------------------------- ________________ शम्पायनः प्रवेश्यतामभ्यन्तरम्' इति ताम्बूलकरङ्कवाहिनीमादिश्य, कतिपयाप्तराजपुत्रपरिवृतो नरपतिरभ्यन्तरं प्राविशत् । अपनीताभरणश्च दिवसकर इव विगलितकिरणजालः, चन्द्रतारकासमूहशून्य इव गगनाभोगः, समुपाहृतसमुचितव्यायामोपकरणां व्यायामभूमिमयासीत् । स तस्यां च समानवयोभिः सह राजपुत्रैः कृतमधुव्यायामः, श्रमवशादुन्मिषन्तीभिः कपोलयोरीषद॑वदलितसिन्दुवारकुसुममञ्जरीविभ्रमाभिरुरसि निर्दयश्रमच्छिन्नहारविगलितमुक्ताफलप्रकरानुकारिणीभिर्ललाटपट्टकेऽष्टमीचन्द्रशकलतलोल्लसदमृतबिन्दुविडम्बिनीभिः स्वेदजलकणिकासंततिभिरलंक्रियमाणमूर्तिः, इतस्ततः स्नानोपकरणसंपादनसत्वरेण पुरः प्रधावता परिजनेन तत्कालं विरैलजनेऽपि राजकुले समुत्सारणाधिकारमुचितं समाचरद्भिर्दण्डिभिरुपदिश्यमानमार्गः, विततसितवितानाम्, अनेकचारणगणनिबध्यमानमण्ड - *********** न्तरम् । अर्थाद् गृहस्य । प्राविशत्प्रवेशं चकार । तदनन्तरं स राजा व्यायामः श्रमस्तत्करणयोग्यां भूमि वसुंधरामयासीदगच्छत् । इतो राजानं विशेषयन्नाह - अपेति । अपनीतानि दूरीकृतान्याभरणानि भूषणानि येन स तथा । क इव । दिवसकर इव सूर्य इव । कीदृशः । विगलितानि सस्तानि किरणजालानि दीधितिवृन्दानि यस्य स तथा । तत एवैतयोः साम्यम् । पुनः क इव । गगनाभोग इव धनाश्रयविस्तार इव । कीदृशः । चन्द्रः शशी, तारका नक्षत्राणि, तेषां समूहः संघातस्तेन शून्यः । अथ व्यायामभूमिं विशिनष्टि - समुपाहृतेति । समुपाहृतान्येकत्रीकृतानि समुचितानि योग्यानि व्यायामे श्रम उपकरणानि साधनानि यस्यां सा तथा ताम् । स राजा तस्यां भूमौ समानं तुल्यं वयः कौमारादि येषामेवंविधै राजपुत्रैर्नृपसुतैः सह सार्धं कृतो विहितो मधुरो लक्षणया शरीरपीडाजनको व्यायामो येन स तथा । अलंक्रियमाणा भूष्यमाणा मूर्तिः शरीरं तस्य स तथा । राज्ञो विशेषणद्वयम् । काभिः । स्वेदेति । कपोलयोर्गलात्परभागयोः स्वेदजलस्य श्रमजनितदेहजलस्य कणिकाः सूक्ष्मबिन्दवस्तेषां संततयः परंपरास्ताभिः । इतः स्वेदजलकणिकासंततिं विशेषयन्नाह - श्रमेति । श्रमवशाद्व्यायामवशादुन्मिषन्तीभिः प्रकाशं प्राप्नुवतीभिः । कपोलयोः । ईषदिति । इषत्किंचिदवदलितं मर्दितं सिन्दुवारस्य निर्गुण्ड्याः कुसुमं पुष्पं तस्य मञ्जरी वल्लरी तस्या विभ्रमो भ्रान्तिर्यासु तास्तथा ताभिः । उरसीति । उरसि वक्षस्थले निर्दयश्रमेण कठिनप्रयासेनान्यैः कर्तुमशक्यव्यायामेनेति यावत् । तेन छिन्नश्छेदं प्राप्तो यो हारो मुक्तासक्तस्माद्विगलितश्च्युतो यो मुक्ताफलानां मौक्तिकानां प्रकरः समूहस्तमनुकारिण्यस्तमनुकुर्वन्त्यस्ताभिः । ललाटेति । ललाटपट्टके भालस्थलेऽष्टमीचन्द्र एव शकलं तस्य तलमुत्तानस्थल तत्रोल्लसन्तो दीप्यमाना येऽमृतबिन्दवः सुधापृषतास्तान्चिडम्बयन्ति तिरस्कुर्वन्तीत्येवंशीलास्तास्तथा ताभिः । कीदृशो राजा । परिजनेन सेवकजनेन । कीदृशेन । पुरतोऽग्रे प्रधावता त्वरितं गच्छता । पुनः किंविशिष्टेन । इतस्ततः समन्तात्स्नानमाप्लवस्तस्योपकरणानि जलादीनि तेषां संपादनं निष्पादनं तत्र सत्वरेण शीध्रेण । तत्कालं तत्समयावच्छेदेन विरलजनेऽपि स्वल्पजनेऽपि राजलोके राजगृहे सत्युचितं योग्यं समुत्सारणं निवारणं तत्र योऽधिकारो नियोगस्तं समाचरद्भिः कुर्वद्भिर्दण्डिभित्रिभिश्चोपदिश्यमानः प्रदर्घामानो मार्गो यस्य स तथा । इतः परं स्नानभूमेविशेषणानि । विततेति । विततो विस्तीर्णः सितः शुभ्रो वितान उल्लोचो यस्यां सा तथा ताम् । अनेकेति । - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 किञ्चित्स्फुटितम् (विकसितम्) इत्यर्थ उचितः । पाटा० - १ अभ्यन्तरं स्नानपानाशनादिना च सुखिनमेनं कारयेति; अभ्यन्तरमशनादिना चोपचर्यताम्. २ करण्ड. ३ अपनीताशेषभूषणच. ४ अवगलितसितसिन्दुरवार. ५ रतिश्रम; रतिविभ्रम. ६ प्रधाविना. ७ परिजनेनानुगम्यमानः. ८ विरलतरेऽपि. ९ आचरद्भिः. १० आबध्यमान. (शूद्रकस्नानम् पूर्वभागः । Page #45 -------------------------------------------------------------------------- ________________ लाम्, गन्धोदकपूर्णकनकमयजलद्रोणीसनाथमध्याम्, उपस्थापितस्फाटिकस्नानपीठाम् एकान्तनिहितैः अतिसुरभिगन्धसलिलपूर्णैः परिमलावकृष्टमधुकरकुलान्धकारितमुखैः आतपभयान्नीलकर्पटावगुण्ठितमुखैरिव स्नानकलशैरूपशोभितां स्नानभूमिमगच्छत् । अवतीर्णस्य जलद्रोणीं वारविलासिनीकरमृदितसुगन्धामलकर्लिप्तशिरसो राज्ञः परितः समुपतस्थुरशुकनिबिडनिबद्धस्तनपरिकराः, दूरसमुत्सारितवलयबाहुलताः, समुत्क्षिप्तकर्णाभरणाः, कर्णोत्सङ्गोत्सारितालकाः, गृहीतजलकलशाः, स्नानार्थमभिषेकदेवता इव वारयोषितः । ताभिश्च समुन्नतकुचकुम्भमण्डलाभिर्वारिमध्यप्रविष्टः करिणीभिरिव वनकरी परिवृतस्तत्क्षणं रराज राजा । द्रोणीसंलिलादुत्थाय च स्नानपीठममलस्फटिकधवलं वरुण इव राज - अनेकेऽसंख्या ये चारणगणाः कुशीलवसमुदायास्तैर्निबध्यमानं विरच्यमानं मण्डलं परिवृतिर्यस्यां सा तथा ताम् । गन्धोदकेति । गन्धोदकेन सुरभिपानीयेन पूर्णा भृता या कनकमयी सुवर्णमयी । अत्र विकारार्थे मयट् । एतादृशी जलद्रोणी जलकुण्डिका तया सनाथः सहितो मध्यो मध्यभागो यस्याः सा तथा ताम् । उपेति । उपस्थापितं न्यस्तं स्फाटिकं स्फटिकमणिनिर्मितं स्नानपीठमाप्लवनचतुष्किका यस्यां सा तथा ताम् । स्नानेति । स्नानार्थं ये कलशाः कुम्भास्तैरुपशोभितां विराजिताम् । अथ कलाशान्विशेषयन्नाह - एकान्तेति । एकान्ते निर्जनस्थले निहितैः । स्थापितैः । अतीति । अतिशयेन सुरभिर्गन्धो यस्मिन्नेवंविधं यत्सलिलं जलं तेन पूर्णैर्भृतैः । परीति । परिमलेन - गन्धेनावकृष्टा ये मधुकरा भ्रमरास्तेषां कुलानि समुदायास्तैरन्धकारितं संजातान्धकारं मुखमाननं येषां ते तथा तैः । कीदृशैरिव । आतपभयान्नीलकर्पटावगुण्ठितानि मुखानि येषां ते तथा तैरिव । जलद्रोणीमवतीर्णस्य तन्मध्ये प्रविष्टस्य राज्ञो नृपस्य परितः सर्वतः स्नानार्थमभिषेकदेवता इवाभिषेकाधिष्ठात्र्य इव वारयोषितो वाराङ्गनाः समुपतस्थुः सम्यक्प्रकारेणातिष्ठन् । कीदृशस्य राज्ञः । वारविलासिन्या करेण मृदितं यत्सुगन्धामलकं सुरभिधात्रीफलं तेन लिप्तं शिरो यस्य स तथा तस्य । ता विशेषयत्राह - अंशुकेति । अंशुकैर्वस्त्रैर्निबिड दृढं निबद्धः संयतः स्तनपरिकरः कुचाभोगो याभिस्तास्तथा । दूरेति । दूरं समुत्सारितानि निराकृतानि वलयानि कङ्कणानि यास्वेवंभूता बाहुलता भुजबल्लयो यासां ताः । सम्विति । समुत्क्षिप्तमुपरि गृहीतं कर्णानामाभरणं भूषणं याभिस्तथा । कर्णेति । कर्णोत्सङ्गाच्छ्रवणसमीपादुत्सारिता उपरिन्यस्ता अलकाः कुन्तला याभिस्तास्तथा । अत्र त्रिपदैस्तासां शोभातिशयो व्यज्यते । गृहीतेति । गृहीता आत्ता जलकलशा वारिभृतघटा याभिस्ताः । च पुनरर्थे । ताभिस्तत्क्षणं तस्मिन्क्षणे परिवृत आवृतो राजा नृपो रराज शुशुभे । कथंभूताभिस्ताभिः । समुन्नतं कुचकुम्भमण्डलं यासां ताभिः । कीदृशश्च राजा । वारिमध्यप्रविष्टः । कमिव । करिणीभिर्हस्तिनीभिः परिवृतो वनकरीव । यथा धेनुकाभिः समं मज्जनं कुर्वन्वनकरी शोभते तद्वदयमित्यर्थः । ततो द्रोणीसलिलात् द्रोणीजलादुत्थाय बहिर्निर्गत्य स्नानपीठमारुरोहेत्यन्वयः । कीदृशम् । अमलेति । अमलो मलवर्जितो यः स्फटिको मणिविशेषस्तद्वद्धवलं शुभ्रम् । क इव । वरुण इव । यथा वरुणः प्रचेता राजहंसं कलहंसमा 32 *********** - १ अभिसुरभि. २ कलशैः. ३ अवतीर्णस्य च ४ उपलिप्त. ५ समन्तात्. ६ समुत्तस्थुः ७ अंशुकविनिबद्ध. ८ चरणाभरणाः ९ जलद्रोणी. कादम्बरी । कथा Page #46 -------------------------------------------------------------------------- ________________ हंसमारुरोह । ततस्ताः काश्चिन्मरकतकलशप्रभाश्यामायमाना नलिन्य इव मूर्तिमत्यः पत्रपुटैः, काश्चिद्रजतकलशहस्ता रजन्य इव पूर्णचन्द्रमण्डलविनिर्गतेन ज्योत्स्नाप्रवाहेण, काश्चित्कलशोत्क्षेपश्रमस्वेदाशरीरा जलदेवता इव स्फाटिकैः कलशैस्तीर्थजलेन, काश्चिन्मलयसरित इव चन्दनरसमिश्रेण सलिलेन, काश्चिदुत्क्षिप्तकलशपार्थविन्यस्तहस्तपल्लवाः प्रकीर्यमाणनखमयूखजालकाः प्रत्यङ्गुलिविवरविनिर्गतजलधाराः सलिलयन्त्रदेवता इव, काश्चिज्जाड्यमपनेतुमाक्षिप्तबालातपेनेव दिवसश्रिय इव कनककलशहस्ताः कुङ्कुमजलेन वाराङ्गनायथायथं राजनमभिषिषिचुः । अनन्तरमुदपादि च स्फोटयनिव श्रुतिपथमनेकप्रहतपटु - *********** रोहति । तत इति । आरोहणानन्तरं ता वारयोषितो यथायथं यथायोग्यं राजानमभिषिषिचुरभिषेकं चक्रुः । इतो वारयोषितो विशेषयन्नाह - काश्चिदिति । काश्चित् काश्चन मरकतमणिनिर्मितो यः कलशः कुम्भस्तस्य प्रभा कान्तिस्तया श्यामायमानाः श्यामवदाचरिताः नलिन्य इव पद्मिन्य इव मूर्तिमत्यो नीलत्वसाम्यात्तद्रूपधारिण्यः पत्रपुटैः पर्णसंपुटैः राजानमभिषिषिचुरिति सर्वत्र । अन्याः काश्चन रजतस्य रूप्यस्य कलशः कुम्भो हस्ते पाणी यासा तास्तथा । का इव । पूर्णचन्द्रमण्डलात्समग्रशशिबिम्बाद्विनिर्गतेन निःसृतेन ज्योत्स्नाप्रवाहेण कौमुदीरयेण शोभमाना रजन्य इव त्रियामा इव । अन्याः काश्चन कलशस्य कुम्भस्य चोत्क्षेप उत्पाटनं तस्माद्यः श्रमस्तेन यः स्वेदो धर्मजलं तेनार्दै स्विनं शरीरं देहो यासां ताः स्फाटिकैः स्फटिकसंबन्धिभिः कलशैस्तीर्थजलेन तीर्थाम्भसा च सहिता जलदेवता जलाधिष्ठात्र्य इव । काश्चिदिति । अन्याः काश्चन चन्दनस्य मलयजस्य रसो द्रवस्तेन मिश्रेण संयुक्तेन सलिलेन स्नानं चक्रुः । का इव । मलयसरित इव मलयाचलनद्य इव । ता अपि चन्दनरसमिश्रसलिलाः स्युः । काश्चिदिति । अन्याः काश्चनोत्क्षिप्त उत्पाटितो यः कलशस्तस्य पार्श्वयोमिदक्षिणयोर्विन्यस्ताः स्थापिता हस्तपल्लवाः करकिसलयानि याभिस्ताः, प्रकीर्यमाणानीतस्ततो विक्षिप्यमाणानि नखमयूखजालकानि पुनर्भवदीप्तिचया याभिस्ताः । प्रत्यङ्गलि प्रतिकरशाख यानि विवराणि छिद्राणि तेभ्यो विनिर्गता जलधारा पानीयसंततिर्यासा ताः । का इव । सालिलयन्त्रदेवता इव । ता अप्येवंविधाः स्युरित्यर्थः । काश्चिदिति । अन्याः काश्चन कनकस्य सुवर्णस्य कलशो हस्ते यासां ताः । का इव । दिवसश्रिय इव वासरलक्ष्मीरिव । केनेव । जाड्यं शीतमपनेतुं दूरीकर्तुमाक्षिप्त आकर्षितो यो बालातपो नव्यालोकस्तेनेव कुङ्कुमजलेन केसरवारिणा । अत्र कुङ्कुमजलबालातपयोरुपमानोपमेय भावः । अन्वयस्तु प्रागेवोक्तः । अनन्तरमिति । अभिषेकानन्तरं स्नानशङ्खानां - - - - - - - - - - - - - टिप्प० - 1 जलदेवता इव काश्चित् स्फाटिकैः कलशैः (स्फटिककलशद्वारा) तीर्थजलेन अभिषिषिचुः, तीर्थजलाभिषेकं चक्रुरित्यर्थ उचितः । 2 कारयामासुरित्याशयः । 3 करनखेभ्यः कान्तिकिरणास्तथा निरगच्छन् यथा जलयन्त्रदेवतानाम् (जलनिर्झरणार्थ निर्मितयन्त्रपुत्तलिकानाम) हस्ताङ्गलिविवरेभ्यो जलधारा एव मन्ये निष्पतन्तीत्युत्प्रेक्षाशयः । पाठा० -१ काश्चन. २ शकल. ३ क्रमेण. ४ आस्फोटयत्रिव. शूद्रकस्नानम् पूर्वभागः । Page #47 -------------------------------------------------------------------------- ________________ पटहझल्लरीमृदङ्गवेणुगीतनिनादानुगम्यमानो बन्दिवृन्दकोलाहलाकुलो भुंवनविवरव्यापी स्नानशङ्खानामापूर्यमाणानामतिमुखरो ध्वनिः। एवं च क्रमेण निर्वर्तिताभिषेको विषधरनिर्मोकपरिलघुनी धवले परिधाय धोतवाससी शरदम्बरैकदेश इव जलक्षालननिर्मलतनुः, अतिधवलजलधरच्छेदशुचिना दुकूलपट्टपल्लवेन तुहिनगिरिरिव गगनसरित्सोतसा कृतशिरोवेष्टनः, संपादितपितृजलक्रियो मन्त्रपूततोयाञ्जलिना दिवसकरमभिप्रणम्य देवगृहमगमत् । उपरचितपशुपतिपूँजश्च निष्क्रम्य देवगृहानिर्वर्तिताग्निकार्यो विलेपनभूमौ झङ्कारिभिरलिकदम्बकैरनुबध्यमानपरिमलेन मृगमदकर्पूरकुङ्कु - *********** ध्वनिः शब्द उदपायुत्पन्नोऽभूत् । ‘पद गतौ' इत्यस्य लुङि रूपम् । किं कुर्वन्निव । श्रुतिपथं कर्णमार्ग स्फोटयन्निव द्विधा कुर्वन्निव । पुनः कीदृक् । अतिशयेनमुखरस्तारतरः । किंविशिष्टानां शङ्खानाम् । आपूर्यमाणानां वाद्यमानानाम् । पुनः कीदृशः । अनेकेति । अनेकप्रकारेण प्रहता वादिताः पटवः समर्था ये पटहा दुन्दुभयो, झल्लरी प्रसिद्धा, मृदङ्गो मर्दलो, वेणुवंशो, वीणा वल्लकी, गीतानि गानानि चैतेषां यो निनादो ध्वनितं तमनुलक्षीकृत्य गम्यमानः प्रवर्तमानः । पुनः कीदृक् । बन्दिना वैतालिकानां वृन्दं समुदायस्तस्य कोलाहलः कलकलस्तेनाकुलो मिश्रितः । पुनः कीदृक् । भुवनेति । भुवनानां विष्टपानां विवराणि छिद्राणि व्याप्नोतीत्येवंशीलः स तथा । एवं च पूर्वोक्तप्रकारेण क्रमेण परिपाट्या विहितोऽभिषेको यस्यैवंभूतो नृपो देवगृहं चैत्यमगमदित्यन्वयः । किं कृत्वा । विषेति । विषधराः सास्तेषां निर्मोकः कञ्चुकस्तद्वत्परिलघुनी अतिहस्वे, अत एव धवले शुभ्रे धौतवाससी प्रक्षालितवस्त्रे परिधाय परिधानं कृत्वा । अथ राजानं विशिनष्टि - जलेति । जलेन पानीयेन यत्क्षालनं तेन निर्मलापगतमला तनुः शरीरं यस्य स तथा । किमिव । शरदिति । शरदि घनात्यये यदम्बरं गगनं तस्यैकदेशो भागस्तद्वदिव । शरयम्बरं वृष्टेरभावानिर्मलमेवेति भावः । अतीति । अतिधवलो यो जलधरो मेघस्तस्य यश्छेदः खण्डस्तद्वच्छुचिना निर्मलेन दुकूलपट्टः क्षीरोदपट्टस्तस्य पल्लवेन प्रान्तेन कृतं विहितं शिरोवेष्टनमुत्तमाङ्गवेष्टन येन स तथा । क इव । तुहिनगिरिवि हिमाचल इव । गिरिं विशिनष्टि - गगनेति । गगनसरित्स्वधूंनी तस्या यत्सोतः प्रवाहस्तेन कृतशिरोवेष्टनः । संपादित इति । संपादिता निष्पादिता पितॄणां जलक्रिया येन सः । मन्त्रेति । मन्त्रैर्वेदोक्तैः पूतं पवित्रं यत्तोयं पानीयं तस्याञ्जलिः प्रसृतिस्तेन दिवसकर सूर्यमभिसंमुखं प्रणम्य नमस्कृत्य । उपेति । उपरचिता निष्पादिता पशुपतेरीश्वरस्य पूजा; येनैवंभूतः सन् तस्माद्देवगृहानिष्कम्य बहिरागत्यावनिपो राजाऽऽहारमशनादिकं निवर्तयामास कृतवानित्यन्वयः । निर्वर्तितेति । निर्वर्तितं कृतमग्निकार्यं होमादि येन सः । विलेपनभूमावङ्गरागनिष्पादनस्थले झङ्कारिभिमुङ्कारशब्दं कुर्वाणैरलिकदम्बकैर्धमरसमूहैरनुबध्यमानो नियम्यमानः परिमल आमोदो यस्य स तथा तेन । मृगमदेति । मृगमदः कस्तूरी, कर्पूरी हिमवालुका, कुङ्कुमं केसरमेतेषां यो वासः परिमलस्तेन सुर -. - - - - - - - - - - - - - - - - - - टिप्प० -1 अतीवसूक्ष्मे । 2 क्षौम (कौशेय) पट एव पल्लवः नवकिसलयः । अथवा क्षौमपदृस्य पल्लवो विस्तारः 'पल्लवो विस्तरे षिङ्गे किसले विटपे बने इति त्रिकाण्डशेषः । तेन । 3 शिवपूजनात्पूर्वं सूर्याय अर्घ्यदानं तु 'यावन्न दीयते चायँ भास्कराय महात्मने । तावन्न पूजयेद्विष्णुं शङ्करं वा महेश्वरीम् ॥ इति ब्रह्मपुराणवचनात् । पाठा० - १ कोलाहलो. २ भवन. ३ मुखरो. ४ निवर्तित. ५ घौते वाससी. ६ आक्षालन. ७ विमल. ८ संपन्न. ९ उपचरित. १० पूजनश्च. ११ निवर्तित. कादम्बरी । कथाखे Page #48 -------------------------------------------------------------------------- ________________ मवाससुरभिणा चन्दनेनानुलिप्तसर्वाङ्गो विरचितामोदिमालतीकुसुमशेखरः कृतवस्त्रपरिवर्तो रत्नकर्णपूरमात्राभरणः समुचितभोजनैः सह भूपतिभिराहारमभिमतरसास्वादजातप्रीतिरवनिपो निर्वतयामास । परिपीतधूमवर्तिरुपस्पृश्य च गृहीतताम्बूलस्तस्मात्प्रमृष्टमणिकुंट्टिमप्रदेशादुत्थाय नातिदूरवर्तिन्या ससंभ्रमप्रधावितया प्रतीहार्या प्रसारितं बाहुमबलम्ब्य वेत्रलताग्रहणप्रसङ्गादतिजरटकिसलयानुकारिकंरतलं करेण, अभ्यन्तरसंचारसमुचितेन परिजनेनानुगम्यमानो, धवलांशुङपरिगतपर्यन्ततया स्फटिकमणिमयभित्तिनिबद्धमिवोपलक्ष्यमाणम्, अतिसुरभिणा मृगनाभिप - *********** भिणासुगन्धिनैवंभूतेन चन्दनेन मलयजेनानुलिप्तं लेपितं सर्वाङ्गं समग्रशरीरावयवा येन स तथा । इतो राज्ञो विशेषणानि - विरचितेति । विरचितो रचनाविशेषेण निर्मित आमोदिमालतीकुसुमानि सुगन्धिजातिपुष्पाणि तेषां शेखरः शिरोभूषणं येन स तथा । कृतेति । कृतो विहितः पूर्वपरिहितवस्त्रस्य परिवर्तः परावर्तो येन स तथा । कृतं वस्त्रस्य क्षीरोदवस्त्रस्य परिवर्त उपरिवस्त्रं येनेति वा । रत्नेति । रत्नखचितः कर्णपूरः कर्णाभरणं तन्मात्रमाभरणं यस्य स तथा । ननु नीचजनप्रदर्शनार्थं बहुतरभूषणधारणमिति मात्रपदव्यङ्म्यम् । एकपङ्क्तो समुचितं योग्यं भोजनं येषामेवंभूतैर्भूपतिभिर्नृपतिभिः सहेति भित्रक्रमः । अभीति । अभिमताः श्रेष्ठा ये रसा मधुरादयस्तेषामास्वादो ग्रहणं तेन जातोत्पन्ना प्रीतिः संतुष्टिर्यस्य स तथा । परीति । मुखसौगन्ध्यप्रतिपादनार्थं परि सामस्त्येन पीता गृहीता धूमवर्तिव्यविशेषो येन स तथा । किं कृत्वा । उपस्पृश्याचम्य । 'उपस्पर्शस्त्वाचमनम्' इति कोशः । पुनः किं कृत्वा । भुक्त्वा भोजनं विधाय । आस्थानमण्डपं परिषन्मण्डपमयासीज्जगामेत्यन्वयः । गृहीतमात्तं ताम्बूलं नागवल्लीदलं येन स तथा । तस्मात्यानिर्दिष्टात् । प्रमृष्टेति । सातिशयं मृष्टं मणिकुट्टिमं यस्मिन्नेवंभूतात् प्रदेशात्स्थलात् उत्थाय । उत्थानं कृत्वेत्यर्थः । नातिदूरं वर्तते या सा तया । पुनः कीदृश्या । ससंभ्रमं सभयं प्रधावितया त्वरितं गच्छन्त्या एवंभूतया । प्रतीहार्या । 'पुंवत्प्रगल्भा या नारी वक्तुं या च विचक्षणा । सा प्रतीहारी' इति । तया प्रसारितः संनिहितः कृतो बाहुर्भुजस्तमवलम्ब्य । तदाश्रयमास्थायेत्यर्थः । परीति । परिजनेन सेवकजनेनानुगम्यमान इति राज्ञो विशेषणम् । अथ सेवकजनं विशेषयन्नाह - वेत्रेति । वेत्रस्य वेतसस्य या लता सरलयष्टिस्तस्या ग्रहणं धारणं तस्य प्रसङ्गोऽभ्यासस्तस्मादतिजरठमतिकठिनं यत्किसलयं तदनुकरोति तादृशं करतलं पाण्यधोभागो यस्यैवंविधः करो हस्तो यस्य स तथा तेन । अभ्यन्तरेति । अभ्यन्तरं बाह्यजनागम्यो यो गृहप्रदेशस्तत्र यः संचारः संचरणं तत्र समुचितो योग्यः स तथा तेन । अथास्थानमण्डपं विशिनष्टि - धवलेति । धवलं शुभ्रं यद्. अंशुकं वस्त्रं तेन परिगतः सहितो यः पर्यन्तः प्रान्तस्तस्य भावस्तत्ता तया । स्फटिकमणिमयी या भित्तिः कुड्यं तया निबद्धं निर्मितमियोपलक्ष्यमाणं दृश्यमानम् । अनेनांशुकानां श्वेतत्वसौम्यातिशयो व्यज्यते । अतीति । अतिसुरभिणा मृग - - - - - - - - - - - - - - - टिप्प० -1 धृताऽपरवस्त्र इति यावत् । 2 पीता अग्निसंयोगेन धूमसंयुक्तताम्रकटादिनिर्मिता वर्तिर्येन । 3 वेत्रलतेत्यादिविशेषणं प्रतीहार्या बाहोः । अन्यपरिजनस्य वेत्रग्रहणाऽसंबन्धात्, संबन्धेऽपि अनुगामिनः परिजनस्य करतलकठोरतावर्णनेत्र स्वारस्याभावात् । तेनैवं पाठः । अन्वयश्चोचितः - 'प्रतीहार्या प्रसारित वेत्रलताग्रहणप्रसङ्गादतिजरठकिसलयानुकारिकरतलं बाहुं करेण (राजा इत्यर्थः) अवलम्ब्य । व्याख्या तु उपरितो ज्ञेया । पाठा० - १ कृताम्बर. २ परिवर्तो. ३ निवर्तयामास. ४ धूप; घूपधूम. ५ कुट्टिमात्. ६ प्रसारितबाहुम्; प्रसारितम्. ७ अनवरतवेत्र. ८ प्रसङ्गानति; प्रसङ्गादनति. ९ करतलकरेण. १० जवनिकापरिगत. ११ स्फटिकमय. १२ बद्ध. १३ अतिसुरभि. १४ परिमलेन. (सभामण्डपवर्णनम् । पूर्वभागः । Page #49 -------------------------------------------------------------------------- ________________ रिगतेनामोदिना चन्दनवारिणा सिक्तशिशिरमणिभूमिम्, अविरलविप्रकीर्णेन विमलमणिकुट्टिमगगनतलतारागणेव कुसुमोपहारेण निरन्तरनिचितम्, उत्कीर्णशालभञ्जिकानिवहेन संनिहितगृहदेवतेनेव गन्धसलिलक्षालितेन कलघौतमयेन स्तम्भसंचयेन विराजमानम्, अतिबहलागुरुधूपपरिमलम्, अखिलविगैलितजलनिवहधवलजलधरशकलानुकारिणा कुसुमामोदवासितप्रच्छदपटेन पट्टोपधानाध्यासितशिरोभागेन मणिमयप्रतिपादुकाप्रतिष्ठितपादेन पार्श्वस्थरत्नपादपीठेन तुहिनशिलातलसर्दृशेन शयनेन सनाथीकृतवेदिकं भुक्त्वास्थानमण्डपमयासीत् । तत्र च शयने निषण्णः क्षितितलोपविष्टया शनैः शनैरुत्सङ्गनिहितासिलतया खड्गवाहिन्या नवनलिनदलकोमलेन करसंपुटेन संवाह्यमानचरणस्तत्कालोचितदर्शनैरवनिपतिभिर - 1 नाभिपरिगतेनामोदिना चन्दनवारिणा मलयजपानीयेन सिक्ता सिञ्चितात एव शिशिरा शीतला मणिभूमि रत्नबद्धा भूर्यस्मिंस्तत्तथा । अवीति । अविरलं घनतरं विप्रकीर्णेन पर्यस्तेन । विमलेति । विमलमणीनां निर्मलरत्नानां यत्कुट्टिमं तत्र गगनतलतारागणेनेवाकाशस्थितनक्षत्रसमूहेनेव कुसुमोपहारेण पुष्पप्रकरेण निरन्तरं सर्वकालं निचितं व्याप्तम् । स्तम्भेति । स्तम्भाः स्थूणास्तेषां संचयेन समुदायेन विराजमानं शोभमानम् । स्तम्भसंचयं विशेषयन्नाह - गन्धेति । गन्धसलिलैः सुगन्धिवारिभिः क्षालितेन धौतेन । कलधौतं सुवर्णं तन्मयेन । अत्र विकारार्थे मयट् । उत्कीर्णेति । उत्कीर्यकृताः शालभञ्जिकाः पुत्रिकास्तासां निवहः समूहो यस्मिन्स तथा । केनेव । संनिहिताः समीपस्था गृहदेवता गृहाधिष्ठात्र्यो यस्मिन्नेवंभूतेनेव । 'गोस्त्रियोः -' इति पुंवद्भावः । अतीति । अतिबहलोऽतिप्रचु योऽगुरुः कृष्णागुरुस्तस्य धूपस्य परिमलः सौगन्ध्यं यस्मिंस्तत्तथा । तुहिनेति । तुहिनं हिमं तस्य शिलातलं तत्सदृशं यच्छयनं शय्या तेन । सनाथीकृता सहिता वेदिका संस्कृतभूमिर्यस्मिंस्तत्तथा । इतः शयनं विशेषयन्नाह - अखिलेति । अखिलः समग्रो विगलितो जलनिवहो नीरसमूहो यस्मिन्नेवंभूतो धवलः शुभ्रो जलधरो मेघस्तस्य शकलं खण्डस्तमनुकारिणा तत्सादृश्यकरणशीलेन । कुसुमेति । कुसुमानां पुष्पाणामामोदः परिमलस्तेन वासितो भावितः प्रच्छदपट उत्तरच्छदो यस्मिंस्तत्तथा तेन । पट्टेति । पट्टस्य पट्टदुकूलस्योपधानमुच्छीर्षकं तेनाध्यासितमधिष्ठितं शिरोधाम शिरःस्थलं यस्मिंस्तत्तथा तेन । मणीति । मणिमया मणिप्रचुराः प्रतिपादुका अधःपीठानि तेषु प्रतिष्ठिताः स्थिताः पादा यस्य तत्तथा तेन । पार्श्वेति । पार्श्वस्थं समीपस्थं रत्नपादपीठं मणिपादासनं यस्मिंस्तत्तथा तेन । अन्वयस्तु प्रागेवोक्तः । तत्र चेति । तत्र शयने निषण्ण उपविष्टो राजा मुहूर्तमिव घटिकाद्वयमात्रमिवासांचक्रे सुष्वाप । इतो राजानं विशेषया क्षितीति । क्षितितले भूमितल उपविष्टया स्थितया तथोत्सङ्गे क्रोडे निहिता स्थापितासिलता खड्गलता ययैवंभूतया खड्गवाहिन्या नवं नूतनं यन्त्रलिनं कमलं तस्य दलानि पत्राणि तद्वत्कोमलेन मृदुना करसंपुटेन हस्तसंपुटेन शनैः शनैः संवाह्यमानौ संचार्त्यमानौ चरणी पादौ यस्य स तथा तेन । तत्काल इति । तत्काले शयनकाल उचितं योग्यं दर्शनमालोकनं येषामेतादृशैरवनिपतिभिर्नृपैरमात्यैः सचिवैर्मित्रैः सुहृद्भिस्तास्ताः प्रस्तावोचिताः कथा वार्ताः कुर्वन्विदधत् । ततः कथासमाप्त्यनन्तरं पूर्वोक्तां प्रतीहारीमित्यादिदेशाज्ञापयामास । कीदृशीम् । नातिदूरवर्तिनीं - 1 1 टिप्पo - 1 आर्द्रीकृता इत्युचितम् । 2 आमृष्यमाणौ । सुखकरं यथा स्यात्तथा आपीड्यमानौ इत्यर्थः । पाटा० - १ शिशिकर. २ कुट्टिमं गगनतलम्. ३ परिगलित. ४ अध्यवसित. ५ शिरोधाम्ना. ६ रत्नपीटेन; रत्नमयपीटेन. ७ तुहिनगिरि ८ सदृशशयनेन ९ शयनतलनिषण्णः. 36 कादम्बरी | - कथा Page #50 -------------------------------------------------------------------------- ________________ मात्यैर्मित्रैश्च सह तास्ताः कथाः कुर्वन्मुहूर्तमिवासांचक्रे । ततो नातिदूरवर्तिनीम् ‘अन्तःपुराद्वैशम्पायनमादायागच्छ इति समुपजाततद्वृत्तान्तप्रश्नकुतूहलो राजा प्रतिहारीमादिदेश । सा क्षितितलनिहितजानुकरतला 'यथाज्ञापयति देवः' इति शिरसि कृत्वाज्ञा यथादिष्टमकरोत् ।। अथ मुहूर्तादिव वैशम्पायनः प्रतीहार्यागृहीतपञ्जरः कनकवेत्रलतावलम्बिना किंचिदवनंतपूर्वकायेन सितकञ्चुकावछैनवपुषा जराधवलितमौलिना गद्गदस्वरेण मन्दमन्दसंचारिणा विहङ्गजातिप्रीत्या जरत्कलहंसेनेव कञ्चुकिनानुगम्यमानो राजान्तिकमाजगाम । क्षितितलनिहितकरतलस्तु कञ्चुकी राजानं व्यज्ञापयत् - 'देव, देव्यो विज्ञापयन्ति, देवादेशादेष वैशम्पायनः स्नातः कृताहारश्च देवपादमूलं प्रतीहार्यानीतः' इत्यभिधाय गते च तस्मिन्राजा वैशम्पायनमपृच्छत् - 'कच्चिदभिमतमास्वादितमभ्यन्तरे भवता किंचिदशनजातम्' इति । स प्रत्युवाच - 'देव, किंवा नास्वादितम् । आमत्तकोकिललोचनच्छविर्नीलपाटलः कषायमधुरः प्रकाम - *********** नातिव्यवधानेन वर्तते या सा ताम् । आज्ञाविषयमाह - अन्तःपुरेति । अन्तःपुरादवरोधात्तं वैशम्पायनं शुकमादायागच्छेति । समुपेति । समुपजातं समुत्पन्नं तस्य शुकस्य वृत्तान्तप्रश्ने प्रवृत्तिपृच्छायां कुतूहलमाश्चर्यं यस्य स तथेति राज्ञो विशेषणम् । सा प्रतीहारी क्षितितले निहितौ स्थापितौ जान नलकीलकौ करतले हस्ततले च यया सा । आसनविशेषेण विनयविशेषो व्यज्जितः । माह - यथेति । यथा येन प्रकारेणाज्ञापयत्याज्ञां धत्ते देवो भवानित्यनूय शिरसि मस्तक आज्ञां पूर्वोक्तां कृत्वा । स्वशिरसि करतलं निधायेति भावः । यथेति । येन प्रकारेण राज्ञादिष्टमाज्ञापितं तथाकरोच्चकार । अथेति । अन्तःपुरप्रवेशानन्तरम् । मुहूर्तादिव तावन्मात्रविलम्बादिव वैशम्पायनः शुको राजान्तिकं नृपसमीपमाजगामाययौ । शुक विशिनष्टि - प्रतीति । प्रतीहार्या पूर्वोक्तया गृहीतमात्तं पञ्जरं यस्य स तथा । कञ्चुकिनेति । कञ्चुकिना सौविदल्लकेनानुगम्यमानोऽनुव्रज्यमानः । केन । विहङ्गजातिप्रीत्या पक्षित्वजातिस्नेहेन जरत्कलहंसेनेव वृद्धराजहंसेनेव । अथ कञ्चुकिन विशेषयन्नाह - कनकेति । कनकस्य सुवर्णस्य या वेत्रलता वेतसयष्टिस्तामवलम्बत इत्येवंशीलः स तथा तेन । किंचिदिति । किंचिदीषदवनत आनम्रः पूर्वकायो यस्य स तथा तेन । सितेति । सितः श्वेतो यः कञ्चुकः कूर्यासस्तेनावच्छन्नमाच्छादितं वपुः शरीरं यस्य स तथा तेन । जरेति । जरा विससा तया धवलितः शुभ्रीकृतो मौलिर्यस्य स तथा तेन । गदिति । गद्गदः शब्दविशेषः स्वरो यस्य स तथा तेन । मन्देति । मन्दमन्दं शनैःशनैः संचरतीत्येवंशीलः स तथा तेन । क्षितीति । क्षितितले निहितं स्थापितं करतलं येनैवविधः कञ्चुकी पूर्वोक्तो राजानं नृपं व्यज्ञापयद्विज्ञापनामकरोत् । हे देव हे स्वामिन्, देव्यो राजपन्यो विज्ञापयन्ति विज्ञप्तिं मन्मुखेन कारयन्ति । किं तदाह - देवेति । देवादेशात्स्वामिनो नियोगादेष दृश्यमानो वैशम्पायनः शुकः पूर्वं स्नातः कृतस्नानः पश्चात्कृताहारो विहिताशनः । अयं च देवस्य राज्ञः पादमूलं समीपं प्रतीहार्यानयानीतः । इत्यभिधायेत्युक्त्वा तस्मिन्कञ्चुकिनि गते निवृत्ते सति राजा वैशम्पायनमपृच्छत् । कच्चिदिष्टप्रश्ने । भवता त्वयाभ्यन्तरेऽभिमतमिष्टं किंचिदशनजातं भक्ष्यसमूहमास्वादितं जग्धम् । स इति । स शुकः प्रत्युवाच प्रत्यब्रवीत् । देवेति । हे नाथ, किंवत्यत्र नञि काकुः । तेन सर्वमास्वादितमित्यर्थः । तदेवोत्कर्षतया निरूपयति - प्रकामेति । प्रकाममति - पाटा० - १ समुपयात. २ मुहूर्तादेव. ३ आनत. ४ अवच्छिन्न. ५ चारिणा. ६ विहित; निहितकरस्तु. ७ व्यजिज्ञापयत्. ८ पादमूले. ९ अपगते तस्मिन्. १० क्वचित्. ११ स तु. शुककथारम्भः । पूर्वभागः । Page #51 -------------------------------------------------------------------------- ________________ मापीतो जम्बूफलरसः, हरिनखेरभिन्नैमत्तमातङ्गकुम्भमुक्तरक्ताद्रमुक्ताफलत्वींषि खण्डितानि दौडिमबीजानि, नलिनी - दलहरिन्ति द्राक्षाफलस्वादूनि च चूर्णितानि स्वेच्छया प्राचीनामलकीफलानि । किं वा प्रलपितेन बहुना । सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायते ' इति । एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत् - ‘आस्तां तावत्सर्वम् । अपनयतु नः कुतूहलम् । आवेदयतु भवानादितः प्रभृति कार्त्स्न्येनात्मनो जन्म कस्मिन्देशे, भवान्कथं जातः, केन वा नाम कृतम्, की ते माता, कँस्ते पिता, कथं वेदानामागमः, कथं शास्त्राणां परिचयः, कुतः कला औसादिताः, किहेतुकं जन्मान्तरानुस्मरणम्, उत वरप्रदानम्, अथवा विहँङ्गवेषधारी कश्चिच्छन्नं निवससि, क्व वा पूर्वमुषितम्, कियद्वा वयः, कैथं पजैरबन्धनम्, कथं चाण्डालहस्तगमनम्, इह वा कथमागमनम्' इति वैशम्पायनस्तु स्वयमुपजातकुतूह - **: ** शयेनातृप्तिमर्यादं पीतः पानविषयीकृतो जम्बूः सुरभिपत्रा तस्याः फलानि सस्यानि तेषां रसोऽन्तर्भूतद्रवः । कीद्दशः । नीलः सन्पाटलः श्वेतरक्तः । अतएव आमत्तेति । आमत्तो मदोन्मत्तो यः कोकिलः पिकस्तस्य लोचनच्छविरिव छविर्यस्य स तथा । पुनः कीद्दक् । कषायोऽम्लो मधुरो मिष्टश्चेति कर्मधारयः । अथ च खण्डितानि शकलीकृतानि । मयेति शेषः । कानि । दाडिमबीजानि । अथैतानि विशेषयन्नाह - हरीति । हरिः सिंहस्तस्य नखरा नखास्तैर्भिन्ना ये मत्तानां मातङ्गानां कुम्भा मांसपिण्डाः तेभ्यो मुक्तान्यपगतानि यानि रक्तानि रुधिराणि तैरार्द्राणि स्विन्नानि यानि मुक्ताफलानि तद्वत्त्विट् कान्तिर्येषु तानि । नलिनीति । नलिनी कमलिनी तस्या द पत्राणि तद्वद्धरिन्ति नीलानि । द्राक्षेति । द्राक्षा गोस्तनी तस्याः फलानि तद्वत्स्वादूनि मिष्टान्येवंविधानि प्राचीनामलकी क्षीरधात्री तस्याः फलानि स्वेच्छया स्वाधीनतया चूर्णितानि मर्दितानि । किंवा नास्वादितानीति पूर्वानुषङ्गः । प्रीत्यतिशयस्यावक्तव्यत्वमाह - किं वेति । बहुना प्रलपितेन कथितेन किं वा । न किमपीत्यर्थः । सर्वमेवेति । जम्बूरसादिकं देविभी राजपत्नीभिः स्वयं न परतः करतलोपनीयमानं हस्ततलेनोपनीयमानं मदर्थमानीयमानममृतायते अमृतवदाचरति । 'उपमानादाचारे' इति क्यच्प्रत्ययेनात्मनेपदम् । इति वाक्यसमाप्तौ । एवं पूर्वोक्तप्रकारेण वादिनो ब्रुवतः कीरस्य वचनं वाक्यमाक्षिप्य तिरस्कृत्यान्यदेव जिज्ञासितुं प्रष्टुं नरपती राजाब्रवीत् । पूर्ववक्तव्यतायामनादरमाह - आस्तां तावदिति । सर्वं पूर्वोक्तं तावदादावास्तां तिष्ठतु । नोऽस्माकं कुतूहलमाश्चर्य पक्षिणा सर्वशास्त्रविषयकं ज्ञानं स्यादित्येवं रूपमपनयतु दूरीकरोतु । तदेव दर्शयति - आवेदयत्विति । कार्त्स्न्येन समग्रत्वेनादितः प्रभृत्युत्पत्तिसमयादारभ्यावेदयतुं कथयतु . भवान् । तदेव दर्शयति - आत्मन इत्यादि । कस्मिन्देशे कुत्र जनपद आत्मनः स्वकीयस्य जन्मोत्पत्तिः । कथं केन प्रकारेण भव जात उत्पन्नः । केन वा वैशम्पायन इति नामाभिधानं कृतं विहितम् । ते तव का माता जननी । ते कः पिता जनकः । कथं केन प्रकारेण वेदानामाम्नायानामागम उपलब्धिः । कथं शास्त्राणां न्यायमीमांसादीनां परिचयोऽवबोधः । कुतः कस्मात्कला विज्ञानैकदेशा द्वासप्ततिभेदभिन्ना आसादिता अभ्यस्ताः । किंहेतुकं किंनिमित्तकं जन्मान्तरस्य पूर्वजन्मनोऽनुस्मरणमनुभूतार्थज्ञानम् । उताहोस्विद्वरप्रदानम् । यद्वा । केनचिद्वरः प्रदत्तो येन जन्मान्तरं जानासीति भावः । अथवेति पक्षान्तरे । सिद्ध एवा वा कश्चित् कश्चन त्वं विहङ्ग पक्षिणां वेषधारी छन्नं गूढं निवससि निवासं करोषि । क्व वा कस्मिन्स्थलेऽत्रागमनात्पूर्वमुषितं स्थितम् । ते कियद्वार्षिकं वयः कौमारादि । कथं केन प्रकारेण पञ्जरः पक्षिणां गृहं - टिप्प० - 1 क्यच्प्रत्यये सति नात्मनेपदम् । तेन 'कर्तुः क्यङ् सलोपश्च' इति क्यङ्प्रत्यये तात्पर्यबोध्यम् । 2 स्वस्येत्यर्थः । पाठा० - १ करखरनखर. २ निर्भिन्न. ३ दाडिमी. ४ वलितानि; समास्वादितानि. ५ सर्वमेवेदम्. ६ का माताः ७ कः पिता ८ समासादिताः ९ किं जन्मान्तर. १० विहग. ११ छन्नो. १२ कथं वा १३ बन्धः. 38 कादम्बरी | कथा Page #52 -------------------------------------------------------------------------- ________________ लेन सबहुमानमवनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत् - 'देव, महतीयं कथा । यदि कौतुकमाकर्ण्य ताम् - अस्ति पूर्वापरजलनिधिवेलावनलग्ना मध्यदेशालंकारभूता मेखलेव भुवः वनकरिकुलमदजलसेकसंवर्धितैरतिविकचधवलकुसुमनिकरमत्युच्चतया तौरकागणमिव शिखरप्रदेशसंलग्नमुद्वहद्भिः पादपैरुपशोभिता, मदकलकुररकुलदश्यमानमरिचपल्लवा, करिकलभकरमृदिततमालकिसलयामोदिनी, मधुमदोपरक्तकेरलीकपोलच्छेविना संचरद्वनदेवताचरणालक्तकरसरञ्जितेनेव पल्लवचैयेन संच्छादिता, शुककुलदलितदाडिमीफलद्रवार्द्रीकृततलैरतिचपलकँपिकम्पितर्कक्कोलच्युतपल्लवफलशबलैरनवरतनिपतितकुसुमरेणुपांसुलैः पथिकजनरचितलवङ्गपल्ल ***** ***: तत्र बन्धनमवस्थानम् । कथं वा चाण्डालहस्तगमनम् । इहास्मिन्प्रदेशे कथं वागमनमिति । तदनन्तरं वैशम्पायनः । तु पुनरर्थे । उपजातं समुत्पन्नं कुतूहलं यस्यैवंभूतेन अवनिपतिना पृथ्वीपतिना सबहुमानं सह बहुमानेनादरेण वर्तमानं यथा स्यात्तथेति क्रियाविशेषणम् । स्वयं नान्तरा पृष्ट आक्षिप्तः सन्प्रश्नानन्तरं मुहूर्तमिव घटिकाद्वयमिव ध्यात्वा ध्यानं कृत्वा सादरं आदरेण सह यथा स्यात्तथाब्रवीदुवाच । तत्किम् । हे देव, यत्पृष्टं तद्विषयिणी महती कथेयम् । यदि च किं तदिति तच्छ्रवणे कौतुकं तदाकर्ण्यतां श्रूयताम् - - - I अस्तीति । नामेति प्रसिद्धम् । विन्ध्याटव्यस्तीत्यन्वयः । इतोऽटवीं विशेषयन्नाह - पूर्वेति । पूर्वश्चापरश्च पूर्वापरौ यौ जलनिधी समुद्रौ तयोर्यद्वेलावनं तटकाननं तावत्पर्यन्तं लग्ना संबद्धा । मध्येति । सह्यहिमालययोर्मध्यं मध्यदेशस्तस्यालंकारभूता । भूषणरूपेत्यर्थः । अत एव मध्यभूषणरूपत्वाद्भुवः पृथिव्या मेखलेव काञ्चीव । पादपैर्वृक्षैरुपशोभिता द्योतमाना । अथ पादपान्विशेषयन्नाह - वनेति । बने कानने करिणो गजास्तेषां कुलानि यूथानि तेषां मदजलस्य दानवारिणः सेकः सिञ्चनं तेन सम्यग्वर्धिता वृद्धिं प्राप्तास्तैः । अतीति । अतिविकचान्यत्यन्तं विकसितानि यानि धवलानि शुभ्राणि कुसुमानि पुष्पाणि तेषां निकरः समूहस्तम् । कीदृशम् । अत्यन्तमुच्चतया शिखरप्रदेशः प्रान्तदेशस्तत्र संलग्नमत एवोच्चत्वाच्छुभ्रत्वाच्च तारकाणां गणमिव नक्षत्राणां समूहमिवोद्वहद्भिर्धारयद्भिः । पुनरवीं विशिनष्टि - मदेति । मदेन कला मनोज्ञा ये कुररा मत्स्यनाशनास्तेषां कुलानि तैर्दश्यमाना आस्वाद्यमाना मरिचवृक्षस्य पल्लवा यस्यां सा । करीति । करिणां गजानां कलभास्त्रिंशदब्दकास्तेषां कराः शुण्डादण्डास्तैर्भृदितानि मर्दितानि यानि तमालवृक्षस्य किसलयानि तेषामामोदः परिमलो विद्यते यस्यां सा । मध्विति । मधु कापिशायनं तस्य यो मद आवेशस्तेनोपरक्ता लोहितैवंभूता या केरली केरलदेशोद्भवा स्त्री तस्याः कपोलौ गल्लापरप्रदेशौ तयोश्छविरिव छविर्यस्य स तेन । केरलदेशोद्भवा स्त्री स्वभावतो रक्तवर्णा कोमलाङ्गी, मधुमदात्तु विशेषतो रक्तेति भावः । केनेव । संचरन्त्य इतस्ततो गच्छन्त्यो या वनदेवता अरण्याधिष्ठात्र्यस्तासां चरणानां योऽलक्तकरसो यावकद्रवस्तेन रञ्जितेनेव रक्तीकृतेनेव पल्लवानां किसलयानां चयेन समूहेन संच्छादिताच्छादिता । विराजितेति । लता वल्लयस्तासां मण्डपैर्जनाश्रयैर्विराजितोपशोभमाना । अथ मण्डपान्विशेषयन्नाह - शुकेति । शुककुलैर्दलितानि विदारितानि यानि दाडिमीफलानि तेषां द्रवो रसस्तेनार्द्रीकृतमार्द्रतामुपनीतं तलं मध्यभागो येषां ते तथा तैः । अतीति । अतिचपला अत्यन्तं चञ्चला ये कपयो गोलाङ्गूलास्तैः कम्पिता धूनिता ये कक्कोलाः कोशफलवृक्षास्तेभ्यश्च्युतैः पतितैः पल्लवफलैः शबलाः कर्बुरास्तैः । अनवरतेति । अनवरतं निरन्तरं निपतितानि यानि कुसुमानि पुष्पाणि तेषां रेणवः परागधूलयस्तैः पांसुलाः सरजस्कास्तैः । पथिकेति । टिप्प० 1 सेचनमित्यर्थः । पाठा० - १ कौतूहलम् २ वेलावलग्ना. ३ तारांगणम्. ४ देशलग्न. ५ कोमलच्छविना. ६ प्रचयेन. ७ कपिकुल ८ कङ्कोल; कम्पिल्ल. ९ धूलीलतावनद्धकुसुम. विन्ध्याटवी पूर्वभागः । 39 Page #53 -------------------------------------------------------------------------- ________________ वसस्तरैरतिकठोरैनालिकेरकेतैकीकरीरॅबकुलपरिगतप्रान्तैस्ताम्बूलीलतावनद्धपूगखण्डमण्डितैर्वनलक्ष्मीवास भवनैरिव विरौजिता लतामण्डपैः, उन्मदमातङ्गकपोलँस्थलगलितसलिलसिक्तेनेवानवरतमेलालतावनेन मदगन्धिनान्धकारिता, नखमुखलग्नेभकुम्भमुक्ताफललुब्धैः शबरसेनापतिभिरभिहन्यमानकेसरिशता, प्रेताधिपनगरीव सदासंनिहितमृत्युभीषणा महिषाधिष्ठिता च, समरोद्यतपताकिनीव बौणासनारोपितशिलीमुखा विमुक्तेसिंहनादा च, कात्यायनीव प्रचलितखड्गभीषणा रक्तचन्दनालंकृता च, कर्णीसुतकथेव संनिहितविपुलाचला शशोपगता च, *** **** पथिकजनैः पान्थलोकै रचितो निर्मितो लवङ्गपल्लवानां लवङ्गवृक्षविशेषकिसलयानां संस्तरः प्रस्तरो येषु तैः । अतीति । अतिकटोरा अत्यन्तकठिना नालिकेरा लाङ्गलीवृक्षाः केतक्यः क्रकचच्छदाः करीराः केसरा बकुलाश्च तैः परिगतो व्याप्तः प्रान्तो ऽन्त्यप्रदेशो येषां ते तथा तैः । ताम्बूलीति । ताम्बूली नागवल्ली सा चासौ लता चेति कर्मधारयः । तयावनद्धं बद्धं यत्पूगखण्डं क्रमुकवनं तेन मण्डितैः शोभितैः । कैरिव । वनेति । वनलक्ष्मीररण्य श्रीस्तस्या वासस्य वसतेर्भवनानि गृहाणि तैरिव । उन्मदेति । उन्मदा मत्ता ये मातङ्गा गजास्तेषां कपोलस्थलानि करटप्रदेशास्तेभ्यो गलितं च्युतं यत् सलिलं मदजलं तेन सिक्तेनेव सिञ्चितेनेव । अत एव मदगन्धिना मदस्य गन्ध इव गन्धो यस्मिन्नेतादृशेन । अनवरतं निरन्तरमेलानां चन्द्रवालानां लता वल्लयस्तासां वनं काननं तेनान्धकारिता श्यामीकृता । एलारजःसंबन्धाच्छ्यामतां प्रापितेत्यर्थः । नखेति । नखानां मुखान्यग्राणि तेषु लग्नान्यासक्तानि यानीभकुम्भमुक्ताफलानि गजमांसपि - ण्डरसोद्भवानि तेषु लुब्धैर्लोलुपैः शबराणां भिल्लानां सेनापतिभिः सैन्यनायकैरभिहन्यमानं व्यापाद्यमानं केसरिणां नखरायुधानां शतं यस्यां सा तथा । प्रेतेति । प्रेताधिपो यमस्तस्य नगरीव संयमिनीव सदा निरन्तरं सर्वदा संनिहितो निकटवर्ती मृत्युर्यमस्तेन भीषणा भयकारिणी । पक्षे सदा निकटस्थो यो मृत्युरजगरस्तेन भीषणा भयावहा । यद्वा । कारणे कार्योपचारान्मृत्युव्याघ्रादयस्तैर्भीषणेत्यर्थः । महिषेति । महिषैर्गवलैरधिष्ठिता व्याप्ता च । अथ यमपुरीपक्षे यमस्य वाहनं महिषस्तेनाधिष्ठिता सहिता । समरेति । समरे सङ्ग्राम उद्यता या पताकिनी सेना तद्वदिव । उभयोः साम्यमाह - बाणेति । बाणाख्ये वृक्षविशेषे समारोपिताः स्थापिताः शिलीमुखा भ्रमरा यया सा तथा । पक्षे बाणेषु शरेषु सम्यक्प्रकारेणारोपिताः शिलीमुखा लोहखण्डा यस्यामिति विग्रहः । विमुक्तेति । विमुक्तस्त्यक्तः । अर्थात्केसरिभिः । सिंहनादः केसरिध्वनिर्यस्यां सा तथा । पक्षे सुभटैर्विहितः सिंहनाद इव नादो यस्यामिति विग्रहः । कीदृशी । कात्यायनी सिंहयाना तद्वदिव । उभयोः साम्यमाह - प्रचलितेति । सेनाप्रकर्षेण प्रचलितो यः खड्गो गण्डकस्तेन भीषणा भयावहा । रक्तचन्दनं रक्ताङ्गं वृक्षविशेषस्तेनालंकृता च भूषिता च । पक्षे प्रचलितो यः खड्गः कौक्षेयकस्तेन भीषणा भयजनिका, रक्तमेव चन्दनं तेनालंकृता च । चर्चितेत्यर्थः । कर्णीसुतः कश्चित्क्षत्रियविशेषः तस्य कथा वृत्तान्तस्तद्वदिव । उभयोस्तुल्यतामाह - संनिहितेति । संनिहि समीपवर्तिनौ विपुलाचलौ विपुलाचलसंज्ञकौ सखायौ यस्यां सा तथा । शशस्तस्य मन्त्रिमुख्यस्तेनोपगता सहिता च । 40 - टिप्पo - 1 हिंसजन्तुद्वारा मरणं तेन भीषणेत्यर्थः । 2 बाणासनारोपितशिलीमुखा पाठः । बाणासु नीलझिण्टीषु असनेषु पीतशालेषु (वृक्षेषु) आरोपिताः कुसुमसौरभात् शिलीमुखा भ्रमरा यया, इति अटवीपक्षेऽर्थः । पक्षे तु बाणासनेषु धनुःषु आरोपिताः शिलीमुखा बाणा यया इत्यर्थः । टीकागृहीतपाठे तु हठादाकर्ष एवार्थस्येति विमृशन्तु । 1 पाठा० - १ सस्तरैः. २ नारिकेल; करिकेसर. ३ केतकीपरिगत. ४ केसर. ५ भुवनैः ६ विराजितमण्डपैः ७ सवण; प्रसवण; सलिलप्रसवण. ८ मदसलिल. ९ निरन्तरमेला. १० सेनेव. ११ समारोपित; बाणासनारोपित. १२ विविक्त. कादम्बरी । कथामुखे Page #54 -------------------------------------------------------------------------- ________________ कल्पान्तप्रदोषसंध्येव'प्रनृत्तनीलकण्ठा पल्लवारुणा च, अमृतमथनवेलेव श्रीद्रुमोपशोभिता वारुणीपरिगता च, प्रावृडिव घनश्यामलानेकशतहूदालंकृता च, चन्द्रमूर्तिरिव सततमृक्षसार्थानुगता हरिणाध्यासिता च, राज्यस्थितिरिव चमरमृगबालव्यजनोपशोभिता समदगजघटापरिपालिता च, गिरितनयेव स्थाणुसंगता मृगपतिसेविता च, जानकीव प्रसूतकुशलवा निशाचरपरिगृहीता च, कामिनीव चन्दनमृगमदपरिमलवाहिनी रुचिरागुरुतिलकभूषिता च, - *********** अत एव ‘कर्णीसुतः करटकः स्तेयशास्त्रप्रवर्तकः ख्यातौ तस्य सखायौ द्वौ विपुलाचलसंज्ञको । शशो मन्त्रिवरस्तस्य' इति बृहत्कथायां कथा निबद्धा । पक्षे संनिहिताः समीपवर्तिनो विपुलाः पृथुला अचलाः पर्वता यस्यां सा तथा । शशो मृदुलोमको लोध्रवृक्षो वा तेनोपगता सहिता च । 'शशो लोधे नृभेदे च पशौ' इत्यनेकार्थः । कल्पान्तेति । कल्पान्तस्य युगान्तस्य प्रदोषो रजनीमुखं तस्य या संध्या सायकालस्तद्वदिव । उभयोः सादृश्यमाह-प्रनृत्ता नीलकण्ठा मयूरा यस्यां सा तथा । सस्तैः पल्लवैः किसलयैररुणा चेति । पक्षे प्रनृत्तो नीलकण्ठो महादेवो यस्याम् । पल्लववदरुणा रक्ता चेत्यर्थः । अमृतेति । अमृताय सुधायै यन्मथनं विलोडनम् । क्षीरसमुद्रस्येति शेषः । तत्र वेलाम्भसो वृद्धिः समयो वा । तद्वदिव । उभयोः सादृश्यमाह - श्रीति । श्रीद्रुमाः श्रीवृक्षास्तैरुपशोभिता वरुणानां वृक्षविशेषाणां समूहो वारुणं तेन परि सामस्त्येन गता प्राप्ता चेत्यर्थः । पक्षे श्रीद्रुमौ लक्ष्मीकल्पद्रुमौ ताभ्यामुपशोभिता वरुणस्येदं वारुणं मयं तेन परिगता सहिता च । समुद्रप्रभवत्वात्तस्येति भावः । प्रावृड्वर्षास्तद्वदिव । उभयोः सादृश्यमाह - घनेति । घनं निबिडं श्यामला । अत्यन्तकृष्णेत्यर्थः । अनेकशतसंख्याका ये हूदा ग्रहाः (?) तैरलंकृता च । पक्षे घनैर्मेधैः श्यामला अनेका भिन्नाभिन्नस्वरूपाः शतहूदा जलबालिकास्ताभिरलंकृता चेति विग्रहः । चन्द्रस्य कुमुदबान्धवस्य मूर्तिरिव शरीरमिव । उभयोः साम्यमाह - सततेति । ऋक्षा भल्लूकास्तेषां सार्थः समुदायस्तेनानुगता, तथा हरिणै गैरध्यासिताश्रिता च । पक्षे सततं निरन्तरमृक्षाणि नक्षत्राणि तेषां सार्थः समुदायस्तेनानुगता सहानुयाता हरिणेन मृगेणाध्यासिता च । राज्यस्थिती राज्यमर्यादा सेव । उभयोः साम्यमाह - चमरेति । चमराश्चमर्यः, मृगा हरिणाः बालव्यजनानि चामराणि तैरुपशोभिता, सह मदेन वर्तमानाः समदा ये गजा हस्तिनस्तेषां घटाः समुदायास्ते परिपालिता यया सा । अथ च तादृशी राज्यस्थितिरित्युभयोः साम्यम् । गिरिति । गिरेहिमाचलस्य तनया पार्वती तद्वदिव । उभयोः सादृश्यमाह - स्थाण्विति । स्थाणवः कीलकाः संगताः प्राप्ता यया सा, मृगपतयः सिंहास्ते सेविता आश्रिता यया सेति विग्रहः । पक्षे स्थाणुर्महादेवस्तेन संगता मिलिता, तथा मूर्तिमान्सिंहो मृगपतिस्तेन सेविता । सिंहवाहनत्वादिति भावः । जानकीति । जानकी सीता तद्वदिव । उभयोः साम्यमाह - प्रसूतेति । प्रसूताः कुशानां दर्भाणां लवा यया सा निशाचरैरुलूकादिभिः परिगृहीता स्वीकृता । पक्षे प्रसूतौ जनितौ कुशलवाभिधानौ सुतौ यया सा, निशाचरेण रावणेन परिगृहीता । स्वस्थानं नीतेत्यर्थः । कामिनीति । कामिनी श्रृङ्गारनायिका सेव । उभयोः सादृश्यमाह - चन्दनमिति । चन्दनं वृक्षः, मृगमदो गन्धधूली तयोः संसर्गायः परिमलस्तं वहतीति सा तथा रुचिरो योऽगुरुवृक्षस्तथा तिलकवृक्षश्च ताभ्यां भूषिता शोभिता चेति । पक्षे चन्दनं च मृगमदश्च तयोरनुलेपनवशात्परिमलस्तं वहतीत्येवंशीला । रुचिरस्य शोभनस्यागुरोः काकतुण्डस्य तिलकेन पुण्ड्रेण भूषिता शोभिता चेति विग्रहः । सेति । प्रियोत्कण्ठया व्रजति या नारी सोत्कण्ठिता तद्वदिव । उभयोः सादृश्यमाह - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 वारुणीपरिगतेत्येव पाठः । विन्ध्याटवी श्रीद्धमैर्बिल्ववृक्षरुपशोभिता, वारुणी पश्चिमां दिशं परिगता भारतपश्चिमपर्यन्तगामित्वात् । अमृतमथनवेला तु लक्ष्मीकल्पद्रुमाभ्यां उपशोभिता, वारुण्या समुद्रमथनोत्थया मदिरया युक्ता इत्यर्थः । 2 अगाधजलाशयाः । 'तत्रागाधलजो हृदः' इत्यमरः । 3 विद्युत इत्यर्थः । 4 चमरमृगाणां वालाश्चामराणि व्यजनानि तालवृन्तानि तैरुपशोभिता इत्यर्थः । पाठा० - १ प्रनृत्यत्; प्रवृत्त. २ वारुण. ३ पतिगृहीता. ४ कृष्णागरु. विन्ध्याटवी ( पूर्वभागः । Page #55 -------------------------------------------------------------------------- ________________ सोत्कण्ठेव विविधपल्लवानिलवीजिता समदना च, बालग्रीवेव व्याघ्रनखपङ्क्तिमण्डिता गण्डकाभरणा च, पानभूमिरिव प्रकटितमधुकोशशता प्रकीर्णविविधकुसुमा च, क्वचित्प्रलयवेलेव महावराहदंष्ट्रासमुत्खातधरणिमण्डला, क्वचिद्दशमुखनगरीव चटुलवानरवृन्दभज्यमानतुंङ्गशालाकुला, क्वचिदचिरनिर्वृत्तविवाहभूमिरिव हरितकुशसमित्कुसुमशमीपलाशशोभिता, क्वचिदुट्टत्तमृगपतिनादभीतेव कण्टकिता, क्वचिन्मत्तेव कोकिलकुलपलापिनी, क्वचिन्मत्तेव वायुवेगकृततालशब्दा, क्वचिद्विधवेवोन्मुक्ततालपत्रा, क्वचित्समरभूमिरिव शरशतनिचिता, क्वचि - __ *********** विविधेति । विविधा अनेकप्रकारा ये पल्लवास्तेषामनिलो वायुस्तेन वीजिता तथा मदनेन मदनद्रुमेण सहवर्तमाना । संयुक्तेत्यर्थः । पक्षे सह मदनेन कन्दर्पण वर्तमाना समदना सा । उत्कण्ठिता स्त्र्यपि तथा । बालेति । बालाः स्तनधयास्तेषां ग्रीवा कन्धरा तद्वदिव । उभयोरेकधर्मतामाह - व्याघेति । व्याघ्राः शार्दूला नखाः सुरभिनखप्राणिनस्तेषां पङ्क्तिः श्रेणी तया मण्डिता शोभिता तथा गण्डका वार्धाणसांस्त एवाभरणं यस्यां सेति । पक्षे व्याघ्रनखपङ्क्त्या मण्डिता । अतएव 'शार्दूलदिव्यनखभूषणभूषिताय नन्दात्मजाय' इति । बालरक्षार्थं व्याघ्रनखा बध्यन्त इति प्रसिद्धिः । गण्डस्थलपर्यन्तवर्ति यत्तादृशं ग्रीवास्थं भूषणं देशविशेषे गण्डकमिति प्रसिद्धं तदाभरणं यस्यां सा । पानेति । मद्यपानार्थं या भूमिः सा पानभूमिस्तद्वदिव । उभयत्र साम्यमाह - प्रकटितेति । प्रकटितमाविष्कृतं यन्मधु माक्षिक कोशा एव कोशकाः पट्टसूत्रस्थानानि तेषां शतं यस्यां सा । पक्षे प्रकटितं मधु मद्य तस्य कोशकानि पानपात्राणि तेषां शतं ययेति विग्रहः । प्रकीर्णानि पर्यस्तानि विविधानि विचित्राणि कुसुमानि यस्यामित्युभयत्र समानम् । क्वचिदिति । क्वचित्प्रदेशे यदा सर्वं जलमयं तदा प्रलयस्तस्य वेलावसरस्तद्वदिव । 'वेला वारादवसरः' इति कोशः । उभयोः सादृश्यमाह - महेति । महावराहाः क्रोडास्तेषां दंष्ट्रा दाढास्ताभिः समुत्खातं सम्यक्प्रकारेण खनितं धरणिमण्डलं पृथ्वीप्रदेशो यस्याः सा तथा । पक्षे महावराहस्य परमेश्वरतृतीयावताररूपस्य दंष्ट्रया समुत्खातमूर्ध्वमानीतं धरणिमण्डलं यस्यामिति विग्रहः । क्वचिदिति । क्वचितप्रदेशे दशमुखस्य रावणस्य नगरी लङ्का तद्वदिव । उभयत्र साम्यमाह - चटुलेति । चटुलाश्चञ्चला ये वानराः कपयस्तेषां वृन्दं समूहस्तेन भज्यमानास्त्रोट्यमानास्तुङ्गा उच्चाः शालाः शालवृक्षास्तैराकुला व्याकुला । पक्षे कपिवृन्देन भज्यमानस्तुङ्गा याः शाला गृहैकदेशास्ताभिराकुला व्यग्रेति विग्रहः । क्वचिदिति । क्वचिप्रदेशेऽचिरं तत्कालं निवृत्तो निष्पन्नो विवाहः पाणिपीडनं यस्यामेवंविधा भूमिस्तद्वदिव । उभयोस्तुल्यतामाह - हरितेति । यथायोग्यमन्वयः । हरिता नीला ये कुशा दर्भाः, समिध एधासि, कुसुमानि पुष्पाणि, शमी शिवा, पलाशा ब्रह्मपादपास्तैः शोभिता विराजमाना । उद्वाहभूमिरप्येतादृशी स्यादित्युभयोः साम्यम् । क्वचिदिति । उद्धृत्तो निर्मर्यादो यो मृगपतिः सिंहस्तस्य नादो गर्जितं तेन भीतेव । कण्टको रोमाञ्चः संजातोऽस्या इति कण्टकिता । द्वितीयपक्षे कण्टकिता कण्टकयुक्ता । क्वचिदिति । क्वेति पूर्ववत् । मधुना मत्तेव कोकिलानां परभृतानां कुलानि तेषां कलशब्दरूपः प्रलापो यस्याम् । अथ च ‘प्रलापोऽनर्थक वचः । क्वचिदिति । उन्मत्तेवोन्मादवातयुक्तेव वायुवेगेन पवनाधिक्येन कृतो विहितस्तालवृक्षैः शब्दो यस्यां सा । उन्मादवातवानपि तालं शब्द करोतीति लोकप्रसिद्धम् । क्वचिदिति । विधवेव मृतभर्तृकेव । उभयोः शब्दसाम्यमाह - उन्मुक्तेति । उन्मुक्तानि त्यक्तानि तालपत्राणि तालदलानि यस्यां सा । पक्षे उन्मुक्तानि तालपत्राणि ताडङ्का ययेति विग्रहः । क्वचिदिति । समरः - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 व्याघ्राणां नखपडिक्तभिः (गमनकालोत्पन्ननखचिह्नश्रेणिभिः) मण्डितेति स्पष्टोऽर्थः । 2 'गण्डा, 'ताबीज' इति भाषाप्रसिद्धम् । 3 प्रकटितम् आविष्कृतं मधु-कोशानां माक्षिकाधाराणाम् ('शहदके छत्ते') शतं यस्याम् (अटवी) । आविष्कृतं मधुकोशानां मद्यपात्राणां शतं यस्याम् (पानभूमिः) । इति स्पष्टोऽर्थः । 4 करतलध्वनिः, भुजास्फालनशब्दो वा । पाठा० - १ सोत्कण्ठवनिते. २ पदपङ्क्ति . ३ आपान. ४ कोकशता. ५ शृङ्ग; उत्तुङ्ग. ६ उन्मत्त. ७ कुलकल. पणI कादम्बरी । ON कथामरवे Page #56 -------------------------------------------------------------------------- ________________ दमरपतितनुरिव नेत्रसहससंकुला, क्वचिन्नारायणमूर्तिरिव तमालनीला, क्वचित्पार्थरथपताकेव कप्याक्रान्ता, क्वचिंदवनिपतिद्वारभूमिरिव वेत्रलताशतदुःप्रवेशा, क्वचिद्विराटनगरीव कीचैकशताकुला, क्वचिदम्बरश्रीरिव व्याधानुगम्यमानतरलतारकमृगा, क्वचिद्गृहीतव्रतेव दर्भचीरजटावल्कलधारिणी, अपरिमितबहलपत्रसंचयापि सप्तपर्णोपशोभिता, क्रूरसत्त्वापि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम । *********** सङ्ग्रामस्तस्य भूमिरिव । उभयोस्तुल्यतामाह-शरेति । शरा मुञ्जदण्डास्तेषां शतं तेन निचिता व्याप्ता । पक्षे शरा बाणास्तेषां शतैर्निचितेति विग्रहः । क्वचिदिति । अमराणां देवानां पतिः प्रभुरिन्द्रस्तस्य तनुरिख शरीरमिव । उभयोः साम्यमाह - नेत्रेति । नेत्राणां वृक्षविशेषाणा सहसं तेन संकुला । यद्वा । नेत्राणां जटानां सहसं ते संकुला । 'जटांशुकयोर्नेत्रम्' इत्यमरः । पक्षे नेत्राणां चक्षुषां सहसं तेन संकुलेति विग्रहः । क्वचिदिति । नारायणस्य कृष्णस्य मूर्तिरिव शरीरमिव । उभयोः साम्यमाह - तमालेति । तमालैर्वृक्षविशेषैर्नीला । पक्षे तमालवन्नीला । क्वचिदिति । पार्थोऽर्जुनस्तस्य रथः स्यन्दनस्तस्य पताका वैजयन्ती सेव । उभयोस्तुल्यतामाह - कपीति । कपिभिर्गोलाङ्ग्लैराक्रान्ता । पक्षे कपिचिह्नोपयुक्तेत्यर्थः । क्वचिदिति । अवनिपति राजा तस्य द्वारभूमिरिव । उभयोः सादृश्यमाह-वेत्रेति । वेत्राणि वृक्षविशेषाः लता वल्लयश्च तासां शतं तेन दुःप्रवेशा दुःखेन प्रवेष्टुं शक्या । पक्षे वेत्रलता वेत्रयष्टयः सरलत्वाल्लतोपमानम् । ताभिर्दुःप्रवेशेत्यर्थः । क्वचिदिति । क्वचितप्रदेशे विराटराजनगरी तद्वदिव । साम्यमाह - कीचकेति । कीचकाः सच्छिद्रवेणवस्तैराकुला । पक्षे कीचकानां स्वप्रियाबान्धवानां शतं तेनाकुला व्याग्रा । क्वचिदिति । अम्बरमाकाशं तस्य श्रीरिख । उभयसादृश्यमाह - व्याधेति । व्याधैरनुगम्यमानास्तरला भयविह्वलास्तारकमृगा विचित्रमृगा यस्यां सा । पक्षे व्याधेनानुगम्यमानस्तरलतारकामृगश्चन्द्रनक्षत्रं यस्मामिति विग्रहः । महादेवेन व्याधरूपधारिणा हतं (?) तस्यार्धं मृगनक्षत्रमिति प्रसिद्धम् । क्वचिदिति । गृहीतेति । गृहीतमात्तं व्रतं नियमो यया सैवंविधेव । उभयतुल्यतामाह - दर्भेति । दर्भाः कुशाः, चीराणि तृणविशेषाणि, जटा शिफा, वल्कलानि चोचानि, एतानि धर्तु शीलमस्याः सा तथा । पक्षे दर्भचीराणि पूर्वोक्तानि, जटाः संहताः कचाः । 'शिफाजटे संहतो कचौ इत्यनेकार्थः । वल्कलानि प्रतीतानि तेषां धारणं विद्यते यस्या इति विग्रहः । अपरीति । अपरिमितान्यगणितानि बहलानि निबिडानि पत्राणि पर्णानि तेषां संचयः समूहो यस्यामेवभूतापि सप्तपर्णोपशोभितेति विरोधः । तत्परिहारपक्षे सप्तपर्णोऽयुक्छदस्तेन शोभायमानेत्यर्थः । क्रूरेति । क्रूरं सत्त्वं मनो यस्याः सैवंविधापि मुनिजनसेवितेति विरोधः । 'सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः' इत्यनेकार्थः । तत्परिहारपक्षे क्रूरा हिंसाः सत्त्वाः प्राणिनो यस्यामिति विग्रहः । मुनिजनतपोमाहात्म्यात्क्रूरा अक्रूरतां गता इत्यत्र व्यङ्ग्यम् । पुष्पवतीति । पुष्पवत्यार्तववत्यपि पवित्रेति विरोधः । तत्परिहारपक्षे पुष्पं सून विद्यते यस्यामिति विग्रहः । - - - -- - - - - - - - - - - - - - - - - - - - - - -- - - टिप्प०- 1 'नरगिस' इति उर्दूभाषायामिति कश्चित् । वस्तुतस्तु नेत्राणां वृक्षमूलानां सहसेण संकुला । 'नेत्रं मन्थगुणे वस्त्रभेदे मूले द्रुमस्य च' इति मेदिनी । 2 व्याधैः किरातैः अनुगम्यमानाः, अत एव तरलतारका भयेन चञ्चलनेत्रकनीनिका मृगा यस्यां सा (अटवी) । व्याधरूपिणा महादेवेन अनुगम्यमानम् । अत एव तरलं तारकमृगं मृगशिरोनक्षत्रम् (मृग-तारकम्-तारकमृगम्) यस्यां सा । पुरा हि ब्रह्मा निजकन्यां सुन्दरी सन्ध्यामालोक्य कामातुरस्तामन्वगच्छत् । सन्ध्या मृगीरूपेण शिवं शरणमयासीत् । ब्रह्मापि मृगो भूत्वा तामन्वधावत् । तदवलोक्य शिवो ब्रह्मणः शिरश्छेदाय पिनाकेन शरं प्रजिघाय । भीतलज्जितो ब्रह्मा मृगशिरोनक्षत्रमध्यास्त । शिवशरोपि आर्द्रानक्षत्ररूपेण तमनु स्थित इति शिवपुराणम् । पाठा० - १ वानराक्रान्ता. २ अमरपति. ३ कीचकावृत्ता; कीचकशतावृता. ४ बहुल. ५ पर्णभूषिता. विन्ध्याटवी पूर्वभागः । Page #57 -------------------------------------------------------------------------- ________________ तस्यां च दण्डकारण्यान्तःपाति, सकलभुवनविख्यातम्, उत्पत्तिक्षेत्रमिव भगवतो धर्मस्य, सुरपतिप्रार्थनापीतसकलसागरजैलस्य, मेरुँमत्सराद्गगनतलप्रसारितविकटशिरः सहस्रेण दिवसकररथंगमनपथमपनेतुमभ्युद्यतेनावगणितसकलसु॒रवचसा विन्ध्यगिरिणाप्य॑नु॒ल्लङ्घताज्ञस्य जठरानलजीर्णवातीपिदानवस्य, सुरासुरमुकुटमँकरपत्रैकोटिचुम्बितचरणरजसो दक्षिणामुख - तस्यां चेति । तस्यां विन्ध्याटव्यमागस्त्यस्य मुनेर्वातापिद्विष आश्रमपदं मुनिस्थानमासीदित्यन्वयः । इत आश्रमविशेषणानि । दण्डकेति । दण्डकारण्यं सह्याद्रिसंबन्धि काननं तदन्तः पाति । तदन्तर्वर्तीत्यर्थः । सकलेति । सकलानि समग्राणि यानि भुवनानि विष्टपानि तेषु विख्यातं प्रसिद्धम् । उदिति । भगवतो माहात्म्यवतो धर्मस्य श्रेयस उत्पत्तिक्षेत्रमिव प्रभवस्थानमिव । इतो मुनिं विशिनष्टि - सुरेति । सुरपतिरिन्द्रस्तस्य प्रार्थना याचना तया पीतं चुलुकीकृतं सकलसागरस्य समग्रसमुद्रस्य जलं पानीयं येन स तथा तस्य । विन्ध्येति । विन्ध्यगिरिणापि जलबालकाद्रिणाप्यनुल्लङ्घितानतिक्रान्ताऽऽज्ञा शिष्टिर्यस्य स तथा तस्य । अथ विन्ध्यगिरं विशिनष्टि - मेरुमत्सरादिति । मेरोः सुवर्णाद्रिर्मत्सरान्मात्सर्याद्गगनतल आकाशतले प्रसारितानि विस्तारितानि विकटानि विपुलानि यानि शिरांसि तेषां सहस्रं येन स तथा तेन । दिवसेति । दिवसकरः सूर्यस्तस्य रथः स्यन्दनस्तस्य या गतिर्गमनं तस्याः पन्थाः । 'ऋक्पूरब्धूः -' इत्यच् । तं अपनेतुं दूरीकर्तुमभ्युद्यतेन प्रयतमानेन । अवेति । अवगणितान्यनादृतानि सकलानि समग्राणि सुराणां देवानां वचांसि वाक्यानि येन स तथा तेन । अथ मुनिं विशेषयन्नाह - जठरेति । जठरानलेनोदराग्निना जीर्णोऽन्तस्तिरोहितो बातापिदानवो येन स तथा तस्य । सुरा देवा असुरा दानवास्तेषां मुकुटाः किरीटानि तेषु मकरपत्रं मकराकारः पक्षः । ' पत्रं वाहनपक्षयोः' इत्यमरः । तस्य कोटिरग्रं तया चुम्बितं गृहीतं चरणरजोऽङ्घ्रिरेणुर्यस्य स तथा तस्य । दक्षिणेति । दक्षिणा अवाची तस्या मुखमाननं तस्मिन्विशेषकस्तिलकस्तस्य । 'चित्रपुण्ड्रविशेषकाः' - टिप्प० - 1 सुमेरुं प्रदक्षिणीकृत्य यथा प्रत्यहमादित्यो भ्रमति तथा मामपीति मनसि सुमेरुमीर्ष्यन् विन्ध्यगिरिस्तथा कर्तुमादित्यमनुरुरोध । तत्प्रत्याख्यानात्कुपितः स तन्मार्गमवरोद्धुं भृशं प्रवर्धमानो देवैर्निषिद्धोऽपि नात्यजद्दुराग्रहम् । ततस्त्रस्तानां देवानामनुरोधेन सपत्नीके गुरावगस्त्यमहर्षी तत्रोपस्थितेऽवनतशिरस्को विन्ध्याचलस्तं प्रणनाम् । महर्षिस्तु - 'यावदहं न परावर्ते तावदेवमेव त्वमवनतस्तिष्ठेः' इत्यादिश्य दक्षिणां दिशमुपगतो नाद्यापि प्रत्यागच्छति । विन्ध्योप्यद्यावधि तथैव तिष्ठतीति पुराणम् । 2 पुरा किल भ्रात्रोरिल्वल -वातापिनोर्देत्ययोर्मध्ये ज्येष्ठ इल्वलो ब्राह्मणरूपभृत् मेषरूपवाहिनो वातापेर्मांसेन निमन्त्रितान् ब्राह्मणान् भोजयामास । भुक्तेषु तेषु 'एहि वातापे !' इत्थमिल्वलेनाहूतो वातापिर्देववरप्रभावात्तेषामुदरं भित्त्वा निरक्रमीत् । ब्राह्मणानामित्थमकाण्डसंहारमालोक्य दयमानैरमरैः प्रार्थितो भगवानगस्त्यो दुरभिसन्धिमिमं वातापिं भुक्त्वा जरयामासेति भारतम् । 3 दण्डको नाम कश्चित्सूर्यवंशीयो नृपः शुक्राचार्यस्य कन्यामरजा नाम बलादुपजग्राह । शुक्राचार्यस्तदवगम्य राजानमशपत् 'तवाचिरान्मृत्युर्भवेत् । सप्ताहान्तस्तदिदं ते राज्यं महारण्यतया परिणमेत् ।' तदेव राज्यं दण्डकारण्यमिदमिति रामायणम् । पाठा० - १ तलख्यातम्. २ निपीत. ३ सलिलस्य. ४ मेरुशिखर. ५ अम्बरतल. ६ शिखर. ७ गतिपथ. ८ सुरसमूह ९ असङ्घितः १० तटघटितमरकतमय. ११ भङ्गकोटि; पत्रकोटि १२ दक्षिणाशावधू. 44 कादम्बरी | कथामुखे Page #58 -------------------------------------------------------------------------- ________________ विशेषकस्य, सुरलोकादेकहुंकारनिपातितनहुषप्रकटप्रभावस्य भगवतो महामुनेरगस्त्यस्य भार्यया लोपामुद्रया स्वयमुपरचितालवालकैः करपुटसलिलसेकसंवर्धितैः सुतनिर्विशेषैरुपशोभितं पादपैः, तत्पुत्रेण च गृहीतव्रतेनाषाढिना पवित्रभस्मविरचितत्रिपुण्ड्रकाभरणेन कुशचीवरवाससा मौजमेखलाकलितमध्येन गृहीतहरितपर्णपुटेन प्रत्युटजमटता भिक्षां दृढदस्युनाम्ना पवित्रीकृतम्, अतिप्रभूतेष्माहरणाच्च यस्येमवाह इति पिता द्वितीयं नाम चकार, दिशि दिशि शुकहरितैश्च कदलीवनैः श्यामलीकृतपरिसरम्, सरिता च कलशयोनिपरिपीतसागरमार्गानुगतयेव बद्धवेणिकया गोदीवर्या परिगतमाश्रमपदमासीत् । *********** इति कोशः । सुरेति । सुरलोकादेकहुंकारेणैकहुंकृतिमात्रेण निपातितो भ्रंशितो यो नहुषो राजा तेन प्रकटः स्पष्टः प्रभावो यस्य स तथा तस्य भगवतो माहात्म्यवतः । महाँश्चासौ मुनिश्च महामुनिस्तस्योत्कृष्टमननशीलस्य । पुन कीदृशम् । पादपैर्वृक्षरुपशोभितम् । अथ पादपान्विशिनष्टि - अगस्त्येति । अगस्त्यस्य भार्याया पत्न्या लोपामुद्रया स्वयमात्मनोपरचितमालवालकमावापो येषां ते तथा तैः । करेति । करा एव पुटानि तैर्यः सलिलस्य जलस्य सेकः सिञ्चनं तेन संवर्धितैर्वृद्धि प्रापितैरतएव सुतेभ्यः सूनुभ्यो निर्गतो विशेषो येभ्यस्ते । तथा तैः । तत्पुत्रेण दृढदस्युनाम्ना पवित्रीकृतम् । अथ तत्पुत्रं विशिनष्टि-पालाशो दण्ड आषाढः स विद्यते यस्यासौ स तेन । पवित्रं यद्भस्म तेन विरचितं निर्मितम । त्रयाणां पण्डकाणां समाहारस्त्रिपण्डकं तिलकविशेषस्तदेवाभरणमलंकारो यस्य : स तथा तेन । कुशेति । कुशा एव चीवरं वासो यस्य स तेन मौजेति । मुञ्जः शरस्तत्संबन्धिनी या मेखला तया कलितो व्याप्तो मध्यो मध्यप्रदेशो यस्य स तथा तेन । गृहीतेति । गृहीतमात्तं हरितं नीलं पर्णपुटं पत्रपुटं येन स तथा तेन । किं कुर्वता । उटजमुटजं प्रति प्रत्युटजं भिक्षार्थमटता पर्यटनं कुर्वता । 'पर्णशालोटजः' इति कोशः । 'अकथितम्' इत्यनेन भिक्षामिति द्वितीया । चः पुनरर्थे । यस्य दृढदस्युनाम्नः पितागस्त्य इध्मवाह इत्यन्वर्थं द्वितीयं नाम चकार निर्ममे । कस्मात् । अतीति । अतिप्रभूता य इमानस्तेषामाहरणादानयनात् । दिशीति । दिशि दिशि प्रत्येकदिशि शुकवद्धरितैर्नीलैः कदलीवनै रम्भाकाननैः श्यामलीकृतः कृष्णीकृतः परिसरः पर्यन्तभूर्यस्य तत्तथा तम् । गोदावर्येति । गोदावर्या सरिता परिगतं परिप्राप्तम् । अथ गोदावरी विशेषयन्नाह - कलशेति । कलशयोनिरगस्त्यस्तेन परिपीतश्चलुकीकृतो यः सागरः समुद्रस्तस्य मार्गः पन्थास्तमनुगतयेवानुसृतयेव । वेणीति । वेण्येव वेणिका । बद्धा वेणिका यया सा तथा । 'वेणी धारारयश्च' इति कोशः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 वृत्रवधाद् ब्रह्महत्यामुपगते सुरपतौ स्वर्गराज्यमराजकमालोक्य निर्जरः स्वस्वतेजोभिः संवर्ध्य नहुषः स्वर्गराज्येऽभिषिक्तः । ऐश्वर्यमदाद् भ्रष्टबुद्धिः स इन्द्राणीमकामयत । सा तु ऋषिमन्त्रणया तं संदिदेश - 'यदि महर्षिभिरूढां शिबिकामारुह्य मन्मन्दिरमुपगच्छसि ततस्ते भवामिइति । दुर्बुद्धिप्रेरितो नहुषस्तु प्रभुतया भृगुमुखान्महर्षीन् शिबिकावहने नियोज्य इन्द्राणीमभिसरन् त्वरितगमनाय भृगु शिरसि पदाऽऽजघान - 'सर्प सर्प इति । भृगोर्जटासु निभृतं विलीनो भगवानगस्त्यस्तत्पदाघातात्प्रकुपितः शशाप - 'सर्प एव सन् भुवि निपत' इति महाभारतम् । 2 अगस्त्यपरिपीततया नूनं सागरो लुप्तः । अत एव साध्या गोदावर्या बद्धवेणिकया सत्या (संस्काराकरणात् जटीभूततया बद्धा वेणिः यया) तन्मार्गानुगमनं कर्तव्यमेवेति उत्प्रेक्षाशयः । पाठा० - १ निपतित. २ प्रकटन. ३ तद्भार्यया. ४ लोपामुद्रया च. ५ आषाढिबतिना. ६ चीर. ७ वल्कल. ८ मुञ्ज. ९ हरिणकर्णपुटेन. १० शुककुल. ११ श्यामीकृत. १२ कावे. अगस्त्याश्रमः । पूर्वभागः । Page #59 -------------------------------------------------------------------------- ________________ यत्र च दशरथवचनमनुपालयन्नुत्सृष्टराज्यो दशवदनलक्ष्मीविभ्रमविरामो रामो महामुनिमगस्त्यमनुचरन्सह सीतया लक्ष्मणोपरचितरुचिरपर्णशालः पञ्चवट्यां कंचित्कालं सुखमुवास । चिरंशून्येऽद्यापि यत्र शाखानिलीननिभृतपाण्डुकपोतपङ्क्तैयोऽमललग्नतापसाग्निहोत्रधूमराजय इव लक्ष्यन्ते तरवः । बलिकर्मकुसुमान्युद्धरन्त्याः सीतायाः करतलादिव संक्रान्तो यत्र रागः स्फुरति लताकिसलयेषु । यत्र च पीतोद्गीर्णजलनिधिजलमिव मुनिना निखिलमा श्रमोपान्तवर्तिषु विभक्तं महाह्नदेषु । र्यैत्र च दशरथसुतनिकरनिशितशरनिपातनिहतरजैनीचरबलैबहलरुधिरसिँक्तमूलमद्यापि तंद्रागाविद्धनिर्गतपलाशमिवाभाति नवकिर्सलयमरण्यम् । अधुनापि यत्र जलधरसमये गंम्भीरमभिनवजलधरनिवहनिनादमाकर्ण्य भगवतो रामस्य त्रिभुवनविवरव्यापिनश्चापघोषस्य स्मरन्तो न गृह्णन्ति शेष्पकवलमजसमश्रुजललु - यत्र चेति । यत्र यस्मिन्नाश्रमपदे दशरथनन्दनो नाम रामो महामुनिमगस्त्यमनुचरन्ननुगच्छन्कंचित्कालं पञ्चवट्यां जनस्थाने सीतया जानक्या सह सुखं यथा स्यात्तथोवास वसतिं चक्रे । किंकुर्वन् । दशरथस्य राज्ञो वचनमाज्ञामनुपालयन्यथा निर्दिष्टः तथैव समाचरन् । इतो रामं विशेषयन्नाह - उत्सृष्टेति । उत्सृष्टं त्यक्तं राज्यं येन स तथा । दशेति । दशवदनस्य दशाननस्य या लक्ष्मीः श्रीस्तस्या विभ्रमो विलासस्तस्य विरामोऽवसानं यस्मात्स तथा । लक्ष्मण इति । लक्ष्मणेन सौमित्रिणोपरचिता कृता रुचिरा मनोहरा पर्णशालोटजो यस्मै स तथा । अथ च यत्र यस्मिन्त्राश्रमपदे चिरकालशून्येऽद्याप्येतत्कालपर्यन्तं तरवो लक्ष्यन्ते दृश्यन्त इत्यन्वयः । इतः पादपान्विशेषयन्नाह - शाखेति । शाखासु शालासु निलीनाः संलग्ना निभृतमत्यर्थं पाण्डवः श्वेता ये कपोता रक्तलोचनास्तेषां पङ्क्तयः श्रेणयो १२ *********** ते तथा । कीदृशा इव । अमला निर्मला लग्नास्तापसानां तपस्विनां यदग्निहोत्रं तस्य धूमानां राजिर्येष्वेवंभूता इव लक्ष्यन्ते । यत्र चेत्यस्य सर्वत्रानुषङ्गः । बलीति । बलिकर्मार्थं कुसुमान्युद्धरन्त्याः पुष्पावचयं कुर्वन्त्याः सीताया जानक्याः करतलादिव विनिर्गतः सन् । लताकिसलयेषु संक्रान्तो रागः स्फुरति स्फूर्तिमान्भवति । यत्र चेति । मुनिनागस्त्येन पूर्वं पीतं पश्चादुद्गीर्णं च तन्निखिलं जलनिधिजलमिवाश्रमोपान्तवर्तिषु महाह्मदेषु विभक्तं दृश्यते । यत्र चेति । नवानि प्रत्यग्राणि किसलयानि यस्मिन्नेवंभूतमरण्यं अद्याप भ शोभत इत्यन्वयः । तदेव विशिनष्टि - दशरथेति । दशरथस्य सुतो रामस्तस्य निशिताः तीक्ष्णा ये शरास्तेषां यः निकरः समूहस्तस्य निपातेन निहता ये रजनीचरा राक्षसाः पुण्यजनास्तेषां यद्बलं सैन्यं तत्संबन्धि यद्बहलं विस्तृतं रुधिरं रक्तं तेन सिक्तं मूलं यस्य । अतएवाद्यापि तद्रागेणाविद्धानि युक्तानि निर्गतानि पलाशेपुष्पाणि यस्मिन्नेवंभूतमिव । अधुनापीति । सांप्रतमपि यत्र यस्मिञ्जलधरसमये वर्षाकाले जीर्णमृगा वृद्धहरिणाः शष्पं बालतृणं तस्य कवलं ग्रासं न गृह्णन्ति नाददते । कीदृशाः । अभीति । अभिनवा नूतन ये जलधरा मेघास्तेषां निवहः समूहस्तस्य निनादं शब्दमाकर्ण्य श्रुत्वा रामस्य भगवतः पूज्यस्य चापो धनुष्तस्य घोषं शब्दं स्मरन्तः स्मृतिविषयीकुर्वन्तः । घोषस्येति स्मृतियोगे मातुः स्मरतीतिवत्कर्मणि षष्ठी । अथ घोषं विशेषयन्नाह - त्रिभुवनेति । त्रिभुवनं विष्टपं तस्य विवराणि छिद्राणि तानि व्याप्नोतीत्येवंशीलः स तथा तस्य । कीदृशा मृगाः । अजसं निरन्तरमश्रुजलेन नेत्रजलेन लुलिता व्याकुलीभूता दृष्टयो नेत्राणि येषां ते तथा । किं कृत्वा । दश दिशो दश ककुभो वीक्ष्यावलोक्य । कीदृश्यो दिशः । शून्याः सजातीयप्राणिरहिताः । मृगान्विशेषयन्नाह टिप्पo - 1 पलाशानि पत्राणि । स्वभावरक्तेषु किसलयेषु रुधिररागाविद्धत्वस्योत्प्रेक्षा । - 46 पाठा० - १ रामो २ अतिचिर ३ पङ्क्तयोऽलग्न. ४ यत्र दशरथसुतशर. ५ रजनीचर. ६ बहुल. ७ रक्त. ८ रागानुविद्ध. ९ किसलम्. १० गम्भीररवम्. ११ जलधरनिनाद. १२ सम्यक्शष्प. कादम्बरी । कथा Page #60 -------------------------------------------------------------------------- ________________ लितदृष्टयो वीक्ष्य शून्या दश दिशो जराजर्जरितविषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः । यस्मिन्ननवरतमृगयानिहतशेषेवनहरिणप्रोत्साहित इव कृतसीताविप्रलम्भः कनकमृगो राघवमतिदूरं जहार । यत्र च मैथिलीवियोगदुःखदुःखितौ रावणविनाशसूचकौ चन्द्रसूर्याविव कबन्धग्रस्तौ समं रामलक्ष्मणौ त्रिभुवनभयं मेंहच्चक्रतुः । अत्यायतश्च यस्मिन्दशरथसुतंबाणनिपातितो योजनबाहोर्बाहुरगस्त्यप्रसादनागतनाहुषाजगरकायशङ्कामकरोदृषिजनस्य । जैनकतनया च भर्ना विरहविनोदनार्थमुटजोभ्यन्तरलिखिता यत्र रामनिवासदर्शनोत्सुका पुनरिव धेरणीतलादुल्लसन्ती वनचरेरद्याप्योलोक्यते । तस्य च संप्रत्यपि प्रकटोपलक्ष्यमाणपूर्ववृत्तान्तस्यागस्त्याश्रमस्य नातिदूरे जलनिधिपान!कुपितवरुणप्रोत्साहितेनागस्त्यमत्सरात्तदाश्रमसमीपवर्त्यपर इव वेधसा जैलनिधिरुत्पादितः, - *********** जरेति । जरया वार्धक्येन जर्जरिता विशीर्णा विषाणकोटिः श्रृङ्गाग्रभागो येषां ते तथा । जानकीति । जानक्या सीतया संवर्धिता वृद्धि प्रापिताः । यस्मिन्निति । यस्मिन्वने अनवरतं निरन्तरं या मृगयाखेटस्तया निहता व्यापादितास्तेभ्यः शेषा उद्धरिता एव ये वनहरिणास्तैः प्रोत्साहित इवोत्साहं प्रापित इव । कृतेति । कृतः सीताया विप्रलम्भो वियोगो विप्रतारणं वा येनैवंभूतोऽसौ कनकमृगः सुवर्णमृगो रघोरपत्यं राघवमतिदूरं जहार हृतवान् । 'हृञ् हरणे' धातुः । लिटि रूपम् । यत्र सममिति सहचरितौ रामलक्ष्मणौ महदुत्कृष्टं त्रिभुवनस्य विष्टपस्य भयमातङ्कं चक्रतुर्विदधतुः । कीदृशौ । मैथिलीति । मैथिली जानकी तस्या वियोगेन विरहेण यद्दुःखं तेन दुःखितौ । पुनस्तावेव विशेषयन्नाह - कबन्ध इति । कबन्धः राहू राक्षसाधिपतिस्तेन ग्रस्तौ गृहीतौ । काविव । चन्द्रसूर्याविव पुष्पवन्ताविव । रावण इति । रावणस्य दशाननस्य यो विनाशस्तस्य सूचकौ ज्ञापकौ । अत्यायतश्चेति । अथ यस्मिन्दशरथसुतो रामस्तस्य बाणैर्विशिखैः निपातितः छिनो योजनबाहुनाम्नो दैत्यस्य बाहुर्भुजोऽत्यन्तमायतो विस्तृतः सोऽगस्तिमुनेरप्रसादेन कोपेन आगतः प्राप्तो नहुषस्य राज्ञोऽजगरस्य कायस्तस्य शङ्कामृषिगणस्य मुनिसमुदायस्य चकार विदधे । यत्र चेति । यस्मिञ्जनकतनया सीता भ; रामेण विरहस्य वियोगस्य विनोदनं परिहारस्तदर्थमुटजस्य पर्णशालाया अभ्यन्तरे लिखिता लिपीकृता सा रामस्य निवासो वसतिस्तस्य यद्दर्शनं तत्र उत्सुका उत्कण्ठिता । यथा पूर्वं धरणितलादुत्थिता तथैव पुनर्भूमितलादुल्लसन्ती वनचरैर्भिल्लैरद्यापि सांप्रतमप्यालोक्यते दृश्यते । तस्य चेति । तस्य चागस्त्याश्रमस्य संप्रत्यपि इदानीमपि प्रकटोपलक्ष्यमाणः स्पष्टं ज्ञायमानः पूर्ववृत्तान्तो यस्य तस्य नातिदूरेऽगस्त्यमत्सरात्पीताब्धिमात्सर्याद्वेधसा तस्यागस्त्याश्रमस्तस्य समीपवर्ती निकटवर्त्यपरोऽन्यो जलनिधिरिव जलाशय इव उत्पादितः । कीदृशेन वेधसा । जलेति । जल - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अवशिष्टा इति यावत् । 2 कबन्धेन तत्रामकेन राक्षसेन ग्रस्तौ रामलक्ष्मणौ । शिरश्छेदात् कबन्धेन राहुणा ग्रस्तौ सूर्यचन्द्रौ । उभयोरपि त्रिभुवनभयकारकत्वं समम् । इत्याशयः । 3 अगस्त्यस्य प्रसादनाय (अगस्त्यं प्रसन्न कर्तुम्) आगतो यो नाहुषः नहुषसंबन्धी अजगरकायः (सर्पशरीरम्) तच्छङ्काम् ऋषिजनस्याऽकरोत् । अगस्त्यस्य शापेन नहुषः सर्पो बभूव । अत एव अगस्त्यं प्रसादयितुं मन्ये दीर्घः अजगरकाय एव पतितो भवेदिति कबन्धबाही ऋषीणा शङ्काऽभवदित्याशयः । टीकापरिगृहीतः पाठो व्याख्या च विचार्येव । पाठा० - १ दीनदृष्टयो. २ निःशेष; अशेष. ३ प्रोत्सारित. ४ दशवदनविनाशपिशुनौ. ५ अतिमहत्. ६ शर. ७ प्रसादेन. ८ चकार. ९ ऋषिगणस्य. १० तनयभा. ११ विनोदार्थम्. १२ अभ्यन्तरे. १३ धरणितलात्. १४ उल्लसन्तीव. १५ उपलक्ष्यते. १६ चैवविधस्य. १७ कुपित. १८ उत्साहितेन. १९ महाजलनिधि. पम्पासरः पूर्वभागः । Page #61 -------------------------------------------------------------------------- ________________ प्रलयकालविघट्टिताष्टदिग्विभागसंधिबन्धं गगनतलमिव भुवि निपतितम्, आदिवराहसमुद्धृतधरामण्डलस्थानमिव जलपूरितम्, अनवरतमज्जदुन्मदशबरकामिनीकुचकलशलुलितजलम्, उत्फुल्लकुमुदकुवलयकह्लारम्, उन्निद्रारविन्दमधुबिन्दुनिष्यन्दबद्धचन्द्रकम्, अलिकुलपटलान्धकारितसौगन्धिकम्, सौरसितसमदसारसम्, अम्बुरुहमधुपानमत्तकलहंसकामिनीकृतकोलाहलम्, अनेकजलचरपतङ्गशतसंचलनचलितवाचालवीचिमालम्, अनिलोल्लासितकल्लोलशिखरसीकरारब्धदुर्दिनम्, अशङ्कितावतीर्णाभिरैम्भःक्रीडारागिणीभिः स्नानसमये वनदेवताभिः केश - *********** निधिः समुद्रस्तस्य पानं तेन प्रकुपितः क्रोधं प्राप्तो यो वरुणः प्रचेतास्तेन प्रोत्साहितेन प्रगुणितेन । अथचेति । यस्य पद्मसरः पम्पेत्यभिधानमित्यग्रेतनेनान्वयः । इतः सरो विशेषयन्नाह - प्रलयेति । प्रलयकाले कल्पान्ते विघट्टिता नष्टा येऽष्टदिशामष्टककुभा विभागाः प्रदेशास्तत्तत्पर्वतावधिकास्तेषां संधयः संयोगास्तेषां बन्धो मर्यादा यस्मिन्नेवंभूतं भुवि भूमौ निपतितं गगनतलमिव नभस्तलमिव । जलनैर्मल्यसादृश्यात्तदुपमानम् । जलेनेति । जलेन पानीयेन पूरितं पूर्णादिवराहेण तृतीयावतारेण वराहरूपेण सम्यक्प्रकारेणोद्धृतं जलाद्धहिरानीतं यद्धरामण्डलं भूमिमण्डलं तस्य स्थानमिव । अनवरतेति । अनवरतं निरन्तरं मज्जन्त्यः स्नानं कुर्वत्यो या उन्मदा गर्वाधिष्ठिताः शबराणां भिल्लानां कामिन्यस्तासां कुचौ तावेव कलशौ ताभ्यां लुलितमालोडितं जलं पानीयं यस्य तत्तथा । उत्फुल्लेति । उत्फुल्लानि विसितानि कुमुदानि कैरवाणि कुवलयानि कुवेलानि कह्लाराणि सौगन्धिकानि यस्मिंस्तथा । उन्निद्रेति । उन्निद्राणि विकसितानि यान्यरविन्दानि कमलानि तेषां मधुः मधुरसस्तस्य यो द्रवः कल्कस्तेन बद्धा मयूरपिच्छचन्द्राकाराश्चन्द्रका यस्मिंस्तत्तथा । अलीति । अलीनां भ्रमराणां यानि कुलानि तेषां पटलं समूहस्तेनान्धकारितानि संजातान्धकाराणि सौगन्धिकानि कह्लाराणि यस्मिंस्तत्तथा । 'सौगन्धिकं तु कह्लारम्' इति कोशः । सारसितेति । सारसितेन शब्दितेन वर्तमाना अतएव समदा मदोत्कटाः सारसाः पक्षिविशेषा यस्मिन् । अम्बुरुहेति । अम्बुरुहाणि कमलानि तेषां यन्मधु तस्य पानं तेन मत्ताःकलहंसकामिन्यो वरटास्ताभिः कृतः कोलाहलो यस्मिन् । अनेकेति । अनेके सहसशो ये जलचरा नक्रचक्रादयः पतङ्गाः पक्षिणस्तेषां यच्छतमसंख्यातं तस्य संचलनं गमन तेन चलिताः क्षोभं प्राप्ता वाचाला मुखरा वीचयो लहर्यस्तासां मालाः श्रेण्यो यस्मिन् । अनिलेति । अनिलेन वायुनोल्लासिता उल्लास प्रापिता ये कल्लोला लहर्यस्त एवोच्चत्वाच्छिखराणि तेषां सीकरैरम्बुकणैरारब्धं विहितं दुर्दिनं मेघजं तमो यस्मिन् । स्नानेति । स्नानसमय आप्लवक्षणे वनदेवताभिर्वनाधिष्ठात्रिभिः केशपाशः केशकलापस्तस्य कुसुमानि प्रसवानि तैः सुरभीकृतं सौगन्ध्यमापादितम् । कुसुमैरित्यत्र क्रियासिद्ध्युपकारकत्वेन करणे तृतीया । इतो वनदेवता विशेषयन्नाह - अशङ्कित्तेति । शङ्कारहितं यथा स्यात्तथावतीर्णाभिरन्तः प्रविष्टाभिः शङ्काराहित्यं च प्रेक्षकजनाभावात् । अम्भःक्रीडायां जलक्रीडायां रागो यासां ताभिः । पुनस्तदेव - - - - - - - - - - - - - - - - - - - - - - - - - - - -- - - - - - - - - - - - - - - टिप्प० - 1 उनिद्राणि यान्यरबिन्दानि तेषां यो मधुबिन्दूना (मकरन्दबिन्दूनाम्) निष्यन्दः द्रवः, तेन बद्धाः चन्द्रकाः चन्द्राकाराणि मण्डलानि यस्मिन् । जले यदा चिक्कणो द्रवबिन्दुः पतति तदा जलस्तरोपरि मण्डलं प्रसरति । तथात्र स्थाने स्थाने कमलमधुमण्डलानि बद्धानीत्याशयः । उपरिव्याख्याधृतः पाठस्तु मनोहरः । 2 आरसितेन सह वर्तमानाः सारसिताः अर्थात् सशब्दाः समदाः सारसा यस्मिन् । इत्यर्थो बोध्यः । पाठा० - १ विघटित. २ दिग्भाग. ३ बन्धनम्. ४ सलिलपरिपूरितम्. ५ मधुद्रवबद्ध; मकरन्दबिन्दुबद्ध. ६ आरसित. ७ पतत्रि. ८ चञ्चलित. ९ उल्लसित. १० शिशिर. ११ आरचित. १२ अन्तः. १३ केशकुसुमैः. 42 N कादम्बरी। । कथामुखे Page #62 -------------------------------------------------------------------------- ________________ पाशकुसुमैः सुरभीकृतम्, एकदेशावतीर्णमुनिजनापूर्यमाणकमण्डलुकलजलध्वनिमनोहरम्, उन्मिषदुत्पलवनमध्यचारिभिः सवर्णतया रसितानुमेयैः कादम्बैरासेवितम्, अभिषेकावतीर्णपुलिन्दराजशर्बरीकुचचन्दनधूलिधवलिततरम्, उपान्तकेतकीरजःपटलबद्धकूलपुलिनम्, आसन्नाश्रमागततापसक्षालितार्द्रवल्कलकषायपाटलतटजलम्, उपतटवृक्षपल्लवानिलवीजितम्, अविरलतमालवीयन्धकारिताभिर्वालिनिर्वासितेन संचरता प्रतिदिनमृष्यमूकवासिना सुग्रीवेणावलुप्तफललघुलताभिरुदवासितापसानां देवतार्चनोपयुक्तकुसुमाभिरुत्पतज्जलचरपक्षपुटविगलितजलबिन्दुसेकसुकुमारकिसलयाभिलतामण्डपतलशिखण्डिमण्डलारब्धताण्डवाभिरनेककुसुमपरिमलवाहिनीभिर्वनदेवताभिः स्वश्चासवासिताभिरिव वनराजिभिरुपरुद्धतीरम्, - *********** विशेषयन्नाह - एकदेशेति । एकदेश एक भागस्तत्रावतीर्णोऽन्तःप्रविष्टो यो मुनिजनस्तेनापूर्यमाणानि जलेन भ्रियमाणानि यानि कमण्डलूनि पात्रविशेषाणि तेषां कलो मधुरो यो जलध्वनिः पानीयशब्दस्तेन मनोहरमभिरामम् । कादम्बेति । कादम्बाः कलहंसास्तैरासपन्तात्सेवितं पर्युपासितम् । अथ कादम्बान्विशिनष्टि - उन्मिषदिति । उन्मिषन्ति विकसन्ति यान्युत्पलानि कुवलयानि तेषां वनं खण्डस्तन्मध्यचारिभिस्तदन्तर्गामिभिः । सवर्णेति । सवर्णतया सादृश्यतया रसितं स्वनितं तेनानुमेयैरनुमातुं योग्यैः । पुनः प्रकारान्तरेण सरो विशिनष्टि - अभीति । अभिषेकार्थं स्नानार्थमवतीर्णा जलान्तःप्रविष्टाः पुलिन्दराजस्य भिल्लस्वामिनो याः शबर्यः स्त्रियस्तासां कुचाः स्तनास्तेषां चन्दनं मलयजं तस्य धलिभिः पांसभिः धवलिततरमतिशयेन शुभ्रीकतम् । उपान्तेति । उपान्ते समीपे याः केतक्यो मालत्यस्तासां रजः परागस्तस्य पटलं समूहस्तेन बद्धमानद्धं कूलं जलयुक्तं पुलिनं तटं च जलोम्भितं यस्मिंस्तँत्तथा । आसनेति । आसन्ना निकटवर्तिनो ये आश्रमा मुनिस्थानानि तेभ्य आगताः प्राप्ता ये तापसा ऋषयस्तैः क्षालितानि धौतान्यामा॑णि जलाविलानि वल्कलानि । 'वल्कलमस्त्रियाम्' इत्यमरः । तैः कषायं तुवरम् । 'तुवरस्तु कषायोऽस्त्री' इत्यमरः । पाटलं च तटजलं यस्मिन् । 'वेतरक्तस्तु पाटलः इत्यमरः । उपेति । तटस्य समीपमुपतटं तत्र ये वृक्षाः पादपास्तेषां पल्लवाः किसलयानि तैर्यः अनिलः वायुस्तेन वीजितं व्यजनवात इवाचरितं यस्मिन् । वनेति । वनराजिभिः काननश्रेणिभिरुपरुद्धमाबद्धं तीरं तटं यस्य तत्तथा । अथ वनराजिं विशिनष्टि - अविरलेति । अविरला निबिडा या तमालानां कालस्कन्धानां वीथी पङ्क्तिस्तयान्धकारिताभिः संजातान्धकाराभिः । वालीति । सुग्रीवेण वानराधिपतिनावलुप्तानि दूरीकृतानि यानि फलानि तैलघुलता यासु ताभिः । कीदृशेन सुग्रीवेण । वालिनेन्द्रसुतेन निर्वासितेन स्थानाद् भ्रंशितेन । किं कुर्वता । प्रतिदिनं प्रत्यहं संचरता व्रजता । तत्रेति शेषः । ऋष्येति । ऋष्यमूकाभिधानो गिरिस्तत्र वासिना निवसनशीलेन । उदवासिनामिति । उदवासिनां तत्र स्थितिजुषां तापसानां देवतार्चने देवपूजायामुपयुक्तानि सोपयोगानि कुसुमानि पुष्पाणि यासु ताभिः । उत्पतदिति । उत्पतन्तो ये जलचरा नक्रचक्राधास्तेषां पक्षपुटानि तेभ्यो विगलिताः सस्ता ये जलबिन्दवः पानीयपृषतास्तेषां सेकेन सिञ्चनेन सुकुमाराणि सुकोमलानि किसलयानि यासु ताभिः । लतेति । लतानां वल्लीनां ये मण्डपा आच्छादितप्रदेशास्तेषां तलेऽधःप्रदेशे शिखण्डिमण्डलैर्मयूरसमूहैरारब्धमुत्पादितं ताण्डवं नृत्यं यासु ताभिः । अनेकेति । अनेकानि विभिन्नजातीयानि कुसुमानि पुष्पाणि तेषां परिमलो गन्धस्तं वहन्तीत्येवंशीलास्तास्तथा ताभिः । वनेति । वनदेवता अरण्याधिष्ठात्र्यस्ताभिः स्वधासेन टिप्प० - 1 सादृश्येनेत्यर्थः । 2 तेन बद्धं कूले कूलसमीपे पुलिनं सैकतं यस्त तत् । केतकीपुष्पाणामियान परागो राशीभूतो येन कुले सैकतं परागजनितः सिकतामयः प्रदेशो जात इत्यर्थः । पाठा० - १ कलध्वनि. २ उन्मिषित. ३ कादम्बकदम्बकैः, कादम्बककदम्बकैः. ४ सुन्दरी. ५ तरङ्गम्. ६ उपान्तजात. ७ विटपि. ८ पुटानिल. ९ वीथिका. १० च संचरता. ११ परिलघुलताभिः. १२ जलचरपतङ्गकुलपक्ष. १३ तलस्थित. १४ देवतानिःश्वास. १५ रुद्ध. पम्पासरः पूर्वभागः । Page #63 -------------------------------------------------------------------------- ________________ अपरसागरशङ्किभिः सलिलमादातुमवतीर्णैर्जलधरैरिव बहलपङ्कमलिनैर्वनकरिभिरनवरतमापीयमानसलिलम्, अगाधमनन्तर्मप्रतिममपां निधानं पम्पाभिधानं पद्मसरः । यत्र च विकचकुवलयप्रभाश्यामायमानपक्षपुटान्यद्यापि मूर्तिमद्रामशापग्रस्तानीव मध्यचारिणामालोक्यन्ते चक्रवाकनाम्नां मिथुनानि । तस्यैवंविधस्य सरसः पश्चिमे तीरे राघवशरप्रहारजर्जरितबालतरुखण्डस्य च समीपे दिग्गजकरदण्डानुकारिणा जरदजगरेण सततमावेष्टितमूलतया बद्धमहालवाल इव, तुझस्कन्धावलम्बिभिरनिलवेल्लितैरहिनिर्मोकैधृतोत्तरीय इव, दिक्चक्रवालपरिमाणमिव गृह्णता भुवनान्त - *********** स्वकीयश्वासवातेन वासिताभिरिव भाविताभिरिव । अन्वयस्तु प्रागेवोक्तः । पुनः सरो विशेषयन्नाह - वनेति । वनकरिभिररण्यगजैरनवरतं निरन्तरमासमन्तात्पीयमानं सलिलं यस्य तत्तथा । अथ करिणो विशिनष्टि - बहलेति । बहलो निबिडो यः पङ्कः कर्दमस्तेन मलिनैः श्यामैः । कैरिव । जलधरैरिव मेधैरिव । तान्विशिनष्टि - अपरेति । अपरो भिन्नो यः सागरः समुद्रस्तदाशङ्किभिस्तद्भ्रान्तिकारिभिः सलिलमम्भ आदातुं ग्रहीतुमवतीर्णैराकाशादुत्तरितैः । आगाधमलब्धतलमनन्तमपरिमितपारमप्रतिमं स्वप्रतिनिधिरहितमपां पानीयाना निधान शेवधिभूतम् । अक्षयजलत्वात्तदुपमानम् । अभिधानं तु प्राक् प्रतिपादितमेव न पुनः प्रोच्यते । यत्र चेति । यस्मिन्सरसि चक्रवाकनाम्नां रथाङ्गाह्वानां मिथुनानि द्वन्द्वानि मध्यचारिणा वनान्तभ्रमणकारिणा । 'पथि चारिणा' इति पाठे पथिकनेत्यर्थः । आलोक्यन्त इत्यन्वयः । चक्रवाकमिथुनानि विशेषयन्नाह - विकचेति । विकचानि विकस्वराणि यानि कुवलयानि नीलाम्बुजन्मानि तेषां या प्रभा कान्तिस्तद्वच्छ्यामायमानानि श्यामवदाचरमाणानि पक्षपुटानि येषां तानि । पुनः कीदृशानीव । अद्याप्येतावत्कालपर्यन्तमपि मूर्तिमान्स्फुरद्रूपो यो रामस्य शापः शपनं तेन ग्रस्तानीव गृहीतानीव ।। तस्येति । तस्य सरस एवंविधस्य पूर्वोक्तप्रकारेण वर्णितस्य पद्मसर इत्यभिधानस्य पश्चिमे पश्चिमदिग्वर्तिनि तीरे तटे महान्महीयाञ्जीचिरकालीनः शाल्मलीवृक्षः रोचनो द्रुमोऽस्तीत्यन्वयः । तस्य स्थानाभिव्यक्त्या आह - राघवेति । राघवस्य रामस्य ये शरा बाणास्तेषा प्रहार उपघातस्तेन जर्जरिता विसंस्थुला ये बालास्तृणराजास्तरवो वृक्षास्तेषां यत्खण्डं वनं तस्य समीपे निकटे दिशां गजाः हस्तिनस्तेषां ये करदण्डाः शुण्डादण्डास्ताननुकुर्वन्तीत्येवंशीलास्तदनुकारिणस्तेन जरञ्जरीयान्योऽजगरश्चक्रमण्डलस्तेन सततं निरन्तरमावेष्टितं यन्मूलं स्थलं तस्य भावस्तत्ता तया बद्धं नद्धं महन्महीय आलवालमावालं यस्मिन्स तथा । पुनः कीदृश इव । धृतमुत्तरीयमुपसव्यानं येन स तथा । कैः । अहीनां सर्पाणां निर्मोकैः कञ्चुकैः । निर्मोक विशिनष्टि - अनिलेति । अनिलो वायुस्तेन वेल्लितैः कम्पितैः । 'वेल्लिते कम्पिताधूत-' इति कोशः । तुङ्ग इति । तुङ्ग उच्चो यः स्कन्धः प्रकाण्डस्तत्रावलम्बिभिरवलम्बमानैः । अतएवोत्तरीयस्योपमानता । पुनः किं कुर्वतेव । दिगिति । दिशां चक्रवालं मण्डलं तस्य परिमाणमायामस्तदिव गृह्णता ग्रहणं कुर्वता । केन । भुवनानामन्तराल मध्यभागस्तत्र विप्रकीर्णेनेतस्ततः पर्यस्तेन शाखानां लतानां संचयेन संदोहेन । 'शिखा - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 वस्तुतस्तु मध्यचारिणामिति पाठः । पम्पासरोमध्यचारिणां चक्रवाकानां मिथुनानि कुवलयप्रभया श्यामायितानि सन्ति । तेषु श्यामतावशात् मूर्तिमतः शापस्य ग्रासोत्प्रेक्षा । पुरा हि सीतावियोगदुःखितं रामं विलोक्य चक्रवाका जहसुः । तदवलोक्य 'भवतामपि ममेव वियोगदुःखदात्री रात्रिभविष्यति' इति रामः शशाप । 2 करदण्डम् अनुकरोति तच्छीलेन जरदजगरेण जीर्णेन महासर्पण । इत्यर्थो बोध्यः । पाठा० - १ आपीयमानम्. २ अप्रतिष्ठम्. ३ यत्र. ४ चक्रनाम्नाम्. ५ तस्यैव. ६ पद्मसरसः. ७ जीर्णतालतरु. (50 कादम्बरी। कथामुखे Page #64 -------------------------------------------------------------------------- ________________ रालविप्रकीर्णेन शाखासंचयेन प्रलयकालताण्डवप्रसारितभुजसहसमुडुपतिशेखरमिव विडम्बयितुमुद्यतः, पुराणतया पतनभयादिव वायुस्कन्धलग्नः, निखिलशरीरव्यापिनीभिरतिदूरोनताभिर्जीर्णतया शिराभिरिव परिगतो व्रततिभिः, जरातिलकबिन्दुभिरिव कैण्टकैराचिततनुः, इतस्ततः परिपीतसागरैसलिलैगगनागतैः पत्ररथैरिव शाखान्तरेषु निलीयमानैः क्षणमम्बुभारालसैराीकृतपल्लवैर्जलधरपटलैरप्यदृष्टशिखरः, तुङ्गतया नन्दनवनश्रियमिवावलोकयितुमभ्युद्यतः स्वसमीपवर्तिनामुपरि संचरता गगनतलगमनखेदायासितानां रविरथतुरङ्गमाणां सृक्कपरिसुतैः फेनपटलैः संदेहिततूलराशिभिर्धवलीकृतशिखरशाखः, वनगजकपोलकण्डूयनलग्नमदनिलीनमत्तमधुकरमालेन लोहश्रृङ्खलाबन्धननिश्चलेनेव कल्पस्थायिना मूलेन समुपेतः, कोटराभ्यन्तरनिविष्टैः स्फुरद्भिः सजीव इव मधुकरपटलैः, दुर्योधन इवोपलक्षितशकुनिपक्ष - *********** शाखालताः समाः' इत्यमरः । प्रलय इति । प्रलयकाले संहारसमये ताण्डवे नृत्ये प्रसारितमूर्चीकृतं भुजसहसं बाहुसहसं येन स तथा तम् । अथ चोडुपतिश्चन्द्रः शेखरे यस्यैवंविधं महादेवं विडम्बयितुमुद्यत इव कृतप्रयत्न इव बहुशाखावत्त्वेनात्युच्चत्वेन शशिनोऽपि तच्छिरोवर्तित्वेन च तद्विडम्बकत्वमिति भावः । पुराणेति । पुराणतया जीर्णतया पतनभयादिव प्रपातशङ्कयेव वायुः स्कन्धे लग्नो यस्यैवंभूत इव । अनेन शाखासु महावायुप्रवेगेण प्रकम्पः सूचितः । तिरस्कर्तुं च वायोः स्कन्धे लग्न इत्यपि केचिद् व्याख्यानयन्ति । निखिलेति । व्रततिभिलताभिः । 'वल्ली तु व्रततिलता' इति कोशः । परिगतः परिवेष्टितः । अथ व्रततीविशेषयन्नाह - निखिलेति । निखिलं समग्रं यच्छरीरं तद् व्याप्तुं शीलं यासां ताभिः । अतीति । अतिदूरमतिविप्रकृष्टमुन्नताभिः । काभिरिव । जीर्णतया वार्धक्येन शिराभिरिवास्थिबन्धनैरिव । जरेति । कण्टकैराचिता व्याप्ता तनुर्यस्य स तथा । कैरिव । जराया विससाया ये तिलकबिन्दवस्तैरिव । अतिवार्धक्ये शरीरे कृष्णबिन्दवो जायन्त इति लोकप्रसिद्धिः । जलेति । जलधरपटलैर्मेघसमूहैरप्यदृष्टमनवलोकितं शिखरं प्रान्तप्रदेशो यस्य स तथा । मेघपटलं विशेषयन्नाह-इत इति । इतस्ततः समन्तात्परिपीतं सागरसलिलं समुद्रपानीयं यैस्ते तथा तैः । अथ च गगनागतैः । कैरिव । शाखान्तरेषु शालान्तरेषु निलीयमानैर्गुप्ततया तिष्ठद्धिः पत्ररथैरिव पक्षिभिरिव । क्षणमिति । क्षणं क्षणमात्र यावदम्बुभारालसैर्जलभारेण मन्दगामिभिः । आर्टीति । आर्टीकृता जलेन स्विन्नाः पल्लवा यैस्ते तथा तैः । तुङ्गेति । तुङ्गतयोच्चतया नन्दनवनमिन्द्रोद्यानं तस्य या श्रीस्तामिव अवलोकयितुं द्रष्टुं अभ्युद्यत उद्यतः । स्वसमीपेति । धवलीकृताः शुभ्रीकृताः शिखरस्याग्रस्य शाखा यस्य स तथा । कैः । फेनपटलैः कफसमूहैः । कीदृशैः । संदेहितः संदेहविषयीकृतस्तुलराशिराबीजकासकपिण्डो यैस्ते तथा तैः । स्वेति । स्वस्य समीपवर्तिनां निजनिकटवर्तिनामुपर्युर्वं संचरतां गच्छताम् । अथ च गगनतलमाकाशतलं तत्र यद् गमनं संचरणं तेन यः खेदः प्रयासस्तेनायासितानां खिन्नानां रविरथतुरङ्गमाणां सूर्यरथाचानां सृक्कमोष्टप्रान्तस्ततः परिसुतैः पतितैः फेनपटलैः । वनेति । वनगजा अरण्यकरिणस्तेषां कपोलयोः कण्डूयेन खर्जूयनेन लग्नो यो मदो दानं तत्र निलीना लग्ना ये मत्ता मधुकरा भ्रमरास्तेषां माला यस्यैवंभूतेन । 'गोस्त्रियोरुपसर्जनस्य' इति हूस्वः । अतो नैल्यसाम्याल्लोहस्य या श्रृङ्खलान्दुकस्तेन बन्धन नियन्त्रणं तेन निश्चलेनेव स्थिरेणेवात एव कल्पस्थायिना कल्पान्तं तिष्ठता । एतेन स्वस्यातिवृद्धत्वेन शैथिल्यनिवृत्त्यै भ्रमरवेष्टनस्य कटिबन्धनत्वं प्रदर्शितमिति भावः । एतादृशेन मूलेन बुध्नेन समुपेतः संयुक्तः । कोटरेति । कोटरो निष्कुहस्तस्याभ्यन्तरं मध्यभागस्तत्र निविष्टैः प्रविष्टैः स्फुरद्भिर्दीप्यमानैर्मधुकरपटलैर्धमरसमूहैः सजीव इव वासादिप्राणयुक्त इव । भ्रमराणामन्तश्चारित्वेन तदुपमानम् । दुर्योधनेति । दुर्योधनो गान्धारीतनयस्तद्वदिव । उभयोः सादृश्यमाह - उपेति । उपलक्षितोदृग्विषयी - पाठा० - १ उडुपतिशकलशेखर. २ पवन, गगन. ३ निजकण्टकैः. ४ जलैः ५ शाखान्तदेशेषु. ६ शिखरदेशः. ७ उत्तुङ्गतया. ८ आलोकयितुम्. ९ समीप. १० अम्बरतल. ११ मदसलिल. १२ बन्ध. १३ पतद्भिः. शाल्मलीतरुः पूर्वभागः । Page #65 -------------------------------------------------------------------------- ________________ पातः, नलिननाभ इव वनमालोपगूढः नवजलधरव्यूह इव नभसि देशितोत्रतिः, अखिलभुवनतलावलोकनप्रासाद इव वनदेवतानाम्, अधिपतिरिव दण्डकारण्यस्य, नायक इव सर्ववनस्पतीनाम्, सखेव विन्ध्यस्य, शाखाबाहुभिरूंपगुह्येव विन्ध्याटवी स्थितो महाञ्जीर्णः शाल्मकी । तत्र च शाखाग्रेषु कोटरोदरेषु पल्लवान्तरेषु स्कन्धसंघिषु जीर्णवल्कविवरेषु महावकाशतया विसब्धविरचितकुलायसहसाणि दुरारोहतया विगंतभयानि नानादेशसमागतानि शुकशकुनिकुलानि प्रतिवसन्ति स्म । यैः परिणामविरलँदलसंहतिरपि स वनस्पतिरविरलदलनिचयश्यामल इवोपलक्ष्यते दिवानिश निलीनैः । ते च तस्मिन्नतिवाह्यातिवाह्य निशामात्मनी - *********** कृतः शकुनीनां पक्षिणां छदानां पातो यस्मिन्स तथा । पक्षे शकुनौ मातुले पक्षपातोऽङ्गीकारो यस्येति विग्रहः । नलिनेति । नलिननाभः कृष्णस्तद्वदिव । उभयोः सादृश्यमाह-वनेति । वनमालया वनश्रेण्योपगूढ आच्छादितः । पक्षे वनमाला भूषणविशेषस्तेनोपगूढ आलिङ्गितः । नवेति । नवा नूतना ये जलधरा मेघास्तेषां व्यूहः समूहस्तद्वदिव । उभयोः साम्यमाह-नभसीति । नभस्याकाशे दर्शितोन्नतिर्येन स तथा । उभयोः साम्यत्वादभङ्गश्लेषः । अखिलेति । अखिलानि समग्राणि यानि भुवनतलानि तेषामवलोकन निरीक्षणं तदर्थं प्रासादो देवगृहं स इव । कासाम् । वनदेवतानामरण्याधिष्ठात्रीणां सुरीणाम् । दण्डक इति । दण्डकनाम्नोऽरण्यस्य वनस्याधिपतिरिव स्वामीव । नायकेति । नायक इवाध्यक्ष इव । कासाम् । सर्वेति । पुष्पं विना फलं येषां ते वनस्पतयस्तेषां सर्वेषाम् । सखेति । सखेव मित्रमिव । कस्येत्यपेक्षायामाह - विन्ध्यस्येति । विन्ध्यस्य जलबालकस्य । शाखेति । शाखा एव बाहवो भुजास्तैः विन्ध्याटवीं विन्ध्यभूमिमुपगुह्येवालिङ्ग्येव स्थित आश्रितः । तत्र चेति । तस्मिन्वृक्षे शुकाः कीराः शकुनयोऽन्ये पतत्त्रिणस्तेषां कुलानि संतानानि प्रतिवसन्ति स्मेत्यन्वयः । अथ निवासस्थानान्याह - शाखाग्रेष्विति । शाखानां शालानामग्राणि प्रान्ताः तेषु कोटराणां निष्कुहाणामुदरेषु मध्येषु पल्लवाः किसलयानि तेषामन्तरेषु मध्येषु स्कन्धः प्रकाण्डस्तस्य ये संधयो बन्धास्तेषु जीर्णानि पुरातनानि यानि वल्कानि चोचानि तेषां विवराणि छिद्राणि तेषु । अथ शकुनिकुलानि विशेषयन्नाह - महेति । महान्महीयोऽवकाशोऽन्तर्विस्तारस्तस्य भावस्तत्ता तया विसब्धं निःशङ्ख विरचितानि निर्मितानि कुलायसहसाणि यैस्तानि । दुरेति । दुःखेनारोहो दुरारोहस्तस्य भावस्तत्ता तया विगतं भयं येभ्यस्तानि । नानेति । नानादेशेभ्यो भिन्नभित्रप्रदेशेभ्यः समागतान्येकीभूतानि । यैरेति । यैः शकुनिकुलैर्दिवानिशमहर्निशं निलीनैः स्थितैः परिणामेन वार्धक्येन विरलानि तुच्छानि दलानि पत्राणि तेषां संहतिः समूहो यस्मिनेवंविधोऽपि स वनस्पतिरविरलानि निबिडानि यानि दलानि पत्राणि तेषां निचयः संदोहस्तेन श्यामल इव कृष्ण इवोपलक्ष्यते दृश्यते । ते चेति । अग्रे विचरन्ति स्मेत्यग्रेतनेनान्वयः । तस्मिशाल्मलीवृक्ष आत्मनीडेषु स्वस्वकुलायेषु निशां रात्रिमतिवाह्यातिवाह्यातिक्रम्य प्रतिदिनं प्रत्यहमुत्थाय । वीप्सया भूया - - - - - - - - - - - - - - - - - - टिप्प०.1 साम्यादित्याशयः । 2 संताना इति तात्पर्यम् । - - - - - - - - - - - पाठा० - १ पद्मनाभ. २ कृतोत्रतिः. ३ विन्ध्याचलस्य. ४ उपगृह्य; अवगुह्य. ५ अवस्थितः. ६ शाल्मलीवृक्षः. ७ वल्कल. ८ विवरेषु च. ९ विगलितविनाशभयानि, विगतविनाशभयानि. १० संततिः. ११ श्यामः. १२ तस्मिन्वनस्पती. १३ अतिबाह्य. १४ रजनीम्. १५ आत्मनो नीडेषु. IN (52 कादम्बरी। कथामुखे Page #66 -------------------------------------------------------------------------- ________________ डेषु प्रतिदिनमुत्थायोत्थायाहारान्वेषणाय नभसि विरचितपङ्क्तयः, मदकलबलभद्रहलमुखाक्षेपविकीर्णबहुसोतसमम्बरतले कलिन्दकन्यामिव दर्शयन्तः, सुरगजोन्मूलितविगलदाकाशगङ्गाकमलिनीशङ्कामुत्पादयन्तः, दिवसकररथतुरगप्रेभानुलिप्तमिव गगनतलं प्रदर्शयन्तः, संचारिणीमिव मरकतस्थली विडम्बयन्तः, शैवलपल्लवावलीमिवाम्बरसरसि प्रसारयन्तः, गगनावततैः पक्षपुटैः कदलीदलैरिव दिनकरखरकरनिकरपरिखेदितान्याशामुखानि वीजयन्तः, वियति विसारिणी शष्पवीथीमिवारचयन्तः, सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति स्म । कृताहाराश्च पुनः प्रतिनिवृत्त्यात्मकुलायावस्थितेभ्यः शावकेभ्यो विविधान्फलरसान्कलममन्जरीविकारांश्च प्रहतहरिणरुधिरा रक्तशार्दूलनखकोटिपाटलेन चञ्चुपुटेन दत्त्वा दत्त्वाधरीकृत - *********** कालो द्योत्यते । आहारस्य भक्षणस्यान्वेषणं विलोकनं तस्मै नभस्याकाशे विरचिता विहिता पङ्क्तिः श्रेणी यैस्ते । मदेति । मदेन कलो मनोज्ञो यो बलभद्रो हली तस्य यद्धलं सीरं तस्य यन्मुखमग्रप्रदेशस्तेन य आक्षेप आकर्षणं तेन विकीर्णानि पर्यस्तानि बहूनि सोतासि यस्य एवंभूतामम्बरतलं आकाशतले कलिन्दकन्यामिव यमुनामिव दर्शयन्त आलोकनीयतां प्रापयन्तः । सुरेति । सुराणां देवानां गजो हस्ती तेनोन्मूलितोत्पाटिता विगलन्त्यधःपतन्ती याऽऽकाशगङ्गा स्वधुनी तस्यां कमलिनी नलिनी तस्याः शङ्का भ्रान्तिमुत्पादयन्तः परेषां जनयन्तः । दिवसेति । दिवसकरः सूर्यस्तस्य यो रथः स्यन्दनस्तस्य ये तुरगा अवास्तेषां या प्रभा सैवं नीला । हरितहयरथवत्त्वात्सूर्यस्य । तयानुलिप्तमिव लेपनविषयीकृतमिव गगनतलं नभस्तलं प्रदर्शयन्तो ज्ञापयन्तः । संचारिणीति । संचारिणी भ्रमणशीला मरकतस्याश्मगर्भस्य या स्थली तामिवविडम्बयन्तस्तिरस्कुर्वन्तः । शैवल इति । शैवलस्य शैवालस्य या पल्लवावली किसलयश्रेणी तामिवाम्बरसरसि व्योमतटाके प्रसारयन्तो विस्तारयन्तः । पुनः किं कुर्वन्तः । गगनेति । गगनेऽवततैर्विस्तृतैः पक्षपुटैः पक्षच्छदैः कदलीना रम्भाणां दलैरिव । नीलत्वसाम्यात्तदुपमानम् । दिनकरस्य सूर्यस्य खरास्तीक्ष्णा ये कराः किरणास्तेषां निकरः समूहस्तेन परिखेदितानि संक्लामितानि यान्याशामुखानि दिग्वदनानि वीजयन्तो व्यजनवातकर्म कुर्वन्तः । पुनः किं कुर्वन्तः । वियतीति । वियत्याकाशे विसारिणी विस्तारिणी शष्पवीथीं बालतृणोपयुक्तपद्धतिमिवारचयन्तो विरचयन्तः । सेन्द्रायुधमिति । इन्द्रायुधं शक्रधनुस्तेन सह वर्तमानमिवान्तरिक्ष गगनमादधानाः कुर्वाणाः । अन्वयस्तु प्रागेवोक्तः । कृतेति । कृतो विहित आहारो भोजनं यैस्ते क्षपास्त्रियामाः क्षपयन्ति स्मेत्यनेनान्वयः । 'क्षिप प्रेरणे' णिजन्तस्य रूपम् । किं कृत्वा । पुनरिति । स्वतृप्त्यनन्तरं प्रतिनिवृत्त्य परावृत्त्य । आत्मेति । आत्मीयाः स्वकीया ये कुलाया नीडानि तत्रावस्थितेभ्य उषितेभ्यः शावकेभ्यः पोतेभ्यो विविधान्नानाप्रकारान्फलरसान्सस्यनिर्यासान् । कलमेति । कलमः कैलामकस्तस्य मञ्जर्यो वल्लयस्तासां विकाराः परिपाकविशेषेण परिणताः कणास्तांस्तथापत्येषु संतानेषु यत्प्रेम स्नेहस्तेन । कीदृशेन । अधरीति । अधरीकृतो न्यूनत्वमापादितः सर्ववस्तुसंबन्धी स्नेहो येन स तथा तेन । - - - - - - - - - - - - - - टिप्प० - 1 आकाशे उड्डीयमानान् शुकशकुनीन् दृष्टवा सुरगजेन उन्मूलितायाः कमलिन्या हरितानां पत्राणां शङ्का भवतीत्याशयः । भ्रान्तिमानलंकारः । 2 सूर्यरथावानां या (हरिता) प्रभा तया विच्छुरितमिव गगनं दर्शयन्त इत्याशयः (वस्तूोक्षा)। 3 तण्डुलानां या मञ्जयः कणिशाः, 'बाल' इति ख्याताः । - - - - -- पाठा० -१ हलघर. २ मुखोत्क्षेप. ३ विप्रकीर्ण. ४ उपजनयन्तः. ५ अनुलिप्तगगनतलम्. ६ उपपादयन्तः. ७ गगनविततैः. ८ दिनकरकर. ९ परिखेदिताशामुखानि. १० परिवीजयन्तः. ११ विस्तारिणीम्. १२ स्म शुकशकुनयः. १३ फलविकाराम. १४ प्रसक्त. (शुकानां निवासादि पूर्वभागः । 53 Page #67 -------------------------------------------------------------------------- ________________ सर्वस्नेहेनासाधारणेन गुरुणापत्यप्रेम्णा तस्मिन्नेव क्रोडान्तर्निहिततनयाः क्षेपाः क्षपयन्ति स्म । एकस्मिंश्च जीर्णकोटरे जायया सह निवसतः पश्चिमे वयसि वर्तमानस्य कथमपि पितुरहमको विधिवशात्सूनुरभवम् । अतिबलया चाभिभूता ममैव जायमानस्य प्रसववेदनया जननी मे परैलोकमगमत् । अभिमतजायाविनाशशोकँदुःखितोऽपि खलु तातः सुतस्नेहादभ्यन्तरे निरुध्य पटुप्रसरमपि शोकमेकाकी मत्संवर्धनपर एवाभवत् । अतिपरिणतवयाश्च कुशचीरानुकारिणीमल्पावशिष्टजीर्णपिच्छजालजर्जरामवसस्तांसदेशशिथिलामपगतोत्पतनसंस्कारां पक्षसंततिमुदहन, उपारूढकम्पतया संतापकारिणीमङ्गलग्नां जरामिव विधुन्चनकठोरशेफालिकाकुसुमनालपिञ्जरेण कलममञ्जरीदलनमसृणितक्षीणोपान्त्यलेखेन स्फुटिताग्रकोटि - *********** पुनः कीदृशेन । असाधारणेन तन्मात्रवृत्तिना गुरुणा परावृत्तेने तथा प्रहतो व्यापादितो यो हरिणो मृगस्तस्य रुधिरं रक्तं तेनानुरक्तारुणीकृता या शार्दूलस्य सिंहस्य नखकोटिर्नखराग्रं तद्वत्पाटलेन घेतरक्तेन चञ्चुपुटेन त्रोटीसंपुटेन दत्त्वा दत्त्वा । वारंवारं तेभ्यो भक्ष्यदान वितीर्येत्यर्थः । ततो दिवसकार्यानन्तरम् । तस्मिनिति । तस्मिन्वृक्षकुहरे क्रोड उत्सङ्गस्तदन्तर्निहितास्तन्मध्यस्थापितास्तनया अपत्यानि यैस्ते तथा । अन्वयस्तु पूर्वमुक्तः ।। एकस्मिंश्चेति । एकस्मिञ्जीर्णकोटरे चिरकालीननिष्कुहे जायया पन्या सह निवसत आसेदुषः पश्चिमे प्रान्त्ये वयसि दशायां वर्तमानस्य स्थितवतः कथमपि महता कष्टेन पितुर्जनकस्य विधिवशादैववशात् । अहमित्यात्मनिर्देशः । एको नापरः सूनुः सुतोऽभवमजनिषम् । अतिप्रबलेति । मम जायमानस्यैवोत्पद्यमानस्यैव अतिप्रबलया अत्यन्तया प्रसववेदनया प्रसूतिव्यथयाभिभूता पीडिता सती मे मम जननी परलोकं भवान्तरमगमदयासीत् । अभिमतेति । अभिमताया अभीष्टाया जायाया विनाशेन मरणेन रोदनादिरूपः शोकस्तेन दुःखितोऽपि । अपिः स्नेहदायंसूचकः । खलु निश्चितम् । तातः पिता, स्पष्टः प्रसरो विस्तारो यस्यैवंभूतमपि शोकं दुःखं मम सुतस्य पुत्रस्य स्नेहादभ्यन्तर एव मध्य एव निरुध्यावरुध्यैकाकी पत्नीवियुक्तो ममैव यत्संवर्धनं वृद्धिस्तस्यामेव परः तत्परोऽभवत् । अतीति । अतिपरिणतमत्यन्तं पक्वं वयो यस्य स तथा । अतिजरीयानित्यर्थः । किं कुर्वन् । एतादृशी पक्षसंततिं वाजसमूहमुदहन्दधत् । इतः पक्षसंतति विशेषयन्नाह - कुशेति । कुशो दर्भश्चीरं जीर्णवस्त्रखण्डं तदनुकरोति तत्सादृश्यं भजति या सा ताम् । वार्धक्यवशादल्पानि स्तोकान्यवशिष्टान्युर्वरितानि जीर्णानि पुरातनानि पिच्छानि बर्हाणि तेषां जालं तेन जर्जरा विशीर्णाम् । अवेति । अवसस्तो गलितोऽसशो यस्याः सा ताम् । अथवा स्कन्धदेशादवसस्तांसदेशा तामत एव शिथिला श्लथामदृढावयवसंयोगाम् । अपेति । अपगतो दूरीभूत उत्पतने वियद्गमने संस्कारः शक्तिविशेषो यस्यां सा ता ताम् । उपेति । उपारूढः प्राप्तो यः कम्पश्चलनं तस्य भावस्तत्ता तया । चः समुच्चये । संतापकारिणीं दुःखदायिनीमङ्गलग्नां जरां वृद्धावस्थामिव विधुन्चन्परित्यजन्निवाकठोरं यच्छेफालिका निर्गुण्डी तस्याः कुसुमं पुष्पं तस्य यत्रालं तद्वत्पिञ्जरेण । कलमेति । कलमस्य या मञ्जरी तस्या - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 गुरुणा महता अपत्यप्रेम्णा संतानस्नेहेनेत्याशयः । 2 अन्तिमे इत्यर्थः । 3 अजनिषीत्याशयः । 4 वृद्धावस्थया यः शरीरकम्पो भवति तत्रोप्रेक्षाअङ्गलग्नां जरामिव विधुन्चन् कम्पयन् इति । जरा संतापकारिणी, अत एव शरीरं कम्पयित्वा तां निपातयितुमिच्छतीत्याशयः । पाठा०.१ स्वस्मिन्नेव. २ सुखं क्षपाः. ३ तत्र निवसतः. ४ अहमेवैकः. ५ प्रबलतया. ६ लोकान्तरम्. ७ अगच्छत्. ८ दुःखदुःखितः. ९ अन्तर्निगृह्य. १० शोकवेगम्. ११ अतिपरिणततया च. १२ जर्जरीम्. १३ देशाम्. १४ सहतिम्. १५ कम्पतया च. १६ कुसुमपिञ्जरेण. १७ क्षीर. १८ उपान्त. कादम्बरी । कथामुखे-) Page #68 -------------------------------------------------------------------------- ________________ ना चञ्चुपुटेन परनीडेपतिताभ्यः शालिवल्लरीभ्यस्तण्डुलकणानादायादाय वृक्षमूलनिपतितानि च शुककुलावदलितानि फलशकलानि समाहृत्य परिभ्रामितुमशक्तो मैह्यमदात् । प्रतिदिवसमात्मना च मैदुपभुक्तशेषमकरोदशनम् । एकदा तु प्रभातसंध्यारागलोहिते गगनतले, कमलिनीमधुरक्तपक्षपुटे वृद्धहंस इव मन्दाकिनीपुलिनादपरजलनिधितटमवतरति चन्द्रमसि, परिणतरङ्कुरोमपाण्डुनि व्रजति विशालतामाशाचक्रवाले, गजरुधिररक्तहरिसटालोमलोहिनीभिः प्रतप्तलाक्षिकतन्तुपाटलाभिरायामिनीभिरंशिशिरकिरणदीधितिभिः पद्मरागशैलाकासंमार्जनीभिरिव समुत्सार्यमाणे गगनकुट्टिम - *********** दलनं विदारणं तेन मसृणिता संजातचिक्कणता त एव क्षीणा घृष्टोपान्त्यलेखा प्रान्तसमीपवर्तिनी राजिर्यस्यैवंभूतेन चञ्चुपुटेन त्रोटीसंपुटेन श्रमवशात्स्फुटिता स्फोट प्राप्ता अग्रकोटिरग्रिमतीक्ष्णतरभागो यस्य स तेन । परेति । अशक्तिवशात्परेषां नीडानि तेभ्यः पतिताः संस्ता याः शालिवल्लर्यस्ताभ्यस्तण्डुलकणानादायादाय गृहीत्वा गृहीत्वा । वृक्षेति । वृक्षमूलनिपतितानि शुकानां कुलानि तैरवदलितानि खण्डितानि फलशकलानि तानि समाहृत्य एकीकृत्य परिभ्रमितुमशक्तो दूरे परिभ्रमणाशक्तो मह्यमदाद्ददौ । धुसंज्ञकदाधातोर्लुङि रूपम् । एवं प्रतिदिवसं प्रत्यहमनेन प्रकारेणानीतं भक्ष्यं मह्यं दत्त्वा मयोपभुक्तं ततः शेषमुद्धरितमात्मनाशनमकरोत् । ध्यप्रत्ययानुशासनवशाच्चतुर्थ्यर्थे तृतीया । एकदा त्विति । एकदैकस्मिन्समये कोलाहलम श्रृणवमिति दूरेणान्वयः । प्रभेति । प्रभातस्य प्रातः कालस्य या संध्या तत्संबन्धी यो रागस्तेन लोहिते रक्ते । गगनेति । गगनतलमेव कर्मलिनी वियद्गङ्गा, कमलिनी वा । तस्या मधु रसस्तेनानुरक्तं पक्षपुटं छदसंपुट यस्य तस्मिन्वृद्धहंस इव जरत्कलहंस इव मन्दाकिनी गङ्गा तस्याः पुलिनं सैकतं तस्माच्चन्द्रमसि निशानाथेऽपरो यो जलनिधिः पश्चिमसमुद्रस्तस्य तटं तीरं प्रत्यवतरत्युत्तीर्णे सति । परीति । परिणतः पक्वो यो रङ्कुर्मृगविशेषस्तस्य रोमाणि तनूरुहाणि तद्वत्पाण्डुनि शुभ्रे विशालतां विस्तीर्णतामाशाचक्रवाले दिक्समूहे व्रजति गच्छति सति । गजेति । गजानां - हस्तिनां यद्रुधिरं तेन रक्ताः शोणिता या हरिसटाः सिंहस्कन्धकेसरास्तत्संबन्धि यल्लोम तद्वत् लोहिनीभिः आरक्ताभिः प्रतप्ता ये लाक्षिका जतुविकारोद्भवास्तन्तवस्तद्वत्पाटलाभिः श्वेतरक्ताभिरायामिनीभिर्विस्तारवतीभिरशिशिरा उष्णाः किरणा यस्यैवंभूतः सूर्यस्तस्य दीधितिभिर्दीप्तिभिः । काभिरिव । पद्मरागा लोहितकमणयस्तेषां शलाका इषीकास्तासां संमार्जनीभिरिव बहुकरीभिरिव समुत्सार्यमाणे दूरीक्रियमाणे गगनमेव कुट्टिमं बहिर्द्वारं तत्र य कुसुमप्रकरः पुष्पसमूहस्तस्मिन्निव तारागणे नक्षत्रसमूहे । उत्तरेति । उत्तराशोदीची दिक्तामवलम्बत इत्येवंशीलः स तथा तस्मिन्सप्तर्षिमण्डले सप्तर्षिसमुदाये मानससरस्तीरं प्रति संध्यामुपासितुमिव सायंतनविधिं कर्तुमिवावतरति सति । अत्र रूपकम् । अत्र सतीति प्रत्येकमन्वये योजनीयम् । पुनः टिप्प० - 1 गगने प्रभातसन्ध्यालोहिते सतीति पृथगन्वयः । कमलिन्या अरुणवर्णेन मकरन्दरसेन रक्तपक्षसंपुटो वृद्धहंसो यथा मन्दाकिनी (वियद्गङ्गा) पुलिनात् अपरजलनिधितटमवतीर्णो भवेत्तथा प्रभातसन्ध्यालोहिते चन्द्रमसि अपरजलधितटमवतरति सतीति योजना । पदव्याख्या उपरि दृश्या । उपमालंकारः । 2 कुट्टिमं निबद्धा भूः, भूमितलमित्यर्थः । पाठा० - १ निपतिताभ्यः. २ तरु. ३ मह्यमाहारमदात्. ४ मदुपयुक्तम्. ५ गगनतलगगने च; गगनकमलिनी. ६ मध्यनुरक्त. ७ पक्षसंपुटे. ८ आतप्तलाक्षिक; संतप्तलाक्ष; अनन्तलाक्षा ९ आगामिनीभिः १० रत्नशलाका. ११ संमार्जिनीभिः. (शुकोत्पत्तिः पूर्वभागः । 55 Page #69 -------------------------------------------------------------------------- ________________ कुसुमप्रकरे तारागणे, संध्यामुपासितुमुत्तराशावलम्बिनि मानससरस्तीरमिवोवतरति सप्तर्षिमण्डले, तटगतविघट्टितशुक्तिसंपुटविप्रकीर्णमरुणकरप्रेरणाधोगलितमुडुगणमिव मुक्ताफलनिकरमुबहति धवलितपुर्लिंतदन्वति पूर्वेतरे, तुषारबिन्दुवर्षिणि विबुद्धशिखिकुले विजृम्भमाणकेसरिणि करिणी कदम्बकप्रबोध्यमानसमदकरिणि क्षपाजलजडकेसरं कुसुमनिकरमुदयगिरिशिखरस्थितं सवितारमिवोद्दिश्य पल्लवाञ्जलिभिः समुत्सृजति कानने, रासभरोमधूसरासु वनदेवताप्रसादानां तरूणां शिखरेषु पारावतमालायमानासु धर्मपताकास्विव समुन्मिषन्तीषु तपोवनाग्निहोत्रधूमलेखासु, अवश्यायसीकरिणि लुलितकमलवने रतखिन्नशबरसीमन्तिनीस्वे - *********** कस्मिन्सति । तटेति । तटगतानि तीरप्राप्तानि विघट्टितानि स्फुटितानि यानि शुक्तिसंपुटान्यब्यिमण्डूकीपुटानि तेभ्यो विप्रकीर्णं पर्यस्तम् । कीदृशमिव । अरुणस्य सूर्यस्य ये कराः किरणास्तेषां प्रेरणा नोदना तस्मादधो गलितमधः पतितं उडुगणमिव । धवलितं शुभ्रीकृतं पुलिनं जलोज्ाितं तटं येनैवंभूतं मुक्ताफलानां निकरं समूहमुदहति धारयत्युदन्चति समुद्रे सति । पूर्व इतरो यस्मादिति बहुव्रीहिः । तस्मान्न सर्वादित्वम् । पश्चिमसमुद्रे सतीत्यर्थः । यद्वा पूर्वस्मानीचः पूर्वेतरः । 'इत्यरस्त्वन्यनीचयोः' इत्यमरः । तस्मिन् । अतो नीचार्थवाचित्वान्न सर्वादित्वम् । पुनः कस्मिन्सति । कानने सति । अथ काननं विशेषयन्नाह - तुषारेति । तुषारस्य तुहिनस्य बिन्दूनां पृषतां वर्षो यस्मिस्तत्तथा तस्मिन् । विबुद्धेति । विबुद्धं शिखिकुलं मयूरकुलं यस्मिंस्तत्तथा विजृम्भमाणा जृम्भायुक्ताः केसरिणः सिंहा यस्मिंस्तत्तथा । करिणीति । करिणीनां हस्तिनीनां कदम्बकं समूहस्तेन प्रबोध्यमाना जागरावस्थां प्राप्यमाणाः समदा मदेन सह वर्तमानाः करिणो हस्तिनो यस्मिन् । क्षपेति । क्षपाजलेन रात्रिसंबन्धितुषारेण जडानि स्तम्भितानि केसराणि किञ्जल्कानि यस्यैतादृशं कुसुमनिकरं पुष्पसमूहम् । उदयेति । उदयगिरिरुदयाद्रिस्तस्य शिखरं श्रृङ्गं तत्र स्थितं सवितारं श्रीसूर्यमिवोद्दिश्याश्रित्य । पल्लवेति । पल्लवा एव किसलयान्येवाञ्जलयस्तैः समुत्सृजति प्रयच्छति सति । पुनः कासु सत्सु । रासभेति । रासभस्य बालेयस्य रोमाणि तनूरुहाणि तद्वद्धूसरासु धूम्रवर्णासु । वनेति । वनदेवताः काननाधिष्ठात्र्यस्तासां प्रसादाश्चैत्यानि तेषां तरूणां च शिखरेषु प्रान्तेषु पारावतानां कपोतानां माला श्रेणिस्तद्वदाचन्तीति ण्यन्तत्वाच्छानच् । तासु । धर्मेति । धर्मे यज्ञादौ पताका वैजयन्त्यस्तास्विव समुन्मिषन्तीषु समुत्सर्पन्तीषु । तप इति । तपोधने यदग्निहोत्रमग्न्याधानं तस्य धूमलेखा धूमस्तोमपङ्क्तयस्तासु । पुनः कस्मिन्सति । प्राभातिकेति । प्राभातिके प्रत्यूषसंबन्धिनि मातरिश्वनि वायौ । 'मातरिश्वा जगत्प्राण पृषदश्वो महाबलः' इति कोशः । प्रवाति प्रवहमाने सति । कीदृशे । अवेति । अवश्यायो हिमं तस्य सीकरा यस्मिन् । 'वातास्तं वारि सीकरः इति कोशः । वायुं विशेषयन्नाह-लुलितेति । लुलितं कम्पितं कमलाना नलिनानां वनं खण्डं येन स तस्मिन् । रतेति । रतं मैथुनं तत्र खिन्नाः खेदं प्राप्ता याः शबरसीमन्तिन्यो भिल्लवध्वस्तासां यत्स्वेदजलं प्रस्वेदवारि तस्य कणा बिन्दवस्तेषामपहारिणि हरणशीले । टिप्प० - 1 वनदेवतानां कृते ये प्रसादाः (इव) विहारहाणि तेषां तपोवनतरूणां शिखरेषु पारावतमालायमानासु (राजप्रसादानामुपरि पोता विश्राम्यन्तीति प्रसिद्धम् । एवमेव वनदेवताप्रासादेषु वृक्षेषु अग्निहोत्रधूमलेखास्तथा प्रतीयन्ते यथा कपोतमाला एव स्थिताः स्युरित्याशयः, (क्यङ्गता लुप्तोपमा)) धर्मपताकास्विव रासभरोमधूसरासु तपोवनाग्निधूमलेखासु समुन्मिषन्तीषु सतीष्विति योजना । - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० . १ मानससरसः. २ अम्बराववतरति. ३ विघटित. ४ पुलिनतटम्; पुलिनतलम्. ५ मानमवकरिणि स्पष्टे च जाते प्रभाते. ६ स्थित. ७ उत्सृजति. ८ धूसरासु वनराजिषु. ९ पताकासु. १० रति. ११ स्विन्न. (56 कादम्बरी । । कथामुखे Page #70 -------------------------------------------------------------------------- ________________ दजलंकणापहारिणि वनमहिषरोमन्थफेनबिन्दुवाहिनि चलितपल्लवलतालास्योपदेशव्यसनिनि विघटमानकमलखण्डमधुसीकरासारवर्षिणि कुसुमामोदतर्पितालिजाले निशावसानजातजडिम्नि मन्दमन्दसंचारिणि प्रवाति प्राभातिके मातरिश्वनि, कमलवनप्रबोधमङ्गलपाठकानामिभगण्डडिण्डिमानां मधुलिहां कुमुदोदरेषु घटमानदलपुटनिरुद्धपक्षसंहतीनामुच्चरत्सु हुंकारेषु प्रभातशिशिरवाय्याहँतमुत्तप्तजतुरसाश्लिष्टपक्ष्ममालमिव सशेषनिद्राजिातारं चक्षुरुन्मीलयत्सु शनैःशनैरूषरशय्याधूसरक्रोडरोमराजिषु वनमृगेषु, इतस्ततः संचरत्सु वनचरेषु, विजृम्भमाणे श्रोत्रहारिणि पम्पासरः कलहंसकोलाहले, समुल्लसति नर्तितशिर्खण्डिनि मनोहरे - *********** वनेति । वनमहिषाः सैरिभास्तेषां रोमन्थश्चर्वितचर्वणं तस्य फेनः कफस्तस्य बिन्दवः पृषन्ति तान्वहतीत्येवंशीलः स तस्मिन् । चलितेति । चलिताः कम्पिताः पल्लवाः किसलयानि यासामेवंविधा या लता वल्लय स्तासां लास्यं नृत्यं तस्योपदेशः शिक्षणं तस्य व्यसनं विद्यते यस्य स तस्मिन् । विघटेति । विघटमानानि विकाशं प्राप्यमाणानि यानि कमलखण्डानि नलिनवनानि तेषां मधु रसस्तस्य सीकरा वाताक्षिप्तकणास्तेषामासारो वेगवान्वर्षो विद्यते यस्मिन्स तथा तस्मिन् । कुसुमामोदेति । कुसुमानामामोदः परागस्तेन तर्पितं प्रीणितमलिजालं भ्रमरसमूहो येन स तस्मिन् । निशेति । निशाया रात्रेर्यदवसानं प्रान्तस्तेन जाता जडिमा जडत्वं यस्मिन्स तथा तस्मिन् । अत एव मन्दं मन्दं संचरत इत्येवंशीलः स तथा तस्मिन् । पुनः केषु । कुमुदोदरेषु कैरवान्तरेषु मधुलिहां हुंकारेष्वव्यक्तशब्देषूच्चरत्सु सत्सु । इतो मधुलिहो विशेषयन्नाह - कमलेति । कमलवनानां प्रबोधपाठका मङ्गलपाठकास्तेषाम् । तथेभगण्ड एव हस्तिकरट एव डिण्डिमः पटहो येषां ते तथा तेषां मधुलिहां भ्रमराणां विघटमानानि संकोचं प्राप्यमाणानि यानि दलानि पत्राणि तेषां पुटानि कोशानि तेषु निरुद्धावरुद्धा पक्षसंहतिश्छदसमूहो येषां ते तथा तेषाम् । पुनः केषु सत्सु । वनमृगेति । वनमृगेष्वरण्यहरिणेषु शनैः शनैश्चक्षुर्नेत्रमुन्मीलयत्सु विकासयत्सु । अथ चक्षुर्विशेषयन्नाह - प्रभातेति । प्रभातं प्रत्यूषस्तस्य यः शिशिरः शीलो वायुः समीरस्तेनाहतं पीडितम् । उत्तप्तेति । उत्तप्त उष्णीकृतो यो जतुरसो लाक्षारसस्तेनाश्लिष्टालिङ्गिता पक्ष्ममाला नेत्ररोमपङ्क्तिर्यस्य तदिव । सशेषेति । सशेषोर्वरिता या निद्रा तया जिहा कुटिला तारा कनीनिका यस्य तत् । कीदृशेषु वनमृगेषु । ऊषरेति । ऊषरा तृणरहिता या शय्या शयनस्थल तेन धूसरा धूम्रवर्णा क्रोडरोमराजिहृदयलोमपङ्क्तिर्येषां तेषु । पुनः कीदृशेषु । इतस्ततः समन्ततो वनचरेष्वरण्यचारिषु संचरत्सु गच्छत्सु । पुनः केषु सत्सु । विजृम्भेति । श्रोत्रहारिणि कर्ममनोहरे पम्पानाम्नः सरसः कलहंसकोलाहले कादम्बकलकले विजृम्भमाणे प्रसृते सति । पुनः केषु सत्सु । समुल्लसतीति । नर्तिताः शिखण्डिनो मयूरा येन तस्मिन्मनोहरे रुचिरे वनगजानामरण्यकरिणां कर्णा एव ताला वाद्य विशेषास्तेषां शब्दो ध्वनिस्तस्मिन्समुल्लसति सति सम्यक्प्रकारेण प्रसरति सति । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 इभगण्डेषु डिण्डिमानाम्, डिण्डिमैर्यथा राजीदीनामागमनादेः सगौरवं घोषणा क्रियते, तथा भ्रमरगुञ्जनेन गजराजानामागमन-जागरादेः सूचना दीयत इति डिण्डिमत्वम् (रूपकम्) । न भ्रमरास्तं वादयन्ति येन इभगण्डस्य डिण्डिमत्वं स्यात् । 2 घटमानैः सूर्योदयारम्भात् संकुचद्भिः दलपुटैः निरुद्धा पक्षसंहतिर्येषाम् इत्येवार्थः । विघटनं हि विश्लेषो न संकोचः । 3 कर्णतालशब्द मेघध्वनि ज्ञात्वा हर्षेण ते नृत्यन्तीति भ्रान्तिमान् । पाठा० - १ खेदजलकणिका; स्वेदकणिका. २ कमलप्रबोध. ३ मधुलिहां पटलेषु. ४ विघटमान; घनघटमान. ५ निबद्ध. ६ झङ्कारेषु; टङ्कारेषु. ७ मारुताहत. ८ पक्ष्मजालम्. ९ जिहिाततारम्; जिहिाततारम्; जिहिाततारकम्. १० राजिषु च. ११ कलहंसकुल. १२ शिखण्डिमण्डले. प्रभातवर्णनम् पूर्वभागः । Page #71 -------------------------------------------------------------------------- ________________ वनगजकर्णतालशब्दे, क्रमेण च गगनतलमवतरतो दिवसकरवारणस्यावर्चुलचामरकलाप इवोपलक्ष्यमाणे मञ्जिष्ठारागलोहिते किरणजाले, शनैःशनैरुदिते भगवति सवितरि, पम्पासरःपर्यन्ततरुशिखरसंचौरिण्यध्यासितगिरिशिखरे दिवसकरजन्मनि हृततारे पुनरिव कपीश्वरे वनमभिपतति बालातपे, स्पष्टे जाते प्रत्यूषसि, न चिरादिव दिवसाष्टमभागभाजि स्पष्टभासि भास्वति भूते, प्रयातेषु चे यथाभिमतानि दिगन्तराणि शुककुलेषु, कुलायनीलिननिभृतशुकशावकसनाथेऽपि निःशब्दतया शून्य इव तस्मिन्वनस्पती, स्वनीडावस्थित एव ताते, मयि च शैशवादसंजातबलसमुद्भिद्यमानपक्षपुटे पितुः समीपवर्तिनि कोटरगते, सहसैव तस्मिन्महा - *********** क्रमणेति । क्रमेण परिपाट्य गगनतलमाकाशमार्गमवतरतोऽधिरोहतो दिवसकरवारणस्य सूर्यगजस्य । अवचूलेति । अवचूलोऽधोमुखकूर्चको यश्चामरकलापस्तस्मिन्निवोपलक्ष्यमाणे दृश्यमाने मज्जिष्ठस्य वस्तुविशेषस्य रागो रक्तिमा तेन लोहिते रक्तीभूते किरणजाले रश्मिसमूहे सति शनैःशनैर्नातिशीधं भगवति माहात्म्यवति सवितारि श्रीसूर्य उदिते उदयं प्राप्ते सति । कीदृशे । पम्पेति । पम्पासरःपर्यन्तानि यानि तरुशिखराणि तेषु संचारो विद्यते यस्य स तथा तस्मिन् । अध्येति । अध्यासितान्याश्रितानि गिरिशिखराणि पर्वतश्रृङ्गानि येन स तस्मिन् । अथ बालातपं विशेषयन्नाह - दिवसेति । दिवसकरात्सूर्याज्जन्म यस्य स तथा तस्मिन् । हृता दूरीकृता तारा येन स तथा तस्मिन् । पुनस्तदनन्तरं कपीश्वरे सुग्रीव इव । तरुशिखरचारित्वात्तद्धृततारत्वाच्च तदुपमानम् । तं वृक्षं पूर्वोक्तमभिपतति व्याप्नुवति बालातपे नवीनालोके सति । तथा प्रत्यूषसि प्रभाते स्पष्टे व्यक्ते जाते सति न चिरादिव स्तोककालेनेव दिवसस्याष्टमो भागश्चतुर्घटिकात्मकस्तं भजतीति भाक् । ण्विप्रत्ययान्तः । तस्मिन्स्पष्टा भा कान्तिर्यस्य स तथा तस्मिन्भास्वति श्रीसूर्ये भूते जाते सति । पुनः केषु । शुककुलेषु कीरव्रजेषु यथाभिमतानि यथेप्सितानि दिगन्तराणि दिग्विभागान् प्रयातेषु गतेषु सत्सु । कुलायेति । कुलाया नीडानि तेषु निलीनाः सुप्ता निभृतमत्यन्तं शुकशावकाः कीरशिशवस्तैः सनाथेऽपि संयुक्तेऽपि बालकानामेकाकित्वेन भयवशानिःशब्दतया तस्मिन्वनस्पतौ शाल्मलीवृक्षे शून्य इव सति । खेति । खस्य नीडंकुलायस्तत्रावस्थित एव ताते पितरि मयि चेति । चः पुनरर्थे । मयि पितुर्जनकस्य समीपवर्तिनि निकटवर्तिनि सति । अथ शिशुं विशेषयन्नाह - कोटरेति । कोटरगते निष्कुहस्थिते । शैशवादिति । शैशवाबाल्यादैसंजातमनुत्पन्नं यद्धलं तेन समुद्भिद्यमानं विलीयमानं पक्षपुटं यस्य स तथा तस्मिन् । विधेयमाह - सहसैवेति । तस्मिन्पूर्वोक्ते महावने सहसैवाकस्मादेव मृगयाखेटकस्तस्याः कोलाहलध्वनिः कलकललक्षणः शब्द उदचरदुदतिष्ठत् ।। - - - - - - - - - - - - - टिप्प० - 1 मजिष्ठेत्युचितमेव 'मज्जिष्ठा विकसा जिङ्गी'त्यमरः । 'मँजीठ' इति भाषा । 2 न केवलं विशेषणद्वयमेव बालातप-सुग्रीवयोरन्वितम्, अपि तु सर्वाण्येव । सुग्रीवोपि अध्यासितं गिरि (ऋष्यमूक) शिखरं येन तादृक् । वालिभयाच्च अग्रे न गत्वा पम्पासरःपर्यन्ततरुशिखरेषु संचारी । सूर्यात् जन्म स्मिन्निति उभयत्र समानम् । हृताः लोपिताः ताराः नक्षत्राणि येन (बालातपे), हृता तन्नाम्नी वानरी येन इति सुग्रीवे । सुग्रीवे इव बालातपे पुनः वनमभिपतति सतीति योजना । 3 शैशवात् असंजातबले, समुद्भिद्यमानम् क्रमशः उत्पद्यमानं पक्षपुटं पतत्त्रयुगलं यस्य एतादृशे, मयि पितुः समीपवर्तिनि कोटरगते सतीत्यर्थः । उद्भिद्यमानं विलीयमानम्, असंजातं यद् बलमित्युक्तिभ्रंमः । - - - - - - - - - - - - - - पाठा० - १ गगनतलमार्गः; गगनमार्ग. २ अवधृत. ३ संचारिणां. ४ अष्टभाग. ५ तेषु. ६ कुलायनिभृतशावक. ७ असंजातबले. ८ तातस्य समीप; तातसमीप. कादम्बरी। कथामुखे Page #72 -------------------------------------------------------------------------- ________________ वने संत्रासितसकलवनचरः सरभससमुत्पतत्पतत्रिपक्षपुटशब्दसंततः भीतकरिपोतचीत्कारपीवरः प्रचलितलताकुलमत्तालिकुलक्वणितमांसलः परिभ्रमदुरोणवनवराहरवघर्घरो गिरिगुहासुप्तप्रबुद्धसिंहनिनादोपबृंहितः कम्पयन्निव तरून्भगीरथावतार्यमाणगङ्गाप्रवाहकलकलबहलो भीतवनदेवताकर्णितो मृगयाकोलाहलध्वनिरुदचरत् । आकर्ण्य च तमहमश्रुतपूर्वमुपजातवेपथुरर्भकतया जर्जरितकर्णविवरो भयविह्वलः समीपवर्तिनः पितुः प्रतीकारबुद्ध्या जराशिथिलपक्षपुटान्तरमविशम् । अनन्तरं च सरभसमितो गजयूथपतिलुलितकमलिनीपरिमलः, इतः क्रोडकुलदश्यमानभद्रमुस्तारसामोदः, इतः, करिकलभभज्यमानसल्लकीकषायगन्धः, इतो निपतितशुष्कपत्रमर्मरध्वनिः, इतो वनमहिषविषाणकोटिकुलिशभिद्यमानवल्मीकघूलिः, इतो मृगकदम्बकम्, इतो - *********** अथ ध्वनि विशेषयन्नाह - संत्रासितेति । संत्रासिता भयं प्रापिताः सकलवनचराः समग्रारण्यचारिणो येन स तथा । सरभसेति । सरभसेन वेगेन समुत्पतन्तो ये पतत्रिणः पक्षिणस्तेषां पक्षपुटानि छदपुटानि तेषां शब्दो निनादस्तेन सम्यक्प्रकारेण ततो विस्तीर्णः । भीतेति । भीतास्त्रस्ता ये करिपोताः कलभास्तेषां चीत्काराः शब्दविशेषास्तैः पीवरः पुष्टः । प्रचलितेति । प्रचलिताः कम्पिता या लता वल्लयस्तास्वाकुला व्याकुला ये मत्तालयो मत्तभ्रमरास्तेषां कुलानि तेषां क्वणितेन शब्दितेन मांसलः पुष्टः । परीति । परिभ्रमन्त इतस्ततः संचरन्त उद्घोणा उच्चनासा ये वनवराहा अरण्यशूकरास्तेषां रवः शब्दस्तेन घर्घरः कठोरः । गिरीति । गिरिगुहासु शैलकन्दरासु पूर्वं सुप्ता पश्चाप्रबुद्धा उत्थिता ये सिंहाः केसरिणस्तेषां यो निनादः शब्दस्तेनोपबृंहितो वृद्धि प्राप्तः । पुनः किं कुर्वन्निव । तरून्वृक्षान्कम्पयन्निव चालयन्निव । भगीति । भगीरथेन राज्ञावतार्यमाणोऽधस्तादानीयमानो यो गङ्गाप्रवाहः स्वधुनीस्त्रोतस्तस्य यः कलकलस्तद्वद्बहलः प्रभूतः । भीतेति । भीता भयं प्राप्ता या वनदेवतास्ताभिराकर्णितः श्रवणविषयीकृतः । आकर्ण्य चेति । अहमश्रुतपूर्वं तं शब्दमाकर्ण्य श्रुत्वा प्रतीकारबुद्ध्या भयनिवृत्त्युपायधिया समीपवर्तिनो निकटस्तस्य पितुर्जनकस्य जरया विससया यच्छिथिलं श्लथं पक्षपुट तस्यान्तरं मध्ममविशं प्रविष्टोऽभवम् । कीदृशोऽहम् । उपेति । उपजातवेपथुः संजातकम्पोऽर्भकतया बालतया तादृशशब्दश्रवणादेव जर्जरितं प्रतिरुद्धं कर्णयोः श्रवणयोर्विवरं छिंद्र यस्य स तथा । अनन्तरं चेति । पितुः पक्षपुटान्तरप्रवेशानन्तरम् । चकारः पूर्वसमुच्चये । कोलाहलमश्रृणवमित्यग्रेतनेन संबन्धः । तदेव दर्शयति - सरभसमित्यादि । इतोऽस्मिन्प्रदेशे सरभसं वेगवत्तरं गजयूथपतिना लुलिता मर्दिता या कमलिनी नलिनी तस्याः परिमल आमोदः । इत इति पूर्ववत् । क्रोडकुलैररण्यशूकरसमुदायैर्दश्यमाना भक्ष्यमाणा या भद्रमुस्ता गुन्द्रास्तासां रसो द्रवस्तस्यामोदः परिमलः । इत इति प्राग्वत् । करिणां कलभास्त्रिंशदब्दकास्तैर्भज्यमाना आमद्यमाना याः सल्लक्यो गजप्रियास्तासां कषायः तुवरो गन्धः । इत इति प्राग्वत् । इतःप्रदेशे निपतितानि प्रर्यस्तानि यानि शुष्कपत्राणि तेषां मर्मरध्वनिमर्मर इति शब्दः । 'मर्मरो वस्त्रपत्रादेः' इति कोशः । इत इति । वनमहिषा गवलास्तेषां विषाणानि श्रृङ्गाणि तेषां कोटिरग्रं तदेव कुलिशं वज्रम् । अमेयत्वात्तदुपमानम् । तेन भिद्यमानं छिद्यमानं यद्वल्मीकं शक्रशिरस्तस्य घूलिः पांसुः । इत इति । मृगाणां हरिणानां कदम्बं समुदायः । इत इति । वनगजानामरण्यहस्तिनां कुलं समुदायः । इत इति । टिप्प० - 1 सरभसं भयवशात्सवेगम् उत्पतन्त इत्युचितम् । 2 सादिगतः, कीटराशीकृतमृत्तिकास्तूपो वा । - - - - - - - - - - - - - - - - - - पाठा० - १ सततम्. २ प्रचलितलताकुलित; प्रचलितमत्तालिकुल. ३ वराहधर्घरकठोरः. ४ नाद. ५ आवार्यमाण. ६ आकर्ण्य तम्. ७ जरातिशिथिल. शबरमृगया पूर्वभागः । 59 Page #73 -------------------------------------------------------------------------- ________________ वनगजकुलम्, इतो वनवराहयूथम्, इतो वनमहिषवृन्दम्, इतः शिखण्डिमण्डलविरुतम्, इतः कपिञ्जलकुलकलकूजितम्, इतः कुररकुलक्वणितम, इतो मृगपतितनखभिद्यमानकुम्भकुज्जरसितम्, इयमार्द्रपङ्कमलिना वराहपद्धतिः, इयमभिनवशष्पकवलरसश्यामला हरिणरोमन्थफेनसंहतिः, इयमुन्मदगन्धगजगण्डकण्डूयनपरिमलनिलीनमुखमधुकरविरुतिः, एषा निपतितरुधिरबिन्दुसिक्तशुष्कपत्रपाटला रुरुपदवी, एतातिरदचरणमृदितविटपपल्लवपटलम्, एतत्खङ्गिकुलक्रीडितम, एष नखकोटिविकटविलिखितपत्रलेखो रुधिरपाटलः करिमौक्तिकदलदन्तुरोमृगपतिमार्गः, एषा प्रत्यग्रप्रसूतवनमृगीगर्भरुधिरलोहिनी भूमिः, इयमटवी वेणिकानुकारिणी पक्षचरस्य यूथपतेर्मदजलमलिना, संचारवीथीचमरीपङ्क्तिरियमनुगम्यताम्, उच्छुष्कमृगकरीषपांसुला त्वरिततरमध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम्, आलो - *********** वनवराहा वनक्रोडास्तेषां यूथं वृन्दम् । इत इति । वनमहिषाणां वृन्दं कुलम् । इत इति । शिखण्डिनां मयूराणां मण्डलं समूहस्तस्य विरुतं कूजितम् । इत इति । कपिञ्जलानां गौरितित्तिराणां कुलं समुदायस्तस्य कलं मधुरं कूजितं शब्दितम् । इत इति । कुकरो मत्स्यनाशनस्तस्य कुलं पुत्रपौत्रादि तस्य क्वणितं शब्दितम् । इत इति । मृगपतिः सिंहस्तस्य नखाः पुनर्भवास्तैर्भिद्यमानो विदार्यमाणः कुम्भः शिरःपिण्डो येषामेवंभूताः कुञ्जरा हस्तिनस्तेषां रसितमाक्रन्दितम् । इयमिति । इयं प्रत्यक्षार्दोऽशुष्को यः पङ्कः कर्दमस्तेन मलिना मलीमसा वराहपद्धतिर्वनक्रोडमार्गः । इयमिति । इयमिति पूर्ववत् । अभिनवान्यचिरोत्पन्नानि यानि शष्पाणि बालतृणानि तेषां कवलो गुडस्तस्य रसस्तेन श्यामला मलिनैवंविधा हरिणानां मृगाणां यो रोमन्थश्चर्वितचर्वणं तस्य फेनः कफस्तस्य संहतिः समूहः । इयमिति । उन्मदा मदोन्मत्ता ये गन्धगजी गन्धेभाः । सुरभिमदयुक्ता इत्यर्थः । तेषां गण्डः करंटस्तस्य कण्डूयनेन कण्डूत्या यः परिमल आमोदस्तस्मिन्निलीना आसक्ता मुखरा वाचाला ये मधुकरा भ्रमरास्तेषां विरुतिङ्किारः । एषा दृश्यमानेत्यर्थः । निपतितेति । निपतिता भूमी स्वस्ता ये रुधिरबिन्दवो रक्तपृषतास्तैः सिक्तानि सिञ्चितानि यानि शुष्कपत्राणि तैः पाटला श्वेतरक्ता रुरुपदवी मृगविशेषमार्गः । एतदिति । एतत्समीपतरवर्ति द्विरदा हस्तिनस्तेषां चरणाः पादास्तैर्मुदितं मर्दितं टिपानां वृक्षाणां पल्लवपटलं किसलयसमूहो यस्मिनेतादृशं स्थलमित्यर्थः । एतदिति । एतदृश्यमानं खड्रिगनां वासॊणसानां कुलं पौत्रादि तस्य क्रीडीत चेष्टितम् । एष इति । एष प्रत्यक्षोपलक्ष्यमाणो मृगपतिमार्गोनखरायुधपन्थाः । कीदृक् । नखकोटिभिर्नखरागैर्विकटा विपुला विलिखिता निर्भिन्ना पत्रलेखा पर्णपङ्क्तिर्यस्मिन्स तथा, रुधिरैः रक्तैः पाटलः श्वेतरक्तः करिणां गजानां मौक्तिकानि मुक्ताफलानि तेषां दलानि खण्डानि तेन दन्तुरः स्थपुटः । एषेति । प्रत्यग्रप्रसूता नवप्रसविनी या वनमृग्यरण्यहरिणी तस्या गर्भो भ्रूणस्तस्य रुधिरं रक्तं तेन लोहिनी रक्तैषा भूमिः पृथ्वी । इयमिति । इयमटव्यरण्यभूमिर्वेणिकामलकपङ्क्तिमनुकरोतीत्येवंशीला सा तथा । कीदृशी । पक्षचरस्य समुदायचारिणो यूथपतेयूंथनाथस्य मदजलेन दानवारिणा मलिना श्यामा । अनेन वेण्या साम्यमरण्यस्य सूचितम् । संचारेति । संचारवीथ्यां गोचरमार्गे चमर्या गोविशेषस्य पङ्क्तिः परंपरा सा अनुगम्यतामनुव्रज्यताम् । युष्माभिरिति शेषः । उच्छुष्केति । इयं वनस्थली त्वरिततरं वेगवत्तरमध्यास्यतामधिश्रियताम् । कीदृशी । उत्प्राबल्येन शुष्कं वानं यन्मृगकरीषं हरिणच्छगणं तेन पांसुला निन्दिता । तविति । तरुशिखरं वृक्षाग्रमारुह्यतामारोहविषयीक्रियताम् । इयमभिमुखा दिगालोक्यतामालोकविषयीक्रियताम् । अयं शब्द आकर्ण्यतां श्रूयताम् । धनुश्चापो गृह्यतां स्वीक्रियताम् । अवहितैः साव - टिप्प०-1 समुदाय इत्यप्युचितम् । 2 येषां गन्धेन अनेय गजाः प्रद्रवन्ति । 3 स्त्रवद्रुधिरैर्नखैर्विलिखिताः चित्रिताः पत्रलेखाः पत्राकारचिह्नानि यस्मिन् स इत्यर्थः । 4 उच्चावचः । पाठा० - १ वराहयूवम्. २ वराहकुलपद्धतिः. ३ आलीन. ४ शिखण्डिकुल. ५ कोटिविलिखितविकटपत्रः. मौक्तिकदन्तुरः. ७ अनुसारिणी. ८ एकचरस्य; समीपचरस्य. - - - - - - - - - - - - - - - - - - - - - - - - (60 कादम्बरी । कथामुखे Page #74 -------------------------------------------------------------------------- ________________ क्यतां दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितैः स्थीयताम्, विमुच्यन्तां धान इत्यन्योन्यमभिवदतो मृगयासक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य क्षोभितकाननं कोलाहलमशृणवम् । अथ नातिचिरादेवानुलेपनामृदङ्गनिधीरेण, गिरिविवरविजृम्भितप्रेतिनादगम्भीरेण शबरशरताडितानां केसरिणा निनादेन संत्रस्तयूथमुक्तानामेकाकिनां च संचरतामनवरतकरास्फोटमिश्रेण जलधररसितानुकारिणा गजयूथपतीनां कण्ठगर्जितेन, सरभससारमेयविलुप्यमानावयवानामोलोलतरलतारकाणामेणकानां च करुणकूजितेन, निहतयूथपतीनां वियोगिनीनामनुगतकलभानां च स्थित्वा स्थित्वा समाकर्ण्य कलकलमुत्कर्णपल्लवानामितस्ततः परिभ्रमन्तीनां प्रत्यग्रपतिविनाशशोकदीपेण करिणीनां चीत्कृतेन, कतिपयदिवसप्रसूतानां च खङ्गिधेनुकानां त्रासपरिभ्रष्टपोतकान्वेषिणीनामुन्मुक्तकण्ठमारसन्तीनामाक्रन्दितेन, तरुशिखरसमुत्पतिताना - *********** धानैः स्थीयतामुपविश्यताम् । धानः कौलेयका विमुच्यन्तां प्रस्थाप्यन्तामित्यन्योन्यमिति पूर्वोक्तप्रकारेणान्योन्य परस्परमभिवदतो जल्पतो मृगयासक्तस्याखेटकासक्तस्य महतो महीयसो जनसमूहस्य जनवृन्दस्य तरूणां वृक्षाणां गहनं निकुञ्जस्तेनान्तरितो व्यवधानीकृतोविग्रहः शरीरं यस्य स तथा तस्य क्षोभितकाननमान्दोलितारण्यं यथा स्यात्तथा कोलाहलं कलकलमश्रृणवमश्रौषम् । अथेति । अथेत्यानन्तर्ये । नातिचिरादेव स्वल्पकालेनैव सर्वतोऽभितः प्रचलितमिव कम्पितमिव तदरण्यमभवत् । केन । अन्विति । अनुलेपनं द्रवद्रव्यं तेनाः स्वित्रो यो मृदङ्गो मुरजस्तस्य ध्वनिः शब्दस्तद्वद्धीरेण गम्भीरेण । गिरीति । गिरिविवरेषु पर्वतच्छिद्रेषु विजृम्भितः प्रसृतो यः प्रतिनादः प्रतिच्छन्दस्तेन गम्भीरेण मन्द्रेण । पुनः केन । शबरेति । शबरा भिल्लास्तेषां शरा बाणास्तैस्ताडितानां व्यथितानां केसरिणां सिंहानां निनादेन शब्देन । पुनः केन । संत्रस्तेति । संत्रस्तं चकितं ययूथं तेन मुक्तानामेकाकिनां च संचरतां गच्छातामनवरतं निरन्तरं यः करास्फोटः शण्डाघातस्तेन मिश्रः संवलितो जलधरो मेघस्तस्य रसितं गर्जितं तदनकारिणा गजयथपतीनां हस्तिसमुदायनाथानां कण्ठगर्जितेन निगरणरसितेन । पुनः केन । सरभरसेति । सरभसं वेगवत्तरं सारमेयैः श्वभिर्विलुप्यमाना दूरीक्रियमाणा अवयवा अपघना येषां ते तथा तेषामालोलाश्चञ्चला अत एव तरला स्फुटिता तारका कनीनिका येषामेवंविधानामेणकानां हरिणानां करुणं करुणरसोत्पादक यत्कूजितं शब्दितं तेन । पुनः केन । करिणीनां हस्तिनीनां चीत्कृतेन चीत्कारशब्देन । कीदृशेन । प्रत्यग्रेति । प्रत्यग्रस्तत्कालीनो यः पतिविनाशशोकस्तेन दीर्धेणायतेन । हस्तिनी विशेषयन्नाह - इतस्तत इति । इतस्ततः समन्ततः परिभ्रमन्तीनां परिभ्रमणं कुर्वन्तीनाम् । उत्कर्णेति । उर्ध्वकर्णपल्लवा यासा तास्तासाम् । किं कृत्वा । स्थित्वा स्थित्वा पूर्वोक्तं कलकलं समाकर्ण्य श्रुत्वा । अन्विति । अनुगताः पश्चाल्लग्नाः कलभा यासा तास्तथा तासां वियोगिनीनां विप्रलम्भयुक्तानाम् । निहतेति । निहता व्यापादिता यूथपतयो यासा तास्तथा तासाम् । पुनः केन । आक्रन्दितेन रुदितेन । कासाम् । खङ्गिधेनुकानां गण्डकस्त्रीणाम् । किं कुर्वतीनाम् । उन्मुक्तकण्ठ यथा स्यात्तथातिकरुणशब्दमारसन्तीनामारटन्तीनाम् । पुनः कीदृशीनाम् । त्रासेति । त्रासेन भयेन परिभ्रष्टो नष्टो यः पोतकः स्तनधयस्तदन्वेषिणीनां ताद्विलोकनशीलानाम् । कतिपयेति । कतिपये कियन्तो ये दिवसा वासरास्तत्र प्रसूतं याभिस्तासाम् । पुनः केन । पत्रेति । पत्ररथानां पक्षिणां कोलाहलेन कलकलशब्देन । पक्षिणो विशेषयन्नाह - तर्विति । - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 चञ्चला इत्यर्थः । पाठा० - १ अभिददतः. २ मृगयाप्रसक्तस्य. ३ इव. ४ ध्वान. ५ प्रतिनिनाद. ६ गभीरेण. ७ शरताडितानाम्. ८ गर्जितेन. ९ आलोलकातरतरलतर; विलोलकातरतरलतर. १० कलभकानाम्. ११ पोतान्वेषिणीनाम्. १२ कण्ठकरुण; कण्ठं करुण, कण्ठमतिकरुण. (मृगयाकोलाहलः । पूर्वभागः । Page #75 -------------------------------------------------------------------------- ________________ माकुलाकुलचारिणां च पत्ररथानां कोलाहलेन, रूपानुसारप्रेधावितानां च मृगयूथानां युगपदतिरभसर्पोदपाताभिहताया भुवः कम्पमिव जनयता चरणशब्देन, कर्णान्ताकृष्टज्यानां च मदकलकुरकामिनीकण्ठकूजिर्तकलशबलितेन शरनिकरवर्षिणां धनुषां निनादेन, पवनाहतिक्वणितधाराणामसीनां च कठिनमहिषस्कन्धपीठपातिनां रणितेन, शुनां च सरभसविमुक्तघर्घरध्वनीनां वनान्तरव्यापिना ध्यानेन सर्वतः प्रचलितामिव तंदरण्यमभवत् । अचिराच्च प्रशान्ते तस्मिन्मृगयाकलकले निर्वृष्टमूकजलधरवृन्दानुकारिणि मथनावसानोपशान्तवारिणि सागर इव स्तिमिततामुपगते कानने मन्दीभूतभयोऽहमुपजातकुतूहल: पितुरुत्सङ्गादीषदिव निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य संत्रासँतरलतारकः शैशवात्किर्मिर्दैमित्युपैजातदिदृक्षस्तामेव दिशं चक्षुः प्राहिणवम् । *********** 1 1 तरुशिखराणि वृक्षप्रान्तानि तेभ्यः समुत्पतितानामुड्डीनानाम् । आकुलेति । आकुलाकुलं यथा स्यात्तथा चारिणां गामिनाम् । पुनः केन । मृगेति । मृगा हरिणास्तेषां यूथानि वृन्दानि तेषां चरणशब्देन क्रमणोत्थरवेण । कीदृशानाम् । रूपेति । रूपं शक्तिस्तदनुसारेण प्रधावितानां प्रचलितानाम् । कीदृशेन चरणशब्देन । युगपदिति । युगपत् एकदैवातिरभसं वेगवत्तरं पादानां चरणानां पातः पतनं तेनाभिहताया भुवः पृथिव्याः । बलवद्द्रव्याधाताभावेन कम्पाभावेऽपि कम्पभ्रम इत्याह- कम्पमिवेति । जनयतोत्पादयता । पुनः केन । धनुषां निनादेन चापशब्देन । धनूंषि विशेषयन्नाह - कर्णेति । कर्णान्तं श्रोत्रपर्यन्तमाकृष्टाकर्षिता ज्या गुणो येषां तानि तथा तेषाम् । शरेति । शराणां बाणानां निकरः समूहस्तं वर्षन्तीत्येवंशीलानि यानि धनूंषि तेषाम् । चापध्वनिं विशेषयन्नाह - मदेति । मदेन कला मनोज्ञा या कुररस्य मत्स्यनाशस्य कामिनी स्त्री तस्याः कण्टकूजितं तस्य कलो मधुरो ध्वनिस्तेन शबलितेन मिश्रितेन । पुनः केन । असीति । असीनां खड्गानां रणितेन शब्दितेन । असीन्विशेषयन्नाह - पवनेति । पवनस्य समीरणस्याहत्याहननेन क्वणिताः शब्दिता धारा ते तथा तेषाम् । कठिनेति । कठिनः कठोरो यो महिषस्कन्धो लुलायभुजशिरः स एव पीठं स्थलं तत्र पातिनां पतनशीलानाम् । पुनः केन । शुनां सारमेयाणां वनान्तरव्यापिनारण्यमध्यप्रसरणशीलेन ध्यानेन शब्देन । शुनो विशिनष्टि - सरभसेति । सरभसं सवेगं विमुक्ता घर्घरध्वनयो यैस्ते तथा तेषाम् । अचिराच्चेति । अचिरौत् बहुकालेन प्रशान्ते शान्तिमुपगते मृगयाकलकलशब्दे सागर एव समुद्र स्तिमिततां निश्चलतामुपगते प्राप्ते काननेऽरण्ये सति । सागरं विशेषयन्नाह - मथनेति । मथनस्य विलोडनस्यावसानं पर्यन्तस्तेनोपशान्तं स्वस्वरूपेणावस्थितं वारि जलं यस्मिन् । निर्वृष्टेति । निर्वृष्टाः कृतवर्षा मूकाः स्तनितशून्या ये जलधरा मेघास्तेषां वृन्दं तदनुकर्तुं शीलं यस्य स तस्मिन् । मन्दीति । मन्दीभूतं मन्दतां प्राप्तं भयं भीतिर्यस्य स तथा । उपेति । उपजातमुत्पन्नं कुतूहलमाश्चर्यं यस्य सोऽहं पितुर्जनकस्योत्सङ्गात्क्रोडादीषदिव निष्क्रम्य किंचिदिवोन्नतो भूत्वा कोटरस्थ एव शिरोधरां ग्रीवां प्रसार्य विस्तार्य संत्रासेन भयेन तरला चञ्चला तारका कनीनिका यस्य स तथा । शैशवाद्वाल्यात्किमिदमिति हेतोः । तामेव दिशं ककुभं प्रति चक्षुर्नेत्रं प्राहिणवमप्रैषम् । किमिदमदृष्टपूर्वमित्युपजाता समुत्पन्ना दिदृक्षा द्रष्टुमिच्छा यस्य सः । टिप्प० - 1 केषुचिद् वर्गेषु ‘मृगयूणां' इत्यपि पाठः प्रचलितः । रूपाणां मृगाणामनुसारेण प्रधावितानां मृगयूणां किरातानाम् चरणशब्देन इति तदूव्याख्या । 'रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः । 2 स्वल्पकालेत्यर्थ उचितः । 3 प्रेषयमित्याशयः । पाठा० - १ निनादेन. २ प्रस्थितानाम् ३ मृगयूणाम्. ४ पादवातात्. ५ ज्याघोषमद. ६ कलेन; कलशबलेन; कलकलेनेव; कलकलशबलेन. ७ आहत. ८ पाटितानाम्. ९ तदा. १० उपागते. ११ तस्मिन्कानने. १२ मन्दीभूतसाध्वसः १३ तरलतर. १४ किमिति १५ समुपजातविस्मयो दिदृक्षुः समुपजातदिदृक्षः; संजातदिदृक्षः. 62 कादम्बरी | कथामुखे Page #76 -------------------------------------------------------------------------- ________________ अभिमुखमापतच्च तस्माद्वनान्तरादर्जुन भुजदण्डसहस्रविप्रकीर्णमिव नर्मदाप्रवाहम्, अनिलचैलितमिव तमालकाननम्, एकीभूतमिव कालरात्रीणां यामसंघातम्, अञ्जनशिलास्तम्भसंभारमिव क्षितिकम्पविघूर्णितम्, अन्धकारपुञ्जमिव रविकिरणाकुलितम्, अन्तकपरिवारमिव परिभ्रमन्तम्, अवदारितरसातलोद्भूतमिव दानवलोकम् अशुभकर्मसमूहमिवैकत्रसमागतम्, अनेकदण्डकारण्यवासिमुनिजनशापसार्थमिव संचरन्तम्, अनवरतशरनिकरवर्षिरामनिर्हतखरदूषणबैलनिवहमिव तदपध्यानात्पिशाचतामुपगतम्, कलिकालबंन्धुवर्गमिवैकत्र संगतम्, अवगाहप्रस्थितमिव वनमहिषयूथम्, अचलशिखैरस्थितकेसरिकराकृष्टिपैतनविशीर्णमिव कालाभ्रपटलम्, अखिलरूपविनाशाय धूमकेतुजालमिव समुद्गतम्, अन्धकारितैकाननम्, अनेकसहस्रसंख्यम्, अतिभयजनकमुत्पातवेतालव्रातमिव शबरसैन्यमद्राक्षम् । *********** अभीति । तस्माद्वनान्तरान्ममाभिमुखं संमुखमापतदागच्छच्छबरसैन्यं भिल्लानीकम् । तदहमद्राक्षमित्यग्रिमेणान्वयः । तत्सैन्यं विशेषयन्नाह - अर्जुनेति । सहसार्जुनस्य राज्ञो भुजदण्डसहस्रं बाहुसहस्रं तेन विप्रकीर्णमितस्ततः पर्यस्तं नर्मदाप्रवाहमिव मेकलाव्रिजास्त्रोत इव | अनिलवशाद्वायुवशाच्चलितमितस्ततः पर्यस्तं तमालानां तापिच्छानां काननं वनमिव । एकीभूतं मिश्रीभूतं कालरात्रीणां तमस्विनीनां यामसंघातमिव । अञ्जनशिलानां श्यामशिलानां ये स्तम्भाः स्थूणास्तेषां संभारमिव व्रातमिव । क्षितीति । क्षितिकम्पेन पृथ्वीप्रचलितेन विघूर्णितं मूर्च्छितम् । अन्धकारपुज्जमिव ध्वान्तपटलमिव । रवीति । रविकिरणैः सूर्यरश्मिभिराकुलितं व्याकुलीभूतम् । अन्तकस्य यस्य परिवारमिव परिच्छदमिव । किं कुर्वन्तम् । परिभ्रमन्तमितस्ततः पर्यटन्तम् । अवेति । अवदारिताद्विदीर्णाद्रसातलाद्भूतलादुद्भूतं प्रकटीभूतं · दानवलोकमिव दैत्यलोकममिव । अशुभेति । एकत्र समागतं मिलितमशुभकर्मणः पापप्रकृतेः समूहमिव संघातमिव । अनेकेति । अनेके च ये दण्डकारण्यवासिमुनिजनास्तेषां शापानां सार्थः समूहस्तमिव । किं कुर्वन्तम् । संचरन्तं व्रजन्तम् । अनवरतेति । अनवरतं निरन्तरं शरनिकरं बाणसमूहं वर्षतीत्येवंशीलो यो रामो दशरथात्मजस्तेन निहतो व्यापादितः खरदूषणस्य पाताललङ्काधिपतेर्बलनिवहः सैन्यसमूहस्तमिव । कीदृशम् । तस्मिन्रामचन्द्रेऽपध्यानं दुश्चिन्तनं तस्मात्पिशाचतां भूततामुपगतं प्राप्तम् । कलीति । कलिकालः कलियुगस्तस्य बन्धुवर्गं सहचरसमुदायमिव । एकत्रेति । एकत्र एकस्मिन्नेव स्थले संगतं मिलितम् । अवेति । अवगाहो मज्जनं तदर्थ प्रस्थितं वनमहिषयूथमिव गवलवृन्दमिव । अचलेति । अचलः पर्वतस्तस्य शिखरं शृङ्गं तत्र स्थितो यः केसरी महानगस्तस्य क हस्तौ ताभ्यामाकृष्टिराकर्षणं तस्माद्यत्पतनं भ्रंशस्तेन विशीर्णं विशरारुतां प्राप्तं कालाभ्रपटलमिव मेघमालामिव । अखिलेति । अखिलाना समग्राणां यद्रूपं तस्य विनाशाय नाशनाय समुद्गतमुदयं प्राप्तं धूमकेतुजालमिव केतुजालमिव केतुसमूहमिव । अन्धेति । अन्धकार संजातान्धकारं काननं येन तादृशम् । अनेकेति । अनेकानि सहस्त्राणि संख्या यस्य तत्तथा । अतीति । अतिभयमुत्कृष्टभीतिस्तस्य जनकमुत्पादकम् । किमिव । उत्पीतोऽजन्यं तस्य वेतालव्रातं देवविशेषसमूहमिव भयोत्पादकमित्यर्थः । अन्वयस्तु प्रागेवोक्तः । टिप्पo - 1 प्रहरसमूहमिव । 2 प्रचलनेन, भूकम्पेनेत्यर्थः । 3 खरदूषणयोः तन्त्रामकयोर्दण्डकारण्यसमीपस्थरावणसेनाधिपत्योः बलनिवहमिवेत्यर्थः । 4 सिंह इत्यर्थः । 5 वस्तुतस्तु अखिलानां रूपाणां मृगाणां विनाशाय धूमकेतुसमूहमिवेत्यर्थः । 'रूपं मृगेडपि विज्ञेयम्' इति हलायुधः । 6 उत्पाताय अमङ्गलाय यो तालातः भूताविष्टशवसमूहस्तमिव । इत्यर्थो बोध्यः । पाठा० - १ आपतन्तं च; आपतितम्. २ अनिलबल; अनिलवशात्; अनिलवश ३ संचलित. ४पूरम्; बलम्. ५ आकुलम्. ६ उद्गतमिव. ७ अशेष. ८ वासित. ९ नितम्; हत. १० बलमिव. ११ उपगतम्. १२ वर्गमिव समुद्गतम्; वर्गमिव संगतम्. १३ अवगाह्योत्थित. १४ शिखरस्थसिंह. १५ शीर्णम्. १६ कालमेघ. १७ अशेषकाननम्. १८. जननम्. शबरसैन्यवर्णनम् पूर्वभागः । 63 Page #77 -------------------------------------------------------------------------- ________________ मध्ये च तस्य महतः शबरसैन्यस्य प्रथमे वयसि वर्तमानम्, अतिकर्कशत्वोदायसमयमिव निर्मितम्, एकलव्यमिव जन्मान्तरर्गतम्, उद्भिद्यमानश्मश्रुराजितया प्रथममदलेखामण्ड्यमानगण्डभित्तिमिव गजयूथपतिकुमारकम्, असितकुवलयेश्यामलेन देहप्रभाप्रवाहेण कालिन्दीजलेनेव पूरितारण्यम्, आकुटिलाग्रेण स्कन्धावलम्बिना कुन्तलभारेण केसरिणमिव गजमदमलिनीकृतेन केसरकलापेनोपेतम्, आयतललाटम्, अंतितुङ्गघोरघोणम्, उपनीतस्यैककर्णाभरणतां भुजगफणामणेरापाटलैरंशुभिरालोहितीकृतेन पर्णशयनाभ्यासाल्लग्नपल्लवरागेणेव वामपार्थेन विराजमानम्, अचिरप्रहतगजकपोलगृहीतेन सप्तच्छदपरिमलवाहिना कृष्णागरुपङ्कनेव सुरभिणा मदेन कृताङ्गरागम्, उपरि तत्परिमलान्धेन भ्रमता मायूरपिच्छा - *********** मध्ये चेति । तस्य पूर्वव्यावर्णितस्य महतः शबरसैन्यस्य भिल्लबलस्य मध्ये मातङ्गनामानं शबरसेनापतिमपश्यमद्राक्षमित्यन्वयः । तमेव विशेषयन्नाह - प्रथमे इति । अत्र प्राथम्यमापेक्षिकम् । तेन वार्धकापेक्षया प्रथमं वयस्तत्र वर्तमानम् । अतिकर्कशत्वादतिकठिनत्वादायसमयमिव लोहमयमिव निर्मित रचितम् । कमिव । एकेति । एकलव्यो द्रोणाचार्यशिष्यः शबरस्तमिव । कीदृशम् । जन्मेति । एकस्माजन्मनोऽन्यज्जन्मान्तरं तत्र गतं प्राप्तम् । उदिति । उद्भिद्यमानान्युत्पद्यमानानि यानि श्मश्रूणि तेषां राजिः पङ्क्तिस्तस्या भावस्तत्ता तया प्रथमाया या मदलेखा तया मण्ड्यमानालंक्रियमाणा गण्डभित्तिः कपोलिभित्तिर्यस्यैवंभूतो यो गजयूथपतिर्गजनायकस्तस्य कुमारकः कलभस्तमिव । असितेति । पूरितं भृतमरण्यं काननं येन स तथा तम् । केन । देहस्य शरीरस्य या प्रभा कान्तिस्तस्य प्रवाहेणौघेन । तमेव विशेषयन्नाह - असितेति । असितं कृष्णं यत्कुवलयं कुवेलं तद्वत् श्यामलेन श्यामेन । केनेव । कालिन्दीजलेनेव यमुनाम्भसेव । यमुनाजलं नीलम्, शबरदेहप्रभापि तादृशी, अतस्तयोः साम्यम् । किमिव । आकुटिलेति । आ ईषत्कुटिलमग्रं यस्यैवंभूतेन स्कन्धावलम्बिना कुन्तलभारेण केशकलापेनोपेतं सहितं गजानां व्यापादनलक्षणेन तन्मदेन दानवारिणा मलिनीकृतेन केसराणां कलापेन सटानां कलापेनोपेतं सहितं केसरिणमिव सिंहमिव । आयतेति । आयतं विस्तीर्णं ललाटमलिक यस्य स तम् । अतीति । अतितुङ्गात्युच्चा घोरा नासिका यस्य स तम् । वामेति । वामपार्थेन सव्यपार्चेन विराजमान शोभनानम् । तदेव विशेषयन्नाह - पर्णेष्विति । पर्णेषु पत्रेषु यच्छयनं स्वापस्तत्र योऽभ्यासः परिचयस्तेन लग्नः पल्लवानां राग आरुण्यं यस्मिंस्तत्तथा तेन । अत्रोत्प्रेक्षानायं पल्लवैररुणः किंत्वेकस्मिन्कर्णे आभरणतां भूषणतां उपनीतस्य प्राप्तस्य भुजगफणमणेरापाटलैः श्वेतरक्तैः अंशुभिः किरणैः आलोहितीकृतेन अरुणीकृतेनेव । इव भिन्नक्रमः । अचिरेति । अचिरं तत्कालं प्रहतो यो गजस्तस्य कपोलाभ्यां गृहीतेन सप्तच्छदानामयुक्छदानां यः परिमलो गन्धस्तं वहतीत्येवंशीलः स तथा तेन । केनेव । कृष्णागरुः काकतुण्डस्तस्य पङ्केनेव कर्दमेनेव सुरभिणा सुगन्धिना मदेन कृतोऽङ्गरागो विलेपनं येन स तथा तेन । उपरीति । तस्य मदस्य यः परिमलो गन्धस्तेनान्धेन विह्वलेनेति हेतुः । उपर्युपरिष्टाद्ममता भ्रमणं कुर्वता । मायूरेति । - - - - - - - - - - टिप्प० . 1 गजानां मदेन मलिनीकतेन केसरकलापेन सटासमहेनोपेतं सिंहमिवेति स्पष्टोऽर्थः । पाठा० -१ अतिमहतः. २ आयसम्. ३ आगतम्. ४ कुमारम्. ५ श्यामेन. ६ पूरयन्तमरण्यम्. ७ ललाटभासिनम्. ८ तुङ्गघोर. ९ भुजंग. १० फणा. ११ आहत. १२ कृष्णागुरु. १३ उपरिपतत्परिमल. १४ परिभ्रमता. १५ मायूरातपत्र; मयूरपिच्छातपत्र, मयूरपिच्छछत्र. (64 कादम्बरी। कथामुखे Page #78 -------------------------------------------------------------------------- ________________ तपत्रानुकारिणा मधुकरकुलेन तमालपल्लवेनेव निवारितातपम्, आलोलपल्लवव्याजेन भुजबलनिर्जितया भयप्रयुक्तसेवया विन्धाटव्येव करतलेनामृज्यमानगण्डस्थलस्वेदैलेखम्, आपाटलयाहरिणकुलकालरात्रिसङ्गध्यायमानया शोणितायेव दृष्ट्या रंजयन्तमिवाशाविभागानाम्, जानुलम्बेन कुंजरकरप्रमाणमिव गृहीत्वा निर्मितेन चण्डिकारुधिरबलिप्रदानायाऽसकृत्रिशितशस्त्रोल्लेखविषमितशिखरेण भुजयुगलेनोपशोभितम्, अन्तराँन्तरालग्नाऽऽश्यानहरिणरुधिरबिन्दुना स्वेदजलकणिकाचितेन गुञ्जाफलमित्रैः करिकुम्भमुक्ताफलैरिव रचिताभरणेन विन्ध्यशिलाँविशालेन वक्षःस्थलेनोद्भासमानम्, अविरतश्रमाभ्यासादुल्लिखितोदरम्, इभमदमलिन - *********** मायूर् मयूरसंबन्धि यदातपत्रं तदनुकारिणा मधुकरकुलेन भ्रमरसमुदायेन । केनेव । तमालपल्लवेनेव तापिच्छकिसलयेनेव निवारितो दूरीकृत आतपः सूर्यालोको यस्य स तथा तम् । आलोलेति । विन्ध्याटव्या विन्ध्यवनस्थल्या लोलाश्चञ्चला ये पल्लवाः किसलयानि तेषां व्याजेन छलेन करतलेन हस्तेनेवापमृज्यमाना गण्डस्थलस्वेदलेखा यस्य तम् । विन्धाटवीं विशिनष्टि - भुजेति । भुजयोर्यदलं वीर्यं तेन निर्जितया पराजितया । भयेति । भयमातङ्कस्तेन प्रयुक्तारब्धा सेवा यया । दृष्ट्या चक्षुषा । कीदृश्या आपाटलयेषछेतरक्तया । मृगेति । मृगकुलानां हरिणवंशानां या क्षयरात्रिर्विनाशयामिनी तस्या । संध्यायमानया सायंकालवदाचरितया शोणितायेव रक्तलिप्तयेव रञ्जयन्तं शोभयन्तम् । केषाम् । आशाविभागानां दिग्विभागानाम् । अत्र कर्मणि षष्ठी । जान्विति । भुजयोर्युगलं बाहुद्वन्द्वं तेनोपशोभितं विराजमानम् । भुजयुग्मं विशेषयन्नाह - जान्विति । जानुर्नलकीलस्तत्पर्यन्तं चावलम्बनायतेन । महापुरुषलक्षणमिदम् । कुञ्जरेति । कुञ्जरो गजस्तस्य करप्रमाणं शुण्डापरिमाणं गृहीत्वेव निर्मितेन कृतेन । चण्डिकेति । चण्डिका काली तस्या रुधिरबलिप्रदानायासकृन्निरन्तरं निशितानि तेजितानि यानि शस्त्राणि तेषामुल्लेखो घर्षणं तेन विषमितं स्थपुटितं शिखरं भुजाग्रं यस्य स तथा तेन । चक्षुरिति । चक्षुःस्थलेन नेत्रस्थानेनोत्प्राबल्येन भासमानं शोभमानम् । चक्षुःस्थलं विशिनष्टि - लग्नेति । अन्तरा मध्ये लग्नाश्यानाशुष्का हरिणस्य मृगस्य युटुधिरं रक्तं तस्य बिन्दवो यस्मिन् तेन । स्वेदेति । स्वेदजलं प्रस्वेदवारि तस्य कणिकाः क्षुद्ररजःकणिकास्ताभिराचितेन व्याप्तेन । रक्तचेतसादृश्योपमानमाह-गुप्तेति । रचितं विरचितमाभरणं भूषणं यस्य तत्तथा तेन । कैः । करिकुम्भमुक्ताफलैरिव हस्तिशिरःपिण्डरसौद्भवैरिव । कीदृशैः । गुञ्जाफलानि प्रसिद्धानि तैर्मित्रैः । विन्ध्येति । विन्ध्यपर्वतस्य जलबालकाद्रेर्या शिला तद्वद्विशालेन विस्तीर्णेन । अविरतेति । अविरतं निरन्तरं यः शक्त्यतिशयार्थं - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०.1 मायूरं यत्पिच्छं बहँ तदेव तस्य वा यत् आतपत्रं छत्रं तदनुकारिणेति पाठः केषु वर्गेषु प्रचलितः । 2 आलोलाः पल्लवास्तस्य कपोलस्वेदलेखां प्रोञ्छन्ति, तत्रोटोक्षा-विन्ध्याटवी भुजबलेन निर्जिता, अत एव भयवशात् प्रयुक्तसेवा आरब्यसेवना । तत एव पल्लवानां व्याजेन सा विन्ध्याटव्येव करतलेन तस्य स्वेदान् प्रोञ्छतीत्युत्प्रेक्षाशयः । 3 रक्तीकुर्वन्तमित्यर्थः । 4 कर्मणः शेषत्वविवक्षायां मातुः स्मरतीतिवत् षष्ठीति मार्मिकैर्बोद्ध्यम् । 5 क्षतकिणैरुच्चावचीकृतमित्यर्थः । 6 'रचिताभरणविन्थ्यशिलाविशाले. त्यादिविशेषणानि वक्षःस्थलस्येति अन्यस्यां टीकायां दरीदृश्यते । अत्र तानि चक्षुषः प्रयुक्ता । भयत्र व्याख्या त्वत्रत्या ग्राह्या । वक्षःस्थलं स्वेदजलबिन्दुभिव्याप्तं यस्य हि मध्ये मध्ये ईषच्छुष्का हरिणरुधिरबिन्दवोपि लग्नाः । अत एवोत्प्रेक्षा यत्गुञ्जाफलमित्रैः गजमौक्तिकैरिव रचितभरणमिति ब्याख्याशयः । पाठा० -१ आलोलकर्णपल्लव. २ स्वेदसलिल. ३ मृगकुलक्षयरात्रि. ४ रञ्जयन्तमाशा. ५ विभागाम्. ६ आजानुलम्बिना. ७ वनकुञ्जर; दिकुञ्जर. ८ कालिका. ९ प्रदानार्थमसकृत्. १० अन्तरालग्ना. ११ कणचितेन. १२ विमित्रैः. १३ विरचिता. १४ विन्ध्यशिलातल. १५ कक्षस्थलेन, चक्षुःस्थलेन. १६ उल्लिखिताम्बरम्. (शबरसेनापतिः पूर्वभागः । 65 Page #79 -------------------------------------------------------------------------- ________________ मालानस्तम्भयुगलमुपहसन्तमिवोरुदण्डद्वयेन, लाक्षालोहितकौशेयपरिधानम्, अकारणेऽपि क्रूरतया बद्धपिताकोदग्रभुकुटिकराले ललाटफैलके प्रबलभक्त्याराधितया मत्परिग्रहोऽयमिति कात्यायन्या त्रिशूलेनेवाकितम्, उपजातपरिचयैरनुगच्छद्भिः श्रमवशा(रविनिर्गताभिः स्वभावपाटलतया शुष्काभिरपि हरिणशोणितमिव क्षरन्तीभिर्जिह्वाभिरावेधमानखेदैर्विवृतमुखतया स्पष्टदृष्टदन्तांशून्दंष्ट्रान्तराललग्नकेसरिसटानिव सृक्कभागानुदहद्भिः स्थूलवराटकमालिकापरिगतकण्ठैर्महावराहदंष्ट्राप्रहारजजरैरल्पकायैरपि महाशक्तित्वादनुपजातकेसरैरिव केसरिकिशोरकैZगवधूवैधव्यदीक्षादानदक्षरनेकवणेः श्वभिरतिप्रमाणाभिश्च केसरिणामभयप्र - *********** श्रमस्तत्राभ्यासः पुनः पुनः करणं तस्मादुल्लिखितं चिह्नितमुदरं यस्य स तम् । इभेति । ऊर्वोर्यदण्डद्वयं तेनेभो गजस्तस्य मदो दानवारि तेन मलिनं श्याममालानं गजबन्धनस्तम्भस्तयोर्युगलं द्वन्द्वमुपहसन्तमिव तिरस्कुर्वन्तमिव । लाक्षेति । लाक्षया जतुना लोहितं रक्तीकृत यत्कौशेयं कृमिकोशोत्थं तदेव परिधानमधोंशुकं यस्य स तथा तम् । अकारेति । अकारणेऽपि क्रोधाभावेऽपि क्रूरतया दुष्टतया बद्धा त्रिपताका त्रिवलिययैवंभूता या भ्रुकुटि कुटिस्तया कृत्वा कराले विकराले ललाटफलकेऽलिकपट्टे प्रबलभक्त्याराधितयात्युत्कृष्टभक्तिवशीकृतया कात्यायन्या भवान्या मत्परिग्रहोऽयमिति मदीयोऽयमिति त्रिशूलेन शस्त्रविशेषणाङ्कितमिव चिह्नितमिव । श्वभिरिति । श्वभिः श्वानरनुगम्यमानमनुव्रज्यमानम् । शुनो विशेषयन्नाह-उपेति । उपजातः समुत्पन्नः परिचयः सांगत्यं यैस्ते तथा तैः । अन्विति । अनु पश्चात् गच्छद्भिः गामिभिः । आवेधेति । आवेधमानोऽन्येभ्यो ज्ञाप्यमानः खेदो विषण्णता यैः । काभिः । जिह्वाभी रसानाभिः । एता विशिनष्टि - अमेति । श्रमवशाखेदमाहात्म्यान्मुखाद्दूरं विनिर्गताभिर्निःसृताभिः । स्वभावेति । स्वभावो जाति स्वभावस्तेन पाटलतया श्वेतरक्ततया शुष्काभिरपि निर्लेपाभिरपि हरिणशोणितं मृगरुधिरं क्षरन्तीभिरिव स्त्रवन्तीभिरिव । किं कुर्वद्भिस्तैः । विवृतेति । विवृतं विदीर्णं यन्मुखं तस्य भावस्तत्ता तया सृक्कभागानोष्ठप्रान्तदेशान् । ‘दन्तवस्त्रं च तत्प्रान्तौ सृक्कणी' इति कोशः । उद्वहद्भिरुत्पाबल्येन वहमानैः । तान्विशेषयन्नाह - स्पष्टमिति । स्पष्टं प्रकटं दृष्टा अवलोकिता दन्तांशवो दशनत्विषो येषु ते तथा तान् । कामिव । दंष्ट्रान्तराले दाढामध्ये लग्ना या केसरिसटा सिंहस्कन्धकेसरा तामिव । स्थूलेति । स्थूला स्थविष्ठा ये वराटकाः कपर्दकास्तेषां मालिका मालास्ताभिः परिगतः सहितः कण्ठो येषां ते तथा तैः । महेति । महावराहा वनक्रोडास्तेषां दंष्ट्रा दाढास्तासां प्रहारा अभिघातास्तै रैः शिथिलाङ्गैः । अल्पेति । अल्पकायैः स्वल्पशरीरैरपि महाशक्तित्वात्प्रौढपराक्रमत्वादनुपजातकेसरैरनुत्पन्नसटैः केसरिकिशोरकैरिव सिंहशावकैरिव । मृगेति । मृगवधूनां हरिणपत्नीनां यद्वैधव्यदीक्षादानं विगतभर्तृकात्वव्रतदानं तत्र दक्षैनिपुणैः । अनेकेति । अनेके बहवो वर्णा रक्तपीतादयो येषु ते तथा तैः । पुनः काभिः । अतोति । अतिप्रमाणाभिः प्रचण्डाभिः केसरिणां सिंहानामभयप्रदानं जीवरक्षणं तस्य याचना प्रार्थना तदर्थं आगताभिः प्राप्ताभिः सिंहीभिरीव कौलेयककुटु - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -- - - - - -- - - टिप्प० -1 कृशत्वेन उल्लेखयोग्यीकृतं कृशमित्यर्थः । 2 कीदृशान् सृक्कभागान् ? येषु दन्तांशवः स्पष्टं दृश्यामानाः सन्ति । अत एव ते ईदृशाः प्रतीयन्ते यथा एषां दंष्ट्रान्तराले केसरिणः सटैव लग्ना भवेत् । दन्तकिरणेषु लग्नायाः केसरसटाया उत्प्रेक्षेत्याशयः ॥ पाटा० - १ क्रूरजातितया. २ त्रिपताकाग्रभ्रुकुटि. ३ पट्टे. ४ दर. ५ दृष्टदष्टांशून्दन्तान्तराल. ६ सटानिव. ७ किशोरैः. ८ वैधव्यदान. IIIW 66 । कादम्बरी । कथामुखे Page #80 -------------------------------------------------------------------------- ________________ दानयाचनार्थमागताभिः सिंहीभिरिव कौलेयककुटुम्बिनीभिरनुगम्यमानम्, कैश्चिद्गृहीतचमरबालगजदन्तभारैः कैश्चिदच्छिद्रपर्णबद्धमधुपुटैः कैश्चिन्मृगपतिभिरिव गजकुम्भमुक्ताफलनिकरसनाथपाणिभिः कैश्चिद्यातुधानेरिव गृहीतपिर्शितभारैः कैश्चित्प्रमथैरिव केसरिकृत्तिधारिभिः कैश्चित्क्षपणकैरिव मयूरपिच्छेधारिभिः कैश्चिच्छिशुभिरिव काकपक्षधरैः कैश्चित्कृष्णचरितमिव दर्शयद्भिः समुत्खातविधृतगजदन्तैः कैश्चिज्जलदागमदिवसैरिव जलधरच्छायामलिनाम्बरैरनेकवृतान्तैः शबरवृन्दैः परिवृतम्, अरण्यमिव सखड्गधेनुकम्, अभिनवजलधरमिव मयूरपिच्छचित्रचापधारिणम्, बकराक्षसमिव गृहीतैकचक्रम्, अरुणानुजमिवोद्धृतानेकमहानागदशनम्, भीष्ममिव शिखण्डिशत्रुम्, निदाघदिवसमिव सतताविभूतमृगतृ - *********** म्बिनीभिः धानपत्नीभिश्च सहेति भावः । शबरेति । शबरवृन्दैभिल्लसमूहः परिवृतमावेष्टिम् । कीदृशैः । कैश्चिदिति । गृहीताः स्वीकृताश्चमराणां गवयाना बालाः केशाः गजाना दन्ताश्च तेषां भारः समूहो यैस्ते तथा तैः । कैश्चिदिति । अच्छिद्रपर्णेनिबिडपत्रैद्धानि मधुनः पुटानि यैस्ते तथा तैः । कैश्चिदिति । मृगपतिभिरिव सिंहैरिव गजाना हस्तिनां कुम्भाः शिरःपिण्डाः तेषां मुक्ताफलानि मौक्तिकानि तेषां निकरः समूहस्तेन सनाथः सहितः पाणिर्येषां ते तथा तैरित्यभङ्गश्लेषः । कैश्चिदिति । यातुधानैरिव राक्षसैरिव गृहीतः पिशितस्य मासस्य भारो यैस्ते तथा तैः । अत्राप्यभङ्गश्लेषः । कैश्चिदिति । प्रमथैरिव पार्षदैरिव केसरिणां सिंहानां कृत्तयश्चर्माणि धरन्तीत्येवंशीलैस्तद्धारिभिः । कैश्चिदिति । क्षपणकैरिव दिगम्बरैरिव मयूराणां बर्हिणां पिच्छानि छदानि धरन्तीत्येवंशीला धारिणस्तैः । भिल्ला अपि हतमयूरपिच्छधारिणो भवन्तीति श्लेषः । कैश्चिदिति । शिशुभिरिव बालकैरिव काकपक्षः शिखण्डकस्तद्धारिभिः । भिल्लपक्षे काकानां सकृत्प्रजानां पक्षाश्छदास्तद्धारिभिः । कैश्चिदिति । कृष्णचरितं विष्णुविजृम्भितं दर्शयद्भिः प्रकाशयद्भिरिव एवं समुत्खाताः सम्यक्प्रकारेणोत्पाटिताः पश्चाद्विशेषेण धृता गजदन्ता यैस्ते तथा तैः । कृष्णेनापि बाल्ये गजहननक्षण इत्थमेवाचरितमिति साम्यम् : कैश्चिदिति । जलदस्य मेघस्यागमो येष्वेवंविधैर्दिवसैर्वासरैरिव जलधरो मेघस्तस्य छायातपाभावस्तद्वन्मलिनानि कश्मलान्यम्बराणि वस्त्राणि येषां ते तथा तैः । पक्षे जलधरच्छायया मलिनमम्बरं व्योम येष्विति विग्रहः । अनेकेति । अनेके बहवो वृत्तान्ताश्चरित्राणि येषा त तथा तैः । अरण्येति । अरण्यं वन तद्वदिव । उभयो सादृश्यमाह - सखड्गेति । खड्गः कौक्षेयको धेनुका कृपाणिका ताभ्यां सहवर्तमानम् । पक्षे खड्गो वार्धाणसः धेनुका वशा ताभ्यां युक्तमित्यर्थः । अभिति । अभिनवः प्रत्यग्रो यो जलधरो मेघस्तमिव मयूराणा पिच्छानि तद्वच्चित्रं विविधवर्णधारि यच्चापं धनस्तद्धत्त इत्येवंशीलः स तथा तम । पक्षे मयरपिच्छवच्चित्रं चापभिन्द्रधनस्तद्धारिणम् । बकेति । बकाभिधानो राक्षसो यातुधानस्तद्वदिव । उभयोः साम्यमाह - गृहीतेति । गृहीतं कृतमेकमद्वितीयं चक्र येन स तम् । पक्ष गृहीता स्वायत्तीकृतैकचक्राभिधाना पुरी येनेति विग्रहः । अरुणेति । अरुणानुजो गरुडस्तद्वदिव । उभयोरेक्यं प्रदर्शयत्राह - उद्धृतेति । उद्धृता उत्पाटिता अनेकेषां महानागानां बहुमहाहस्तिनां दशना दन्ता येन स तथा तम् । पक्ष उद्धृता मुखानिष्कासिता अनेकमहानागानां महाभोगिनां दशना दन्ता येनेति विग्रहः । भीष्मेति । भीष्मो गाङ्गेयस्तमिव । उभयोः सादृश्यमाह - शिखण्डीति । शिखण्डिनो बर्हिणस्तेषां शत्रुम् । तद्वधकारित्वात् । पक्षे शिखण्डी पाण्डवपक्षीयो वर्षवरस्तस्य शत्रु विपक्षम् । निदाघेति । निदाघो ग्रीष्मकालस्तस्य दिवस - - - - - - - - - - -- - - - - - - - - - - - - - टिप्प० - 1 श्वपत्नीभिरित्यर्थः । 2 वायसानाम् । 3 कुवलयापीडस्य हननोत्तरमित्यर्थः । - - - पाठा० - १ कौलेय; कौलटेय. २ आगृहीत. ३ विभिनगजकुम्भ. ४ पिशिताहारैः. ५ बाहिभिः. ६ मलिनैः. शबरसेनापतिः पूर्वभागः । Page #81 -------------------------------------------------------------------------- ________________ ष्णम्, विद्याधरमिव मानसवेगम्, पाराशरमिव योजनगन्धानुसारिणम्, घटोत्कचमिव भीमरूपधारिणम्, अचलराजकन्यकाकेशपाशमिव नीलकण्ठचन्द्रकाभरणम्, हिरण्याक्षदानवमिव महावराहदंष्ट्राविभिन्नवक्षःस्थलम्, अतिरागिणमिव कृतबहुबैन्दीपरिग्रहम्, पिशिताशनमिव रक्तलुब्धकम्, गीतकैलाविन्यासमिव निषादानुगतम्, अम्बिकात्रिशूलमिव महिषरुधिरार्द्रकायम्, अभिनवयौवनमपि क्षैपितबहुवयसम्, कृतसारमेयसंग्रहमपि फलमूलाशनम्, कृष्णम - *** मिव दिनमिव । उभयोः साम्यमाह - सततेति । सततं निरन्तरं वनादाविर्भूता प्रकटीभूता ये मृगा हरिणास्तेषु तृष्णा हननेच्छा यस्य तम् । पक्ष आविर्भूता प्रकटिता मृगतृष्णा मरीचिका येष्विति विग्रहः । विद्येति । विद्याधरो व्योमगस्तद्वदिव । उभयोः साम्यार्थमाहमानसेति । मानेनाहंकारेण सवेगः सर्वदा तीव्रगतिः । पक्षे मानसे मानसाभिधाने सरसि गतिर्गमनं यस्येति विग्रहः । पारेति । पाराशरो व्यासस्तमिव । उभयोः सादृश्यमाह - योजनेति । योजनं गन्धो विद्यते यस्मिन्नित्यर्शआदित्वादच्प्रत्ययः । योजनगन्धः कस्तूरीमृगस्तमनुसरतीत्येवंशीलः स तम् । योजनगन्धा शीतं तमनुसारिणमिति वा । पक्षे 'व्यासंमातरि । कस्तूरीशीतयोश्च' इति कोशः । घटे । घटोत्कचो हिडिम्बासुतस्तमिव । उभयोः सादृश्यमाह - भीमेति । भीमं भयकारि यद्रूपं तद्धारिणम् । पक्षे भीमस्य वृकोदरस्य रूपमाकृतिस्तद्धारिणम् । तत्पुत्रत्वात् । अचलेति । अचलराजो हिमाचलस्तस्य कन्यका पार्वती तस्याः केशपाशः । केशकलापस्तमिव । उभयोस्तुल्यतामाह - नीलेति । नीलकण्ठो मयूरस्तस्य चन्द्रका मेचकास्तेषामासमन्ताद्धरणं धारणं यस्मिन्स तथा तम् । पक्षे नीलकण्ठो महादेवस्तस्य यश्चन्द्र एव चन्द्रकस्तदेवाभरणं यस्मिन् । अर्धनारीत्वादिति भावः । हिरण्येति । हिरण्याख्यो हिरण्यकशिपुः दानवः दैत्यस्तमिव । उभयोः साम्यं दर्शयन्नाह - महेति । महावराहा वनसूकरास्तेषां दंष्ट्रा दाढास्ताभिर्विभिन्नं विहितक्षतं वक्षःस्थलं भुजान्तरं यस्य स तथा तम् । द्वितीयपक्षे भगवता कृष्णेन महावराहरूपमाधाय हिरण्याक्षस्य वक्षःस्थलं विदारितमिति प्रसिद्धिः । अतीति । अतिरागिणमतिरागाभिभूतमतियशोभिलाषुकं तमिव । उभयोस्तुल्यतामाह - कृतेति । कृतो विहितो बहुबन्दीनां ग्रहाणां परिसामस्त्येन ग्रहो येन तम् । पक्षे कृतो बहुबन्दिनां वैतालिकानां परिग्रहः स्वीकारो येनेति विग्रहः । ' श्लेषे स्वरो न गण्यते' इति ह्रस्वदीर्घार्थः श्लेषः । पिशितेति । पिशिताशनो मांसभक्षकस्तद्वदिव । उभयोस्तुल्यत्वमाह - रक्तेति । रक्ता अनुरक्ता लुब्धका व्याधा यस्मिन्स तथा तम् । पक्षे रक्ते रुधिरे लुब्ध एव लुब्धकः । सस्पृह इत्यर्थः । गीतेति । गीतकला गेयविज्ञानं तस्या विन्यासो रचना तमिव । उभयोः साम्यमाह - निषादेति । निषादा भिल्लास्तैरनुगतं पश्चाद्गतम् । पक्षे निषादस्तन्त्रीकण्ठोद्भवः स्वरः । 'निषादर्षभगान्धर -' इति कोशः । तेनानुगतं सहितम् । अम्बिकेति । अम्बिका भवानी तस्यास्त्रिशूलं शस्त्रविशेषस्तद्वदिव । उभयोः सादृश्यमाह-महिषेति । महिषो रक्ताक्षस्तस्य रुधिरं रक्तं तेनार्द्रः स्विन्नः कायो देहो यस्य स तम् । तदपि तादृशमित्यभङ्गश्लेषः । अभिनवेति । अभिनवं मनोहारि प्रत्यग्रं वा यौवनं तारुण्यं यस्यैवंभूतमपि क्षपितानि बहूनि वयांसि येनेति विरोधः । परिहारपक्षे क्षपिता बहवो वयसः पक्षिणो येनेति विग्रहः । कृतेति । कृतो विहितः सारस्य धनस्य मेयस्य मातुं योग्यस्यान्त्रादेः संग्रहः स्वीकारो येनैवंभूतमपि फलमूलान्येवानं भक्षणं यस्येति विरोधः । परिहारपक्षे कृतः सारमेयाणां कुक्कुराणां संग्रहो येनैवंभूतम् । 68 ** टिप्प० - 1 योजनगन्धानाम्नीं दाशकन्यामनुसरति स इत्यर्थः । 2 पिच्छप्रान्तभागे चन्द्राकाराः शिखण्डकाः इत्यर्थः । 3 अतिरागिणम् अत्यन्तविषयाक्तं धनिनमिव कृतो बहूनां बन्दीनां प्रसभापहृतस्त्रीणां संग्रहो येन इत्यर्थः केषुचन वर्गेषु प्रचलितः । 4 सिक्त इत्याशयः । पाठा० - १ पराशरम्. २ हिरण्याख्य ३ बन्दि. ४ बहुरक्त. ५ कलाविलास; कलाभिलाष. ६ क्षयितवयस्कम्. ७ पलाशिनम्. कादम्बरी | कथामुखे Page #82 -------------------------------------------------------------------------- ________________ प्यसुदर्शनम्, स्वच्छन्दचारमपि दुर्गेकशरणम्, क्षितिभृत्पादानुवर्तिनमपि राजसेवानभिज्ञम्, अपत्यमिव विन्ध्याचलस्य, अंशकावतारमिव कृतान्तस्य, सहोदरमिव पापस्य, सौरमिव कलिकालस्य, भीषणमपि महासत्त्वतया गम्भीरमिवोपलक्ष्यमाणम्, अभिभवनीयाकृतिं । मातङ्गनामानं शबरसेनापतिमपश्यम् । अभिधानं तु पश्चात्तस्याहमश्रौषम् । आसीच्च मे मनसि-'अहो, मोहप्रायमेतेषां जीवितं साधुजनगर्हितं च चरितम् । तथा हि-पुरुषपिशितोपहारे धर्मबुद्धिः, आहारः साधुजनगेर्हितो मधुमासादिः, श्रमो मृगया, शौस्त्रं शिवारुतम्, समुपदेष्टारः सदसतां कौशिकाः, प्रज्ञा शकुनिज्ञानम्, परिचिताः धानः, राज्यं शून्यास्वटवीषु; आपानकमुत्सवः, मित्राणि क्रूरकर्मसाधनानि धनूंषि, सहाया - *********** कृष्णेति । कृष्णं विष्णुमपि सुदर्शनेन रहितमिति विरोधः । परिहारपक्षे कृष्णं श्यामवर्णमत एवासुदर्शनं भीमदर्शनम् । भयोत्पादकत्वादिति भावः । स्वच्छन्देति । स्वच्छन्देन स्वेच्छतया चारश्चरणं यस्यैवंभूतमपि दुर्ग कोट्टमेकमद्वितीयं शरणमाश्रयो यस्येति विरोधः । परिहारपक्षे दुर्गा भवान्येकं शरणं यस्येति विग्रहः । क्षितिभृदिति । क्षितिभृद्राजा तस्य पादाश्चरणास्तदनुवर्तिनमपि तत्समीपस्थायिनमपि राजसेवा नृपसपर्या तस्या अनभिज्ञमकुशलमिति विरोधः । तत्परिहारपक्षे क्षितिभृत्पर्वतस्तस्य पादाः पर्यन्तपर्वतास्तदनुवर्तिनं तत्र स्थायिनमिति विग्रहः । अपत्येति । विन्ध्याचलस्य जलबालकानेरपत्यमिव प्रसूतिमिव । अशेति । कृतान्तस्य यमस्यांशावतारमिवैकदेशावतारमिव । सहोदरेति । पापस्यैनसः सहोदरमिव सोदरमिव । सारेति । कलिकालस्य कलियुगस्य सारमिव सर्वस्वमिव । भीषणेति । भीषणमपि भयजनकमपि महच्च तत्सत्त्वं च महासत्त्वं तस्य भावस्तत्ता तया गम्भीरमिव गाम्भीर्यगुणयुक्तमिवोपलक्ष्यमाणं परिदृश्यमानम् । परैरिति शेषः । अभीति । अभिभवनीया तिरस्करणीयाकृतिराकारो यस्येति स तम् । अन्वयस्तु प्रागेवोक्तः । अभिधानं तु पश्चात्तस्याहमश्रौष तस्य सेनापतेरभिधानं नामाहं पश्चात्तदर्शनानन्तरमश्रौषमाकर्णयम् । अनुचरमुखादिति शेषः । आसीच्चेति । मे मम मनसि चित आसीद्धभूव । खेद इति शेषः । तदेव दर्शयति - अहो इत्यादिना । अहो इत्याश्चर्चे । एतेषां भिल्लानां जीवितं प्राणितं मोहोऽज्ञानं प्रायः प्रचुरं यत्र तादृशम् । चः पुनरर्थे । चरितमाचरणं साधुजनैः सज्जनजनैर्गर्हित निन्दितम् । तदेव विशेषतो दर्शयति - तथाहीति । पुरुषेति । पुरुषस्य पुंसो यत्पिशितं मांसं तस्य य उपहारो भगवत्यै नैवेद्यदर्शनं तस्मिन्धर्मबुद्धिः श्रेयोधीः । आहार इति । आहारः प्रत्यवसानं साधुजनैर्हितो निन्दितो मधुमासादिर्मधु माक्षिकं वा । मांसं प्रतीतम् । ते आदौ यस्येति बहुव्रीहिः । आदिशब्दात्कन्दादिपरिग्रहः । श्रम इति । श्रमः शक्तिसाधनायासः मृगयाऽऽखेटकः । शास्त्रमिति । शिवा श्रृगाली तस्या रुतं शब्दितं शास्त्रमुच्चस्वरवेदपाठः । प्रबोधजनकत्वसाम्यात्तदुपमानम् । सदिति । सदसतां शुभाशुभानां समुपदेष्टारो बोधकाः कौशिका उलूकाः । प्रज्ञेति । शकुनयः पतत्रिणस्तेषां स्थूलमहत्त्वादिना ज्ञानं तदेव प्रज्ञा विवेकबुद्धिः । परीति । श्वानः सारमेयाः परिचिता विश्वासपात्राणि । राज्यमिति । शून्यासु जनरहितासु अटवीषु विन्ध्याटवीषु राज्यं स्वामित्वम् । आपानकेति । उत्सवः संतुष्टिकार्यं तदेवापानमेवापानकम् । स्वार्थे कः । पानगोष्ठिका । मित्राणीति । क्रूरं यत्कर्म तत्साधनानि तद्धेतुभूतानि धनुष्येव चापान्येव मित्राणि सुहृदः । हितचिन्तकानीति यावत् । सहाया इति । विषेण दिग्धं लिप्तं मुखमाननं येषामेवंविधाः सायका बाणास्त एव सहाया इष्टकार्यकर्तृत्वात्साहाय्यकारिणः । क इव । - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अनभिभवनीयाकृतिम् दृढगात्रतया अपराजय्यमूर्तिम् । इत्यपि पाठोव्याख्या चेतरस्यां टीकयां दृष्टिपथमायाति । 2 भोजनमित्यर्थः । पाठा० - १ प्रचार. २ विन्ध्यस्य. ३ सारथिम्. ४ अनभिभव. ५ मातङ्गक. ६ सर्वशबर. ७ तस्य पश्चात्. ८ घोर. ९ प्राज्य. १० एषाम्. ११ निर्वाहितम्. १२ निन्दितः; विगर्हितः. १३ शास्त्रे . १४ उपदेष्लरः, १५ शून्याटवीषु. १६ क्रूरकर्माणि. १७ धनं धनूंषि. (शबरचरित्रालोचनम् । पूर्वभागः । 69 Page #83 -------------------------------------------------------------------------- ________________ विषदिग्धमुखा भुजंगा इव सायकाः, गीतमुत्साहकारि मुग्धमृगाणाम्, कलत्राणि बन्दीगृहीताः परयोषितः, क्रूरात्मभिः शार्दूलैः सह संवासः, पशुरुधिरेण देवतार्चनम्, मांसेन बलिकर्म, चौर्येण जीवनम्, भूषणानि भुजंगमणयः, वनकरिमदैरङ्गरागः, यस्मिन्नेव कानने निवसन्ति तदेवोत्खातमूलमशेषतः कुर्वते' इति चिन्तयत्येव मयि शबरसेनापतिरटवीभ्रमणसमुद्भवं श्रममपनिनीषुरागत्य तस्यैव शोल्मलीतरोरधश्छायायामवतारितकोदण्डस्त्वरितपरिजनोपनीतपल्लवासने समुपाविशत् । अन्यतरस्तु शबरयुवा ससंभ्रममवतीर्य तस्मात्करयुगलपरिक्षोभिताम्भसः सरसो वैडूर्यद्रवानुकारि, प्रलयदिवसकरकिरणोपतापादम्बरैकदेशमिव विलीनम्, इन्दुमण्डलादिव प्रस्यन्दितम्, द्रुतमिव मुक्ताफलनिकरम्, अत्यच्छतया स्पर्शानु - *********** भुजंगाः सर्पा इव । एतेषां विषदिग्धमुखत्वं स्वाभाविकम् । तेषामोपाधिकमिति भावः । गीतमिति । मुग्धा अनभिज्ञा ये मृगा हरिणास्तेषामुत्साहकारि स्तब्धताविधायि गीतं गानम् । कलत्रेति । परयोषितोऽन्यस्त्रिय एव बन्दी ग्रहस्तद्रूपत्वेन गृहीताः स्वीकृताः कलत्राणि स्वपत्नयः । क्रूरेति । क्रूरात्मभिर्दुष्टात्मभिः शार्दूलैचित्रकैः समं संवासः सहावस्थानम् । पश्चिति । पशवो महिषास्तेषां रुधिरेण रक्तेन देवतार्चनं देवपूजनम् । मांसेनेति । मांसेन पिशितेन बलिर्हन्तकारस्तत्कर्म तत्कृत्यम् । चौर्येणेति । चौर्येण परद्रव्यापहारेण जीवन प्राणधारणम् । भूषणानीति । भूषणान्याभरणानि भुजंगमणयः सर्परत्नानि । पर्वतवासित्वात्तेषां ते सुलभा इति भावः । वनेति । वनकरिणामरण्यहस्तिनां मदैर्दानवारिभिरङ्गरागो विलेपनम् । यस्मिन्निति । यस्मिन् अनिर्दिष्टनामनि कानने वने निवसन्ति निवास कुर्वन्ति तदेव काननमशेषतः समग्रत उत्खातमुत्पाटितं मूलं मध्यभागो यस्यैवंभूतं कुर्वते विदधत इति पूर्वोक्तप्रकारेण मयि चिन्तयति ध्यायति सत्येव स शबरसेनापतिस्तस्यैव शाल्मलीतरोरधश्छायायामागत्य । त्वरितेति । त्वरितं शीध्र परिजनेन परिच्छदेनोपनीतमानीत यत्पल्लवासनं किसलयासनं तस्मिन्समुपाविशत्तस्थिवान् । किं कर्तुमिच्छुः । अपनिनीषुः अपनेतुं दूरीकर्तुमिच्छुः । कम् । श्रमं खेदम् । एतदेव विशेषयन्नाह-अटवीति । अटव्यां भ्रमणमितस्ततः पर्यटनं तस्मात्समुद्भवं समुत्पन्नम् । सेनापतिं विशेषयन्नाह-अवेति । अवतारित अनधिज्यं कृतं कोदण्डं धनुर्येन स तथा । तुः पुनरर्थे । अन्यतरः कश्चिदनिर्दिष्टनामा । शबरश्चासौ युवा चेति कर्मधारयः । न तु शवराणा युवेति निर्धारणे षष्ठ्या समासः । 'न निर्धारणे' इति षष्ठ्या सह समासनिषेधात् । ससंभ्रमं सवेगमवतीर्य तदन्तः प्रविश्य तस्मात्पम्पाभिधानात्सरसः कासारात्कमलिनी नलिनी तस्यां पत्रपुटेनाम्भः पानीयं तथा धौतः क्षालितः पङ्कः कर्दमो यासा ता अत एव निर्मला विशदा या मृणालिकाः कमलिन्यस्ताश्च समुपाहरदानीतवानित्यन्वयः । सरो विशिनष्टि - करेति । करयुगलेन हस्तद्वयेन परिक्षोभित विलोडितमम्भः पानीयं यस्य तत्तथा तस्मात् । अथाम्भो विशेषयन्नाह-वैडूर्येति । वैडूर्यं वालवायजं तस्य द्रवः कल्कस्तदनुकारि तत्सदृशम् । अत्युज्ज्वलवर्णत्वात्तदुपमानम् । प्रलयेति । प्रलयस्य कल्पान्तस्य यो दिवसकरः सूर्यस्तस्य किरणा दीधितयस्तेषामुपतापादुष्णाद्विलीनं क्षरितमम्बरस्याकाशस्यैकदेशमिवैकप्रविभागमिव । इन्दुमण्डलाच्चन्द्रबिम्बाव्यस्यन्दितं क्षरितमिव । तथा मुक्ताफलस्य रसोद्भवस्य निकर समूह द्रुतमिव द्रवोपयुक्तमिव । अत्यच्छतया अतिस्वच्छतया तादृशभ्रमेऽपि शीतस्पर्शनानुमेयमनुमातुं योग्यं हिमेन तुहिनेन जड स्तब्धतां प्रापितम् । अरविन्दस्य कमलस्य यः कोशः कर्णिकाधारस्तस्य रजः परागस्तेन कषायं तुवरम् । कमलिनीर्विशेषयन्नाह - - - टिप्प० - 1 हरितमणिरित्यर्थः । 2 हिमवत् जडं शीतमित्यर्थो बोध्यः । - - - - - - - - - - - - - - - - - - - - - पाठा० - १ दग्ध. २ भुजंगमाः. ३ उत्साद. ४ बन्दि. ५ पशुरुधिरेणैव. ६ जीवितम्. ७ फणामयः. ८ गज. ९ यस्मिन्नेव च. १० कुर्वन्ति. ११ मयि सः. १२. शबरसेनापतिश्च. १३ परिभ्रमण. १४ समुद्धव. १५ शाल्मलि. १६ छायाम्. १७ उपनीते. १८ अन्यतमः. १९ हतम्. 70 कादम्बरी। कथामुखे Page #84 -------------------------------------------------------------------------- ________________ मेयं हिमजडम्, अरविन्दकोशरजःकषायमम्भः कमलिनीपत्रपुटेने प्रत्यग्रोद्धृताश्च धौतपङ्कनिर्मला मृणालिकाः समुपाहरत् । आपीतसलिलश्च सेनापतिस्ता मृणालिकाः शशिकला इव सैहिकेयः क्रमेणादशत् । अपगतश्रमश्चोत्थाय परिपीताम्भसा सकलेन तेन शबरसैन्येनानुगम्यमानः शनैःशनैरभिमतं दिगन्तरमयासीत् । ऐकतमस्तु जरच्छबरस्तस्मात्पुलिन्दवृन्दादनासादितहरिणपिशितः पिशिताशन इव विकृितदर्शनः पिशितार्थी तस्मिनेव तरुतले मुहूर्तमिव व्यलम्बत । अन्तरिते च शबरसेनापतौ स जीर्णशबरः पिबन्निवास्माकमायूंषि रुधिरबिन्दुपाटलया कपिलधूलतापरिवेषभीषणया दृष्ट्या गणयन्निव शुककुलकुलायस्थानानि श्येन इव विहंगामिषस्वादलालसः सुचिरमारुरुक्षुस्तं वनस्पतिम् मूलादपश्यत् । उत्क्रान्तमिव तस्मिन्क्षणे तैदालोकनभीतानां शुककुलानामसुभिः । किमिव हि दुष्करमकरुणानाम् । यतः स तमनेकतालतुङ्गमभ्रंकषशाखाशिखर - *********** प्रत्येगेति । प्रत्यग्रं तत्कालमुद्धृता उत्खाताः । आपीतेति । आपीतं पानविषयीकृतं सलिलं येनैवंभूतः सेनापतिः सैन्यनायकः । क्रमेण जलपानानन्तरं ता मृणालिका अदशदभक्षयत् । कः कामिव । सैंहिकेयो राहुः स यथा शशिकलाश्चन्द्रकला अश्नाति । अपेति । अपगतो दूरीभूतः श्रमः खेदो यस्य स उत्थायोत्थानं कृत्वा परिपीताम्भसा कृतजलपानेन सकलेन समग्रेण तेन पूर्वोक्तेन शबरसैन्येन भिल्लबलेनानुगभ्यमानः शनैः शनैः कृताखेटकवृत्तित्वेन त्वराभावादभिमतं समीहितम् । एकस्या दिशः सकाशादन्या दिशो दिगन्तरमयासीदगमत् । ‘या प्रापणे इत्यस्य लुङि रूपम् । . एकतमस्त्विति । तु पुनरर्थे । एकतमः कश्चिज्जरच्छबरः स्थविरभिल्लस्तस्मात्पुलिन्दवृन्दाच्छबरसमुदायादनासादितमप्राप्तं हरिणपिशित मृगमास येनैवंभूतः पिशितार्थी मांसार्थी । पिशितेति । पिशितमश्नातीति पिशिताशनो व्याघ्रस्तद्वदिव विकृतं दर्शनं यस्य स तस्मिन्नेव तरुतले पूर्वोक्तवृक्षाध एकमुहूर्तमिव घटिकाद्वयमिव व्यलम्बत तद्गमनानन्तरं विलम्ब चकार । तथा शबरसेनापतौ भिल्लनायकेऽन्तरिते वृक्षादिना व्यवहिते सति स पूर्वोक्तो जीर्णशबरोऽस्माकं पक्षिणामायूंषि जीवितानि पिबत्रिव पानं कुर्वनिव शुकानां कीराणां यानि कुलानि तेषां कुलाया नीडानि तेषां स्थानानि स्थलविशेषाणि गणयन्निव तत्संख्यां कुर्वन्निव । कया । दृष्ट्या । इतो दृष्टिं विशेषयन्नाह-रुधिरेति । रुधिरस्य रक्तस्य यो बिन्दुः पृषत्तद्वत्पाटलया श्वेतरक्तया । कपिलेति । कपिला पिङ्गला या भ्रूलता तस्यां परिवेषः परिधिस्तेन भीषणया भयकारिण्या । पुनः प्रकारान्तरेण तमेव विशेषयन्नाह-श्येनेति । श्येन इव शशादन इव विहगानां पतत्त्रिणां यदामिषं मांस तस्यास्वादो भक्षणं तत्र लालसो लम्पटस्तं वनस्पति शाल्मलीवृक्षमारुरुक्षुरारोढुमिच्छुः सुचिरं चिरकालं यावत् । आ मूलान्मूलं मर्यादीकृत्यामूलं तस्मात्प्रान्तपर्यन्तमापश्यद्व्यलोकयत् । उत्क्रान्तमिवेति । तस्मिन्क्षणे तस्मिन्प्रस्तावे तस्य यदालोकनं वीक्षणं तेन भीताना भयप्राप्तानां शुककुलानामसुभिः प्राणैरुत्क्रान्तमिव निर्गतमिव । हीति । हि यस्मात्कारणादकरुणानां निर्दयानां किमिव दुष्करम् । न किमपीत्यर्थः । सर्वमेवाकृत्यं कुर्वन्तीति भावः । यतः स भिल्लस्तं पादपमनेके ताला वृक्षविशेषास्तद्वत्तुङ्गमुच्चम् । अभ्रमिति । अभ्रंकषमभ्रलिहं शाखानां शिखरं प्रान्तो यस्यैवभतमप्ययत्नेनैव प्रयासव्यतिरेकेणैव सोपानैरिवारोहणैरिवारुह्यारोहण कत्वा तस्य वनस्पतेः शाखान्तरेभ्यश्च शकशावकानेकैकं प्रत्येक तस्य भावस्तत्ता तया फलानीव सस्यानीव तानग्रहीदादत्तेत्य - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पिसिताशन इव राक्षस इवेत्यपि व्याख्या उपलभ्यते । पाठा० - १ जलशिशिरम्. २ संपुटेन. ३ निर्मल. ४ सलिलः सेनापतिः; सलिलश्च शबरसेनापतिः. ५ एकतरः. ६ अतिविकृतदर्शनस्तस्मिन्नेव. ७ तरुमूले. ८ च तस्मिन्. ९ ध्रुवा परिवेष. १० शुककुलाय. ११ विहङ्गा. १२ सुरुचिर. १३ आलोकभीतानाम् . (शबरचरित्रालोचनम् पूर्वभागः । Page #85 -------------------------------------------------------------------------- ________________ मपि सोपानैरिवायत्नेनैव पादपमारुह्य ताननुपजातोत्पतनशक्तीन्कांश्चिदल्पदिवसजातान्गर्भच्छविपाटलाञ्छाल्मलीकुसुमशङ्कामुपजनयतः, कांश्चिदुद्भिद्यमानपक्षतया नलिनसंवर्तिकानुकारिणः, कांश्चिदर्कफलसदृशान, कांश्चिल्लोहितायमानचञ्चुकोटीनीषद्विघटितदलपुटपाटलमुखानां कमलमुकुलानां श्रियमुद्वहतः, कांश्चिदनवरतशिरःकम्पव्याजेन निवारयत इव प्रतीकारासमर्थानेकैकता फलानीव तस्य वनस्पतेः शाखान्तरेभ्यश्च शुकशावकानग्रहीत् । अपगतातूंश्च कृत्वा क्षितावपातयत् । तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनर्तमालोक्य द्विगुणतरोपजातवेपथुर्मरणभयादुद्भ्रान्ततरलतारको विषादशून्यामश्रुजलप्लुतां दृशमितस्ततो दिक्षु विक्षिपन्, उच्छुष्कतालुरात्मप्रतीकाराक्षमस्वासस्त्रस्तसंधिशिथिलेन पक्षसंपुटेनाच्छाद्य मा तत्कालो - *********** न्वयः । इतः शुकशिशून्विशेषयन्नाह-अन्विति । अनुपजातानुत्पन्नोत्पतनशक्तिर्नभोगमनसामर्थ्य येषां ते तथा कान् । कांश्चिदिति । अल्पदिवसजातान्स्वल्पदिनप्रभवान् । गर्भेति । प्रत्यग्रोत्पन्नस्य गर्भस्य या छविः कान्तिस्तया पाटलाञ्श्वेतरक्तान् । किं कुर्वतः उपजनयत उत्पादयतः । काम् । शाल्मलीवृक्षस्य यानि कुसुमानि पुष्पाणि तेषां शङ्कामारेकाम् । तत्कुसुमानामपि श्वेतरक्तत्वादेतेषां च तथात्वादुपमानोपमेयभावः । काश्चिदिति । उद्भिद्यमानाः प्रादुर्भूयमाना ये पक्षास्तेषां भावस्तत्ता तया नलिनानां कमलानां संवर्तिका नवदलम् । 'संवर्तिका नवदलम् इति कोशः । अनेनातिनैर्मल्यं द्योत्यते । तदनुकारिणस्तत्सादृश्यभाजः । काश्चिदिति । अर्को मन्दास्स्तस्य फलानि तैः सदृशांस्तत्तुल्यान् कांश्चिदिति । लोहितायमाना रक्तायमानाश्चञ्चुनां त्रोटीनां कोट्यः अग्रभागा येषां ते तथा तान् । कांश्चित्कि कुर्वतः । श्रियं शोभामुदहत उप्राबल्येन धारयन्तः । केषाम् । कमलमुकुलानां नलिनकुङ्मलानाम् । कीदृशानाम् । इषत्किंचिद्विघटित विकसितं यद्दलपुटं तेन पाटलं श्वेतरक्तं मुखं येषां तानि तथा तेषाम् । पुनः शिशून्विशिनष्टि-अनेति । अनवरतं निरन्तरं यः शिरःकम्पस्तस्य व्याजो मिषं तेन निवारयत इव 'वयं बालकाः, अस्मासु दया कर्तव्या, मास्माजहि' इति निवारणां कुर्वत इव । कीदृशान् । प्रतीकारो वधनिवृत्त्युपायस्तत्रासमर्थान्सामर्थ्यवर्जितान् । अपेति । अपगता असवः प्राणा येषामेवंविधांस्तान्कृत्वा विधाय क्षितौ भूमावपातयदचिक्षिपत् ।। तातस्तु मत्पिता तु मां क्रोडविभागेनोत्सङ्गप्रदेशेनावष्टभ्यालम्बनीकृत्य तस्थौ तस्थिवानित्यन्वयः । तथा महान्तं महीयांसमकाण्ड एवाप्रस्ताव एव प्राणहरं जीवितनाशकृतं अप्रतीकारमचिकित्स्यमुपप्लवमुपद्रवमुपनतं प्राप्तमालोक्य निरीक्ष्य । अथ तत्पितरं विशेषयन्नाह - द्विगुणतरेति । द्विगुणतरः पूर्वस्माद्विगुणित उपजातः समुत्पन्नो वेपथुः कम्पो यस्य स तथा । मरणेति । मरणभयान्मृत्युत्रासादुद्भ्रान्ता अतिशयेन भ्रमितास्तरलाश्चञ्चलास्तारकाः कनीनिका यस्य सः । किं कुर्वन् । दृशं दृष्टिमितस्ततः समन्ततो दिक्षु ककुप्सु विक्षिपन्विस्तारयन् । दृशं विशिनष्टि-विषादेति । विषादेन शोकेन शून्यां निस्तेजसम् । अश्चिति । अश्रुजलेन नेत्राम्बुना प्लुतां प्लाविताम् । उदिति । उत्प्राबल्येन शुष्कमनार्दै तालु काकुदं यस्य स तथा । आत्मनः स्वस्य यः प्रतीकारो दुःखनिवृत्त्युपायस्तत्राक्षमोऽसमर्थः । किं कृत्वा । पक्षपुटेन छदपुटेन मामाच्छाद्यतिरोधाय । किं कुर्वाणः । मन्यमानो जानानः । किं । तत्कालोचितं तत्समययोग्यम् । इममेव प्रतीकारमुपायम् । पक्षसंपुटं विशेषयन्नाह - त्रासेति । टिप्प० - 1 शङ्काम् । भ्रन्तिमानलंकारः 1 2 उपमानधर्मस्य (श्रियः) उपमेये आरोपात्पदार्थनिदर्शना । 3 स्वाभाविककम्पे निवारणस्य संभावनाक्रियावस्तूप्रेक्षा । व्याजेनेत्युक्त्या सापहवा । 4 अनवसरे एवेत्यर्थः । 5 उद्भ्रान्ते तरले, चञ्चले अथवा अधिकविस्फारणेन भास्वरे ('तरलो भास्वरे चले इति हैमः) कनीनिके यस्येत्युचितम् । पाठा० - १ अधिरुह्य. २ शाल्मलि. ३ नलिनी. ४ उद्वहन्ता. ५ निवारयन्तः. ६ प्रतीकारानेकैकशः ७ शाखासंधिभ्यः कोटरान्तरेभ्यश्च; शाखान्तरेभ्य. कोटरान्तरेभ्यश्च. ८ अतिमहान्तमकाण्ड इव. ९ अवलोक्य. १० तरलतर. ११ तारकान्; तारकाम्. १२ पक्षपुटेन. १३ आच्छाद्य तत्कालोचितम्. - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - कादम्बरी। कथामुखे Page #86 -------------------------------------------------------------------------- ________________ चितं प्रतीकारं मन्यमानः स्नेहपरवशो मेद्रक्षणाकुलः किंकर्तव्यताविमूढः क्रोडविभागेन मामवष्टभ्य तस्थौ । असावपि पोपः शाखान्तरैः संचरमाणः कोटरद्वारमागत्य जीर्णासितभुजंगभोगभीषणं प्रसार्य विविधवनवराहवसाविसंगन्धिकरतलं कोदण्डगुणाकर्षणव्रणाङ्कितप्रकोष्ठमन्तकदण्डानुकारिणं वामबाहुमतिनृशंसो मुहुर्मुहुर्दत्तचञ्चुप्रहारसुत्कूजन्तमाकृष्य तातं गतासुमकरोत् । मां तु स्वल्पत्वाद्भयसंपिण्डिताङ्गत्वात्सावशेषत्वाच्चायुषः कथमपि पक्षसंपुटान्तरगतं नालक्षयत् । उपरतं च तमवनितले शिथिलशिरोधरमधोमुखममुञ्चत् । अहमपि तच्चरणान्तरे निवेशितशिरोधरो निभृतमनिलीनस्तेनैव सहापतम् । अवशिष्टपुण्यतया तु पैवनवश्येन पुञ्जितस्य महतः शुष्कपत्रंराशेरुपरि पैतितमात्मानमपश्यम् । अङ्गानि - *********** त्रासेन भयेन स्वस्ता विदीर्णा ये संधयोऽस्थिबन्धास्तैः शिथिलेन श्लथेन । स्नेहेन प्रीत्या परवशः परायत्तो मम यद्रक्षणं गुप्तिस्तत्राकुलः संभ्रान्तः । किमिदानी कर्तव्यं विधेयमित्यस्य भावः किंकर्तव्यता तत्र विमूढो भ्रष्टमतिः । असावपीति । असौ जरच्छबरोऽपि पापः पापिष्ठः शाखान्तरैः शालान्तरैः संचरमाणः प्रवर्तमानः कोटरद्वारं निष्कुहद्वारमागत्यैत्य तातं मत्पितरं गतासु विगतप्राणमकरोदसृजदित्यन्वयः । किं कृत्वा । प्रसार्य विस्तार्य । कम् । वामबाहुं सव्यभुजम् । अथैनं विशेषयन्नाह - जीर्णेति । जीर्णो जरीयानसितः कृष्णो यो भुजंगः सर्पस्तस्य भोगः कायस्तद्वद्धीषणं भयजनकम् । विविधेति । विविधा अनेके ये वनवराहा अरण्यक्रोडास्तेषां वसा स्नायुस्तया विसगन्ध्यामगन्धि करतलं हस्ततलं यस्य स तथा तम् । कोदण्डेति । कोदण्डस्य धनुषो ये गुणाः प्रत्यञ्चास्तेषामाकर्षणमाक्षेपस्तेन व्रणं किणं तेनाङ्कितश्चिह्नितः प्रकोष्ठः कलाचिका यस्य स तम् । अन्तकेति । अन्तकस्य यमस्य यो दण्डो लगुडस्तदनुकारिणम् । तत्सादृश्यधारिणमित्यर्थः । कीदृक्सः । अतिनृशंसोऽतिक्रूरः । कीदृशं तातम् । मुहुरिति । मुहुर्मुहुर्वारंवारं दत्तश्चञ्चुप्रहारस्त्रोटीप्रघातो येन स तथा तम् । किं कुर्वन्तम् । उत्प्राबल्येन कूजन्तं शब्दं कुर्वन्तम् । किं कृत्वा । आकृष्य । कोटराद्वहिरानीयेति शेषः । मा तु वैशम्पायनं कथमपि महता कष्टेन पक्षसंपुटान्तरगतं नालक्षयन ज्ञातवान् । अत्र हेतुमाह - स्वल्पत्वादित्यादि । स्वल्पत्वादत्यल्पत्वाद्भयसंपिण्डिताङ्गत्वात्त्राससंकुचिताङ्गत्वादायुषो जीवितव्यस्यावशेषेणोद्वरितभागेन सहवर्तमानत्वात् । उपेति । उपरतं मृतं तं पितरमवनितले पृथ्वीतले शिथिला श्लथा शिरोधरा कन्धरा यस्य स तमधोमुखमवाङ्मुखममुञ्चदचिक्षिपत् । अहमपि तस्य पितुश्चरणान्तरे क्रमणमध्ये निवेशिता स्थापिता शिरोधरा ग्रीवा येन सः । निभृतमत्यर्थमङ्क उत्सङ्गे निलीनो लग्नः । यथा पितुर्देहाद्भिन्नतया नोपलभ्यते तथा स्थित इत्यर्थः । तेनैव जनकेनैव सहापतम् अधःसंयोगफलिकां क्रियामकरवम् । 'पत्तृ पतने' इत्यस्य लुङि रूपम् । अवेति । अवशिष्टमुर्वरित यत्पुण्यं श्रेयस्तस्य भावस्तत्ता तया । पवनेति । पवनः समीरणस्तस्य वश्यस्तदायत्तता तेन पुजितस्य पिण्डितस्य महतो महीयसः शुष्कपत्रराशेः शुष्काणि वानानि यानि पनि पत्राणि तेषां राशिः समदायस्तस्योपरि पतितं सस्तमात्मानं - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 विटपान्तरित्यर्थः । 2 लङि इति बोध्यं लुङि पुमः प्रसङ्गात् । 3 अत्र तु 'पवनवशात्पुजितस्य' इति पाठान्तरोविशेषशोभामावहति । पाठा० - १ उचित. २ मद्रक्षाकुलः. ३ मूढः. ४ भागेन. ५ पापः क्रमेण. ६ विमिश्र. ७ अनवरतकोदण्ड. ८ उत्कूजन्तं तमाकृष्य. ९ अपगतासुम्. १० स्वल्पशरीरत्वात्. ११ अवशेषत्वादायुषः. १२ तत्पक्षपुटान्तर. १३ उपरतमेनम्. १४ तातम्. १५ अन्तराले. १६ प्रवेशितः. १७ अङ्कदेश; अङ्कविलीन. १८ आयुषोऽवशिष्टतया. १९ पवनवशसंपुजितस्य; पवनवशात्पुजितस्य. २० पर्णराशेः. २१ निपतितम्. शुकस्य पतनम् पूर्वभागः । 73) Page #87 -------------------------------------------------------------------------- ________________ येन मे नौशीर्यन्त । यावच्चासौ तस्मात्तरुशिखरान्नावतरति तावदहमवशीर्णपत्रसवर्णत्वादस्फुटोपलक्ष्यमाणमूर्तिः पितरमुपरतमुत्सृज्य नृशंस इव प्राणपरित्यागयोग्येऽपि काले बालतया कालान्तरभुवः स्नेहरसस्यानभिज्ञो जन्मसहभुवा भयेनैव केवलमभिभूयमानः किंचिदुपजाताभ्यां पक्षाभ्यामीषत्कृतावष्टम्भो लुटनितस्ततः कृतान्तमुखकुहरादिव विनिर्गतमात्मानं मन्यमानो नातिदूरवर्तिनः शबरसुन्दरीकर्णपूररचनोपयुक्तपल्लवस्य संकर्षणपटनीलच्छाययोपहसत इव गदाधरदेहच्छविम्, अच्छैः कालिन्दीजलच्छेदैरिव विरचितच्छदस्य, वनकरिमंदोपसिक्तकिसलयस्य, विन्ध्याटवीकेशपाशश्रियमुदहतः, दिवाप्यन्धकारितशाखान्तरस्य, अप्रविष्टसूर्यकिरणमतिगहनमपरस्येव पितुरुत्सङ्गमतिमहतस्तमालविटपिनो मूलदेशमविशम् । *********** स्वमपश्यमद्राक्षम् । येनेति । येन पुण्येन, शुष्कपत्रराश्युपरिपातेन वा मे ममाङ्गानि नाशीर्यन्त न विगलितानि । यावच्चासौ शबरो यावता कालेन तस्मात् तरुशिखरावृक्षाग्रानावतरति नोत्तरति तावदहमवशीर्णानि विगलितानि यानि पत्राणि तैः सवर्णः सदृशस्तस्य भावस्तत्त्वं तस्मादस्फुटमप्रकटमुपलक्ष्यमाणा दृश्यमाना मूर्तिराकृतिर्यस्यैवंभूतोऽहमतिमहतोऽत्युच्चस्य तमालविटपिनस्तापिच्छस्य मूलदेश ब्रुध्नप्रदेशमविशं प्रविष्टवानित्यन्वयः । उपेति । उपरतं व्यापन्नं पितरमुत्सृज्य त्यक्त्वा । क र्वि । नृशंस र्वि क्रूर वि प्राणपरित्यागे योग्य उचितस्तस्मिन्वृद्धपितुर्मरणे मरणमेवोचितमिति योग्यता तस्मिन्नपि काले समये सति बालतयार्भकत्वेन कालान्तरेऽप्रबुद्धवयोऽवस्थाविशेषे शयनासनभोजनादिषु यः स्नेहस्तद्विषयको रसस्तस्यानभिज्ञस्तदज्ञाता । किं क्रियमाणः । जन्मेति । जन्मसहभुवा उत्पत्तिसमयादारभ्य समुत्पन्नेन भयेनैव भियैव केवलं सर्वतोभिभूयमानः पीड्यमानः । पुनः कीदृक् । किंचिदिति । किंचिदीषदुपजाताभ्यां निष्पन्नाभ्यां पक्षाभ्यां छदाभ्यामीषत्कृतोऽवष्टम्भ आधार आश्रयो यस्य स तथा । किं कुर्वन् । लुठनितस्ततो भूमौ पतन् । कृतान्तेति । कृतान्तो यमस्तस्य मुखमिव मुखं यस्यैवंभूतात्कुहरात्सुषिराद्विनिर्गतं निःसृतमात्मानं स्वं मन्यमानो ज्ञायमानः । अथ तमाल विशेषयन्नाह - नातीति । न प्रतिषेधे । अतिदूरवर्ती दविष्ठप्रदेशस्थायी तस्य । शबरेति । शबराणां भिल्लानां सुन्दर्यः स्त्रियस्तासां कर्णपूराणि कर्णाभरणानि तेषां रचना विनिर्मितिस्तत्रोपयुक्ताः सोपयोगिनः पल्लवा यस्य स तथा तस्य । संकर्षणेति । संकर्षणो बलभद्रः । 'संकर्षणः प्रियमधुर्बलरौहिणेयौ' इति कोशः । तस्य पटो वस्त्रं तस्य नीला छाया कान्तिस्तया गदाधरो विष्णुस्तस्य देहच्छविं शरीरदीप्तिमुपहसत इवोपहासं कुर्वत वि । अच्छैरिति । अच्छैर्निर्मलैः कालिन्दी यमुना तस्या जलं पानीयं तस्य छेदाः खण्डानि तैरिव विरचितानि निर्मितानि छदानि पत्राणि यस्य स तथा तस्य । वनेति । वनकरिणामरण्यहस्तिनां मदा दानानि तैरुपसिक्तानि सिञ्चितानि किसलयानि यस्य स तथा तस्य । विन्ध्येति । विन्ध्याटवी दण्डकारण्यं तस्याः केशपाशः केशकलापस्तस्य श्रियं शोभामुत्प्राबल्येन वहतो दधतः । दिवापीति । दिवापि दिवसेऽपि अन्धकारितं जातान्धकारं शाखान्तरं शालान्तरं यस्य स तथा तस्य । कीदृशं मूलदेशम् । अप्रविष्टेति । अप्रविष्टा नान्तर्गताः सूर्यस्य रवेः किरणा यस्मिन्स तम् । अतीति । अतिशयेन गहनमपर्याप्तावकाशम् । कस्येव । अपरस्येव भित्रस्येव पितुरभयदातुरुत्सङ्ग क्रोडम् । - - - - - टिप्प० -1 कालान्तरे शैशवं विहाय अन्यस्मिन् यौवनादिषु भवति तादृशस्य स्नेहरसस्य । स्नेहो हि सुखदुःखानुभवोत्तरं बाल्यात्परमेवोद्भवति, न बाल्ये इत्याशयः । 2 जानन्नित्यर्थः । 3 तद्वत् नीला या छाया तया, इत्यर्थ उचितः । - - - - - - - - - पाठा० - १ मे येन. २ नावाशीर्यन्त. ३ पर्ण. ४ बालकतया. ५ कृतगमनावष्टम्भः. ६ नीलच्छायम्; नीलदलच्छायया; नीलया छायया. ७ गदाधरच्छविम्. ८ मदसलिलैरिवोपसिक्त; मदसलिलैरिव संसिक्त. ९ उदहन्तः. कादम्बरी । कथामुखे Page #88 -------------------------------------------------------------------------- ________________ अवतीर्य च स तेन समयेन क्षितितलविप्रकीर्णान्संहृत्य शैकशिशूनेकलतापाशसंयतानाबध्य पर्णपुटेऽतित्वरितगमनः सेनापतिगतेनैव वर्त्मना तामेव दिशमर्गच्छत् । मां तु लब्धजीविताशं प्रत्यग्रपितृमरणशोकशुष्कहृदयमतिदूरपातदायासितशरीरं संत्रासजाता सर्वाङ्गोपतापिनी बलवती पिपासा परवशमकरोत् । अनया च कालकलया सुंदूरमतिक्रान्तः स पापकृदिति परिकलय्य किंचिदुन्नमितकन्धरो भयचकितया दृशा दिशोऽर्वलोक्य तृणेऽपि चलति पुनः प्रतिनिवृत्त इति तमेव पदे पदे पापकारिणमुत्प्रेक्षमाणो निष्क्रम्य तस्मात्तमालतरुंमूलात्सलिलसमीपं सैर्तुं प्रयत्नमकरवम् । अजातपक्षतया नातिस्थैिरतरचरणसंचारस्य मुहुर्मुहुर्मुखेर्ने पततो मुहुस्तिर्यनिपतन्तमात्मानमेकया पक्षपाल्या संधारयतः क्षितितलसंसर्पणभ्रैमातुरस्यानभ्यासवशादेकमपि दत्त्वा पद - *********** I अवेति । अवतीर्योत्तीर्य स शबरस्तेन समयेनेति तत्कालेन क्षितितले पृथ्वीतले विप्रकीर्णानितस्ततः पर्यस्ताञ्शुकशिशून्कीरपाकान्संहृत्यैकीकृत्य । कीदृशान् । एकाद्वितीया या लता वल्ली तल्लक्षणो यः पाशो बन्धनरज्जुस्तेन संयतान्बद्धानेवंभूतान्पर्णपुट आबध्य बन्धनं कृत्वातित्वरितमतिशीघ्रं गमनं यस्य स तथा । सेनेति । येन सेनापतिर्गतस्तेनैव वर्त्मना मार्गेण तामेव दिशं सेनापतिगृहीतामेव ककुभमगच्छदगमत् । मां त्विति । तु पुनरर्थे । मां पिपासा तृट् परवशं परायत्तमकरोदित्यन्वयः । इतो मां विशेषयन्नाह - लब्धे । तद्गमनादेव लब्धा प्राप्ता जीविताशा प्राणधारणसंभावना येन स तम् । प्रत्यग्रेति । प्रत्यग्रो नवीनो यः पितृमरणशोको जनकमृत्युविषादस्तेन शुष्कमनार्द्रं संकुचितं वा हृदयं चित्तं यस्य स तम् । अतीति । अतिदूरापाताद्दविष्ठतरप्रदेशपतनात् । तद्वृक्षादिति शेषः । आयासितं परिश्रमितं शरीरं यस्य स तम् । तृषं विशेषयन्नाह - संत्रासेति । संत्रासेन भयेन जाता समुत्पन्ना । सर्वेति । सर्वाणि समग्राण्यङ्गानि हस्तप्रभृतीन्युपतापयति पीडयतीत्येवंशीला बलवती बलोपयुक्ता । अनयेति । अनया कालकलया घटिकया स पापकृद्भिल्लःसुदूरं दूरदेशमतिक्रान्तो गत इति परिकलय्य चेतसि परिकलनां कृत्वा । किंचिदिति । किंचिदीषदुन्नमितोर्श्वीकृता कन्धरा ग्रीवा येन स तथा । भयेति । भयेन भीत्या चकिता त्रस्ता यादृक्तया दिशोऽवलोक्य निरीक्ष्य तृणेऽपि यवसेऽपि चलति कम्पैति सति पुनः प्रतिनिवृत्तः प्रत्यागत इति तमेव शबरमेव पदे पदे पापकारिणं कल्मषकारिणमुत्प्रेक्षमाण उत्पश्यमानो निष्क्रम्य बहिर्निर्गत्य । कस्मात् । तस्मात्तमालतरुतलमूलात्तापिच्छवृक्षाधः स्थलात्सलिलसमीपं जलोपान्तं सर्तुं गन्तुं प्रयत्नं प्रयासमकरवमकार्षम् । अथ च मम मनस्येवमभूदित्यन्वयः । तं विशेषयन्नाह - अजातेति । अजातावनुत्पन्नौ यौ पक्षौ छदौ तयोर्भावस्तत्ता तया न विद्यतेऽतिस्थिरतरश्चरणयोः क्रमयोः संचारः स्थापनयोग्यता यस्य स तथा । तस्य किं कुर्वतः । मुहुर्मुहुर्वारंवारं मुखेनाननेन पततः पतनं कुर्वतः । मुहुर्वारंवारं तिर्यक्तिरश्चीनं निपतन्तं भ्रश्यन्तमात्मानमेकया केवलया पक्षपाल्या छदसंहत्या संधारयतः पतनाद्रक्षां विदधतः । क्षितीति । क्षितितले संसर्पणं गमनं तस्माद्यो भ्रमो भ्रान्तिस्तेनातुरस्य पीडितस्य । अभ्यासेति । अभ्यासः पुनः पुनः करणं टिप्पo - 1 कम्पमाने इत्यर्थः । 2 आशङ्कावशात्पश्यन्नित्यर्थः । 3 संसर्पणश्रमातुरस्येत्यपि पाठ उचितः । - पाटा० - १ अवतीर्य सः. २ विकीर्णान्. ३ ताञ्शुक. ४ आविध्य. ५ अन्वगच्छत्. ६ पातायासित ७ जातवेपथुम्; जातसर्वाङ्ग. ८ आक्रान्तः ९ विलोक्य १० तरुतलमूलात्. ११ उपसर्तुम्. १२ अजातपक्षतया च; अनुपजातपक्षतया १३ स्थिरचरण. १४ अधोमुखेनापततः १५ श्रमा. शुकस्य स्वदशावर्णनम् पूर्वभागः । 75 Page #89 -------------------------------------------------------------------------- ________________ 1 मनवरतमुन्मुखस्य स्थूलस्थूलं श्वेसतो धूलिधूसरस्य संसर्पतो मैम समभून्मनसि - 'अतिकष्टास्ववस्थास्वपि जीवितनिरपेक्षा न भवन्ति खलु जगति प्राणिनां प्रवृत्तयः । नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम्, एवंमुपरतेऽपि सुगृहीतनाम्नि ताते यदहमविकलेन्द्रियः पुनरेव प्राणिमि । धिङ्मामकरुणमंतिनिष्ठुरमकृतज्ञम् । अहो सोढपितृमरणशोकदारुणं येन मया जीव्यते, उपकृतमपि नापेक्ष्यते, खलं हि खलु मे हृदयम् । मैया हि लोकान्तरगतायामम्बायां नियम्य शोकवेगमाप्रसवदिवसात्परिणतवयसापि सता तैस्तैरुपायैः संवर्धनक्लेशमतिमहान्तमपि स्नेहवशादगणयता यँत्तातेन परिपालितस्तत्सर्वमेकपदे विस्मृतम् । अतिकृपणाः खल्वमी प्राणाः, यदुपकारिणमपि तौतं क्वापि गच्छन्तमद्यापि नानुगच्छन्ति, सैर्वथा न कंचित्रे खलीकरोति जीविततृष्णा, यदीदृगवस्थमपि मोमयमायार्सयति जला - *** तदभाववशादेकमपि पदं चरणं दत्त्वा निवेश्यानवरतं बहुकालमुन्मुखस्योर्ध्वाननस्य स्थूलस्थूलं यथा स्यात्तथा श्वसतः श्वासमोक्षणं कुर्वतः । एतेनैकपदस्थापनेति श्रमबाहुल्यं व्यज्यते । धूली रेणुस्तया धूसरस्य धूम्रवर्णस्य । किं कुर्वतः । संसर्पतः प्रचलतः । चिन्तां विवृण ममेति । मम मनस्येवं समभूत् । तदेव दर्शयति खल्विति । खलु निश्चयेन जगति लोकेऽतिकष्टमतिकृच्छ्रं यास्वेवंविधास्ववस्था दशासु प्राणिनां जीवानां प्रवृतयः प्रवर्तनरूपाः क्रिया जीवितं प्राणितं तत्र निरपेक्षा गतस्पृहा न भवन्ति न स्युः । इह जगत्यस्मिल्लोके सर्वजन्तूनामेव सर्वप्राणिनामेव जीवितादन्यत्किमप्यभिमततरं वाञ्छिततरं नास्ति । तत्रार्थे हेतुमाह - यदहमिति । यद्यस्मात्कारणात्सुगृहीतं सर्वदा ग्रहणयोग्यं नाम यस्यैवंभूते ताते पितर्युपरतेऽपि मृतेऽप्यविकलानि विषयग्रहणसमर्थानीन्द्रियाणि यस्यैवंभूतोऽहं पुनरेव सांप्रतमेव प्राणिमि जीवामि अतो मां धिगस्तु अत्र धिग्योगे मामिति द्वितीया । मां विशेषयन्नाह - अकरुणेति । अकरुणम् । निर्घृणमित्यर्थः । अतिनिष्ठुरमतिक्रूरम् । कृतं जानातीति कृतज्ञं न कृतज्ञमकृतज्ञम् । अहो इति । अहो आश्चर्ये । सोढः क्षमितो य पितृमरणशोकस्तेन दारुणं भीषणं यथा स्यात्तथा मया जीव्यते तेन बहुकालमुपकृतं तदपि नापेक्ष्यते । तस्याप्यपेक्षा न क्रियत इति भावः । खल्वति । खलु निश्चयेन । मे मम हृदयं चित्तं खलु पिशुनम् । उपकारानभिज्ञत्वादिति भावः । मयेति । हि निश्चितम् । मया तत्पूर्वोक्तं सर्वमखिलमेकपद एकदैव विस्मृतमित्यन्वयः तत्किमित्यत आह- • लोकान्तरेति । लोकान्तरगतायां परलोकप्राप्तायामम्बायां जनन्या शोकवेगं शोचनप्रवाहं नियम्य निरुध्य प्रसवदिवसान्मज्जन्मदिनादारभ्य परिणतं वयो यस्यैवंभूतेनापि सता तैस्तैरुपायै क्षुधानिद्रापिपासोपशमार्थप्रतीकारैः । संवर्धनक्लेशमिति । स्नेहवशात्पुत्रप्रीतिमाहात्म्यात् अतिमहान्तमप्यत्यायतमपि मत्संवर्धनक्लेशमगणयता क्लेशेषु तद्गणनामकुर्वता । यदिति हेत्वर्थे । तातेन पित्रा परि सामस्त्येन पालितो वृद्धिं प्रापितः । खलु निश्चयेन । अमी मे प्राणा अतिकृपणा अतिशयेन जीवितलोलुपा अतितुच्छाः यदिति हेतौ । उपकारिणमप्युपकृतिविधायकमपि तातं पितरं काप्यनिर्दिष्टस्थले गच्छन्तं व्रजन्तमद्यापि सांप्रतमपि नानुगच्छन्ति नानुव्रजन्ति । सर्वथा जीविततृष्णा न कंचिन्न खलीकरोति । द्वौ नञौ प्रकृतमसूचयत इति सर्वमेव खलीकरोतीत्यर्थः । यदीदृगवस्थमपि शोकाकुलमपि मामयं जलाभिलाषः पानीयग्राहणाध्यवसाय आयासयति खेदं जनयति । च पुनरर्थे । अहं मन्ये जाने । इयं मम सलिलपानबुद्धिर्जलपा - पाठा० - १ मुहुर्मुहुः स्थूलस्थूलम् २ निश्वसतः ३ ममाभूत्. ४ अप्यवस्थासु ५ स्वजीवित. ६ सर्वप्राप्तिनाम् ७ वृत्तयः. ८ जन्तूनामेव. ९ उपरते सुगृहीत. १० अतिनिष्ठुरं विसोढ. ११ मरणम्. १२ नापेक्ष. १३ अहम्. १४ लोकान्तरमुपगतायामष्ट. १५ शोकावेग. १६ सता तातेन तैस्तैः १७ महान्त. १८ यत्परिपालित. १९ विस्मृतमिति. २० मे प्राणाः; मम प्राणाः. २१ तातमद्यापि गच्छन्तम्; तातमद्यापि क्वापि गच्छन्तम्; तातम क्वापि यान्तम् २२ सर्वथा कंचित्र. २३ कंचन. २४ यदीदृशावस्थम्. २५ मामावासयति. २६ अभिलाषयति. 76 कादम्बरी । कथामुखे Page #90 -------------------------------------------------------------------------- ________________ भिलाषः । मन्ये चागणितपितृमरणशोकस्य निघृणतैव केवलमियं मम सलिलपानबुद्धिः । अद्यापि दूर एव सैरस्तीरम् । तथा हि-जलदेवतानूपुर्ररवानुकारि दूरेऽद्यापि कलहंसविरुतम् । अस्फुटानि श्रूयन्ते सारसरसितानि । अयं च विप्रकर्षादाशामुखविसर्पणविरलः संचरति नलिनीखण्डपरिमलः । दिवसस्य चेयं केष्टा दशा वर्तते । तथा हिरविरम्बरतलमध्यवर्ती स्फुरन्तमातपमनवरतमनलधूलिनिकरमिव विकिरति करैः, अधिकामुपजनयति त॒षम् । संतप्तपांसुपटलदुर्गमा भूः । अतिप्रबलपिपासावसन्नानि गन्तुमल्पमपि मे नालमङ्गकानि । अप्रभुरस्म्यात्मनः । सीदति मे हृदयम् । अन्धकारतामुपयाति चक्षुः । अपि नाम खलो विधिरनिच्छतोऽपि मे मरणमयैवोपपादयेत् । एवं चिन्तयत्येव मयि तस्मात्सरसो नातिरवर्तिनि तपोवने जाबालिर्नाम महातपा मुनिः - *********** नधीः केवलं निघृणतैवाननुकम्पितैव । कीदृशस्य मम । अगणितेति । अगणितो न गणनविषयीकृतः पितृमरणशोको येन स तथा तस्य । अद्यापीयतागतेनापि सरस्तीरं कासारतटं दूर एव । तदेव दर्शयति - तथाहीति । जलेति । जलदेवतानां जलाधिष्ठात्रीणां नपुराणां पादकटकानां यो रवः शब्दस्तदनुकारि तत्सादृश्यभाज्यद्यापि कलहंसविरुतं कादम्बकूजितमेतद्रे । तथा सारसरसितानि लक्ष्मणकूजितान्यस्फुटान्यव्यक्तानि श्रूयन्त आकर्ण्यन्ते । विप्रकर्षादिति । विप्रकर्षादूरादाशामुखेषु दिग्वदनेषु विसर्पणं प्रसरणं तेन विरलो न्यूनो नलिनीखण्डपरिमलः कमलवनामोदः संचरतीतस्ततः प्रसरति । कदाचिद्दारुणधर्माभावे मार्गसौलभ्याहूरेऽपि गन्तुं शक्यत इत्यत आह - दिवसेति । दिवसस्य वासरस्येयं प्रत्यक्षोपलभ्यमाना कष्टा दशा मध्यावस्था वर्तते । तदेव दर्शयति - तथा हीति । रविः सूर्योऽम्बरतलमध्यवर्ती व्योममध्यगामी । अनवरतेति । अनवरतमविच्छिन्नं स्फुरन्तं दीप्यमानमातपं प्रकाशमनलधूलिनिकरमिव वह्रिकणिकासमूहमिव करैः किरणैर्विकिरति क्षिपति । अधिकां तृषां पिपासामुपजनयति निष्पादयति । संतप्तमुष्णं यत्पांसुपटलं धूलिसमूहस्तेन दुर्गमा दुःखेन गन्तुं शक्या भूः पृथ्वी । अतीति । अतिप्रबलाऽत्यधिका या पिपासोदन्या तयावसनानि खिन्नानि मे ममाङ्गकानि शरीरावयवा अल्पमपि स्वल्पमपि गन्तुं नालं न समर्थानि । किं बहुनात्मनो देहेन्द्रियसंघातस्याप्यप्रभुरसमर्थोऽस्मि । 'अस भुवि धातुः । लडुत्तमैकवचनम् । देहेन्द्रियादिकमपि स्वाधीनं मे नास्तीति भावः । मे मम हृदयं सीदत्यवशीर्यते । चक्षुरपि नेत्रमप्यन्धकारतां तिमिरतामुपयाति प्राप्नोति । अन्धकाराकुलं भवतीत्यर्थः । नामेति कोमलामन्त्रणे । अथेत्यानन्तर्ये । खलः अशुभकरणादुर्जनो विधिर्विधातानिच्छतोऽप्यसमीहमानस्यापि मे मम मरणं मृत्युमुपपादयेत्कुर्यात् ।। इत्येवं पूर्वोक्तप्रकारेण मयि चिन्तयत्येव विचारयत्येव यदभूत्तदाह - तस्मादिति । तस्मात्पूर्वो - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अन्धं करोति इति अन्धकारस्तत्ताम् (अन्धताजनकत्वम्) उपयातीत्याशयः । 2 अपि नाम मृत्युमुपपादयेत् ? इति मूलधृतपाठानुसारं खेदवशान्मनस्येव प्रश्नः । - - पाठा० - १ निघृणतयैव. २ दूरतः. ३ सरः. ४ नपुरानुकारि. ५ विरुतमेतम्. ६ एतानि चास्फुटानि. ७ विप्रकर्षात्. ८ चेयम्. ९ अतिकष्टा दशा; कष्टा च. १० तृषम्. ११ आतपस्पर्शसंतप्त. १२ च भूमिः. १३ अलमप्रभुरस्मि. १४ अथ. १५ एव. १६ अतिदूर. (शुकस्य स्वदशावर्णनम् ।। पूर्वभागः । Page #91 -------------------------------------------------------------------------- ________________ या प्रतिवसति स्म । तत्तनयश्च हारीतनामा मुनिकुमारकः सनत्कुमार इव सर्वविद्यावदातचेताः, सवयोभिरपरैस्तपोधनकुमारकैरनुगम्यमानस्तेनैव पथा द्वितीय इव भगवान्विभावसुरतितेजस्वितया दुर्निरीक्ष्यमूर्तिः, उद्यतो दिवसकरमण्डलादिवोत्कीर्णः, तडिद्भिरिव रचितावयवः, तप्तकनकद्रवेणेव बहिरुपलिप्तमूर्तिः, पिशङ्गावदातया देहप्रभया स्फुरन्त्या सबालातपमिव दिवस सदावानलमिव वनमुपदर्शयन्, उत्तप्तलोहलोहिनीनामनेकतीर्थाभिषेकपूतानामसस्थलावलम्बिनीनां जटानां निकरेणोपेतः, स्तम्भितशिखाकलापः खाण्डववनदिधक्षया कृतकपटबंटुवेष इव भगवान्पावकः, तपोवनदेवतानपुरानुकारिणा धर्मशासनकटकेनेव स्फाटिकेनाक्षवलयेन दक्षिणश्रवणविलम्बिना विराजमानः, सकलविषयोपभोगनिवृत्त्यर्थमुपंपादितेन - *********** क्तात्सरसोऽदूरवर्तिनि निकटस्थायिनि तपोवने तापसाधिष्ठितकानने । नामेति कोमलामन्त्रणे । जाबालिनामा महदत्युग्रं तपो यस्यैवंभूतो मुनिर्ऋषिः प्रतिवसति स्म । निवासं कृतवानित्यर्थः । तत्तनयश्चेति । तस्य तनयः सुतः । च पुनरर्थे । हारीत इति नाम यस्यैवंविधः मुनिकुमारकः तापसकुमारकः । स्वल्पवया इत्यर्थः । तदेव पूर्वोक्त पम्पाभिधानं कमलसरः सिस्नासुः स्नातुमिच्छुः । सनन्तस्नाधातो रूपम् । तत्रोपागमदित्यन्वयः । तमेव विशेषयन्नाह-सनत्कुमारेति । सनत्कुमारो वैधात्रस्तद्वदिव सर्वविद्यास्ववदातं शुद्धं चेतो मनो यस्य सः । सवयोभिरिति । सवयोभिः सदृशवयोभिरपरैस्तद्भिनैस्तपोधनकुमारकैस्तापसशावैरनुगम्यमानस्तेनैव पथा तेनैव मार्गेण । उपागमदिति पूर्वेणान्वयः । द्वितीय इवैतद्भिन्न इव भगवाज्ञानवान्विभावसुरग्निरत्युत्कृष्टं तेजो विद्यते यस्यासाविति तेजस्वी तस्य भावस्तत्ता तया दुर्निरीक्ष्या दुःखेनावलोकयितुं शक्या मूर्तिर्यस्य स तथा । उद्यत इति । उद्यत उदयं कुर्वतो दिवसकरमण्डलात्सूर्यबिम्बादिव । उत्कीर्ण उल्लिख्य कर्षित इत्यर्थः । तडिद्भिरैरावतीभिरिव रचिता निर्मिता अवयवा यस्य सः । तप्त इति । तप्त उष्णो यः कनकस्य सुवर्णस्य द्रवो रसस्तेन बहिरुपलिप्ता लिम्पिता मूर्तिः शरीरं यस्य सः । पिशङ्गेति । पिशङ्गा पीतावदाता निर्मला एवंविधया स्फुरन्त्या दीप्यमानया देहप्रभया शरीरकान्त्या सहबालातपेन वर्तमानं दिवसं दिनमिव सहदावानलेन वर्तमानं वनं काननमिवोपदर्शयन्प्रकाशयन् । उत्तप्तेति । उत्तप्तमुष्णीकृतं यल्लोह कालायसं तबलोहिनीनां रक्तानामनेकानि यानि तीर्थानि तेषामभिषेकः स्नानं तेन पूतानां पवित्राणाम् । अंसेति । अंसस्थलं भुजशिरःस्थानं तत्रावलम्बिनीनां वेल्लन्तीनां जटानां निकरण समूहेनोपेतः सहितः । स्तम्भितेति । स्तम्भितो बद्धः शिखाकलापो येन स तथा । खाण्डवेति । वह्निना जलोदरग्रस्तेन ब्राह्मणरूपेण शय्यागतेन खाण्डववनं दग्धमिति प्रसिद्धिः । दग्धुमिच्छा दिधक्षा तया कृतो विहितः कपटेन पटुः स्पष्टो वेषो येनैवंभूत इव भगवान्पावको वह्निः । तपोवनेति । स्फाटिकेन स्फटिकमणिनिर्मितेनाक्षवलयेनाक्षमालिकया विराजमानः शोभमानः । अक्षवलयं विशेषयनाह - दक्षिणेति । दक्षिणोऽपसव्यो यः श्रवणः कर्णस्तत्रावलम्बिना । तपोवनेति । तपोवनदेवता तपोवनाधिष्ठात्री तस्य नूपुरं पादकटकं तदनुकारिणा तत्सदृशेन । केनेव । धर्मो विधिनिषेधादिरूपस्तस्य शासनमाज्ञा तस्य कटकेनेव वलयेनेव । सकलविषयस्य समग्रपदार्थस्य य उप - टिप्प० - 1 विद्युद्भिरिति स्पष्टः अर्थः । 2 श्वेतकिनाम्नो नरपतेर्दादशवार्षिके यागे सततहविर्भोजनेन संजातमन्दाग्निरग्निरपि तत्प्रतीकाराय विविधमहौषधिजुष्ट खाण्डववनं विरिञ्चेरुपदेशादुदरस्थीकर्तुमिच्छुः कृष्णार्जुनयोः साहाय्येन ब्राह्मणवेषः सन् ददाहेति महाभारतम् । 3 कृतः कपटेन बटुवेषो ब्राहाणरूपं येनेति स्पष्टव्य अर्थः । पाठा० - १ प्रसवति. २ तापसकुमारकः. ३ समानवयोभिः, समवयोभिः. ४ कुमारैः. ५ विरचिता. ६ आपिशङ्ग. ७ जटावलीनाम्. ८ पटुवेषः. ९ अनुलम्बिना. १० निवृत्ति. ११ उत्पादितेन. (78 कादम्बरी । कथामुखे-) Page #92 -------------------------------------------------------------------------- ________________ ललाटपट्टेके त्रिसत्येनेव भस्मत्रिपुण्ड्रकेणालंकृतः, गगनगमनोन्मुखबलाकानुकारिणा स्वर्गमार्गमिव दर्शयता सततमुदूग्रीवेण स्फटिकमणिकमण्डलुनाध्यासितवामकरतलः, स्कन्धदेशावलम्बिना कृष्णाजिनेन नीलैपाण्डुभासा तपस्तृष्णानिपीतेनान्तर्निष्पतता धूमपटलेनेवपरीतमूर्तिः, अभिनवबिससूत्रनिर्मितेनेव परिलघुतया पवनलोलेन निर्मासविरलपार्श्वकपंञ्जरमिव गणयता वामांसावलम्बिना यज्ञोपवीतेनोद्भासमानः, देवतार्चनार्थमागृहीतवनलताकुसुमं परिपूर्णपर्णपुटसनाथशिखरेणाषाढदण्डेन व्यापृतसव्येतरपाणिः, विषाणोत्खातामुद्वहता स्नानमृदमुपजातपरिचयेन नीवारमुष्टिसंवर्धितेन कुशकुसुमलतायास्यैमानलोलदृष्टिना तपोवनमृगेणौनुयातः, विटप इव कोमलवफैलावृतशरीरः, गिरिवि समेखलः, राहुरिवासकृदास्वा - *********** भोगः परिभोगस्तस्मान्निवृत्तिरुपरमस्तदर्थं तन्निमित्तमुपपादितेन विहितेन । ललाटेति । ललाटपट्टकेऽलिकफलके मनोवाक्कायलक्षणेन त्रिसत्येनेव भस्मत्रिपुण्ड्रकेण विभूतित्रितिलकेनालंकृतो विभूषितः । गगनेति । गगनगमने उन्मुखा ऊर्ध्वानना या बलाका बिसकण्ठिका तदनुकारिणा तत्सदृशेन स्वर्गमार्गमिव त्रिदिवपन्थानमिव दर्शयता प्रकाशयता सततं निरन्तरमुद्ग्रीवेणोर्ध्वकन्धरेणैवंभूतेन स्फटिकमणिकमण्डलुना स्फटिककुण्डिकयाध्यासितमाश्रितं वामकरतलं यस्य सः । स्कन्धेति । कृष्णाजिनेन कृष्णचर्मणा परीता व्याप्ता मूर्तिर्यस्य स तथा । केनेंव । धूमपटलेनेव दहनकेतनसमूहेनेव । कीदृशेन । तपो मे भवत्विति तपस्तृष्णा तया निपीतेनेव । कीदृशेन । अन्तःशरीराभ्यन्तरे निपत॑ता प्रवेशं कुर्वता । कीदृशेन चर्मणा । स्कन्धदेशेऽवलम्बत इत्येवंशीलं तत्तेन नीला पाण्डवी च भा यस्य तत्तेन । अभीति । यज्ञोपवीतेन यज्ञसूत्रेणोत्प्राबल्येन भासमानो दीप्यमानः । केनेव । अभिनवं प्रत्यग्रं यद्विससूत्रं कमलनालतन्तुस्तेन निर्मितेनेव रचितेनेव परिलधुतया परि सामस्त्येन स्वल्पतयाणुतया पवनेन समीरणेन लोलेन चपलेन । किं कुर्वता । निर्मांसं पलरहितं विरलमसंकीर्णं यत्पार्श्वकपञ्जरं पार्श्वगतास्थिसमुदायमिव गणयता तत्संख्यां कुर्वता । यज्ञोपवीतं विशिनष्टि - वाम इति । वामः सव्यो योऽसः स्कन्धस्तदवलम्बिना तदवस्थानशीलेन । अथ मुनिं विशेषयन्नाह - देवतेति । देवतार्चनार्थं परमेश्वरपूजार्थमासमन्ताद्गृहीतान्यात्तानि वनलताकुसुमान्यरण्यव्रततिपुष्पाणि तैः परिपूर्णं भृतं यत्पर्णपुटं तेन सनाथं सहितं शिखरं प्रान्तं यस्यैवंभूतेनाषाढदण्डेन व्यापृतो व्यापारयुक्तः सव्येतरो दक्षिणः पाणिर्हस्तो यस्य स तथा । तपोवनेति । तपोवनसंबन्धी यो मृगो हरिणः । जात्येकवचनम् । तेनानुयातोऽनुगतः । किं कुर्वता मृगेण । विषाणं श्रृङ्गं तेनोत्खातामुत्खनितां स्नानमृदमाप्लवमृत्स्नामुद्वहता धारयता । मृगं विशेषयन्नाह - उपेति । उपजातः समुत्पन्नः परिचयः संबन्धविशेषो मुनिभिः सार्धं यस्य स तथा तेन । नीवारेति । नीवारो वनव्रीहिस्तस्य मुष्टिः प्रसिद्धा तया संवर्धन वृद्धिं प्रापितेन । कुशेति । कुशा दर्भाः, कुसुमानि पुष्पाणि, लता व्रतत्यः ताभिरायास्यमांना खेदं प्राप्यमाणा त एव लोला चपला दृष्टिर्यस्य स तेन । प्रकारान्तरेण मुनिपुत्रं विशिनष्टि - विटप इति । विटपो वृक्षस्तद्बदिव । उभयोः सादृश्यमाह - कोम - टिप्प० - 1 निष्पतता इत्यपि पाठ उचितः । तपस्तृष्णया धूमपटलं पूर्वं निपीतं तदनन्तरम् तत् अन्तः (अभ्यन्तरात् ) निष्पतत् बहिर्निर्गच्छदिवेत्युत्प्रेक्षा । 2 एक एवासीन्मृगो न जात्या एकवचनम् । विषाणोत्खातमृत्तिकां वहन्नेक एव मृगोऽनुगच्छति स्म, न किल सर्वं मृगयूथम् । 3 मुनिकुमार धृते कुशकुसुमादिपुटके तृष्णया वारंवारं चलनाद् दृष्टिरायासमनुभवतीत्याशयः । पाटा० - १ पट्टे. २ त्रिसत्यकेन. ३ अनुकारिस्वर्ग. ४ स्फाटिककमण्डलुना. ५ लीलया. ६ अपगच्छता; निष्पतता. ७ अभिनवबिस. ८ पार्श्व ९ अस्थिपञ्जर; आपञ्जर. १० कुसुमपूर्ण. ११ विषाणशिखर. १२ उपास्यमानः १३ अनुगम्यमानः १४ वल्क. हारीतवर्णनम् पूर्वभागः । 79 Page #93 -------------------------------------------------------------------------- ________________ दितसोमः, पद्मनिकर इव दिवसकरमरीचिपः, नदीतटतरुरिव सततजलक्षालनविमलजटः, करिकलभ इव विकचकुमुददलशकलसितदशनः, द्रौणिरिव कृपानुगतः, नक्षत्रराशिरिव चित्रमृगकृत्तिकाश्लेषोपशोभितः, धर्मकालदिवस इव क्षेपितबहुदोषः, जलधरसमय इव प्रशमितरजःप्रसरः, वरुण इव कृतोदवासः, हरिरिवापनीतनरकभयः, प्रदोषारम्भ इव संध्या - *********** लेति । कोमलं सुकुमारं यद्वल्कलं चोचं तेनावृतमाच्छादितं शरीरं यस्य स तथा । अस्यापि मुनित्वेन वल्कलधारित्वात्साम्यम् । गिरिरिवेति । गिरिः पर्वतस्तद्वदिव । उभयोः साम्यमाह - समेखल इति । सह मेखलया मौज्या वर्तते यः स तथा । पक्षे मेखलाद्रेमध्यभागस्तया सह वर्तमान इत्यर्थः । राहुरिवेति । राहुः सैंहिकेयस्तद्वदिव । एतयोः साम्यमाह - असकृदिति । असकृनिरन्तरमास्वादितः सोमो ज्योतिष्टोमयागसाधनद्रव्यं येन स तथा । एतेनात्यन्तसोमयज्ञकारित्वं सूचितम् । पक्षेऽसकृद्धहुवारमास्वादितो ग्रस्तः सोमश्चन्द्रो येनेति विग्रहः । पद्मति । पद्मानां कमलानां निकरः समूहस्तद्वदिव । उभयोः साम्यमाह - दिवसेति । दिवसकरस्य सूर्यस्यातपभयान्मरीचीन्पाति रक्षति स तथा । पक्षे सूर्यविकासित्वात्सूर्यमरीचीन्पाति पिबति यः स तथेति विग्रहः । नदीति । नद्यास्तटिन्यास्तटं प्रतीरं तस्मिंस्तँरुवृक्षस्तद्वदिव । उभयोः सादृश्यमाह - सततमिति । सततं निरन्तरं त्रिसायं जलेन पानीयेन क्षालनं तेन विमला जटाः सटाः यस्य सः । पक्षे सततजलक्षालनेन विमला जटा अवरोहा यस्येति विग्रहः । करीति । करिणा हस्तिनां कलभस्त्रिंशदब्दको गजस्तद्वदिव । उभयोस्तुल्यतामाह - विकचेति । विकचानि स्फुटानि कुमुदानि कैरवाणि तेषां दलानि पर्णानि तेषां शकलानि खण्डास्तद्वत्सिताः शुभ्रा दशना दन्ता यस्येति स तथा । उभयसाम्यादभङ्गश्लेषः । द्रौणिरिवेति । द्रौणिरश्वत्थामा तद्वेदिव । उभयोः शब्दसाम्यमाह - कृपेति । कृपा दुःखहानेच्छा तयानुगतः सहितः । पक्षे कृपः कृपाचार्यस्तेनोपगत इति विग्रहः । नक्षत्रेति । नक्षत्राणां तारकाणां राशिः समूहस्तद्वदिव । अनयोः साम्यमाह - चित्रेति । चित्रमृगस्य कृत्तिका चर्म तेनाश्लेषः संबन्धस्तेन उपशोभितः शोभा प्राप्तः । पक्षे चित्रा त्वाष्ट्री, मृगो मृगशिरः, कृत्तिका प्रसिद्धा, आश्लेषा सापी, ताभिरुपशोभितः । धमेति । धर्मकाल उष्णकालस्तस्य दिवसो दिनं तद्वदिव । उभयोः साम्यमाह - क्षपित इति । क्षपिताः क्षयं प्रापिता बहवो दोषा रागादयो येन सः । पक्षे क्षपिता बह्वी दोषा रात्रिर्येनेति विग्रहः । जलेति । जलधरसमयः प्रावृट्कालस्तद्वदिव । उभयोस्तुल्यतामाह - प्रशमितेति । प्रशमितः शान्तिं प्रापितो रजःप्रसरः प्रवर्तकगुणव्यापारो येन सः । पक्षे प्रशमितो रजःप्रसरो धूलिविस्तारो येनेति विग्रहः । वरुण इति । वरुणः प्रचेतास्तद्वदिव । उभयोः साम्यमाह - कृतोदेति । कृतो विहित उदवासो व्रतविशेषो येन सः । पक्षे कृत उदकेषु वासो निवासो येनेति विग्रहः । उदकस्योदादेशः । हरिरिति । हरिरिव कष्ण इव । उभयोरैक्यमाह - अपनीतेति । अपनीतो दूरीकतो नरको दुर्गतिः तद्भय येन सः । पक्षे नरकनाम्नो दैत्यस्य भयं येनेति विग्रहः । प्रदोषेति । प्रदोषो यामिनीमुखं तस्यारम्भः प्रारम्भस्तद्वदिव । उभयोरैक्यमाह - संध्येति । संध्या दिवसरजन्योः संधिस्तद्वत्पिङ्गला तारैव तारका कनीनिका यस्य स तथा । इदं महापुरुषोपलक्षणम् । तदुक्तमन्यत्र - 'शूद्रोऽपि चक्रवर्ती स्यात्पीततारकचक्षुषि' इति । पक्षे संध्याकृता पिङ्गला तारका यस्मिन्निति विग्रहः । प्रभातेति । प्रभातं प्रत्यूषस्तस्य कालः समयस्तद्वदिव । उभयोः साम्यमाह - बालेति । बालो यः सूर्यस्तस्यातपः । बालश्चासावातपो वा । प्रकाशस्तद्वत्कपिलः पिङ्गलः । पक्षे बालातप उद्गमनसमयवातपस्तेन कपिलः पिङ्गलः । पीतरक्त इत्यर्थः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 सूर्यरश्मीन् पिबति ऊध्वकमुखः सन् ग्रसते इति हारीतपक्षे, 'ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः' इति तपश्चरणनियमात् । पूर्णविकासार्थं सूर्यरश्मीन् पिबति आदत्ते इति पद्मनिकरपक्षे । 2 विमला जटा लग्नकेशा यस्य सः (मुनिः), विमला मृत्तिकाहीना जटा मूलं यस्य सः (तरुः) 'मूले लग्नकचे जटा' इत्यमरः । 3 रजोगुणव्यापारः कामादिर्येन (मुनिपक्षे)। 4 संध्यया सन्ध्याकालवर्णेन पिङ्गलास्तारका नक्षत्राणि यस्मिन्नित्यर्थः । पाठा० - १ दिनकर. २ विरल. ३ करभ. ४ विश्लेषा. ५ क्षयितदोषः. (80 कादम्बरी । । कथामुखे-) Page #94 -------------------------------------------------------------------------- ________________ पिङ्गलतारकः, प्रभातकाल इव बालातपकपिलः, रविरथ इव दृढनियमिताक्षचक्रः, सुराजेव निगूढमन्त्रसाधनक्षैपितविग्रहः, जैलनिधिरिव करालशङ्खमण्डलावर्तर्गर्तः, भगीरथ ईंवासकृद्दृष्टगङ्गावतारः, भ्रमर इवासकृदनुभूतपुष्करवनचरोऽपि कृतमहालयप्रवेशः, असंयतोऽपि मोक्षार्थी, सामप्रयोगपरोऽपि सततावलम्बितदण्डः, सुप्तोऽपि प्रबुद्धः, संनिहितनेत्रद्वयोऽपि परित्यक्तवामलोचनस्तदेव कमलसरः सिस्नासुरुपागमत् । वनवासः, *********** रविरथ इति । रवेः सूर्यस्य यो रथः स्यन्दनस्तद्वदिव । उभयोः साम्यमाह - अक्षेति । दृढं यथा स्यात्तथा नियमितं निबद्धमक्षाणामिन्द्रियाणां चक्रं समूहो येन सः । पक्षे दृढे नियमिते अक्षचक्रे यस्मिन्निति विग्रहः । तत्राक्षो मध्यप्रदेशः । चक्रं प्रसिद्धम् । सुराजेवेति । सुष्ठु शोभनो यो राजा नृपतिस्तद्वदिव । तयोः साम्यमाह - निगूढेति । निगूढं रहो यन्मन्त्रसाधनं देवताराधनं तेन क्षपितः कृशता नीतो विग्रहः शरीरं येन सः । पक्षे निगूढोऽतिगुप्तो मन्त्रो रहस्यालोचनं साधनं गजाश्वादि ताभ्यां क्षपितः क्षयं नीतो विग्रहः शत्रुजनितक्लेशो येनेति विग्रहः । जलनिधिरिति । जलनिधिः समुद्रस्तद्वदिव । उभयोः सादृश्यमाह - करालेति । करालं यच्छङ्कमण्डलं भालश्रवोन्तरं तत्रावर्तेन गर्तो यस्य स तथा । तादृशावर्तश्च महातपस्विलक्षणम् । पक्षे करालानि जिह्यानि यानि शङ्खमण्डलानि षोडशावर्तवृन्दान्यावर्तः पयसां भ्रमश्च एते गर्ते अगाधप्रदेशे यस्येति विग्रहः । भगीति । भगीरथः सगरप्रपौत्रस्तद्वदिव । उभयोः सादृश्यमाह - असकृदिति । असकृन्निरन्तरं दृष्टोऽवलोकितो गङ्गाया अवतारो घट्टो येन सः । 'घट्टस्तीर्थावतारे' इति कोशः । पक्षे असकृत् दृष्टो गङ्गाया अवतारः प्रभवो येनेति विग्रहः । भ्रमर इति । भ्रमरो मधुकृत्तद्वदिव । उभयोः साम्यमाह असकृदिति । असकृद्वारंवारमनुभूतोऽनुभवविषयीकृतः पुष्करं जलं तेन सहितं यद्वनं तत्र वासो वसतिर्येन सः । पक्षेऽनुभूतः पुष्करवनं कमलखण्डस्तत्र वासो येनेति विग्रहः । वनेति । वने चरतीति वनचरः । एवंभूतोऽपि कृतो महालयेषूच्चैस्तरगृहेषु प्रवेशो येनेति विरोधः । परिहारपक्षे महालयो ब्रह्मणि लयः । तदुक्तम्- 'अधोमुख्या कुण्डलिन्योर्ध्वं मुखे कृते सति ब्रह्मरन्ध्रपर्यन्तं नीतायां तस्यामेकान्तेनावस्थानं ब्रह्मणि लयः' इति । यद्वा महालयो मोक्षस्तत्र कृतवसतिरित्यर्थः । असंयतेति । असंयतोऽसंयमवानपि मोक्षार्थी मोक्षाभिलाषुक इति विरोधः । तत्परिहारपक्षेऽसंयतोऽबद्धोऽपीत्यर्थः । ' संदानितः संयतश्च' इत्यभिधानचिन्तामणिः । सामेति । साम सान्त्वनं तठप्रयोगपरोऽपि मैत्रीप्रयोगतत्परोऽपि सततं निरन्तरमवलम्बित आश्रितो दण्डो राजदेयद्रव्यं येनेति विरोधः । तत्परिहारपक्षे सामवेदप्रयोगपरोऽपि सततमवलम्बितो दण्डो यष्टिर्येनेति विग्रहः । सुप्त इति । सुप्तो निद्रितोऽपि प्रबुद्धो जाग्रदवस्थ इति विरोधः । परिहारपक्षे सुष्ठु शोभनाप्ताः जटा यस्येति विग्रहः । लक्ष्यं च-'राजा राजार्चिताङ्ग्रेरनुपचितकलो यस्य चूडामणित्वं नागा नागात्मजार्थं न भसितधवलं यद्वपुर्भूषयन्ति । मा रामारागिणी भून्मतिरिति यमिनां येन वोऽदाहि मारः सप्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः ॥' इति श्रृङ्गारतिलकटीकायाम् । तथा 'सन्नालिका सदाप्ता परिकरमुदिता' इति शोभनस्तुतौ लक्ष्यान्तरमपि । संनिहित इति । सम्यक्प्रकारेण निहितं स्थापितं नेत्रद्वयं लोचनद्वयं येनैवंभूतोऽपि परित्यक्तं दूरीकृतं वामलोचनं येनेति विरोधः । परिहार - टिप्प० - 1 करालः उन्नतावनतो यः शङ्खः तस्य मण्डलावर्तवत् (मण्डलाकार भ्रमिरेखावत्) नाभिगर्तो यस्य सः (मुनिः ) करालशङ्खः बृहच्छङ्खः मण्डलावर्तो मण्डलाकारेण जलभ्रमश्च नाभिगर्तस्थानापन्नो यस्य सः ( जलनिधिः), ततश्च 'मण्डलावर्तनाभिगर्तः' इति पाठः समञ्जसः । 2 भगीरथ इव दृष्टगङ्गावतारः । इति पाठः समुचितः, भगीरथपक्षे असकृत्पदस्य स्वारस्याभावात् । 3 सुप्तो बाह्यविषयेषु निद्रितवत् असंपृक्तोपि प्रबुद्धः परमात्मविषयकज्ञाने जागरूकः 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी' । इति स्पष्टोर्थः । 4 परित्यक्ता वामलोचना कामिनी येन सः इति स्पष्टोऽर्थः । पाटा० - १ पिशङ्ग २ नियमित दृढसंयमित ३ क्षयित. ४ जलधि ५ नाभिगर्तः ६ इक्दृष्ट. ७ मधुकर. हारीतः · पूर्वभागः । 81 Page #95 -------------------------------------------------------------------------- ________________ केरुणः प्रायेणाकारणमित्राण्यतिकरुणार्द्राणि सदा खलु भवन्ति सतां चेतांसि । यतः स मां तदवस्थमालोक्य समुपजातसैमीपवर्तिनमृषिकुमारकमन्यतममब्रवीत् - ' अयं कथमपि शुकशिशुरसंजातपक्षपुट एव तरुशिखरादस्मात्परच्युतः । श्येनमुखपरिभ्रष्टेन वानेन भवितव्यम् । तथा हि-अतिदवीयस्तया प्रपातस्याल्पशेषजीवितोऽयमामीलितलोचनो मुहुर्मुहुर्मुखेन पंतति, मुहुर्मुहुरत्यन्वणं श्वसिति, मुहुर्मुहुश्चञ्चुपुटं विवृणोति, न शक्नोति शिरोधरां धारयितुम् । तदेहि । यावदेवायमसुभिर्न विमुर्च्यते, तावदेव गृहाणेर्मम् । अवतारय सलिलसमीपम्' इत्यभिधाय तेन मां सरस्तीरमनाययत् । उपसृत्य च जलसमीपमेकदेशनिहितदण्डकमण्डलुरादाय स्वयं मामामुक्तप्रेयत्नमुत्तानितैमुखमङ्गुल्या कतिचित्सलिलबिन्दूनपाययत् । अम्भःक्षोदकृतसेकं चोपैंजातनवीनप्राणमुपतटप्ररूढस्य नैवनलिनीदलस्य जलशिशि - ****: पक्षे परित्यक्तं वामं वक्रं लोचनमालोकनं येनेत्यर्थः । यद्वा ब्रह्मचारित्वात्परित्यक्तं वामायां मनस्विन्यां लोचनं येनेत्यर्थः । प्रायेणेति । प्रायेण बाहुल्येनाकारणमित्राणि निदानव्यतिरेकेण प्रियकारीण्यतिशयेन करुणा परदुःखप्रहाणेच्छा तयार्द्राणि स्विन्नानि खलु निश्चयेन सदा सर्वकालं सतां सज्जनानां चेतांसि मनांसि भवन्ति । यतः स मुनिसुतो हारीताख्यो मां तदवस्थं कष्टदशापत्रमालोक्य निरीक्ष्य समुपजाता सम्यक्प्रकारेणोत्पन्ना करुणा कृपा यस्यैवंभूतः समीपवर्तिनं निकटस्थायिनमृषिकुमारकमन्यतमं मुनिसुतमब्रवीदवोचत् । अयं प्रत्यक्षगतः कथमपि महता कष्टेन शुकशिशुः कीरपोतोऽसंजातपक्षपुट एवासमुत्पन्नच्छद एवास्मात्तरुशिखराद्वृक्षप्रान्तात्परिच्युतःसस्तः । वाथवानेन कीरेण श्येनः सिञ्चानकस्तस्य मुखादाननात्परिभ्रष्टेन पतितेन भवितव्यम् । तदेव दर्शयति - तथा हीति । अतिदवीयो द्राघ्रीयस्तस्य भावस्तत्ता तया प्रेपातस्य प्रपतनस्याल्पं शेषमुद्धरितं यस्मिन्नेवंविधं जीवितं यस्यैवंभूतोऽयमामीलिते संकुचिते लोचने नेत्रे यस्य स तथा मुहुर्मुहुर्वारंवारं मुखेन पतति । अयं पक्षिणां जातिस्वभावः । मुहुर्मुहुरत्युल्बणमुत्कटं श्वसिति प्राणिति । मुहुर्मुहुश्चञ्चुपुटं त्रोटीपुटं विवृणोति विकासयति । न शक्नोति न समर्थो भवति शिरोधरां ग्रीवां धारयितुं स्थापयितुम् । तदिति । तत् पूर्वोक्ततोरेह्यागच्छ । यावदेवायं यावत्कालमयं शिशुरसुभिः प्राणैर्न विमुच्यते न विश्लेषं प्राप्नोति तावदेव तावत्कालं गृहाणेमं शुकम् । अवतारय प्रापय सलिलसमीपं पानीयसविधमिति पूर्वोक्तप्रकारेणाभिधायोक्त्वा तेनर्षिपुत्रेण मां सरस्तीरं कासारतटमनाययत्प्रापयत् । उपसृत्य प्राप्य च जलसमीपम् । एकेति । एकदेशेऽन्यतरस्मिन्प्रदेशे निहितौ स्थापितौ दण्डकमण्डलू येन स तथा तत आदाय गृहीत्वा माम् । कीदृशम् | आमुक्तः परित्यक्तः प्रयत्नोऽन्नपानाद्यनुकूलशारीरक्रियारूपो येन स तम् । उत्तानितमूर्ध्वकृतं मुखमास्यं येन स तम् । स्वयमात्मनाङ्गुल्या करशाखया कतिचित्कियतः सलिलबिन्दून्पानीयपृषतोऽपाययज्जलपानमकारयत् । अम्भसः पानीयस्य क्षोदेन हस्तच्युतेन कृतो विहितः सेकः सिञ्चनं यस्य स तम् । शुकपोतं विशेषयन्नाह - उपेति । उपजाता नवीना नवाः प्राणा असवो यस्यैवंविधं मामुपतट तटसमीपं - 82 *** टिप्प० - 1 प्रपातस्य अतिदवीयस्तया प्रपतनस्थानस्य अतिदूरवर्तितयेत्याशयः । 2 श्वासान्मुञ्चतीत्यर्थः । 3 चूर्णवदतिसूक्ष्मबिन्दुच्छुरणेन, 'चूर्णे क्षोदः ' इत्यमरः । पाठा० - १ च सदा भवन्ति सतां चेतांसि; सतां खलु भवन्ति सदा चेतांसि २ दयः ३ समीपतर. ४ प्रायो भवितव्यम्. ५ अस्याल्पशेषं जीवितम् ६ वमति ७ निश्वसिति. ८ वियुज्यते ९ एनम् १० उपसृत्य जल. ११ मुक्तं १२ उन्नमितम्. १३ मन्मुखम् १४ समुपजातप्राणम्; समुपजातप्रज्ञम् १५ नलिनीपलाशस्य. कादम्बरी । कथामुखे Page #96 -------------------------------------------------------------------------- ________________ रायां छायायां निधाय स्वोचितमकरोत्स्नानविधिम् । अभिषेकावसाने चानेकप्राणायामपूतो जैपन्पवित्राण्यघमर्षणानि प्रत्याभग्नैरुन्मुखो रक्तारविन्दैनलिनीपत्रपुटेन भगवते सवित्रे दत्त्वार्घमुदतिष्ठत् । आगृहीतधौतधवलवल्कलश्च सहज्योस्न इव संध्यातपः करतलनिधूननविशदसटः प्रत्यग्रस्नानाजटेन सकलेन तेन मुनिकुमारकदम्बकेनानुगम्यमानो मां गृहीत्वा तपोवनाभिमुखं शनैरगच्छत् । अनतिदूरमिव गत्वा दिशि दिशि सदा संनिहितकुसुमफेलैस्तालतिलकैतमालहिन्तालबकुलबहुलैरेलालताकुलितनालिकेरीकलापैर्लोललोध्रलवलीलवङ्गपल्लवैसलसितचूतरेणुपटलैरलिकु - *********** प्ररूढस्य जातस्य नवनलिनीदलस्य प्रत्यग्रपद्मिनीपत्रस्य जलेन पानेन शिशिरायां शीतलायां छायायाम् । वैशम्पायन इत्यभिधा नाम यस्यैवंविधं शुक निधाय स्थापनां कृत्वैतदभिधानोऽयमिति स्वोचितं स्वस्योचितं योग्यं स्नानविधिमकरोदसृजत् । अभिषेकस्य स्नानस्यावसाने प्रान्ते । चः पुनरर्थे । उदतिष्ठदुत्थितो बभूवेत्यन्वयः । हारितं विशिनष्टि - अनेकैरिति । अनेकैर्बहुभिः प्राणायामैः प्राणयमैः पूतः पवित्रः । किं कुर्वन् । जपन्स्मरन् । कानि । अघमर्षणान्यब्देवतास्तुतिरूपाणि । 'सर्वेनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्' इति कोशः । कीदृशानि । पवित्राणि स्वत एव विशदानि । कीदृक् । उन्मुख ऊर्ध्वमुखः । नलिनीति । नलिन्याः कमलिन्याः पत्रपुटेनाधारभूतेन प्रत्यग्रभग्नस्तत्कालगृहीतै रक्तारविन्दै रक्तकमलैराधेयभूतैर्भगवते माहात्म्यवते सवित्रे श्रीसूर्यायाधु पूजां दत्त्वा वितीर्य । अन्वयस्तु प्रागेवोक्तः । कीदृक् । आगृहीतेति । स्नानानन्तरमागृहीतं स्वीकृतं धौतं क्षालितमत एव धवलं शुभ्रं वल्कलं चोचं येन स तथा । सहज्योत्स्न इति । सह ज्योत्स्नया कौमुया वर्तते यः स एवंभूतः संध्यातपः सायंकालीनसूर्यातप इव । करतलेति । करलतेन हस्ततलेन यनिधूननमाच्छोटनं तेन विशदा निर्मला जटा सटा यस्य सः । प्रत्यग्रं तत्कालं स्नानेनार्दोर्दीभूता जटा सटा यस्य स तथा तेन । सकलेन समग्रेण मुनिकुमारकदम्बकेन तापसशिशुसमूहेनानुगम्यमानः । मामिति । मां वैशम्पायनं गृहीत्वादाय तपोवनाभिमुखं स्वाश्रमसमुखं शनैर्नातिवेगेनागच्छदन्चतिष्ठत् । अनतिदूरमिव गत्वा । दविष्ठं पन्थानमतिक्रम्येत्यर्थः । अहमाश्रमं मुनिस्थानमपश्यमिति दूरेणान्चयः । कीदृशम् । काननैर्वनैरुपगूढ व्याप्तम् । अथ वनविशेषणानि व्याख्यापयन्नाह - दिशीत्यादि । दिशि दिशि प्रतिदिशं सदा सर्वकालं संनिहितानि हस्तग्राह्याणि कुसुमफलानि येषां तैः । तालस्तृणराजः, तिलकः श्रीमान्, तमालस्तापिच्छः, हिन्तालो वृक्षविशेषः, बकुलः केसरः, एतैर्बहुलैदृढैः । 'नीरन्ध्र बहुलं दृढम्' इति कोशः । एलायाश्चन्द्रवालाया या लता वल्लयस्ताभिराकुलितो व्याप्तो नालिकेरीकलापो लाङ्गलीसमूहो येषु तैः । लोलाश्चपला लोध्रो गालवः, लवली लताविशेषः, लवङ्गः श्रीसंज्ञः, एतेषां पल्लवा येषु तैः । उल्लसितानि बहिर्निर्गतानि चूतरेणुपटलान्याम्रपरागपुजानि येषु तैः । अलिकुलानां भ्रमरसमूहानां झङ्कारेण झङ्कृतिशब्देन मुखरा वाचालाः सहकारा येषु तैः । आमेष्वतिसौरभो यः स सहकार इति पूर्वस्माद् भेदः । अतो न पौनरुक्त्यम् । 'आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । उन्मादानि मदोन्मतानि यानि कोकि - - - - - - - - - - - - - - .- - - - - - - - - - - -- टिप्प० - 1 आस्फालनम् 'फटकारना' हिन्दी । 2 अव्रजत् इत्याशयः । अनुपूर्वकस्य तिष्ठतेरत्र ग्रहणं टीकाकर्तुः मतेरतिशयत्वं द्योतयति । पाठा० - १ समुपचितम्; यथासमुपचितम्. २ अभिमताभिषेक. ३ पूजितः पूतोऽपि. ४ जपन्नघमर्षणानि. ५ अर्घ्यम्. ६ आगृहीतधवला; आगृहीतधवलधौत. ७ सज्योत्स्नः. ८ निधूतविशद. ९ कमण्डलुमापूर्य कमलकिजल्कसुरभिणा शुचिना सरोवारिणा प्रत्यग्र. १० कुमारक. ११ शनैःशनैः. १२ पटलैः. १३ तालीतमाल. १४ नारिकेल. १५ आलोल. १६ पुष्पैः. १७ उल्लसत्. जाबाल्याश्रमः । पूर्वभागः । 83 Page #97 -------------------------------------------------------------------------- ________________ लझङ्कारमुखरसहकारैरुन्मदकोकिलकुलकलापकोलाहलिभिरुत्फुल्लकेतकीरजःपुञ्जपिञ्जरैः पूगीलतादोलाधिरूटवनदेवतैस्तारकावर्षमिवाधर्मविनाशपिशुनं कुसुमनिकरमनिलचलितमनवरतमतिधवलमुत्सृजद्भिः संसक्तपादपैः काननैरुपगूढम्, अचकितप्रचलितकृष्णसारशतशबलाभिरुत्फुल्लकमलिनीलोहिनीभिमारीचमायामृगावलूनरूढवीरुद्दलाभिर्दाशरथिचापकोटिक्षतकेन्दगर्तविषमिततलाभिर्दण्डकारण्यस्थलीभिरूपशोभितप्रान्तम्, आगृहीतसमित्कुशकुसुममृद्भिरध्ययनमुखरशिष्यानुगतैः सर्वतः प्रविशद्भिर्मुनिभिरैशून्योपकण्ठम् उत्कण्ठिशिखण्डिमण्डलश्रूयमाणजलकलशपूरणध्वानम्, अनवरताज्याहुतिप्रीतैश्चित्रभानुभिः सशरीरमेव मुनिजनममरलोक निनीषुभिरुद्भूयमानधूमलेखाच्छलेनाबध्यमानस्वर्गमार्गगमनसोपानसेतु - *********** लकुलानि पिककुलानि तेषां कलापः समूहस्तस्य कोलाहलः कलकलो येषु तैः । उत्फुल्ला विकसिता याः केतक्यो मालत्यस्तासा रजःपुजः परागसमूहस्तेन पिञ्जरैः पीतरक्तैः । पूगीलता क्रमुकलता एव दोलाः प्रेङ्खास्तास्वधिरूढा आश्रिता वनदेवता अरण्याधिष्ठात्र्यो देवता येषु तैः । पुनः किं कुर्वद्भिः । अनवरतं निरन्तरमनिलचलित वायुधूतमतिधवलमतिपाण्डुर कुसुमनिकर पुष्पसमूहमुत्सृजद्भिर्विकिरद्भिः । किमिव । तारकावर्षमिवोल्कापातमिव । तदपि किंचिदनिष्टस्य सूचकं भवति । इदमपि तथेत्याह'- अधर्मेति । अधर्मस्याशिष्टाचारस्य विनाशोऽभावस्तस्य पिशुनं सूचकम् । एतेन सर्वथाऽधर्माभावोऽत्रेति ध्वनितम् । संसक्ता अन्योन्यं मिलिताः पादपा वृक्षा येषु तैः । पुनः कीदृशम् । दण्डकारण्यं प्रसिद्धं तस्य याः स्थल्यः स्थूलभूमयस्ताभिरुपशोभितः शोभा प्रापितः प्रान्तः पश्चाद्भागो यस्य स तम् । अतः स्थल्या विशेषणानि - अचकितेत्यादि । अचकिता अत्रस्ताः प्रचलिता गच्छन्तो ये कृष्णसाराः कृष्णमृगास्तेषा शतं दशशतगुणितास्तेन शबलाभिः किर्मीराभिः । उत्फुल्ला विकसिता याः कमलिन्यो नलिन्यस्ताभिर्लोहिनीभी रक्ताभिर्मारीचनामा यो मायामृगस्तेनावलूनानि छिनानि रूढवीरुधां संजातवल्लीनां दलानि पर्णानि यासु ताभिः । दाशरथी रामचन्द्रस्तस्य चापकोट्या क्षता उत्खाता ये कन्दा मूलानि तेभ्यो ये गर्ता भुवो विवराणि तैर्विषमितमुच्चनीचतां प्राप्तं तवं यासु ताभिः । पुनः कीदृशम् । मुनिभिः करणभूतैरशून्यमुपकण्ठं समीपं यस्य स तथा तम् । यथाक्रम मुनीनां त्रीणि विशेषणानि व्याख्यापयन्नाह - आगृहीतेति । आगृहीता आत्ताः समिध एधांसि, कुशा दर्भाः, कुसुमानि पुष्पाणि, मृदो मृत्तिका यैस्ते तथा तैः । अध्ययनेन वेदपारायणेन मुखरा वाचाला ये शिष्या विनेयास्तैरनुगतैः सहितैः सर्वतोऽभितः प्रविशद्भिः प्रवेशं कुर्वद्भिः । तद्गतपदार्थप्रदर्शनपूर्वकं पुनर्विशिनष्टि - उत्कण्ठीति । उत्कण्टिना हल्लेखवता शिखण्डिमण्डलेन मयूरसमूहेन श्रूयमाण आकर्ण्यमानो जलेषु कलशपूरणध्वानः शब्दो यस्मिन्स तम् । अनवरत निरत्ययमाज्येन सर्पिषा याहुतिर्हवनं तया प्रीतैः संतुष्टैश्चित्रभानुभिर्वह्निभिः सशरीरमेव सविग्रहमेव मुनिजनमृषिवर्गममरलोकं स्वर्गलोकं निनीषुभिनेतुमिच्छुभिरुद्धूयमाना कम्पमाना या धूमलेखा दहनकेतनवीथी तस्याश्छलेनाबध्यमानो विरच्यमानः स्वर्गमार्गगमनसोपानसेतुरिव स्वर्गस्य त्रिविष्टपस्य यो मार्गः पन्थास्तत्र गमनं तदर्थं सोपानसे - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 नक्षत्रवृष्टिमिव इत्युचितोर्थः, श्वेतानां पुष्पाणां तारकोपमितत्वात् । 2 उत्कण्ठितेन शिखण्डिमण्डलेन श्रूयमाणो जलकलशपूरणध्वानो यस्मिन्, कलशपूरणध्वनी मेघगर्जनभ्रमात् मयूराणामुत्कण्ठेत्यर्थः । ततश्च उत्कण्ठितेत्यर्थापत्तिः । पाठा० - १ कलालाप. २ केतकीकुमुममञ्जरीरजः; केतकमञ्जरीरजः. ३ वृष्टि. ४ पादपैरुपगूढम्. ५ सारसारङ्ग. ६ स्थलकमलिनी. ७ मारीचि. ८ प्ररूढ. ९ कन्दर. १० मृत्तिकः ११ शिष्यागतैः. १२ प्रसरद्भिः. १३ अविशून्य. १४ उत्कण्ठ. १५ मण्डलीमण्डल. 84 कादम्बरी। कथामुखे Page #98 -------------------------------------------------------------------------- ________________ रिवोपलक्ष्यमाणम्, आसन्नवर्तिनीभिस्तपोधनसंपर्कादिवापगतकालुष्याभिस्तरङ्गपरंपरासंक्रान्तर्रविबिम्बपङ्क्तिभिस्तापसदर्शनागतसप्तर्षिमालाविगाह्यमानाभिरिव विकैचकुमुदवनमृषिजनमुपासितुमवतीर्णं ग्रहगणमिव निशासूद्वहन्तीभिर्दीर्घिकाभिः परिवृतम्, अनिलावनमितशिखराभिः प्रणम्यमानमिव वनलताभिः, अनवरतमुक्तकुसुमैरभ्यर्च्यमानमिव पादपैः, आबद्धपल्लवाञ्जलिभिरुपास्यमानमिव विटपैः, उटजाजिरप्रकीर्णशुष्यच्छ्यामाकम्, उपसंगृहीतामलकलवलीकर्कन्धूकदलीलकुचचूतपनसतालीफलम्, अध्ययनमुखरबटुजनम्, अनवरतश्रवणगृहीतवषट्कारवाचालशुककुलम्, अनेकसारिको ष्यमाणसुब्रह्मण्यम्, अरण्यकुक्कुटोपभुज्यमा - *********** तुरिवोपलक्ष्यमाणं व्यज्यमानम् । दीर्घिकाभिर्वापीभिः परिवृतमावृतम् । अथ क्रमेण वाप्या विशेषणानि । आसन्नवर्तिनीभिः समीपसंस्थिताभिस्तपोधनस्तापसैः संपर्कः संबन्धस्तस्मादिवापगतकालुष्याभिर्दूरीभूतमालिन्याभिस्तरंगपरंपरासु कल्लोलवीथिषु संक्रान्ताः प्रतिबिम्बिता रविबिम्बस्य सूर्यबिम्बस्य पङ्क्तयो यासु ताभिः । तरङ्गपरंपरासु प्रतिबिम्बपरंपरेत्यर्थः । तज्जनितशोभान्तरं वर्णयत्राह - तापसेति । तापसदर्शनार्थमागता प्राप्ता या सप्तर्षिमाला तया विगाह्यमानाभिरिव विलोड्यमानाभिरिव । एतेन सप्तर्षीणां सूर्यप्रतिबिम्बसादृश्यं ध्वनितम् । किं कुर्वतीभिः । निशासु रात्रिषु विकचकुमुदवनं विनिद्रकैरववनमृषिजनं मुनिजनमुपासितुं सेवितुमवतीर्णमुपरिष्टादागतं ग्रहगणमिव नक्षत्रवृन्दमिवोद्वहन्तीभिर्धारयन्तीभिः । एतेन कुमुदवनग्रहणयोः स्वच्छत्वसारूप्याद्रूपकमुक्तम् । पुनः प्रकारान्तरेण तमेव विशेषतो विशिनष्टि - अनिलेति । अनिलेन वायुनावनमितं शिखरं प्रान्तं यासां ताभिरेवंभूताभिर्वनलताभिररण्यवल्लीभिः प्रणम्यमानमिव नमस्क्रियमाणमिव । अनवरतेति । अनवरतं मुक्तानि कुसुमानि यैरेवंभूतैः पादपैर्वृक्षैरभ्यर्च्यमानमिव पूज्यमानमिव । आबद्धेति । आबद्धा रचिताः पल्लवा एवाञलय एवंभूतैर्विट्पैर्वृक्षरुपास्यमानमिव सेव्यमानमिव । उटजेति । उटजाजिरेषु पर्णशालाङ्गणेषु प्रकीर्णा विक्षिप्ताः शुष्यन्तः शोष प्राप्नुवन्तः श्यामाका धान्यविशेषा यस्मिन्स तम् । उपसंगृहीतेति । उपसंगृहीतान्यात्तान्यामलक धात्री, लवली लताविशेषः, कर्कन्धूबंदरी, कदली रम्भा, लकुचो वृक्षविशेषः, चूत आम्रः पनसः प्रसिद्धः, ताली तृणराजः, एतेषां फलानि यस्मिन्स तम् । अध्ययनेति । अध्ययनेन वेदपठनेन मुखरा वाचाला बटुजना ब्रह्मचारिजना यस्मिन्स तम् । अनवरतेति । अनवरतं निरन्तरं श्रवणगृहीताः श्रुतिमात्रेण शिक्षिता ये वषट्कारशब्दास्तैर्वाचालं शुककुलं यस्मिन्स तम् । अनेकेति । अनेकाभिः सारिकाभिः पीतपादाभिरुद्धुष्यमाणमुच्चैःस्वरेण पठ्यमानं सुब्रहाण्यं वेदो यस्मिन्स तम् । अरण्येति । तत्कुक्कुटैश्चरणायुधैः उपभुज्य - - - - - - - - - - - - - - -- - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 सशरीरमेव मुनिजनम् अमरलोक निनीषुभिः आहुतिप्रीतैश्चित्रभानुभिः धूमलेखाच्छलेन आबध्यमानः स्वर्गमार्गगमनाय सोपानरूपः सेतुः यत्र तमिव उपलक्ष्यमाणम् । अग्नीनां वायुकम्पिता ऊर्ध्वगामिनी धूमपङ्क्तिर्मुनीनां सशरीरस्वर्गगमनार्थं सोपानभूता । द्वयोर्लोकयोः संयोजिकेति सेतुस्थानापनेति उत्प्रेक्षाशयः । एवं च 'सेतुमिवोपलक्ष्यमाणम्' इत्यपि पाठः समुचितः । मूलटीकयोर्विसंवादो मा भूदिति नास्माभिः शोधितः । नीरक्षीरविवेकिभिष्टीकातः परमार्थं ग्राह्यम् । 2 ऋषिजनमुपासितुम् अवतीर्णं नीचैरागतं ग्रहगणमिव स्थितं कुमुदवनमुदहन्तीभिः । कुमुदानि मन्ये जाबल्यादिमुनीना सेवायै समागतानि नक्षत्राण्येव सन्तीत्युत्प्रेक्षा । 3 विटपैः शाखाभिरित्युचितोर्थः । शाखार्थत्वाद्विटपस्य । 'पादपैः' इति तु पूर्व प्रोक्तमपि । पाठा०-१ तपोवन. २ रविपक्तिभिः. ३ अतिविकच. ४ शिखाभिः. ५ पल्लवपुटाञ्जलिभिः. ६ लषगकककन्धू. ७ चूततालफलम् तालचूतफलम्. (जाबाल्याश्रमः) पूर्वभागः । 85 Page #99 -------------------------------------------------------------------------- ________________ नवैश्वदेवबलिपिण्डम्, आसनवापीकलहंसपोतभुज्यमाननीवारबलिम, एणीजिह्वापल्लवोपलिह्यमानमुनिबालकम्, अग्निकार्यार्धदग्धमिसमिसायमानसमित्कुशकुसुमम्, उपलभग्ननालिकेररसस्निग्धशिलातलम्, अचिरक्षुण्णवल्कलरसपाटलभूतलम्, रक्तचन्दनोपलिप्तादित्यमण्डलकनिहितकरवीरकुसुमम्, इतस्ततो विक्षिप्तभस्मलेखाकृतमुनिजनभोजनभूमिपरिहारम्, परिचितशाखामृगकराकृष्टिनिष्कास्यमानप्रवेश्यमानजरदन्धतापसम्, इभकलभार्थोपभुक्तपतितैः सरस्वतीभुजलताविगलितैः शङ्खवलयैरिव मृणालशकलैः कल्माषितम्, ऋषिजनार्थमेणकैर्विषाणशिखरोत्खन्यमानविविधकन्दमूलम्, अम्बुपूर्णपुष्करपुटैर्वनकरिभिरापूर्यमाणविटपालवालकम्, ऋषिकुमारकाकृष्यमाणवनवराहदंष्ट्रान्तराललग्नशालूकम्, उपजातपरि - *********** मानो भक्ष्यमाणो वैश्वदेवस्य देवयज्ञस्य बलिपिण्डो हन्तकारो यस्मिन्स तम् । आसनेति । आसना समीपस्था या वापी दीर्घिका तस्याः कलहंसपोतैः कादम्बशिशुभिर्भुज्यमानो भक्ष्यमाणो नीवारबलियस्मिन्स तम् । एणीति । एण्यो मृग्यस्तासां जिह्वा रसना एव पल्लवास्तैरुपलिह्यमाना आस्वाद्यमाना मुनिबालका यस्मिन्स तम् । अग्नीति । अग्निकार्ये होमेऽर्धदग्धान्यर्धभस्मीभूतान्यत एव मिसमिसायमानानि मिसमिसेतिशब्दमाचरमाणानि समित्कुशकुसुमानि यस्मिन्स तम् । उपेति । उपले भग्नानि द्वैधीकृतानि नालिकेराणि लागलीफलानि तेषां यो रसो द्रवस्तेन स्निग्धं चिक्कणं शिलातलं यस्मिन्स तम् । अचिरेति । अचिरक्षुण्णानि तत्कालमर्दितानि यानि वल्कलानि तेषा रसस्तेन पाटलं तरक्तं भूतलं यस्मिन्स तम् । रक्तेति । रक्तचन्दनं पत्राङ्गं तेनोपलिप्तमालिप्तमालिखितं यदादित्यमण्डलमेव मण्डलक तस्मिन्निहितानि स्थापितानि करवीरो हयमारस्तस्य कुसुमानि पुष्पाणि यस्मिन्स तम् । इतस्तत इति । इतस्ततो विक्षिप्तं यद्भस्म भूतिस्तस्य लेखा तया कृतो विहितो मुनिजनभोजनभूमेः परिहारो निषेधो यस्मिन् । भस्मलेखाङ्कित्तायां भूमौ केनापि नागन्तव्यमिति भावः । यद्वा भस्मनो या लेखा घर्षस्तेन कृतो मुनिजनभोजनभूमेरुच्छिष्टभूमेः परिहारो मार्जनं यस्मिन् । दृश्यते हि भोजनान्ते भस्मना मार्जन पश्चाद्गोमयेनोपलेपनमिति । परिचितेति । परिचिताः संजातपरिचया ये शाखामृगास्ताम्रमुखाः श्याममुखा वा वानरास्तेषा कराकृष्ट्या हस्तावलम्बेन निष्कास्यमानाः प्रवेश्यमानाश्च जरन्तोऽन्धाश्च तापसा यस्मिन् । इभेति । मृणालशकलैर्बिसखण्डैः कल्माषित चित्रितम् । कीदृशैरिव । सरस्वती देवी तस्या भुजलते बाहुलते ताभ्यां विगलितैः सस्तैः शङ्खवलयैरिव त्रिरेखकटकैरिव । बिसाना स्वतो भूमिपातो न स्यादित्याह - इभेति । इभकलभानां यदर्थोपभुक्तमर्धचर्वितं तस्मात्पतितैः सस्तैः । ऋषीति । ऋषिजनार्थं मुनिजनकृत एणकैर्हरिणैर्विषाणशिखरैः श्रृङ्गप्रान्तैरुत्खन्यमानानि विविधानि विचित्राणि कन्दमूलानि यस्मिन् । अम्बुपूर्णेति । अम्बुभिर्जलैः पूर्णानि भृतानि पुष्करपुटानि शुण्डाग्राणि । 'शुण्डाग्रं त्वस्य पुष्करम्' इति कोशः । येषामेतादृशैर्वनकरिभिररण्यहस्तिभिरापूर्यमाणानि भ्रियमाणानि विटपानां वृक्षाणामालवालकान्यावापस्थानकानि यस्मिन् । एतेन शाखामृगहरिणगजानामपि बुद्धिपूर्वकयथोचितकार्यकर्तृत्व सूचितम् । ऋषीति । ऋषिकुमारकैर्मुनिशिशुभिराकृष्यमाणानि वनवराहदंष्ट्रान्तराललग्नानि शालूकान्युत्पलानां कन्दा यस्मिन् । 'उत्पलानां तु शालूकम्' इति - टिप्प० - 1 सिमसिम इति प्रचलितः पाठः, आर्द्रवस्तुदहने 'सिमसिम' इति शब्दः अपि कश्चित् कविमार्गानुयातः । 'सिमसिमाकारी चक्षुस्तृतीयम् इत्यनघराघवम् । 2 तत्कालं वृक्षेभ्यो निष्कासितानीत्यर्थः । 3 इभकलभैरोपभुक्तानि च तानि पतितानि । इभकलभैः पूर्वम् अर्धमुपभुक्तानि पश्चात्पतितानीत्युचितोर्थः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ सिमसिमायमान; सिमिसिमायमान; मिसिमिसायमान. २ कुशसमित्. ३ नारिकेल. ४ मण्डलनिहित. ५ अलंकृत. ६ भूमिभागम्. ७ कराकृष्टयष्टि; कराकृष्ट. ८ कलभक. ९ बाहुलताविभूषणैः. (86 ( कादम्बरी । कादम्बरी । कथामुखे-) Page #100 -------------------------------------------------------------------------- ________________ चयैः कलापिभिः पक्षपुटवनसंधुक्ष्यमाणमुनिहोमहुताशनम्, आरब्धामृतचरुचारुगन्धम्, अर्धपक्वपुरोडाशपरिमलामोदितम्, अविच्छिन्नाज्यधाराहुतिहुतभुग्झङ्कारमुखरितम्, उपचर्यमाणातिथिवर्गम्, पूज्यमानपितृदैवतम्, अर्यमानहरिहरपितामहम्, उद्दिश्यमानश्राद्धकल्पम्, व्याख्यायमानयज्ञविद्यम्, आलोच्यमानधर्मशास्त्रम्, वाच्यमानविविधपुस्तकम्, विचार्यमाणसकलशास्त्रार्थम्, आरभ्यमाणपर्णशालम्, उपलिप्यमानाजिरम्, उपमृज्यमानोटजाभ्यन्तरम्, आबध्यमानध्यानम्, साध्यमानमन्त्रम्, अभ्यस्यमानयोगम्, उपहूयमानवदेवताबलिम्, निर्वय॑मानमौजमेखलम्, क्षाल्यमानवल्कलम्, उपसंगृह्यमाणसमिधम्, उपसस्क्रियमाणकृष्णाजिनम्, गृह्यमाणगवेधुकम्, शोष्यमाणपुष्करबीजम्, ग्रथ्यमानाक्षमालम्, न्यस्यमानवेत्रदण्डम्, सक्रियमाणपब्रिाजकम्, आपूर्यमाणकमण्डलुम्, अदृष्टपूर्वं कलिकालस्य, १० *********** कोशः । उपजातेति । उपजातपरिचयैः संजातसंबन्धैः कलापिभिर्मयूरैः पक्षपुटपवनेन छदपुटानिलेन संधुक्ष्यमाणः प्रज्वाल्यमानो मुनिनां होमा) हुताशनो वह्निर्यस्मिन्स तम् । आरब्धेति । आरब्धो विहितो योऽमृतचर्यवौदनस्तस्य चारुः मनोहरो गन्धो यस्मिन्स तम् । अधेति । अर्धपक्वो यः पुरोडाशः पूर्वोक्तस्तस्य परिमलो गन्धस्तेनामोदितं हर्षजननशीलम् । अवीति । अविच्छिन्नात्रुटिता या आज्यधारा घृतधारा तया हुतिर्हवनं तया यो हुतभुग्झङ्कारोऽग्निशब्दस्तेन मुखरितं वाचालितम् । उपचर्येति । उपचर्यमाणः पर्युपास्यमानोऽतिथिवर्गो यस्मिन् । पूज्येति । पूज्यमानानि पितृदेवतानि पितरो यस्मिँस्तम् । अर्येति । अय॑मानाः पूज्यमाना हरिः कृष्णः, हर ईश्वरः, पितामहः पितुः पिता ब्रह्मा, एते यस्मिन् । उद्दिश्येति । उद्दिश्यमान उद्देशपूर्वक क्रियमाणः श्राद्धकल्पः श्राद्धाचारो यस्मिन्स तम् । व्याख्येति । व्याख्यायमानार्थद्वारा निरूप्यमाणा यज्ञविद्या यागविद्या यस्मिन् स तम् । आलोच्येति । आलोच्यमानं मनसि विचार्यमाणं धर्मशास्त्र स्मृत्यादिकं यस्मिन्स तम् । वाच्येति । वाच्यमानानि परिभाष्यमाणानि विविधान्यनेकप्रकाराणि पुस्तकानि शास्त्राणि यस्मिन्स तम् । विचार्येति । विचार्यमाणो युक्त्या स्थाप्यमानः सकलशास्त्रार्थो यस्मिन् । आरभ्येति । आरभ्यमाणा नवीना क्रियमाणा पर्णशालोटजो यस्मिन् । उपलीति । उपलिप्यमानानि गोमयादिनाजिराणि प्राङ्गणानि यस्मिन् । उपेति । उपमृज्यमानानि प्रसार्यमाणानि उटजाभ्यन्तराणि पर्णशालामध्यानि यस्मिन् । आबध्येति । आबध्यमानं ध्यानमेकप्रत्ययसंततिर्यस्मिन् । साध्येति । साध्यमानो होमादिना स्वायत्तीक्रियमाणो मन्त्री देवाधिष्ठातृको यस्मिन् । अभ्यस्येति । अभ्यस्यमान उद्योगविषयीक्रियमाणो योगश्चित्तवृत्तिनिरोधो यस्मिन् । उपेति । उपहूयमान उपढौक्यमानो वनदेवतायै बलियस्मिन् । निर्वयेति । निर्वय॑माना निष्पायमाना मौजमेखला यस्मिन् । क्षाल्येति । क्षाल्यमानानि वल्कलकानि यस्मिन् । उपेति । उपसंगृह्यमाणा उपादीयमानाः समिधो यस्मिन् । उपेति । उपसंस्क्रियमाणं छगणादिना शुद्धीक्रियमाणं कृष्णाजिनं मृगचर्म यस्मिन् । गृह्येति । गृह्यमाणा गवेधुका धान्यविशेषः कन्दो वा यस्मिन् । शोष्येति । शोष्यमाणानि शोषं नीयमानानि पुष्करबीजानि कमलफलानि यस्मिन् । ग्रथ्येति । ग्रथ्यमाना अक्षमाला रुद्राक्षमाला यस्मिन् । न्यस्येति । न्यस्यमानः स्थाप्यमानो वेत्रदण्डो यस्मिन् । सदिति । सक्रियमाणाः परिव्राजका यस्मिन् । आपूर्येति । आपूर्यमाणानि जलेन भ्रियमाणानि कमण्डलूनि यस्मिन् । अदृष्टेति । कलिकालस्य कलियुगस्यादृष्टपूर्वमनवलोकितपूर्वम् । कलिप्रवेशायोग्य - . टिप्प० - 1 हुंकार इत्यपि पाठः । अग्नेहुँकार एव प्रसिद्धो न भूषणवझंकारः । 2 उपह्रियमाण इति पाठः केषु समुदायेषु प्रचलितः । - - - - - .- - - पाठा० - १ पुष्पपरिमल. २ हुंकार; उग्रहुंकार. ३ अभ्यर्च्यमान. ४ उपदिश्यमान. ५ अवलोक्यमान. ६ पठ्यमान. ७ आपमृज्यमान. ८ उपह्रियमाण. ९ मुञ. १० प्रक्षाल्यमान. ११ संस्क्रियमाण. १२ निगृह्यमाण. १३ पोष्यमाण. १४ गृह्यमाणत्रिपुण्ड्रकपूर्यमाण. १५ त्रिदण्डकम्. १६ संस्क्रियमाण. जाबाल्याश्रमः पूर्वभागः । Page #101 -------------------------------------------------------------------------- ________________ अपरिचितमनृतस्य, अश्रुतपूर्वमनङ्गस्य, अब्जयोनिमिव त्रिभुवनवन्दितम्, असुरारिमिव प्रकटितनरहरिवराहरूपम्, सांख्यमिव कपिलाधिष्ठितम्, मधुरोपवनमिव बलावलीढदर्पितधेनुकम्, उदयनमिवानन्दितवत्सकुलम्, किंपुरुषाधिराज्यमिव मुनिजनगृहीतकैलशाभिषिच्यमान्द्रुमम्, निदाघसमयावसानमिव प्रत्यासन्नजलप्रपातम्, जलधरसमयमिव वनगहनमध्यसुखसुप्तहरिम्, हनूमन्तमिव शिलाशङलप्रहारसंचूर्णिताक्षास्थिसंचयम्, खाण्डवविनाशोद्यतार्जुनमिव प्रारब्धाग्निकार्यम्, सुरभिविलेपनधरमपि संतताविर्भूतहव्यधूमगन्धम्, मातङ्गकुलाध्यासितमपि पवित्रम्, उल्लसितधूमकेतुशतमपि प्रशान्तोपद्रवम्, परिपूर्णद्विजप - *********** मित्यर्थः । एतेन सर्वथा पातकाभावो व्यज्यते । अपरीति । अनृतस्यासत्यस्यापरिचितमसंनिहितम् । अश्रुतेति । अनङ्गस्य कामस्याश्रुतपूर्वमनाकर्णितपूर्वम् । मदनोद्दीपकत्वाभावात् । अब्जेति । अब्जयोनिमिव ब्रह्माणमिव । त्रिभुवनवन्दितं अभिवादितम् । पक्षे वन्दित श्रेष्ठम् । असुरारीति । असुरारिर्विष्णुस्तद्वदिव प्रकटितानि नरो नरनारायणो हरिश्च नृहरिः । अथवा नरहरिनृसिंहो वराहश्च तेषां रूपाणि येन स तम् । पक्षे प्रकटितानि नरेभ्यो हरिवराहरूपाणि येन स तम् । सांख्येति । सांख्यं कापिलदर्शनं तदिव कपिलमुनिनाधिष्ठितमाश्रितम् । तत्प्रणीतत्वात् । पक्षे कपिलाभिर्गोभिरधिष्ठितम् । मधुरेति । मधुरा मधूपघ्नं तस्योपवनमिव द्वादशवनेषु गर्भितं वनं तद्वदिव बलावलीढो बलवान्दर्पितो दर्पयुक्तो धेनुको दैत्यो यस्मिन् । पक्षे बलावलीढाः बलयुक्ता दर्पिता धेनवो गावो यस्मिन् । उदयनेति । उदयनं राजानमिवानन्दितं वत्सकुलं येन । वत्सोऽत्र राजा पाण्डवकुलसमुत्पन्नः । पक्षे वत्सस्तर्णकस्तस्य कुलं समुदायः । किंपुरुषेति । किंपुरुषः किंनरस्तस्याधिराज्यं प्रभुत्वं तदिव मुनिजनैर्गृहीता ये कलशास्तैरभिषिच्यमानो द्रुमो नाम राजा यस्मिन् । किंनराणा द्रुमो नाम राजाभूदिति प्रसिद्धिः । पक्षे द्रुमा वृक्षाः । निदाघेति । ग्रीष्मसमयावसानमिव शुक्रमासमिव प्रत्यासन्नः समीपस्थो जलप्रपातः प्रवर्प यस्मिन् । पक्षे जलप्रपातो निर्झरः । जलधरेति । जलधरसमयमिव पर्जन्यकालमिव वनस्य पानीयस्य यद् गहनं गम्भीरं मध्यमभ्यन्तरप्रदेशस्तत्र सुखेन सुप्तो निद्रा प्राप्तो हरिर्विष्णुर्यस्मिन् । प्रावृषि विष्णुः समुद्रे शेत इति प्रसिद्धम् । पक्षे वनस्यारण्यस्य गहनानि गह्वराणि तेषु सुप्ता हरयः सिंहा यस्मिन् । हन्विति । हनूमन्तमिवाञ्जनीसुतमिव शिलाशकलप्रहारेण संचूर्णितोऽक्षनाम्नो रावणपुत्रस्यास्थिसंचयो येन स तम् । पक्षे संचूर्णितो योऽक्षो बिभीतकस्तस्यास्थिसंचयो मध्यप्रदेशसमूहो यस्मिन् । खाण्डवेति । खाण्डवनाम्नो वनस्य यो विनाशस्तत्रोद्यत उद्योगवान्योऽर्जुनः फाल्गुनस्तमिव प्रारब्धं विहितमग्निकार्यं देवसंतर्पणं यस्मिन् । पक्षेऽग्निकार्य होमः । सुरभीति । सुरभि सुगन्धि यद्विलेपनमङ्गरागस्तद्धरमपि सततं निरन्तरमाविर्भूतः प्रकटितो हव्यं सुरेभ्यो दातव्यं तस्य धूमगन्धो यस्मिन्निति विरोधः । तत्परिहारपक्षे सुरभेोः विलिप्यतेऽनेन भूरिति विलेपनं गोमयं यस्यामेतादृशी धरा भूर्यस्मिन्नित्यर्थः । मातङ्गेति । मातङ्गस्य यत्कुल तेनाध्यासितमपि तदाश्रितमपि पवित्र पावनमिति विरोधः । तत्परिहारस्तु मातङ्गकुलानि हस्तियूथानीत्यर्थात् । उल्लसितेति । उल्लसितमुल्लासं प्राप्तं धूमकेतुशतं यस्मिन्नेवंभूतमपि प्रशान्तोपद्रवमिति विरोधः । तत्परिहारस्तु धूमकेतवो वह्नय इत्यर्थात् । परीति । परि - टिप्प० - 1 वदन्ति केचिद् विदग्धाः- 'प्रकटितवराहनरसिंहरूपम्' इत्यपि पाठः । प्रकटितानि वराहाः नराः सिंहा रूपाणि मृगाश्च येन (सर्वेषामत्राऽवस्थानात्) इति आश्रमपक्षे । प्रकटिते वराहनरसिंहयो रूपे येनेति हरिपक्षेऽर्थः । 2 बलेन बलरामेण अवलीढः समापितो दर्पितो धेनुकस्तत्रामासुरो यस्मिनीदृशं मथुराया पवनमिवेति स्पष्टव्या व्याख्या । आश्रमपक्षेऽर्थस्तु स्फुटः । 3 अग्नेः कार्यमभीष्टं तत्सतर्पणं येन । 4 मातङ्गकुलेन चण्डालसमूहेन अध्यासितमपि पवित्रमिति विरोधः । - - - - - - - - - - - - - - - - - पाठा० - १ बराहनरसिंह. २ मधुरोपवनम्. ३ जलकलशा. ४ आसत्र. ५ प्रसुप्त. ६ अनिलसुतम्. ७ शकलसंचूर्णित. ८ आविर्भूतधूमगन्धम्. ९ मातङ्गक. १० सहसम्. कादम्बरी। कथामुखे Page #102 -------------------------------------------------------------------------- ________________ तिमण्डलसनाथमपि सदासंनिहिततरुगहनान्धकारम्, अतिरमणीयमपरमिव ब्रह्मलोकमाश्रममपश्यम् । यत्र च मलिनता हवि॰मेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभावेषु, चञ्चलता कदलीदलेषु न मनःसु, चक्षुरागः कोकिलेषु न परकलत्रेषु, कण्ठग्रहः कमण्डलुषु न सुरतेषु, मेखलाबन्धो व्रतेषु नेाकलहेषु, स्तनस्पर्शो होमधेनुषु न कामिनीषु, पक्षपातः केकवाकुषु न विद्याविवादेषु, भ्रान्तिरनलप्रदेक्षिणासु न शास्त्रेषु, वसुसंकीर्तनं दिव्यकथासु न तृष्णासु, गणना रुद्राक्षवलयेषु न शरीरेषु, मुनिबालनाशः क्रतुदीक्षया न मृत्युना, रामानुरागो रामायणेन न यौवनेन, मुखभङ्गविकारो जरया न धनाभिमानेन । यत्र - *********** पूर्णो न न्यून एवंविधो यो द्विजपतिश्चन्द्रस्तस्य मण्डलं तेन सनाथमपि सहितमपि सदा संनिहितमासन्नवर्तितरुगहनेष्वन्धकारं यस्मिन्निति विरोधः । तत्परिहारस्तु परिपूर्णा ज्ञानेन भृता ये द्विजपतयो ब्राहाणास्तेषां मण्डल समूहमित्यर्थात् । अतिरमणीयमत्यन्तमनोहारि - अपरेति । अपरं भिन्नमिव ब्रहालोक सुरलोकम् । अन्वयस्तु प्रागेवोक्तः । __ अथ पुनर्विरोधाभासप्रदर्शनपूर्वकमाश्रममाहात्म्यं प्रदर्शयति - यत्र चेति । 'मूलानामधोगतिः एतत्पर्यन्तं प्रघट्टकः । मलिनतेति । हविः सानाय्यं तस्य धूमेषु मलिनता मालिन्यम् । चरितेष्वाचारेषु न, कौलीन्यलक्षणं तदित्यर्थः । मुखराग इति । शुकेषु कीरेषु मुखरागो मुखारुण्यम् । कोपेष्विति निमित्तसप्तमी । कोपनैमित्तिक न मुखे वैरूप्यमित्यर्थः । तीक्ष्णतेति । कुशाग्रेषु दर्भप्रान्तेषु तीक्ष्णता चर्मास्थिभेदनसमर्थः शक्तिविशेषः । स्वभावेषु प्रकृतिषु न क्रूरत्वमित्यर्थः । चञ्चलतेति । कदलीदलेषु रम्भापत्रेषु चञ्चलता तरलता । न मनःसु चेतःसु वृत्तिविशेषः । चक्षुरिति । कोकिलेषु परभृत्सु चक्षुरागो नेत्रयोरारुण्यम् । परकलत्रेषु परस्त्रीषु नाभिलाष इत्यर्थः । कण्ठग्रह इति । कमण्डलुषु कुण्डिकासु कण्ठग्रहः कण्ठे ग्रहणम् । सुरतेषु मैथुनेषु न कण्ठालिङ्गनम् । मुनीनां तदभावादिति भावः । मेखलेति । व्रतेषु नियमेषु मेखलाबन्धो मौञ्जीवन्धनम् । ईर्ष्याकलहेष्वसूयाविग्रहेषु न श्रृङ्खलाबन्धनम् । स्तनेति । होमधेनुषु होमनैमित्तिकधेनुषु स्तनस्पर्शो दोहनम् । कामिनीषु ललनासु न कुचमर्दनम् । पक्षपात इति । कृकवाकुषु कुक्कुटेषु पक्षपातः पक्षाणां पतनम् । न विद्याविवादेषु शास्त्रकथासु सोपाधिकोऽङ्गीकारः । अन्यस्य पक्षिणस्तथा युद्धे पक्षपातो नास्तीति कुक्कुटग्रहणम् । भ्रान्तिरिति । अनलप्रदक्षिणासु भ्रान्तिः परिवृत्तिः । शास्त्रेषु न भ्रान्तिर्मिथ्याज्ञानम् । वस्विति । दिव्यकथासु भारतकथासु वसवो गणदेवाः पितृगणा वा तेषां संकीर्तनं सम्यक्प्रकारेण कथनम् । न तृष्णासु लिप्सासु वसु द्रव्यं तस्य संकीर्तन प्रशंसनम् । गणनेति । रुद्राक्षवलयेषु रुद्राक्षस्मरण्या गणना संख्या । न शरीरेषु देहेषु गणनाऽऽदरः । अत्यन्तनिस्पृहत्वात्तत्र निरपेक्षेत्यर्थः । मुनीति । बवयोरैक्यान्मुनीनां वालाः केशास्तेषां नाशो ध्वंसः क्रतुदीक्षया यज्ञदीक्षया । न मृत्युना बालनाशः शिशुनाशः । पुरुषायुषजीवित्वात्तेषाम् । रामेति । रामो दाशरथिस्तस्मिननुराग आराध्यत्वेन ज्ञानं रामायणेन रामचरित्रेण । तद्गन्थश्रवणेन तदुपरि रागाधिक्यमित्यर्थः । न तु यौवनेन तारुण्येन रामानुरागो रामाः स्त्रियस्तास्वनुरागो विषयेच्छा । मुखेति । मुखे भङ्गविकारस्त्रिवलीविकृतिर्जरया वार्धक्येन । धनाभिमानेन द्रव्यस्मयेन मुखभङ्ग आस्यमोटनादिविकृतिर्नेत्यर्थः । यत्र चेति । यस्मिन्स्थले महाभारते शास्त्रे शकुनिवधो दुर्योधनराज्ञो - - - - - - - - टिप्प० - 1 परभृतेषु, काकैः पोषितत्वात् । 2 दुर्योधनराजस्येत्याशयः । - - - - - - - - - - पाटा० - १ वनितासु. २ कुक्कुटेषु. ३ प्रदक्षिणेषु. ४ शास्त्रार्थेषु. ५ धनतृष्णासु. जाबाल्याश्रमः पूर्वभागः । 89 Page #103 -------------------------------------------------------------------------- ________________ च महाभारते शकुनिवधः, पुराणे वायुप्रलपितम्, वयः परिणामेन द्विजपतनम्, उपवनचन्दनेषु जाड्यम्, अग्नीनां भूतिमत्त्वम्, एणकानां गीतंश्रवणव्यसनम्, शिखैण्डिनां नृत्यपक्षपातः, भुजंगमानां भोगः, कपीनां श्रीफलाभिलाषः, मूलानामधोगतिः । तस्य चैबंविधस्य मेध्यभागमण्डलमलंकुर्वाणस्यालक्तकालोहितपेलवस्य मुनिजनालम्बितकृष्णाजिनजलैकरकसनाथशाखस्य तापसकुमारिकाभिरालवालदत्तपीतपिष्टैपञ्चाङ्गुलस्य हरिणशिशुभिः पीयमानालंबालकसलिलस्य मुनिकुमारकाबद्धकुशचीरदाम्नो हरितगोमयोपलेपनविविक्ततलस्य तत्क्षणकृतकुसुमोपहाररमणीयस्य नातिमहतः परिमण्डलतया विस्तीर्णावकाशस्य - ** मातुलस्य विनाशः श्रूयते । न तत्र शकुनिवधः पक्षिवधः । पुराणेति । पुराण इतिहासादौ वायोर्वायुदेवतायाः प्रलपितं जल्पितम् । श्रूयते इति शेषः । न तु वायुना वायुविकारेणोन्मादादिना प्रलपितं यथाकथंचिज्जल्पितं यत्र नाभूत् । वय इति । वयः परिणामेन वर्ध द्विजानां दन्तानां पतनं पातः । न तु द्विजानां ब्राह्मणानां पतनं स्वाचाराभ्रंशः । यत्र नेति सर्वत्रानुषङ्गः । उपेति । उपवनं समीपवनं तत्र चन्दनतरवस्तेषु जाड्यं शैत्यम् । न त्वाश्रमवर्तिमुनिजनेषु जाड्यं प्रज्ञाहीनत्वम् । अग्नीनामिति । अग्नीनां वह्नीनां भूतिमत्त्वं भस्मवत्त्वम् । न तु मुनीनां भूतिः संपत्तद्वत्त्वम् । एणकेति । एणकानां मृगाणां गीतं गानं तस्य श्रवणं तत्र व्यसनमासक्तिः । नं मुनीनां तच्छ्रवणाभिलाषातिरेकः । शिखण्डीति । शिखण्डिनां मयूराणां नृत्ये ताण्डवे पक्षपातश्छदपतनम् । न तु मुनीनां नृत्यविषये पक्षपातोऽङ्गीकारः । भुजंगमेति । भुजंगमानां सर्पाणां भोगः शरीरम् । 'भोगोऽहिकायः' इति कोशः । न तु मुनीनां भोगः स्त्र्यादिजनितं सुखम् । कपीनामिति । कपीनां वानराणां श्रीफलाभिलाषः श्रीफलानि बिल्वीफलानि तेष्वभिलाषो वाञ्छाविशेषः । न तु मुनीनां श्रीर्लक्ष्मीस्तस्याः फलानि गृहकारापणादीनि तत्राभिलाषस्तीव्राध्यवसायः । मूलानामिति । मूलानां जटानामधोगतिरधः संयोगः । न त्वाश्रमवर्तिमुनीनामधोगतिर्नरकपातः । तस्येति । आश्रमस्यैवंविधस्य पूर्वोक्तप्रकारेण वर्णितस्य तस्य यो मध्यभागस्तस्य मेण्डलं वर्तुलप्रदेशस्तदलंकुर्वाणस्य रक्ताशोकतरोः कङ्केलिवृक्षस्याधश्छायायां उपविष्टं निषण्णं भगवन्तं जाबालि जाबालिमुनिमपश्यमिति दूरेणान्वयः । अथ जाबालिं वर्णयति-तत्र षष्ट्यन्तानि तरोर्विशेषणानि द्वितीयान्तानि मुनिविशेषणानीति स्वयमूहनीयम् । अलक्तेति । अलक्तकवद्यावकवल्लोहिता रक्ताः पल्लवा यस् स तथा तस्य । मुनीति । मुनिजनैस्तापसजनैरालम्बिताः स्थापिताः कृष्णाजिनानि कृष्णमृगचर्माणि जलकरकाः पात्रविशेषास्तैः सनाथा सहकृता शाखा यस्य स तथा तस्य । तापसेति । तापसकुमारिकाभिर्मुनिकन्याभिरालवाले मूलप्रदेशे दत्ताः पीतपिष्टस्य हरिद्राचूर्णस्य पञ्चाङ्गुलयो हस्तबिम्बा यस्मिन्स तथा तस्य । हरिणेति । हरिणशिशुभिर्मृगबालकैः पीयमानमास्वाद्य मानमालवालकस्य सलिलं यस्य स तथा तस्य । मुनीति । मुनिकुमारकैराबद्धं कुशचीरदाम यस्य स तथा तस्य । हरितेति । हरितमशुष्कं यद्गोमयं छगणं तेनोपलेपनं तेन टिप्पo - 1 'मध्यभागमलंकुर्वाणस्य' इत्यपि पाठः प्रचलितः । - पाठा० - १ परिणामे. २ गीतव्यसनम् ३ शिखण्डिनीनाम् ४ गीतनृत्तपक्ष ५ भुजगानाम्; भुजंगानाम्. ६ मध्यभागम्. ७ अलक्तक. ८ आलोहित. ९ लोलपल्लवस्य. १० अवलम्बित. ११ करङ्क. १२ कुमारिकाभिर्दत्त; कन्यकाभिर्मूलभागदत्त. १३ पिष्टातकानेक. १४ आपीयमान परिपीयमान १५ आलवाल. १६ उपलिप्त. १७ भूतलस्य. १८ रचित. 90 कादम्बरी । Page #104 -------------------------------------------------------------------------- ________________ रक्ताशोकतरोरधश्छायायामुपविष्टम्, उग्रतपोभिर्भुवनमिव सागरैः, कनकगिरिमिव कुलपर्वतैः, ऋतुमिव वैतानिकवह्निभिः, कल्पान्तदिवसमिव रविभिः, कालमिव कल्पैः समन्तान्महर्षिभिः परिवृतम्, उग्रशपिकम्पितदेहया प्रणयिन्येव विहितकेशग्रहया क्रुद्धयेव कृतभ्रूभङ्गया मत्तयेवाकुलितगमनया प्रसाधितयेव प्रकटिततिलकया जरया गृहीतव्रतयेव भस्मधवलया धवलीकृतविग्रहम्, आयामिनीभिः पलितपाण्डुराभिस्तपसा विजित्य मुनिजनमखिलं धर्मपताकाभिरिवोच्छ्रिताभिरमरलोकमारोढुं पुण्यरज्जुभिरिवोपसंगृहीताभिरतिदूरप्रवृद्धस्य पुण्य - *********** विविक्तं पूतं तलमधोभागो यस्य स तथा तस्य । तदिति । तत्क्षणे तदात्वे कृतो विहितो यः कुसुमोपहारः पुष्पढौकनं तेन रमणीयस्य मनोहरस्य । नातिमहतो नातिदीर्घस्य परिमण्डलं समन्तात्परिमाणं तस्य भावस्तत्ता तयात एव दीर्घस्य तालादेन(?) । तथा परिमण्डल विस्तीर्णोऽवकाशोऽभ्यन्तरप्रदेशो यस्य स तथा तस्य । उग्रेति । उग्रतपोभिस्तीक्ष्णतपोभिर्महर्षिभिः समन्तात्परिवृतं परिवेष्टितम् । किमिव । भुवनमिव विष्टपमिव सागरैः समुद्रैः । कनकगिरिमिव सुवर्णाद्रिमिव कुलपर्वतैः कुलाचलैः । क्रतुमिव यज्ञमिव वैतानिकवह्नयो दक्षिणाग्निगार्हपत्याहवनीयास्तैः । कल्पान्तदिवसमिव युगान्तवासरमिव रविभिः सूर्यैः । कालमिव समयमिव कल्पैः कालावयवैः । धवलीकृतेति । जरया विससया धवलीकृतः शुभ्रीकृतो विग्रहः शरीरं यस्य स तम् । अथ च जराया विशेषणानि - उग्रेति । उग्रः कठिनो यः शापस्तेन कम्पितश्चालितो देहो यया सा तया । प्रणयिन्येवेति । प्रणयिन्येव मनस्विन्येव विहितः केशग्रहो यया सा तया । वल्लभापि रतिकलहे केशग्रहं करोति । इयमपि केशे लग्नेत्यर्थः । क्रुद्धयेवेति । क्रुद्धयेव कोपाविष्टयेव कृतो भ्रूभङ्गो यया सा तया । क्रुद्धापि भ्रूभङ्गं करोति तथेयं कृतवतीत्यर्थः । मत्तयेवेति । मत्तयेव शौण्डयेव आकुलितं गमनं गतिर्यस्याः सा तया । मत्तापि स्खलद्गतिर्भवति तथेयमपि । प्रसाथितयेव भूषितयेव प्रकटितमाविष्कृतं तिलकं यया सा तया । भूषितापि स्त्री सतिलका भवति । अस्या अपि देहे तिलकाः प्रजायन्त इति प्रसिद्धिः । गृहीतेति । गृहीतं स्वीकृतं व्रतं यया सा तयेवात एव भस्मधवलया भस्म भूतिस्तद्वद्धवलया शुभ्रया । पुनः किंविशिष्टम् । जटाभिः सटाभिरुपशोभितमलंकृतम् । अथ जटा विशिनष्टि-आयामिनीभिर्विस्तारवतीभिः । पलितेति । पलितं पाण्डुरः कचस्तद्वत्पाण्डुराभिः श्वेताभिः । तपसेति । तपसाखिलं समग्र मुनिजनमृषिजनं विजित्य धर्मपताकाभिरिव धर्मस्य तपोमयस्य जयध्वजाभिरिवोच्छ्रिताभिरू/कृताभिरिव । अमरेति । अमरलोकं स्वर्लोकमारोढुमारोहणं कर्तुं पुण्यरज्जुभिरिव पवित्ररश्मिभिरिवोपसंगृहीताभिः स्वीकृताभिः । अतीति । अतिदूरं प्रवृद्धस्यातिदूरं वृद्धिं गतस्य पुण्यतरोः श्रेयस्तरोरुद्गताभिः प्रादुर्भूताभिः कुसुममञ्जरीभिरिव पुष्पवल्लरीभिरिव । - टिप्प०.1 'उग्रशापभीतयेव कम्पितदेहया' इत्यपि पाठः प्रचलितः । जाबालेर्य उग्रशापः तस्माद् भीता(जरा), अत एव सा कम्पितदेहा (कम्पितो देहो यस्याः, या हि भीता भवति तस्या देहकम्पो भवति), वस्तुतस्तु कम्पितो देहो (जाबालेः) यया । जरसा यः स्वाभाविको देहकम्पस्तत्र शापभयहेतुकत्वमुत्प्रेक्ष्यत इत्युत्प्रेक्षालंकार । 2 कृष्णवर्णचिह्नानि, 'तिल' इति भाषा । 3 या गृहीतव्रता भवति सा भस्मधारणेन धवला भवति । 4 पलितं केशेषु जराजनिता शुक्लता तया पाण्डुराभिः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ अत्युग्र. २ कुलाचलेः. ३ वैतान; वैतानक. ४ शापभियेव; शापभीतयेव. ५ तपोभिः. ६ उपार्जिताभि. ७ पुण्यै रज्जभिः; पुण्यरजोभिः. ८ तपस्तरोः. (जाबालिः पूर्वभागः । RIMINAI NINNINANIY 91) Page #105 -------------------------------------------------------------------------- ________________ तरोः कुसुममञ्जरीभिरिवोद्गताभिर्जटाभिरुपशोभितम्, उपरचितभस्मत्रिपुण्ड्रकेण तिर्यक्प्रवृत्तत्रिपथगास्त्रोतस्त्रयेण हिमगिरिशिलातलेनेव ललाटफैलकेनोपेतम्, अधोमुखचन्द्रकलाकाराभ्यामवलम्बितवलिशिथिलाभ्यां धूलताभ्यामवष्टभ्यमानदृष्टिम्, अनवरतमन्त्राक्षराभ्यासविवृताधरपुटतया निष्पतद्भिरतिशुचिभिः सत्यप्ररोहैरिव स्वच्छेन्द्रियवृत्तिभिरिव करुणारसप्रवाहैरिव दशनमयूखैर्धवलितपुरोभागम्, उद्धमदमलगङ्गाप्रवाहमिव जनुम्, अनवरतसोमोद्गारसुगन्धिनिश्वासावकृष्टैर्मूर्तिमंद्भिः शापाक्षरैरिव सदा मुखभागसनिहितैः परिस्फुरद्भिरलिभिरविरहितम्, अतिकृशतया निम्नतरगण्डगर्तमुन्नततरहनुघोणमाकरालतारकमवशीर्यमाणविरलनयनपक्ष्ममालमुद्गतदीर्घरोमरुद्धश्रवणविवरमानाभिलम्बकूर्चकलापमाननमादधानम्, अति - *********** ललाटेति । ललाटफलकेन भालपट्टकेनोपेतं सहितम् । कीदृशेन । उपेति । उपरचितानि कृतानि भस्मना त्रीणि पुण्ड्रकाणि त्रिरेखामयतिलकानि यस्मिन् । केनेव । तिर्यगिति । त्रिपथगाया एकमुपर्येक तिर्यगेकमधस्सोतः । इदमभिनवं तिर्यक्प्रवृत्तं स्रोतस्त्रयमेव यस्मिन्नेवंभूतं तेन हिमगिरिशिलातलेनेव । भ्रूलतेति । भ्रूलताभ्यामवष्टभ्यमानावलम्ब्यमाना दृष्टिर्यस्य स तम् । कीदृशाभ्याम् । अधोमुखी या चन्द्रकलार्धचन्द्रस्तद्वदाकारो ययोस्ताभ्याम् । अवलम्बितेति । वार्धक्यादवलम्बिता आश्रिता या वलयस्त्रिवल्यस्ताभिः शिथिलाभ्या श्लथाभ्याम् । पुनस्तमेव विशिनष्टि - अनवरतेत्यादि । अनवरतं यो मन्त्राक्षराभ्यासस्तेन विवृतो विदीर्णो योऽधरपुट ओष्टपुटस्तस्य भावस्तत्ता तया निष्पतद्भिः सवद्भिरतिशुचिभिरतिपवित्रैः सत्यप्ररोहैरिव सत्याङ्कुरैरिव । स्वच्छेति । स्वच्छा निर्मला या इन्द्रियवृत्तयस्ताभिरिव । करुणेति । श्रृङ्गारवत्करुणारसोऽपि विशदस्तस्य प्रवाहैः स्रोतोभिरिव । एवंविधैर्दशनमयूखै रदनदीप्तिभिर्धवलितः शुभ्रीकृतः पुरोभागो यस्य स तम् । श्वेतत्वसाधर्म्यण श्वेतप्रवाहप्रकटनसाधर्मेण च मुनेरुपमानमाह - उद्धमदिति । उद्धमन्वहिरागच्छन्नमलो निर्मलो गङ्गाप्रवाहो जाह्नवीरयो यस्मात्तमेवंभूतं जनुमिव । कथा चात्र - भगीरथपथेन प्रवृत्ता गङ्गा कलकलशब्दं कुर्वती शब्दकण्टकानि ध्यानानि भवन्तीति रोषात् महर्षिणा जनुना पीता । भगीरथाराधनाच्च पुनर्जानुभ्यामुद्गीर्णा । ततो जाह्नवीत्युच्यते । मुखनिवासस्य सौरभ्यातिशयप्रदर्शनद्वारा तमेव विशिनष्टि - अनवरतेत्यादि । अनवरतं यः सोमपानस्योद्गारस्तेन सुगन्धी यो निश्वासः पवनस्तेनावकृष्टैराकर्षितैर्मूर्तिमद्भिदेहवद्भिः शापाक्षरैरिव शापवणैरिव । सदेति । सदा सर्वकालं मुखस्य यो भागोऽग्रिमप्रदेशस्तत्र संनिहितैः पार्श्वगैः परिस्फुरद्भिर्दीप्यमानैरलिभिर्धमरैरविरहितमवियुक्तमाननं मुखमादधानं बिभ्राणम् । अथ मुखविशेषणानि - अतीति । अतिकृशतया निम्नतरो गम्भीरतरो गण्डगतः कपोलतः परो भागो यस्य तत् । उन्नतेति । उन्नततरेऽत्युच्चे हनु चिबुकं घोणा नासा च यस्मिंस्तत् । अतिवृद्धलक्षणमेतत् । आकरालेति । आकरालेषद्वक्रा तारका कनीनिका यस्य तत् । अवेति । अवशीर्यमाणा क्षीयमाणा विरला निबिडा नयनयोनॆत्रयोः पक्ष्ममाला रोमराजिर्यस्मिंस्तत् । उद्गतेति । उद्गतानि प्रादुर्भूतानि यानि दीर्घरोमाणि तेन रुद्धमावृतं श्रवणयोविवरं रन्ध्र यस्मिंस्तत् । आनाभीति । आनाभि नाभिपर्यन्तं लम्बः प्रलम्बः कूर्चकलाप आस्यलोमसमूहो यस्मि - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अवलम्बिता शिथिलतया निम्ने पतिता या वलिः शिथिलं चर्म ('वलिश्चामरदण्डे च जरया श्लथचर्मणि विश्वः) तया शिथिलाभ्याम् (वलिशैथिल्यानयनोपरि पतिताभ्याम्, इत्यर्थः) 1 2 आकराले तेजस्वितया अतीवोगे तारके नयनताराद्वयं यस्मिन् इति स्पष्टीकरण व्याख्यायाः पाठा० - १ उपशोभमानम्. २ गङ्गा. ३ त्रयेणेव. ४ तलेन. ५ पट्टेन. ६ मन्त्राभ्यास. ७ विद्यागुणैरिव करुणा; विद्याभिरिव करुणा. ८ अविरत; अविरल. ९ मूर्तिमद्भिरिव शापाक्षरैः. १० संनिविष्टैः. ११ समुत्रत. १२ लम्बित. 92 कादम्बरी। कथामुखे Page #106 -------------------------------------------------------------------------- ________________ चपलानामिन्द्रियाश्वानामन्तः संयमनरज्जुभिरिवातताभिः कण्ठनाडीभिर्निरन्तरावर्गद्धकन्धरं समुन्नतविरलास्थिपञ्जरमसावलम्बियज्ञोपवीतं वायुवशजनिततनुतरंगभङ्गमुत्प्लवमानमृणालमिव मन्दाकिनीप्रवाहमकलुषमङ्गमुद्रहन्तम्, अमलस्फटिकशकर्लंघटितमक्षवलयमत्युज्वलस्थूलमुक्ताफलग्रथितं सरस्वतीहारमिव चलदगुलिविवरगतमावर्तयन्तम्, अनवरतभ्रमिततारकाचक्रमपरमिव ध्रुवम्, उन्नमता शिराजालकेन जरत्कल्पतरुमिव परिणतलतासंचयेन निरन्तरनिचितम्, अमलेन चन्द्रांशुभिरिवामृतफेनैरिव गुणसंतानतन्तुभिरिव निर्मितेन मानस - * * * * * ** * * * * स्तत् । अतीति । अतिचपलानामतिपारिप्लवानामिन्द्रियाश्वाना करणतुरंगमानामन्तर्मध्ये संयमनरज्जुभिरिव नियन्त्रणरश्मिभिरिवातताभिर्विस्तीर्णाभिः कण्ठनाडीभिर्गलस्नायुभिरिव निरन्तरं अवनद्धा संबद्धा कन्धरा ग्रीवा यस्मिन्नेवंविधमकलुषं निर्मलमङ्ग शरीरमुदहन्त धारयन्तम् । समुन्नतेति । समुत्रतमुच्चं विरलं पेलवमस्थिपञ्जरं कङ्कालं यस्मिंस्तत्तथा । अंसेति । अंसावलम्बि भुजान्तरावलम्बि यज्ञोपवीतं यज्ञसूत्रं यस्मिन् । वायुवशेनेति । वायुवशेनानिलमाहात्म्येन जनिता उत्पादितास्तनवः सूक्ष्मास्तरंगभङ्गाः कल्लोलविघटनानि यस्मिन् । उत्प्लवेति । उत्प्राबल्येन प्लवमानानि वहमानानि मृणालानि बिसानि यस्मिन्नेवंभूतं मन्दाकिनीप्रवाहमिव गङ्गौघमिव । अत्र तरंगास्थ्नोः श्वेतकृशत्वं यज्ञोपवीतमृणालयोश्च श्वेतसूक्ष्मत्वं साधर्म्यमिति भावः । किं कुर्वन्तम् । अक्षवलयं रुद्राक्षमालामावर्तयन्तं परिवर्तयन्तम् । अथाक्षवलयस्य विशेषणे - अमलेति । अमलानि विशदानि यानि स्फटिकशकलानि तैर्घटितं निर्मितम् । अत्युज्वलेति । अत्युज्ज्वलान्यतिविशदानि स्थूलानि यानि मुक्ताफलानि मौक्तिकानि तैथितं गुम्फितं सरस्वतीहारमिव सरस्वत्या भारत्या हारमिव मुक्ताकलापमिव । अत्र स्फटिकाक्षवलयस्यातिनिर्मलत्वान्मुक्ताफलोपमानम् । चलेति । चलन्त्यो या अगुलयस्तासां विवर रन्ध्र तत्र गत प्राप्तम् । अनवरतेति । अनवरतं निरन्तरं भ्रमितं पर्यटितं तारकाचक्र नक्षत्रसमूहो यस्मिन्नेवंभूतमपरं द्वितीयं ध्रुवमिवोत्तानपादजमिव । अत्र स्फाटिकाक्षवलयतारकाणां शुचिवर्तुलत्वमेव साधर्म्यम् । उपविष्टस्य मुनेः स्थिरत्वाद् ध्रुवसाधर्म्यमिति । पुनर्विशिनष्टि - उन्नमतेति । उन्नमतोपरि स्फुरता शिराजालकेन शिरा धमनयस्तासा जालकेन समूहेन निरन्तरं निचितं व्याप्तम् । उच्छ्नस्नायुसमूहेनात्यन्तव्याप्तविग्रहमित्यर्थः । केन कमिव । परिणताः पाकं गता या लता वल्लयस्तासा संचयेन समूहेन । निचितमिति शेषः । जरत्कल्पतरुमिव वृद्धमन्दारमिवेत्युत्प्रेक्षा । अमलेनेति । अमलेन निर्मलेन दुकूलवल्कलेन । दुकूलेन सदृशं वल्कलमिति मध्यमपदलोपी समासः । तेन संच्छादितमावृतम् । केनेव । अद्वितीयेनापूर्वेण जराजालकेनेव विससासमूहेनेवेत्युत्प्रेक्षा । दुकूलवल्कलं विशिनष्टि - चन्द्रेति । चन्द्रांशुभिरिव शशिज्योत्स्नाभिरिवामृतफेनैरिव पीयूषडिण्डीररिव गुणानां विद्यातपश्चरणादीनां संतानाः समूहास्त एव तन्तवः सूत्राणि तैरिव निर्मितेन रचितेन । मानसेति । मानससरोजलवज्जलं तेन क्षालितं धौतमत एव शुचिना निर्मलेन । पुनस्तमेव मुनि विशिनष्टि - स्फाटिककमण्डलुनोपशोभमानं विराजमानम् । अथ कमण्डलु - - - - - - - - - - - - टिप्प० - 1 'इव' इत्यव्ययोऽत्र पदशोभार्थमेव प्रयुक्तः । 2 अत्र तादृशकुटिल-तनु-तरङ्गसदृशम् अस्थिपञ्जरम्, जलोपरिप्लवमाननवमृणालसदृशं च यज्ञोपवीतमिति मन्दाकिनीप्रवाहेण सादृश्यम् । उपमा । 3 'द्वितीयेनेव' इत्यपि पाठ प्रचलितः । एकेन जराजालकेन तु जाबालिराच्छादित एव, वल्कलरूपेण द्वितीयेन जराजालकेन स आच्छादित इव वक्तुराभप्रायः । - - - - पाठा० - १ इन्द्रियाणाम्. २ संबद्ध. ३ उन्नत. ४ अवलम्बित; आलम्बित. ५ धवलयज्ञोपवीतम्. ६ अनिल. ७ नवमृणाल. ८ घटिताक्ष. ९ उज्ज्वल. १० तारक. ११ उल्लसता. १२ अमलैः. जाबालिः पूर्वभागः । 93 Page #107 -------------------------------------------------------------------------- ________________ सरोजलक्षालितशुचिना दुकूलवल्कलेनोद्वितीयेनेव जराजालकेन संच्छादितम्, आसन्नवर्तिना मन्दाकिनीसलिलपूर्णेन त्रिदण्डोपविष्टेन स्फाटिककमण्डलुना विकचपुण्डरीकराशिमिव राजहंसेनोपशोभमानम्, स्थैर्येणाचलाना गाम्भीर्येण सागराणां तेजसा सवितुः प्रशमेन तुषाररश्मेनिर्मलतयाम्बरतलस्य संविभागमिव कुर्वाणम्, वैनतेयमिव स्वप्रभावोपात्तद्विजाधिपत्यम्, कमलासनमिवाश्रमगुरुम्, जरच्चन्दनतरुमिव भुजंगनिर्मोकधवलजटाकुलम्, प्रशस्तवारणपतिमिव प्रलंम्बकर्णवालम्, बृहस्पतिमिवाजन्मसंवर्धितकचम्, दिवसमिवोद्यदर्कबिम्बभास्वरमुखम्, शरत्कालमिव क्षीणवर्षम्, शान्तनुमिव प्रियसत्यव्रतम्, अम्बिकाकरतल - *********** विशिनष्टि - आसन्नेति । आसनवर्तिना समीपस्थेन । मन्दाकिनीति । मन्दाकिनी गङ्गा तस्याः सलिलं तेन पूर्णेन भृतेन । त्रिदण्डेति । त्रिदण्डस्त्रिपादिका तत्रोपविष्टेन स्थापितेन । मुनेर्धवलीकृतविग्रहवत्त्ववर्णनात्कमण्डलोश्च शुभ्रत्ववर्णनात्तदुपमानमाह - विकचेति । राजहंसेन विकचपुण्डरीकराशिमिव स्मितसिताम्भोजसमूहमिवेत्युत्प्रेक्षा । पुनर्मुनि प्रकारान्तरेण विशिनष्टि - स्थैर्येति । स्थैर्येण स्थिरतयाचलानां पर्वतानाम्, गाम्भीर्येण गाम्भीर्यगुणेन सागराणां समुद्राणाम्, तेजसा प्रतापेन सवितुः सूर्यस्य, प्रशमेनोपशमेन तुषाररश्मेश्चन्द्रस्य, निर्मलतया स्वच्छतयाम्बरतलस्य संविभागमिव स्वकीयवस्तुनः परेभ्यः किंचिद्विभज्य प्रदानमिव कुर्वाणं विदधानम् । अचलादीनां स्थैर्यादयो गुणा अनेनैव संविभागीकृताः सन्तीति भावः । अथान्यसादृश्यद्वारा तमेव विशेषयन्नाह - वैनतेयमिति । वैनतेयो गरुडस्तद्वदिव स्वस्यात्मीयस्य यः प्रभावो माहात्म्यं तेनोपात्तमङ्गीकृतं द्विजेषु ब्राह्मणेष्वाधिपत्यं प्रभुत्वं येन स तम् । पक्षे द्विजेषु पतत्रिष्वाधिपत्यं मुख्यत्वं येनेति विग्रहः । कमलेति । कमलासनो ब्रह्मा तमिवाश्रमो मुनिस्थानं तत्र गुरुं श्रेष्ठम् । पक्ष आश्रमा ब्रह्मचारिप्रभृतयस्तेषां गुरु प्रवर्तकम् । वर्णाश्रमाश्च ब्रह्मणैव प्रवर्तिताः । जरदिति । पुरातने परिमलविशेषाधिक्याज्जरद्विशिष्टचन्दनतरुग्रहणम् । तत्रैव भुजंगबाहुल्यम् । अत एव भुजंगस्य यो निर्मोकः कञ्चुकस्तद्वद्धवला या जटा तयाकुलं व्याप्तम् । पक्षे निर्मोक एव जटेति विग्रहः । शेषं पूर्ववत् । प्रशस्तेति । प्रशस्तः सर्वलक्षणोपेतो वारणपतिर्गजनायकस्तद्वदिव प्रलम्बाः कर्णयोर्बालाः केशा यस्येति विग्रहः । पक्षे प्रलम्बी लम्बमानौ कर्णो श्रवणौ वालश्च वालधिर्यस्मिन् । बृहस्पतीति । बृहस्पतिः सुरगुरुस्तमिव आजन्म जन्म मर्यादीकृत्य संवर्धिता वृद्धिं प्रापिताः कचाः केशा येनेति स तम् । पक्षे कचनामा बृहस्पतेः पुत्र इति पुराणे प्रसिद्धम् । शेषं पूर्ववत् । दिवसेति । दिवसो घस्त्रस्तद्वदिवोद्यदुद्गच्छद्यदर्कबिम्ब सूर्यमण्डलं तद्वद्भास्वरं दीप्तं मुखमाननं यस्य स तम् । पक्ष उद्यदर्कबिम्बेन भास्वरं मुखमादिर्यस्येति विग्रहः । तन्विति । शरत्कालो घनात्ययसमयस्तद्वदिव क्षीणानि गतानि वर्षाणि हायनानि यस्य स तम् । पक्षे क्षीणं स्वल्पत्वं प्राप्तं वर्षं वृष्टिर्यस्मिन् । शान्तन्विति । शान्तनुर्भीष्मपिता तद्वदिव प्रियमिष्टं सत्यमेव व्रतं यस्य स तम् । पक्षे प्रियो वल्लभः सत्यव्रतो भीष्मो यस्येति विग्रहः । कथा चात्र - श्रीमन्महाभारतगतानुसंधेया । अम्बिकेति । अम्बिका पार्वती तस्याः करतलं पाणितलं तद्वदिव रुद्राक्षः फलविशेषस्तद्वलयस्य कटकस्य यद्ग्रहणं तत्र निपुणम् । सर्वदा तदावर्तनेन कृताभ्यासमित्यर्थः । पक्षे रुद्र ईश्वरस्तस्याक्षमिन्द्रियं लोचनं वर्तुलत्वात्तदेव यद्वलयं - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 ‘रुद्राक्षग्रहणनिपुणम्' इत्यपि पाठः । अम्बिकाकरतलपक्षे-'रुद्रस्य अक्षिणी रुद्राक्षे (शिव-नयने) तयोर्ग्रहणे पिधाने निपुणम्' इत्यर्थे वलयपदस्य वस्तुतः स्वारस्याभावात् । पाठा० - १ क्षालन. २ द्वितीयेन. ३ स्फटिक. ४ कमल. ५ अवनेः स्थैर्येण सागराणां गाम्भीर्येण. ६ सकलद्विजा. ७ भुजग. ८ वारणमिव. ९ कर्णतालम्. (94 कादम्बरी । ) कथामुखे Page #108 -------------------------------------------------------------------------- ________________ मिव रुद्राक्षवलयग्रहणनिपुणम्, शिशिरसमयसूर्यमिव कृतोत्तरासङ्गम्, वडवानलमिव संतैतपयोर्भक्षम्, शून्यनगरमिव दीनानाथविपन्नशरणम्, पशुपतिमिव भस्मपाण्डुरोमाश्लिष्टशरीरं भगवन्तं जाबालिमपश्यम् । अवलोक्य चाहमचिन्तयम् - 'अहो प्रभावस्तपसाम् । इयमस्य शान्तापि मूर्तिरुत्तप्तकनकावदाता परिस्फुरन्ती सौदामिनीव चक्षुषः प्रतिहन्ति तेजांसि । सततमुदासीनापि महाप्रभावतया भयमिवोपजनयति प्रथमोपगतस्य । शुष्कनलकाशकुसुमनिपतितानलचटुलवृत्ति नित्यमसहिष्णु तपस्विनां तनुतपसामपि तेजः प्रकृत्या भवति । किमुत सकल वनतलवन्दितचरणानामनवरततपःक्षपितमलानां करतलामलकवदखिलं जगदालोकयतां दिव्येन चक्षुषा - *********** तस्य ग्रहणं पिधानं तत्र निपुणं चतुरम् । रते चन्द्रकलाप्रकाशस्यानिवार्यत्वेन लज्जावशात्पार्वत्या तृतीयं लोचनं करतलेन पिहितमिति भावः । शिशिरेति । शिशिरसमयः शीतकालस्तस्य यः सूर्यो भगवांस्तद्वदिव कृतो विहित उत्तरासङ्गो बृहतिका येन स तम् । पक्ष उत्तरस्या दिशः सङ्गः संश्लेषो येनेति विग्रहः । वडवेति । वडवानल और्वस्तमिव संततं निरन्तरं पय एव क्षीरमेव भक्षं यस्य स तम् । पक्षे पयः पानीयं तदेव भक्षं यस्येति भावः । शून्येति । शून्यमुद्रसितं यन्नगरं पुरं तद्वदिव । शून्ये धनिनां निवासायोग्यत्वाद्दीनादिग्रहणम् । तत्र दीनान्यशोभावन्त्यनाथान्यप्रभूणि विपन्नान्यविद्यमानभावानि शरणानि गृहाणि यत्र नगर इति । अन्यत्र दीना दुःखाभिभता अनाथाः स्वामिरहिता विपना इव विपन्ना मृतकल्पा व्याध्यादिपरिभूतास्तेषां शरणं परित्राणहेतुम् । पशुपतिमिवेति । पशुपतिः शंभुस्तमिव भस्मवत्पाण्डुराण्यतिवार्धक्याच्छेतानि रोमाणि तैराश्लिष्टं शरीरं यस्य तम् । पक्षे भस्मवत्पाण्डुरोमा गौरी तया चाश्लिष्टमर्धाङ्गीकृतं शरीरं यस्येति विग्रहः । अन्वयस्तु प्रागेवोक्तः । जाबालिं निरीक्ष्य किं कृतवानित्याह - अवलोक्येति । अवलोक्य निरीक्ष्य । च पुनरर्थे । अहमचिन्तयमेवं विचारितवान् । चिन्ता त्वेनं चिन्तयन्तमेव मामित्यवधिकम् । तामेवाह - अहो इत्याश्चर्ये । तपसां प्रभावो माहात्म्यम् । इयमस्य मुनेः शान्तापि मूर्तिः शरीरमुत्प्राबल्येन तप्तमुष्णीकृतं यत्कनकं सुवर्णं तद्वदवदाता निर्मला परिस्फुरन्ती देदीप्यमाना सौदामिनीव विद्युदिव चक्षुषो नेत्रस्य तेजासि महांसि प्रतिहन्ति प्रतिघातं करोति । आभिमुख्येन गच्छन्तीनां नयनरश्मीनां बलवद्वेगसौदामिनीतेजसा प्रतिनिवृत्तिरनुभवसिद्धैवेति भावः । इदं स्वभाववर्णनम् । विरोधोऽपि शान्तस्योत्तप्तकनकावदाततेति विरोधः । सततेति । सततं निरन्तरमुदासीनापि मध्यस्थापि महाप्रभावतयात्युग्रप्रतापतया प्रथमोपगतस्यापूर्वागतस्य भयमिव भीतिमिवोपजनयति । अन्येषां करोतीत्यर्थः । अत्रापि मध्यस्थस्य भयोत्पादकत्वमिति विरोधः । उभयत्रोत्प्रेक्षा । शुष्केति । तनु स्वल्पं तपो येषां तेषामपि तपस्विनां तेजो नित्यं सर्वदा प्रकृत्या स्वभावेनासहिष्ण्वसहनशील भवति । कीदृशम् । शुष्काणि यानि नलकाशकुसुमानि तत्र निपतितो योऽनलो वह्निस्तद्वच्चटुला त्वरिता वृत्तिर्यस्य तत् । एतस्य पर्यवसितार्थमाह - किमुतेति । एवंविधानामघक्षयकारिणां पापविनाशकर्तृणां किमुत किमाश्चर्यम् । अथ तानेव विशिनष्टि - सकलेति । सकलभुवनतलैर्वन्दितानि नमस्कृतानि चरणानि येषां ते तथा तेशम् । अनवरतेति । अनवरतं तपसा क्षपिताः क्षयं प्रापिता मलाः पापानि यैस्ते तथा तेषाम् । करतलेति । करतलामलकवत्पाणिस्थधात्रीफलवद्दिव्येन चक्षुषा - - - - - - - - - - - - - - - - - टिप्प० - 1 उत्तरीयवस्त्रमित्यर्थः । 2 भग्नानीत्याशयः । 3 भस्मना पाण्डुरं च उमया आश्लिष्टं च शरीरं यस्य तमित्यर्थः । - - - - - - - - - ----- पाठा० - १ रुद्राक्षग्रहण, २ और्वानलम्. ३ सतत. ४ भक्ष्यम्. ५ निपतिता चटुल. ६ प्रतनु. ७ दुःसहं भवति. ८ भुवनवन्दित. ९ तपःसलिलक्षालित. १० करकमलतल. ११ आमलकफल. जाबालिः पूर्वभागः । 95 Page #109 -------------------------------------------------------------------------- ________________ भगवतामेवंविधानामघक्षयकारिणाम् । पुण्यानि हि नामग्रहणान्यपि महामुनीनाम्, किं पुनदर्शनानि । धन्यमिदमाश्रमपदमयमधिपतिर्यत्र । अथवा भुवनतलमेव धन्यमखिलमनेनाधिष्ठितमवनितलकमलयोनिना । पुण्यभाजः खल्वमी मुनयो यदहर्निशमेनमपरमिव नलिनासनमपगतान्यव्यापारा मुखावलोकननिश्चलदृष्टयः पुण्याः कथाः श्रृण्वन्तः समुपासते । सरस्वत्यपि धन्या यास्य तु सततमतिप्रसन्ने करुणाजलनिस्यन्दिन्यगाधगाम्भीर्ये रुचिरद्विजपरिवारा मुखर्कंमलसंपर्कमनुभवन्ती निवसति हंसीवं मानसे । चतुर्मुखकमलवासिभि - *********** ज्ञानलोचनेनाखिलं समग्रं जगद्विष्टपमालोकयतां पश्यतां भगवता माहात्म्यवतामेवंविधानां पूर्वोक्तगुणविशिष्टानाम् । हि निश्चितम् । अघक्षयकारिणां पापविनाशकानाम् । महामुनीनामिति । महातपस्विनां नामग्रहणान्यप्यभिधानोच्चारणमात्राण्यप्यायुघृतमितिवत्कारणकार्योपचारात्पुण्यानि पुण्यजनकानि । दर्शनानीति । दर्शनानि तेषामवलोकनानि समग्रपापापहारकाणीत्यर्थे किं पुनर्भण्यते । अवश्य तदपहारकाणीत्यर्थः । धन्यमिति । इदं प्रत्यक्षमाश्रमपदं मुनिस्थानं धन्यं कृतपुण्यम् । अत्रार्थे हेतुमाह - यत्रेति । यस्मिन्नाश्रमपदेऽय महान्मुनिरधिपतिर्नेता । अथवेति पक्षान्तरे । अवनीति । अवनितलकमलयोनिना भुवनतलब्रह्मणानेन प्रत्यक्षोपलभ्यमानेन मुनिनाधिष्ठितमाश्रितं भुवनतलमेव जगतीतलमेव धन्यं कृतपुण्यम् । 'सुकृती पुण्यवान्धन्यः' इति हैमः । आश्रमस्य तदन्तःपातित्वादिति भावः । तच्छिष्याणां धन्यता प्रतिपादयन्नाह - पुण्येति । खलु निश्चयेन । अमी मुनयः पुण्यभाजः सुकृतभाजः । यदिति हेत्वर्थे । अहर्निश प्रत्यहमपरमिवान्यमिव नलिनासनं कमलयोनि समुपासते सेवां कुर्वते । तानेव शिष्यान्विशिनष्टि - अपेति । अपगतो दूरीभूतोऽन्यव्यापारस्तदितरकार्यं येभ्यस्ते तथा । मुखेति । मुखस्य वदनस्य अर्थान्मुनेरिति शेषः । तस्य यदवलोकनं निरीक्षणं तेन निश्चला निमेषर-. हिता दृष्टिर्येषां ते तथा । किं कुर्वन्तः । पुण्याः पवित्राः कथाः किंवदन्तीः श्रृण्वन्त आकर्णयन्तः । तद्वदनगतायाः सरस्वत्याः श्लाधा कुर्वनाह - सरस्वतीति । सरस्वत्यपि भारत्यपि धन्या श्लाध्या । तु पुनरर्थे । या अस्य मुनेर्मुखमेव कमलं नलिन तस्य संपर्क संवन्धमनुभवन्ती साक्षात्कुर्वन्ती मानसे मनसि निवसति निवासं करोति । उभयोः साम्यमाह - हंसीति । यथा मानसे सरसि हंसी मराली निवसति तथेयमपीत्यर्थः । अत्र प्रसन्नेत्यादिविशेषणानि मानसे मनसि सरसि च स्वबुद्ध्या योजनीयानि । अतीति । अतिशयेन प्रसन्ने प्रसादगुणयुक्ते । करुणेति । करुणा परदुःखप्रहाणेच्छा सैव जलं तस्य तयोर्वा निस्यन्दिनि साविणि । अगाधेति । अगाधमतलस्पर्श गाम्भीर्यं गम्भीरता यस्मिन् । रुचिरेति । रुचिरा मनोज्ञा ये द्विजा दन्तास्त एव परिवारः परिच्छदो यस्याः सेति भारत्या विशेषणम् । चतु - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अमरकोषऽपि हैमीय पदस्याऽस्याऽनुसृतिरवलोक्यते । 2 मुखं कमलमिव, इत्युपमितसमासो योग्यः । मयूरव्यसकसमासे तु उत्तरपदार्थस्य कमलस्य प्राधान्ये रूपकं स्यात् । तथा सति च 'हसीव' इति कवेरभीष्टा प्रधानभूतोपमा न संगच्छेत । तस्मात्-“रुचिराः सुन्दराः द्विजाः शिष्यभूता वाहाणाः पक्षिणश्च (हंसायाः) परिवारा यस्याः सा, या सरस्वती राजहंसीव, मुख कमलमिव तस्य संपर्क सुखमनुभवन्ती सती अतिप्रसन्ने अत्यन्तानुग्रहकारके अतिशयनिर्मले च, करुणा जलमिव तस्य निस्यन्दिनि साविणि, अगाधम् इयत्तारहितम् अतलस्पर्श च, गाम्भीर्यं दुरवगाहस्वभावत्वं गभीरता च यस्य तस्मिन्, अस्य (जाबालेः) मानसे मनसि मानससरोवरे च, संततं निवसति" इति व्याख्यया पूर्णोपमालंकारो निर्वाह्य इति कस्यचन विदुषोऽभिप्रायः । पाठा० - १ कारणानि पुण्यानि नाम; करणानि पुण्यानि नाम. २ मुनीनाम्. ३ मुखकमलावलोकन. ४ पर्युपासते. ५ यदस्मिन्; या तु. ६ परिवारे; कुलपरिचये. ७ कमले. ८ संपर्कसुखम्. ९ राजहंसीव. १० मुखकमल. कादम्बरी । कथामुखे-) Page #110 -------------------------------------------------------------------------- ________________ चतुर्वेदैः सुचिरादिवेदमपरमुचितमासादितं स्थानम् । एनमासाद्य शरत्कालमिव कैलिजलदसमयकलुषिताः प्रसादमुपगताः पुनरपि जगति सरित इव सर्वविद्याः । नियतमिह सर्वात्मनाकृतावस्थितिना भगवता परिभूतकलिकालविलसितेन धर्मेण न स्मर्यते कृतयुगस्य । धरणितलमनेनाधिष्ठितमालोक्य न वहति नूनमिदानी सप्तर्षिमण्डलनिवासाभिमानमम्बरतलम् । अहो महासत्त्वेयं जरा यास्य प्रलयरविरश्मिनिकरदुर्निरीक्ष्ये रजनिकरकिरणपाण्डुशिरोरुहे जटाभारेफेनपुञ्जधवला गङ्गेव पशुपतेः क्षीराहुतिरिव शिखाकलापे विभावसोनिपतन्ती न भीता । बहलाज्यधूमपटलमलिनीकृताश्रमस्य भगवतः प्रभावाभीतमिव रविकिरणजालमपि - *********** रिति । चत्वारि यानि मुखकमलानि तत्र वासिभिः स्थायिभिश्चतुर्वेदैर्ऋग्यजुःप्रभृतिभिः सुचिरादिव चिरकालादिवेदमपरं द्वितीयम् । कमलस्य कदाचित्संकोचसंभावत् । उचितं योग्यं स्थानमासादितं प्राप्तम् । एनमिति । एनं मुनि शरत्कालमिव घनात्ययसमयमिवासाद्य प्राप्य जगतिघ लोके पुनरपि द्वितीयवारमपि सर्वविद्याश्चतुर्दशवियाः प्रसादं नैर्मल्यमुपगताः प्राप्ताः । का इव । सरितो नद्य इव । यथा शरत्कालं प्राप्य ता इव नैर्मल्यं भजन्ति । उभयोरेकविशेषणमाह - कलीति । कलिरेव कलौ वा यो जलदसमयो मेघकालस्तेन कलुषिता मलिनीकृताः । नियतमिति । नियतं निश्चितमिहास्मिन्नाश्रमे सर्वात्मना सर्वप्रकारेण कृतावस्थितिर्येन स तथा तेन भगवता माहात्म्यवता । परीति । परिभूतं न्यकृतं कलिकालस्य विलसितं चेष्टितं येनैवंभूतेन धर्मेण न स्मर्यते । कृतयुगस्येति कर्मणि षष्ठी 'मातुः स्मरति' इतिवत् । धरणीति । नूनं निश्चितमनेन मुनिना धरणितलमधिष्ठित्तमाश्रितमालोक्य निरीक्ष्याम्बरतलं व्योमतलमिदानी सांप्रतं सप्तर्षिमण्डलनिवासाभिमानमिति, सप्तर्षीणां कश्यपप्रभृतीनां यन्मण्डल समूहस्तस्य यो निवासोऽवस्थानं तेन योऽभिमानोऽहंकारस्तं न वहति न धत्ते । अत्र बहूनामृषीणां सत्त्वात् । अहो इत्याश्चर्ये । महासत्त्वामहाधैर्येयं जरा विवसा यास्य मुनेर्जटाभारे सटासमूहोपरि निपतन्ती पतनं कुर्वती न भीता न त्रस्ता । अत्रार्थ उपमानद्वयं प्रदर्शयति - पशुपेति । पशुपतेरीश्वरस्य जटामारे सटासमूहे गङ्गेव स्वर्णनंदीव । क्षीरेति । विभावसोर्वद्वेः शिखाकलापे ज्वालासमूहे क्षीराहुतिरिव क्षीरस्य दुग्धस्याहुतिः । वह्नौ प्रक्षेप इवेत्यर्थः । गङ्गां विशिनष्टि - फेनेति । फेनस्य डिण्डीरस्य यः पुज्जः समूहस्तेन धवलोज्ज्वला । इयमपि धवला भवति । जटां विशिनष्टि - प्रलयेति । प्रलयः कल्पान्तस्तस्मिन्यो रविः सूर्यस्तस्य यो रश्मिनिकरः किरणसमूहस्तद्वत् दुर्निरीक्ष्ये विलोकयितुमशक्ये । रजनीति । रजनिकरश्चन्द्रस्तस्य किरणा मयूखास्तद्वत्पाण्डूनि श्वेतानि शिरोरुहाणि केशा यस्मिन् । बहलेति । बहलं निबिडं यदाज्यं सर्पिस्तस्य धूमपटलं तेन मलिनीकृतः श्यामता प्रापित आश्रमो यस्वैवंविधस्य भगवतो मुनेः प्रभावान्माहात्म्यादीतमिव त्रस्तमिव रविकिरणजालं सूर्यरश्मिसमूहस्तपोवनं मुनिस्थानं दूरतः परिहरति दूर एव त्यजति । मालिन्यस्य तमः प्रतिनिधीभूतस्य सूर्यरश्मिभिर्विरोधात् मालिन्याश्रयाश्रमाधिपतेर्मुनेः प्रभावादीतिरुचितैवेति भावः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अत्रापि कलिर्जलदसमय इव इत्युपमितसमासो योग्यः, अन्यथा 'सरित इव इत्युपमायाः संगतिर्न स्यात् । 2 'रविकरनिकरदुर्निरीक्षे इत्येतान्येवाक्षराणि कवेः संमतानि प्रमाणं च सहृदयहृदयम् । पाठा० - १ चतुर्भिर्वेदैः. २ कलिकालजलधर. ३ आलक्ष्य; अवलोक्य. ४ सप्तर्षिनिवास. ५ रविकरनिकरदुर्निरीक्षे. ६ निकरपाण्डुरे जटाभारे. ७ पाण्डुर. ८ निष्पतन्ती. ९ आश्रमपदस्य. १० भीतभीतमिव. ११ जालकम्. जाबालिः पूर्वभागः । INITION 97) Page #111 -------------------------------------------------------------------------- ________________ दूरतः परिहरति तपोवनम् । एते च पवनलोलपुञ्जीकृतशिखाकलापा रचिताञ्जलय इवात्र मन्त्रपूतानि हवींषि गृह्णन्त्येतत्प्रीत्याशुशुक्षणयः । तरलितदुकूलवल्कलोऽयं चाश्रमलताकुसुमसुरभिपरिमलो मन्दमन्दचारी सशङ्क इवास्य समीपमुपसर्पति गन्धवाहः । प्रायो महाभूतानामपि दुरभिभवानि भवन्ति तेजासि । सर्वतेजस्विनामयं चाग्रणीः । द्विसूर्यमिवाभाति जगदनेनाधिष्ठितं महात्मना । निष्कम्पेव क्षितिरेतदवष्टम्भात् । एष प्रवाहः करुणारसस्य, संतरणसेतुः संसारसिन्धोः, आधारः क्षमाम्भसाम्, परशुस्तृष्णालतागहनस्य, सागरः संतोषामृतरसस्य, उपदेष्टा सिद्धिमार्गस्य, अस्तगिरिरंसद्ग्रहकस्य, मूलमुपशमतरोः, नाभिः प्रज्ञाचक्रस्य, स्थितिवंशो धर्मध्वजस्य, तीर्थं सर्वविद्यावताराणाम्, वडवानलो लोभार्णवस्य, निकषोपलः शास्त्ररत्नानाम्, दावानलो रागपल्लवस्य, मन्त्रः क्रोधभुजंगस्य, दिवसकरो मोहा - *********** एते चेति । एते समीपवर्तिन आशुशुक्षणयो वह्नयः । पवनेति । पवनेन वायुना लोलञ्चपलः पुजीकृतः समूहीकृतः शिखाकलापो ज्वालासमूहो येषां ते तथा । तथा रचिताञ्जलय इव विहिताञ्जलय झ्व । एतप्रीत्यैतन्मुनिस्नेहेन मन्त्रपूतान्य॒चापवित्राणि हवींषि होतव्यानि गृह्णन्ति स्वीकृर्वन्ति । 'अग्निर्वेधानरो वह्निः शिखावानाशुशुक्षणिः' इत्यमरः । गन्धेति । गन्धवाहो वायुरस्य मुनेः समीपं पार्थ संशङ्क इव भीताशय इवोपसर्पति गच्छति । अथ साशङ्कत्वे हेतुं प्रदर्शयन्नाह - तरलितेति । तरलितानि कम्पितानि दुकूलवल्कलानि येन स तथा । अयमिति स्पार्शनप्रत्यक्षः । आश्रमेति । आश्रमलताकुसुमानां सुरभिः परिमलो यस्मिन्नत एव मन्दमन्दचारी शनैः शनैः संचरमाणः । प्राय इति । प्रायो बाहुल्यार्थेऽव्ययम् । महाभूतानामपि पृथिव्यादीनामपि तेजांसि महांसि दुरभिभवानि दुःखेनाभिभवितुं शक्यानि भवन्ति । अयं चेति । अयं च मुनिः सर्वतेजस्विनां समग्रधामवतामग्रणीमुख्यः । अनेनेति । अनेन मुनिना महात्मना प्रकृष्टस्वरूपेणाधिष्ठितमाश्रितं जगद्विसूर्यमिव द्वौ सूर्यो यत्र तद्वदिव । निष्कम्पेति । एतस्य मुनेरवष्टम्भादालम्बात्क्षितिर्वसुधा निष्कम्पेव निर्वेपथुरिव । अथ च कियन्ति विशेषणानि रूपकालंकृतिद्वारा प्रदर्शयन्नाह - एषेत्यादि । एष मुनिः करुणारसस्य प्रवाह ओघः । संसारसिन्धोर्भावाम्भोधेः संतरणे सेतुः सेतुबन्धः । क्षमाम्भसां क्षान्तिसलिलानामाधारोऽम्भसां बन्धः । तृष्णैव लता तद्गहनस्य परशुः कुठारः । संतोष एवामृतरसः पीयूषद्रवस्तस्य सागरः समुद्रः । सिद्धिमार्गस्य मोक्षपदव्याख्यानस्य उपदेष्टोपदेशकः । असद्गहकस्याशुभग्रहस्यास्तगिरिरस्ताचलः । उपशमतरोः शमद्रुमस्य मूलं बुधनः । प्रज्ञाचक्रस्य प्रतिभाचक्रस्य नाभिर्मध्यप्रदेशः । धर्मध्वजस्य सुकृतकेतोस्थितिवंशोऽवस्थानवेणुः । सर्वविद्यावताराणां समग्रविद्याप्रवेशानां तीर्थं घट्टः । लोभार्णवस्य लिप्सासमुद्रस्य वडवानल और्वः । शास्त्ररत्नानां सिद्धान्तमणीनां निकषोपलः । कषणपट्टः रागपल्लवस्येच्छाकिसलयस्य दावानलो वनवतिः । क्रोधभुजंगस्य कोपसरीसृपस्य मन्त्रः । मोहान्धकारस्याज्ञानतिमिरस्य दिवसकरः सूर्यः । नरकद्वाराणां दुर्गतिद्वाराणामर्गलाबन्धः प्रतिबन्धः । आचाराणां चरितानां कुलभुवनं मूलगृहम् । मङ्गलाना श्रेयसामायतन - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'असद्ग्रहस्य' इति कअत्ययविकलितोऽपि पाठः दृश्यते । पाठा० - १ पुजितशिखाकलापाः शिखाजटिला. २ प्रतिगृह्णन्त्याशुशुक्षणयः; प्रतिगृह्णन्त्येतादत्तान्याशुशुक्षणयः. ३ मन्दसंचारी; मन्दमन्दसंचारी; मन्दमन्दसंचारः. ४ तेजांसि यतः. ५ निष्कण्टकेव. ६ अवष्टम्भादेव; अवष्टम्भेन. ७ प्रभवः. ८ कृपाम्भसाम्. ९ अमृतस्य. १० असद्ग्रहस्य. ११ नेमिः. १२ प्रसादः. १३ तीर्थः. १४ वाडवानलः. १५ महामन्त्रः. १६ भुजंगमस्य. (98 कादम्बरी। Y कथामुखे Page #112 -------------------------------------------------------------------------- ________________ न्धकारस्य, अर्गलाबन्धो नरकद्वाराणाम्, कुलभवनमाचाराणाम्, आयतनं मङ्गलानाम्, अभूमिर्मदविकाराणाम्, दर्शकः सत्पथानाम्, उत्पत्तिः साधुतायाः नेमिरुत्साहचक्रस्य, आश्रयः सत्त्वस्य, प्रतिपक्षः कलिकालस्य, कोशस्तपसः, सखा सत्यस्य, क्षेत्रमार्जवस्य, प्रभवःपुण्यसंचयस्य, अदत्तावकाशो मत्सरस्य, अरातिर्विपत्तेः, अस्थानं परिभूतेः, अननुकूलोऽभिमानस्य, असंमतो दैन्यस्य, अनायत्तो रोषस्य, अनभिमुखः सुखानाम् । अस्य भगवतः प्रसादादेवोपैशान्तवैरमपगतमत्सरं तपोवनम् । अहो प्रभावो महात्मनाम् । अत्र हि शाश्वतिकमपहाय विरोधमुपशान्तात्मानस्तियञ्चोऽपि तपोवनवसतिसुखमनुभवन्ति । तथा हि एष विकचोत्पलवनरचनानुकारिणमुत्पतच्चारुचन्द्रकशतं हरिणलोचनद्युतिशबलमभिनवशाद्वलमिव विशति शिखिनः कलापमातपाहतो निःशङ्कमहिः । अयमुत्सृज्य मातरमजातकेसरैः केसरिशिशुभिः सहोपजातपरिचयः क्षरक्षीरधारं पिबति कुरङ्गशावकः सिंहीस्तनम् । एष - *********** गृहम् । मदविकाराणामहंकारवृत्तीनामभूमिरुषरक्षेत्रम् । सत्पथानां शोभनमार्गाणां दर्शक उपदेष्टा । साधुतायाः शुभावस्थोत्पत्तिः । उत्साहः प्रगल्भता स एव चक्र तस्य नेमिर्धारा । सत्वस्य धैर्यस्याश्रय आधारः । कलिकालस्य कलियुगस्य प्रतिपक्षः शत्रुः । तपसः प्रसिद्धस्य कोशो भाण्डागारम् । सत्यस्य सखा मित्रम् । आर्जवस्य मार्दवस्य क्षेत्रं सस्योत्पत्तिस्थलम् । पुण्यसंचयस्य धर्मसमूहस्य प्रभव उत्पत्तिस्थलम् । मत्सरस्ीया अदत्तावकाशः । विपत्तेरापदोऽरातिः शत्रुः । परिभूतेः पराभवस्यास्थानमपदम् । अभिमानस्याहंकृतेरननुकूलोऽहितकारकः । दैन्यस्यासमतोऽस्वीकृतः । रोषस्यानायत्तोऽनधीनः । सुखानामनभिमुखः पराङ्मुखः । अस्येति । अस्य भगवतो मुनेः प्रसादादेव माहात्म्यादेव उपशान्तं शान्ति प्राप्तं वैरं विरोधो यस्मिन् । अपेति । अपगतो दूरीभूतो मत्सरः परगुणोत्कर्षासहनं यस्मिन्नेवभूतं तपोवनम् । वर्तत इति क्रियाध्याहारः । अत्रार्थे साधारणं कारणमाह - अहो इति । अहो इत्याश्चर्ये । महात्मनां महानुभावानां प्रभावो माहात्म्यम् । एतदेव विशेषतो दर्शयन्नाह - अत्रेति । हि निश्चितम् । अत्र तपोवने शाश्चतिकं सदातनं विरोधं वैरमपहाय दूरीकृत्योपशान्तात्मानः प्रशान्तात्मानस्तिर्यञ्चोऽपि पशवोऽपि तपोवनवसतिसुखं मुनिस्थाननिवाससातमनुभवन्त्यनुभवविषयीकुर्वन्ति । तदेव दर्शयन्नाह - तथेति । तथा हि । एषोऽहिः सर्पो विकचं विकसितं यदुत्पलं नीलकमलं तस्य वनं तस्य या रचना निर्मितिस्तदनुकरोत्येवंशील तत्तथा । उत्पतदिति । उत्पतदूर्ध्वं गच्छच्चारु मनोहारि चन्द्रकशतं मेचकशतं यस्मिन् । हरिणेति । हरिणस्य मृगस्य या लोचनद्युतिनेत्रकान्तिस्तद्वच्छबलं कर्बुरमेवंभूतं शिखिनो मयूरस्य कलाप प्रचलाकमातपेन सूर्यालोकेनाहतः पीडितो निःशङ्क निर्भय विशति प्रविशति । कमिव । अभिनवः प्रत्यग्रः शादाः शष्पाणि सन्त्यत्रेति शाद्वलो हरितप्रदेशस्तमिव । अयमिति । अयं कुरङ्गशावको मातरमम्बामुत्सृज्य विहायाजातकेसरैरनुत्पन्नसटैः केसरिशिशुभिरिभारिबालकैः सह समुपजातः समुत्पन्नः परिचयः संस्तवो यस्यैभूतः सिंहीस्तनं पिबति पानं करोति । क्षरन्तीति । क्षरन्ती खवन्ती क्षीरधारा यस्मिन् । ‘गोखियोरुपसर्जनस्य' इति इस्वः । एष इति । एष समीप - - - - - -- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1. बहभारमित्यर्थं । पाठा० - १ नरकपुरद्वाराणाम्. २ आदर्शः; सर्वविद्यानामुत्पत्तिः. ३ प्रसवः; प्रभावः. ४ अवशोविषयाणामनभिमुखः; अनवकाशो विषयाणामनभिमुखः. ५ प्रभावात्. ६ एतदपि. ७ उपशान्तान्तरात्मानः. ८ उत्पलिनीवनानुकारिणम्. ९ अधिवसति; आवसति. १० कलापमाहतः. ११ अनुपजात. १२ प्रक्षरत्. १३ आपिबति. जाबालिः 09 पूर्वभागः । Page #113 -------------------------------------------------------------------------- ________________ मृणालकलापाशङ्किभिः शैशिकरधवलं सैटाभारमामीलितलोचनो बहु मन्यते द्विरदैकलभैराकृष्यमाणं मृगपतिः । इदमिह कपिकुलमपगतचापलमुपनयति मुनिकुमारकेभ्यः स्नातेभ्यः फलानि । एते च न निवारयन्ति मदान्धा अपि गण्डस्थलीभाञ्जि मदजलपाननिश्चलानि मधुकरकुलानि संजीतदयाः कर्णतालैः करिणः । किं बहुना, तापसाग्निहोत्र - धूमलेखार्भिरुत्सर्पन्तीभिरनिशमुपपादितकृष्णाजिनोत्तरासङ्गशोभाः फलमूलभृतो वैल्कलिनो निश्चेतनास्तरवोऽपि सनियमा इ॑व लक्ष्यन्तेऽस्य भगवतः । किं पुनः सचेतनाः प्राणिनः' इति । एवं चिन्तयन्तमेव मां तस्यामेवाशोकतरोरधश्छायायामेकदेशे स्थापयित्वा हारीतः पादावुपगृह्य कृताभिवादनः पितुरनतिसमीपवर्तिनि कुशासने समुपाविशत् । आलोक्य तु मौं सर्व एव मुनयः 'कुतोऽयमासादितः शुकशिशुः' इति तमासीनमपृच्छन् । असौ तु तानब्रवीत् 'अयं मया स्नातुमितो गतेन कैमलिनीसरस्तौरतरुनीडनिपतितः शुकशिशुरात - वर्ती । मृणेति । मृणालानां बिसानां कलापं समूहमाशङ्कत इत्येवंशीलास्तैः । द्विरदेति । द्विरदा गजास्तेषां कलभा बालकास्तैराकृष्यमाणमवकृष्यमाणं शशिकरश्चन्द्रस्तबद्धवलं शुभ्रं सटाभारं केसरकलापम् । आमीलीति । आ ईषन्मीलिते लोचने येनैवंभूतो बहुमन्यते सुखत्वेन जानातीत्यर्थः । इदमिति । इहास्मिंस्तपोवन इदम् । अपेति । अपगतं चापलं चाञ्चल्यं, यस्यैवंभूतं कपिकुलं वानरयूथम् । स्नातेभ्यः कृताप्लवेभ्यः । मुनीति । मुनीनां तपस्विनां कुमारका बालास्तेभ्यः फलानि सस्यान्युपनयति ढौकयति । एते चेति । एते करिणो हस्तिनो मदान्धा अपि मदोन्मत्ता अपि गण्डस्थलीभाजि करटस्थलभाञ्जि । मदेति । मदजलस्य दानवारिणः पानं प्राशनं तेन निश्चलानि स्थिराणि मधुकराणां भ्रमराणां कुलानि समूहान् संजातदयाः समुत्पन्नकरुणाः कर्णतालैः श्रवणचपेटैर्न निवारयन्ति न दूरीकुर्वन्ति। किं बह्विति । किं बहुना किं बहु जल्पितेन । स्तोकेनैवोच्यत इति भावः । तापसेति । उत्सर्पन्तीभिरूर्ध्वं व्रजन्तीभिस्तापसानां यदग्निहोत्रं तस्य या धूमलेखा दहनकेतनराजयस्ताभिरनिशं निरन्तरम् । उपेति । उपपादिता विहिता कृष्णं श्यामं य चर्म तस्योत्तरासङ्गो वैकक्ष्यं तस्य शोभा येषां ते तथा फलमूलभृतो वल्कलिनो निश्चेतना ज्ञानरहिता अस्य भगवतस्तरवोऽपि वृक्षा अपि सनियमा इव व्रतिन इव लक्ष्यन्तेऽवलोक्यन्ते । सचेतना ये प्राणिनो मनुजादयस्तेषां किं पुनः किं भण्यते किं कथ्यते । ते त्वेतादृशा भवन्त्येवेति भावः । अथ हारितः किं कृतवानित्याह - एवमिति । एवं पूर्वोक्तप्रकारेण चिन्तयन्तं विचारयन्तं मां तस्यामेवाशोकतरोरधश्छायायामेकदेश एकस्मिन्प्रदेशे स्थापयित्वा संस्थाप्य हारीतः हारीतनामा मुनिः । पादाविति । पादौ चरणावुपगृह्य पादयोः पतित्वा । कृतेति । कृतं विहितमभिवादनं येनैवंभूतः पितुर्जनकस्यानतिसमीपवर्तिनि नातिनिकटवर्तिनी कुशासने दर्भविष्टरें समुपाविशदुपविष्टवान् । आलोक्येति । आलोक्य निरीक्ष्य । तु पुनरर्थे । मां सर्व एवं समग्रा एव मुनयो ऋषयः कुतः कस्मात्प्रदेशादयं शुकशिशुरासादितः प्राप्त इति तमासीनमुपविष्टं हारीतं मुनिमपृच्छन्नप्राक्षुः । असौ हारीतः । तु पुनरर्थे । तान्मुनीनब्रवीदुवाचेत्यर्थः । किमुवाचेत्याह - अयमिति । अयं शुकशिशुर्मया स्नातुं स्नानार्थमितोऽस्मात् प्रदेशात् गतेन प्राप्तेन । कमलिनीति । कमलिनीसरः पद्मसरस्तस्य तीरतरुः प्रतीरवृक्षस्तस्मिन्यो नीडः कुलायस्तस्मान्निपतितः सस्तः । आतपेति । आतपेनालोकेन जनितोदिता क्लान्तिः श्रमाधिक्यं यस्य स तथा । पाठा० - १ मृणालशङ्किभिः. २ शिशिरकर; शिशिरकलापकर. ३ जटा. ४ कलभकैः. ५ कुमारेभ्यः. ६ जातदयाः. ७ तपसा. ८ उत्सर्पन्तीभिरुपपादित; सर्पन्तीभिरहर्निशमुपपादित. ९ शोभनाः १० वल्कलिनस्तरव ११ इवास्य भगवतः समीपवर्तिनोऽत्र लक्ष्यन्ते; इव लक्ष्यन्तेऽस्य भगवतः समीपवर्तिनः १२ प्राणिन एवम् १३ तस्यैव रक्ताशोकतरोश्छायायाम्. १४ मां ते. १५ मुनयः सर्व एव १६ शिरस्तरु; सरसस्तीरतरु. १७ नीडपतितः. 100 कादम्बरी | कथामुखे Page #114 -------------------------------------------------------------------------- ________________ जनितक्लान्तिरुत्तप्तपांसुपटलमध्यगतो दूरनिपेतनविह्वलतनुरल्पावशेषायुरासादितस्तपस्विदुरारोहतया च तस्य वनस्पतेर्न शक्यते स्वनीडमारोपयितुमिति जातदयेनानीतः । तद्यावदयमप्ररूढपक्षतिरक्षमोऽन्तरिक्षमुत्पतितुं तावदत्रैव कस्मिंश्चिदाश्रमतरुकोटरे मुनिकुमारकैरस्माभिश्चोपनीतेन नीवारकणं निकरेण फैलरसेन च संवर्ध्यमानो धारयतु जीवितम् । अनाथपरिपालनं हि धैर्मोऽस्मद्विधानाम् । उद्भिन्नपक्षतिस्तु गगनतलसंचैरणसमर्थो यास्यति यंत्रास्मै रोचिष्यते । इहैव वोर्पजार्तपरिचयः स्थास्यति' इत्येवमादिकमस्मंत्संबद्धालापमाकर्ण्य किंचिदुपजातकुतूहलो भगवाञ्जाबालिरीषदावलितकंधरः पुण्यजलैः प्रक्षालयन्निव मामतिप्रशान्तया दृष्ट्या दृष्ट्वा सुचिरमुपजातप्रत्यभिज्ञान इव पुनःपुनर्विलोक्य 'स्वस्यैवाविनयस्य फलमनेनानुभूयते ' इत्यवोचत् । स हि भगवान्कलत्रयदर्शी तपःप्रभावाद्दिव्येन चक्षुषा सर्वमेव - *********** उत्तप्तेति । उत्तप्त उष्णीभूतो यः पांसुपटलो धूलीसमूहस्तस्य मध्यगतोऽभ्यन्तरवर्ती । दूरेति । दूराद्दविष्ठाद्य त्रिपतनमधः संयोगफलिका क्रिया तेन विह्वला व्याकुला तनुर्देहो यस्य स तथा । अल्पेति । अल्पं स्वल्पमवशेषमायुर्जीवितं यस्यैवंभूत आसादितो लब्धः । तपस्वीति । तपस्विभिर्मुनिभिर्दुरारोहतया दुःखेनारोढुं शक्यतया तस्य वनस्पतेः शाल्मलीवृक्षस्य स्वनीडं स्वकुलायमारोपयितुं स्थापयितुं न शक्यते न समर्थीभूयत इति हेतोः । जातदयेनेति । जातोत्पन्ना दया करुणा यस्यैवंभूतेनानीताऽत्रानीतः । मयेति पूर्वोक्तमेवेति न पुनरुच्यते । तद्यावदिति । तदिति हेत्वर्थे । यावत् यावत्कालम् । अयमिति पूर्वोक्तः । अप्ररूढेति । अप्ररूढाऽनुत्पन्ना पक्षतिः पक्षमूलं यस्य सः । अक्षमेति । अन्तरिक्षमाकाशमुत्पतितुमक्षमोऽसमर्थः । तावदिति । तावत्कालम् । अत्रैवेति । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थं । कस्मिंश्चिदिति । कस्मिंश्चित् अनिर्दिष्टनामन्याश्रमतरुकोटरे मुनिवसतिवृक्षनिष्कुहे मुनिकुमारकैस्तापसशिशुभिरस्माभिश्चोपनीतेन आनीतेन । नीवारेति । नीवारो वनव्रीहिस्तस्य कणनिकरेण सस्यसमूहेन फलरसेन सस्यद्रवेण च संवर्ध्यमानो वृद्धिं प्राप्यमानो धारयतु दधातु जीवितं प्राणितम् । अनाथेत्यादि । हि यस्माद् हेतोरस्मद्विधानां तपस्विनामनाथपरिपालनं दीनजनरक्षणं धर्म आचारः । तु पुनरर्थे । उद्भिन्नेति । उद्भिन्ना प्रकटीभूता पक्षतिर्यस्यैवंभूतः । गगनेति । गगनतलमाकाशतलं तत्र संचरणं गमनं तत्र समर्थः क्षमः । यंत्रेति । यत्र यस्मिन्देशेऽस्मै शुकशिशवे रोचिष्यते रुचिरभिलाष उत्पत्स्यते तत्र यास्यति गमिष्यति । रुच्यर्थानां धातुभियोगे चतुर्थी । इहैवेत्यनास्थायाम् । उपजातपरिचयः संजातसंस्तवः स्थास्यत्यवस्थानं करिष्यति । इत्येवमादिकमस्मत्संबद्धमिति मद्विषयकमालापं प्रश्नोत्तररूपमाकर्ण्य श्रुत्वा । किंचिदिति । किंचिदीषदुपजातमुत्पन्नं कुतूहलमाश्चर्यं यस्य स तथा भगवान्माहात्म्यवान् जाबालिः जाबालिनामा मुनिः । ईषदिति । ईषत्किंचिदावलिता नमिता कन्धरा ग्रीवा यस्य स तथा । इदं तु सावधानलक्षणम् । पुण्येति । पुण्यजलैः पवित्रपानीयैः प्रक्षालयन्निव धावयन्निव मामतिप्रशान्तयातिप्रसन्नया दृष्टया दृशा सुचिरं चिरकालं दृष्ट्वा विलोक्य । उपेति । उपजातं समुत्पन्नं प्रत्यभिज्ञानम् 'सोऽयं देवदत्तः' इत्याकारं ज्ञानं यस्य स तथा तद्वदिव पुनःपुनर्वारंवारं विलोक्य निरीक्ष्य स्वस्यैवात्मन एवाविनयस्याशिष्टाचारस्य फलं भोगोऽनेन शुकशिशुनानुभूयते साक्षात्क्रियत इति तानवोचदब्रवीत् । कथं मुनिर्जानातीत्याशयेनाह सहीति । यतः हि निश्चितम् । स भगवान् । कालेति । कालत्रयस्यातीतानागतवर्तमानलक्षणस्य दर्शी पश्येकः । तप इति । तपःप्रभावाद्दिव्येन टिप्प० - 1 'दर्शक:' इत्युचितम् । - पाठा० - १ निपतित. २ तपस्विदुरारोहतया तस्य. ३ अन्तरिक्ष. ४ विविधफलरसेन. ५ धर्मोऽस्ति. ६ संचलन. ७ चास्मै ८ समुपजात. ९ विसम्भः १० संबद्धमालापम्. ११ कौतूहल : १२ दृष्ट्या सुचिर १३ अभिजातप्रत्यभिज्ञः. १४ त्रिकाल. (शुकस्य स्ववृतान्तः पूर्वभागः । 101 Page #115 -------------------------------------------------------------------------- ________________ करतलगतमिव जगदवलोकयति । वेत्ति जन्मान्तराण्यतीतानि । कथयत्यागामिनमप्यर्थम् । ईक्षणगोचरगतानां च प्राणिनामायुषः संख्यामावेदयति । सर्वैव सौ तापसपरिषच्छ्रुत्वा विदिततत्प्रभावा ‘कीदृशोऽनेनाविनयः कृतः, किमर्थं वा कृतः, जन्मान्तरे वा कोऽयमासीत्' इति कौतूहलिन्यभवत् । उपनाथितवती च तं भगवन्तम् ‘आवेदय, प्रसीद भगवन्, कीदृशस्याविनयस्य फलमनेनार्नुभूयते । कञ्चायमासीजन्मान्तरे । विहगजातौ वा कथमस्य संभवः । किमभिधानो वायम् । अपनयतु नः कुतूहलम् । आश्चर्याणां हि सर्वेषां भगवान्प्रभवः । इत्येवमुपयाच्यमानस्तपोधनपरिषदा स महामुनिः प्रत्येवदत् - 'अतिमहदिदमाश्चर्यमाख्यातव्यम् । अल्पशेषमहः । प्रत्यासीदति च नः स्नानसमयः । भवतामप्यतिक्रामति देवार्चनविधिवेला । तदुत्तिष्ठन्तु भवन्तः । सर्व एवाचरन्तु यथोचितं दिवसव्यापारम् । अपराह्न - *********** ज्ञानात्मकेन चक्षुषा दृष्टवा सर्वमेव समग्रमेव जगत्करतलगतमिव हस्तन्यस्तमिवावलोकयति पश्यति । वेत्तीति । अतीतानि गतानि जन्मान्तराणि भवान्तराणि वेत्ति जानाति । कथयतीति । आगामिनं भाविनमर्थमपि कथयति ब्रवीति । ईक्षणेति । ईक्षागोचरगतानां नयनपथप्राप्तानां प्राणिनां सत्त्वानामायुषो जीवितव्यस्य संख्यां परिमाणमावेदयति निवेदयति । सर्वैवेति । सर्वैव समग्रैव सा तापसपरिषन्मुनिसभा श्रुत्वाकर्ण्य । पूर्वोक्तमिति शेषः । विदितेति । विदितो ज्ञातस्तस्य जाबालिमुनेः प्रभावो माहात्म्यं यया सा तथेति कौतूहलिनी कौतुकवत्यभवदित्यन्वयः । इतिशब्दवाच्यमाह - कीदृश इति । कीदृशः कीदृगविनयाऽपराधविशेषोऽनेन शुकशिशुना कृतो विहितः । किमर्थं किंप्रयोजनं वा कृतः । क वा कस्मिन्प्रदेशे कृतः । जन्मान्तरे भवान्तरेयं क आसीदभवत् । सर्वत्र वाशब्दो विकल्पार्थः । उपेति। उपनाथितवती । 'नाच याचने' इत्यस्य धातो रूपम् । याचित्रवतीत्यर्थः । च पूर्वोक्तसमुच्चये । तं भगवन्तं जाबालिमुनिम् । किं याचितवतीत्याशयेनाह - आवेदयेति । हे भगवन्, आवेदय कथय । प्रसीद प्रसन्नो भव । पूर्वोक्ताभिप्रायस्थप्रश्नानुवदन्नाह - कीदृशस्येति । कीदृशस्य किंरुपस्याविनयस्य फलमनेनानुभूयते । कश्चेति । जन्मान्तरेऽयं क आसीत् । विहगेति । विहगजातौ पक्षिजातौ कथमिति केन प्रकारेण अस्य संभव उत्पत्तिः । किमिति । अयं किमभिधानः किंनामा । अपनयत्विति । नोऽस्माकं कुतूहलमाश्चर्यमपनयतु दूरीकरोतु । आश्चर्याणामिति । हि भगवान्, सर्वेषां समग्रामामाश्चर्याणां कुतूहलानां प्रभव उत्पत्तिस्थानम् । अपूर्वार्थज्ञापक इति यावत् ।। इत्येवमिति । इत्येवं अनेन प्रकारेण तपोधनपरिषदा मुनिसभयोपयाच्यमानः प्रार्थमानः स महामुनिः प्रत्यवदत्प्रत्यवोचत् । अतीति । इदमाश्चर्यमतिमहदतिमहीयस्तयाख्यातव्यं कथनीयम् । मयेति शेषः । अल्पेति । अहर्दिनमल्पशेषमल्पावशिष्टम् । प्रत्येति । नोऽस्माक स्नानसमय आप्लवकालः प्रत्यासीदति विलम्बितो भवति । भवतामिति । भवतामपि युष्माकमपि देवार्चनविधिवेला देवपूजाक्षणोऽतिक्रामत्युल्लङ्घिता भवति । तदिति हेत्वर्थे । उत्तिष्ठन्तूत्थानं कुर्वन्तु भवन्तो यूयम् । सर्व एवेति । यथोचितं यथायोग्यं - - - - - - - -- - - - - - - - - - - - - - टिप्प० -1 'असकृदुपयाचितवती' इत्यपि पाठान्तरोऽवलोक्यते कुत्रचिद् । - - - - - - - - पाठा० - १ आलोकयति. २ वेत्ति च जन्मान्तराण्यपि. ३ प्रमाणम्. ४ यतः सर्वैव; ततः सर्वैव. ५ तापसपरिषत्; सतापसपरिषत्. ६ जन्मान्तरे को. ७ कुतूहलिनी. ८ असकूदुण्याचितवती; इत्युपनाथितवती; उपेत्यार्थितवती. ९ भुज्यते. १० जातौ कथम् जातौ च कथम्. ११ उपयाच्यमानस्तु उपयाचितः १२ रक्ताऽशोकतरु. १३ देवार्चनवेला. १४ एव तावत्. (102) कादम्बरी। कथामुखे Page #116 -------------------------------------------------------------------------- ________________ समये भवतां पुनः कृतमूलफलाशनानां विसब्धोपविष्टानामादितः प्रभृति सर्वमावेदयिष्यामि योऽयम्, यच्चानेन कृतमपरस्मिञ्जन्मनि, इह च लोके यथास्य संभूतिः अयं च तावदपगतक्लमः क्रियतामाहारेण । नियतमयमप्यात्मनो जन्मान्तरोदन्तं स्वप्नोपलब्धमिव मयि कथयति सर्वमशेषतः स्मरिष्यति' इत्यभिदधदेवोत्थाय सह मुनिभिः स्नानादिकमुचितदिवसव्यापारमकरोत् । अनेन च समयेन परिणतो दिवसः स्नानोत्थितेन मुनिजनेनार्यविधिमुपपादयता यः क्षितितले दत्तस्तमम्बरतलगतः साक्षादिव रक्तचन्दनाङ्गरागं रविरुदवहत् । ऊर्ध्वमुखैरर्कबिम्बविनिहितदृष्टभिसैष्मपैस्तपोधनैरिव परिपीयमानतेजःप्रसरो विरलौतपस्तनिमानमभ - *********** दिवसव्यापार दिनकृत्यमाचरन्तु समाचरन्तु । अपराह्नेति । अपराह्नसमये द्विप्रहरानन्तरसमये भवतां युष्माकम् । पुनरिति । पुनः द्वितीयवारं कृतं विहितं मूलफलयोरशनं भक्षणं यैस्ते तथा तेषाम् । विसब्धेति । विसब्धं सावधानं यथा स्यात्तथोपविष्टानां स्थितानाम् । आदित इति । आदितः प्रारम्भतः प्रभृति सर्वं वृत्तान्तमावेदयिष्यामि निवेदयिष्यामि । योऽयमिति । यश्चायं पूर्वजन्मन्यासीत् । यच्चानेनापरस्मिञ्जन्मनि परभवे कृतम् । इह चेति । इह लोके यथा येन प्रकारेणास्य संभूतिरुत्पत्तिः । अयं चेति । तावदादावयं शुकः आहारणाशनेनापगतक्लमो व्यपगतपरिश्रमः क्रियतां विधीयताम् । नियतेति । नियतं निश्चितं मयि कथयत्ययं शुकः अपि आत्मनः स्वकीयस्य जन्मान्तरोदन्तं परभववृत्तान्तं स्वप्नोपलब्धमिव स्वप्नदृष्टवत्सर्वं समग्रमशेषत आमूलचूलतः स्मरिष्यति स्मरणविषयीकरिष्यति । इतीति । इति पूर्वोक्तमभिदधदेव कथयनेवोत्थायोत्थानं कृत्वा । सहेति । सह समं मुनिभिस्तपस्विभिरुचितं योग्यं दिवसव्यापार स्नानादिकमकरोनिर्ममें। अनेन चेति । अनेन समयेन मध्याह्नसमयकर्तव्यकर्मणा परिणतः परिपाकं गतो दिवसः । परिणते दिवसे सूर्यस्य रक्तत्वात्तद्वर्णनमाह - स्नानोत्थितेनेति । अम्बरतलगतो रविस्तं रक्तचन्दनाङ्गरागं साक्षादिव प्रत्यक्षसिद्धमुनिप्रत्यर्पितमूर्तिरुपेणैवोदवहदधारयत् । तं कम् । यः स्नानोत्थितेन मुनिजनेन तपस्विवर्गेणार्यविधिं रक्तचन्दनरक्तपुष्पादिना पूजाविधिमुपपादयता निष्पादयता क्षितितले दत्तोऽर्पितः । सूर्यायेति शेषः । सायंकाले सूर्यस्य रक्तत्वान्मुनिप्रदत्तो रागः किमनेन साक्षादिव गृहीत इत्युत्प्रेक्षा । ऊर्ध्वमुखैरिति । ऊर्ध्वमुखैरुवा॑ननैः । अर्केति । अर्कबिम्बे सूर्यबिम्बे विनिहिता स्थापिता दृष्टियेस्ते तथा तैरूष्मपैरुष्मा वह्निज्वाला तस्यानुकारिभिस्तपोधनैरिव परिपीयमान आस्वाद्यमानतेजःप्रसरः कान्तिप्रचारो यस्य स तथा । विरलेति । विरलः स्वल्प - - - - - - - - - - - - - - - - - - - -- -- - -- - - - - - - - - - - - - - - - - - टिप्प० - 1 विश्वस्ततया, सुस्थभावेन उपविष्टानामित्यर्थः । 2 सायंकाले मन्दातपः सूर्यो यत्कृशतां भजते तत्र हेतुरुप्रेक्ष्यते - सूर्यनिहितदृष्टिभिः सूर्योत्ताप भिः समग्र दिन यावत स ऊष्मा पीतः, अत एव सायं रविस्तनुतामभजदिति । टीकार्थस्तु प्रबोधक एव तथाऽपि विश्लिष्टमस्माभिः । पाठा० - १ कृतफलमूलाशनानाम्. २ आवेदयिष्यामः. ३ कृतमनेन. ४ लोके च यथा; लोके यथा. ५ जन्मान्तरवृत्तम्. ६ तैर्मुनिभिः. ७ स्नानादिकमुचितं दिवस; स्नानादिकम् दिवस. ८ अनेन समयेन. ९ अधोदत्तः. १० अम्बरतलम् अस्ताचल. ११ निहित. १२ ऊष्मपैः. १३ विरलातपो दिवसः. सन्ध्यावर्णनम् । । पूर्वभागः । 103 Page #117 -------------------------------------------------------------------------- ________________ जत् । उद्यत्सप्तर्षिसार्थस्पर्शपरिजिहीर्षयेवं संहृतपादः पारावतपादपाटलरागो रविरम्बरतलावालम्बत । आलोहितांशुजालं जलशयनमध्यगतस्य मधुरिपोर्विगलन्मधुधारमिव नाभिनलिनं प्रतिमागतमपरार्णव सूर्यमण्डलमलक्ष्यत । विहायाम्बरतलमुन्मुच्य च कमलिनीवनानि शकुनय इव दिवसावसाने तरुशिखरेषु पर्वताग्रेषु च रविकिरणाः स्थितिमकुर्वत । आलग्नलोहितातपच्छेदा मुनिभिरालम्बितलोहितवल्कला इव तरवः क्षणमदृश्यन्त । अस्तमुपगते च भगवति सहसदीधितावपरार्णवतलादुल्लसन्ती विद्रुमलतेव पॉटला संध्या समदृश्यत । यस्यामाबध्यामानध्यानम्, एकदेशदुह्यमानहोमधेनुदुग्धधाराध्वनितधन्यतरातिमनोहरम्, अग्नि - *********** आतप आलोको यस्य स तथा तनिमानं तनो वस्तनिमा तमभजत् । क्षीणत्वं प्रापेत्यर्थः । उद्यदिति । उद्यदुदयं प्राप्नुवन्त्यः सप्तर्षिसार्थः सप्तर्षिसमूहस्तेन यः स्पर्शः संबन्धस्तस्य या परिजिहीर्षा परिहर्तुमिच्छा तया संहृताः संकोचिताः पादा येन स तथा । पारावत इति । पारावतः कलरवस्तस्य पादौ चरणौ तद्वत्पाटलः श्वेतरक्तो रागो यस्मिन्नेवंविधो रविः सूर्यः । अम्बरतलादित्यवधौ पञ्चमी । अवालम्बताललम्बे । तदनन्तरमालोहितांशुजालमीषद्रक्तकिरणसमूह सूर्यमण्डलं रविबिम्बमलक्ष्यतैक्ष्यत । कमिव । अपरेति । अपरार्णवे पश्चिमसमुद्रे प्रतिमागतं स्वमूर्तिरूपेणागतं बहिनिःसृतं जलशयनमध्यगतस्य मधुरिपोः कृष्णस्य नाभिनलिनमिव नाभिपद्ममिव । तदेव विशिनष्टि - विगलदिति । विगलन्ती सवन्ती मधुधारा परागश्रेणिर्यस्मात्स तत् तथा । विहायेति । अम्बरतलमाकाशतलं विहाय त्यक्त्वा कमलिनीवनानि नलिनीखण्डान्युन्मुच्य च शकुनय इव पतत्रिण इव दिवसावसाने सायंकाले तरुशिखरेषु वृक्षाग्रेषु च रविकिरणाः सूर्यरश्मयः स्थितिमवस्थानमकुर्वत कृतवन्तः । तत्कालीनतरुशोभामाह - आलग्नेति । आलग्नेषत्संबन्धं प्राप्ता लोहितातपस्य रक्तालोकस्य मध्ये मध्ये छेदा रचनाविशेषा येषां ते तथा । अत एव 'भक्तिच्छेदैरिव विरचितां भूमिमङ्गे गजस्य' इति । मुनिभिस्तपस्विभिरालम्बिता आश्रिता अत एव लोहितवल्कला इव तरवो वृक्षाः क्षणं स्वल्पकालमदृश्यन्तावालोक्यन्त । संध्यावस्था प्रदर्शयन्नाह - अस्तेति । अस्तमुपगतेऽऽदृश्यतां प्राप्ते भगवति सहसदीधितावपरार्णवतलात्पश्चिमसमुद्रतलादुल्लसन्त्यूर्ध्वमागच्छन्ती विद्रुमलतेव रक्तकन्दवल्लीव पाटला श्वेतरक्ता संध्या सायंकालं समदृश्यत समालोक्यत । यस्यामिति । यस्यां संध्यायामेवंविधमाश्रमपदमभवत् । बभूवेत्यर्थः । कीदृशम् । आबध्येति । आबध्यमानं क्रियमाणं ध्यानमेकप्रत्ययसंततिर्यस्मिन् । अनस्तं गत एव सूर्ये संध्यावन्दनाघयोरुक्तत्वाद्ध्यानग्रहणम् । एकेति । एकदेश एकस्मिन्प्रदेशे दुह्यमाना या होमधेनवो होमार्थं गावस्तासां दुग्धधारा पयः श्रेणी तत्र यद्ध्वनितं शब्दितं तेन धन्यतरं सदतिमनोहरमतिचारु । अग्नीति । - - - - - - - - - - - - -- - - - - -- - - - - टिप्प० -1 पाद (किरण) द्वारा पूज्यानामृषीणां स्पर्शजनितोऽपराधो माऽस्त्विति हेतुना उपसंहृतपादः (किरणः) सूर्योऽम्बरादलम्बतेत्युत्प्रेक्षा । किरणचरणयोभेदेऽपि 'पाद'शब्दश्लेषेणाऽभेदाध्यवसायादतिशयोक्तिः । पारावतपादवत् पाटलो रागो यस्येत्युपमा च । जगद्वन्यस्य रवेः कान्तौ पारावतपादसादृश्यकल्पनादुपमाऽनौचित्यं तु न शङ्कनीयम्, सायं तेजोविरहितरक्तिमसादृश्येन स्वेर्मन्दप्रभताऽतिशयव्यञ्जनात् । 2 प्रतिबिम्बरूपेण पतितं सूर्यमण्डलं मधुरिपोर्नाभिपद्ममिवाऽऽलक्ष्यतेत्यर्थः । 3 आलग्नाः लोहितातपच्छेदा येषु ईदृशा आश्रमतरवः, मुनिभिरालम्बितानि उपरिस्थापितानि लोहितवल्कलानि येषु ईदृशा इव अलक्ष्यन्तेत्युत्प्रेक्षा। पाठा० - १ सार्थपरि. २ एव. ३ चरण. ४ अलम्बत. ५ शयनगतस्य. ६ मधुभिदः, ७ नलिनम्. ८ आलक्ष्यत; अवैश्यत; अद्रक्ष्यत. ९ धरणितलम् धरातलम्. १० उन्मुच्य कमलिनी. ११ वनानि च. १२ तपोवनतरु. १३ रक्तातप; रक्तातपगभस्ति. १४ आलम्बिताः. १५ आलोहित. १६ आश्रमतरवः. १७ अशोभन्त; अलक्ष्यन्त. १८ तटात्. १९ उपसर्पन्ती. २० आपाटला. २१ ध्वनितमनोहरम् ; ध्वनिमनोहरम्. २२ अग्निहोत्रवेदी. (104 कादम्बरी। कथामुखे Page #118 -------------------------------------------------------------------------- ________________ वेदिविकीर्यमाणहरित्कुशम्, ऋषिकुमारिकाभिरितस्ततो विक्षिप्यमाणदिग्देवताबलिसिक्थमाश्रमपदमभवत् । क्यापि विहृत्य दिवसावसाने लोहिततारका तपोवनधेनुरिव कपिला परिवर्तमाना संध्या तपोधनैरदृश्यत । अचिरप्रोषिते सवितरि शोकविधुरा कमलमुकुलकमण्डलुधारिणी हससितदुकूलपरिधाना मृणालधवलयंज्ञोपवीतिनी मधुकरमण्डलाक्षवलयमुहन्ती कमलिनी दिनपतिसमागमव्रतमिवाचरत् । अपरसागराम्भसि पतिते दिवसकरे वेगोत्थितमम्भःसीकरनिकरमिव तारागणमम्बरमधारयत् । अचिराच्च सिद्धकन्यकाविक्षिप्तसंध्यार्चनकुसुमशबलमिव तोरकितं वियदराजत । क्षणेन चोन्मुखेन मुनिजनेनो विप्रकीर्णैः प्रणामाञ्जलिसलिलैः क्षोल्यमान इवागलदखिलः संध्यारागः । क्षयमुपागतायां संध्यायां तद्विनाशदुःखिता कृष्णाजिनमिव विभावरी तिमिरोद्गममभिनव - *********** अग्निवेद्यां वह्निस्थापनचतुरसभूमिकायां विकीर्यमाणा विक्षिप्यमाणा हरित्कुशा नीलदर्भा यस्मिन् । ऋषीति । ऋषिकुमारिकाभिर्मुनिपुत्रीभिरितस्ततो विक्षिप्यमाणानि समन्ताद्विकीर्यमाणानि दिग्देवतानां बलिसिक्थानि बलिसंबन्धिसिद्धानानि यस्मिंस्तत्तथा । पुनरवस्थान्तरमाह - क्वापीति । क्वापि कुत्रचित्प्रदेशे विहृत्य पर्यटनं कृत्वा दिवसावसाने दिनपर्यन्ते कपिला तपोवनधेनुरिव लोहिततारका परिवर्तमाना तपोधनैः मुनिभिः संध्या दृश्यतालोक्यत । गौरपि कपिलत्वाल्लोहिततारका रक्तकनीनिका । संध्या तु लोहिततारका रक्तनक्षत्रा तत्कालीनोद्गतनक्षत्राणां रक्तत्वात् । अतः संध्याधेन्वोः सादृश्यादुपमानोपमेयभावः । कमलिनीसूर्ययोर्नायिकानायकत्वेन तौ वर्णयन्नाह - अचिरेति । अचिरप्रोषिते तत्कालीनप्रोषिते गते सवितरि श्रीसूर्ये शोकेन विरहेण विधुरा विह्वला कमलिनी दिनपतिसमागमार्थं स्वकीयनायकस्यागमनहेतोतं नियमविशेषमाचरदिवाकरोदिव । कमलेति । संकुचितमुखसाम्यात्कमलमुकुलान्येव कमण्डलूनि तान्येव दधातीत्येवंशीला सा तथा । हंसेति । श्वेतसाम्यादसा एव सितदुकूलानि परिधानमधोंशुकं यस्याः सा तथा । मृणालेति । श्वेततन्तुसारूप्यान्मृणालान्येव धवलं शुभ्रं यज्ञोपवीतं यज्ञसूत्रं यस्याः सा तथा । मधुकरेति । नीलतीक्ष्णमुखसाम्यान्मधुकराणां भ्रमराणां यन्मण्डलं तदेवाक्षवलयं रुद्राक्षजपमालिका तदुद्वहन्ती धारयन्ती । अपरामवस्थां वर्णयन्नाह-अपरेति । अपरसागराम्भसि पश्चिमसमुद्रपानीये पतिते दिवसकरे सूर्ये वेगेन रभसोत्थितं प्रादुर्भूतमम्भःसीकरनिकरं पानीयपृषत्समूह तारांगणमिव नक्षत्रवृन्दमिवाम्बरमाकाशमधारयद् दधार । अतिश्चेतरूपत्वसाम्यात्ताराजलबिन्द्वोरूपमानोपमेयभावः । अचिराच्चेति । अचिरात् स्वल्पकालेन सिद्धा विद्यासिद्धास्तेषां कन्यकाः पुत्र्यस्ताभिर्विक्षिप्तानि विकीर्णानि यानि संध्यार्चनकुसुमानि सायंकालीनपूजार्थमानीतानि पुष्पाणि तैः शबलमिव कर्बुरमिव तारकितम् । 'तारकादिभ्य इतच्' । संजाततारकोदयं वियदाकाशमराजताशोभत । अतीतसंध्यावस्था प्रकटयन्नाह - क्षणेनेति । क्षणेन सपद्येव । च समुच्चये । उन्मुखेनोर्ध्वमुखेन मुनिजनेन तापसजनेनो विप्रकीर्णैर्ध्वं विक्षिप्तैः प्रणामाञ्जलिसलिलैर्नमस्कृतिसमयाञ्जलिपानीयैः क्षाल्यमान इव प्रक्षाल्यमानाऽगलत्तत्स्थानात्प्रच्युतः। क्षयमिति । संध्यायां क्षयमुपगतायां विनाशं प्राप्तायाम् । तदिति । तस्यां स्वसानिध्यात्सखी - - - - - - -- - -- टिप्प० -1 अम्बरम् (कर्तृ) तारागणम् अम्भः सीकरमिवाऽधारयदित्युत्प्रेक्षा । - - - - - - - - - - - - - - पाठा० - १ विप्रकीर्यमाण. २ दिग्देवतार्चनबलिसिक्थकम्. ३ दिनावसाने. ४ मुनिभिः; मुदितैस्तपोधनैः. ५ प्रोषिते च सवितरि. ६ यज्ञोपवीता. ७ अक्षमालावलयम्. ८ रवि. ९ दिनकरे; दिवाकरे पतन; तत्पतन. १० पवनवेगोत्थितम्; पतङ्गवेगोत्थितम्; पतनवेगोत्थितम्. ११ अम्बरतलम्. १२ सतारम्. १३ प्रक्षाल्यमानः. १४ उपागतायां च संध्यायाम उपगताया च संध्यायाम. रात्रिवर्णनम् ( पूर्वभागः । 105 Page #119 -------------------------------------------------------------------------- ________________ मवहत् । अपहाय मुनिहृदयानि सर्वमन्यदन्धकारतां तिमिरमनयत् । क्रमेण च रविरस्तं गत इत्युदन्तमुपलभ्य जातवैराग्यो धौतदुकूलवल्कलधवलाम्बरः सतारोन्तःपुरःपर्यन्तस्थिततनुस्तिमिरतमालवृक्षलेखं सप्तर्षिमण्डलाध्युषितमरुंधतीसंचरण'तमुपहिताषाढमालक्ष्यमाणमूलमेकान्तस्थितचारुतारकामृगममरलोकाश्रममिव गगनतलममृतदीधितिरध्यतिष्ठत् । चन्द्रा - *********** रुपायाः संध्याया विनाशो ध्वंसस्तेन दुःखिता कष्टं प्राप्ता विभावरी रजन्यभिनवं प्रत्यग्रं तिमिरोद्गमं ध्वान्तोदयं कृष्णाजिनमिवासितचर्मवदवहत् । नीलसाम्यात्तिमिरोद्गमस्य कृष्णाजिनसाधर्म्यम् । तिमिरोद्गमस्य कृत्यं व्याख्यापयन्नाह - अपहेति । तिमिरं ध्वान्तं मुनिहृदयानि तपस्विचेतांसि स्वप्रकाशात्मकप्रकाशवन्तीत्यतस्तिमिरस्यावकाशाभावादन्यत्सर्वं प्रौढप्रकाशहीनं वस्तुजातमन्धकारतामचाक्षुषतामनययापयत् । तदुत्तरकालं चन्द्रेऽपि मित्रवियोगावस्थां वर्णयन्नाह - क्रमेणेति । क्रमेण परिपाट्या रविः सूर्योऽस्तं गतोऽदृश्यता प्राप्त इत्युदन्तमिति वृत्तान्तमुपलभ्य प्राप्तोऽमृतदीधितिश्चन्द्रः । अमरेति । अमरा वसिष्ठादयो मुनयस्तेषां लोकः समुदायस्तस्याश्रमो मुनिस्थानं तदिव गगनतलमम्बरतलमध्यतिष्ठदधितस्थौ । कीदृक्सूर्यः । जातेति । जातं समुत्पन्नं वैराग्यं विरक्तता यस्मिन्स तथा तम् । पक्षे विशिष्टो रागो विरागस्तस्य भावस्तत्त्वम् । धौतेति । धौतं क्षालितं दुकूलवल्कलमेव धवलं शुभ्रमम्बरं वस्त्रं यस्मिन् । पक्षे दुकूलवल्कलवत् धवलं शुभ्रमम्बरमाकाशं यस्मिन् । सतारेति । तारः शक्तिविशेषः प्रणवो ब्रा च । तदुक्तमन्यत्र 'इदं तारत्रयं प्रोक्तमगम्यागमनादृते । एतद्वृत्तौ ‘तारत्रयं प्रणवशतत्रयम्' इत्याह विज्ञानेश्वरः । तया सह वर्तमानं यदन्तःपुरमिति पुरस्य शरीरस्यान्तर्मध्यं कुण्डलिनी नाडीविशेषः । 'क्वचिदमाद्यन्तस्य परत्वम्' इति पुरस्य परनिपातः । तस्यां पर्यन्तः सहसारं कमलं तत्र योगसामर्थ्यात्स्थितं लैङ्गिक तनुर्यस्य स तथा । पक्षे तारा अश्विन्यादयस्ताभिः सह वर्तमानं यदन्तःपुरमवरोधस्तस्य पर्यन्तः संनिधिस्तत्र स्थिता तनुः शरीरं यस्य स तथा । अथाश्रमसाम्येन गगनतल विशेषयन्नाह - तिमिरेति । श्यामत्वसाम्यात्तिमिरवच्छ्यामा ये तमालवृक्षास्तेषां लेखा पङ्क्तिर्यस्मिन् । पक्षे तिमिराण्येव तमालवृक्षा इति विग्रहः । शेष पूर्ववत् । सप्तर्षीति । सप्तर्षिसदृशा ये ऋषयो नारदाद्यास्तेषां मण्डलं समूहः । 'मण्डलं श्वसमूहयोः' इति धरणिः । तेनाध्युषितमाश्रितम् । पक्षे सप्तर्षयः सप्ततारकाः । शेषं प्राग्वत् । अरुंधतीति । अरुंधती वसिष्ठपत्नी तस्यां संचरणं परिभ्रमणं तेन पतं पवित्रम । पक्षेऽरुंधती ताराविशेषः शेषं प्राग्वत । उपहितेति । उपहितःसंनिहित आषाढः पालाशदण्डो यस्मिन । 'पालाशो दण्ड आषाढः' इत्यभिधानचिन्तामणिः । पक्ष अषाढा पूर्वाषाढानक्षत्रम् । आलक्ष्येति । आसमन्ताल्लक्ष्यमाणानि विलोक्यमानानि मूलानि वसुधान्तर्गतवृक्षप्रदेशा यस्मिन् । पक्षे मूलं मूलनक्षत्रम् । शेषं प्राग्वत् । एकान्तेति । एकान्ते विजने स्थिताश्चारयो मनोहराकृतयस्तारकामृगाः श्वेतमृगा यस्मिन् । पक्षे तारकारुपं मृगो मृगनक्षत्रम् । तस्यामेव विभावर्यां चन्द्रे जातवैराग्योपमानमम्बरमण्डले चाश्रमरूपकमुक्त्वा ज्योत्स्नायां गङ्गारूपकोपयोगिगगनतले त्र्यम्बकोत्तमाङ्गोपमानमाह - चन्द्रेति । चन्द्रमेवाभरणं बिभर्तीति - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 सितारान्तःपुरः, पर्यन्तस्थिततनुतिमिरतमालवनलेखम् इत्यपि पाठोऽवलोक्यते साधुः । सतारं सप्रणवम् अन्तःपुरं हृदयमध्यं यस्य सः ध्याननिष्ठ इत्यर्थः पक्षे-ताराः (अश्चिन्यादयः) एव अन्तःपुराणि स्त्रियः तैः सहितः (अमृतदीधितिः) । पर्यन्ते प्रान्तभागे स्थिता तनुतिमिरवत् स्वल्पान्धकारवत् तमालवनानां लेखा यस्मिन् तम् (आश्रमम्), पक्षे- पर्यन्ते स्थितं तनतिमिरं निजोदयेन विरलमन्धकार तमालवनरेखेव यत्र तत् (गगनतलम्) इति तद्व्याख्या । पाठा० - १ शापदग्धमिव भयाविहायेव. २ मुनिजनहृदयानि. ३ उपगतः; उपागत. ४ समुपजात. ५ अन्तःपुर. ६ तनुतिमिर. ७ वन. ८ पवित्रितम्, पवित्रम्. ९ उपलक्ष्यमाण. १० तारकमृगम्. ११ गगनम्. 106 कादम्बरी। कथामुखे-) Page #120 -------------------------------------------------------------------------- ________________ भरणभृतस्तारकाकपालशकलालंकृतादम्बरतलात्त्र्यम्बकोत्तमाङ्गादिव गङ्गा सागरानापूरयन्ती हंसधवला धरण्यामपतज्ज्योत्स्ना । हिमकरसरसि विकचपुण्डरीकसिते चन्द्रिकाजलपानलोभादवतीर्णो निश्चलमूर्तिरमृतपङ्कलग्न ईवादृश्यत हरिणः । तिमिरजलधरसमयापगमानन्तरमभिनवसितसिन्दुवारकुसुमपाण्डुरैरर्णवागतैरवगाह्यन्त हंसैरिव कुमुदसरांसि चन्द्रपादैः । विगलितसकलोदयरागं रजनिकरबिम्बमम्बरापगावगाहधौतसिन्दूरमैरावतकुम्भस्थलमिव तत्क्षणमलक्ष्यत । शनैःशनैश्च दूरोदिते भगवति हिमततिसुति, सुधाधूलिपटलेनेव धंवलीकृते - *********** चन्द्राभरणभृत्तस्मात् । तारकेति । तारका एव कपालशकलानि कर्परखण्डानि तैरलंकृतं भूषितं यस्मात् । अम्बरतलादित्यवधी पञ्चमी । त्र्यम्बकोत्तमाङ्गादिवेश्वरमौलेरिव गङ्गा जाह्नवी । सागरानिति । अगस्त्यगण्डूषेण शुष्कान् सागरान् समुद्रानापूरयन्ती परिपर्णी कुर्वती । चन्द्रोदयेन सागराणां पूरणं प्रसिद्धम् । हंसवद्धवला शुभ्रा ज्योत्स्ना चन्द्रिका धरण्यां पृथिव्यामपतत्पपातेत्यर्थः । अथ च चन्द्रमृगोऽतादृशाऽभूदित्याह - हिमकरेति । हिमकरश्चन्द्रः स एव सरस्तस्मिन् । तदेव विशिनष्टि - विकचेति । विकचानि विकस्वराणि यानि पुण्डरीकाणि तद्वत्सिते शुभ्रे । अन्यदपि सरो विकचपुण्डरीकैः सितं भवति अतस्तदुपमानम् । चन्द्रिकेति । चन्द्रिका ज्योत्सना सैव जलं पानीयं तस्य पानमास्वादनं तस्य लोभो गर्धस्तस्मादवतीर्णो मध्यप्रविष्टः । निश्चलेति । निश्चला निस्पन्दा मूर्तिर्यस्य स तथा । अमृतेति । कृष्णात्वसाम्यात्कलङ्क एंवामृतपङ्कस्तत्र लग्न इवान्तनिर्गीण इव हरिणो मृगोऽदृश्यतालक्ष्यत । चन्द्रोदयजनितं शोभातिशयं वर्णयन्नाह - तिमिरेति । कृष्णत्वसाम्यात्तिमिरमेव जलधरसमयस्तस्यापगमानन्तरं निवृत्त्यनन्तरम् । अभीति । अभिनवानि प्रत्यग्राणि सितानि शुभ्राणि यानि सिन्दुवारस्य निर्गुण्ड्याः कुसुमानि पुष्पाणि तद्वत्पाण्डुरैः शुभैरर्णवः समुद्रस्तत्रागतैः प्राप्तैश्चन्द्रपादैः शशिकिरणहँसैरिव मरालैरिव कुमुदसरासि कैरवोपलक्षिततटाकान्यवागाह्यन्तालोड्यन्त । अतः श्वेतत्वसाधाद्धंसचन्द्रपादयोरुपमानोपमेयभावः । पुनरवस्थान्तरं वर्णयन्नाहविगलीति । विगलितो विलयं प्राप्तो यः सकलः समग्र उदयसंबन्ध्युद्गमनक्षणजन्मा रागो रक्तिमा यस्मिन्नेवंभूतं रजनिकरबिम्बं चन्द्रमण्डलं तत्क्षणमिव तत्काल इवालक्ष्यत जनैरेक्ष्यत । किमिव । अम्बरेति । अम्बरस्य व्योम्नो या आपगा नदी तस्या अवगाह आलोडनं तेन धौतं क्षालितं सिन्दूरं नागजं यस्यैवंविधं यदैरावतस्य हस्तिमल्लस्य कुम्भस्थलं तदिव । अतिवर्तुलत्वसाम्याच्चन्द्रबिम्बस्य कुम्भस्थलोपमानम् । अथ मुनिवृतं निरुपयन्ननाह - शनैरिति । हारीतो मुनिः कृताहारं विहितभोजनं मां वैशम्पायनमादाय गृहीत्वा पितरं जाबालिमुनिमित्यवोचदित्यन्वयः । कस्मिन्सति । शनैः शनैः स्वल्पप्रयत्नेन दूरोदिते दूरं गते भगवति चन्द्रे । हिमेति । हिमं प्रालेय तस्य ततिर्वीथी तस्यां सुति साविणि । चन्द्रस्य विशेषणम् । सुधेति । श्वेतत्वसाम्यात्सुधैव धूलिपटलं पांसुकसमूहस्तेनेव चन्द्रातपेन शशिन आलोकेन जगति लोके धवलीकृते सति शुभ्रीकृते सति । पुनः केषु सत्सु । निशामुखसमीरणेषु प्रदोषकालीनवायुषु प्रवहत्सु वहमानेषु सत्सु । अथ - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०-1 'रगाह्यन्त' इत्यपि पाठः । तद्वत् 'अवागाह्यन्त' इति वक्तव्यमप्युचितं स्यात् । 2 निश्चलमूर्तिहरिणः चन्द्रबिम्बगतचिह्नरूपो मृगः अमृतमेव पङ्कस्तत्र लग्न इव अलक्ष्यत । अन्योऽपि जलपानलोभादवतीर्णो मृगः पङ्कमग्नो निश्चलमूर्तिस्तिष्ठति । कलङ्क एव हरिणत्वाऽऽरोपात् । 3 'हिमसुति' इत्यपि पाठः । हिमं सवति इति हिमसत् (क्विप्) तस्मिन्निति विग्रहः । पाठा० - १ सागरम्. २ आलक्ष्यत. ३ समयादनन्तरम्. ४ सिन्धुवार. ५ गगनागतैः. ६ अगाह्यन्त; अगृह्यन्त. ७ हिमसुति; हिमदीधितो. ८ धवलीकृते जगति. रात्रिवर्णनम् पूर्वभागः । 107 Page #121 -------------------------------------------------------------------------- ________________ चन्द्रातपेन जगति, अवश्यायजलबिन्दुमन्दगतिषु विघटमानकुमुदवनकषायपरिमलेषु समुपोढनिद्राभरालसतारकैरन्योन्यग्रथितपक्ष्मपुटैरारब्धरोमन्थमन्थरमुखैः सुखासीनैराश्रममृगैरभिनन्दितागमनेषु प्रवहत्सु निशामुखसमीरणेषु, अर्धयाममात्रावखण्डितायां विभावर्यां हारीतः कृताहारं मामादाय सर्वेस्तैर्महामुनिभिरुपसृत्य चन्द्रातपोद्भासिनि तपोवनैकदेशे वेत्रासनोपविष्टमनतिदूरवर्तिना जालपादनाम्ना शिष्येण दंर्भपवित्रधवित्रपाणिना मन्दमुपवीज्यमानं पितरमवोचत्-हैं तात, सकलेयमाश्चर्यश्रवणकुतूहलाकलितहृदया समुपस्थिता तापसपरिषदाबद्धमण्डला प्रतीक्षते । व्यपनीतश्रमश्च कृतोऽयं पतत्त्रिपोतः । तदावेद्यतां यदनेन कृतम् । *********** वायूनां विशेषणानि - अवश्यायेति । अवश्यायो हिमं तस्य जलबिन्दवः पानीयविग्रुषस्तैर्मन्दा मन्थरा गतिर्गमनं येषां ते । विघटेति । विघटमानानि विकास प्राप्यमाणानि यानि कुमुदवनानि तेषां कषायस्तुवरो गन्धो येषु ते । अभिनन्दितमिति । अभिनन्दितं श्लाघितमागमनं येषां ते तथा । कैः । आश्रममृगैर्मुनिस्थानस्थहरिणैः । अथ च तेषां विशेषणानि - समुपोटेति । समुपोढा समयक्प्रकारेणोपोढा या निद्रा प्रमीला तस्या भरः संभारस्तेनालसा मन्थरा तारका कनीनिका येषां ते तथा तैः । अन्योन्येति । अन्योन्यं परस्परं ग्रथितानि मिलितानि पक्ष्म नेत्ररोम तेषां पुटानि येषां ते तथा तैः । आरब्ध इति । आरब्धो यो रोमन्थश्चर्वणं तेन मन्थराण्यलसानि मुखानि येषां ते तथा तैः । सुखेति । सुखेन यदृच्छयासीनैरुपविष्टैः । अर्धेति । त्रियामाशयेनार्धयाममात्रमर्धप्रहरमात्रमवखण्डितं खण्डनां प्राप्तं यस्याः सा तथा तस्मिन् । तस्यामर्धप्रहरन्यूनायामित्यर्थः । एवंविधायां विभावर्या रजन्यां सर्वैस्तैर्महामुनिभिर्महातपस्विभिरुपसृत्यागत्य । कस्मिन् । चन्द्रेति । चन्द्रातपेन निशापतिप्रकाशेनोद्भासत उत्प्राबल्येन शोभत इत्येवंशीलः स तथा तस्मिन् । तप इति । तपोवनस्य मुनिस्थानस्यैकदेशोऽन्यतरप्रदेशस्तस्मिन्नधिकरणीभूते । अथ जाबालिमुनि विशेषयन्नाह - वेत्रेति । वेत्रासनमासन्दी तत्रोपविष्टमासीनम् । अनतीति । अनतिदूरवर्तिना नातिसमीपवर्तिना । जालेति । जालपाद इति नाम यस्य स तथा तेन शिष्येण विनेयेन । दर्भेति । दर्भ कुशस्तद्वत्पवित्रं यद्धवित्रं मृगचर्मनिर्मितं तालवृन्तं पाणौ हस्ते यस्य स तथा तेन । 'धवित्रं मृगचर्मणः' इति कोशः । मन्दं यथा स्यात्तथोपवीज्यमानं दूरीक्रियमाणमक्षिकम् । अन्वयस्तु पूर्वमुक्तः । तदनुसारेण किमुवाचेत्याह-हे तात हे पितः, सकला समग्रेयं प्रत्यक्षगता तापसपरिषत्तपस्विसंसत्समुपस्थितागता । आश्चर्येति । आश्चर्यस्याद्भुतवस्तुनो यच्छ्रवणमाकर्णनं तत्र यत्कुतूहलं चित्तवृत्तिविशेषस्तेनाकलितं व्याप्तं हृदयं चेतो यस्याः सा । परिषद्विशेषणम् । आबद्धेति । आबद्धमारचितं मण्डलं यया सा । प्रतीक्षत इति । भवन्तमिति शेषः । भवद्विलम्बेन विलम्ब इत्यर्थः । कदाचिच्छुककृतोऽपि स्यादित्यत आह - व्यपनीतेति । अयं पतत्रिपोतः शुकशिशुळपनीतो दूरीकृतः श्रमो ग्लानिर्यस्यैवंभूतः कृतो विहितः । चेति पूर्वोक्तसमुच्चये । तदिति हेत्वर्थे । आवेद्यतामिति । यदनेन शुकेन कृतं विहितं तदावेद्यतां निवेद्यताम् । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'सर्वेस्तैः सह मुनिभिः' इत्यपि पाठः । अन्यथा महामुनिभिरिति पाठस्वीकारे सहार्थस्याऽऽक्षेपः कर्तव्यःस्यात् । किञ्च महामुनिस्तत्र जाबालिरेव, न सर्वे । 2 'दर्भपवित्रपाणिना' इत्यपि पाटप्रचारः, तदपेक्षया टीकाकृता गृहीतः पाठः समीचीनतर एव । 3 रात्रिसंबन्धि दंश-मसकम् इत्यर्थः । पाठ० - १ बिन्दुपतनमन्द; बिन्दुपतनशीतेषु मन्द. २ खण्ड. ३ आगमेषु. ४ प्रवात्सु. ५ समीरेषु. ६ सह मुनिभिः. ७ वेत्रासने सुखोपविष्टम्. ८ नातिदूर. ९ पवित्रपाणिना. १० मन्दमन्दम्. ११ उवाच. १२ तात. १३ आकुलित. १४ प्रतीक्ष्यते. १५ किमनेन. 108 कादम्बरी। कथामुखे Page #122 -------------------------------------------------------------------------- ________________ अपरस्मिञ्जन्मनिकोऽयमभूद्रविष्यति चे' इति । एवमुक्तस्तु स महामुनिरग्रतः स्थितं मामवलोक्य ताश्च सर्वानेकाग्राज्वणपरान्मुनीन्बुद्ध्वा शनैःशनैरब्रवीत्-'श्रूयतां यदि कौतूहलम् - कथारम्भः। अस्ति सकलत्रिभुवनललामभूता, प्रसवभूमिरिव कृतयुगस्य, आत्मनिवासोचिता भगवता महाकालाभिधानेन भुवनत्रयसर्गस्थितिसंहारकारिणा प्रमथनाथेनेवापरेव पृथिवी समुत्पादिता, द्वितीयपृथिवीशङ्कया जलनिधिनेव रसातलगंभीरेण परिखावलयेन परिवृता, पशुपतिनिवासप्रीत्या गगनपरिसरोल्लेखिशिखरमालेन कैलासगिरिणेव सुधासितेन प्राकारमण्डलेन 'परिवृता, प्रकटशङ्खशुक्तिमुक्ताप्रवालमरकतमणिराशिभिश्चामीकरचूर्णसिकतानिकरनिचितैरायामि - *********** अस्माकमिति शेषः । अपरस्मिन्निति । एतद्भवापेक्षयापरजन्मनि भूते भविष्यति च कोऽयमभूत्कोऽयमग्रे भविष्यति चेति । एवमिति । एवं पूर्वोक्तप्रकारेणोक्तः प्रश्नविषयीकृतः । तु पुनरर्थे । स महामुनिः जाबालिमुनिरग्रतः पुरतः स्थितमासीनं मामवलोक्य निरीक्ष्य तान्सर्वान्समग्रानेकानानेकतानान् । श्रवणेति । श्रवणमाकर्णनं तस्मिन्परान्मुनींस्तपस्विनो बुद्ध्या ज्ञात्वा च अतिवृद्धत्वात्क्षीणत्वाच्च शनैः शनैर्मन्दस्वरेणाब्रवीदुवाच । किमुवाचेत्याह-श्रूयतामिति । यदि चेत्कौतूहलमाश्चर्यं तहिं श्रूयतामाकर्ण्यताम् । अनेनात्यादरः सूचितः । अस्तीति । उज्जयिनी नाम नाम्नी नगर्यस्तीति दूरेणान्वयः । अग्रे प्रथमान्तानि सर्वाण्यपि नगरीविशेषणानि । अन्येषां त्वन्यविभक्तिकानीति बोध्यम् । सकलेति । सकलं समग्रं यत्रिभुवनं त्रिविष्टपं तस्य ललामभूता तिलकभूता । प्रसवेति । कृतयुगस्य सत्ययुगस्य प्रसवभूमिरिव जन्मभूरिव । आत्मेति । भगवतेश्वरेणात्मनः स्वस्य यो निवासोऽवस्थानं तत्रोचिता योग्याऽपरेवैतद्भभिन्नैव पृथिवी वसुधा समुत्पादिता कृता । अथेश्वरं विशेषयन्नाह - महेति । महाकाल इत्यभिधानं नाम यस्य स तथा तेन । भुवनेति । भुवनत्रयस्य विष्टपत्रयस्य यः सर्ग सर्जनम्, स्थितिरवस्थानम्, संहारो विनाशः एतेषां कारिणा करणशीलेन । प्रमथेति । प्रमथा गणास्तेषां नाथेन स्वामिना । द्वितीयेति । द्वितीयैतद्व्यतिरिक्ता या पृथिवी तस्याः शङ्का आरेका तया जलनिधिनेव समुद्रेणेव परिखावलयेन खातिकामण्डलेन परिवृता परिवेष्टिता । परिखावलयं विशिनष्टि - रसेति । रसातलं पृथ्या अधोभागं यावद्गभीरेणालब्धमध्येन । पुनर्विशेषतो नगरी विशिनष्टि - प्राकारेति । प्राकारो वप्रस्तस्य मण्डलेन वलयेन परिवृता परिवेष्टिता । पशुपतिरिति । पशुपतिरीश्वरस्तस्य निवासोऽवस्थितिस्तेन या प्रीतिः स्नेहस्तयाकैलासगिरिणेव रजताद्रिणेवेत्युपमानम् । वप्रकैलासौ युगपद्विशेषयन्नाह - गगनेति । गगनस्याकाशस्य यः परिसरः पर्यन्तभूः । पर्यन्तमभूः परिसरः' इत्यभिधानचिन्तामणिः । तदुल्लेखिनी तत्संघर्षकारिणी शिखरमाला सानुश्रेणिर्यस्य स तथा पक्षे गगनोल्लेखिनी शिखरमालाग्रमाला अर्थात्कपिशीर्षाणि यस्मिन् । 'शिखरं पुलकाग्रयोः' इत्यनेकार्थः । सुधेति । सुधा गृहधवलीकरणद्रव्यं तेन सितेन शुभ्रेण । पक्षे सुधावच्छुभ्रणेत्यर्थः । प्रकटेति । प्रकटाः स्पष्टाः शङ्खः कम्बुः, शुक्तिरब्धिमण्डूकी, मुक्ता मौक्तिकम्, प्रवालं हेमकन्दलः, मरकतमणिरश्मगर्भः; एतेषां राशयः समूहा येषु तैः । चामीकरेति । चामीकरचूर्णं पर्वतादौ 'चूकी' इति प्रसिद्धं तदेव सिक्तानिकरो वालुकासमूहस्तेन - पाठा० - १ अन्यस्मिन्. २ को वायम्. ३ वा. ४ अग्रस्थितम्. ५ श्रवणतत्परान्. ६ शनैः. ७ कुतूहलम्. ८ अस्ति किल. ९ निवासोचिता महा. १० कारणेन. ११ नाथेनापरेव. १२ शङ्कया च जल. १३ गम्भीरेण. १४ जलपरिखा. १५ प्रीत्या च गगन. १६ गगनतलोल्लेखि. १७ गिरिणा सुधा. १८ परिगता. १९ वालुका. २० रचितैः. उज्जयिनी पूर्वभागः । 1109) Page #123 -------------------------------------------------------------------------- ________________ भिरगस्त्यपरिपीतसलिलैः सागरैरिव महाविपणिपथैरुपशोभिता, सुरासुरसिद्धगन्धर्वविद्याधरोरगाध्यासिताभिश्चित्रशालाभिरविरतोत्सवप्रमदावलोकनकुतूहलादम्बरतलादवतीर्णाभिर्दिव्यविमानपङ्क्तिभिरिवालंकृता, मथनोद्धतदुग्धधवलितमन्दरद्युतिभिः कनकमयामलकलशशिखरैरनिलदोलायितसितध्वजैरुपरिपतदभ्रगङ्गरिव तुषारगिरिशिखरैरमरमन्दिरैर्विराजितश्रृङ्गाटका, सुधावेदिकोपशोभितोदपानैरनवरतचलितजलघटीयन्त्रसिच्यमानहरितोपवनान्धकारैः केतकीधूलिधूसरैरुपशल्यकैरुपशोभिता, मदमुखरमधुकरकुलान्धकारितनिष्कुटा, स्फुरदुपवनलताकुसुमपरिमलसुरभिसमीरणा, रणितसौभायघण्टेरालोहितांशुकपताकैराबद्धर - *********** निचितैया॑प्तैः । आयेति । आयामो विस्तारो विद्यते येषु तैः । अगस्त्येति । अगस्त्यो घटोद्भवस्तेन परिपीतं सलिलं जलं येषां तैः सागरैरिव समुद्रैरिव । महेति । महत्यतिदीर्घा या विपणिः पण्यवीथिका तस्या ये पन्थानो मार्गास्तैरुपशोभिता विराजमाना । 'ऋक्-' इति सूत्रेण परयोऽकारान्तत्वम् । सुरेति । सुरा देवाः, असुरा दानवाः, सिद्धा विद्यासिद्धाः, गन्धर्वा देवगायनाः, विद्याधरा व्योमचारिणः, उरगा नागाः एतैरध्यासिताभिराश्रिताभिश्चित्रोपलक्षितशालाभिरलंकृता भूषिता । काभिरिव । दिव्यविमानपङ्क्तिभिरिव देवयानश्रेणिभिरिव । तस्याः कथमत्रागम इत्यारेकायामाह - अविरतेति । अविरतं निरन्तरं य उत्सवो महस्तस्मिन्याः प्रमदा योषितस्तासा यदवलोकनं निरीक्षणं तदेव यत्कुतूहलमाश्चर्यं तस्मादिति हेत्वर्थे पञ्चमी । अम्बरतलादाकाशादवतीर्णाभिरुत्तीर्णाभिः । आगताभिरिति यावत् । अमरेति । अमरमन्दिराणि देवप्रासादास्तैर्विराजितानि शोभमानानि श्रृङ्गाटकानि त्रिमार्गाश्लेषरूपाणि यस्यां सा तया । 'त्रिमार्गाश्लेषः श्रृङ्गाटः' इति कोशः । कैरिव । तुषारगिरिर्हिमाद्रिस्तस्य शिखरैः सानुभिरिव । देवगृह-गिरिशिखरयोः साम्यं प्रदर्शयन्नाहमथनेति । मथनं विलोडनं तत्रोद्धतः कृतप्रयत्नो दुग्धेन पयसा धवलितो धवलीकृतो यो मन्दरो मेरुस्तद्वद्युतिः कान्तिर्येषां तैः । कनकेति । कनकमयाः स्वर्णमया अमला निर्मला ये कलशा लघुकुम्भास्त एव शिखराण्यग्राणि येषां ते तथा तैः, पक्षे कलशवच्छिखराणि येषामिति विग्रहः । अनिलेति । अनिलैर्वायुभिर्दोलायिताः प्रेखावदाचरिताः सितध्वजाः श्वेतवैजयन्तो येषु तैः ।.कैखि । उपरिपतदभ्रगङ्गैरिवोपरिष्टात्पतन्ती सवन्त्यभ्रगङ्गा स्वधुनी येषु तैरिव । सुधेति । सुधा प्रागेव व्याख्याता तयोपलक्षिता या वेदिका पीठबन्धस्तयोपशोभिताः शोभा प्रापिता उदपानाः कूपा येषु तैः । 'कूपः स्यादुदपानोऽन्धुः इति कोशः । अनवरतेति । अनवरत निरन्तर चलितं भ्रामितं यज्जलघटीयन्त्रमरघट्टस्तेन । कारणेन कार्योपचारात् । सिच्यमानानि प्रोक्ष्यमाणानि यानि हरितानि नीलान्युपवनान्येवान्धकाराणि येषु तैः । केतकीति । केतक्या मालत्या या धूलिः परागस्तेन धूसरैर्मलिनैरेवंभूतैरुपशल्यैामसीमाभिः उपशोभिता विभूषिता । ‘ग्रामसीमा तूपशल्यम्' इति कोशः । मदेति । मदेन मधुपानेन मुखराणि वाचालानि यानि मधुकरकुलानि भ्रमरसमूहाः तैरन्धकारिता जनितान्धकारा निष्कुटा गृहारामा यस्यां सा । अनेनारामाणां शोभातिशयः सूचितः । स्फुरेति । स्फुरन्त्य उल्लसन्त्यो या उपवनलता उपवनव्रतत्यस्तासां कुसुमानि सुमनसस्तेषां परिमलेनामोदेन सुरभिर्घाणतर्पणः समीरणो वायुर्यस्यां सा । पुनः प्रकारान्तरेण नगरी विशिनष्टि - सदनेति । सदनस्य गृहस्य यष्टयः प्रसिद्धास्तासु स्थिताः केतवो वैजय - - - - - - - - - - - - - - - - - - -- - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 चतुष्पथानि ('चौराहे हिन्दी) । 2 कण्टकयुक्तवृक्षविशेषः केतका, यो हि सीमान्तभागे आरोप्यते । मालती तु 'जातिः, न सा कण्टकिनी, नापि वा सीमनि रोप्यते । न च तस्यां परागधूलिर्भवति । 3 'मदनयष्टिकेतुभिः' इत्येव पाठः । तद्व्याख्या तु-मदनवृक्षनिर्मितकन्दर्पध्वजैः प्रकाशिता सूचिता मकरध्वजस्य कामस्य पूजा यस्यां सा, कामपूजायां तादृशध्वजोच्छ्रयणस्य शास्त्रोक्तत्वात् । पाठा० - १ अनवरत. २ उत्सवावलोकन. ३ मन्थन. ४ दुग्धसिन्धुधवल. ५ विभूषिता. ६ मधुकरपटलान्धकारित. (1101 कादम्बरी । । कथामुखे Page #124 -------------------------------------------------------------------------- ________________ क्तचामरैर्विद्रुममयैः प्रतिगृहमुच्छ्रितैर्मकराकैः सदनयष्टिकेतुभिः प्रकाशितमकरध्वजपूजा, सतत प्रवृत्ताध्ययनध्वनिधौतकल्मषा, स्तिमितमुरजरवगम्भीरगर्जितेषु सलिलसीकरासारस्तंबकरचितदुर्दिनेषु पर्यस्तरविकिरणरचितसुरचापचारुषु धारागृहेषु मत्तमयूरैर्मण्डलीकृतशिखण्डैस्ताण्डवव्यसनिभिराबध्यमानकेकाकोलाहला, विकचकुवलयकान्तैरुत्फुल्लकुमुदधवलोदरैरनिमिषदर्शनरमणीयैराखण्डललोचनैरिव सहससंख्यैरुद्भासिता सरोभिः, अविरलकदलीव - *********** त्यस्तैः प्रकाशिता प्रकटीकृता मकरध्वजस्य कंदर्पस्य पूजार्चा यस्यां सा । अथ च सदनयष्टिमदनयष्टयोः साम्यं प्रदर्शनाह - रणितेति । रणिताः रणरणशब्दं कुर्वाणाः सौभाग्यघण्टाः सुभगताहेतोयस्ता घण्टाबृहत्किङ्किण्यो येषु तैः । आलोहीति । आलोहितं रक्तमंशुक तस्य पताका वैजयन्त्यो येषु तैः । आबद्धेति । आबद्धानि बद्धानि रक्तचामराणि लोहितवालव्यजनानि येषु तैः । विद्रुमेति । विद्रुममयैः विद्रुमं प्रवालं प्रचुरं येषु तैः । प्रतिगृहं प्रतिसद्मोच्छ्रितैरूर्वीकृतैः । मकरो मत्स्यस्तस्याङ्कश्चिद्रं येषु तैः । एवंप्रकारेणैव वसन्ते कामपूजा जनैः क्रियत इति तदुत्प्रेक्षा । सततमिति । सततं निरन्तरं प्रवृत्तः प्रसृतोऽध्ययनस्य शास्त्रपाठस्य ध्वनिः शब्दस्तेन धौत क्षालितं कल्मषं पातकं यस्यां सा । पुनः प्रकारान्तरेण नगरी विशिनष्टि - धारेति । धारागृहेषु यन्त्रगृहेषु मत्तमयूरैरुन्मदकलापिभिराबध्य या क्रियमाणः केका मयरस्य वाण्यस्तासां कोलाहलः कलकलो यस्याम । यन्त्रगृहाणां जलधरसादृश्यं विशेषमुखेन दर्शयन्नाह - स्तिमितेति । स्तिमितो निश्चलो यो मुरजस्य मृदङ्गस्य रवः शब्दः स एव गम्भीरं गर्जितं स्तनितं येषु । सलिलेति । सलिलस्य जलस्य सीकरा वातास्तवारिविप्रुषस्तेषामासारो वेगवर्षो येष्वेवंविधाः स्तबका गुच्छकास्तै रचितं प्रारब्धं दुर्दिनं येषु ते तथा तेषु । आसारस्य स्तबका समासो वा । पर्यस्तेति । पर्यस्ता निपतिता ये रविकिरणाः सूर्यरश्मयस्तै रचितं, विहितं यत्सुरचन्द्रधनुस्तेन चारुषु मनोहरेषु । रविकिरणानां द्रव्यान्तरसंयोगेन विविधवर्णत्वोपपत्तेरुत्प्रेक्षा । अथ मयूरान्विशिनष्टि - मण्डलेति । मण्डलीकृता वर्तुलीकृताः शिखण्डा बर्हाणि यैः । नृत्यप्रारम्भे मयूरकलापो मण्डलाकृतिः स्यादिति सर्वप्रसिद्धिः । अत एव ताण्डवव्यसनिभिनृत्यरसिकैः । पुनः कीदृशी । सरोभिस्तटाकैउद्भासिता उपशोभिता । अथ च सरोविशेषणानि - विकचेति । विकचानि विकस्वराणि कुवलयान्युत्पलानि तैः कान्तैर्मनोहरैः । उत्फुल्लेति । उत्फुल्लानि विनिद्राणि यानि कुमुदानि कमलानि तद्वद्धवलं शुभ्रमुदरं मध्यभागो येषां तैः । कैरिव । सहससंख्यैराखण्डलस्येन्द्रस्य लोचनैरिव । अथोभौ विशेषयन्नाह - अनिमिषेति । अनिमिषा मत्स्यास्तेषां दर्शन विलोकनं तेन रमणीयैर्मनोहरैः । पक्षेऽनिमिषं पक्ष्मपातरहितं यद्दर्शनमीक्षणं तेन रमणीयैः मनोहरैः । गृहवर्णनद्वारा तां पुनर्विशिनष्टि . दिशीति । दिशि दिशि प्रतिदिशं दन्तवलभिकाभिर्गजदन्तनिर्मितच्छदिभिराधारभूताभिर्धवलीकृता । अथ वलभीविशेषणानि - अविरलेति । अविरलानि निबिडानि यानि कदलीवनानि रम्भावनानि तैः कलिताभिः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०-1 पर्यस्तैः काचकपाटादिषु निपतितै रविकिरणैर्नानावर्णशालिनः सुरपतिधनुषः संसिद्धिः स्वाभाविक्येव, न तत्र संभावनेति नोटप्रेक्षा । किन्तु समग्रे वाक्यार्थे-अन्योन्याश्लिष्टकेकाकोलाहलेन मयूराणां मुरजरवादौ मेघगर्जनादिभ्रान्तिः प्रतीयत इति वस्तुना भ्रान्तिमदलंकारध्वनिः । 2 अत्र आखण्डलोचनैः सह सरसां साम्यात्पूर्णोपमा । तेन सर्वाणि विशेषणान्युभयसंबद्धानि । ततश्च - विकचकुवलयवत्कान्तैः (इति लोचनपक्षे), उत्फुल्लैःकुमुदैर्धवलानि मध्यस्थलानि येषां तैः (इति सरःपक्षे) व्याख्यानमप्यत्र योजनीयम् । 3 अविरलं यत्कदलीवनं पताकासमूहस्तेन कलिताभिः फेनपुञ्जपाण्डुराभिः दन्तवलभिकाभिः उपरितलगतलघुगृहैः ('अटारी हिन्दी) 'शुद्धान्ते वलभी चन्द्रशाले सौधो वेश्मनि' इति रभसः । 'यस्यामसेवन्त नमवलीकाः समं वधूभिर्वलभीर्युवानः इति माघश्च । कदली पताका । कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति विश्वः । पाटा०- १ प्रतिभवनम्. २ मकराङ्कितैः. ३ मदन. ४ आसाररचित. ५ पर्यन्त. ६ दिवसकरकिरणस्तबकरचित. ७ चारुधारा ८ मयुरमण्डलैरामण्डलीकृत. ९ केकारव. १० कमल. उज्जयिनी । पूर्वभागः । Page #125 -------------------------------------------------------------------------- ________________ नकलिताभिरमृतफेनपुञ्जपाण्डुराभिर्दिशि दिशि दन्तवलभिकाभिर्धवलीकृता, यौवनमदमत्तमालवीकुचकलशलुलितसलिलया भगवतो महाकालस्य शिरसि सुरसरितमालोक्योपजातेय॑येव सततसमाबद्धतरंगभृकुटिलेखया खमिव क्षालयन्त्या सिप्रया परिक्षिप्ता, सकलभुवनख्यातयशसा हरजटाचन्द्रेणेव कोटिसारेण मैनाकेनेवाविदितपक्षपातेन मन्दाकिनीप्रवाहेणेव प्रकटितकनकपद्मराशिना स्मृतिशास्त्रेणेव सभावसथकूपप्रपारामसुरसँदनसेतुयन्त्रप्रवर्तकेन मन्द *********** अमृतेति । अमृतस्य पीयूषस्य यः फेनपुञ्जो डिण्डीरपिण्डस्तद्वत्पाण्डुराभिः शुभ्राभिः । सिप्रावर्णनद्वारा नगरी वर्णयन्नाह - यौवनेति । यौवनमतेन तारुण्याभिमानेन मत्ता उच्छृङ्खला या मालव्यो मालवदेशोद्भवाः स्त्रियस्तासां कुचा एव कलशास्तैलुलितमान्दोलितं सलिलं यस्याः सा तया । भगवत इति । भगवतो महाकालस्य महाकालाभिधानस्येवरस्य शिरसि मस्तके सुरसरितं गङ्गामालोक्य निरीक्ष्य सततं निरन्तरं समाबद्धा सम्यक्प्रकारेणाबद्धा बन्धं प्रापिता ये तरंगाः कल्लोलास्त एव भृकुटिपङ्क्तिर्यया सा तथोपजातेययेवोत्पन्नासूययेव । एतेन सपत्नीदर्शनेन भृकुटिविकारो दर्शितः । खमिति । खमाकाशं क्षालयन्त्येव निर्मलं कुर्वत्येवंविधया सिप्रया सिप्रानद्या परिक्षिप्ता परिवेष्टिता । इभ्यजनवर्णनद्वारा नगरी विशेषयन्नाह-विलासिजनेनाधिष्ठितेति दूरेणान्वयः । तत्र विलासिनीनां जनो, विलासी यो जन इत्येवं समासभेदेन द्वयोर्ग्रहणम् । अथ विलासिजनविशेषणानिकीदृशेनेव विलासिजनेन । हरजटाचन्द्रेणेवेश्वरजटास्थनिशानाथेनेव । उभयं विशिनष्टि - सकलेति । सकलं समग्रं यद्भुवन विश्वं तत्र ख्यातं प्रसिद्धं यशः कीर्तिर्येषां ते तथा । पक्षे यशः कान्तिर्यस्येति विग्रहः । कोटीति । कोटिः संख्याविशेषस्तावत्प्रमाणं सारं द्रव्यं येषां ते तथा । 'सारो द्रव्यं बलं सारम्' इत्यनेकार्थः । पक्षे कोटिरग्रभागस्तेन सारः प्रधानः । पनः केनेव । मैनाकेनेव हिमाचलात्मजेनेव । उभयं विशिनष्टि - अविदितेति । अविदितोऽननभतः पक्षयोः पातश्छेदो स तथा तेन । इन्द्रेण सर्वेषां भूभृतां पक्षच्छेदो विहितः; परं मैनाकस्य न कृत इति प्रसिद्धिः । पक्षेऽविदितोऽज्ञातः पक्षपातोऽसदङ्गीकारो येन । मन्दाकिनीति । मन्दाकिनी गङ्गा तस्यां प्रवाहो रयस्तेनेव । उभयं विशेषयन्नाह - प्रकटितेति । प्रकटिता प्रकाशिता कनकस्य सुवर्णस्य । पद्मेति । पदैकदेशे पदसमुदायोपचारात्पद्मरागमणीनां राशयः समूहा येन स तथा तेन । पक्षे कनकपद्मानां राशयः कमलसमूहाः । स्मृतीति । स्मृतिर्धर्मसंहिता तल्लक्षणेन शास्त्रेणेव । उभयं विशिनष्टि - सभेति । सभा संसदावसथं छात्रव्रतिनां वेश्म सामान्यतो गृहं वा, कूप उदपानः, प्रपा पानीयशाला, आरामः कृत्रिमं वनम्, सुरसदनं देवगृहम्, सेतुः पालिः, यन्त्रोऽरघट्टकादिगृहायाश्रमस्थत्वात् एतेषां प्रवर्तकेन प्रयोजकेन । पक्षे धर्मजनकत्वात्तद्वि - - - - - - - - - - - टिप्प०.-1 'उपजातेययेव आबद्धतरंगभ्रकुटिलेखया' इति क्रमेण व्याख्यानमुचितम्, सेर्ण्यत्वे एव भ्रकुटिबन्धौचित्यात् । अत्र कार्येण (भ्रकुटिबन्धेन) शिप्राया सपत्नीव्यवहारसमारोपात् रूपकगर्भा समासोक्तिः, 'समुपजातेययेव"खमिव क्षालयन्त्या' इत्युप्रेक्षाद्वयेन अङ्गभूतेन संकीर्यते । 2 स्वर्गङ्गा इत्यर्थः, तस्यामेव कनककमलसद्भावात् । 3 वस्तुतस्तु - प्रकटितः कनकानां सुवर्णानां पद्मराशिः 'पद्म' संख्यकपुञ्जो येन । कोटि-अर्बुदवत् 'पद्म' इति संख्या । एतेन अप्रकटः (गुप्तः) धनराशिस्तु विलासिजनस्य न जाने कियान् स्यादिति व्यङ्ग्यम् । पाठ० - १ कदलिताभिः. २ दिशि दन्त. ३ क्षुभित. ४ आलोक्यमुपजात. ५ समुपजातेया. ६ समाबद्धभृकुटि; आबद्धतरंगभृकुटी. ७ निखिलभुवनतल. ८ सदने. (112 कादम्बरी । कथामुखे Page #126 -------------------------------------------------------------------------- ________________ रेणेवोद्धृतसमग्रसागररत्नसारेण संगृहीतगारुडेनापि भुजंगभीरुणा खलोपजीविनापि प्रणयिजनोपजीव्यमानविभवेन वीरेणापि विनयवता प्रियंवदेनापि सत्यवादिनाभिरूपेणापि स्वदारसंतुष्टेनातिथिजनाभ्यागमार्थिनापि परप्रार्थनानभिज्ञेन कामार्थपरेणापि धर्मप्रधानेन महासत्त्वेनापि परलोकभीरुणा सकलविज्ञानविशेषविदा वेदान्येन देक्षेण स्मितपूर्वाभिभाषिणा परिहासपेशलेनोज्ज्वलवेषेण शिक्षिताशेषदेशभाषेण वक्रोक्तिनिपुणेनाख्यायिकाख्यानपरिचयचतु - *********** धायकेनेत्यर्थः । मन्दरेति । मन्दरो मेरुस्तेनेव । तदुभयं विशिनष्टि - उद्धृतेति । उर्ध्वं धृतानि समग्राण्यखिलानि सागरवत्समुद्रवद्रत्नेषु साराणि मुख्यरत्नानि येन । पक्ष उद्धृतानि बहिर्नीतानि समग्राणि सागरात्समुद्राद्रत्नसाराणि चतुर्दशरत्नानि येन । संगृहीतेनेति । संगृहीत गारुडं रत्नं गारुडशास्त्रं वा येनैवंभूतेनापि भुजंगभीरुणेति विरोधः । तत्परिहारस्तु भुजंगो गणिकापतिधूर्ती वेत्यर्थात् । खलेति । खलं दुर्जनमुपजीवतीत्येवंशीलेनापि प्रणयिजनेन सज्जनजनेनोपजीव्यमानो भोग्यमानो विभवो यस्येति विरोधः । तत्परिहारस्तु खलं नवीनधान्यस्थापनस्थलमित्यर्थात्तदुपजीविना तदाश्रयेणाजीविकां कुर्वाणेत्यर्थः । वीरेति । वीरेणापि सुभटेनापि विनयवता नमनशीलेनेति विरोधः । तत्परिहारस्तु वीरेण विराजमानेनेत्यर्थात् । प्रियमिति । प्रियमेव वदतीति प्रियंवदस्तेनैवंभूतेनापि सत्यवादिनेति विरोधः । तत्परिहारस्तु प्रियो वल्लभो वदो वक्ता यस्येत्यर्थात् । 'अनुस्वारः श्लेषभङ्गकृन्न भवति' इति प्राञ्चः । अभीति । अभिरूपेणाप्यतिसुन्दरेणापि स्वस्य दाराः स्त्रियस्तेष्वेव (स्त्री तस्या) संतुष्टेन संतोषिणेति विरोधः । तत्परिहारस्त्वभिरूपेण पण्डितेनेत्यर्थात् । 'कृतिकृष्ट्यभिरूपधीराः' इति कोशः । अतिथीति । अतिथिजनोऽभ्यागतजनस्तस्याभ्यागम आगमनं तदर्थिनापि परेषु यत्प्रार्थनं याचनं तत्रानभिज्ञेनाकुशलेनेति विरोधः । तत्परिहारस्तु साधुर्जनाभ्यागमस्यार्थिना वाञ्छकेनेत्यर्थात् । कामेति । कामः स्त्रीषु रति, अर्थो द्रव्यम् तत्परेण तदासक्तेनापि धर्मप्रधानेनेति विरोधः । तत्परिहारस्तु कामो वाञ्छितो योऽर्थः पदार्थस्तत्परेण तत्साधकेनेत्यर्थात् । महेति । महासत्त्वेनापि महासत्त्ववतापि परे शत्रवस्तेषां लोकः समूहस्तस्माद् भीरुणा साशकेनेति विरोधः । तत्परिहास्तु परलोको भवान्तरमित्यर्थात् । सकलेति । सकल समग्रं यद्विज्ञानं शिल्पादि तस्य यो विशेषस्तारतम्यं तद्विदा तद्बत्रा । वदान्येन दानतत्परेण प्रियंवदेन च । 'प्रियंवदो दानशीलः स वदान्यः' इति कोशः । दक्षेण चतुरेण । स्मितेति । अदृष्टरदं हास्यं स्मितं तत्पूर्वं यथा स्यात्तथाभिभाषिणा जल्पकेन । परीति । परिहासो नर्मवचस्तेन पेशलेन सुन्दरेण । 'पेशलं हृद्य सुन्दरम्' इति कोशः । उज्ज्वलेति । उज्जवलो निर्मलो वेषो नेपथ्यं यस्य स तेन । शिक्षितेति । शिक्षिताभ्यस्ताशेषाणां समग्राणां देशानां जनपदानां भाषा वाग्येन स तथा तेन । वक्रोक्तीति । वक्रोक्तिः कुटिला वचनपद्धतिस्तत्र निपुणेन दक्षेण । आख्यायीति । 'आख्यायिका पुरावृत्तमाख्यानं सांप्रतं च तत्' इति कोशः । तत्र यः परिचयः संस्तवस्तत्र - टिप्प० - 1 उद्धृतं धनद्वारा संगृहीतं समस्तसागररत्नानां सारमुत्कृष्टांशो येन (विलासि०), इति तु सरलीकरणं व्याख्यायाः । 2 वीरेणापि विनयवता शिक्षावतेति परिहार उचितः । 3 प्रियंवदत्वेपि मितभाषित्वात्परिहारः सरलः । 4 अभि अभिमतं रूपं यस्य तेन (रूपपक्षपातिना) । रुपैकपक्षपातिनः कुरूपभार्यत्वे सति सुरूपाऽन्यस्त्रीगामितया स्वदारसंतुष्टत्वं विरुद्धमिति व्याख्यान संभाव्यते । 5 अतिथयोपि परे एवेति विरोधः, परेषु अर्थप्रार्थनाऽनभिज्ञेनेति तत्परिहारः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ उद्धतसमस्त. २ भुजंग; भुजंगसङ्ग. ३ सकलोपजीविना; कलोपजीविना. ४ विज्ञानविदा. ५ विद्यावदातेन दानशीलेनादीनेन. ६ दक्षिणेन. उज्जयिनी पूर्वभागः । 113) Page #127 -------------------------------------------------------------------------- ________________ रेण सर्वलिपिज्ञेन महाभारतपुराणरामायणानुरागिणा बृहत्कथाकुशलेन द्यूतादिकलाकलापपारगेण श्रुतरागिणा सुभाषितव्यसनिना प्रशान्तेन सुरभिमासमारुतेनेव सततदक्षिणेन हिमगिरिकाननेनेवान्तःसरलेन लक्ष्मणेनेव रामाराधनानिपुणेन शत्रुघ्नेनेवाविष्कृतभरतपरिचयेन दिवसेनेव मित्रानुवर्तिना बौद्धेनेव सर्वास्तिवादशूरेण सांख्यागमेनेव प्रधानपुरुषोपेतेन जिनधर्मेणेव जीवानुकम्पिना विलासिजनेनाधिष्ठता, सशैलेव प्रासादैः, संशाखानगरेव महा - *********** चतुरेणाभिज्ञेन । सर्वेति । सर्वाः समग्रा या लिपयोऽक्षरविन्यासास्तासां ज्ञेन तज्ज्ञानवता । महेति । महाभारत प्रसिद्धम्, पुराणं पञ्चलक्षण, रामायणं रामचरित्रम्, तत्रानुरागिणा कृतस्नेहेन । बृहदिति । बृहत्कथा वासिष्ठादिकथा तत्र कुशलेन तद्रहस्यवेदिना । द्यूतादीति । द्यूतादयो दुरोदरप्रभृतयो याः कला विज्ञानैकदेशास्तासां कलापः समूहस्तस्य पारगेण पारदृश्वना । श्रुतं शास्त्रमात्र तत्र रागिणाभ्यन्तरप्रीतिमता । सुभाषितेति । सुभाषितानि नाटकादीनि तत्र व्यसनिनासक्तचित्तेन प्रशान्तेन क्रोधनिर्मुक्तेन । केनेव । सुरभीति । सुरभिमासो वसन्तमासस्तस्य मारुतो वायुस्तेनेव । सततेति । सततं निरन्तरं दक्षिणा त्यागो यस्य स तथा तेन । पक्षे सततं दक्षिणेन दक्षिणादिग्गामिना । हिमेति । हिमगिरिस्तुहिनाचलस्तस्य काननं वनं तेनेव । अन्तरिति । अन्तर्मध्ये सरलेनाकुटिलेन । पक्षे सरला वृक्षविशेषाः । लक्ष्मणेति । लक्ष्मणः सौमित्रिस्तेनेव । रामेति । रामस्य दाशरथेर्यदाराधनं समुपासनं तत्र निपुणेन कुशलेन । पक्षे रामाणां स्त्रीणामाराधनं सेवनम् । शत्रुघ्नेति । शत्रुघ्नो रामानुजस्तेनेवाविष्कृतः प्रकटीकृतो भरते नाट्यशास्त्रे परिचयः परिचितिर्येन स तथा । पक्षे भरतः शत्रुघ्नभ्राता । दिवसेनेव वासरेणेव । मित्रमिति । मित्रं सुहृत्तदनुवर्तिना तच्चित्ताराधकेनेत्यर्थः । पक्षे मित्रः सूर्यस्तदनुवर्तिना तदायत्तेनेत्यर्थः । बौद्धेति । बौद्धः सुगतस्तेनेव । सर्वेति । सर्वस्य वस्तुनो योऽस्तिवादः सर्वमस्तीति ज़ल्पनं तत्र शूरेण धीरेण । कदाचिदपि नास्तीति न ब्रुवतेति भावः । पक्षे सर्वास्तिवादो बौद्धानां निकायभेदः स च शूरो यस्मिन् । अतः पर सिद्धान्ताभावात् । यद्वा सर्वेषां पदार्थानां सर्ववादिनां वा योऽस्तिवादोऽक्षणिकवादस्तत्र शूरेण तदवक्षेपकेण । सांख्येति । सांख्याः कापिलास्तेषामागमः सिद्धान्तस्तेनेव । प्रधानेति । प्रधाना मुख्या ये पुरुषाः पुमांसस्तैरुपेतेन सहितेन । पक्षे प्रधान सत्त्वादीनां साम्यावस्था, पुरुषश्चेतनारूप आत्मा । यदुक्तम् - 'अजामेकां लोहितशुक्लकृष्णाम्' 'अजो ह्येकः' इत्यादि । प्रधानश्चासौ पुरुषश्च तेनोपेतेन । जिनेति । जिनः सर्वज्ञस्तस्य धर्मो वृषस्तेनव । जीवेति । जीवे प्राणिन्यनुकम्पा यस्येत्यभङ्गश्लेषः । पुनः प्रकारान्तरेण नगरी वर्णयन्नाह - सशैलेति । सशैलेव सपर्वतेव । कैः । प्रासादैर्देवभूपसदनैः । अतिमहत्त्वाच्छैलसाम्यम् । सशाखेति । शाखानगरमुपपुरं तेन सह वर्तमानेव । - - - - - - - - - - - - - - - - - - - - टिप्प० -1 गुणाढ्यकृतः प्राकृतग्रन्थ इत्पपि व्याख्या प्राप्यते । 2 सततं दक्षिणः उदारचरितस्तेनेति सरलोऽर्थः । 3 सर्वेषां भूतभौतिकाना वाह्याना चित्तचैतानाञ्चाभ्यन्तराणा पदार्थानाम् अस्तिवादे अस्तित्वभाषणे शूरेण, तदस्तित्वस्य युक्त्यादिना समर्थनानितान्तदक्षेण । तथा च शारीरकभाष्यम्'बौद्धसिद्धान्ते एते त्रयो वादिनो भवन्ति । केचित् सर्वास्तित्ववादिनः, केचिद्विज्ञानास्तित्वमात्रवादिनः, अन्ये पुनः सर्वशून्यत्ववादिनः । तत्र ये सर्वास्तित्ववादिनो बाह्यमाभ्यन्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिक चित्तं चैत्तं चेति तांस्तावत् प्रति ब्रूमः । 4 इदं विशेषणमुभयत्रापि सममित्यर्थः । पाठा० - १ सर्वदा नास्तिबादशूरेण; सर्वास्तिवादशून्येन. २ पुरुषगुणोपेतेन विलासि. ३ सर्वजीवानुकम्पिना; सर्वभूतानुकम्पिना. ४ सशाखेव. कादम्बरी। कथायाम Page #128 -------------------------------------------------------------------------- ________________ भवनैः, सकल्पवृक्षेव सत्पुरुषैः, दर्शितविश्वरूपेव चित्रभित्तिभिः, संध्येव पद्मरोगानुरागिणी, अमराधिपमूर्तिरिव मखशतानलधूमपूता, पशुपतिलास्यक्रीडेव सुधाधवलाट्टहासा, वृद्धेव जातरूपक्षया, गरुडमूर्तिरिवाच्युतस्थितिरमणीया, प्रभातवेलेव प्रबुद्धसर्वलोका, शबरवसतिरिवार्बलम्बितचामैरनागदन्तधवलगृहा, शेषतनुरिव सदासन्नवसुधाधरा, जलधिमथनवेलेव महाघोषपूरितदिगन्तरा, प्रस्तुताभिषेकभूमिरिव संनिहितकॅनकघटकसहसा, गौरीव महासिंहासनोचितमूर्तिः, अदितिरिव देवकुलसहससेव्या, महावराहलीलेव दर्शितहि - *********** 1 कैः महाभवनैरुत्तुङ्गगृहैः सद्मनामतिदैर्घ्येण शाखापुरोपमानम् । सकल्पेति । सह कल्पवृक्षेण पारिजातेन वर्तमानेव । कैः । सत्पुरुषैर्महापुरुषैः । दातृत्वातिशयसाम्यात्कल्पवृक्षसाम्यम् । दर्शितेति । दर्शितानि प्रकाशितानि विश्वरूपाणि समग्ररूपाणि यया सेव । काभिः । चित्रभित्तिभिरालेख्यसहितकुड्यैः । चित्रस्य सकलबस्तुप्रकटनसामर्थ्यात्तदुत्प्रेक्षा । संध्येव पितृप्रसूरिव । पद्मेति । पद्मरागो मणिस्तस्यानुरागो रक्तिमा यस्यां सा । अनेन रत्नबाहुल्यं दर्शितम् । पक्षे पद्मरागवदनुरागो यस्यामिति विग्रहः । अमरेति । अमराधिपः शतमखस्तस्य मूर्तिरिव मखानां शतं तस्य योऽनलो वह्निनस्तस्य यो धूमो दहनकेतनस्तेन पूता पवित्रा । एतेन याज्ञिकानां बाहुल्यमाविष्कृतम् । क्षे मखशतं शताश्चमेधाः । शेषं पूर्ववत् । पश्चिति । पशुपतिरीश्वरस्तस्य लास्यक्रीडेव । नृत्यक्रीडेव । सुधेति । सुधा गृहधवलीकरणद्रव्यं तेन धवला विपर्णय एव अट्टहासो हास्यं यस्यां सा । पक्षे सुधामृतं तद्बद्धवलः शुभ्रोऽट्टहासो महाहासो यस्यामिति विग्रहः । वृद्धेव स्थविरेव । जातेति । जातरूपस्य सुवर्णस्य क्षया गृहाणि यस्यां सा । 'वसतिः शरणं क्षयः' इति कोशः । पक्षे जातो रूपस्य क्षयो नाशो यस्यामिति विग्रहः । गरुडेति । गरुडो गरुत्मांस्तस्य मूर्तिरिव । अच्युतेति । न च्युताच्युता सर्वदा स्थिरा य स्थितिर्मर्यादा तया रमणीया मनोहारिणी । पक्षेऽच्युतस्य कृष्णस्य या स्थितिरवस्थानं तेन रमणीया । प्रभातेति । प्रभातं प्रत्यूषस्तस्य बेलाम्भसो वृद्धिः (?) सेव । प्रबुद्धेति । प्रबुद्धा विशेषाभिज्ञाः सर्वलोकाः समग्रजना यस्यां सा । पक्षे प्रबुद्धाः सुप्तोत्थिताः । शेषं पूर्ववत् । शबरेति । शबरा भिल्लास्तेषां वसतिर्निवासस्थलं सेव । अवलेति । अवलम्बितान्यालम्बितानि चामराणि बालव्यजनानि येष्वेवंविधा नागदन्ता दन्तका येष्वेवंभूतानि धवलगृहाणि राजगृहाणि यस्यां सा । पक्षेऽवलम्बितानि चामराणि नागदन्ता गजदन्तास्तैर्धवलीकृतानि गृहाणि यस्यामिति विग्रहः । शेषतनुरिति । शेषो नागाधिपस्तस्य तनुरिव शरीरमिव । सदेति । सन्तः शोभना आसन्ना समीपस्था वसुधाधराः पर्वता यस्यां सा । पक्षे सदा सर्वकालमासन्नां समीपवर्तिनी वसुधां पृथ्वीं धारयति सा तथा । जलधीति । जलधिः समुद्रस्तस्य मथन आलो या वेला सेव । महेति । महाघोषा महत्य आभीरपल्लिकास्ताभिः । पूरितानि चितानि दिगन्तराणि यस्यां सा । 'घोषस्त्वाभीरपल्लिका' इति कोशः । पक्षे महाघोषो महारवः । शेषं पूर्ववत् । प्रस्त्विति । प्रस्तुतः प्रारब्धो योऽभिषेकोऽभिषिञ्चनं तस्य या भूमिः पृथ्वी सेव । संनिहितेति । संनिहिता समीपस्थाः कनकर्घटकाः सौवर्णिकास्तेषां सहस्रं यस्यां सा तथा । एतेन जनालंकारबाहुल्यं सूचितम् । पक्षे संनिहिता आसन्नवर्तिनः कनकघटकसहसाः सुवर्णकुम्भसहसा यस्यामिति विग्रहैः । गौरीवेति । गौरी पार्वती सेव । महेति । महासिंहासनं महासुवर्णासनं तत्रोचिता योग्या मूर्तिर्यस्या इति विग्रहः । अदीति । अदितिर्देवमाता सेव देवकुलानां देवगृहाणां सह सेव्यं यस्यां सा, देवकुलसहसैः सेव्या सेवनीया । देवमातृत्वात् । महावराहेति । महावराह आदिवराहस्तस्य लीला क्रीडा सेव । दर्शितेति । दर्शितो दृग्विषयीकारितो हिरण्यस्य 1 - टिप्पo - 1 सुधया धवलानाम् अट्टानामट्टालिकानां हासः प्रकाशो यस्यां सा, इत्यर्थः । 2 'कनकघटसहसा' इति पाठे तु अभिषेकभूमौ स्नानीयघटसहसम्, नगर्यां तु मङ्गलार्थं द्वारेषु स्थापितं घटसहसं बोध्यम् । 3 गौरीपक्षे महासिंहरूपे आसने उचितेत्यर्थः । पाठा० - १ रागारुणा. २ आलम्बित ३ चारुचामर. ४ जलनिधि. ५ भूमी; वेलेव. ६ सदासंनिहित. ७ घट; कलश. उज्जयिनी पूर्वभागः । 115 Page #129 -------------------------------------------------------------------------- ________________ रण्याक्षपाता, केद्रूरिवानन्दितभुजंगलोका, हरिवंशकथेवानेकबालक्रीडारमणीया, प्रकटाङ्गनोपभोगाप्यखण्डितचरित्रा, रक्तवर्णापि सुधाधवला, अवलम्बितमुक्ताकलापापि विहारभूषणा, बहुप्रकृतिरपि स्थिरा, विजितामरलोकद्युतिरवन्तीषूज्जयिनी नाम नगरी । यस्यामुत्तुङ्गसौधोत्सङ्गसंगीतसङ्गिनीनामङ्गनानामतिमधुरेण गीतरवैणाकृष्यमाणाधोमुखरथतुरंगः पुरः पर्यस्तरथपताकापटः कृतमहाकालप्रणाम इव प्रतिदिनं लक्ष्यते गच्छन्दिवसकरः । यस्यां च संध्यारागारुणा इव सिन्दूरमणिकुट्टिमेषु, प्रारब्धकमलिनीपरिमण्डला इव - *********** सुवर्णस्य येऽक्षाः पाशास्तेषां पातो यस्यां सा । पक्षे हिरण्यदैत्य॑स्याक्षाणामिन्द्रियाणां पातो नाशो यस्याम् । कद्रूरिति । कद्रूर्नागमाता सेव । आनन्दितेति । आनन्दितः प्रमोदं प्रापितो भुजंगलोको गणिकापतिजनो यस्यां सा । पक्षे भुजंगलोकः सर्पसमुदायः । हरिवंशेति । हरिवंशनाम्नो ग्रन्थस्य या कथा प्रबन्धः सेव । अनेकेति । अनेकेषां बालानां शिशूनां या क्रीडा खेलनं तया रमणीया मनोहरा | पक्षेऽनेका बह्वयो बालनाम्नो नृपस्य क्रीडोद्यानगमनादिरूपा तया मनोहरा चित्ताकर्षिणी । प्रकारान्तरेण पुनस्तामेव वर्णयन्नाह प्रकटेति । प्रकटं स्पष्टमङ्गनायाः स्त्रिय उपभोगो यस्यामेवंभूताप्यखण्डितचरित्रेति विरोधः । तत्परिहारस्तु प्रकटाङ्गनानामुपभोगस्ताम्बूलादिरित्यर्थादखण्डितं चरित्र लोकप्रशंसारूपस्यामित्यर्थाद्वा । रक्तेति । रक्तवर्णाप्यरुणवर्णापि सुधा पूर्वव्याख्यातवद्भवलेति विरोधः । तत्परिहारस्तु रक्ता अनुरक्ता वर्णा ब्राह्मणादयो यस्यामित्यर्थात् । अवेति । अवलम्बित आलम्बनीकृतो मुक्ताकलापो मुक्ताप्रालम्वो ययैवंभूतापि विगतस्त्रुटितो रतादौ यो हारः स एव भूषणमलंकृतिर्यस्यामिति विरोधः । तत्परिहारस्तु विहारा जैनप्रासादा इत्यर्थात् । ‘विहारो जिनसह्यनि’ इति कोशः । बह्विति । बह्वी प्रकृतिर्यस्यामेवंविधापि स्थिरेति विरोधः । तत्परिहारस्तु बह्वयः प्रकृतयः पौरलोकाः । विजीति । विशेषेण जिता अमरलोकस्य देवलोकस्य द्युतिः कान्तिर्यया सा । अवन्तीषु मालवेषु । अन्चयस्तु प्रागेवोक्तः । यस्यामिति । यस्याम् उज्जयिन्याम् । उत्तुङ्गेति । उत्तुङ्गमुच्चं सौधं धवलं गृहं तस्योत्सङ्ग उपरिप्रदेशस्तस्मिन्यत्संगीतं गीतनृत्यादि तत्र सङ्गिनीनां व्यासक्तानामङ्गनानां स्त्रीणामतिमधुरेणातिमिष्टेन गीतरवेण गानस्वरेणाकृष्यमाणा अधोमुखा अवाङ्मुखा रथस्य स्यन्दनस्य तुरंगा अश्वा यस्य सः । पुरोऽग्रे पर्यस्तः क्षिप्तो रथस्य पताकापटो वैजयन्तीपटो येनैवंभूतो गच्छन्न्रजन्दिवसकरः सूर्यः । आकृष्यमाणाधोमुखरथतुरगव्याजेन कृतो विहितो महाकालस्य ज्योतिर्लिङ्गात्मकशंकरस्य प्रणामो येनैवंभूत इव प्रतिदिनमहर्निशं लक्ष्यते दृश्यते । जनैरिति शेषः । यस्यां चेति । यस्यामुज्जयिन्यां रविगभस्तयः सूर्यकिरणाः । सिन्दूरेति । सिन्दूरमणयो मणिविशेषास्तेषां कुट्टिमेषु तदारुण्यप्रतिबिम्बात्संध्यारागेणारुणा इव । संलक्ष्यन्त इति क्रियायाः पूर्वतः परतो वा राजन्त इति क्रियायाः सर्वत्रानुषङ्गः । किरणेषु मरकतहरितप्रतिबिम्बादाह - प्रारब्धेति । प्रारब्धमाचरितं कमलिनीषु परिमण्डलं लुठनं यैस्ते तादृशा इव । मरकतवेदिकाखश्मगर्भघटित टिप० - 1 दर्शितो हिरण्याक्षस्य तदाख्यस्य दैत्यस्य पातो विनाशो यस्यामित्यर्थस्य हार्दम् । 2 विटजन इति सरलोऽर्थः । 3 यदुवंशीयानां बालानां नानाविधक्रीडाकथाभी रमणीयेति स्पष्टोऽर्थः । 4 दुश्चरित्रत्वेन लज्जासंकोचाद्य भावादभिव्यक्तः अङ्गनानामुपभोगो यस्यामेवं सत्वेपि अखण्डितचरित्रत्वं विरुद्वम् । परिहारस्तुप्रकटः सौरभोद्गारादिना अङ्गनानां ताम्बूलाद्युपभोग इति । 116 - पाटा० - १ आस्तीकतनुरिव २ उत्संगीतसंगिनीनाम्; उत्सङ्गसंगिनीनाम्. ३ कृष्यमाणा. ४ पुरपर्यस्त. ५ प्रतिदिवसम् ६ आलक्ष्यते ७ भगवान्दिवस. ८ नीलकमलिनी. ९ परिमलिनी; परिमिलना; परिमलना; परिमला; परिमीलना. कादम्बरी । कथायाम् Page #130 -------------------------------------------------------------------------- ________________ मरकतवेदिकासु, गंगनपर्यस्ता इव वैडूर्यमणिभूमिषु, तिमिरपटलविघटनोद्यता इव कृष्णागुरुधूममण्डलेषु, अभिभूततारकापङ्क्तय इव मुक्ताप्रालम्बेषु, विकचकमलचुम्बिन इव नितम्बिनीमुखेषु, प्रभातचन्द्रिकामध्यपतिता इव स्फटिकभित्तिप्रभासु, गगनसिन्धुतैरंगावलम्बिन इव सितपताकांशुकेषु, पल्लविता इव सूर्यकान्तोपलेषु, राहुमुखकुहरप्रविष्टा इवेन्द्रनीलवातायनविवरेषु विराजन्ते रविगभस्तयः । यस्यां चानुपजाततिमिरत्वादविघटितचक्रवाकमिथुना व्यर्थीकृतसुरतप्रदीपाः संजातम - *********** पीठिकासु वैडूर्यमणिनैर्मल्यप्रतिबिम्बादाह - गगनेति । अधःप्रसृता अपि नैल्यसाम्याद्गगन आकाशे पर्यस्ता विस्तीर्णा इव दृश्यन्ते । वैडूर्यमणयो बालवायजानि तेषां भूमिषु । तन्मणिबद्धस्थलीष्वित्यर्थः । किरणेषु धूमरुपप्रतिबिम्बादाह - तिमिरेति । तिमिरपटलस्य ध्वान्तसमूहस्य यद्विघटनं भेदनं तत्रोद्यता इव कृतप्रयत्ना इव । केषु । कृष्णागुरुः काकतुण्डस्तस्य धूमस्तेषां मण्डलेषु पटलेषु । मुक्तानां स्वच्छताविशेषसंक्रमादाह - अभिभूतेति । अभिभूतास्तारकत्वेनानिर्धार्यमाणास्तारकाणां नक्षत्राणां पङ्क्तयो लेखा यैस्तादृशा इव मुक्ताप्रालम्बेषु मुक्ताकलापेषु । मुखस्य विकचकमलसाम्यादाह - विकचेति । विकचानि विकस्वराणि यानि कमलानि तच्चुम्बिन इव नितम्बिनीमुखेषु प्रमदावदनेषु । अत्र सिन्दूरमरकतवैडूर्यधूमेषु तद्रूपविशेषातिशयो व्यज्यते । मुखेऽभङ्गुरगुणवत्त्वकमलापेक्षया कमलस्य भङ्गुरगुणवत्त्वात्स्फटिकरुपसंक्रमादाह - प्रभातेति । प्रभातस्य प्रत्यूषस्य या चन्द्रिका चन्द्रगोलिका तन्मध्यपतिता इव तदन्तःपातिन इव स्फटिकस्य चान्द्रोपलस्यभित्तयः कुड्यानि तासां प्रभासु कान्तिषु । उदये चन्द्रिकाया रक्तत्वात्, मध्ये च पाण्डुरत्वात्, प्रातस्तु स्फटिकसाम्यात्प्रभातपदम् । अत्रातिशयो व्यज्यते । तरंगसादृश्यात्सितपताकानां तत्संबन्धवशादाह - गगनेति । गगनसिन्धुः स्वधुनी तस्यास्तरंगाः कल्लोलास्तानवलम्बतइत्येवंशीला इव सितपताकांशुकेषज्ज्ववलवैजयन्तीपटेषु । पताकायां श्वेतातिशयो व्यज्यते । सूर्यकान्तेषु संक्रमवशादाह - सूर्येति । पल्लववदाचरन्तीति पल्लविता अङ्कुरितास्तादृशा इव सूर्यकान्ता एवोपलाः प्रस्तरास्तेषु । इन्द्रनीलसंपर्कवशादाह - राह्विति । राहः सैहिकेयस्तस्य मुखमिव कुहरं बिलं तत्र प्रविष्टास्तदन्तर्गता इवेन्द्रनीलमणीना ये वातायना ग विवरेषु छिद्रेषु विराजन्ते । अन्वयस्तु प्रागेवोक्तः । यस्यां चेति । यस्यामुज्जयिन्यां रजन्यो रात्रय एवंभूताः सत्यो यान्ति । कीदृशाः । न विघटितं न विभिन्नं चक्रवाकानां कोकानां मिथुनं ईन्द्रं याभिस्ताः । तत्र हेतुमाह - अनुपजातेति । अनुपजातं तिमिरं यस्यां तस्या भावस्तत्त्वं तस्मात् । व्यर्थीकृतेति । व्यर्थीकृता निष्प्रयोजनीकृताः सुरतप्रदीपा रतप्रयोजका - टिप्प०-1. रविगभस्तयः सिन्दूरमणि (प्रवाल) कुट्टिमेष (पतिताः सन्तः) सन्ध्यारागारुणा इव विराजन्ते । मरकत (हरितमणि) वेदिकासु (पतिताः) प्रारब्ध नीलकमलिनीषु परिमण्डल मण्डलाकारेणाऽवलुण्ठनं यैस्ते इव विराजन्ते इत्यादिः तत्तदाधारसंबन्धाद्रविकिरणेषु नानाविधगुणक्रियादेरुत्प्रेक्षा । एवं सर्ववाक्येषु व्याख्याऽनुसंधया । 2. भूषणप्रभाभिरन्धकाराभावादिवस एवायमिति चक्रवाकानां भ्रमः । तथा चात्र भ्रान्तिमानलंकारो व्यज्यते, (वाच्यत्वाभावात्) । पाठा०-१ गगनतल, २ प्रसृता. ३ भूप. ४ मुक्ताफल. ५ स्फटिकमणि. ६ तरंगसङ्गिनः. ७ यस्यामनु. ८ प्रकटीकृत. उज्जयिनी N पूर्वभागः । Page #131 -------------------------------------------------------------------------- ________________ दनानलदिग्दाहा इव यान्ति कामिनीनां भूषणप्रभाभिर्बालातपपिञ्जरा इव रजन्यः । यां च संनिहितविषमलोचनामनवरतमतिमधुरो रतिप्रलाप ईव प्रसर्पन्मुखरीकरोति मकरकेतुदाहहेतुभूतो भवनकुलहंसकुलकोलाहलः । यस्यां च निशि निशि पेवनविलोलैर्दुकूलपल्लवैरुल्लसद्भिर्मालवीमुखकमलकान्तिलज्जितस्येन्दोः कलङ्कमिवापनयन्तो दूरप्रसारितध्वजभुजाः प्रासादा लक्ष्यन्ते । यस्यां च सौधशिखरशायिनीनां पश्यन्मुखानि पुरसुन्दरीणां मदनपरवश इव पतितः प्रतिमाच्छलेन लुठति बहलचन्दनजलसेकशिशिरेषु मणिकुट्टिमेषु मृगलाञ्छनः । । यस्यां च निशावसानप्रबुद्धस्य तारतारमपि पठतः पञ्जरभाजः शुकसारिकासमूहस्यो - *********** गृहमणयो यस्यां सा । अनुपजाततिमिरत्वादेवेति भावः । तत्रापि हेतुमाह - कामिनीति । कामिनीनां योषिता भूषणान्याभरणानि तेषा प्रभाभिः कान्तिभिः । अत्र भूषणप्रभालक्षणेन हेतुनानुपजाततिमिरत्वम् । तेन चाविघटितचक्रवाकमिथुनत्वं व्यर्थीकृतदीपकत्वं चेति भावः । प्रभाभिः कीदृशा इव । संजातेति । संजातः समुत्पन्नो यो मदनानलो मदनवह्निः स एव दिग्दाहो यासु तादृशा इव बालातपो नवीनसूर्यातपस्तेन पिञ्जराः श्वेतरक्तास्तादृशा इव । यां चेति । यां नगरी भवनं गृहं तस्य कुलं समुदायस्तत्र हंसकुलानि तेषां कोलाहलो मुखरीकरोति वाचालीकरोति । 'अभूततद्भावे च्विः । कीदृशः । अतिमधुरोऽतिमिष्टः अनवरतं प्रसर्पन्प्रसरन् । कीदृश इव । रतीति । रतिर्मदनस्त्री तस्यां प्रलाप इव विलाप इव । मकरेति । मकरकेतुना मदनेन दाहस्तस्य हेतुभूतः । अन्यत्र मकरकेतोर्दाही हेतुभूतोऽस्य रतिप्रलापस्येति विग्रहः । रतिप्रलापसाम्यं कोलाहले वक्तुमाह - संनिहितेति । संनिहितः समीपस्थो विषमलोचनः शंभुर्यस्यां सा । यस्यां चेति । यस्यां नगर्यां प्रासादा आवासा ईदृशा लक्ष्यन्त इत्यन्वयः । तान्विशिनष्टि - दूरेति । दूरमूर्ध्वं प्रसारिता विसारिता ध्वजा वैजयन्त्य एव भुजा येषां ते तथा । किं कुर्वन्त इव । इन्दोश्चन्द्रस्य कलङ्क मालिन्यमपनयन्त इव दूरीकुर्वन्त इव । चन्द्रं विशिनष्टि - मालवीति । मालव्यः मालवदेशोद्भवाः तासां मुखकमलानि तेषां कान्तिस्तया लज्जितस्य त्रपितस्य । तत्करणे कारणं दर्शयन्नाह - निशि निशीति । निशि निशि प्रतिनिशमुल्लसद्भिः शोभमानैः पवनेन वायुना विलोलैश्चपलैर्दुकुलपल्लवैर्वस्त्राञ्चलैः । यस्यां चेति । यस्यां नगर्यां मृगलाञ्छनश्चन्द्रो मणिकुट्टिमेषु प्रतिमाच्छलेन प्रतिबिम्बमिषेण लुठति प्रसरति । कीदृशः । मदनेन कंदर्पण परवशः परायत्त इव । हेतुमाह - किं कुर्वन् । पश्यन्विलोकयन् । कानि । सौधशिखरशायिनीनां गृहप्रान्तस्थायिनीनां पुरसुन्दरीणां नगरनारीणां मुखानि वदनानि । कीदृशेषु मणिकुट्टिमेषु । बहलेति । बहलं यच्चन्दनजलं मलयजद्रवमिश्रिताम्भस्तेन सेकः सिञ्चनं तेन शिशिरेषु शीतलेषु । अत एव पतित इति विशेषणं शिशिरवाञ्छकत्वात्कामार्तस्येति भावः ।। यस्यां चेति । प्रभाते प्रत्यूषे मङ्गले नैमित्तिका गीतयो व्यर्थीभवन्ति निष्फलीभवन्ति । व्यर्थीभवने हेतुद्वयं प्रदर्शयन्नाह - शुकेति । शुकः कीरः, सारिका पीतपादा, तयोः समूहः संघातस्तस्य । अभिभूतानि - - - - - - - - - - - - - - - - - - - - टिप्प० -1 अत्र चक्रवाकानां विघटनसंबन्धेऽपि तदसंबन्धात, प्रदीपानां व्यर्थीकरणाऽसंबन्धेपि तत्संबन्धोक्तेरतिशयोक्तिद्वयम् । संजातदिग्दाहा इव पिञ्जरा इव चेत्युप्रेक्षाद्वयम् । एतेषामलंकाराणामेकस्मिन्वाक्ये निरपेक्षतयाऽवस्थानात्संसृष्टिः । 2 संनिहितविषमलोचना (पुरी), अत एव तत्कर्तृकमकरकेतुकर्मकदाहकारणात् रतेः प्रलापः (विलापः) इव हंसकोलाहलो या पुरीं मुखरयति । वस्तुतस्तुमकरकेतुना यो दाहः (कामकर्तृको यो लोकाना संतापः हंसरवस्योदीपकत्वात्) तस्य हेतुभूतः हंसकोलाहलो यां मुखरीकरोति । इत्याशयः । - - - - - - - - - - - - - - - पाठा० - १ पिञ्जरत्वं रजन्यः. २ इव प्रतिवासरं प्रसर्पन्. ३ कल. ४ हंसकोलाहलः. ५ पवनवश. ६ उर्ध्वध्वज. ७ यस्यां सौध. ८ शिखरोत्सङ्ग. ९ शिशिरेषु मृग. १० निशावसाने. ११ तारतरमतिपठतः. १२ रखेणाभिभूता गृहसारविरुतेन. 118 कादम्बरी । कथायाम् Page #132 -------------------------------------------------------------------------- ________________ भिभूतगृहसारसस्वरामृतेन विस्तारिणा विलासिनीभूषणरवेणाविभाव्यमाना व्यर्थीभवन्ति प्रभातमङ्गलगीतयः । यस्यां चानिवृत्तिर्मणिप्रैदीपानाम्, अन्तस्तरलता हाराणाम्, अस्थितिः संगीतमुरजध्वनीनाम्, द्वन्द्ववियोगश्चक्रनाम्नाम्, वर्णपरीक्षा कनकानाम्, अस्थिरत्वं ध्वजानाम्, मित्रद्वेषः कुमुदानाम्, कोशगुप्तिरसीनाम् । किं बहुना । यस्यां सुरासुरचूडामणिमरीचिचुम्बितचरणनखमयूखः, निशितशूलदारितान्धकमहा - *********** तिरस्कृतानि गृहसारसानि येन । सारसानीत्यत्र लक्षणया सारसस्वरस्तादृशेन स्वरामृतेन । विलासिनीति । विलासिन्यः स्त्रियस्तासां भूषणरवेणाभरणनिनादेन विस्तारिणा प्रसरणशीलेनाविभाव्यमानाः पराभूयमानाः । अथ शुकसारिकासमूहं विशिनष्टि - निशेति । निशाया रजन्या अवसाने प्रान्ते प्रबुद्धस्य जागृतस्य । तारेति । तारतारमप्युच्चस्तरमपि पठतः पठनं कुर्वतः । पञ्जरेति । पञ्जरं भजतीति तथा तस्य । पञ्जरस्थायिन इत्यर्थः । यस्यां चेति । पूर्ववत् । अनिवृत्तिरनिर्वाणता मणिप्रदीपानाम् । न तु लोकानामनिवृत्तिरनुपरमः । 'निवृत्तिं स्यादुपरमे' इति कोशः क्वचित् 'अनिर्वृतिः' इति पाठः । तत्र निर्वृतिः सुखम् । शेषं पूर्ववत् । अन्तरिति । अन्तर्मध्ये तरलो मध्यमणिस्तस्य भावस्तस्य । हाराणां मुक्ताप्रालम्बानाम् । 'नायकस्तरलः' इति कोशः । न तु लोकानामन्तश्चित्ते तरलता चाञ्चल्यम् । 'तरलं कम्पनं कम्प्रम्' इति कोशः । अस्थितिरिति । अस्थितिस्ताललयादिष्वनवस्थानं संगीतमुरजध्वनीनां प्रेक्षणार्थप्रयुक्तगीतनृत्यवाद्यमृदङ्गशब्दानाम् । न तु लोकानामस्थितिरमर्यादा । द्वन्द्ववियोग इति । द्वन्द्वस्य स्त्रीपुरुषरूपस्य वियोगो विघटनं चक्रनाम्नां द्वन्द्वचराणाम् । न तु लोकानां द्वन्द्वेन युद्धेन वियोगः स्त्रीपुरुषविश्लेषः । वर्ण इति । वर्णो वर्णिका तस्याः परीक्षा परीक्षणं कनकानां सुवर्णानाम् । न तु लोकानां वर्णा ब्राहाणादयस्तेषां परीक्षा वर्णसांकर्याभावात् । अस्थिरत्वमिति । अस्थिरत्वं चञ्चलत्वं ध्वजाना केतूनाम् । न तु लोकानां चाञ्चल्यम् । मित्रद्वेष इति । मित्रः सूर्यस्तेन सह द्वेषोऽप्रीतिः कुमुदानां कैरवाणाम् । चन्द्रविकासित्वात् । न तु लोकानां मित्रेण सुहृदा द्वेषः । कोश इति । कोशः प्रतीकार (?) स्तत्र गुप्तिर्गोपनमसीनां खड्गानाम् । न तु लोकानां कोशस्य भाण्डारस्य गुप्तिः । किं बहुनेति । किं बहुजल्पितेनेत्यर्थः । यस्यां नगर्यां महाकाल इत्यभिधानं यस्य स देवः स्वयं साक्षाद्वसति । तं विशिनष्टि - सुरेति । सुरासुराणां यञ्चूडामणिः शिरोरत्नं तस्य मरीचयः किरणास्तैश्चुम्बिताः स्पृष्टाश्चरणनखानां मयूखा यस्य सः । निशितेति । निशितं - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 निशावसाने जागरितस्य तारं पठतश्च पञ्जरस्थशुकसारिकासमूहस्य प्रभातमङ्गलगीतयः (अर्थात् शुकसारिकाभिर्गीताः प्राभातिकगीतयः) गृहसारसमधुरस्वराभिभाविना विलासिनीभूषणझणत्कारेण अज्ञायमानाः सत्यः व्यर्थीभवन्ति, इत्याशयः । 2 'अन्तस्तरलता हारलतानाम् इत्यपि पाठान्तरः परिभावनीयः । अन्तस्तरलो मध्यमणिर्येषां तद्भावः अन्तस्तरलता (मध्यमणिशालिता) इति च एतस्य व्याख्या । 3 संगीतस्य मुरजस्तस्य च ध्वनीनां अस्थितिः इतस्ततः प्रसरणशीलत्वम्, इत्यर्थः (अस्थितिः तृतीयक्षणे अविद्यमानता वा) । ताल-लयादिषु अनवस्थानम् (अर्थात् ताललयाद्युल्लङ्घनम्) तु गीतवाद्यानां भ्रष्टतैव । 4 वर्णं (रुपम् 'रङ्गः') तस्य परीक्षा (वह्निताप-निकषकषणादिद्वारा) । 5 प्रसिद्धः, चर्ममयमावरणगृहम् । पाठा० - १ वेण च. २ अभिभाव्य. ३ दीपानाम्. ४ तरलता. ५ हारलतानाम्. ६ चक्रनाम्नः; चक्रवाकनाम्नाम्. ७ यस्यां च. ८ मरीचिचय. ९ त्रिशूल. (उज्जयिनी पूर्वभागः ।। Page #133 -------------------------------------------------------------------------- ________________ सुरः, गौरीनपुरकोटिघृष्टशेखरचन्द्रशकलः, त्रिपुरभस्मरजः कृताङ्गरागः, मकरध्वजध्वंसविधुरया रत्या प्रसादयन्त्या प्रसारितकरयुगविगलितवलयनिकरार्चितचरणः, प्रलयानलशिखाकलापकपिलजटाभारभ्रान्तसुरसिन्धुरन्धकारातिर्भगवान्, उत्सृष्टकैलासवासप्रीतिर्महाकालाभिधानः स्वयं वैसति । तस्यां चैवंविधायां नगर्यां नलनहुषययातिधुन्धुमारभरतभगीरथदशरथप्रतिमः, भुजबलार्जितभूमण्डलः, फलितशक्तित्रयः, मतिमान्, उत्साहसंपन्नः, नीतिशास्त्राखिन्नबुद्धिः, अधीतधर्मशास्त्रः, तृतीय इव तेजसा कान्त्या च सूर्याचन्द्रमसोः, अनेकसप्ततन्तुपूतमूर्तिः, उपशमितसकलजगदुपप्लवः, विहाय कमलवनान्यवगणय्य नारायणवक्षः स्थलवसतिसुखमु - *********** तीक्ष्णं यच्छूलं शस्त्रविशेषस्तेन दारितो भिन्नोऽन्धकमहासुरो येन स तथा । गौरीति । गौरी मानवती तस्याः सान्त्वनावसरे तन्नूपुरस्य या कोटिस्तस्य घृष्टं घर्षणां प्रापितं शेखरेऽवतंसे चन्द्रशकलं यस्य स तथा । त्रिपुरेति । त्रिपुरस्य त्रिपुरदैत्यस्य यद्भस्मरजस्तेन कृतो विहितोऽङ्गरागो भस्मोद्धूलनं येन सः । तं स्वयमेव भस्मीकृत्य तेनाङ्गरागो विहित इति भावः । मकरेति । 'मकरध्वजस्य कंदर्पस्य यो ध्वंसो दाहस्तेन विधुरया दुःखितया रत्या मदनस्त्रिया प्रसादयन्त्या प्रसन्नीकुर्वत्या ईश्वरमिति शेषः । तया प्रसारितं विस्तारितं यत्करयुगं हस्तयुगं तस्माद्विगलितानि निपतितानि यानि वलयानि कङ्कणानि तेषां निकरः समूहस्तेनार्चितौ पूजितौ चरणौ पादौ यस्य सः । प्रलयेति । प्रलयसंबन्ध्यनलो वह्निस्तस्य शिखा ज्वालास्तासां कलापः समूहस्तेन कपिलः पिङ्गलो यो जटाभारः जटासमूहस्तेन भ्रान्ता त्रस्ता सुरसिन्धुर्गङ्गा यस्मात्स तथा । अन्धकारातिरन्धकनाम्नो दैत्यस्यारातिः शत्रुर्भगवान्माहात्म्यवान् । उत्सृष्टेति । उत्सृष्टा त्यक्ता कैलासवासप्रीतिः रजताद्यवस्थानस्नेहो येन सः । तस्यां चेति । तस्यां नगर्यां उज्जयिन्याम् । एवमिति । एवंविधाया पूर्वोक्तप्रकारेण व्यावर्णितस्वरूपायां तारापीडो नाम राजाभूदिति दूरेणान्वयः । अथ च तमेव विशिनष्टि - तत्र प्रथमान्तानि सर्वाण्यपि राजविशेषणानि । नलो नैषधः; नहुषो नृपविशेषो योऽगस्तिशापादजगरो जातः, ययातिर्यदुपिता, धुन्धुमारः कुवलाश्वः, भरतो दौष्यन्तिः, भगीरथः सगरपौत्रः, दशरथो रामपिता, एतेषां प्रतिमः सदृश । 'प्रख्यः प्रकारः प्रतिमः' इति कोशः । भुजेति । भुजबलेन बाहुबलेनार्जितमुपार्जित भूमण्डल पृथ्वीमण्डल येन स तथा । फलितं संजातफलं शक्तित्रयं यस्य स तथा । प्रभुशक्तिर्मन्त्रशक्तिरुत्साहशक्तिश्चेति शक्तित्रयम् । मतिमान्बुद्धिमान् । उत्साहः प्रगल्भता तेन संपन्नः सहितः । नीतीति । नीतिशास्त्रे व्यवहारग्रन्थेऽखिन्ना अरीणा बुद्धिः प्रतिभा यस्य स तथा । धर्म इति । अधीतं पठित धर्मशास्त्रं येन स तथा । सूर्येति । सूर्याचन्द्रमसोः शशिभास्करयोस्तृतीय इव । ‘देवताद्वन्द्वे पूर्वपदस्य दीर्घः' इति दीर्घः । केन । तेजसा कान्त्या च । तत्र तेजः प्रकाशः कान्तिश्चन्द्रिका । राज्ञि तेजः प्रतापः, कान्तिः शोभा देहदीप्तिर्वा । अनेकेति । अनेके ये सप्ततन्तवो यज्ञास्तैः पता पवित्रा मर्तिः शरीरं यस्य स तथा । प्रयाजादीनि षडङ्गानि सप्तमः प्रधानमिति सप्ततन्तवः । उपशमितेति । उपशमितः शान्ति प्रापितः सकलजगतः समाविष्टपस्योपल्लव उपद्रवो येन स तथा । प्रकारान्तरेण तमेव विशेषयन्नाह - विहायेति । कमलवनानि नलिनखण्डानि विहाय त्यक्त्वा । नारायणस्य कृष्णस्य यद्वक्षः - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 तेन घृष्टं शेखर('शिरोभूषण) भूतं चन्द्रशकलं यस्येति स्पष्टोऽर्थः । 2 तस्मिन् भ्रान्ता घूर्णमाना सुरसिन्धुर्यस्य स इति स्फुटोऽर्थः । 3 अश्रान्तेत्यर्थः । पाटा० - १ चन्द्रशकलशेखरः. २ करयुगल. ३ वलयततिकरम्बित. ४ अमरसिन्धु. ५ अन्धकारिः. ६ निवसति; प्रतिवसति. ७ नृगनल; नृग. ८ दशरथजनमेजयार्जुन. ९ उपार्जित. (120 कादम्बरी। । कथायाम्-) Page #134 -------------------------------------------------------------------------- ________________ त्फुल्लारविन्दहस्तया शूरसमागमव्यसनिन्या निर्व्याजमालिङ्गितो लक्ष्म्या, महामुनिजनसंसेवितस्य मधुसूदनचरण इव सुरसरित्प्रवाहस्य प्रभवः सत्यस्य, शिशिरस्यापि रिपुजनसंतापकारिणः स्थिरस्यापि नित्यं भ्रमतो निर्मलस्यापि मलिनीकृतारातिवनितामुखकमलद्युतेरतिधवलस्यापि सर्वजनरागकारिणः सुधासूतेरिव सागर उद्भवो यशसः, पाताल इवाश्रितो निजपक्षक्षतिभीतैः क्षितिभृत्कुटिलैः, ग्रहगण इव बुधानुगतः, मकरध्वज इवोत्सन्नविग्रहः, - *********** स्थलं भुजान्तरस्थल तत्र या वसतिर्निवासस्तस्माद्यत्सुखं सातं तदवगणय्यावगणनां कृत्वा । उदिति । उत्फुलं विकसितं यदरविन्दं कमलं तद्वद्धस्तो यस्याः सा तया । शूरेति । शूरेण सुभटेन यः समागमः संबन्धस्तस्मिन्व्यसनमासक्तिर्विद्यते यस्याः सा तया लक्ष्म्या श्रिया निर्व्याज निष्कपटमालिङ्गित उपगूहितः । सत्यस्य प्रभव उत्पत्तिस्थानम् । तत्रोपमानमाह - महेति । महामुनिजना वसिष्ठादयस्तैः संसेवितस्य पर्युपासितस्य सत्यस्य प्रभवः । कस्य क इव । सुरसरित्प्रवाहस्य स्वधुनीरयस्य मधुसूदनचरण इव हरिपाद इव । यथा हरेः पादः स्वधुन्या उत्पत्तिस्थानं तथायमपि सत्यस्येति भावः । विरोधोक्त्या तमेव विशेषयन्नाह - यश इति । यशसः श्लोकस्योद्भव उत्पत्तिस्थानम् । तत्रोपमानमाह - सुधासूतेरिति । सुधासूतेश्चन्द्रस्य सागरः समुद्र इव । 'अब्धिजश्चन्द्रः' इति कविरूढिः । अथ च चन्द्रयशसोः साम्यं प्रदर्शयंस्तद्विशेषणान्याह - शिशिरेति । शिशिरस्यापि शीतलस्यापि रिपुजना वैरिजना विरहिजना वा तेषां संतापो दाहस्तत्कारिण इति विरोधः । तत्परिहारस्तु संतापश्चित्तोद्वेग इत्यर्थात् । स्थिरेति । स्थिरस्यापि निश्चलस्यापि नित्यं सर्वकाल भ्रमतो गच्छतः । 'सर्वदिग्गामुकं यशः इति कविरूढेविरोधः । तत्परिहारस्त्वाकल्पान्तस्थायित्वात्स्थिरो नित्य इत्यर्थात् । निर्मलेति । निर्मलस्यापि गतमलस्यापि मलिनीकृता कश्मलीकृता अरातिवनितामुखान्येव कमलानि मुखवत्कमलानि वा तेषां द्युतिर्येनेति विरोधः । तत्परिहारस्तु निर्मलस्य स्वच्छस्येत्यर्थात् । अत्र यशःशब्दस्य नित्यनपुंसकत्वात्तद्विशेषणे द्युतिपदे न गुमागमः । 'दधिदूर्वादी मङ्गले इतिवद्धहुव्रीहिः । अतीति । अतिधवलस्याप्यतिशुक्लस्यापि सर्वजनानां समग्रलोकानां रागकारिण इति विरोधः । तत्परिहारस्तु रागः स्नेहस्तत्कारिण इत्यर्थात् । अत्र सर्वत्रापिशब्दो विरोधद्योतको विशेषोक्तिर्वा । पातालेति । पातालं रसातलं तद्वदिव । उभयोः साम्यं प्रदर्शयन्नाह . आश्रित इति । क्षितिभृतो राजानः पर्वताश्च तेषु कुटिला वक्रास्तैराश्रित आसेवितः । उभयं विशिनष्टि - निजेति । निजा आत्मीया ये पक्षाः स्वजना वाजाश्च तेषां क्षितिः क्षयस्तया भीतास्त्रस्तास्तैः । नृपाः स्वराज्यक्षयभीत्या तमाश्रिताः । पर्वतास्तु पक्षक्षयभीता रसातलमिति भावः । ग्रह इति । ग्रहा नक्षत्राणि तेषां गणः समूहस्तद्वदिव । सर्वत्रैकविशेषणेन विशेषयन्नाह - बुधेति । बुधाः पण्डितास्तैरनुगतः सहितः । तदुक्तम्-'व्यवहारानृपः पश्येद्विद्वद्भिाहाणैः सह' इति । पक्षे बुधः सौम्यः । मकरेति । मकरध्वजः कन्दर्पस्तद्वदिव । उत्सन्नेति । उत्सन्न उच्छेदं प्राप्तो विग्रहः शरीरं यस्य - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०-1 कीर्तेरित्यर्थः । 2 स्थिरं नित्यमिति बोध्यम् । 3 नित्यनपुंसकस्य यशसो विशेषणीभूतस्यापि 'मलिनी०...द्युतेः' इति पदस्य भाषितपुस्कतया पुंवद्धावान नुम्, अपि तु घित्वेन गुण इति तस्य तात्पर्यम् । 4 'क्षितिभृत्कुलैः' इति ग्रन्थोचितः पाठः । क्षितिभृतां राज्ञां पर्वतानां च कुलैरिति च तदर्थः । कुटिलैस्तु नाश्रयितुं शक्यते, इति तदाश्रयणवर्णन न स्वरसाय । 5 गरुतः 'पंख' इति हिन्दी । पाठा० - १ एकव्यसनिन्या. २ अनवरतम्; अविरतम्. ३ जलनिधिः. ४ पातालवत्. ५ क्षति. ६ क्षितिभृतां कुलैः; क्षितिभृत्कुलैः; क्षितिभृतः कुलैः. (उज्जयिनी । पूर्वभागः ।। 121 Page #135 -------------------------------------------------------------------------- ________________ दशरथ इव सुमित्रोपेतः, पशुपतिरिव महासेनानुयातः, भुजगराज इव क्षमाभरगुरुः, नर्मदाप्रवाह इव महावंशप्रभवः, अवतार इव धर्मस्य, प्रतिनिधिरिव पुरुषोत्तमस्य, पेरिहतप्रजापीडो राजा तारापीडोऽभूत् । यस्तमःप्रसरमलिनवपुषा पापबहुलेन कलिकालेन चालितमामूलतो धर्मं दशाननेनेव कैलासं पशुपतिरिवावष्टभ्य पुनरपि स्थिरीचक्रे । यं च रतिप्रलापर्जनितदयार्द्रहृदयहरनिर्मितमपरं मकरकेतुममंस्त लोकः । यं च जलनिधितरङ्गI धौतमेखलात्पत्रान्तर्विचारितारागणद्विगुणिततटतरुकुसुमप्रकरादुय दिन्दुबिम्बविर्गलदमृतबिन्धासारार्द्रचन्द - ** स तथा । पक्षे विग्रहो युद्धादिकलहः । दशरथ इव दशरथो रामपिता तद्वदिव । सुमित्रेति । सुष्ठु शोभनं यन्मित्रं सुहृत्तेनोपेतः सहितः । पक्षे सुमित्रा लक्ष्मणजननी । पश्चिति । पशुपतिरीश्वरस्तद्वदिव । महेति । महती या सेना सैन्यं तयानुयातोऽनुगतः । पक्षे महासेनः षण्मुखः । भुजगेति । भुजगराजोऽनन्तस्तद्वदिव । क्षमेति । क्षमा क्षान्तिस्तस्या भरो भारस्तेन गुरुर्गरीयान् । पक्षे क्षमा पृथ्वी । शेषेणस्वपृष्ठे वसुधा धृतेति लोकरूढिः । नर्मदेति । नर्मदा मेकलाद्रिजा तस्याः प्रवाहो रयस्तद्वदिव । महेति । महावंशो महत्कुलं तस्मात्प्रभव उत्पत्तिर्यस्य स तथा । पक्षे महावंशो महावेणुः । वंशर्मूलान्नर्मदाप्रवाहः प्रादुर्भूत इति लोकोक्तिः । अवतार इव धर्मस्य श्रेयसोऽवतार इव जन्मान्तरमिव । प्रतीति । पुरुषोत्तमस्य विष्णोः प्रतिनिधिः प्रतिभास इव । परीति । परि सामस्त्येन हता ध्वस्ता प्रजापीडा प्रकृतिपीडा येन स तथा । अन्वयस्तु प्रागेवोक्तः । - य इति । यः तारापीडः पशुपतिरिव कलिकालेन दशाननेनेवा मूलतः मूलं बुघ्नं आ मर्यादीकृत्य चालितं कम्पितं धर्ममवष्टभ्यावष्टम्भं दत्त्वा कैलासमिव पुनरपि स्थिरीचक्रे दृढीचकार । अथ कलिकालविशेषणानि तम इति । तमोऽज्ञानं तस्य प्रसरः प्रसरणं तेन मलिनं कश्मलं वपुः शरीरं यस्य स तथा तेन । पापेति । पापेनैर्नसा बहुलेन दृढेन । 'बहुलं दृढम् ' इति कोशः । यं चेति । यं तारापीडं लोको जनोऽपरं भिन्नं मकरकेतुं मदनममंस्ताभिमतवान् । तमेव विशिनष्टि - रतीति । रतेः प्रलापेन परिदेवनेन जनितोत्पादिता या दया करुणा तयार्द्रं स्विन्नं हृदयं चेतो यस्यैवंभूतो यो हरः शंभुस्तेन निर्मितं विहितम् । यं चेति । यं राजानम् । आशैलेति । . उदयनाम्न आ शैलात् उदयाचलं शैलं आ मर्यादीकृत । आसेत्विति । आ सेतुबन्धात् सेतुबन्धं आ मर्यादीकृत्य । आ मन्दरादिति । मन्दरं मेरुमामर्यादीकृत्य । आगन्धमादनादिति । गन्धमादनं पर्वतमामर्यादीकृत्य । पूर्वदक्षिणपश्चिमोत्तरमवधीकृत्येति भावः । अवनिपा राजानः प्रणेमुर्नमश्चक्रुरित्यन्वयः । अथोदयाद्रिं विशेषयन्नाह - जलेति । जलनिधिः समुद्रस्तस्य तरंगाः कल्लोलास्तैर्धीता क्षालिता मेखला मध्यभागो यस्य स तथा तस्मात् । पत्रेति । पत्राणां पर्णानामन्तर्मध्ये विचारी गमनशीलो यस्तारागणो नक्षत्रसमूहस्तेन द्विगुणितोऽधिकीभूतस्तटतरूणां भृगुवृक्षाणां कुसुमप्रकरः पुष्पसमूहो यस्मिन्स तथा तस्मात् । उद्यदिति । उद्यदुदयं प्राप्नुवद्यदिन्दुबिम्बं तस्माद्विगलन्तः स्रवन्तो येऽमृतबिन्दवः पीयूषविप्रुषस्तल्लक्षणो य आसारो मेघजं - - टिप्पo - 1 मेकलाचलस्थवेणुनिकरान्नर्मदाप्रवाहः पूर्वमुद्गत इति प्रसिद्धिरित्याशयः । 2 पापमेव बहुलम् अधिकं यस्मिन् ( आहिताग्न्यादि) इति तु स्पष्टोऽर्थः । पाठा० - १ अनुगतः २ परिहृत ३ नामाभूत् अभवत्. ४ कैलासमिव. ५. चकार. ६ उपजनित. ७ अपरमिव ८ पत्रान्तर. ९ गलत्. १० बिन्दुदुर्दिनार्द्र. 122 कादम्बरी | कथायाम् Page #136 -------------------------------------------------------------------------- ________________ नादशिशिरकररयतुरगखुरशिखरोल्लेखखण्डितोल्लसल्लविङ्गपल्लवादेरावतकरलूनसल्लकीकिसलयदलादाशैलादुदयनाम्नः, कपिबेलविलुप्तविरललवलीलताफलादुदधिविनिर्गतजलदेवतावन्द्यमानराघवपादादचलपातंदलितशङ्खकुलशकलतारकितशिलातलात् नलकरतलाकलितशैलसहससंभूतादासेतुबन्धात्, अच्छनिरिजलधौततारकासार्थादमृतमथनोद्यतवैकुण्ठकेयूरपत्रमकरकोटिकषणमसृणितग्राणः सुरासुरहेलावलयितवासुकिसमाकर्षणप्रारम्भचलितचरणभरदलितनितम्बकटकादमृतसीकरसिक्तसानोमन्दरात्, नरनारायणचरणमुद्राङ्कितबदरिकाश्रम - *********** पयस्तेनार्दा अशुष्काश्चन्दना मलयजा यस्मिन्स तथा तस्मात् । अशिशिरेति । अशिशिरकरः सूर्यस्तस्य ये रथतुरगाः स्यन्दनहयास्तेषां खुराः शफास्तेषां शिखरेण प्रान्तेन य उल्लेखः संबन्धस्तेन खण्डिता द्विधाकृता इव उल्लसन्तो लविङ्गपल्लवा यस्मिन्स तथा तस्मात् । ऐरावतेति । ऐरावतो हस्तिमल्लस्तस्य यः करः शुण्डा तेन लूनानि छिन्नानि सल्लकी गजप्रिया तस्याः किसलयदलानि यस्मिन्नेवंविधादाशैलादुदयनाम्न इति प्रागेवोक्तम् । इतः सेतुबन्धविशेषणानि । कपीति । कपिबलेन वानरसैन्येन विलुप्तानि लोपं प्राप्तानि विरला तुच्छा या लवलीनाम्नी लता वल्ली तस्याः फलानि यस्मिन्स तथा तस्मात् । उदधीति । उदधेः समुद्राद्विनिर्गता या जलदेवता जलाधिष्ठात्री तया वन्द्यमानौ नमस्क्रियमाणौ राघवस्य रामचन्द्रस्य पादौ चरणौ यस्मिन्स तथा तस्मात् । अचलानां पर्वतानां यः पातस्तेन दलितानि भिन्नानि यानि शङ्खकुलानि जलजसमूहास्तेषां शकलैः खण्डैः तारकितं संजाततारक शिलातलं यस्मिन्स तथा तस्मात् । नलेति । नलेत्युपलक्षणं नीलजाम्बवटामुखानाम् । तेन नलादीनां वानराणां यानि करतलानि तैराकलितं व्याप्तं यच्छैलसहस्र पर्वतसहस्रं तेन संभूतानिष्पनात्सेतुबन्धात् । समुद्रबन्धादित्यर्थः । लङ्कायां गच्छता रामचन्द्रेण समुद्रबन्धन विहितमिति लौकिकाः । अथ मन्दरविशेषणानि - अच्छमिति । अच्छं निर्मलं यनिर्झरजलमिति निर्झरो झरस्तस्य जलं पानीयं तेन धौताः क्षालितास्तारकसा नक्षत्रसमूहा यस्मिन्स तथा तस्मात् । अमृतेति । अमृत पीयूषं तदर्थं यन्मथनम् । समुद्रस्येति शेषः । तत्र उद्युक्तो यो वैकुण्ठः कृष्णः । स हि मथनवेलाया पुरः स्थितं मन्दरमालिङ्ग्य स्थितः तस्य यत्केयूरपत्रमङ्गदपत्रं तस्य या मकरकोटिस्तया यत्कषणं घर्षणं तेन मसृणिताः श्लक्ष्णीकृता ग्रावाणः शिला यस्मिन्स तथा तस्मात् । सुरेति । सुरा देवाः, असुरा दैत्याः तैर्हेलया क्रीडया एकोत्साहेन वा वलयितो वलयाकारता प्रापितो यो वासुकिर्नागराजस्तस्य यत्समाकर्षणं तस्य यः प्रारम्भ उपक्रमस्तस्माच्चलितः स्वस्थानाच्च्युतो यश्चरणभरः पादसमूहस्तेन दलितश्चर्णितो नितम्बकटको यस्मिन्स तथा तस्मात । अमृतेति । अमृतस्य पीयषस्य ये सीकराः पृषतास्तैः सिक्तानि सिञ्चितानि सानूनि शिखराणि यस्य स तथा तस्मात् । आमन्दराचलादिति प्रागेव व्याख्यातम् । अथ गन्धमादनं विशेषयन्नाह - नरेति । नरनारायणौ नामार्जुनवासुदेवौ तयोर्या चरणमुद्रा पादन्यासस्तयाङ्कितश्चिह्नितो यो - - - - - - - - - - - टिप्प० -1 घर्षणमिति पारमार्थि कोऽर्थः । 2 कपिबलेन विलोपं प्रापितानि (भक्षणायेत्यर्थः) अत एव विरलानि अल्पीभूतानि लवलीलतानां फलानि यस्मिन्निति व्याख्यान्तर्हितो ध्वनितार्थः । 3 तस्मात् चलितानां चरणानां भरेण (भारेण) दलित इति टीकाकर्तुराशयः व्याख्यानस्य । पाठ० - १ तुरंग. २ लवङ्ग. ३ करतल; करलूनरोध; करलूनलोध. ४ कबलात्. ५ कुल. ६ पुष्पात्. ७ निर्गत. ८ अभिवन्द्यमान. ९ निपात. १० तलकलित. ११ ग्रावाणः. १२ सुरासुरावलयित. १३ आरम्भ. १४ चलावलित. १५ नितम्बात्. १६ आमन्दराचलात्. तारापीडः पूर्वभागः । 123 Page #137 -------------------------------------------------------------------------- ________________ रमणीयात्कुबेरपुरसुन्दरीभूषणरवमुखरशिखरात्सप्तर्षिसंध्योपासनपूतप्रसवणाम्भसो वृकोदरोद्दलितसौगन्धिकखण्डसुगन्धिमण्डलादौगन्धमादनात्, सेवाञ्जलिकमलमुकुलदन्तुरैः शिरोभिश्चरणनखमयूखग्रथितमुकुटपत्रलताग्रन्थयो भयचकिततरलैतारदृशो भुजबलविजिताः प्रणेमुँरवनिपाः । येन चानेकरत्नांशुपल्लविते व्र्व्यालम्बिमुक्ताफलजालके दिग्गजेनेव कल्पतरावाक्रान्ते सिंहासने भरेण शिलीमुखव्यतिकरकम्पिता लता इव नेमुरायामिन्यः सर्वदिशः । यस्मै च मैन्ये सुरपतिरपि स्पृहयांचकार । यस्माच्च धवलीकृतभुवनतलः सकललोकहृदयानन्दकारी - *********** बदरिकाश्रमस्तेन रमणीयात्सुन्दरात् । कुबेरेति । कुबेरपुरमलकापुरी तस्याः सुन्दर्यः स्त्रियस्तासां भूषणरवेणाभरणशब्देन मुखराणि वाचालानि शिखराणि यस्मिन्स तथा तस्मात् । सप्तर्षीति । सप्तर्षीणां संध्योपासनेन संध्यावन्दनेन पूतं पवित्रं प्रसवणाम्भो निर्झराम्भो यस्मिन्स तथा तस्मात् । वृकोदरेति । वृकोदरेण भीमेनोद्दलितं छेदितं सौगन्धिकखण्ड सौगन्धिकाभिधं वनं तेन सुगन्धि सुरभि मण्डलं भूमिभागो यस्य स तथा तस्मात् । अत्र कथा - पाण्डवा द्यूते जिताः सन्तो विन्ध्याटवीं प्रविष्टाः । तत्र द्रौपद्या दोहद उत्पन्नः सौगन्धिककुसुमेषु । ततो भीमसेनेन गत्वा सरस्तदध्यासीनं नागराजं जित्वा तत्कन्यकां चोलूप्याख्यां परिणीय सौगन्धिककुसुमानि गृहीत्वा स्वाश्रममययौ । गन्धमादनादिति प्रागेव व्याख्यातम् । अथ नृपान्विशेषयन्नाह - शिरोभिरिति । शिरोभिर्मस्तकैरुपलक्षिताः । कीदृशैः । सेवेति । सेवाये योऽञ्जलिः स एव कमलमुकुलं तेन दन्तुरैर्विषमैः । चरणेति । तस्य राज्ञश्चरणौ पादौ तयोः नखा नखरास्तेषां मयूखाः किरणास्तैर्ग्रथिता मुकुटे या पत्रलता तस्या ग्रन्थयो येषां ते तथा । भयेति । भयेन साध्वसेन चकिता त्रस्ता तरला कम्पना तारा कनीनिका यासामेवंविधा दृशो येषां ते तथा । भुजेति । भुजबलेन विजिता निर्जिताः । अन्वयस्तु प्रागेवोक्तः । येन चेति । येन च राज्ञा दिग्गजेनेव कल्पतरौ सिंहासने नृपासन आक्रान्ते सति भरेण भारेणायासिन्यो विस्तारवत्यः सर्वदिशो नेमुः प्रणता बभूवुः । का इव । लता इव व्रतत्य इव । कीदृश्यः । शिलीमुखा भ्रमरास्तेषां व्यतिकरः संबन्धस्तेन कम्पिता धूताः । दिक्पक्षे शिलीमुखा बाणाः । अथ च सिंहासनविशेषणानि - अनेकेति । अनेकानि रत्नानि तेषामंशवः किरणास्तैः पल्लविते किसलयिते । व्यालम्बीति । व्यालम्बीन्यालम्बमानानि मुक्ताफलानां रसोद्भवानां जालकानि समूहा यस्मिन् । यस्मै चेति । अहमिति मन्ये । यस्मै राज्ञे सुरपतिरिन्द्रोऽपि स्पृहयांचकार सस्पृहोऽभूत् । 'स्पृहेरीप्सितः' इति संप्रदानसंज्ञायां चतुर्थी । इन्द्रस्पृहणीयतामाह - यस्मादिति । यस्माद्राज्ञो गुणाः शौर्यादयस्तेषां गणः समूहो निर्जगाम बहिर्निर्ययौ । यस्मादित्यवधौ पञ्चमी । गुणान्विशिनष्टि - धवलीति । धवलीकृत शुभ्रीकृतं भुवनतलं विष्टपतलं येन स तथा । सकलेति । सकललोकानां समग्रजनानां यानि हृदयानि चेतांसि तेषामान - टिप्प० 1 भीमसेनः स्वाश्रयमाययौ इति तात्पर्यम् । 2 न केवलं सिंहासनविशेषणानि । इदं विशेषणद्वयं कल्पतरावप्यन्वेति । संजाता अनेकरत्नांशव एव पल्लवा यस्मिन्निति तत्पक्षेऽर्थः । व्यालम्बिमुक्ताफलेत्यादिविशेषणव्याख्या तूभयत्र समाना । 3 इन्द्रस्पृहणीयतायां नाऽन्येषां हेतुः, किन्तु 'यस्मै च मन्येऽनन्यसाधारणशक्तिसंपदे......' इत्यादिरपि प्रचलितः पाठः । अनन्यसाधारणी शक्तिसंपद् यस्य ईदृशाय यस्मै इन्द्रोऽपि स्पृहयांचकारेति तदर्थः । ईदृशी शक्तिसंपद् ममापि स्यादितीन्द्रस्पृहायास्तात्पर्यम् । पाठा० - १ खण्डमण्डलात्. २ मेकलात्. ३ मुकुलैर्दन्तुरैः ४ मयूखाग्र ५ ग्रथिता. ६ तारकदृशो ७ अवनीपतयः. ८ रक्तांशुकः रत्नांशुजात. ९ व्यलम्बि. १० मुक्ताजालके. ११ सर्वा दिशः. १२ मन्येऽनन्यसाधारणशक्तिसंपदे सुरपतिः. 124 कादम्बरी | कथायाम् Page #138 -------------------------------------------------------------------------- ________________ क्रौञ्चादिव हंसनिवहो निर्जगाम गुणगणः । यस्य चामृतामोदसुरभिपरिमलया मन्दरोद्धतबहुलदुग्धफेनलेखयेव धवलीकृतसुरासुरलोकया दशःसु दिक्षु मुखरितभुवनमभ्रम्यत की, यस्य चातिदुःसहप्रतापसंतापरिवद्यमानेव क्षणमपि न मुमोचातपत्रच्छायां राजलक्ष्मीः । तथा च यस्य दिष्टिवृद्धिमिव शुश्राव, उपदेशमिव जग्राह, मङ्गलमिव बहु मेने, मन्त्रमिव जजाप, आगममिव न विसस्मार चरितं जनः । यस्मिंश्च राजनि गिरीणां विपक्षता, प्रत्ययानां परत्वम्, दर्पणानामभिमुखावस्थानम्, शूलपाणिप्रतिमानां दुर्गाश्लेषः, जलधराणां - *********** न्दकारी प्रमोदकृत् । कः कस्मादिव । क्रौञ्चाक्रौञ्चनाम्नः पर्वतैकप्रदेशाद् हंसनिवहः सितच्छदसमूह इव । यस्येति । चः पूर्वोक्तसमुच्चये । यस्य राज्ञः कीर्त्याभिख्यया दशसु दिक्षु मुखरितभुवनं यथा स्यात्तथाभ्रम्यतागम्यत । भावे रूपम् । अथ कीर्तिविशेषणानि - अमृतेति । अमृतस्य पीयूषस्य य आमोदस्तद्वत्सुरभिः प्रकटितः प्रकटः सुगन्धिश्च परिमलो यस्याः सा तया । 'कीर्त्याः सौगन्ध्य वर्ण्यते' इति कविसमयः । धवलीति । धवलीकृतः शुभ्रीकृतः सुरासुरलोको देवदानवलोको यया सा तया । कयेव । मन्दरेति । मन्दरेण स्वर्णाद्रिणोद्धतो दुर्दान्तो यो बहुलो दृढो दुग्धसिन्धुः क्षीरसमुद्रस्तस्य फेनोऽब्धिकफस्तस्य लेखयेव वीथ्येव । मन्थनक्षणे तयापि सुरासुरलोकः शुभ्रीकृतः इति तदुपमानमिति भावः । यस्य चेति । यस्य राज्ञो राजलक्ष्मी राज्यश्रीरातपत्रस्य छत्रस्य छायामातपाभावलक्षणं क्षणमपि निमेषमात्रमपि न मुमोच न तत्याज । तपआक्रान्तायास्तत्र शीतलस्थलाश्रयणं स्यादित्याशयेनाह - अतीति । अतिदुःखेन सोढुं शक्योऽतिदुःसहः एवंविधो यः प्रतापः कोशदण्डजनितं तेजस्तस्माद्यः संतापो धर्मस्तेन खिद्यमानेव पीड्यमानेव । अथ पञ्चक्रियाणामेकेनैव का संबन्धं दर्शयन्नाह - तथा चेति । यस्य राज्ञश्चरितं शौर्यविस्फूर्जितं दिष्टिवृद्धिमिव भाग्याभ्युदयमिव जनो लोकः शुश्रावाकर्णितवान् । उपदेशमिव गुरुनिदेशमिर्वं जग्राह गृहीतवान् । मङ्गलमिव धोवसीयमिव बहु मेने सर्वाधिकत्वेन ज्ञातवान् । मन्त्री देवताधिष्ठातृकस्तमिव जजाप जपितवान् । आगमः सिद्धान्तस्तमिव न विसस्मार न विस्मृतवान् । जन इत्यस्य सर्वत्र संबन्धः । यस्मिंश्चेति । यस्मिंस्तारापीडे राजनि । 'डिश्योर्वा' इति वाकारलोपः इदं पृथिव्यामासीत् । तदेव दर्शयति - गिरीत्यादि । गिरीणां पर्वतानां विपक्षता पक्षराहित्यम् । इन्द्रेण पक्षाश्छिन्ना गिरीणामिति प्रागेवोक्तम् । न तु लोकानां विपक्षता दस्युता । प्रत्ययाना स्वादीनां परत्वं प्रकृत्युपरिवर्तमानत्वम् । न तु लोकानां परत्वं भिन्नत्वं शत्रुत्वं वा । अभिमुखं जनानामवस्थीयतेऽनेनेत्यभिमुखावस्थानम् । कर्मणि ल्युट् । दर्पणानां मुकुराणाम् । न तु लोकोनां कस्यचित्पुरतः कस्याप्यवस्थानम् । सर्वेषां लक्ष्मीवत्त्वादिति भावः । शूलपाणिरीश्वरस्तस्य प्रतिमाया मूर्तेर्दुर्गा पार्वती तयाश्लेषोऽभिष्वङ्गः । न तु लोकानां दुर्गं विषमस्थल तेन श्लेषः संबन्धः । राजग्रहाभावात् । जलधराणां मेघानां चापधारणमिन्द्रधनुर्धारणम् । न तु लोकानाम् । भयाभावान्न धनुरादा - - - - - - - - - - - - - टिप्प० -1 पुरा किल परशुरामो महेश्वराद्धनुर्वेदशिक्षणावसरे क्रौञ्चदारकस्य स्कन्दस्य स्पर्धया बाणेन क्रौञ्चादि बिभेद यद्विवराद्धंससमूहो निर्जगामेति पुराणम् । 2 मथितः क्षोभित इत्याशयः । 3 दैवज्ञमुखात्स्वभाग्योदयं लोको यथा शृणोति तथा शुश्राव । उभयत्रापि लालसा कौतुकातिशयाश्च हेतुः । 4 उभयत्र अभ्युदयसंपादकत्वप्रत्याशा हेतुः । 5 उभयत्रापि सुखजनकत्वं हेतुः । 6 असकृज्जपेन (उच्चारणेन) तादृशानुकरणसिद्धिः (चरितपक्षे), अभीष्टसिद्धिः (मन्त्रपक्षे) । 7 वेदादिविस्मरणे पाप स्यात्, यशस्तु मनोहरतया स्वत एव न विस्मर्यते । - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ उद्धत; उद्धते. २ अभ्राम्यत. ३ आतपच्छायाम्. ४ अस्य. ५ दिष्टवृद्धिम्. ६ बहुमङ्गलमिव मेने. ७ आगमवचनम्. ८ दर्पाणाम्. तारापीडः पूर्वभागः । 125 Page #139 -------------------------------------------------------------------------- ________________ चापधारणम्, ध्वजानामुन्नतिः, धनुषामवनतिः, वंशानां शिलीमुखमुखक्षतिः, देवैतानां यात्रा, कुसुमानां बन्धनस्थितिः, इन्द्रियाणां निग्रहः, वनकरिणां वारिप्रवेशः, तैक्ष्ण्यमसिधाराणाम्, व्रतिनामग्निधारणम्, ग्रहाणां तुलारोहणम्, अगस्त्योदये विषशुद्धिः, केशनखानामायतिभङ्गः, जलददिवसानां मलिनाम्बरत्वम्, रत्नोपलानां भेदः, मुनीना योगसाधनम्, कुमारस्तुतिषु तारकोद्धरणम्, उष्णरश्मर्ग्रहणशङ्का, शशिनो ज्येष्ठातिक्रमः, महाभारते दुःशासनापराधाकर्णनम्, वयःपरिणामे दण्डग्रहणम्, असिपरिवारेष्वकुशल - *********** नम् । ध्वजानां वैजयन्तीनामुन्नतिरूर्ध्वमुखत्वेन । न तु लोकानाम् । अहंकृतेरभावात् । धनुषां चापानामवनतिरवनमनम् । न तु लोकानां बलात्कारेण नतिः । सर्वेषां स्वाधीनवृत्तित्वात् । वंशानां वेणूनां शिलीमुखा भ्रमरास्तेषां मुखैराननैः क्षतिश्छेदः । न तु लोकानां शिलीमुखा बाणास्तैः क्षतिः पीडा । युद्धाभावात् । 'पत्रिष्वजिहागशिलीमुखकङ्कपत्राः' इति कोशः । देवतानां यात्रा क्षणविशेषः । न तु लोकानां यात्रा भयादन्यत्र गमनम् । 'यात्रा स्याद्यापने गतौ इत्यनेकार्थः । कुसुमानां पुष्पाणां बन्धनेन ग्रथनेन स्थितिः । न तु लोकाना बद्धत्वेनावस्थानम् । सर्वेषां निरपराधित्वात् । इन्द्रियाणां करणानां निग्रहो निरोधः । न तु लोकानां निग्रहो दण्डः । वनकरिणामरण्यवासिगजाना वारिप्रवेशः । यया गजबन्धनं क्रियते सा वारी । 'वारी तु गजबन्धनी' इति कोशः । न तु लोकानां दिव्यार्थं वारिप्रवेशः'। तैक्ष्ण्यं छेदशक्तिरसिधारणां खड्गाग्रभागानाम् । न तु लोकानां तैष्ण्यं क्रौर्यम् । व्रतिनां योगिनामग्निधारणम् । न तु लोकानामग्नौ धारणम् । ग्रहाणां नक्षत्राणां तुलारोहणं तुला राशिस्तस्यामारोहणं संक्रमः । न तु लोकानां दिव्यार्थं तुलारोहणम् । अगस्त्योदयेऽगस्त्यस्य मुनेरुदये विषशुद्धिर्विषं पानीयं तस्य शुद्धिः स्वच्छता । न तु लोकानां विषेण शुद्धिः कलङ्कापहारः । तदुक्तम्-‘सप्तयवप्रमाणं वत्सनाभविषं तेन शुद्धिर्वेश्यानाम् इति । केशनखानामायतिर्विस्तारस्तस्या भङ्गो विच्छेदः । न तु लोकानामायतिरुत्तरः कालस्तस्य भङ्गो लक्षणया दुःखजनकत्वम् । नित्येन तद्विच्छेदायोगात् । 'आयतिस्तूत्तरः कालः' इति कोशः । जलदो घनाघनस्तत्कालीना ये दिवसा वासरास्तेषां मलिनं कश्मलमम्बरमाकाशं येषु तेषां भावस्तत्त्वम् । न तु लोकानां मलिनाम्बरत्वं मलोपयुक्तवसनत्वम् । रत्नोपलाना मण्यश्मना भेदः स्फोटनम् । न तु लोकानां मन्त्रभेदः । मुनीनां तपस्विनां योगश्चित्तवृत्तिनिरोधस्तस्य साधनं यमादि । न तु लोकानां योगो विषाग्निप्रयोगः कार्मणं वा तस्य साधनं दुष्टमन्त्रादि । कुमारः षण्मुखस्तस्य स्तुतयो नुतयस्तासु तारकस्य दैत्यस्योत्प्राबल्येन हरणं नाशनम् । न तु लोकानां तारका कनीनिका तस्या उद्धरणमुत्कर्षणम् । उष्णरश्मेः सूर्यस्य ग्रहणशङ्कोपरागशङ्का । न तु लोकानां ग्रहणं नियन्त्रण तस्य शङ्कारेका । शशिनश्चन्द्रस्य ज्येष्ठा नक्षत्रं तस्यातिक्रमस्तदुल्लङ्घनम् । न तु लोकानां ज्येष्ठो भ्रात्रादिस्तनिदेशोल्लङ्घनम् । महाभारते शास्त्रे दुःशासनो दुर्योधनलघुभ्राता तस्य योऽपराधः दुर्योधनाज्ञया दुःशासनेन द्यूते जितेषु पाण्डवेषु द्रौपदी केशेषु । गृहीत्वाकृष्टेत्यपराध आगस्तस्याकर्णनं श्रवणम् । न तु लोकानां दुष्टं शासनं येषां ते दुःशासना दुष्टमनुजास्तेषामपराधश्रवणम् । वयोऽवस्था तस्य परिणामः पक्वता तस्मिन्दण्डो यष्टिस्तस्य ग्रहणम् । न तु लोकानां दण्डः करस्तदादानम् । असिपरिवारेषु खड्गपिधानेष्वकुशलयोगो न विद्यते - - - - - - - - - - - - टिप्प० -1 वारिः इति हूस्व उचितः वारि(जल) प्रवेश इति श्लेषाय । 'वारि ह्रीबेरनीरयोः । वारिर्घट्यां सरस्वत्यं गजबन्धनभुव्यपि । हैमः । 2 अग्नेर्धारणम्, अग्निदिव्यम् ‘यद्यहं पापी स्यां तदाऽग्निना दग्धहस्तो भवेयमिति पापाभावात् । 3 उत्पाटनमित्यर्थः । पाठा० - १ पद्माना जलदिव्यं प्रतीहाराणामसिधारणं तैक्ष्ण्यमसिधाराणां ध्वजानाम्. २ शिलीमुखक्षतिः. ३ देवानाम्. ४ प्रवेशाः. ५ असिधाराणा तैक्ष्ण्यम्. ६ व्रतिनामसिधाराधारणम्. ७ विषविशुद्धिः. ८ जलधर. ९ धारणम्. १० ग्रहणाशङ्का. ११ दुःशासनापराधः. १२ असिधारासु कोशगुप्तिः (1261 कादम्बरी। कथायाम्-) Page #140 -------------------------------------------------------------------------- ________________ योगः, कामिनीकुंचभङ्गेषु वक्रता, करिणां दानविच्छित्तिः, अक्षक्रीडासु शून्यगृहदर्शनं पृथिव्यामासीत् । तस्य च राज्ञो निखिलशास्त्रकलावगाहगम्भीरबुद्धिः, आशैशवादुपारूढनिर्भरप्रेमरसः, नीतिशास्त्रप्रयोगकुशलः, भुवनराज्यभारनौकर्णधारः, महत्स्वपि कार्यसंकटेष्वविषण्णधीः, धाम धैर्यस्य, स्थानं स्थितेः, सेतुः सत्यस्य, गुरुर्गुणानाम्, आचार्य आचाराणाम्, धाता धर्मस्य, शेषाहिरिव महीभारधारणक्षमः, सलिलनिधिरिव महासत्त्वः, जरासंध इव घंटित - *********** कुशलं यस्मात्सोऽकुशलः खड्गस्तेन योगः संबन्धः । न तु लोकानां परिवारेषु परिच्छदेष्वकुशलमपुण्यं तस्य योगः । 'पर्याप्तिक्षेमपुण्येषु कुशलम्' इत्यनेकार्थः । अकुत्सितं शोभनं चर्म तस्य योगः । अन्यत्राकुशलमक्षेमजरादि तेन योगो नास्तीति वा । केचित् ‘असिपरिवारेषु कलङ्कयोगः' इति पठन्ति । कलङ्कः श्यामिका । अन्यत्र दोष इत्यर्थं । कामिनीनां स्त्रीणां कुचभङ्गेषु पयोधरपत्ररचनायां वक्रतारालता । करिणां हस्तिनां दानं मदः । 'मदो दानप्रवृत्तिश्च' इति कोशः । तस्य विच्छिती रचना । न तु लोकानां दानं वितरणं तस्य विच्छित्ति शिः । अक्षक्रीडासु द्यूतक्रीडासु शून्यगृहदर्शनं शून्यगृहावलोकनम् । खेलिन्या शून्यमित्यर्थः । न तु लोकानां शून्यस्थलदर्शनम् । अन्वयस्तु प्रोगेवोक्तः। तस्य चेति । तस्य राज्ञोऽमात्यः शुकनासो नाम ब्राह्मण आसीद्धभूव । अथ प्रथमान्तानि तस्य विशेषणानि । निखिलेति । निखिलानि यानि शास्त्राणि कलाश्च तासामवगाहस्तदभिप्रायाकलनं तेन गम्भीराऽलब्धमध्या बुद्धिः प्रतिभा यस्य स तथा । आ शैशवादा बाल्यादुपारुढ आश्रितो निर्भरो निबिडः प्रेमरसः स्नेहरसो यस्मिन्स तथा । नीतीति । नीतिशास्त्रं व्यवहारग्रन्थस्तस्य प्रयोगस्तदर्थपरीक्षण तत्र कुशलो दक्षः । भुवनेति । भुवनानां राज्यमाधिपत्यं तस्य भारो वीवधस्तल्लक्षणा या नौोणी तस्याः कर्णधारो नाविकः । महत्स्वपीति । महत्स्वपि गुरुष्वपि कार्यसंकटेषु कृतकष्टेष्वविषण्णाऽविषादवती धीर्बुद्धिर्यस्य स तथा । धामेति । धैर्यस्य धीरिमाया धाम गृहम् । स्थितेर्मर्यादायाः स्थान स्थलम् । सत्यस्यावितथस्य सेतुः पालिः । गुणानां शौर्यादीनां गुरुर्हितोपदेष्टा । आचाराणां शिष्टजनाचीर्णमार्गाणामाचार्य उपदेष्टा । धर्मस्य वृषस्य धाता प्रजापतिः । शेषेति । शेषाहिरनन्तस्तद्वदिव मह्याः पृथ्व्या भारो वीवधस्तस्य धारणमुदहनं तत्र क्षम इत्यभङ्गश्लेषः । सलिलेंति । सलिलनिधिः समुद्रस्तद्वदिव । सर्वत्रकविशेषणेनोभयं विशेषयन्नाह - महेति । महत्सत्त्वं साहस यस्मिन् । पक्षे महासत्त्वा जलचारिणः । जरेति । जरा राक्षसी तया साक्षात्संधितत्वाज्जरासंधस्तद्वदिव । कथा चात्र-राजगृहे जरासंधपित्रा बृहद्रथेन राज्ञीभ्यां पुत्रार्थमाराधितेन महर्षिणा चण्डकौशिकेनाम्रफलं प्रदत्तम् । तच्च सोऽर्धार्धं कृत्वा राजमहिषीभ्यां दत्तवान । तयोश्चार्धार्धशरीरं बालकद्वयं जातम् । तद् दृष्ट्वा तयोः कुपितेन राज्ञा श्मशानभूमौ मुक्तम् । तत्र च जरया संधितमेकत्र योजितमिति जरासंधनाम संवृत्तमस्येति वार्ता । उभयं विशिनष्टि - घटितेति । घटितौ विहितौ संधिविग्रही येन । तत्र संधिः साम, विग्रहो युद्धम् । पक्षे जरया पिशाच्या घटितः संधिः संघटनं यस्य संधिविग्रहस्य शरीरस्येति - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 राज्यभारग्रहणमेव नौका तस्याः कर्णधार इति सरलोऽर्थः । 2 धीरतायाः (अविचलचिततायाः) इत्युचिता व्याख्या । 3 सलिलनिधिपक्षे महान्तः सत्त्वाः (जलजन्तवः) यस्मिन्नित्यर्थः । 'महासत्त्वनिवासः' इत्यपि पाठः । महासत्त्वस्य (उत्कृष्टाध्यवसायस्य) आश्रयः (राजपक्षे) समुद्रपक्षे तु महता जलजन्तूना निवासः । पाठा० - १ वक्रता कामिनीना कुचभङ्गेषु. २ कुचपत्र. ३ तस्य राज्ञो. ४ कलाकलापावगाहनगभीर; कलापावगाहनगभीर. ५ भारैक. ६ सिन्धुः. ७ सकलमही. ८ महासत्त्वनिवासः. ९ प्रकटित. (शुकनासवर्णनम् । पूर्वभागः । Page #141 -------------------------------------------------------------------------- ________________ संधिविग्रहः । त्र्यम्बक इव प्रसाधितदुर्गः, युधिष्ठिर इव धर्मप्रभवः, सकलवेदवेदाङ्गवित्, अशेषराज्यमङ्गलेकसारः, बृहस्पतिरिव सुनासीरस्य, कविरिव वृषपर्वणः, वसिष्ठ इव दशरथस्य, विश्वामित्र इव रामस्य, धौम्य इवाजातशत्रोः, दमनक इव नलस्य, सर्वकार्येष्वाहितमतिरमात्यो ब्राह्मणः शुकनासो नामासीत् । यो नरकासुरशस्त्रप्रहारभीषणे भ्रममन्दरनितम्वनिर्दयनिष्पेषकठिनांसपीठे नारायणवक्षःस्थलेऽपि स्थितामदुष्करलाभाममन्यत प्रज्ञाबलेन लक्ष्मीम् । यं चासाद्य दर्शितानेकराज्यफला लतेव पादपमनेकप्रतानगहना विस्तारमुपययो प्रज्ञा । यस्य चानेकचारपुरुषसहस्रसंचार - *********** घटितसंधिविग्रहं यस्य जरासंधस्येति द्वितीयाबहुव्रीहिः । त्र्यम्बकेति । त्र्यम्बक ईश्वरस्तद्वदिव । प्रसाधितेति । प्रसाधित स्वायत्तीकृत दुर्गं विषमस्थलं येन । पक्षे प्रसाधिता प्रसन्नीकृता दुर्गा पार्वती येन स तथा । युधिष्ठिर इति । युधिष्ठिरो धर्मपुत्रस्तद्वदिव । धर्मस्य नीतिधर्मादः प्रभव उत्पत्तिर्यस्मात् । पक्षे धर्मात्प्रभवो यस्येति विग्रहः । सकलेति । सकलानि समग्राणि यानि, वेदवेदाङ्गानि शिक्षादीनि तेषां विज्ञाता । अशेषेति । अशेष समग्रं यद्राज्यं तत्र मङ्गलैकसारः कल्याणैकरहस्यभूतः प्रकारान्तरेण तमेव विशेषतो विशेषयन्नाहसुनासीरस्येन्द्रस्य बृहस्पतिः सुरगुरुस्तद्वदिव । वृषपर्वणो दैत्यस्य कविः शुक्रस्तद्वदिव । दशरथस्य रामपितुर्वसिष्ठोऽरुन्धतीजानिस्तद्वदिव । रामस्य दशरथात्मजस्य विश्वामित्रः कौशिकस्तद्वदिव । अजातशत्रोधर्मपुत्रस्य धौम्यः सचिवस्तद्वदिव । नलस्य नैषधेर्दमनकाभिधानोऽमात्यस्तद्वदिव । अयं तारापीडस्य राज्ञ इति भावः । सर्व इति । सर्वकार्येषु समग्रकृत्येष्वाहिता स्थापिता मतिर्बुद्धिर्येन स तथा । अन्वयस्तु प्रागेवोक्तः। य इति । यः शुकनासः प्रज्ञाबलेन बुद्धिसामर्थेनादुष्करलाभां स्वल्पप्रयासलभ्यां लक्ष्मी श्रियममन्यत ज्ञातवान् । कीदृशीम् । नारायणस्य कृष्णस्य यद्वक्षःस्थलं भुजान्तरं तत्र स्थितामासेदुषीमपि । एतेन तत्प्राप्तेरतिकाठिन्यं सूचितम् । वक्षःस्थलं विशिनष्टि - नरकेति । नरकासुरो दैत्यस्तस्य शस्त्राणि तेषां प्रहारोऽभिघातस्तेन भीषणे भयानके । भ्रमदिति । भ्रमच्चासौ मन्दरश्च भ्रमन्मन्दरस्तस्य यो नितम्वः कटकस्तस्य यो निर्दयं निरनुकम्पं निष्पेषचूर्णीभावस्तत्कर्तव्यतायां कठिनं कठोरमंसपीठं स्कन्धपीठं यस्मिन् । अथवा निष्पेषेणावनतिविशेषेणेति बोध्यम् । मथनावसरे हि मन्दरनितम्बा अंसयोर्लग्ना इति भावः । एतेन मन्दरादप्यसयोरधिककाठिन्यमिति ध्वनितम् । यमिति । यं शुकनासाख्यमासाद्य प्राप्य प्रज्ञा विस्तार विस्तीर्णतामुपययौ प्राप्तवती । तां विशिनष्टि - दर्शितेति । दर्शितानि प्रकटितान्यनेकराज्यान्येव फलानि यया सा तथा । केवलमेव यथा लता पादपं वृक्षं प्राप्य विस्तारं याति । कीदृशी । अनेकेति । अनेकैः प्रतानलतागहनैर्गहना निबिडा । यस्येति । यस्य मन्त्रिणो धरणीतले जगतीतले राज्ञा समुच्छसितमप्युच्छ्रसितमात्रमप्यहरहः प्रतिदिनमविदितमज्ञात नासीत् । न बभूवेत्यर्थः । कस्मिन्निव । भवन इव गृह इव । यथा सद्मनि किमप्यज्ञातं न स्यात् । भुवनतलं विशेषयन्नाह - अनेकेति । अनेका ये चारपुरुषाः प्रणिधिपुरुषास्तेषां सहसं तस्य - - - - - - - - - - - टिप्प० - 1 घटितो विहितः सन्धिः (उभयखण्डयोः संयोगः) यस्य तादृशो विग्रहः शरीरं यस्य स इति स्पष्टोऽर्थः । 2 भ्रमंश्चासौ इत्यर्थः । 3 अनेक इत्यवगन्तव्यम् । पाठा० - १ मण्डलैक. २ दमनक इव भीमस्य, सुमतिरिव नलस्य. ३ अप्रतिहत. ४ नामाभवत्. ५ शस्त्रभीषण. ६ मन्दरनिर्दय. ७ समासाद्य. ८ महापादपमनेकगहना. ९ उपाययौ. १० यस्यानेक. ११ परिचिते; विचिते. 128 कादम्बरी। कथायाम् Page #142 -------------------------------------------------------------------------- ________________ निचिते चतुरुदधिवलयपरिधिप्रमाणे धेरणीतले भवन इवाविदितमहरहः समुच्छसितमपि राज्ञा नासीत् । स राजा बाल एव सुरकुञ्जरकरपीवरेण राज्यलक्ष्मीलीलोपधानेन सकलर्जगदभयानयज्ञदीक्षायूपेन स्फुरदसिलतामरीचिजालजटिलेन निखिलारातिकुलप्रलयधूमकेतुदण्डेन बाहुना विजित्य सप्तद्वीपवलयां वसुंधरां तस्मिञ्छुकनासनाम्नि मन्त्रिणि सुहृदीव राज्यभारमारोप्य सुस्थिताः प्रजाः कृत्वा कर्तव्यशेषमपरमपश्यत् । प्रशमिताशेषविपक्षतया विगताशङ्क: शिथिलीकृतवसुंधराव्यापारः प्रोयो यौवनसुखान्यनुबभूव । तथा हि-कदाचिदुल्लसत्कठोरकपोलपुलकजर्जरितकर्णपल्लवानां प्रणयिनीनां चन्दनजलच्छटाभिरिव स्मितसुधाच्छविभिरभिषिच्यमानः, कर्णोत्पलैरिव लोचनांशुभिस्ताड्यमानः, - *********** संचारः परिभ्रमणं तेन निचिते पूरिते । चतुरिति । चतुरुदधीनां चतुःसमुद्राणां वलयं कङ्कणं तस्य या किंचिदधिका त्रिगुणिता परिधिः परिक्षेपः स एव प्रमाणं यस्य स तस्मिन् । ___स इति । स राजा तारापीडो बाल एव । सुरेति । सुरकुञ्जरो हस्तिमल्लस्तस्य करः शुण्डा तद्वत्पीवरेण पुष्टेन । राज्येति । राज्यलक्ष्मीराधिपत्यश्रीस्तस्या लीलोपबहेण । सकलेति । सकलजगतः समाविष्टपस्य यदभयदानं तदेव यज्ञदीक्षा तत्र यूपेन यज्ञस्तम्भेन । . स्फुरदिति । स्फुरन्ती देदीप्यमाना याऽसिलता खङ्गलता तस्या मरीचिजालं कान्तिसमूहस्तेन जटिलेन व्याप्तेन । निखिलेति । निखिलाः समग्रा येऽरातयः शत्रवस्तेषां यानि कुलानि तेषां प्रलयो विनाशस्तत्र धूमकेतुर्ग्रहविशेषस्तस्य दण्डेन पुच्छेन । दण्डाकृतिरूपत्वात्पुच्छस्येति भावः । एवंविधेन बाहुना भुजेन । सप्तेति । जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्कराः सप्तद्वीपा एव वलयं कङ्कणं यस्या एवंभूतां वसुंधरा विजित्य तस्मिञ्छुकनासनाम्नि मन्त्रिणि सुहृदीव मित्र इव राज्यभारमारोप्य निधाय सुस्थिताः सुखेन स्थायिन्यः प्रजाः प्रकृतीः कृत्वा निष्पाद्य कर्तव्यशेषमितः परं किं कर्तव्यमस्तीत्यपरं विचारविषयं कार्यमपश्यदित्यन्वयः । प्रशमितेति । प्रशमिताः शान्ति प्रापिता अशेषाः समग्रा विपक्षा दस्यवो येन तस्य भावस्तत्ता तया । अत एव विगताशङ्को निर्भयः । शिथिलीति । शिथिलीकृतः श्लथीकृतो वसुंधरायाः क्षितेर्व्यापारो व्यापृतिर्येन स तथा । प्रायो बाहुल्येन यौवनस्य तारुण्यस्य सुखानि स्त्रीसंभोगादीन्यनुबभूवानुभवविषयीचक्रे । तदेव दर्शयति - तथा हीति । कदाचिदिति । कदाचित् कस्मिंश्चित्समयेऽनङ्गपरवशः कामपरायत्तः सुरतं मैथुनमाततान विस्तारयामासेत्यन्वयः । किं क्रियमाणः । अभिषिच्यमानः सिच्यमानः । काभिः । स्मितमीषद्धसितं तदेव सुधामृतं तस्याश्छविभिः कान्तिभिः । काभिरिव । प्रणयिनीनां कामिनीनां चन्दनजलच्छटाभिरिव । कीदृशीनाम् । उल्लसन्तो विकसन्तः कठोराः कठिनाः कपोलेषु पुलका रोमाञ्चास्तै जरिताः श्लथीभूताः कर्णपल्लवाः श्रोत्रकिसलयानि यासाम् । पुनः किं क्रियमाणः । ताड्यमानः पीड्यमानः । कैः । लोचनांशुभिः नेत्रकान्तिभिः । कैरिव । कर्णोत्पलैरिव श्रवणकुवलय - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 परिधिशब्दस्य पुंस्त्वमेवावगन्तव्यम् । 2 'निखिलारातिकुलप्रलयधूमकेतुना बाहुदण्डेन' इत्यपि प्रचलितः पाठः । निखिलस्य अरातिकुलस्य प्रलये विनाशे धूमकेतुरिव धूमकेतुः (विनाशसूचकः) तेन इति तदर्थः । । - - - - - - - - - - - - - - - पाठा० - १ परिक्षेपप्रमाणे; परिखाप्रमाणे. २ धरणितले. ३ कुञ्जरपीवरेण. ४ राजलक्ष्मी. ५ जगद्दीक्षाभयप्रदान. ६ प्रदानशौण्डेन रणयज्ञदीक्षा. ७ धूमकेतुना बाहुदण्डेन विजित्य सकलद्वीप. ८ अपश्यन्. ९ विपक्षतया तया. १० विगलिताशङ्कः. ११ शिथिलितपृथिवीव्यापारः. १२ प्रायशो. १३ सुखम्. राज्ञो भोगविलासः पूर्वभागः ।। 129) Page #143 -------------------------------------------------------------------------- ________________ कुडुमधूलिभिरिवाभरणप्रभाभिराकुलीक्रीयमाणलोचनः, धवलांशुकैरिव करनखमयूखजालकैराहन्यमानः, चम्पककुसुमदलमालिकाभिरिव भुजलताभिराबध्यमानः, दंष्टाधराधूतकरतलचलन्मणिवलयकैलकलरमणीयम्, अतिरभसदलितदन्तपत्रदलदन्तुरशयनम्, उत्क्षिप्तंचरणतलगलदलक्तकरक्तशेखरम्, सरभसकचग्रहचूर्णितमणिकर्णपूरम्, उल्लसितकुचकृष्णागुरुपङ्कपत्रलताङ्कितप्रच्छदपटम्, अच्छश्रमजलकणिकालुलितगोरोचनतिलकपत्रभङ्गम्, अनङ्गपरवशः सुरतमाततान । कदाचिन्मकरकेतुकनकनाराचपरम्पराभिरिव कामिनीकरपुटविनिर्गताभिः कुङ्कुमजलधाराभिः पिञ्जरीक्रियमाणकायो लाक्षाजलच्छटाप्रहारपाटलीकृतदुकूलो मृगमदजलबिन्दुशबलचन्दनस्थासकः कनकश्रृङ्गकोशैश्चिरं चिक्रीड । *********** रिव । कुङ्कुमेति । कुङ्कुमं केसरं तस्य धूलिभिचूर्णेरिवाभरणप्रभाभिभूषणरश्मिभिराकुलीक्रियमाणे लोचने यस्य स तथा । धवलेति । धवलांशुकैरिव शुभवसनैरिव करयोर्हस्तयोर्नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां जालकैः समूहैराहन्यमान आघातविषयीक्रियमाणः । चम्पकेति । चम्पको हेमपुष्पकस्तस्य कुसुमानां पुष्पाणां दलानि खण्डानि । तेषां मालिका मालास्ताभिरिव भुजलताभिर्बाहुवल्लीभिराबध्यमानः संयम्यमानः । इतः सुरतविशेषणानि । दष्टेति । दष्टः खण्डितो योऽधरो रदनच्छदस्तेनाधूत कम्पित यत्करतलं तेन चलन्ति यानि मणिवलयानि तेषां यः कलकलोऽव्यक्तध्वनिस्तेन रमणीय मनोहरमत एवातिरभसमतित्वरं दलितानि द्वैधीकृतानि यानि दन्तपत्राणि कर्णाभरणानि तेषां दलानि तैर्दन्तुरं विषमं शयनीयं शय्या यस्मिन् । उत्क्षिप्तेति । उत्क्षिप्तावूर्वीकृतो यौ चरणौ पादौ ताभ्यां गलत्सवद्योऽलक्तको यावकरसस्तेन रक्तो रज्जितः शेखरोऽवसंतो यस्मिन् । सरेति । सरभसं ससंभ्रमं यः कचग्रहः केशग्रहस्तेन चूर्णित भग्न मणिकर्णपूरं रत्नोपेतं श्रवणभूषणं यस्मिन् । उल्लसितेति । संभोगावस्थायामुल्लसिता उल्लास प्राप्ता ये कुचाः पयोधरास्तेषु कृष्णागुरुः काकतुण्डस्तस्य यः पङ्कः कर्दमस्तस्य पत्रलताः पत्रभङ्ग्यस्ताभिरङ्कितश्चिह्नितः प्रच्छदपट उत्तरच्छदो यस्मिन् । अच्छेति । अच्छं निर्मल यच्छ्रमजलं रतक्लान्तिपानीयं तस्य कणिकाः पृषन्ति तैलुलितो विलुप्तो गोरोचनातिलकपत्राणां भङ्गो यस्मिन् । अन्वयस्तु प्रागेयोक्तः । कदाचिदिति । स राजा कनकश्रृङ्गकोशैः सुवर्णघटितश्रृङ्गसंघातैः चिरं चिरकालं यावच्चिक्रीड क्रीडां कृतवान् । 'क्रीड क्रीडने' धातुः । लिटि रूपम् । कीदृशः । कुङ्कुमस्य या जलधारास्ताभिः पिञ्जरीक्रियमाणः कायो यस्य स तथा । कीदृशीभिरिव । मकरकेतुर्मदनस्तस्य कनकस्य स्वर्णस्य ये नाराचा बाणास्तेषां परम्पराभिरिव । कीदृशीभिः । कामिन्यः स्त्रियस्तासां करपुटा हस्तसंपुटास्तेभ्यो विनिर्गताभिनिःसताभिः । पना राजानं विशिनष्टि - लाक्षेति । लाक्षाजलं यावकजलं तस्य छटास्तासा प्रहारोऽभिघातस्तेन पाटलीकत श्वेतरक्तीकृतं दुकूलं दुगूलं यस्य स तथा । मृगमदेति । मृगमदो गन्धधूली तस्य जलमम्भस्तस्य बिन्दुना पृषतेन शबलाः कर्बुराश्चन्दनस्थासका मलयजहस्तका यस्य स तथा । अन्वयस्तु प्रागेवोक्तः । - - - - - - -- - - - -- - -- - - - - - - - - - - - - - -- - टिप्प० -1 गलन् स्त्रवन् योऽलक्तक इत्यर्थः । 2 फाल्गुने जायमानस्य रङ्गजलक्रीडामयस्य मदनोत्सवस्य वर्णनमिदम् । अत एव तत्र नारीभिः कुमजलेन पिञ्जरीकृतोऽयम् । गात्रवस्त्रोपरि दत्तेषु चन्दनस्थासकेषु कस्तूरीजलबिन्दुभिः शवलीकरणम् । अयमपि च कनकनिर्मितैः शृङ्गाकारैर्जलनिक्षेपपात्रः (डोलची) तासु रङ्गजलं निक्षिपन् चिरं चिक्रीड । 'कीर्णैः पिष्टातकौघैः' इत्यादिना रत्नावल्या सोयमुत्सवो वर्णितः । सातवाहनेनापि गाथासप्तशत्याम् - 'घेत्तूण चुण्णमुट्टि हरिसूससिआएँ वेपमाणाए । भिसिणेमि त्ति पिअअम हत्थे गंधोदअंजाअं ॥ (४-१२) । इत्यादिना वर्णितः । एतद्गाथाया मत्कृतोऽनुवादः- 'आदाय चूर्णमुष्टिं हर्षोत्सुक्येन वेपमानायाः । प्रियमवकिरामि पुर इति हस्ते गन्धोदक जातम् ॥ इति । पाठा० - १ कुङ्कुमपटवास; कुडुमवास. २ लोललोचनः. ३ नखर. ४ दष्टाधरकरतल. ५ धुत; आधूत. ६ कलकलरव. ७ रतिरभस ८ दन्तुरित. ९ चरणगलत्. १० अश्रमजल. ११ गोरोचना; रोचना. १२ विनिर्गताभिरिव. पा 130 कादम्बरी । कथायाम Page #144 -------------------------------------------------------------------------- ________________ कदाचित्कुचचन्दनचूर्णधवलितोर्मिमालम्, चटुलतुलाकोटिवाचालचरणालक्तकसिक्तहंसमिथुनम्, अलकनिपतितकुसुमसारम्, प्लवमानकर्णपूरकुवलयदलम्, उन्नतनितम्बक्षोभजर्जरिततरंगम्, उद्दलितनालपर्यस्तनलिननिपतितधूलिपटलम्, अनवरतकरास्फालनस्फुरत्फेनबिन्दुचन्द्रकितं सावरोधजनो जलक्रीडया गृहदीर्घिकाणामम्भश्चकार । कदाचित्संकेतवञ्चिताभिः प्रणयिनीभिराबद्धभगुरभृकुटिभिरारणितपारिहार्यमुखरभुजलताभिर्बकुलकुसुमावलीभिः संयतचरणो नखकिरणविमित्रैः कुसुमदामभिः कृतापराधो दिवसमताड्यत । कदाचिद्धकुलतरुरिव कामिनीगण्डूषसीधुधारीस्वादमुदितो विकाशमभ - *********** कदाचिदिति । सहावरोधजनैरन्तः पुरलोकैर्वर्तमानः स राजा जलक्रीडया गृहदीर्घिकाणां भवनवापीनामम्भः पानीयमेतादृशं चकार निर्ममे । अथ चाम्भोविशेषणानि - कुचेति । कुचानां स्तनानां यानि चन्दनचूर्णानि मलयजक्षोदास्तैर्धवलिता शुभ्रीकृतोर्मिमाला कल्लोलपङ्क्तिर्यस्य तत् । चटुलेति । चटुला मनोहरा ये तुलाकोट्यस्तैर्वाचाला मुखरा ये चरणाः पादास्तेषां योऽलक्तकस्तेन सिक्तं सिञ्चितं हंसमिथुनं सितच्छदद्वन्द्वं यस्मिंस्तत्तथा । अलकेति । अलकाञ्चूर्णकुन्तलानिपतितं सस्तं कुसुमसारं पुष्परहस्यं यस्मिंस्तत्तथा । प्लवेति । प्लवमानं निमज्जमानं कर्णपूररूपं कुवलयदलं यस्मिन् । उन्नतेति । उन्नता उच्चा ये नितम्बा आरोहास्तैः क्षोभ आस्फालनं तेन जर्जरिताः क्षीणास्तरंगाः कल्लोला यस्मिंस्तत् । उद्दलितेति । उद्दलितान्युच्छिन्नानि नालानि बिसानि येषामेवंभूतानि पर्यस्तानि नलिनानि कमलानि तेभ्यो निपतितं सस्तं घूलिपटलं परागसमूहो यस्मिन् । अनवरतेति । अनवरतकरास्फालनेन निरन्तरहस्तास्फोटनेन स्फुरन्तो देदीप्यमाना ये फेनबिन्दवोऽब्धिकफपृषतास्तैरेव संजाता चन्द्रका मेचका यस्मिन् । 'तारकादिभ्य इतच्' इति । चन्द्रकितं मेचकितम् । अन्वयस्तु पूर्वोक्तः । कदाचिदिति । स दिवसं प्रतिदिवसं प्रणयिनीभिर्मानिनीभिरताड्यत ताडितोऽभूदित्यन्वयः । 'ताड व्यथने' इति धातुः । लुङन्तप्रयोगः । अत्र यद्यपि प्रथमतः कर्तृत्वेन निर्देशादितश्च कर्मत्वेनेति कारकप्रक्रमभङ्गस्तथापि वाक्यभेदाददोषः । कीदृशः । कृतेति । कृतो विहितोऽपराध आगो येन स तथा । पुनः कीदृक् । संयती बद्धौ चरणौ पादौ यस्य स तथा । कैः । कुसुमदामभिः पुष्पमालाभिः । किंविशिष्टाभिः । बकुलेति । बकुलः केसरस्तस्य कुसुमानां पुष्पाणामावलिः श्रेणिर्येषु तैः । नखेति । नखानां पुनर्भवानां किरणा मयूखास्तैर्विमित्रैः संपृक्तैः । अथ च प्रणयिनीनां विशेषणानि - संकेतेति । अमुकस्थले मयावश्यमागन्तव्यमिति संकेतस्तेन वञ्चिताभिनिष्फलीभूताभिः । सागता, स्वयं तु नागत इति भावः । अत एवाबद्धा विरचिता भङ्गुरा वक्रा भृकुटयो याभिस्ताः । आरणितेति । आरणितं शब्दायमानं यत्पारिहार्यं कङ्कणं तेन मुखरा वाचाला भुजलता यासां ताभिः । कदाचिदिति । बकुलतरुः केसरवृक्षस्तद्वदिव विकाशं विकस्वरतामभजत प्राप्तवान् । तमेव विशिनष्टि - कामिनीति । कामिनीनां स्त्रीणां यो गण्डूषश्चुलुकस्तस्य यत् सीधु मद्य - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 चुटुलाभ्यां चलिताभ्यां तुलाकोटिभ्यां नपुराभ्यां वाचालयोः चरणयोः अलक्तकेन सिक्तं हंसमिथुनम् (नपुररवाकृष्टौ हंसदम्पती) यस्मिन् तत् । इत्यत्र परमार्थः । 2 'कुसुमनिकरशारम्' इत्यपि पाठः । अलकनिपतितैः कुसुमनिकरैःशारं चित्रमिति तद व्याख्या । 3 प्लवमानानि जलोपरि संतरन्ति कर्णपूराणाम् आकण्ठमग्नमहिलाकर्णाभरणीकृतानां कुवलयानां नीलोत्पलायना दलानि यस्मिन् तत् । इति व्याख्याविषयक सरलीकरणम् । 4 उच्छिन्ननालत्वाज्जलोपरि पतितानि यानि कमलानि, इत्यर्थः । 5 समस्तं दिवसमभिव्याप्येत्यर्थः । प्रतिदिनताडनार्थस्तु टीकाकारस्य राजनि परमानुग्रह एव । पाटा० - १ धवलोमि. २ अलक्त. ३ कुसुमनिकरसारम्. ४ कर्णकुवलय. ५ संक्षोभ. ६ करतल. ७ विस्फुरत्. ८ भृकुटीभिः, भ्रुकुटिभिः, भ्रकुटीभिः. ९ मणिपारिहार्य. १० आवलीसयत. ११ कामिनीनां गण्डूष. १२ आस्वादन. (राज्ञो भोगविलासः पूर्वभागः ।। Page #145 -------------------------------------------------------------------------- ________________ जत । कदाचिदशोकपादप इव युवतिचरणतलप्रहारसंक्रान्तालक्तको रागमुवाह । कदाचिन्मुसलायुध इव चन्दनधवलः कण्ठावसक्तोल्लसल्लोलकुसुममालः पानमसेवत । कदाचिद्गन्धगज इव मदरक्तकपोलदोलायमानकर्णपल्लवो मदकलः काननं विकचवनलताकुसुमसुरभिपरिमलं जगाहे । कदाचित्क्वणितमणिनपुरनिनादानन्दितमानसो हंस इव कमलवनेषु रेमे । कदाचिन्मृगपतिरिव स्कन्धावलम्बिकेसरमालः क्रीडापर्वतेषु विचचार । कदाचिन्मधुकर इव विजृम्भमाणकुसुममुकुलदन्तुरेषु लतागृहेषु बभ्राम । कोचिन्नीलपटेंविरचितावगुण्ठनो बहुलपक्षप्रदोषदत्तसंकेताः सुन्दरीरभिससार । कदाचिच्च विघटितकनककपाटं प्रक - *********** तस्य धारा पङ्क्तिस्तस्या यः स्वादस्तेन मुदितो हर्षितः । कदाचिदिति । अशोकपादपः कङ्केल्लिवृक्षस्तद्वदिव । अशोकसाम्यं प्रदर्शयवाह - युवतीति । युवतीनां स्त्रीणां यश्चरणतलप्रहारः पादतलाभिघातस्तेन संक्रान्तो लग्नोऽलक्तको यस्य स तथा रागमनुरागमुवाहावहन् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रूपम् । कदाचिदिति । पूर्ववत् । मुसलायुधो बलभद्रस्तद्वदिव । तत्साम्यमाह - चन्दनेति । चन्दनेन हरिचन्दनाङ्गरागेण धवलः शुभ्रः । पक्षे चन्दनवद्धवलः । कण्ठेति । कण्ठावसक्तोल्लसन्ती लोला कुसुममाला यस्य स तथा पानं मद्यपानमसेवताभजत । कदाचिदिति । गन्धगजो गन्धहस्ती तद्वदिव काननं वनं जगाहे विलोडयामासेत्यन्वयः । कीदृशः । मदेति । मदेन रक्तो यः कपोलस्तस्मिन्दोलायमानः कर्णपल्लवो यस्य स तथा । मदकलो मदेन कलो मनोहरो विकचानि विकस्वराणि यानि वनलताकुसुमानि तेषां सुरभिः परिमलो यस्मिन् । कदाचिदिति । हंस इव मराल इव कमलवनेषु नलिनकाननेषु रेमेऽरमत । कीदृशः । क्वणितेति । क्वणितानि शब्दितानि यानि मणिनूपुराणि रत्नपादाङ्गदानि तेषां निनादः शब्दस्तेनानन्दितं मुदितं मानसं यस्य तथा । पक्षे क्वणितमणिनूपुरवद्यो निनादस्तेनानन्दितं मानस सरो येनेति विग्रहः । कदाचिदिति । मृगपतिरिव महानाद इव क्रीडापर्वतेषु क्रीडाशैलेषु विचचार व्यहार्षीत् । तमेव विशिनष्टि - स्कन्धेति । स्कन्धावलम्बिनी केसरोपयुक्ता माला सग्यस्य स तथा । पक्षे स्कन्धावलम्बिनी केसरमाला सटापङ्क्तिर्यस्येति विग्रहः । कदाचिदिति । मधुकर इव भ्रमर इव लतागृहेषु बभ्राम भ्रमण चकार । कीदृशेषु लतागृहेषु । विजृम्भेति । विजृम्भमाणानि यानि कुसुममुकुलानि तैर्दन्तुरेषु विषमेषु । कदाचिदिति । सुन्दरीः प्रमदा अभिससार सेवितवान् । कीदृक् । नीलेति । नीलपटेन श्यामपटेन विरचितं विहितमवगुण्ठनं शिरोवेष्टनं येन स तथा । सुन्दरीविशिनष्टि - बहुलेति । बहुलपक्षस्य कृष्णपक्षस्य यः प्रदोषो यामिनीमुखं तत्र दत्तः संकेतो याभिस्ताः । कदाचिच्चेति । अवरोधस्यान्तःपुरस्य संगीतकं नृत्यादि ददर्शाद्राक्षीदित्यन्वयः । केषु । प्रासादा भूपगृहास्तेषां कुक्षयो मध्यभागास्तेषु । तानेव विशिनष्टि - विघटितेति । विघटितमुद्घाटितं कनककपाटं स्वर्णकपाटं यथा स्यात्तथेति क्रियाविशेषणम् । प्रकटा वातायनाः स्पष्ट - - - - - - - - - -- टिप्प० -1 रत्ननिर्मितानि पादभूषणानि (मजीराः) इत्यर्थः । अगदस्तु भुजे प्रसिद्धः । 2 वास्तवे तु हंसपक्षेऽप्ययमेवार्थः । कामिनीनुपूररवेण तस्यापि मनःप्रहर्षस्य प्रसिद्धत्वात् । 3 बकुलमाला, इत्यर्थः । - - - - - - - - - - - - पाठा० - १ अलक्तकरसो रागम्. २ धवलकण्ठ. ३ कण्ठावसक्तलोल; कण्ठावसक्तसमुल्लसल्लोल. ४ पल्लवः कुसुमसुरभि. ५ विकस्वर. ६ क्वणन्. ७ स्कन्धावलम्बित. ८ पर्वतकेषु. ९ कदाचिद्वनलताग्रथितमौलिर्नक्तमालकुसुमस्तबकरचितशेखरः शुकपक्षरागमधरयता नलिनीदलकोमलेन हरितकञ्चुकेनावच्छिन्नशरीरावयवः कोदण्डदण्डसनाथीकृतवामेतरासदेशः पुरः प्रधावितानेकश्चगणिवागुरिकरुपदिश्यमानवानेकपक्षिजातिसमालम्बनव्यग्रपाणिभिः परिहासपेशलं सवयोभिरनुगम्यमानो मृगयारसविद्धचेताः सुचिरं गिरिनदिकारण्यप्रसरेषु परिवभ्राम । कदाचित्रीलपटकृतावगुण्ठनः. १० पटावगुण्ठनः पटरचितावगुण्ठनः. ११ बहुलनिशाप्रदोष. १२ कदाचिद्विघटित. १३ कपाटप्रकट. (132) कादम्बरी । कथायाम्-) Page #146 -------------------------------------------------------------------------- ________________ टवातायनेष्वनवरतदह्यमानकृष्णागुरुधूमरक्तैरिव पारावतैरेधिष्ठितविटङ्केषु प्रासादकुक्षिषुकतिपयाप्तसुहृत्परिवृतो वीणावेणुमुरजमनोहरमवरोधसंगीतकं ददर्श । किं बहुना यद्यदतिरमणीयमविरुद्धमायत्यां तदात्वे च तत्तदनाक्षिप्तचेताः परिसमाप्तत्वादन्येषां पृथिवीव्यापाराणां सिषेवे, नत्वतिव्यसनितया । प्रमुदितंप्रजस्य परिसमाप्तसकलमहीप्रयोजनस्य नरपतेर्वि योपभोगलीला भूषणम् । इतरस्य तु विडम्बना । प्रजानुरागहेतोरन्तरान्तरा दर्शनं ददौ । सिंहासनं च निमित्तेष्वारुरोह । शुकनासोऽपि महान्तं राज्यभारमनायासेनैव प्रज्ञावलेन बभार । यथैव राजा कार्याण्यकार्षीत्तद्वदसावपि द्विगुणीकृतप्रजानुरागो राजकार्याणि चक्रे । तमपि चेलितचूडामणिमरीचि - *********** गवाक्षा येषु । अनवरतेति । अनवरतं निरन्तरं दह्यमानो यः कृष्णागुरुः काकतुण्डस्तस्य धूमो दहनकेतनस्तेन रक्तैरिव रञ्जितैरिव । एवंभूतैः पारावतैः कलरवैरधिष्ठिता आश्रिता विटङ्काः कपोतपाल्यो येषु । कतीति । कतिपयाः कियन्तो य आप्ताः प्रत्ययिताः । 'आप्तप्रत्ययितौ समौ इति कोशः । एवंविधाः सुहृदो मित्राणि तैः परिवृतः सहित इति राज्ञो विशेषणम् । वीणा वल्लकी, वेणुवंशः, मुरजो मृदङ्गः, तैर्मनोहरमतिरमणीयम् । संगीतविशेषणम् । किं बहुनेति । किं बहुवक्तव्येन । यद्यदनिर्दिष्टनामकं वस्त्वतिरमणीयमायत्यामुत्तरकाले । 'आयतिस्तूत्तरः कालः' इति कोशः । तदात्वे चेति । 'तत्कालस्तु तदात्वं स्यात्' इति कोशः । अविरुद्धं नीतिशास्त्राप्रतिषिद्धं तत्तत्सिषेवे सेवितवान् । अतिसुन्दरेण वस्तुनाक्षिप्तश्चेत्तदा व्यसनमेवेत्याह - अनाक्षिप्तेति । अनाक्षिप्तमनाकुलं चेतो यस्य स तथा । अत्रार्थे हेतुं प्रदर्शयन्नाह - परीति । अन्येषां पृथिवीव्यापाराणां परिसमाप्तत्वात्परिपूर्णीभूतत्वात् न त्वतिव्यसनितया तदासक्ततयेत्यर्थः । एतदेवार्थान्तरन्यासेन विवृणोति - प्रमुदितेति । प्रमुदिता मुदं प्रापिताः प्रजाः प्रकृतयो येन स तथा तस्य । परीति । परिसमाप्तं परिपूर्णीकृतं सकलं समग्रं महीप्रयोजनं वसुधाकृत्यं यस्यैवंभूतस्य नरपतेः । विषयेति । विषयाः सक्वन्दनादयस्तेषामसकूदुपभुज्यन्त इत्युषभोगास्तेषा लीला क्रीडा भूषणमलंकारः । आदरातिशयाभावेनेत्यर्थः । 'असक्तः सुखमन्वभूतू' इत्युक्तत्वात् । इतरस्य त्वेत्तद्भित्रस्य तु बिडम्बना राजकृत्यासाधकत्वेन व्यसनमेव । प्रजेति । प्रजायाः प्रकृतेरनुरागः स्नेहस्तस्य हेतोस्तदर्थमन्तरान्तरा मध्ये मध्ये दर्शनं जनानां सौधावलोकनं ददौ दत्तवान् । असकृद्धहिर्गमनमनादरहेतुरिति भावः । सिंहेति । निमित्तेषु तथाविधकारणेषु सिंहासन नृपासनमारुरोहारूढवान् । शुकनासोऽपीति । शुकनासनामा मन्त्रिरपिमहान्तं गरिष्ठमपि राज्यभारमाधिपत्यधुरमनायासेनैव प्रयास विना प्रज्ञाबलेन राजनीतिबलेन बभार दधे । यथैवेति । यथा येन प्रकारेण राजा नृपः कार्याणि कृत्यान्यकार्षीत्कृतवास्तद्वदसौ शुकनासोऽपि । द्विगुणीति । पूर्वस्माद्विगुणीकृतोऽधिकीकृतः प्रजायाः प्रकृतेरनुरागः स्नेहो येन स तथा राजकार्याणि स्वस्वामिकृत्यानि चक्रेऽकार्षीत् । तमपीति । तं शुकनासमपि राजकं राजसमूह आननाम नमश्चक्रे । कैः । मौलिभिर्मस्तकैः कीदृशैः । चलिताः कम्पिता ये चूडामणयः शिरोमणयस्तेषां या मरीचिमञ्जर्यस्तासां जालं येषु तैः । - - - - - - - - - - - - टिप्प० - 1 विचारसापेक्षेपु शासनव्यापारेषु, पर्वोत्सवादिषु वा । 2 मन्त्रीत्यर्थः । पाठा० - १ पारापतैः. २ अध्यासित. ३ महाप्रासाद. ४ मनोहरतममन्तःपुरसंगीतकम्; मनोहरमन्तःपुरसंगीतकम्. ५ किं च बहुना. ६ अभिमतमविरुद्धम्. ७ आयत्या ८ न तु व्यसनितया. ९ प्रजस्य हि. १० महीमण्डलप्रयोजनस्य. ११ विषयसंभोग. १२ हेतोश्चान्तरान्तरा; हेतोश्चान्तरा. १३ शुकनासोऽपि राज्यभारम्. १४ महान्तं तम्; महान्तमपि. १५ यथैव च. १६ सर्वकार्याणि. १७ द्विगुणीकृतः प्रजानुरागश्चक्रे. १८ चकार. १९ चावलित. (शुकनासगौरवम् पूर्वभागः । Page #147 -------------------------------------------------------------------------- ________________ मञ्जरीजालिभिमौलिभिरावर्जितकुसुमशेखरच्युतमधुसीकरसिक्तनृपसभं दूरावनतिप्रेवोलितमणिकुण्डलकोटिसंघट्टिताङ्गदं राजकमाननाम । तस्मिन्नपि चलिते चलितचटुलतुरगबलमुखरखुररवबधिरीकृतभुवनान्तरालाः, बेलभरप्रचलवसुधातलदोलायमानगिरयः, गलन्मदान्धगन्धगजदानधारान्धकाराः, संसर्पदतिबहुलधूलिपटलधूसरितसिन्धवः, पंचलत्पदातिबलकलकलरवस्फोटितकर्णविवराः, सरभसोद्धष्यमाणजयशब्दनिर्भरीः, प्रोद्ध्यमानधवलचामरसहस्रसंछादिताः, पुजितनरेन्द्रवृन्दकनकदण्डातपत्रसंघट्टनष्टदिवसा दश दिशो बभूवुः । एवं तस्य राज्ञो मन्त्रिविनिवेशितराज्यभारस्य यौवनसुखमनुभवतः कालो जगाम । भूयसा च कालेनान्येषामपि जीवलोकसुखानां प्रायः सर्वेषामन्तं ययौ । एकं तु सुतमुखदर्शनसुखं न लेभे । तथोपभुज्यमानमपि निष्फलपुष्पदर्शन शरवणमिवान्तःपुरमँभूत् । यथा यथा - *********** राजकं विशेषयन्नाह-आवर्जितो धृतो यः कुसुमशेखरः पुष्पावतंसस्तस्माच्च्युताः सस्ता ये मधुसीकरा रसबिन्दवस्तैः सिक्ता सिञ्जिता नृपसभा राजपरिषद्येन तत् । दूरेति । दूरादूप्रदेशाद्यावनतिः प्रणामस्तत्र प्रेड्डोलितान्यान्दोलितानि यानि मणिकुण्डलानि रत्नकर्णाभरणानि तेषां कोटयोऽग्रभागास्तैः संघट्टितं संघर्षितमङ्गदं बाहुकटकं यस्य तत्तथा । तस्मिन्निति । तस्मिन्नपि शुकनासे चलिते प्रस्थिते सत्येवभूता दश दिशो बभूवुः । कीदृशाः । चलितेति । चलिताः प्रस्थिताश्चटुलाश्चपलास्तुरगा अश्वा यस्मिन्नेवंभूतं यद्वलं सैन्यं तस्य मुखेरा वाचाला ये खुराः शफास्तेषां रवः शब्दस्तेन बधिरीकृतानि भुवनान्तरालानि मध्यभागा यासु ताः । बलेति । बलभरेण सैन्यभारेण प्रचल कम्पित यद्वसुधातलं पृथ्वीतलं तेन दोलायमानाः कम्पायमाना गिरयः पर्वता यासु ताः । गलदिति । गलन्तः सवन्तो ये मदान्धा मदोन्मत्ता गन्धगजा गन्धेभास्तेषां दानधारा मदपङ्क्तय एवान्धकारा यासु ताः । संसर्पदिति । संसर्पदूधं गच्छद्यदतिबहुलमतिदृढं धूलिपटलं रजःसमूहस्तेन धूसरिता धूसरवर्णीकृताः सिन्धवो नद्यो यासु ताः । प्रचलदिति । प्रचलद् गच्छद्यत्पदातीनां पत्तीनां बलं सैन्य तस्य कलकलः कोलाहलस्तल्लक्षणो यो रवः शब्दस्तेन स्फोटितानि भेदं प्रापितानि कर्णविवराणि श्रवणविवराणि यासु ताः । सरभसेति । सरभस वेगेनो ष्यमाणो यो जयजयेति शब्दस्तेन निर्भराः । भृता इत्यर्थः । प्रोद्ध्येति । प्रोद्ध्यमानानि वीज्यमानानि यानि धवलचामरसहस्राणि तैः संछादिता आच्छादिताः । पुञ्जितेति । पुञ्जितं संधीभूतं यन्नरेन्द्रवृन्दं तस्य यानि कनकदण्डान्यातपत्राणि छत्राणि तैः संघट्टो पिमर्दस्तेन नष्टा दिवसा यासु ताः । एवमिति । एवं पूर्वोक्तप्रकारेण तस्य राज्ञस्तारापीडस्य मन्त्रिण्यमात्ये विनिवेशितः स्थापितो राज्यभारो येन स तथा तस्य यौवनसुख तारुण्यसौख्यमनुभवतोऽनुभवविषयीकुर्वतः कालोऽनेहा जगाम गतवान् । भूयसा भूयिष्ठेन कालेन प्रायो बाहुल्येनान्येषामपि जीवलोकसुखानां प्रजालोकसुखानां सर्वेषामन्तं पारं ययौ । लोकानामपि सर्वविषयानुभवो जात इत्यर्थः । एक त्विति । तु पुनरर्थे । सुतमुखदर्शनजनितं यत्सुखं तदेकं न लेभे न प्राप । तथेति । तथा तेन प्रकारेणोपभुज्यमानमुपभोगविषयीक्रियमाणमपि शरवणमिवान्तःपुरमभूत् । उभयं विशिनष्टि - निष्फलेति । निर्गतं फलं यस्मादेवंभूतं पुष्पं प्रसून रजश्च स्त्रीणां तस्य दर्शनं यस्मिन् । यथेति । यथा यथा येन येन प्रकारेण यौवनं तारुण्यमतिचक्रामातिक्रमितवान् । - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 कम्पमाना इत्याशयः । 2 कनकनिर्मिता दण्डा येषां तानीत्यर्थः । ------------------- - - पाठा० - १ सिक्तनृपसभदूरावनतिम्; सिक्तसभं दूरावनति. २ प्रेङ्खित. ३ चलति चटुलतुरंग. ४ भुवनाः. ५ बलप्रचल. ६ बहल. ७ धूलिप्रबलपदातिवल. ८ प्रवलपदाति. ९ कलकलस्फोटित. १० श्रवणविवराः. ११ निरन्तराः. १२ संघट्टन. १३ मन्त्रिनिवेशित. १४ कश्चित्कालो. १५ तनय; तोक. १६ संभुज्यमानम्. १७ अभवत्. १८ यथा यथा यौवनम्. 134 कादम्बरी। V कथायाम Page #148 -------------------------------------------------------------------------- ________________ च यौवनमतिचक्राम, तथा तथा विफैलमनोरथस्यानपत्यताजन्मावर्धतास्य संतापः । विषयोपभोगसुखेच्छाभिश्च मनो विजैघ्ने । नरपतिसहस्रपरिवृतमप्यसहायमिव, चक्षुष्मन्तमप्यन्धमिव, भुवनालम्बनमपि निरौलम्बमिवात्मानमर्मन्यत । अथ तस्यै चन्द्रलेखेव हरजटाकलापस्य, कौस्तुभप्रभेव कैटभारातिवक्षःस्थलस्य, वनमालेव मुसलायुधस्य, वेलेव सागरस्य, मदलेखेव दिग्गजस्य, लतेव पादपस्य, पुष्पोद्गतिरिव सुरभिमासस्य, चन्द्रिकेव चन्द्रमसः, कमलिनीव सरसः, तौरापङ्क्तिरिव नभसः, हंसमालेव मानसस्य, चन्दनवनराजिरिव मलयस्य, फणामणिशिखेव शेषस्य, भूषणमभून्त्रिभुवनविस्मयजननी जननीव वनिताविभ्रमाणां सकलान्तःपुरप्रधानभूता महिषी विलासवती नाम । एकदा च सैं तदावासगतस्तां चिन्तास्तिमिर्तैदृष्टिना शोकमूकेन परिजनेन परिवृताम्, आदरावस्थितैश्च ध्यानानिमिषलोचनैः कञ्चुकिभिरुपास्यमानाम्, अनतिदू - *********** तथा तथा तेन तेन प्रकारेण । विफलेति । विफलो निष्फलो मनोरथो यस्य स तथा तस्यास्य तारापीडस्य राज्ञः संतापो मानसी व्यथा - वर्धत वृद्धिं प्राप । संतापं विशिनष्टि - अनपत्येति । अनपत्यताऽसंतानत्वं तस्माज्जन्मोत्पत्तिर्यस्य स तथा । विषयेति । विषयाणां सक्चन्दनादीनां य उपभोगोऽसकृद्भोगस्तज्जनितं यत्सुखं सातं तस्येच्छा अभिलाषास्ताभिर्मनश्चित्तं विजघ्ने विरक्तं बभूव । नरेति । नरपतीनां राज्ञां यत्सहस्रं तेन परिवृतं सहितमप्यसहायमद्वितीयमिव चक्षुष्मन्तं सनेत्रमप्यन्धमिव गताक्षमिव भुवनालम्बनमपि निरालम्बमिव निराधारमिवात्मानं स राजामन्यताज्ञासिष्ट | अथेति । तस्य राज्ञो विलासवती नाम महिषी पट्टराज्ञी भूषणमलंकृतिरभूदित्यन्वयः । कस्य केव । हरजटाकलापस्य शंभुजटाजूटस्य चन्द्रलेखेव शशिकलेव । कैटभेति । कैटभारातिर्विष्णुस्तस्य वक्षस्थलं भुजान्तरं तस्य कौस्तुभो मणिस्तस्य प्रभा कान्तिस्तयेव । मुसलायुधस्य बलभद्रस्य वनमालाभरणविशेषः सेव । सागरस्य समुद्रस्य वेलेव जलवृद्धिरिव । दिग्गजस्य दिङ्नागस्य मदलेखेव दानराजिवि । पादपस्य वृक्षस्य लतेव वल्लीव । सुरभिमासस्य वसन्तमासस्य पुष्पोद्गतिरिव कुसुमोद्गम इव । चन्द्रमसः शशिनश्चन्द्रिकेव ज्योत्स्नेव । सरसः कासारस्य कमलिनीव नलिनीव । नभस आकाशस्य तारापङ्क्तिरिव नक्षत्रश्रेणिरिव । मानसस्य मानसाभिधसरसो हंसमालेव चक्राङ्गपङ्क्तिरिव । मलयस्य मलयाद्रेश्चन्दनवनराजिवि मलयजवन श्रेणिरिव । शेषस्य नागाधिपस्य फणामणिशिखेव स्फुटरत्नज्वालेव । त्रिभुवनेति । त्रिभुवनस्य विष्टपत्रयस्य यो विस्मय आश्चर्यं तस्य जननी कारिणी । वनितेति । वनिताः स्त्रियस्तासां विभ्रमाणां भ्रूसमुद्भवानां जननीव मातेव । सकलेति । सकलं समग्रं यदन्तःपुरमवरोधस्तस्मिन्प्रधानभूता मुख्या । एकदेति । एकदा एकस्मिन्समये स तारापीडस्तस्या विलासवत्या आवासं निवासस्थलं तत्र गतः संस्तां ददर्शाद्राक्षीत् । अथ च तस्या विशेषणानि - चिन्तेति । चिन्ता मानसी व्यथा तया स्तिमिता निश्चला दृष्टिर्दृग्यस्य स तेन । शोकेन शुचा मूकेन जडेनैवंभूतेन परिजनेन परिच्छदेन परिवृतां सहिताम् । आरादिति । आराद्दूरादवस्थितैः कृतावस्थानैर्ध्यानेन चिन्तया निमिषरहिते लोचने येषां तैरेवंभूतैः कञ्चुकिभिः सौविदल्लैरुपास्यमाना सेव्यमानाम् । अनतीति । नातिदूरवर्तिनीभिरन्तःपुरवृद्धाभिरवरोधवृद्धस्त्रीभिराश्वास्यमानां भावि - टिप्पo - 1 द्वितीयेन सहायकेन शून्यम्, 'शून्यमपुत्रस्य गृहम्' इति न्यायादित्यर्थः । 2 विलासानामित्याशयः । 3 परिवारजनेन । पाटा० - १ निष्फल. २ महानवर्धत. ३ विजहे, विजगाहे. ४ भुवनालम्बनम्; भुवनावलम्बनम्. ५ निरालम्बनम्. ६ अनपत्यममन्यत ७ अस्य ८ कैटभारि. ९ कल्पपादपस्य. १० कुसुमोद्गतिः; कुसुमोनतिः. ११ तारका. १२ च तदावासमुपगत; च तदावासगत. १३ राजा राशीमिव समुपागतः. १४ दीनदृष्टिना. (विलासवतीगौरवम् पूर्वभागः । 135 Page #149 -------------------------------------------------------------------------- ________________ रवर्तिनीभिश्चान्तःपुरवृद्धाभिरावास्यमानाम्, अविरलाश्रुपातार्दीकृतदुकूलाम्, अनलंकृताम्, वामकरतलविनिहितमुखकमलाम्, असंयताकुलालकाम्, सुनिबिडपर्यङ्किकोपविष्टाम्, रुदतीं ददर्श । कृताभ्युत्थानां च तां तस्यामेव पर्यङ्किकायामुपवेश्य स्वयं चोपविश्याविज्ञातबाष्पकारणो भीतभीत इव करतलेन विगतबाष्पाम्भःकणौ कुर्वन्कपोलो भूपालस्तामवादीत् 'देवि, किमर्थमन्तर्गतगुरुशोकभारमन्थरमशब्दं रुद्यते । ग्रनन्ति हि मुक्ताफलजालकमिवबाष्पबिन्दुनिकरमेतास्तव पक्ष्मपङ्क्तयः । किमर्थं च कृशोदरि, नालंकृतासि । बालातप इव रक्तारविन्दकोशयोः किमिति न पातितश्चरणयोरयमलक्तकरसः । कुसुमशरसरःकलहंसको कस्मात्पादपङ्कजस्पर्शेन नानुगृहीतौ मणिनपुरौ । किंनिमित्तमयमपगतमेखलाकलापमूको मध्यभागः । *********** फलप्रशंसया विश्वास्यमानाम् । अविरलेति । अविरला निबिडा येऽश्रुपाता नेत्रजलपातास्तैराीकृतं क्लिनीकृतं दुकूलं दुगूलं यया सा ताम् । अनलंकृतामविभूषितां वामकरतलेऽपसव्यपाणितले विनिहितं स्थापितं मुखकमलमाननपद्मं यया सा ताम् । अनेन खेदातिशयद्योतकः स्त्रीजातिस्वभावोऽभिहितः । असंयतेति । असंयता असंबंद्धा आकुला इतस्ततः पर्यस्ता अलकाः कचा यस्यास्ताम् । क्षुद्रः पर्यङ्कः पर्यङ्किका । सुनिबिडा दृढा या पर्यङ्किकोपवेशनमञ्जिका तस्यामुपविष्टामासेदुषीं रुदतीं रुदनं कुर्वाणाम् । अन्वयस्तु प्रागेवोक्तः । कृतेति । कृतं विहितमभ्युत्थानं समाननं यया सा ताम् । तां विलासवतीं तस्यामेव पूर्वोक्तायामेव पर्यङ्किकायामुपवेश्य संस्थाप्य स्वयं चात्मनान्यत्रोपविश्य । स्त्रीपुंसोरेकत्रावस्थितेरयोग्यत्वात् । तदनन्तरं च भूपालस्तामवादीदित्यन्वयः । स्वयं चेत्यनेन विलासवत्या उपवेशानन्तरं स्वस्योपवेशनेन शोकनिवारक आदरातिशयः सूचितः । अविज्ञातेति । अविज्ञातमविदितं बाष्पस्याश्रुपातस्य कारण नियामक येन स तथेति राज्ञो विशेषणम् । भीतभीत इव त्रस्तत्रस्त इव । स्नेहातिशयद्योतनार्थं वीप्सा । करतलेन पाणितलेन विगतो दूरीभूतौ बाष्पाम्भसो नेत्रजलस्य कणौ ययोरेवंभूतौ कपोलौ कुर्वनिति राजविशेषणम् । अन्वयस्तु प्रागेवोक्तः । किं तदित्याह - देवीति । हे देवि, किमर्थं किंप्रयोजनम् । अन्तरिति । अन्तर्गतो गूढपथगतो यो गुरुशोको गरिष्ठशुक्तस्य भारो भरस्तेन मन्थरमनुब्रटमशब्द शब्दवर्जितं रुद्यते रोदनं क्रियते । अत्राशब्दमित्यनेन धीरायाः स्वभावः प्रदर्शितः । अधीरायास्तु सशब्द रोदनं क्रियते । श्वेतवर्तुलत्वसाम्यात्तदुपमानमाह-ग्रथ्नन्तीति । एतास्तव पक्ष्मपङ्क्तयो नेत्ररोमराजयो मुक्ताफलजालकमिव मुक्ताकलापमिव बाष्पबिन्दुनिकरमश्रुकणसमूह ग्रनन्ति ग्रथनं कुर्वन्ति । हे कृशोदरि क्षामकुक्षि, किमर्थं किंनिमित्तं नालंकृतासि न भूषितासि । किमिति प्रश्ने । रक्तारविन्दकोशयोर्लोहितकमलमुकुलयो लातप इव तत्कालोदितसूर्यालोक इव चरणयोः पादयोरयमलक्तकरसो यावकद्रवो न पातितो न न्यस्तः । कोमलमकलाकारसाम्याच्चरणयोः कोशसाम्यम । आरक्तसाम्यादलक्तकरसे बालातपसाम्यम् । कसमीत । कसमशरस्य मदनस्य यत्सरः कासारस्तस्य कलहंसाविव कलहंसावनुरणनसाम्यान्मणिनपुरौ पादकटके कस्माद्धेतोः पादपङ्कजस्पर्शेन चरणकमलसंस्पर्शेन नानुगृहीती न प्रसादपात्रीकृतौ । किंनिमित्तमिति । किंनिमित्तं किंनिदानमयमपगतो यो मेखला कटिसूत्रं तस्य कलापः समूहस्तेन मूको जंडो मध्यभागो मध्यप्रदेशः । मेखलाया एकत्वेऽपि किङ्किण्यपेक्षया कलापेत्युक्त विवि - - - - - - - - - - - - - - - - - टिप्प० - 1 हेतुरित्यर्थः । 2 किञ्च-अन्येषां विदुषां मते सशब्दं रोदन न अधीरायाः स्वभावः, अपि तु धीराऽधीराया एव । यथाहि साहित्यदर्पणे-'प्रिय सोत्पासवक्रोक्त्या मध्या धीरा दहेद्रुषा । धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः ॥ 3 निःशब्द इत्यर्थं । पाठा०-१ अश्रुबिन्दु. २ निबिड. ३ देवीम् रुदती देवीम्. ४ कृतप्रत्युत्थानाम्; कृतप्रत्यभ्युत्थानाम्. ५ उपविश्य. ६ बाष्पवेग. ७ भूमिपालः. ८ तवायताः. ९ कोशयोरयम्. १० चरणयोरलक्तक. ११ किंनिमित्तमपगत. 136 कादम्बरी । कथायाम् Page #150 -------------------------------------------------------------------------- ________________ किमिति च हरिण इव हरिणलाञ्छने न लिखितः कृष्णागुरुपत्रभङ्गः पयोधरभारे । केन कारणेन तन्वीयं हरमुकुटचन्द्रलेखेव गङ्गासोतसा न विभूषिता हारेण वरोरु, शिरोधरा । किं वृथा वहसि विलासिनि सवदश्रुजललवधीतपत्रलतं कपोलयुगम् । इदं च कोमलाङ्गुलिदलनिकरं रक्तोत्पलमिव करतलं किमिति कर्णपूरतामारोपितम् । इमा च केन हेतुना मानिनि, धारयस्यनुपरचितगोरोचनाबिन्दुतिलकोमसंयमितालकिनी ललाटरेखाम् । अयं च ते बहुलपक्षप्रदोष इव चन्द्रलेखाविरहितः करोति मे दृष्टिखेदमतिबहुलतिमिरपटलौन्धकारः कुसुमरहितः केशपाशः । प्रसीद, निवेदये देवि, दुःखनिमित्तम् । एते हि पल्लवमिव सराग में हृदयमाकम्पयन्ति तरलीकृतस्तनांशुकास्तवायताः धासमरुतः कच्चिन्मयापरा - *********** धमणियुतिसाम्यात् । मेखलैव कलापः प्रचलाक इति वा । किमिति चेति । हरिणलाञ्छने चन्द्रे हरिण इव पयोधरभारे स्तनाभोगे कृष्णागुरुः काकतुण्डस्तस्य द्रवेण यः पत्रभङ्गो रचनाविशेषः किमिति हेतोर्न लिखितो न लिपीकृतः अत्र गौरत्ववर्तुलत्वकिंचित्कृष्णत्वसाम्याच्चन्द्रस्तनभारयोः साम्यम् । गौरकृष्णत्वसाम्याच्च हरिणकृष्णागुर्वोः साम्यम् । केनेति । हे वरोरु, केन कारणेनेयं तन्वी शिरोधरा ग्रीवा हारेण मुक्ताकलापेन न विभूषिता नालंकृता । केनेव गङ्गासोतसा स्वधुनीप्रवाहेण हरमुकुटो जटाजूटस्तस्मिन्या चन्द्रलेखा शशिकलेव । किं वृथेति । हे विलासिनि, सवत्क्षरद्यदश्रुजलं नेत्रजलं तस्य लवा बिन्दवस्तै|ता क्षालिता पत्रलता पत्रभङ्गिर्यस्मिन्नेवभूतं यत्कपोलयुगं वृथा मुधा किं वहसि किं धारयसि । इदं चेति । कोमलानि मृदूनि यान्यगुलिदलानि तेषां निकरः समूहो यस्मिन्नेवभूतं करतलं हस्ततलं रक्तोत्पलमिव कोकनदमिव । किमिति हेतोः कर्णपूरतां श्रवणाभरणतामारोपितं स्थापितम् । इमां चेति । हे मानिनि हे गर्वयुक्ते, केन कारणेन इमां प्रत्यक्षगतां ललाटरेखामलिकराजी धारयसि धत्से । तां विशेषयन्नाह - अन्विति । अनुपरचितमविहितं गोरोचना प्रसिद्धा तस्या बिन्दुभिस्तिलकं पुण्ड्रं यस्याः सा ताम्, असंयमिता असंबद्धा अलकाः केशा विद्यन्ते यस्याः सा ताम् । अयं चेति । अयं ते तव कुसुमरहितः पुष्पशून्यः केशपाशः कुन्तलकलापो मे मम दृष्टिखेदं करोति प्रणयतीत्यन्वयः । क इव । बहुलपक्षप्रदोष इव बहुलपक्षः कृष्णपक्षस्तस्य प्रदोषो यामिनीमुखं तद्वदिव । अत्र प्रदोषेऽपि शुक्लपक्षे चन्द्रलेखादर्शनाद्बहुलग्रहणम् । बहुलपक्षेऽपि पश्चिमरात्रौ चन्द्रनक्षत्राणां दर्शनात्प्रदोषग्रहणम् । कीदृक् । चन्द्रलेखा शशिकला तया विरहितः । प्रदोषं विशेषयन्नाह - अतीति । अतिबहुलान्यतिदृढानि यानि तिमिरपटलानि तमोमण्डलानि तैरन्धकारो नेत्ररश्मीनामप्रसरो यस्मिन्स तथा । अत्र शुक्लत्वसाम्यात्कुसुमचन्द्रलेखयोः साम्यम् । कृष्णत्वसाधर्म्यात्केशकलापप्रदोषयोः साम्यम् । सान्त्वनोपक्रमेण चाटुवचनविस्तारमुपसंहरन्नाह - देवीति । हे देवि हे राज्ञि, प्रसीद प्रसन्ना भव । दुःखनिमित्तं मानसिकव्यथाकारणं निवेदय कथय । एते हीति । हि निश्चितम् । एते दृश्यमानास्तवायता विस्तीर्णाः श्वासमरुतो निःश्वासाः पल्लवमिव किसलयमिव सरागम् । राग आरुण्यं प्रीतिश्च तेन सह वर्तमानमित्यर्थः । एतेन पल्लवसाम्यता सूचिता । मे मम हृदयं चित्तमाकम्पयन्ति धूनयन्ति । श्वासमरुतो विशिनष्टि - तरलीति । तरलीकृतं चञ्चलीकृतं - .- - - - - - - टिप्प० - 1 अतिबहुलेत्यादिक विशेषणं केशपाशेऽप्यन्वेति । कुसुमरहितः अत एव अतिबहुलतिमिरपटलवत् अन्धकारः केवलकृष्णवर्गः, इति तद्व्याख्या । - - - - - - - - - - -- - - - - - - - - - - - - - - - - - - - -- पाठा० - १ किमिति हरिण. २ आलिखितः. ३ पङ्कपत्रभङ्गः. ४ मुकुटे. ५ भूषिता. ६ वरारोहे. ७ कंधरा. ८ धौतकुङ्कुमपत्रलतम्. ९ युगलम्. १० कोमलागुलिनिकरम्. ११ केन हेतुना. १२ असंस्कृतालकिनीमलिकलेखाम्. १३ च बहुल. १४ दृष्टिवेदनाम्. १५ अन्धकारः केशपाशः. १६ आवेदय. १७ मम. १८ कम्पयन्ति. १९ तवाधिजाः. २० निःश्वासमारुताः. २१ क्वचित्. (विलासवतीदुःखप्रश्नः । पूर्वभागः । Page #151 -------------------------------------------------------------------------- ________________ द्धमन्येन वा केनचिदस्मदेनुजीविना परिजनेन ? अतिनिपुणमपि चिन्तयन्न पश्यामि खलु स्खलितमप्यात्मनस्त्वद्धिषये । त्वदायत्तं हि मे जीवितं राज्यं च । कथ्यतां सुन्दरि, शुचः कारणम्' इत्येवमभिधीयमाना विलासवती यदा न किंचित्प्रतिवचः प्रतिपेदे तदा विवृद्धवाष्पहेतुमस्याः परिजनमपृच्छत् । अथ तस्यास्ताम्बूलंकरङ्कवाहिनी सततप्रत्यासना मकरिका नाम राजानमुवाच - देव, कुतो देवादल्पमपि , रेस्खलितम् । अभिमुखे च देवे का शक्तिः परिजनस्यान्यस्य वा कस्यचिदपराद्धम् । किंतु महाग्रहग्रस्तेव विफलराजसमागमास्मीत्ययमस्या देव्याः संतापः । महाश्च कालः संतप्यमानायाः । प्रथममपि स्वामिनी दानवश्रीरिव सततनिन्दितसुरता शयनस्नानभोजनभूषणपरिग्रहादिषु समुंचितेष्वपि दिवसव्यापारेषु कथंकथ - *********** स्तनाशुकं पयोधरवस्त्रं यस्तै तथा । कच्चिदिति । कच्चित्प्रश्ने । मयास्मदनुजीविनास्मत्सेवकेन परिजनेन परिच्छदेनान्येन केनचिद्वापराद्धमपराधः कृतः । अतीति । अतिनिपुणमतिचतुरं चिन्तयन्नपि विचारयन्नपि त्वद्विषये । खलु निश्चयेन । आत्मनः स्वकीयस्य स्खलितमपि वैगुण्यमपि न पश्यामि नावलोकयामि । त्वदिति । हि निश्चितम् । मे मम जीवितं प्राणितं राज्यं च त्वदायत्तम् । त्वदधीनमित्यर्थः । हे सुन्दरि, शुचः शोकस्य कारणं नियामकं कथ्यता प्रतिपाद्यताम् । इतीति । इत्येवं पूर्वोक्तप्रकारेणाभिधीयमाना पृच्छ्यमाना विलासवती राजपत्नी यदा न किंचित्प्रतिवचः प्रत्युत्तरं प्रतिपेदे प्रतिपन्नवती । तदेति । तदा तेन प्रकारेणास्या विलासवत्या विवृद्धो वृद्धि प्राप्तो यो बाष्पो नेत्राम्बु तस्य हेतु कारण परिजनमपृच्छदप्राक्षीत् । धातोर्दिकर्मकत्वात्कर्मद्वयम् । __ अथेति । नृपप्रश्नानन्तरं तस्यास्ताम्बूलकरङ्कः स्थगी तद्वाहिका मकरिकेति नाम यस्याः । अनुकरणशब्दत्वान्न ङीप् । राजानं तारापीडमुवाचाब्रवीदित्यन्वयः । कीदृशी । सततं निरन्तरं प्रत्यासत्रा निकटस्थायिनी । किमुवाचेत्याह - देवेति । हे देव हे स्वामिन, देवात्तारापीडादधिपतेरल्पमपि स्वल्पमपि परिस्खलितं कुतः स्यात् । एतस्याः प्रीतिविषयेऽत्यन्तं सावधानत्वादिति भावः । अतश्चाभिमुख एतद्विषये लोकेनानुकूले ज्ञाते देवे राज्ञि परिजनस्यान्यस्य कस्यचित्तद्भिन्नस्यापराद्धुमपराधं कर्तुं का शक्तिः सामर्थ्यम् । न कापीत्यर्थः । तर्हि किमस्तीत्याशयेनाह - किं त्विति । महाग्रहो भूतादिग्रहस्तद्ग्रस्तेव तद्गृहीतेव । विफलेति । विगतं फलं पुत्रादिरूपं यस्मादेवभूतो राजसमागमो राजसंभोगो यस्याः सा तथा । या महाग्रहग्रस्ता स्यात्सापि विफलराजसमागमा स्यात् । राजरङ्कयोविभेदं न जानातीत्यर्थः । अहमस्मीत्यस्या देव्या अयं संतापश्चित्तोद्वेगः । संतप्यमानायाः संतापं कुर्वत्या महान्कालो भूयाननेहा । गत इत्यध्याहार्यम् । प्रथममपि पूर्वमपि स्वामिनीयं सशोकेवासीदित्यन्वयः । तामेव विशिनष्टि - दानवेति । दानवस्यासुरस्य श्रीरिव लक्ष्मीरिव । उभयं विशिनष्टिसततं निन्दितं सुरतं मैथुनं यया सा । पक्षे सुराणां समूहः सुरता । शेषं पूर्ववत् । शयनेति । शयनं स्वापः, स्नानमाप्लवः, भोजनमशनम्, भूषणपरिग्रह आभरणस्वीकारः, इत्यादिषु समुचितेष्वपि - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'स्खलितमल्पमप्यात्मनः' इत्यपि प्रचलितः पाठः । अल्पमपि आत्मनः स्खलितमिति अपिपदस्वारस्यात् । 2 न किञ्चित्स्वारस्यमस्मिन्नर्थे । वास्तवे तु 'विफलनरेन्द्रसमागमा' इत्येवोचितः पाठः । महाग्रहेण पूतनादिना उत्कटभूतेन ग्रस्ता (आविष्टा) नारी विफलो नरेन्द्रस्य (भूतचिकित्सकस्य) समागम उपस्थितिर्यस्यास्तादृशी भवति (भूतापसारणस्याशक्यत्वात्) । इयं तु पुत्रजननाभावाद्विफलो राज्ञः समागमो यस्यास्तादृशीत्यर्थः । पाठा० - १ उपजीविना. २ अतिनिपुणं चिन्तयन्. ३ स्खलितमल्पमपि. ४ जीवितं च राज्यं च. ५ अभिधीयमानापि यदा. ६ प्रतिवचनम्. ७ प्रपेदे. ८ करण्डक. ९ वाहिनी मकरिका. १० महाग्रह. ११ नरेन्द्र. १२ सुमहांश्च. १३ शयनाशनस्नान; शयनासनस्नान. १४ समुचितेषु दिवसव्यापारेषु. 138 कादम्बरी । कथायाम् Page #152 -------------------------------------------------------------------------- ________________ मपि परिजनप्रयत्नाट्प्रव॑र्त्यमाना सशोकेवासीत् । देवह्रदयपीडापरिजिहीर्षया च न दर्शितवती विकारम् । अद्य तु चतुर्दशीति भगवन्तं मँहाकालमर्चितुमितो गतया तत्र महाभारते वाच्यमाने श्रुतम् - 'अपुत्राणां किल न सन्ति लोकाः शुभाः । पुंनाम्नो नरकात्त्रायत इति पुत्रः' इत्येतच्छ्रुत्वा भवनमागत्य परिजनेन सशिरः प्रणाममभ्यर्थ्यमानापि नाहारमभिनन्दति, न भूषणपरिग्रहमाचरति, नोत्तरं प्रतिपद्यते । केवलमविरलेबाष्पदुर्दिनान्धकारितमुखी रोदिति । एतदाकर्ण्य देवः प्रमाणम्' इत्येतदभिधाय विरराम । विरतवचनायां तस्यां भूमिपालस्तूष्णीं मुहूर्तमिव स्थित्वा दीर्घमुष्णं च निश्वस्य निजगाद - ‘देवि, किमत्र क्रियतां दैवायत्ते वस्तुनि । अलमतिमात्रं रुदितेन । 'वयमनुग्राह्याः प्रायो देवतानाम् । आत्मजपरिष्वङ्गामृतास्वादसुखस्य नूनमभाजनमस्माकं हृदयम् । अन्यस्मिञ्जन्मनि न कृतमवदातं कर्म । जन्मान्तरकृतं हि कर्म फलमुपनयति पुरुषस्येह *********** योग्येष्वपि दिवसव्यापारेषु दिनकृत्येषु कथंकथमपि महता कष्टेन परिजनः परिच्छदस्तस्य प्रयत्न आग्रहस्तेन प्रवर्त्यमाना प्रेर्यमाणा । अन्वयस्तु प्रागेवोक्तः । तर्हि मया कथं न ज्ञातेत्याशयेनाह - देवेति । देवो भवांस्तस्य या हृदयपीडा चेतसोऽस्वास्थ्यं तस्याः परिजिहीर्षा परिहर्तुमिच्छा तया च विकारं शोकज्ञप्तिलक्षणं न दर्शितवती न ज्ञापितवती । तर्ह्यद्य कथं तत् (स) प्रदर्शित इत्याशयेनाह - अद्येति । तु पुनरर्थे । अद्य चतुर्दशीति कृत्वा भगवन्तं माहात्म्यवन्तं महाकालमर्चितुं पूजितुमितो गृहाद् गतया तत्र महाकालप्रासादे महाभारते शास्त्रे वाच्यमाने पठ्यमाने श्रुतमाकर्णितम् । किमित्याशङ्कायामाह - अपुत्राणामिति । अपुत्राणां सुतवर्जितानाम् । किलेति सत्ये । शुभा लोका देवलोका न सन्ति न विद्यन्ते । अत्रार्थे पुत्रशब्दव्युत्पत्तिं प्रदर्शयन्नाह - पुंनाम्न इति । पुंनाम्नो नरकात्त्रायत इति पुत्रः । एतेन पुत्रोऽपि नरकत्रायको भवतीति ज्ञापितम् । इत्येतदिति । इति पूर्वोक्तप्रकारेणैतच्छ्रुत्वाकर्ण्य भवनं गृहमागत्यैत्य परिजनेन परिच्छदलोकेन सशिरः प्रणामं शिरोवनतिपूर्वकं यथा स्यात्तथाभ्यर्थ्यमानापि प्रार्थ्यमानाप्याहारं भोजनं नाभिनन्दति नाभिलषति । भूषणानामाभरणानां परिग्रह स्वीकारं नाचरति न करोति । उत्तरं प्रतिवचो न प्रतिपद्यते । न ददातीत्यर्थः । तर्हि किं करोतीत्याशयेनाह केवलति । केवलं रोदिति रोदनमेव करोति । नान्यत्किमपीति भावः । कीदृशी । अविरलो घनो बाष्पो नेत्राम्बु स एव दुर्दिनं मेघजं तमस्तेनान्धकारितं संजातान्धकारं मुखं यस्याः सा । एतन्मदुक्तं वच आकर्ण्य श्रुत्वा देवः प्रमाणमिति । देवो भवान्यदाज्ञापयिष्यति तदेव सर्वैर्वेदवाक्यवत्स्वीकरिष्यति इति भावः । इति पूर्वोक्तप्रकारेणाभिधायोक्त्वा विरराम विरता बभूव । विरतवचनायां तस्यां मकरिकायां भूमिपालो राजा मुहूर्तमिव मुहूर्तमात्रं तूष्णीं मौनं स्थित्वा । तदवस्थतयास्थायेत्यर्थः । दीर्घं लम्वायमानमुष्णं तप्तं निश्वस्य निश्वासं मुक्त्वा निजगादाब्रवीत् । हे देवि । किमत्रेति । दैवायत्ते दैवाधीने वस्तुनि कृत्ये किं क्रियतां किं कर्तुं शक्यम् । अतएवातिमात्रं रुदितेनात्यन्तरोदनेनालं कृतम् । प्रायो बाहुल्येन देवतानां सुराणां न वयमनुग्राह्या अनुग्रहविषयाः । नूनम् अस्माकं हृदयं वक्ष आत्मजस्य पुत्रस्य यः परिष्वङ्ग उपगूहनं तदेवामृतं पीयूषं तस्यास्वादसुखमुपभोगसुखं तस्याभाजनमनाधारस्थलम् । अत्रार्थे हेतुमाह - अन्यस्मिन्निति । अन्यस्मिञ्जन्मनि भवान्तरेऽवदातं कर्म शुद्धं कर्म न कृतं न विहितम् । हि निश्चये । जन्मान्तरकृतं कर्म पूर्वभवार्जितं कर्म फलं शुभाशुभरूपमुपनयति प्राप पाटा० - १ प्रवर्तमाना. २ परिजिहीर्षया न. ३ अथ चतुर्दशी; अद्य चतुर्दशी. ४ महाकालाभिधानम्. ५ अपुत्राणां न सन्ति; अपुत्राणां किल गतिर्नास्ति न वा सन्ति. ६ वाष्पविन्दु. ७ इत्यभिधाय. ८ च तस्याम् ९ अतिमात्रमलं रुदितेन; अलमतिरुदितेन. १० वयमननुग्राह्याः. ११ विहितम्. ( राज्ञा विलासवतीसान्त्वनम् पूर्वभागः । 139 Page #153 -------------------------------------------------------------------------- ________________ जन्मनि । न हि शक्यं दैवमन्यथा कर्तुमभियुक्तेनापि । यावन्मानुष्यके शक्यमुपपादयितुं तावत्सर्वमुपपाद्यताम् । अधिकां कुरु देवि, गुरुषु भक्तिम् । द्विगुणामुपपादय देवतासु पूजाम् । ऋषिजनसपंर्यासु दर्शितादरा भव । पर हि दैवतमृषयो यत्नेनाराधिता यथासमीहितफलानां दुर्लभानामपि वराणां दातारो भवन्ति । श्रूयन्ते हि पुरा चण्डकोशिकंप्रभावान्मंगधेषु बृहद्रथो नाम राजा जनार्दनस्य जेतारमतुलभुजबलमप्रतिरथं जरासन्धं नाम तनयं लेभे । दशरथश्च राजा परिणतया विभाण्डकमहामुनिसुतस्यर्थ्यश्रृङ्गस्य प्रसादानारायणभुजानिवाप्रतिहतानुदधीनिवाक्षोभ्यानवाप चतुरः पुत्रान् । अन्ये च राजर्षयस्तपोधनानाराध्य पुत्रदर्शनामृतस्वादसुखभाजो बभूवुः । अमोघफला हि महामुनिसेवा भवन्ति । अहमपि खेलु देवि, कदा समुपारूढगर्भभरालसीमापाण्डुमुखी - *********** पुरुषस्य मनुष्यस्य । अत इह जन्मन्यस्मिन्भवे दैवमदृष्टमन्यथाकर्तुमनिष्टफलदं इष्टफलदं कर्तुमेव न शक्यमभियुक्तेनापि पण्डितेनापि । किं पुनर्मन्दमेधसा । अत्र दैवं द्विविधम् । प्रतिबन्धकमप्रतिबन्धकं च । प्रतिबन्धकं तदपि द्विविधम् । स्वतःप्रतिषेधरूपं वन्ध्यस्त्रीपुंयोगादौ । द्वितीयं तु सहकारिविघटनद्वारा राज्यप्राप्त्यादौ कार्योत्पत्तिप्रतिबन्धकम् । अप्रतिबन्धकं तदपि द्विविधम् । स्नानदानादिसामग्रीसमवधानेन प्रतिबन्धकं न भवति । तदभावे तु प्रतिबन्धकम् । अतोऽदृष्टस्याप्रत्यक्षत्वेन विविच्य ज्ञातुमशक्यत्वात् । द्वितीयसंभावनां चेतसिकृत्याह - यावदिति । मानुष्यके मनुष्यजन्मनि यावदुपपादयितुं कर्तुं शक्यं स्वकृतिसाध्यं तावत्सर्वमुपपाद्यतां क्रियताम् । एतदेव दर्शयति - अधिकेति । हे देवि, हिताहितप्राप्तिपरिहारोपदेष्टारो गुरवस्तेषु पूर्वावस्थातोऽधिकामाधिक्येन भक्तिमाराध्यत्वेन ज्ञानं कुरु विधेहि । देवतासु हरिहरादिषु द्विगुणां द्विगुणितां पूजाम_मुपपादय निष्पादय । ऋषिजनसपर्यासु मुनिजनसेवासु दर्शितः प्रकटित आदरः सत्कारो यया सैवंभूता भव । हि निश्चितम् । ऋषयो मुनयः परमुत्कृष्टदैवतं भाग्यम् । एतदेव प्रपञ्चयन्नाह - यत्नेति । यत्नेति प्रयत्नेन । मनःशुध्येत्यर्थः । आराधिताः प्रीणिता मुनयो यथासमीहितानि यथाभिलषितानि फलानि येष्वेवंभूतानां दुर्लभानामपि वराणां मार्गितानां दातारो दायका भवन्ति । अत्रार्थेऽन्यसंमतिं प्रदर्शयन्नाह - श्रूयन्ते हीति । हि निश्चितम् । श्रूयन्त आकर्ण्यन्ते । ग्रन्थान्तरेभ्य इति शेषः । मगधेषु कीकटेषु पुरा पूर्वं चण्डकौशिको मुनिस्तस्य प्रभावान्माहात्म्यादृहद्रथो राजा । नामेति कोमलामन्त्रणे । जनार्दनस्य कृष्णस्य जेतारं जयनशीलमतुलं निरुपम भुजबलं बाहुबलं यस्य स तमप्रतिरथं महारथं जरासन्धं नाम जरासन्धाभिधं तनयं पुत्रं लेभे प्राप्तवान् । दशरथेति । चकारः पूर्वोक्तसमुच्चयार्थः । दशरथो राजा परिणतं पक्वं वयो यस्यैवंभूतः सन्विभाण्डकनामा यो महामुनिस्तस्य सुतस्यर्थ्यश्रृङ्गस्य प्रसादान्माहात्म्यानारायणभुजानिव कृष्णबाहूनिवाप्रतिहतानपराजितानुदधीनिव समुद्रानिवाक्षोभ्याननाकलनीयांश्चतुरः पुत्रानवाप प्राप्तवान् । अन्ये चेति । पूर्वोक्तव्यतिरिक्ता राजर्षयस्तपोधनास्तपस्विन आराध्योपास्य पुत्रस्य सुतस्य यद्दर्शनमवलोकन तदेवामृतं तस्यास्वाद उपभोगस्तज्जनितं यत्सुखं सातं तद्भाजो बभूवुर्जज्ञिरे । अत्रार्थे हेतुं प्रदर्शयन्नाह - अमोघेति । हि निश्चितम् । नश्चितं फलं यासांता महामनिसेवाः महातपस्विसपर्या भवन्ति । हे देवि, खल निश्चयेन । अहमपि कदा कस्मिन्काले देवी त्वां द्रक्ष्यामि विलोकयिष्यामि । तामेव विशिनष्टि - समुपेति । समुपारूढः प्राप्तो यो गर्भो भ्रूणस्तस्य भरो भारस्तेनालसा मन्थरामा ईषत्पाण्डु शुक्लं मुखमाननं यस्याः - टिप्प० -1 अभिलाषाणामित्यर्थः । 2 समग्रस्य वक्ष्यमाणवाक्यार्थस्य कर्मत्वादेकत्वमेव समुचितमिति 'श्रूयते इति पाठः संभाव्यते । पाठा० - १ यावत्तु. २ गुरुभक्तिम्. ३ देवतापूजाम्. ४ परिचर्यासु. ५ अतिदुर्लभानाम्. ६ श्रूयते. ७ कौशिका. ८ प्रसादात्; प्रसादप्रभावात्. ९ मगधेशो. १० जनार्दनप्रतिमम्. ११ अतुलबलपराक्रमम्; अमरतुल्यभुजबलम्. १२ यया अपि. १३ आस्वाद. १४ हि महामुनिजनसेवा; हि महामुनिसेवा भवति. १५ खलु कदा. १६ आपाण्डुर. (140 कादम्बरी। कथायाम् Page #154 -------------------------------------------------------------------------- ________________ मासनपूर्णचन्द्रोदयामिव पौर्णमासीनिशां देवी द्रेक्ष्यामि ? कदा मे तनयजन्ममहोत्सवानन्दनिर्भरो हरिष्यति पूर्णपात्रं परिजनः ? कदा हारिद्रवसनधारिणी सुतसनाथोत्सङ्गा द्यौरिवोदितरैविमण्डला सबालातपा मामानन्दयिष्यति देवी । कदा सर्वोषधिपिञ्जरजटिलकेशो निहितरक्षाघृतबिन्दुनि तालुनि विन्यस्तगौरसर्षपोन्मिश्रभूतिलेशोगोरोचनाचित्रकण्ठसूत्रग्रन्थिरुत्तानशयो दशनशून्यस्मिताननः पुत्रको जनयिष्यति मे हृदयाह्लादम् । कदा गोरोचनाकपिलद्युतिरन्तः पुरिकाकरतलपरम्परासंचार्यमाणमूर्तिरशेषजनवन्दितो मङ्गलप्रदीप इव मे शोकान्धकारमुन्मूलयिष्यति चक्षुषोः । कदा च क्षितिरेणुधूसरो मण्डयिष्यति - *********** सा ताम् । कामिव । आसन्नेति । आसन्नः समीपवर्ती पूर्णचन्द्रस्योदयो यस्यामेवंभूतां पौर्णमासीनिशामिव राकारात्रिमिव । कदेति । मे मम तनयजन्ममहोत्सवः पुत्रजननलक्षणस्तस्मिन्य आनन्दः प्रमोदस्तेन निर्भरः संभृतः परिजनः पूर्णपात्रं पूर्णापात्रं पूर्णानक हरिष्यति ग्रहीष्यति । 'उत्सवेषु सुहृद्भिर्यद्वलादाकृष्य गृह्यते । वस्त्रं माल्यं च तत्पूर्णपात्रं पूर्णानक च' इति कोशः । कदेति । देवी विलासवती कदा मामानन्दयिष्यति प्रमोदं जनयिष्यति । तामेव विशेषयन्नाह - हारिद्रेति । हरिद्रया रजन्या रक्तं हारिद्रं यद्वसनं तस्य धारिणी धरणशीला । सुतेति । सुतेन पुत्रेण सनाथः सहित उत्सङ्गः क्रोडो यस्याः सा । केव । द्यौरिवाकाशमिव । तां विशिनष्टि - उदितेति । उदितमुदयं प्राप्तं रविमण्डलं सूर्यबिम्बं यस्यां सा । सह बालातपेन वर्तते या सा । हारिद्रवसनस्य कालेन पीतरक्तत्वाद्वालातपसाम्यम् । सूर्यबिम्बपुत्रयोश्च साम्यम् । कदेति । पुत्रकः सुतो मम हृदयं चेतस्तस्याह्लादं प्रमोदं जनयिष्यत्युत्पादयिष्यति । सुतं विशेषयनाह - सर्वेति । सर्वाश्च तो औषधयस्ताभिः पिञ्जराः पीतरक्ता जटिला अन्योन्यं मिलिताः केशाः कचा यस्य स तथा । निहितः स्थापितो रक्षया युतो घृतबिन्दुर्यस्मिन्नेवभूते तालुनि काकुदे विन्यस्तः स्थापितो गौरसर्षपणोन्मिश्रः संयुतो भूतिलेशो भस्मकणिका यस्य स तथा । अयं बालरक्षाविधिः । गोरोचनेति । गोरोचना तया चित्रो विचित्रः कष्ठसूत्रग्रन्थिर्यस्य स तथा । अयमपि रक्षाविधिः । उत्तानेति । उत्तानमूर्ध्वमुखं शेते यः स तथा । दशनेति । दशनैर्दन्तैः शून्यं रहितमेतादृशं स्मितं विकसितमाननं मुखं यस्य स तथा । कदेति । कदा कस्मिन्काले मे मम चक्षुषोर्नेत्रयोर्मङ्गलप्रदीप इव मङ्गलदीप इव शोक एवान्धकारं तिमिरमुन्मूलयिष्यति मूलतो दूरीकरिष्यति । कीदृक् । गोरोचनावत्कपिला पिङ्गला द्युतिः कान्तिर्यस्य स तथा । पुनस्तमेव विशिनष्टि - अन्त इति । अन्तःपुरे भवा अन्तःपुरिकाः पटान्तरिताः स्त्रियस्तासा करतलानि हस्ततलानि तेषां परम्परा श्रेणिस्तया संचार्यमाणा हस्ताद्धस्तं प्रति स्थाप्यमाना मूर्तिः शरीरं यस्य स तथा । अशेषेति । अशेषैः समग्रैर्जनैर्वन्दितो राजपुत्रत्वान्नमस्कृतः । कदाचेति । कदेति पूर्ववत् । वित्याः पृथिव्या यो रेणुधूलिस्तेन धूसरो मलिनो मम हृदयेन चितेन दृष्टया - - - - - - - - - - - - - टिप्प० - 1 'वर्धापक यदानन्दादलंकारादिकं पुनः । आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥ इति हारावलीपाठः । 2 'कुष्ठमासी हरिद्राभिर्वचाशैलेयचन्दनैः । सुराचन्दनकर्पूरैर्मुस्तः सर्वौषधिः स्मृतः ॥ इति राजनिघंटः । 3 अन्तःपुरनिवासिन्य इत्यर्थः । 4 एकस्या हस्तादपरस्या हस्ते नीयमानेत्याशयः । पाठा० - १ आसत्रचन्द्रोदयाम्. २ प्रद्रक्ष्यामि. ३ उद्यत. ४ पिञ्जरित. ५ घृतमधुबिन्दुतालु. ६ लेखः. ७ चित्रित. ८ जनाभिनन्दिता. ९ क्षितितलरेणु. राज्ञा विलासवतीसान्त्वनम् । पूर्वभागः । Page #155 -------------------------------------------------------------------------- ________________ मम हृदयेन दृष्टया च सह परिभ्रमन्भवनाङ्गणम् । कदा केसरिकिशोरक इव संजातजानुचङ्क्रमणावस्थः संचरिष्यतीतस्ततः स्फटिकमणिभित्त्यन्तरितान्भवनमृगशावकाजिघृक्षुः । कान्तःपुरनूपुरनिनादसङ्गतागृहकलहंसकाननुसर कक्षान्तरप्रधावितः कनकमेखलाघष्टिकारवानुसारिणीमायासयिष्यति धात्रीम् । कदा कृष्णागुरुपङ्कलिखितमदलेखालंकृतगण्डस्थलकः मुंखडिण्डिमध्वनिजनितप्रीतिरूवंकरविप्रकीर्णचन्दनचूर्णधूलिधूसरः कुञ्चिताङ्गुलिशिखराङ्कुशाकर्षणविधूतशिराः करिष्यति मत्तगजराजलीलाक्रीडाः । कदा मातुश्चरणयुगेलरागोपयुक्तशेषेण पिण्डालक्तकरसेन वृद्धकञ्चुकिनां विडम्बयिष्यति मुखानि । कदा कुतूहलचञ्चललोचनो मणिकुट्टिमेष्वधोदत्तदृष्टिरनुसरिष्यति स्खलद्गतिरात्मनः प्रतिबिम्बानि । *********** च लोचनेन सह सार्धं परिभ्रमन्नितस्तः पर्यटन्भवनाङ्गणं गृहाङ्गणं मण्डयिष्यति भूषयिष्यति । एतेन राज्ञश्चित्तनेत्रयोस्तृतीय एवायं सखेति ध्वनितम् । कदेति । कदेति पूर्ववत् । इतस्ततः संचरिष्यति संचरणं करिष्यति । क इव । केसरी सिंहस्तस्य किशोरकः शिशुस्तद्वदिव । संजातेति । संजाता समुत्पन्ना जातु कदाचित् चक्रमणावस्था गमनयोग्यता यस्य स तथा । स्फटिकेति । स्फटिकमणीनां या भित्तयः कुड्यानि ताभिरन्तरितान्व्यवहितान्भवनमृगाणां गृहकुरङ्गाणां शावकान्पोतान्प्रतिबिम्बादिना दृश्यमानमूर्तीजिघृक्षुर्गृहीतुमिच्छुः । कदेति । कदा कस्मिन्काले धात्रीमुपमातरमायासयिष्यति प्रयास जनयिष्यति । कीदृक् । कक्षान्तरे गृहकोणान्तरे प्रधावित उच्चलितः । दर्शनविषयत्वाभावादाह - कनकेति । कनकस्य सुवर्णस्य या मेखला रसना तस्या घण्टिकाः किङ्किण्यस्तासां यो रवः शब्दस्तमनुसर्तुं शीळं यस्याः सा ताम् । किं कुर्वन् । अनुसरन्ननुलक्ष्यीकृत्य गच्छन् । कान् । गृहकलहंसकान्भवनसितच्छदान् । कीदृशान् । अन्तःपुरेऽवरोधे यो नूपुरस्य पादकटकस्य निनादः शब्दस्तेन संगतान्मिलितान् । कदेति । कदेति पूर्ववत् । मत्तो यो गजराजो हस्ती तस्य लीला विलासो यस्यामेवंविधाः क्रीडाः खेलनं करिष्यति रचयिष्यति । उभयोः साम्यप्रतिपादनार्थमाह - कृष्णेति । कृष्णागुरुः काकतुण्डस्तस्य पङ्को द्रवस्तेन लिखिता लिपीकृता या मदलेखावल्लेखा तयालंकृतं विभूषितं गण्डस्थलं यस्य स तथा । 'शेषाद्विभाषा' इति कप्प्रत्ययः । पक्षे कृष्णागुरुपङ्कचन्मदलेखा दानपद्धतिः । मुखेति । धात्र्यादीनां लालनार्थं मुखेन यो डिण्डिमध्वनिः, अथ चानुरक्तहस्तिपकानां मुखेन समाधानार्थ यो डिण्डिमध्वनिस्तेन जनितोत्पादिता प्रीतिर्यस्य स तथा । ऊचेति । उर्ध्वकरणोध्वींकृतहस्तेन, तादृशशुण्डया च विप्रकीर्णा विक्षिप्ता चन्दनचूर्णस्य मलयजक्षोदस्य धूलिस्तया, च चन्दनचूर्णवद्धूलिः पांसुः तया धूसरो मलिनः । कुञ्चितेति । कुञ्चिता वक्रीकृता याङ्गुली तस्याः शिखरमग्रम् । 'शिखर पुलकाग्रयोः' इत्यनेकार्थः । तदेवाङ्कुशः सृणिः । गजपक्षे कुञ्चिताङ्गुलिशिखरवदङ्कुशस्तेनाकर्षण पृष्ट पुरतो वा चालनं तेन विधूतं कम्पितं शिरो मस्तकं येन स तथा । कदेति । मातुरिति । माता जननी तस्याश्चरणयुगल पादद्वन्द्व तस्य रागो रञ्जनं तत्रोपयुक्तः सन् यः शेष उर्वरितस्तेन, पिण्डालक्तकः पिण्डीकृतो यो लाक्षाद्रवस्तस्य यो रसः तेन वृद्धकञ्चुकिना स्थविरसौविदल्लानां मुखानि वदनानि विडम्बयिष्यति । तद्रसाश्लेषेण विरूपाणि करिष्यतीति भावः । कदेति । कदेति पूर्ववत् । कुतूहलेन कौतुकेन चञ्चले चपले लोचने नेत्रे यस्य स तथा । मणिकुट्टिमेषु रत्नबद्धभूमिषु संक्रान्तमात्मीयमुखारविन्दं द्रष्टुमधोदत्ता दृष्टियेन स तथा तदलाभखेदात्स्खलन्ती गतिर्यस्यैवंभूत आत्मनः स्वकीयस्य प्रति - पाठा० - १ किशोर. २ चक्रमणारम्भः. ३ मणिमय. ४ आजिघृक्षुः. ५ अन्तःपुरिकानपुर. ६ गृहहंसकान्. ७ पक्षान्तर. ८ प्रधाविताम्. ९ गण्डस्थलः कोमल. १० मुखरबडिण्डिम. ११ जात. १२ मदमत्तगजराजलीलाम; मत्तगजक्रीडाम्; मत्तगजरालीलान्; मत्तगजराजलीलः क्रीडाम्; मत्तगजराजलीला. १३ चरणरागोपयुक्त. १४ कञ्चुकिनाम्. १५ लोक. १६ प्रतिविम्बितानि. (142) कादम्बरी। कथायाम् Page #156 -------------------------------------------------------------------------- ________________ कदा नरेन्द्रसहसप्रसारितभुजयुगलाभिनन्यमानागमनो भूषणमणिमयूखाकुलीक्रियमाणलोलदृष्टिरास्थानस्थितस्य में पुरः सर्पिष्यति सभान्तरेषु । इत्येतानि मनोरथशतानि चिन्तयतोऽन्तःसंतप्यमानस्य प्रयान्ति रजन्यः । मामपि दहत्येवायमहर्निशमनल इवानपत्यतासमुद्भवः शोकः । शून्यमिव मे प्रतिभाति जगत् । अफलमि पश्यामि राज्यम् । अप्रतिविधेये तु विधातरि किं करोमि । तन्मुच्यतामयं देवि, शोकानुबन्धः । आधीयतां धैर्य धर्मे च धीः । धर्मपरायणानां हि समीपसंचारिण्यः कल्याणसंपदो भवन्ति इत्येवमभिधाय सलिलमादाय स्वयं करतलेनाभिनवपल्लवेनेव विकचकमलोपमानमाननमस्याः साश्रुलेख ममार्ज । पुनःपुनश्च प्रियशतमधुराभिः शोकोपनोदनिपुणाभिर्धर्मोपदेशगर्भाभिर्वाग्भिरावास्य सुचिरं स्थित्वा नरेन्द्रो निर्जगाम ।। निर्गते च तस्मिन्मन्दीभूतशोको विलासवती यथाक्रियमाणाभरणपॅरिग्रहादिकमुचितं - *********** बिम्बानि प्रतिरूपाण्यनुसरिष्यति तद्गहणार्थमनुगमिष्यति । कदेति । कदेति पूर्ववत् । नरेन्द्राणां यत्सहसं तेन प्रसारितं विस्तारित यद्भुजयुगलम् । जात्येकवचनम् । तेनाभिनन्द्यमानमपेक्ष्यमाणमागमनं यस्य स तथा । भूषणेति । भूषणानां ये मणयो रत्नानि तेषा मयूखाः किरणास्तैराकुलीक्रियमाणा लोला दृष्टिर्यस्य स तथा । आस्थानस्थितस्य सभोपविष्टस्य मे मम पुरोऽग्रे सभान्तरेषु परिषन्मध्यप्रदेशेषु सर्पिष्यति पुनः पर्यटनं करिष्यति । संतापनिवेदकानि चिन्तावाक्यानि त्रयोदशोपसंहरन्नाह - इत्येतानीति । एतानि पूर्वोक्तानि मनोरथशतानि मनोविकल्पितशतानि चिन्तयतो ध्यायतो राज्ञोऽन्तर्मध्ये संतप्यमानस्य प्रज्वल्यमानस्य रजन्यो रात्रयः प्रयान्ति गच्छन्ति । ममापीति । अनपत्यताऽसंतानता ततः समुद्भवः समुत्पन्नः शोकः शुगनल इव वह्निरिवाहर्निशं प्रतिदिनं मामपि दहत्येव ज्वालयत्येव । शून्यति । मे मम शून्यमिवोदसितमिव जगद्विधं प्रतिभाति प्रतिभासते । अफलेति । राज्यमाधिपत्यमफलमिव निरर्थकमिव पश्याम्यवलोकयामि । अप्रतीति । न विद्यते प्रतिविधेयमस्मान्प्रति यस्य विधातुस्तस्मिन्नप्रतिविधेये प्रतीकारानर्हे वा विधातरि किं करोमि किमनुतिष्ठामि । तदिति । तत् तस्मात्पूर्वोक्ताद्धोतोः । हे देवि, अयं शोकानुबन्धः शोकपरम्परा मुच्यतां त्यज्यताम् । धैर्ये धीरतायां धर्म च धीर्बुद्धिराधीयता स्थाप्यताम् । अत्रार्थे हेतुमाह - धर्मेति । हि निश्चितम् । धर्मपरायणानां सुकृततत्पराणां कल्याणसंपदः श्रेयोविभूतयः सदा सर्वकाल समीपसंचारिण्य पार्श्ववर्तिन्यो भवन्ति संजायन्ते । इत्येवं पूर्वोक्तप्रकारेणाभिधायोक्त्वा । सलिलमिति । सलिलं पानीयमादाय गृहीत्वा स्वयमात्मनः करतलेन पाणितलेनाभिनवपल्लवेनेव प्रत्यग्रकिसलयेनेव विकचं विकस्वरं यत्कमलं नलिनं तदेवोपमान यस्यैवंभूतमस्या विलासवत्यां साश्रुलेखमश्रुराज्या सहवर्तमानमाननं मुखं ममार्ज । शुद्धं चकारेत्यर्थः । 'मृजूष शुद्धौ इति धातोलिटि रूपम् । पुनरिति । पुनः पुनरिवारम् । प्रियेति । प्रियमिष्टं तस्य शतं तेन मधुराभिर्मिष्टाभिः शोकस्य शुचो योऽपनोदो दूरीकरण तत्र निपुणाभिः पण्डिताभिर्धर्मस्य पुण्यस्य य उपदेशः प्रतिपादनं स एव गर्भेऽभ्यन्तरे यासां ताभिरेवंभूताभिर्वाग्भिवचोभिरश्वास्याश्वासना कृत्वा सुचिरं चिरकालं यावस्थित्वा नरेन्द्रो नृपो निर्जगाम गृहाबहिर्ययौ । निर्गत बहिर्गते च तस्मिन्मन्दीभूतशोका मन्दीभूतः क्षीणतां प्राप्तः शोको यस्याः सर्वभूता विलासवत्युचितं योग्यम् । यथेति । यथा पूवोक्तप्रकारेण क्रियमाणो विधीयमानो य आभरणपरिग्रहो विभूषणस्वीकारः स एवादौ - पाठा० - १ मयूखलेखाकुली. २ मम. ३ पर्यटिष्यति. ४ इत्येतानि चान्यानि; इत्येतानि च. ५ यान्ति. ६ संतापः. ७ शून्यमेव. ८ इवाखिलं पश्यामि. ९ जीवित राज्य च. १० मुच्यता देवि. ११ इत्थम् एवम्. १२ कमलतुल्यम्. १३ अपनोदन. १४ सुचिर नरेन्द्रः. १५ शोकावेगा. १६ यथाक्रियमाणम्. १७ परिग्रहादिक समुचितम्, परिग्रहादिकसमुचितम्. विलासवत्या देवताराधनम् पूर्वभागः । 143 Page #157 -------------------------------------------------------------------------- ________________ १३ दिवसव्यापारमन्वतिष्ठत् । ततःप्रभृति सुतरां देवताराधनेषु ब्राह्मणपूजासु गुरुजनसपंर्यास्वादरवती बभूव । यद्यच्च किंचित्कुतािच्छुश्राव गर्भतृष्णया तत्तत्सर्वं चकार । न महान्तमपि क्लेशमजीगणत् । अनवरतदह्यमानगुग्गुलुबहुलधूमान्धकारितेषु चण्डिकागृहेषु धेवलाम्बरेण शुचिमूर्तिरुपोषिता हरितकुशोपच्छदेषु मुसलशयनेषु सुष्वाप । पुण्यसलिलपूणैर्विविधकुसुमफलोपेतैः क्षीरतरुपल्लवलाञ्छनैः सर्वरत्नगर्भः शातकुम्भकुम्भैगोकुलेषु वृद्धगोपवनिताकृतमङ्गलानां लक्षणसंपन्नानां गवामधः सस्नौ । प्रतिदिवसमुत्थायोत्थाय सर्वरत्नोपेतानि हैमानि तिलपत्राणि ब्राह्मणेभ्यो ददौ । महानरेन्द्रलिखितमण्डलमध्यवर्तिनी विविधबलिदानानन्दितदिग्देवतानि बहुलचतुर्दशीनिशासु चतुष्पथे स्नपनमङ्गलानि भेजे । सिद्धायतनानि - *********** यस्मिन्नेवभूतं दिवसव्यापार दिनकृत्यमन्वतिष्ठदकरोत् । तत इति । ततः प्रभृति तद्दिनादारभ्य सुतरामत्यर्थं देवताराधनेषु देवतानां देवीनामाराधनानि प्रसन्नीकरणानि तेषु, ब्राह्मणास्त्रयीमुखास्तेषां पूजा अर्चास्तासु, गुरुजनानां पूज्यजनानां सपर्याःसेवास्तास्वादरवत्यतिबहुमानवती वभूव जज्ञे । यद्यच्चेति । यद्यदश्रुतपूर्वमकृतपूर्वं च किंचिद्वस्तु कुपश्चिदनिर्दिष्टनामकेभ्यो जनेभ्यः शुश्रावाकर्णितवती गर्भतृष्णया भ्रूमलोभेन तत्तत्सर्वं समग्रं चकार कृतवती । न महेति । महान्तं महीयांसमपि क्लेशं कष्टं नाजीगणन्मनसि न गणितवती । अनवरतेति । अनवरतं निरन्तरं दह्यमानो यो गुग्गुलुः पलङ्कद्रवस्तस्य बहुलो निबिडो यो धूमस्तेनान्धकारः संजातो येष्वेवंविधेषु चण्डिका चामुण्डा तस्या गृहेषु सद्मसु । धवलेति । धवलाम्बरेण शुभ्रवाससा शुचिः पवित्रा मूर्तिः शरीरं यस्याः सा तथोपोषिता कृतोपवासा । हरितेति । हरिता नीला ये कुशा दर्भास्त एवोपच्छद उत्तरपटो येष्वेवंभूतेषु मुसलान्ययोग्राणि तेषां शयनेषु तलिनेषु सुष्वाप शयनं चकार । पुण्येति । पुण्यानि पवित्राणि यानि सलिलानि जलानि तैः पूर्ण तैर्विविधानि विचित्राणि यानि कुसुमफलानि तैरुपेतैः सहितैः । क्षीरतरवो बटादय- . स्तेषां पल्लवाः किसलयानि । क्वचित् क्षीरपल्लव-' इति पाठः । तत्र क्षीरपल्लवः कोमलपल्लव इति व्याख्येयम् । त एव लाञ्छनं चिह्न येषां तैः । सर्वाणि समग्राणि रत्नानि गर्भे मध्यभागे येषां तैः शातकुम्भं सुवर्णं तस्य कुम्भैर्निपै (?) गोकुलेषु व्रजेषु । वृद्धेति । वृद्धगोपस्य मुख्यबल्लवस्य या वनिता स्त्री तया कृतं विहितं मङ्गलं तिलकादि याभिस्तासाम् । लक्षणैर्मषीतिलकादिभिः संपन्नानां सहितानां गवां धेनूनामधोऽधोभागे सस्नौ स्नानं कृतवती । प्रतीति । प्रतिदिवसमहर्निशमुत्थायोत्थायोत्थानं कृत्वोत्थानं कृत्वेत्यर्थः । सर्वरत्नैः समग्रमणिभिरुपेतानि खचितानि हैमानि स्वर्णनिष्पन्नानि तिलपत्राणि तिलपर्णाकृतिरूपाणि ब्राहाणेभ्यो विप्रेभ्यो ददौ दत्तवती । अत्र संप्रदाने चतुर्थी । महेति । महानरेन्द्रेण स्वकीयभर्ना लिखितमालिखितं यन्मण्डलं लोकप्रसिद्धं तन्मध्यवर्तिनी तदन्तःस्थायिनी । विविधेति । विविधमनेकप्रकारं यदलिदानं तेनानन्दिताः प्रमोदं प्राप्ता दिग्देवता येषु तानि । बहुलेति । बहुलस्य कृष्णपक्षस्य याश्चतुर्दश्यस्तासां निशासु रात्रिषु चतुष्पथे चत्वरे स्नपनमङ्गलानि स्नानभद्राणि भेजेऽभजत् । सिद्धायतनानीति । सिद्धा योगिनस्तेषामायतनानि चैत्यानि सिषेवे सेवितवती । कीदृशानि । - - - - - - - - - - - - - - - - - - - - टिप्प० -1 मुसलशयनेषु श्रेणीभावेन पातितमुसलशय्यासु, इत्याशयः । पुत्रार्थिनीभिरेवंविधानि तन्त्रमन्त्रानुष्ठानादीनि क्रियन्ते । 2 यासामित्युचितमाभाति । 3 तिलपात्राणीत्यपि पाठः । सर्वरत्नोपेत (पूर्ण) त्वं पात्रेष्वेव घटते, रत्नखचितत्वार्थे तु नास्य स्वारस्यम् । 4 महानरेन्द्रोऽत्रप्रधानभूतो भूतोपचारकर्ता मान्त्रिकः । - - - - - - - - - - पाठा० - १ वासरव्यापारमकरोत्. २ परिचर्यासु च. ३ अधिकमादरवती. ४ शुश्राव व्रतम्. ५ अर्भक. ६ गुग्गुलु. ७ बहल. ८ धूपान्धकारितेषु. ९ धवलाम्बरा; धवलाम्बर. १० हरित्कुश. ११ उपच्छन्नेषु. १२ भूतल. १३ पूरितैः; पूर्तेः. १४ महङ्गला. १५ तिलपात्राणि. १६ बहुलपक्षचतुर्दशी. १७ चतुष्पथेषु. १८ स्लान. (144 कादम्बरी। कथायाम् Page #158 -------------------------------------------------------------------------- ________________ कृतविचित्रदेवतोपयाचितकानि सिषेवे । दर्शितप्रत्ययानि संनिधानमातृकाभवनानि जगाम । प्रसिद्धेषु नागकुलहृदेषु ममज्ज । अश्वत्थप्रभृतीनुपपादितपूजान्महावनस्पतीन्कृतप्रदक्षिणा ववन्दे । दोलायमानवलयेन पाणियुगलेन स्नाता स्वयमखण्डसिक्थसंपादितं रजतपात्रंपरिगृहीतं वायसेम्भ्यो दध्योदनबलिमदात् । अपरिमितकुसुमधूपविलेपापूपपललपायसबंलिलाजकलितामहरहरम्बादेवीसपर्यामाततान । स्वयमुपहृतपिण्डपात्रान्भक्तिप्रवणेन मनसा सिद्धादेशानग्नक्षपणकान्पप्रच्छ । विप्रश्निकादेशवचनानि बहु मेने । निमित्तज्ञानुपचचार । शकुनज्ञानविदामादरमदर्शयत् । अनेकवृद्धपरम्परागैमागतानि रहस्यान्यङ्गीचकार । दर्शनागत - *********** कृतेति । कृतानि विहितानि विचित्राणि देवतानां प्रतिमानामुपयाचितकानि भैक्ष्यचर्याणि येषु तानि । अथ च संनिधानानि समवर्तीनि यानि मातृकावनानि माहेश्वरीप्रभृतिदेवीनां गृहाणि जगाम गतवती । कीदृशानि । दर्शितः प्रकाशितः प्रत्ययो विश्वासो यस्तानि । प्रत्ययोऽनुष्ठानानुरूपं देवतावचनमिति वा । यद्वा मातृगृहाण्यभिमतमातृणां भवनानि । प्रसिद्धेति । प्रसिद्धेषु जगद्विख्यातेषु नागकुलानि तेषां हृदा द्रहास्तेषु ममज्ज मज्जनं चकार । अश्वत्थः पिप्पलः प्रभृतिरादौ येषां तान्महावनस्पतीन्महावृक्षानुपपादिता विहिता पूजार्चा येषां तान्कृता विहिता प्रदक्षिणा यया सैवंभूता ववन्दे वन्दनं कृतवती । तथा दोलायमानं कम्पमानं वलयं कङ्कणं यस्य तत्तथा तेन पाणियुगलेन हस्तयुग्मेन दध्योदनबलिं दधियुक्तो य ओदनस्तल्लक्षणो यो बलिस्तं वायसेम्यः काकेभ्यः स्वयमात्मना स्नाता कृतस्नाना सत्यदाद्दत्तवती । बलिं विशिनष्टि - अखण्डेति । अखण्डास्फुटितोदनरूपेण पक्वैः सिक्थैरन्नकणैः संपादितं निष्पादितं रजतस्य रूप्यस्य यत्पात्रं भाजन तस्मिन्परिगृहीतमात्तम् । अहरहरिति प्रतिदिनमम्बादेवी दुर्गा तस्याः सपर्या सेवामाततान विस्तारयामास । तामेव विशेषयन्नाह - अपरिमितेति । अपरिमितानि बहूनि कुसुमानि पुष्पाणि, धूपो गन्धपिशाचिका, विलेपो विलेपनम् अपूपः पिष्टकः, पिष्टतिलयोजितमन्नं पललम, पायस परमान्नम् । बलिलाजा बल्यर्थमक्षताः, एतैः कलितां व्याप्ताम् । स्वयमिति । स्वयमात्मना । भक्तिः पूर्वं व्याख्याता, तया प्रवणेन युक्तेन मनसा स्वान्तेनोपहृतान्युपढौकितानि पिण्डपात्राणि येम्भ्यस्तान्सिद्धादेशान्सिद्धसंज्ञितान्नग्ना वस्त्ररहिता ये क्षपणका दिगम्बरास्तान्पप्रच्छाप्राक्षीत् । विप्रश्निकेति । शुभाशुभप्रकाशिकाः स्त्रियो विप्रश्निकास्तासामादेशवचनान्याज्ञावचनानि बहु मेन आदरविशेषेणाङ्गीचकार । निमित्तेति । निमित्तं भौमायष्टविधं जानन्तीति निमित्तज्ञास्तानुपचचार तेषां समीपे ययौ । शकुनज्ञानविदां वसन्तराजादिशास्त्रज्ञानविदामादरं बहुमानमदर्शयद्दर्शितवती । अनेकेति । अनेके ये वृद्धाः स्थविरास्तेषां परम्परा परिपाटी तस्यां य आगमः प्रसिद्धिस्तदागतानि यानि रहस्यानि तत्त्वान्यङ्गीचकार स्वीचक्रे । परिपाट्यां य आगमो मन्त्रशास्त्रं तदागतानि रहस्यानि वा । दर्शनेति । दर्शनार्थमागतं प्राप्तमेवंभूतं द्विजजनं ब्राहाणलोकमात्मजः - - - - - - - - - - -- - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'यदि मे पुत्रलाभः स्यात्तदा पुनरप्येवमेव समर्पयम्.' इत्यङ्गीकारपूर्वमुपहारदानमुपयाचितकम् । 'दीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितक दिव्यं दोहदं तद्विदुर्बुधाः ' जटाधरः । 2 'संनिहितमातृकाभवनानि इत्यपि पाठः । संनिहितानि मातृणाम् (ब्राह्मीत्यादीनाम् भवनानीति तदर्थः । 3 अखण्डैः अक्षतैः सिक्थैः धान्यकणैः संपादितम् (दध्योदनम्) इति व्याख्यानमुचितम् । 4 अन्नभाजनानि । 5 सिद्धः सत्यः आदेशः आज्ञावाक्यं येषा तानित्यर्थः । 6 'विप्रश्निका त्वीक्षणिका दैवज्ञा' इत्यमरः । पाठा० - १ विविध. २ प्रत्यादेशानि. ३ संनिहितमातृभवनान्याजगाम; संनिधमातृभवनानि जगाम. ४ मणिवलयेन. ५ कृतस्नाना. ६ अखण्डित. ७ सिक्थकुसुमसंपादितम्. ८ पात्रे. ९ अपरिमितधूपविलेपं पललपायसबलिम्. १० सलाज. ११ ज्येष्ठादेवी. १२ उपाहित उपाहत. १३ समागतानि; गतानि. १४ चकार; अङ्गीकरोति स्म. १५ दर्शनागतम्. विलासवत्या देवताराधनम् पूर्वभागः । N 145 Page #159 -------------------------------------------------------------------------- ________________ द्विजजनमात्मजदर्शनोत्सुका वेदश्रुतीरकारयत् । अनवरतवाच्यमानाः पुण्यकथाः शुश्राव । गोरोचनालिखितभूर्जपत्रगर्भान्मन्त्रकरण्डकानुवाह । रक्षाप्रतिसरोपेतान्योषधीसूत्राणि बबन्ध । परिजनोऽपि चास्याः सततमुपश्रुत्यै निर्जगाम । तन्निमित्तानि च जग्राह । शिवाभ्यो मांसबलिपिण्डमनुदिनं निश्युत्ससर्ज । स्वप्नदर्शनाश्चर्याण्याचार्याणामाचचक्षे । चत्वरेषु शिवबलिमुपजहार । एवं च गच्छति काले कदाचिद्राजा क्षीणभूयिष्ठायां रजन्यामल्पावशेषपाण्डुतारके जरत्पारावतपक्षधूने नभसि स्वप्ने सितप्रासादशिखरस्थिताया विलासवत्याः करिण्या इव बिसवलयमानने सकलकलापूर्णमण्डल शशिन प्रविशन्तमद्राक्षीत् । प्रबुद्धश्चोत्थाय हर्षविकाशस्फीततरेण चक्षुषा धवलीकृतवासभवनस्तस्मिन्नेव क्षणे शुकनास समाहूय स्वप्नमकथयत् । *********** पुत्रस्तस्य दर्शनमवलोकनं तत्रोत्सुकोत्कण्ठिता वेदस्य श्रुतीः श्रवणमकारयद्ब्राहाणद्वारा कारयामास । अकारयदिति हक्रोरन्यतरस्याम्' इत्यण्यन्तस्य कर्ता द्विजजनः कर्मसंज्ञः । अनवरेति । अनवरतं निरन्तरं वाच्यमाना उच्यमानाः पुण्यकथाः पवित्रकथाः शुश्रावाश्रीषीत् । गोरोचनेति । गोरोचनालिखितं भूर्जपत्रं गर्भे मध्ये यस्यैवंभूतान्मन्त्रकरण्डकान्पिटकानुवाहावहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रूपम् । रक्षेति । रक्षायाः प्रतिसरः कङ्कणं तेनोपेतान्योषधीसूत्राणि बबन्ध बन्धनं कृतवती । अस्या विलासवत्याः परिजनोऽपि परिच्छदोऽप्युपश्रुत्यै रजकादिवाक्याथ विलोकयितुं निर्जगाम बहिर्ययौ । 'देवप्रश्न उपश्रुतिः' इति कोशः । तदिति । तन्निमित्तानि तदुक्तशकुनानि जग्राहाग्रहीत् । शिवेति । शिवाभ्यः श्रृगालीभ्योऽनुदिनं प्रतिदिनं मांसबलिपिण्डं निशि रात्रावुत्ससर्बोत्सृष्टवती । स्वप्नदर्शनाश्चर्याणि स्वप्नालोकनकुतूहलान्याचार्याणां गुरूणामाचचक्षे कथितवती । चत्वरेषु शिवबलिमुपजहाराहृतवती । एवं चेति । एवं पूर्वोक्तप्रकारेण गच्छति व्रजति कालेऽनेहसि कदाचित्कस्मिंश्चित्समये स्वप्ने राजा विलासवत्या आनने मुखे शशिन विशन्तं प्रविशन्तमद्राक्षीद्ददर्श । कस्याम् । रजन्या रात्रौ । किंविशिष्टायाम् । क्षीणं भूयिष्ठं यस्या सा तस्याम् । स्तोकरात्रावित्यर्थः । कस्मिन्सति । नभस्याकाशे सति । आकाशं विशेषयन्नाह - अल्पेति । अल्पाः स्वल्पा एव शेषा अविशिष्टाः पाण्डुतारकाः श्वेतनक्षत्राणि यस्मिन् । जरीयान्यः पारावतः कपोतस्तस्य पक्षो वाजस्तबद्भूने धूम्रवर्णे । विलासवती विशेषयन्नाह - सितेति । सितः शुभ्रो यः प्रासादस्तस्य शिखरमग्रं तत्र स्थिताया उपविष्टायाः । कस्याः किमिव । करिण्या हस्तिन्या आनने बिसवलयमिव मृणालवलयमिव । शशिन विशिनष्टि - सकलेति । सकलाः समग्रा याः कलास्ताभिः पूर्णं मण्डलं यस्य स तथा तम् । प्रबुद्धो विगतनिद्रः सन्नुत्थायोत्थानं कृत्वा हर्षाप्रमोदाद्यो विकाशो विमुद्रता तेन स्फीततरेणातिगरिष्ठेन विस्तारितेन चक्षुषा लोचनेन धवलीकृतं शुभ्रीकृतं वासभवनं निवासगृह येन टिप्प० -1 वेदानां श्रुतीः पाठानिति यावत् । 2 देवप्रश्नाय, दैवं मनुष्यादिद्वारा कीदृशं वचनं श्रावयतीति जिज्ञासायै 'नक्तं निर्गत्य यत्किञ्चिच्छुभाशुभकर वचः । श्रूयते तद्विदुर्धीरा देवप्रश्नमुपश्रुतिम् ॥ हारावली । 3 'शिवाबलिम्' इत्यपि पाठः । अयमुपहारो दिवसे इति पूर्वेण न पौनरुक्त्यमाशङ्क्यम् । पाटा० - १ द्विजगणान्. २ अनवरतम्. ३ पुण्याः कथाः. ४ गण्डकान्; दण्डकान्. ५ परिसरो. ६ औषधि; औषधी. ७ समुत्ससर्ज. ८ शिवाबलिम्. ९ एवं गच्छति. १० अल्पशेष. ११ पारापत. १२ धूसरे. १३ सौधशिखर. १४ बिसपल्लवम्; किसलयम्. १५ परिपूर्ण. १६ विशन्तम्. १७ सबहुमानं शुकनासमाहूय तम्; समाहूय शुकनासाय तम्. 146 कादम्बरी। कथायाम् Page #160 -------------------------------------------------------------------------- ________________ स तं समुपजातहर्षः प्रत्युवाच-‘देव, संपन्नाः सुचिरीदस्माकं प्रजानां च मनोरथाः । कतिपयैरेवाहोभि॑िरसंदेहमनुभवति स्वामी सुतमुखकमलाबलोकनसुखम् । अद्य खलु मयापि निशि स्वप्ने धौतैसकलवाससा शान्तमूर्तिना दिव्याकृतिना द्विजेन विर्कचचन्द्रकलावदातदलशतमालोलकेसरसहसैंजटालमकरन्दबिन्दुसीकरवर्षि पुण्डरीकमुत्सङ्गे देव्या मनोरमायानिहितं दृष्टम् । आवेदयन्ति हि प्रत्यासन्नामानन्दमंग्रेपातीनि शुभानि निमित्तानि । किं चान्यदानन्दकारणमतो भविष्यति । अवितथफला हि प्रायो निशावसानसमयदृष्टा भवन्ति स्वप्नाः । सर्वथा नचिरेर्णं मान्धातारमिव धौरेयं सर्वराजर्षीणां भुवनानन्दहेतुमात्मजं जनयिष्यति देवी । शरत्कालकमलिनीवाभिनवकमलोद्गमेन गन्धगजमाह्लादयिष्यति देवम् । 1 *********** स तथा तस्मिन्नेव क्षणे समये । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः । शुकनासं समाहूयाह्वानं कृत्वा स्वप्नं निशादृष्टमकथयदुक्तवान् । 'कथ वाक्यप्रबन्धे' इत्यस्य लङि रूपम् । स इति । स शुकनासस्तं नृपं समुपजातः समुत्पन्नो हर्षः प्रमोदो यस्य स तथा प्रत्युवाच प्रत्यव - वीत् । हे देव हे स्वामिन् सुचिरादतिचिरकालेनास्माकं प्रजानां च मनोरथाश्चिन्तितानि संपन्ना निष्पन्नाः । कतीति । कतिपयैरेव स्तोकैरेवाहोभिर्दिवसैरसदेहं निःसंदेहं स्वामी भवान्सुतस्यात्मजस्य यन्मुखकमलावलोकनमाननपद्मवीक्षणं तस्माद्यत्सुखं सातमनुभवति । अनुभविष्यतीत्यर्थः । ‘वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमानः । अद्येति । खलु निश्चयेन । अद्यास्यां निशायामेव मयापि निशि रात्रौ स्वप्ने धौतानि क्षालितानि सकलानि समग्राणि वासांसि वस्त्राणि येन स तथा तेन । शान्ता निरुपद्रवा मूर्तिः शरीरं यस्य स तथा तेन । दिव्या मनोहारिण्याकृतिराकारो यस्य स तथा तेन । द्विजेन ब्राह्मणेन विकचं विकस्वरं चन्द्रकलावदवदातं शुभ्रं दलशतं पत्रशतं यस्मिंस्तत् । 'पर्णं पत्रं छदं दलम्' इति कोशः । आलोलं चञ्चलं यत्केसरसहस्रं किञ्जल्कसहस्रं तेन जटालं जटिलम् । 'प्राणिस्थादात-'इति मत्वर्थ आलच् । मकरन्दो मरन्दस्तस्य बिन्दवः पृषतास्त एव सीकरा वातास्तवारिकणास्तद्वर्षणकार्येतादृशं यत्पुण्डरीकं सिताम्भोजं देव्या मनोरमायाश्चित्तहारिण्या उत्सङ्गे क्रोडे निहितं स्थापितं दृष्टमवलोकितम् । मयेति पूर्वप्रतिपादितम् । अग्रेपातीनि पुरोजातानि शुभानि शिवानि निमित्तान्यक्षिस्फुरणादीनि प्रत्यासन्नं समीपवर्तिनमानन्दं प्रमोदमावेदयन्ति निवेदयन्ति । किं चेति युक्त्यन्तरे । अतः पूर्वोक्तादन्यदधिकमानन्दकारणं प्रमोदनिदानं भविष्यति । अत्रार्थे हेतुमाह - अवितथेति । प्रायो बाहुल्येन निशावसानसमदृष्ट रात्रिप्रान्तक्षणावलोकिताः स्वप्ना अवितथफलाः सत्यफला भवन्ति संपद्यन्ते । सर्वथेति । सर्वप्रकारेण नचिरेणेति स्वल्पकालेन मान्धातारमिव युवनाश्वजमिव सर्वराजर्षीणां समग्रराज्ञां मध्ये धौरेयं धुरीणम् । एतेनाधिपत्येऽपि सदाचारवत्त्वं सूचितम् । भुवनानन्दहेतुं जगत्प्रमोदकारणमात्मजं सुतं देवी जनयिष्यति प्रसविष्यति । शरदिति । शरत्कालकमलिनीव घनात्ययसमयनलिनीवाभिनवकमलोद्गमेन प्रत्यग्रनलिनप्रादु - टिप्पo - 1 मनोरमेति तन्त्राम 'चित्तहारिणी' तद्विशेषणम् । 2 ' अतः अन्यत् आनन्दकारणं किं भविष्यति' इत्यन्वयः (पुत्र मुखदर्शनानन्दादन्यत् किं स्यादिति तदर्थः) । पाठा० - १ अस्माकं मनोरथाः २ असंशयमनुभविष्यति. ३ धौतधवल; धौतसकलधवल. ४ प्रशान्त ५ विकचम्. ६ जटिल; जटालम्. ७ मधु. ८ संदेह. ९ सितपुण्डरीक. १० अग्रेजातानि; आनन्दपातीनि; अग्रपातीनि ११ शुभनिमित्तानि १२ किं वान्यत्प्रियतरं परमानन्द; किं चान्यप्रियतरमधिकमानन्द; किं चान्यप्रियतरमधिकानन्द; किं चान्यप्रियतरमपरमधिकमानन्द. १३ विद्यते. १४ च १५ समये दृष्टा. १६ नचिरेणैव; अचिरेण. १७ राजर्षीणाम्. १८ शरत्. पूर्वभागः । स्वप्नविषयालोचनम् 147 Page #161 -------------------------------------------------------------------------- ________________ येनेयं दिग्गजमदलेखेवाविच्छिन्नसंताना क्षितिभारधारणोचिता भविष्यति कुलसंततिः स्वामिनः' इत्येवमभिदधानमेव तं करेण गृहीत्वा नरेन्द्रः प्रविश्याभ्यन्तरमुभाभ्यामपि ताभ्यां स्वप्नाभ्यां विलासवतीमानन्दयांचकार । कतिपयदिवसापगमे च देवताप्रसादात्सरसीमिव प्रतिमाशशी विवेश गर्भो विलासवतीम् । येने नन्दनराजिरिव पारिजातेन मधुसूदनवक्षःस्थलीव कौस्तुभमणिना सुतरामराजत सा । दर्पणश्रीरिव गर्भच्छलेन संक्रान्तमवनिपालप्रतिबिम्बमुवाह । सा शनैः शनैश्च प्रतिदिनमुपचीयमानगर्भा निर्भरपरिपीतसागरसलिलभरमन्थरेव मेघमाला मन्द मन्दं संचचार । मुंहुरनुबंद्धजृम्भिकमाजिहिातलोचना सालसं निशश्वास । तथावस्थां तामहरहः स्वय - *********** भविन गन्धगजं देवं भवन्तमाह्लादयिष्यति प्रमोदयिष्यति । पक्षेऽभिनवा कमला पुत्रसंपत् । अत एव देव्याः कमलिनीसाभ्य राज्ञो गन्धगजसाम्यं चेति भावः । येनेति । येन कारणेन इयं दिग्गजमदलेखेवाविच्छिन्नमत्रुटितं संतानं पुत्रपौत्रादिप्रवाहरूपं च यस्याः सैवभूता स्वामिनो राज्ञः कुलसंततिः क्षितिः पृथ्वी तस्या भारो वीवधस्तस्य धारणं वहनं तत्रोचिता भविष्यति । इत्येवं पूर्वोक्तरूपमभिदधानं ब्रुवाणमेव तं करेण गृहीत्वा हस्तेनादाय नरेन्द्रो नृपोऽभ्यन्तरं मध्यप्रदेशं प्रविश्य प्रवेशं कृत्वा ताभ्यामुभाभ्यामपि स्वप्नाभ्यां विलासवतीमानन्दयांचकार प्रमोदयांचकार । कतीति । कतिपये कियन्तो ये दिवसास्तेषामपगमेऽतिक्रमे सति देवताप्रसादाद्देवतानुग्रहाद्विलासवती गर्भो विवेश प्रविष्टो बभूव । अवार्थ उपमानं प्रदर्शयन्नाह - सरसामिति । सरसी कासारं प्रतिमाशशीव प्रतिबिम्बरूपश्चन्द्र इव । येनेति । येन गर्भेण सा सुतरामतिशयेनाराजताशोभत । केनेव केव । पारिजातेन कल्पद्रुमेण । 'मन्दारः पारिजातकः' इति कोशः । नन्दनेतीन्द्रस्य काननम् । 'नन्दन वनम्' इति कोशः । तस्य राजिः श्रेणिरिव । यथा कल्पपादपेन वनमतितरां शोभां प्राप्तं तथा गर्भेणेयमपीति भावः । उपमानान्तर प्रदर्शयन्नाह - कौस्तुभेति । कौस्तुभमणिना प्रसिद्धेन मधुसूदनस्य जनार्दनस्य वक्षःस्थलीव भुजान्तरस्थलीव । अतिविस्तृतत्वेन गौरत्वेन च स्थल्या उपमानं वक्षसः । दर्पणेति । दर्पण आदर्शस्तस्य श्रीः प्रकाशरूपा सेव गर्भो भ्रूणस्तस्य छलेनोपधिना संक्रान्तमन्तःप्रविष्टमवनिपालो भूनेता तस्य प्रतिबिम्ब प्रतिरूपमुवाहावहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रुपम् । अयं भावः - यथा दर्पणः संक्रान्तं प्रतिबिम्ब वहति तथेयमपि राजप्रतिबिम्बमुवाह । अनेन राजराजसुतयोः सर्वथाऽभेदो दर्शितः । सेति । सा विलासवती मन्द मन्द संचचार चचालेत्यन्वयः । तामेव विशेषयन्नाह - प्रतीति । प्रतिदिन प्रत्यहं शनैः शनैः स्वल्पप्रयासेनेत्यर्थः । स्तोक स्तोकम् । उपचीयेति । उपचीयमानोऽवयवैः पुष्टतां प्राप्यमाणो गर्भो यस्याः सा । निर्भरति । निर्भरमतिशयं परिपीतमास्वादितं सागरस्य समुद्रस्य सलिलं जलं तस्य भरो भारस्तेन मन्थरालसा मेघमालेव कादम्बिनीव । समुद्राज्जलमादाय मेधो वर्षतीति लोकोक्तिः । अन्वयस्तु प्रागेवोक्तः । मुहुरिति । मुहुर्वारंवारमनुबद्धा कर्तुमारब्धा जृम्भा एव जृम्भिका । स्वार्थे कप्रत्ययः यत्र यस्यां क्रियायां वा - - - - - टिप्प० - 1 शरत्कालकमलिनी गन्धगजमिव देवमालादयिष्यति' इति इवस्य गन्धगजोत्तरमन्चयो योग्यः । 2 दिग्गजस्य मदलेखा दानजलधारा इव । 3 न विच्छित्रः संतानः (वंशः पुत्रपौत्रादिरूपः, इति संततिपक्षे), प्रवाहः (इति मदलेखापक्षे) यस्यां एवंभूता सती स्वामिनः कुलसंततिः क्षितिभारधारणे उचिता भविष्यतीत्युभयपक्षे व्याख्या । 4 कालक्रमेणेत्यर्थः । - - - पाटा० - १ विनोदयांचकार. २ येन च. ३ नन्दनवनराजिः. ४ देवी. ५ श्रीरिव च. ६ शनैः. ७ प्रतिदिवसमुपचीयमानगर्भा; प्रतिदिनमुग्धा द्विप्रमाणगर्भा. ८ घनमाला. ९ मुहुर्मुहु. १० विजृम्भिक. ११ लोचनम्. १२ स तथावस्थां च. १३ तामनभिनन्दितपान. 148 कादम्बरी। कथायाम् Page #162 -------------------------------------------------------------------------- ________________ मनेकरसवाञ्छितपानभोजनां प्रावृषमिव श्यामायमानपयोधरमुखी केतकीमिव गर्भच्छविपाण्डुरामालोक्येङ्गितकुशलः परिजनो विज्ञातवान् । अथ तस्याः सर्वसेवकवर्गप्रधानभूता, सदा राजकुलसंवासचतुरा, सदा च राजसंनिकर्षप्रगल्भा, सर्वमङ्गलकुशला कुलवर्धना नाम महत्तरिका प्रशस्ते दिवसे प्रदोषोत्तरवेलायामभ्यन्तरास्थानमण्डपगतम्, गन्धतैलावसेकञ्चलितदीपिकासहसपरिवारम्, उडुनिकरमध्यवर्तिनमिव पौर्णमासीशशिनम्, उरगराजफणामणिसहसान्तरालस्थितमिव नारा - *********** यथा भवति तथा । आ समन्ताज्जिहिातं जडीकृतं विकृतं वा निमेषोन्मेषाभ्यां लोचनं यस्याः सा । अनेन गर्भवतीस्वभावः सूचितः । सालसमालस्यसहितं यथा स्यात्तथा निशश्वास निश्वास मुक्तवती । गर्भानुभावानिश्वासग्रहणेऽपि तादृशसामर्थ्याभावादिति भावः । निपूर्वस्य 'श्वस प्राणधारणे' इत्यस्य लिटि रूपम् । तथेति । तथा पूर्वोक्ता एवावस्था दशा यस्यास्ता विलासवतीमालोक्य वीक्ष्येङ्गितेष्वन्तर्गतभावावेदकचे लोऽभिज्ञः । चेष्टितज्ञानवानित्यर्थः । परिजनः संनिहितस्त्रीसौविदल्लजनो विज्ञातवान । अन्तर्वत्नीरूपतया ता निश्चितवान् । तामेव विशेषयन्नाह - अहरिति । अहरहः प्रतिदिनम् । स्वयमित्यात्मनिर्देशः । अनेके बहवस्तिक्तादयो रसा अन्ने स्वादहेतवो यस्मिन्नेवंभूतं वाञ्छितमीप्सितं पानं द्राक्षापानकादि, भोजनमशनं च यस्याः सा ताम् । श्यामायमानं कृष्णतां प्राप्यमाण पयोधरयोः स्तनयोर्मुखं चूचुकं यस्याः सा ताम् । कामिव । प्रावृषमिव वर्षासमयमिव । सापि पयोधरैर्मेधैः श्याममुखी स्यात् । केतकीति । गर्भजनिता या छविदेहदीप्तिस्तया पाण्डुरां शुक्लाम् । कामिव । केतकीमिव । सापि गर्भो मध्यभागस्तस्य छविः कान्तिस्तया पाण्डुरा स्यात् । अथ तस्याः कुलवर्धना नाम स्त्री भूमिपालं राजानमुपसृत्य समीपे गत्वा प्रशस्ते शोभने दिवसे रह एकान्ते कर्णमूले विलासवतीगर्भवृत्तान्तं तस्या गर्भोदन्तं विदितं ज्ञातमकार्षीदकरोदित्यन्वयः । कुलवर्धनां विशेषयन्नाह - सर्वेति । सर्वेषु सेवकवर्गेषु प्रधानभूता श्रेष्ठा । नीचस्य तादृशप्रवेशाभावाच्छ्रेष्ठत्वेऽप्यवसरानभिज्ञस्य तदभावादित्यत आह - सदेति । सदा सर्वदा राजकुले नृपपरम्पराया संवासोऽवस्थानं तत्र चतुरा दक्षा । तद्वत्त्वेऽप्यदृष्टस्य तदभावादित्याह - सदेति । सदा सर्वकालं च राज्ञा यः सनिकर्षः संबन्धस्तत्र प्रगल्भा पण्डिता । सर्वेति । सर्वाणि यानि मङ्गलानि श्रेयांसि तत्र कुशला । तत्कृत्यकरणेऽभिज्ञेत्यर्थः । वयसातिशयिता महती महत्तरिका । स्वार्थे कः । प्रदोषेति । प्रदोषोत्तरवेलायाम् । प्रदोषे सर्वनिषेधात् । अथवा प्रदोषो न संध्याकालः । वृत्तान्तस्य गोप्यकथनत्वादिवसे तदभावादिति भावः । भूमिपालं विशेषयन्नाह - अभ्यन्तरेति । अभ्यन्तरे मध्ये य आस्थानमण्डप उपवेशनस्थलं तत्र गतं प्राप्तम् । बाह्ये तथाविधजनसंसर्गादिति भावः । गन्धेति । गन्धतैलं सुगन्धतैलं तस्यावसेकः संपातस्तेन ज्वलितं दीपिकानां सहसं यस्मिन्नेतादृशः परिवारो मण्डपस्थपरिच्छदो यस्य स तम् । दीपिकासहसमेव परिवारो यस्येति वा । तद्दीप्त्या लोकानां तिरोधानादिति भावः । तादृशतैलसंपर्काद्दीपिकाप्रभया नक्षत्रप्रभया अवशिष्टनियुक्तपरिकरस्योडुसाम्यं राज्ञश्चन्द्रसाम्यं च प्रतिपादयन्नाह - उडिवति । उडूनां नक्षत्राणां निकरः समूहस्तन्मध्यवर्तिनं तदन्तःपातिनं पौर्णमासीशशिनमिव राकाचन्द्रमिव । अन्यत्र दिने चन्द्रस्यासपूर्णत्वात्पौर्णमासीग्रहणम् । तादृशपरिकरत्वादेवोपमानान्तरमाह - उरगेति । उरगराजो नागाधिपतिस्तस्य सहसमुखत्वात्फणामणिसहसं - --------- --------------- टिप्प० - 1 शूद्रजातीया स्त्री, शूद्रः स्यात्पादजो दासो ग्रामकूटो महत्तरः । इति त्रिकाण्डशेषः (इति केचित्) । वस्तुतस्तु 'कुलवर्द्धना नाम महत्तरिका' इति महत्तरिकापदेन राजान्तःपुरप्रधानप्रबन्धकी सूच्यते, 'वडेरी' इति गूर्जरगिरायाम् । - - - - - - - - - - - - - - - - - पाठा० - १ गर्भपाण्डुरान्. २ अन्तःपुरिकाजनः. ३ सर्वपरिजनप्रधान. ४ सर्वदा. ५ महान्तःपुरिका सा. ६ तैलाभिषेक. ७ परिवृतम्. ८ फण. (गर्भवार्ताऽवगमः पूर्वभागः । Page #163 -------------------------------------------------------------------------- ________________ यणम्, मूर्धावसिक्तैः प्रधाननरेन्द्रैः परिमितैः परिवृतम्, अनतिदूरावस्थितपरिजनम्, अनन्तरमुत्तुङ्गवेत्रासनोपविष्टेन धौतधवलाम्बरपरिधानेनानुल्बणवेषेण जलनिधिनेवागाधगाम्भीर्येण समुपारूढविश्रम्भनिर्भरास्तास्ताः कथाः शुकनासेन कुर्वाणं भूमिपालमुपसृत्य रहः कर्णमूले विदितं विलासवतीगर्भवृत्तान्तमकार्षीत् । तेन तु तस्या वचनेनाश्रुतपूर्वेणासंभाव्येनामृतरसेनेव सिक्तसर्वाङ्गस्य सद्यः प्ररूढरोमञ्चनिकरकण्टकिततनोरानन्दरसेन विह्वलीक्रियमाणस्य स्मितविकसितकपोलस्थलस्य परिपूरितहृदयातिरिक्तहर्षमिव दशनांशुवितानच्छलेन विकिरतो राज्ञः शुकनासमुखे लोलतारकमानन्दजलबिन्दुक्लिन्नपक्ष्ममालं तत्क्षणं पपात चक्षुः । अनालोकितपूर्वं तु हर्षप्रकर्षमभिसमीक्ष्य भूपतेः कुलवर्धनां च स्मितविकसितमुखीमागतां दृष्टा तस्य चार्थस्य सततं मनसि विपरिवर्तमानत्वादविदितवृत्तान्तोऽपि तत्कालोचितमपरमतिमहतो हर्षस्य कारण ११ *********** I तस्यान्तरालं मध्यप्रदेशस्तत्र स्थितमासीनं नारायणमिव जनार्दनमिव । मूर्धेति । मूर्धावसिक्तैः कृताभिषेकैः प्रधाननरेन्द्रैः प्रकृष्टराजभिः परिमितैः स्तोकैः परिवृतं सहितम् । अभ्यन्तरे तादृशजनानामेव प्रवेशसंभवात् । अनतीति । न अति नातिदविष्ठप्रदेशेऽवस्थितः परिजनो यस्य स तम् । 'अञ्स्वरे' इति नञोऽनादेशः ( ? ) । पुनः कीदृशम् । शुकनासेन मन्त्रिणा तास्ताः कथाः कुर्वाणं तास्ता अनिर्वचनीयाः कथाः किंवदन्तीः कुर्वाणं विदधानम् । अथ शुकनासं विशेषयन्नाह - अनन्तरमिति । राज्ञः सिंहासनादनन्तरं यथा स्यात्तथोत्तुङ्गमुञ्च यद्वेत्रासनमासनविशेषस्तत्रोपविष्टेन स्थितेन । धौतेति । धौतं क्षालितं यद्भवलाम्बरं तदेव परिधानमधोंशुकं यस्य स तथा तेन । 'परिधानं त्वधोंशुकम्' इति कोशः । अन्विति । अनुल्बणोऽनुत्कटो वेषो नेपथ्यं यस्य स तेन । जलनिधिनेव समुद्रेणेवागाधमलब्धमध्यं गाम्भीर्यं गम्भीरतागुणो यस्य स तेन । अथ कथा विशिनष्टि समुपेति । समुपारूढः सम्यक्प्रकारेणोपारूढः प्राप्तो यो विश्रम्भो विश्वासः निर्भरोऽतिशयो यासु ताः । अन्वयस्तु प्रागेवोक्तः । - T तेनेति । तु पुनरर्थे । तस्या महत्तरिकायास्तेन वचनेन पूर्वोक्तप्रतिपादितेन राज्ञो नृपस्य चक्षुर्नेत्रं शुकनासमुखे तत्क्षणं पपातापतदित्यन्वयः । वचनं विशेषयन्नाह - अश्रुतेति । अश्रुतपूर्वेणानाकर्णितपूर्वेण । संभावयितुं योग्यं संभाव्यम् । न संभाव्यमसंभाव्यं तेन । कीदृशस्य राज्ञः । सिक्तं सिञ्चितं सर्वाङ्गं समग्रं शरीरं यस्य स तथा तस्य । केनेव । अमृतरसेनेव पीयूषद्रवेणेव । मनोभीष्टत्वाद्दुःखनिवारकत्वाच्च वचनस्यामृतसाम्यम् । सद्यस्तत्कालं प्ररूढः प्रादुर्भूतो यो रोमाञ्चो रोमोद्गमस्तस्य निकरः समूहस्तेन कण्टकिता संजातकण्टका तनुः शरीरं यस्य स तथा तस्य । आनन्देति । आनन्दः प्रमोदः स एव रसस्तेन विह्वलीक्रियमाणस्य व्याकुलीक्रियमाणस्य । स्मितेति । अदृष्टरदं यद्धसितं तत्स्मितम् । तेन विकसितं विस्तीर्णतां प्राप्तं कपोलस्थलं यस्य स तथा तस्य । अत्रोत्प्रेक्षां प्रदर्शयन्नाह - परीति । परिपूरितं पूर्णीकृतं हृदयं तस्मादतिरिक्तंमुर्वरितं हर्षमिव दशनांशुवितानच्छलेन दन्तदीप्तिसमूहमिषेण विकिरतो बहिः क्षिपतः । चक्षुर्विशिनष्टिलोला चञ्चला तारका कनीनिका यस्मिंस्तत् । आनन्देति । आनन्दजलबिन्दुभिः प्रमोदजनितनेत्रजलपृषतैः क्लिन्नं स्विन्नं पक्ष्ममालं नेत्ररोमसमूहो यस्मिंस्तत्तथा । अनालोकितेति । भूपते राज्ञोऽनालोकितपूर्वमवीक्षितपूर्वं हर्षप्रकर्षं प्रमोदातिशयमभिसमीक्ष्य निरीक्ष्य । च पुनरर्थे । कुलवर्धनां स्मितेन विकसितं विकस्वरं मुखमाननं यस्या एतादृशीमागतां समागतां दृष्ट्वा विलोक्य । तस्येति । तस्य - पाठा० - १ नरेन्द्रैः परिवृतम् २ नात्युल्बण. ३ शुकनासेन सह. ४ संवाससंचारचतुरा विदित. ५ प्रकट. ६ रोगाङ्कुर. ७ मूलस्य ८ रिक्तम् ९ अनालोचितः. १० तु तम्. ११ अभिसंवीक्ष्य. १२ वर्तमानत्वात्; परिवर्तमानत्वात्. 150 कादम्बरी | कथायाम् Page #164 -------------------------------------------------------------------------- ________________ मपश्यञ्छुकनासः स्वयमुत्प्रेक्ष्य समुत्सर्पितासनः समीपतरमुपसृत्य नातिप्रकटमाबभाषे 'देव, अस्ति किंचित्तस्मिन्स्वप्नदर्शने सत्यम् ? अत्यन्तमुत्फुल्ललोचना हि कुलवर्धना दृश्यते । देवस्यापीदं प्रियवचनश्रवणकुतूहलादिव श्रवणमूलमुपसर्पदुपरचयदिव नीलकुवलयकर्णपूरशोभामानन्दजलपरिप्लुतं तरलतारकं विकसदावेदयति महत्प्रकर्षकारणमीक्षणयुगलम् । उपारूढमहोत्सवश्रवणकुतूहलमुत्सुकोत्सुकं क्लाम्यति मे मनः । तदावेदयतु देवः किमिदम्' इत्युक्तवति तस्मिन्राजा विहस्याब्रवीत्-'यदि सत्यमनया यथा कथितं तथा सर्वमवितथं स्वप्नदर्शनम् । अहं तु न श्रद्दधे । कुतोऽस्माकमियती भाग्यसंपत् । अभाजनं हि वयमीदृशानां प्रियवचनश्रवणानाम् । अवितथवादिनीमप्यहं कुलवर्धनामेवंविधानां कल्याणानामसंभावितमात्मानंमन्यमानो विपरीतामिवाद्य पश्यामि । तदुत्तिष्ठ । स्वयमेव गत्वा किमत्र सत्यमिति देवी पृष्ट्वा ज्ञास्यामि' इत्यभिधाय विसृज्य सकलनरेन्द्रलोकमुन्मुच्य - *********** विलासवत्या समाचीर्णानि व्रतानि तन्महिम्नावश्यमेतस्या गर्भो भविष्यतीत्येतादृशस्यार्थस्य सततं निरन्तरं मनसि चित्ते विपरिवर्तमानत्वाद् दृढं स्मर्यमाणत्वादविदितोऽज्ञातो वृत्तान्तो गर्भाधारणरूपो येन स तथैवंविधोऽपि शुकनासस्तत्कालोचितं तत्समययोग्यमपरमन्यदतिमहतोऽत्युत्कृष्टस्य हर्षस्य प्रमोदस्य कारणं नियामकमपश्यन्ननवलोकयन्स्वयमात्मनोप्रेक्ष्य विचार्य समुत्सर्पितमीकृतमासनमवस्थितिबन्धो येन स तथा । समीपतरमतिनिकटमुपसृत्य गत्वा । राज्ञ इति शेषः । नातिप्रकटं सुगोप्यं यथा स्यात्तथा बभाषेऽवोचत् । किं तदित्याह - देवेति । हे देव हे स्वामिन् तस्मिन्पूर्वोक्तस्वरूपे स्वप्नदर्शने किंचित्सत्यमस्ति तद्देवो भवानावेदयतु निवेदयतु । कुत इत्यत आह - अत्यन्तेति । हि यस्मात्कारणादियं कुलवर्धनात्यन्तमुत्फुल्ललोचनोत्याबल्येन विकसितनेत्रा दृश्यतेऽवलोक्यते । देवस्यापि स्वामिनोऽपीदमीक्षणयुगलं नेत्रयुग्मं महाकर्षकारणम् । प्रमोदस्येति शेषः । आवेदयति निवेदयति । किं कुर्वत् । विकसद्धिकासं प्राप्नुवत् । तदेव विशिनष्टि - प्रियेति । प्रियमिष्टं यद्वचनं वचस्तस्य श्रवणमाकर्णनं तस्य कुतूहलं कौतुकं तस्मादिव श्रवणमूलं कर्णमूलमुपसर्पद् गच्छत् । नीलं यत्कुवलयं कुवेलं तल्लक्षणं यत्कर्णपूरं कर्णाभरणं तस्य शोभा कान्तिमुपरचयदिव निष्पादयदिव । आनन्देति । आनन्दजलं प्रमोदबाष्पस्तेन परिप्लुता व्याप्ता तरला चपला तारका कनीनिका यस्य तत् । उपारूढं प्राप्तं महोत्सवस्य महामहस्य श्रवणकुतूहलं येन तत् । उत्सुकोत्सुकम् । अत्युत्सुकमित्यर्थः । मे मम मनश्चितं क्लाम्यति खेदं प्राप्नोति । अन्वयस्तु प्रागेवोक्तः । किमिदं प्रमोदनियामकम् । इति पूर्वोक्तप्रकारेण तस्मिञ्छुकनास उक्तवति कथितवति सति राजा नृपो विहस्य किंचित्स्मितं कृत्वाब्रवीदवोचत् । यदीति । यद्यनया यथा कथितं सत्यं तथा सर्वमवितथं यथार्ह स्वप्नदर्शनम् । धीरोदात्तत्वादाह - अहमिति । अहमित्यात्मनिर्देशः । न श्रद्दधे न विश्वास करोमि । तन्नियामकमाह - कुत इति । अस्माकमियत्येतावती भाग्यस्य भागधेयस्य संपत्संपत्तिः कुतः स्यात् । ममेति शेषः । हि निश्चितम् । ईदृशानां पूर्वोक्तानां प्रियमिष्टं यद्वचनं तस्य श्रवणान्याकर्णनानि तेषां वयमभाजनमपात्रम् । अथ चाहमवितथवादिनीमपि सत्यप्रलापिनीमपि कुलवर्धनाम्, विपरीतामिवासत्यवादिनीमिवाद्यास्मिन्दिने पश्याम्यवलोकयामि । कीदृशोऽहम् । एवंविधानां पूर्वव्यावर्णितस्वरूपाणां कल्याणानां निःश्रेयसानामसंभावितमयोग्यमात्मानं मन्यमानो ज्ञायमानः । तदिति हेत्वर्थे । हे शुकनास, उत्तिष्ठोत्थानं कुरु । स्वयमेवात्मनैव गत्वा । अन्तःपुर इति शेषः । किमत्र सत्यमिति देवीं विलासवतीं पृष्ट्वापृच्छ्य ज्ञास्यामि निर्णेष्यामीत्यभिधायेत्युक्त्वान्तःपुरमयासीत् । लुङि ‘या प्रापणे' एतस्यानिटधातो रूपम् । सकलनरेन्द्रलोकं समग्रराजसमूहं विसृज्य गृहाय गम्यतामित्यनुज्ञाप्य स्वागेभ्यः स्वकीयहस्तपा - ------------ टिप्प० - 1 समुत्सर्पितम् निकटे आकृष्टम् वेत्रासनं (राज्ञः कर्णे वार्ताकथनार्थम्) येनेति स्पष्टोऽर्थः। - - - - - - - - - - - पाठा०.१ प्रकाशम्. २ किमस्ति. ३ किंचित्स्वप्न. ४ अत्यन्तोत्फुल उत्फुल्ल. ५ प्लुततरल. ६ प्रहर्ष. ७ उत्सुकम्. ८ तदा. ९ विसर्य. १० उन्मुच्य च. गर्भवार्ताऽवगमः ( पूर्वभागः । 151 Page #165 -------------------------------------------------------------------------- ________________ स्वाङ्गेभ्यो भूषणानि कुलवर्धनायै दत्त्वा तया च दत्तप्रसादानन्तरमवनितलाश्लिष्टललाटरेखया शिरःप्रणामेनाभ्यर्चितः सह शुकनासेनोत्थाय हर्षविशेषनिर्भरण त्वर्यमाणो मनसा पवनचलितनीलकुवलयदललीलाविडम्बकेन दक्षिणेनाक्ष्णा परिस्फुरताभिनन्धमानस्तत्कालसेवासमुचितेन विरलविरलेन परिजनेनानुगभ्यमानः पुरःसंसर्पिणीनामनिललोलस्थूलशिखाना प्रदीपिकानामालोकेन समुत्सार्यमाणकक्षान्तरतिमिरसंहतिरन्तःपुरमयासीत् । तंत्र च सुकृतरक्षासंविधाने, नवसुधानुलेपनधवलिते, प्रज्वलितमङ्गलप्रदीपे, पूर्णकलशांधिष्ठितपक्षके, प्रत्यग्रलिखितमङ्गल्यालेख्योज्ज्वलितभित्तिभागमनोहारिणि, उपचरितसितविताने, वितानपर्यंन्तावबद्धमुक्तागुणे, मणिप्रदीपप्रहततिमिरे वासभवने भूतिलिखि - *********** दादिभ्यो भूषणान्याभरणान्युन्मुच्योत्तार्य कुलवर्धनायै महत्तरिकायै दत्त्वा वितीर्य । कीदृशो नृपः । तया चेति । तया कुलवर्धनयाभ्यर्चितः पूजितः । केन । शिरःप्रणामेनोत्तमाङ्गप्रणमनेन । तां विशिनष्टि - दत्तेति । दत्तो यः प्रीत्या प्रसादो वस्त्रपात्रादिरूपस्तस्यानन्तरं पश्चादवनितले वसुधातले श्लिष्टा संयोजिता ललाटरेखालिकरेखा यया सा तया । अनेन राज्ञोऽतिवदान्यत्वं स्वस्मिन्नभिनवोक्त्या राज्ञः संतोषकरणनिमित्तकोऽभिनिवेशश्च सूचितः । पुनः किं कृतवानित्याह - सहेति । सह समानकालं शुकनासेन उत्थाय उत्थानं कृत्वा हर्षविशेषस्य प्रमोदातिशयस्य निर्भरो यस्मिन्नेवंविधेन मनसा चित्तेन त्वर्यमाणस्त्वरां क्रियमाणः । पवनेति । पवनेन वायुना चलितं यत्रीलकुंवलयं तस्य दलस्य या लीला तस्या विडम्बकेन तिरस्कारिणा दक्षिणेनापसव्येनाक्ष्णा चक्षुषा परिस्फुरता स्पन्दताभिनन्द्यमान आनन्द्यमानस्तत्कालीना या सेवा सपर्या तस्यां समुचितेन योग्येन । विरलेति । विरलविरलेन वीप्सया द्वित्त्वम् । यथा यथा वासभवनाभ्यन्तरगमन राज्ञस्तथा तथा विरलविरलत्वं बोध्यम् । एवंविधेन परिजनेन परिच्छदेनानुगम्यमानोऽनुव्रज्यमानः । पुर इति । पुरोऽग्रे संसर्पिणीनां व्रजन्तीनाम् । अनिलेति । अनिलेन वायुना लोलास्तरलाः स्थूलशिखा यासां तास्तासाम् । प्रदीपिकेति । प्रदीप एव प्रदीपिका । स्वार्थे कः । 'प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः' इति कात्पूर्वमिकारः । तासां प्रदीपिकानामालोकेन प्रकाशेन समुत्सार्यमाणा निराक्रियमाणा कक्षान्तर उत्तरोत्तरप्रदेशे तिमिरसंहतिर्धान्तसमूहो यस्येति राज्ञो विशेषणम् । अन्वयस्तु प्रागेवोक्तः । तत्र चेति । तत्र तस्मिनन्तःपुरे वासभवने शयनतलमधिशयानां विलासवतीं ददर्शति दूरेणान्वयः । वासभवनं विशेषयन्नाह - सुकृतेति । सुष्टु शोभनं कृतं रक्षासंविधानं पापपाखण्डशाकिनीडाकिनीप्रभृतीनां प्रवेशप्रतिबन्धकर्मणि मन्त्राद्यौषधप्रकारो यस्मिन् । नवा प्रत्यग्रा या सुधा तस्या अनुलेपनेन धवलिते शुभ्रीकृते । प्रचलितो मङ्गलाभिधः प्रदीपो यस्मिन् । पूर्णकलशैभृतकुम्भैरधिष्ठित पक्षक पक्षद्वारं यस्मिन । 'पक्षद्वारं त पक्षक इति कोशः । प्रत्यग्रेति । प्रत्यग्रलिखितानि नतनलिपीकतानि यानि मङगल्यानि मङगले हितान्यालेख्यानि चित्राणि तैरुज्ज्वलितो दीप्तिमान्यो भित्तिभागः कड्यप्रदेशस्तेन मनोहारिण्यभिरामे । उपेति । उपरचितं निष्पादित सितवितानं श्वेतकन्दको यस्मिन् । वितानेति । वितानमुल्लोचस्तत्पर्यन्तं तत्यान्तं यावदवबद्धो मुक्तागुणो मुक्ताजालं यस्मिन् । मणीति । मणय एव प्रदीपास्तैः प्रहतं ध्वस्तं तिमिरं तमो यस्मिन् । इतः परमेकादशभिः शयनतलं विशेषयन्नाह - भूतीति । भूत्या ऐश्वर्यार्थं लिखिता या पत्रलता पत्रफलान्विता लता कल्पलता तया कृतो रक्षाया गर्भरक्षायाः परिक्षेपो दायं यस्मिन् । पाठा० - १ पूर्यमाणः. २ अभिवन्द्यमान. ३ लोलोच्छलच्छिखानाम्. ४ प्रदीपकानाम्. ५ तिमिरमन्तःपुरम्. ६ तत्र वसुकृत; तत्र बहुकृत. ७ सुधालेप. ८ दीपे. ९ अधिष्ठिते. १० द्वारपक्षके; द्वारपक्षक. ११ मङ्गल्यलेख्य. १२ उज्ज्वल. १३ भागे. १४ समुपरचित. १५ सितवितान. १६ पर्यन्तस्थित. १७ मुक्ताऽऽपणे. १८ प्रतिहत. १९ भुवने. २० भूमि; भित्ति. 152 कादम्बरी। कथायाम् Page #166 -------------------------------------------------------------------------- ________________ तपत्रलताकृतरक्षापरिक्षेपम्, शयनशिरोभागविन्यस्तधवलनिद्रामङ्गलकलशम्, आबद्धविविधौषधिमूलयन्त्रपवित्रम्, अवस्थापितरक्षाशक्तिवलयम्, इतस्ततो विप्रकीर्णगौरसर्षपम्, अवलम्बितबालयोक्त्रग्रथितलो पिप्पलपत्रम्, आसक्तहरितारिष्टपल्लवम्, उत्तुङ्गपादपीठप्रतिष्ठितम्, इन्दुदीधितिधवलप्रच्छदपटम्, अचलराजशिलातलविशालम्, गर्भोचित शयनतलमधिशयानाम् कनकपात्रपरिगृहीतैरविच्छिन्नविरलावस्थितदधिलवर्जलतरङ्गतरलश्वेतशालिसिक्थनिकरैरग्रथितकुसुमसनाथैः पूर्णभाजनैरखण्डिताननमत्स्यपटलैश्च प्रत्यग्रपिशितपिण्डमिश्रे - *********** दृश्यते हि देशविशेषे सद्यो गर्भसंभूत्यर्थं प्रथमौ नवोढायाः फलपत्रान्वितकदलिकया क्रियते । गर्भानन्तरं च पर्यङ्क उत्तरच्छदे शयनीयगृहभित्तौ वा फलपत्रान्विता लिखिता कल्पलता गर्भस्य पुष्ट्यर्थं वृद्ध्यर्थं च क्रियते । शयनेति । शयनस्य शिरोभागे विन्यस्तः स्थापितो धवलश्चन्दनादिना निद्रासमये मङ्गलकलशो यस्मिन् । इयं च देशरीतिः । तदुक्तमन्यत्र-'निद्राकलशो रूप्यमयः सर्वश्वेतः शिरोभागेऽहर्निश पूर्णजलः स्थाप्यते इति । आबद्धेति । आबद्धानि संयतानि विधिधानामनेकप्रकाराणामोषधीनां मूलानि यन्त्राणि चक्रव्यूहप्रभृतीनि पवित्राणि मन्त्रपूतगोरोचनाप्रभृतीनि यस्मिंस्तत् । अवेति । अवस्थापितानि पार्थे रक्षितानि रक्षार्थं शक्तीनां कात्यायन्यादीनां वलयानि बर्हनिर्मितानि यस्मिंस्तथा । इतस्तत इति । इतस्ततः समन्ताद्विप्रकीर्णा विक्षिप्ता गौरसर्षपाः वेतसिद्धार्था यस्मिन् । अवेति । अवलम्बितानि बालानां केशानां योक्त्र मुखबन्धनं तेन ग्रथितानि गुम्फितानि लोलानि चञ्चलानि पिप्पलपत्राण्यश्वत्थदलानि यस्मिन् । आसक्ता अन्योन्यं संलग्ना हरिता नीला अरिष्टपल्लवा निम्बकिसलया यस्मिन् । उतुङ्गेति । उत्तुङ्गान्युच्चानि यानि पादपीठानि पल्यङ्कपादाधारभूतानि काष्टविशेषाणि तेषु प्रतिष्ठितम् । इन्दिति । इन्दोश्चन्द्रस्य या दीधितिः कान्तिस्तस्या धवलः शुभ्रः प्रच्छदपट उत्तरपटो यस्मिन् । अचलेति । अचलराजो हिमाचलस्तस्मिंञ्छिलातलं तद्वद्विशालं विस्तीर्णम् । गर्भेति । गर्भवत्यवस्थायामुचित योग्यमेवंविधं शयनतलं शयनीयतलमधिशयानां विहितस्वापाम् । पुनर्विलासवतीं विशेषयन्नाह - अन्तरिति । अन्तःपुरसक्ता या जरत्यो वृद्धा योषितस्तासां जनेन समुदायेन क्रियमाणं विधीयमानमवतरणकमङ्गलं यस्यास्ताम् । अवतरणकमङ्गलमुत्तारणमिति देशाचारव्यवस्थया प्रसिद्धम् । कीदृशेन । आचारः कुलाचारस्तत्र कुशलेनाभिज्ञेन । तानेवाह - कनकेति । कनकस्य सुवर्णस्य पात्राणि भाजनानि तैः परिगृहीतैरात्तैरविच्छिन्ना अविच्छेदं प्राप्ता विरलावस्थिता अनिबिडतया स्थिता ये दध्नो लवाः खण्डास्तैः । जलेति । जलतरंगाः पानीयकल्लोलास्तद्वत्तरलाः शोभायमानाः श्वेतशालिसिक्थानां पक्वौदनानां शालिलाजानां वा निकराः समूहास्तैः । अग्रथितेति । अग्रथितान्यगुम्फितानि यानि कुसुमानि पुष्पाणि तैः सनाथैः सहितैः, पूर्णानि भृतानि भाजनानि तैः । शालिविशेषणम् । अखण्डितेति । अखण्डितमच्छिन्नमाननं मुखं येषामेवंविधैर्मत्स्यपटलैर्मीनसमूहैः । कीदृशैः । प्रत्यग्रं तत्कालीनं यत्पिशितं मांस तस्य पिण्डाः प्रसिद्धास्तैर्मिश्रितैः । पुनः कैः । शीतलप्रदीपैः - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 तद्वद् धवलः शुभ्र इत्युचितम् । 2 तस्येत्युचितम् । 3 'अवतारणकमङ्गलाम्' इत्यपि प्रचलितः पाठः । दधिलव-शाल्योदनादिभृतैः पात्रैः भूताद्यपसारणार्थं कृतम् अवतारणकरूपं नीराजनरूपेण पात्रपरिभ्रामणरूपं मङ्गलं यस्यास्ताम् । 'उतारा' इति देशभाषा । 'अवतारणं भूतादिग्रहे वस्त्राञ्चलेऽर्चने' इति मेदिनी। पाठा० - १ विन्यस्तरत्न. २ मङ्गलम्. ३ मन्त्रपवित्रम् पत्रम्. ४ अवलम्बि. ५ बालयोक्त्रुद्मथित. ६ लोह; लोहित. ७ दलम्. ८ पादपीठी. ९ अविच्छन्न. १० सित. ११ कुसुमाञ्जलि. गर्भवती विलासवती पूर्वभागः । 153 Page #167 -------------------------------------------------------------------------- ________________ रविच्छिन्नसलिलधारीनुगम्यमानमार्गः पटलकप्रज्वलितैश्च शीतलप्रदीपैर्गोरोचनामिश्रगौरसर्षपैश्च सलिलाञ्जलिभिश्चाचारकुशलेनान्तःपुरजरतीजनेन क्रियमाणावतरणकमङ्गलाम्, धवलाम्बरविविक्तवेषेण प्रमुदितेन प्रस्तुतमङ्गलप्रायालापेन परिजनेनोपास्यमानाम्, उपारूढगर्भतयान्तर्गतकुलशैलामिव क्षितिम्, सलिलनिमग्नैरावतामिव मन्दाकिनीम्, गुहागतसिंहामिव गिरिराजमेखलाम्, जलधरपटलान्तरितदिनकरामिव दिवसंश्रियम्, उदयगिरितिरोहितशशिमण्डलामिव विभावरीम्, अभ्यर्णब्रह्मकमलविनिर्गमामिव नारायणनाभिम्, आसन्नागस्त्योदयामिव दक्षिणाशाम्, फेनावृतामृतकलशामिव क्षीरोदवेलाम्, गोरोचनाचित्रितदशमनुपहतमंतिधवलं दुकूलयुगलं वसानां विलासवतीं ददर्श । *********** कर्पूप्रदीपैः । कीदृशैः पटलके रक्तवस्त्रनिर्मितगृहे मण्डलके वा प्रचलितैरुद्दीपितैः । अविच्छिन्नेति । अविच्छिन्नाऽत्रुटिता या सलिलधारा जलधारा तया अनुगम्यमानोऽनुष्ठीयमानो मार्गो यैस्ते तयाँ तैः । गोरेति । गोरोचना प्रसिद्धा तया मित्रैः संयुक्तैर्गौरसर्षपैः श्वेतसिद्धार्थैः । पुनः कैः । सलिलस्य जलस्याञ्जलयस्तैः । पुनर्विलासवतीं विशेषयन्नाह - धवलेति । धवलाम्बरस्य चेतवाससो विविक्तो निश्चलो वेषो नेपथ्यं यस्य स तेन प्रमुदितेन हर्षितेन । प्रस्तुतेति । प्रस्तुत उपक्रान्तो मङ्गलप्रायो बाहुल्येन मङ्गलरूप आलापः संलापो यस्यैवंविधेन परिजनेन परिच्छदजनेनोपास्यमानां सेव्यमानाम् । अथोपमानान्तरेण तां विशेषयन्नाह - उपेति । उपारूढः प्राप्तो यो गर्भस्तस्य भावस्तत्ता तया हेतुभूतयान्तर्गतः कुलशैलो यस्यामेवंभूतां क्षितिमिव वसुधामिव । सर्वेषामाधारभूतत्वेन कुलशैल-सुतयोः साम्यम् । सलिले पानीये निमग्नो बुडित ऐरावतोऽभ्रमातङ्गो यस्यामेतादृशीं मन्दाकिनी गङ्गामिव । गृहागतः कन्दराप्राप्तः सिंहो मृगारिर्यस्यामेवंविशिष्टां गिरिराजमेखलामिव हिमाचलमध्यमिव । जलधरपटलमभ्रवृन्दं तेनान्तरितो व्यवहितो दिनकरो दिवसकरो यस्यामेतादृशी दिवसश्रियमिव वासरलक्ष्मीमिव । उदयगिरिणोदयाचलेन तिरोहितमाच्छादितं शशिमण्डलं यस्यामेवंभूतां विभावरी रजनीमिव । अभ्यर्णं समीपे ब्रह्मकमलस्य धातृरूपनलिनस्य विनिर्गमो बहिर्भावो यस्यामेतादृशीं नारायणनाभिमिव दामोदरकूपिकामिव । आसनः समीपवर्त्यगस्त्यस्य पीताब्धेरुदय उद्गमनं यस्यामेवंभूतां दक्षिणाशामिवावाचीमिव । फेनेन डिण्डीरेणावृता आच्छादिता अमृतकलशाः पीयूषकुम्भा यस्यामेतादृशीं क्षीरोदवेलामिव दुग्धोदधिजलवृद्धिमिव । गोरोचनया चित्रिता पिञ्जरीकृता दशाः प्रान्ता यस्यैवंभूतमनुपहतमच्छिद्रमतिधवलमतिशुभ्रं दुकूलयुगलं दुकूलयुग्मं वसानां दधानाम् । अन्वयस्तु प्रागेवोक्तः । ततश्च पार्थिवः स राजा तां विलासवतीमुत्तिष्ठन्तीमुत्थानं कुर्वतीम् । हे देवि, अलमलं कृतं कृतमत्यादरेणातिप्रयत्नेन । नोत्थातव्यं नोत्थानं कर्तव्यमित्येवमभिधायेत्युक्त्वा तस्मिन्नेव शयनीये पर्यङ्के तया सह समुपाविशदासेदिवान् । केचित्तु स्त्रीपुरुषयोरेकत्रावस्थितिर्न युक्तेति तस्मिन्नेव शयनीये शयनसंब - - - - - - - - - टिप्प० - 1 वस्त्रनिर्मिते दीपाधारे 'कन्दील 'ढोल' इति भाषाख्याते । 2 केनचिज्जरतीजनेन पश्चात् क्रियमाणा अविच्छिन्ना जलधारा येषु तानित्यर्थः । 3 येनेत्युचितम् । 4 विरिञ्चिजन्मस्थानीभूतपद्मस्येत्युचितम् । 5 अमृतकलश इत्येकवचनमेवोचितम्, उपमायां बिम्बभूतस्य सुतस्यैकत्वात् । पाठा० -१ गम्यमान. २ पटलप्र. ३ शीतलप्रदीपैश्च. ४ अभिचार. ५ अवतारणक. ६ मङ्गल्य. ७ मेखलामिव. ८ दिनश्रियम्. ९ गोरोचनातिलक. १० मणिधवलम्. (154 कादम्बरी । कथायाम् Page #168 -------------------------------------------------------------------------- ________________ ससंभ्रमपरिजनप्रसारितकरतलालम्बनावष्टम्भेन वामजानुविन्यस्तहस्तपल्लवां प्रचलितभूषणमणिरवमुखरमुत्तिष्ठन्ती विलासवतीम् ‘अलमलमत्यादरेण । देवी, नोत्थातव्यम्' इत्यभिधाय सह तया तस्मिन्नेव शयनीये पार्थिवः समुपाविशत् । प्रमृष्टचामीकरचारुपादे धवलोपच्छदे चासन्ने शयनान्तरे शुकनासोऽपि न्यषीदत् । अथ तामुपारूढगर्भामालोक्य हर्षभरमन्थरेण मनसा प्रस्तुतपरिहासो राजा ‘देवि, शुकनासः पृच्छति-यदाह कुलवर्धना किमपि तत्किं तथैव' इत्युवाच । अथाव्यक्तस्मितच्छुरितकपोलाधरलोचना लज्जया देशनांशुजालकव्याजेनांशुकेनेव मुखमाच्छादयन्ती विलासवती तत्क्षणमधोमुखी तस्थौ । पुनःपुनश्चानुबध्यमाना 'किं मामतिमात्र त्रपापरवशा करोषि । नाहं किंचिदपि वेद्मि' इत्यभिदधाना तिर्यग्वलिततारकेण चक्षुषावनतमुखी राजानं साभ्यसूयमिवापश्यत् । अपरिस्फुटहासज्योत्स्नाविशदेन मुखशशिना भूभुजां पतिरेनां भूयो बभाषे-'सुतनु, यदि मंदीयेन वचसा तव त्रपा वितन्यते तदयमहं स्थितो निभृ - *********** न्धिगृहे पृथगासने राजोपविशदित्यर्थमाहुः । तामेव विशिनष्टि - ससंभ्रमेति । ससंभ्रमं सचकितं सविलास वा, परिजनेन सेवकजनेन प्रसारित विस्तारितं यत्करतलं हस्ततलं तदेवालम्बनमाधारस्तस्यावष्टम्भेन सहायेन वामेऽपसव्ये जानौ नलकीले विन्यस्तः स्थापितो हस्त एव पल्लवो ययेति गर्भवतीज्ञापक लक्षणम् । प्रचलितानि भूषणानि तेषां मणिरवेण मुखरं वाचालं यथा स्यात्तथेति क्रियाविशेषणम् । अलमित्यनेनादरातिशयः सूचितः । ततश्च शुकनासोऽपि शयनान्तर आसनान्तरे न्यषीददुपविष्टवान् । तदेव विशेषयन्नाह - प्रमृष्टेति । प्रमृष्टमुज्ज्वलीकृतं यत् चामीकरं सुवर्णं तस्य चारवो मनोहराः पादा यस्मिन् (यस्य) क्वचित् 'चारुपट्टे' इति पाठः । तत्र चारुः सुन्दरः पट्टो दृढबन्धो यस्मिन्नित्यर्थः । धवलः श्वेत उपच्छद उत्तरपटो यस्मिन् । आसन्ने समीपवतिनि । अथेत्यानन्द प्राप्तो गर्भो ययैवंभूतामालोक्य निरीक्ष्य राजा पार्थिव इत्युवाचेत्यब्रवीत् । कीदृक् । प्रस्तुतः प्रारब्धः परिहासो नर्मवचनविन्यासो येन सः । केन । मनसा चित्तेन । कीदृशेन । हर्षस्य प्रमोदस्य यो भरः संभारस्तेन मन्थरेणालसेन, प्रस्तुतो गर्भधारणरूपो वृत्तान्तस्तत्र परिहासो हास्यमिति वा । एतदेव स्पष्टीकुर्वन्नाह - देवीति । हे देवि, शुकनासः पृच्छति । कुलवर्धना किमपि यदाह तत्किं तथैवेति सव्यङ्ग्यः प्रश्नः । अथेति । अथ प्रश्नानन्तरमव्यक्तमस्फुटं यस्मितं हास्यं तेन छुरितानि विकसितानि कपोलाधरलोचनानि यस्याः सा । लज्जया त्रपया दशना दन्तास्तेषामंशवः किरणास्तेषां जालक समूहस्तस्य व्याजेन मिषेणांशुकेनेव वस्त्रेणेव मुखमाननमाच्छादयन्ती प्रच्छादनं कुर्वती विलासवती तत्क्षणं तस्मिन्समयेऽधोमुख्यवाङ्मुखी तस्थौ स्थिता । पुनरिति । अपश्यदित्यन्वयः । किं क्रियमाणा । पुनःपुनर्वारंवारमनुबध्यमाना सनिर्बन्धं पृच्छ्यमाना । पुनः किं कुर्वाणा । इत्यभिदधानेतिब्रुवाणा । इतिवाच्यमाह - किमिति । किमिति हेतुना मामतिमात्रमतिसंकटं त्रपापरवशां लज्जायत्तां करोषि निर्मासि । नेति प्रतिषेधे । अहमित्यात्मनिर्देशः । किंचिदपि स्वल्पमात्रमपि वेद्मि जानामि । तिर्यगिति । तिर्यग्वलिता तारका कनीनिका यस्मिन्नेवभूतेन चक्षुषा नेत्रेणावनतमुख्यानम्रवदना राजानं नृपं साभ्यसूयमिव सहेjया वर्तमानमिवापश्यदिति प्रागुक्तमेव । पतिव्रताया धीरायास्तादृशप्रश्नस्यानुचितत्वात्साभ्यसूयमिति भावः । अपरिस्फुटोऽप्रकटो यो हासः स एव ज्योत्स्ना चन्द्रिका तया विशदेन निर्मलेन मुखशशिना वदनचन्द्रेणोपलक्षितो भूभुजां पती राजैनां विलासवतीं भूयः पुनरपि बभाष उवाच । किं तदित्याह - सुतन्विति । सुष्टु शोभना तनुः शरीरं यस्यां सेति संबोधनपदम् । यदिति यत्तदोः संबन्धः । - - - - - - - - - - - - - टिप्प० - 1 छुरितं कपोलाधरलोचनं यस्या इत्येकवचनमेवोचितम्, प्राण्यङ्गत्वात् । पाठा० - १ अबलम्बना. २ प्रचल. ३ चारुपदे. ४ चासनशयनान्तरे. ५ अव्यक्तच्छुरित. ६ दशनांशुकजाल. ७ अनुरुध्यमाना. ८ किं नाम माम्. ९ पतिर्भूयो. १० मदीयवचसा. - - राज्ञो गर्भवार्ताऽवगमः । पूर्वभागः । 155) Page #169 -------------------------------------------------------------------------- ________________ तम् । अस्य तु किं प्रतिविधास्यति विघटमानदलकोशविशदचम्पकद्युतेः । सवर्णतया परिमलानुमीयमानस्य कुङ्कुमाङ्गरागस्य पाण्डुरतामापद्यमानस्य, अनयोश्च गर्भसंभवामृतावसेकनिर्वाप्यमाणशोकानलप्रभवं धूममिव वैमतोर्गृहीतनीलोत्पलयोरिव चक्रवाकयोस्तमालपल्लवलाञ्छितमुखयोरिव कनककलँशयोः सकृदिवालिखितकृष्णागुरुपङ्कपत्रलतयोः श्यामायमानचूचुकयोः पयोधरयोः अस्य च प्रतिर्दिनमतिगाढतरतामापद्य मानेन काञ्चीकलापेन दूयमानस्य नश्यत्त्रिवलिरेषावलयस्य क्रशिमानमुझेतो मध्यभागस्य ।' इत्येवं ब्रुवाणमवनिपालमन्तर्मुखहासः शुकनासः ‘देव, किमायासयति देवीम् । **: मदीयने मदुक्तेन वचसा वाक्येन यदि तव त्रपा लज्जा वितन्यते विस्तार्यते । तदिति हेत्वर्थे । अयमहमिति सोऽहमिति यदिदन्ताविषयेणाहमि यस्याभेदप्रत्यभिज्ञानम् । निभृतमत्यर्थं तूष्णीस्थितः । अस्येति । अस्य कुङ्कुमाङ्गरागस्येत्यन्वितम् । किमिति प्रश्ने प्रक वा । प्रतिविधास्यसि । तस्य गोपनं कथं करिष्यसीत्याशयः । विघटेति । विघटमानानि भिद्यमानानि दलानि यस्यैवभूतः कोशो मुकुलस्तेन विशदो निर्मलो यश्चम्पको हेमपुष्पकस्तस्य द्युतिः कान्तिस्तस्यां सवर्णतया सरूपतया । अतएव विशेषाज्ञाने परिमलानुमीयमानस्येत्युक्तम् । तथा च चम्पकपरिमलो न्यूनोऽङ्गरागपरिमलस्त्वधिक इति विशेषाद्विशिष्यानुमानं भवत्येवेत्याशयः । कुङ्कुमं काश्मीर तेनाङ्गराग उद्वर्तनं तस्यै । अन्तर्वत्नीत्वनितया पाण्डुरता तामापद्यमानस्य प्राप्यमाणस्येत्यर्थः । अथ चानयोः पयोधरयोरिति संबन्धः । कीदृशयोः गर्भसंभव एवामृतं तस्यावसेकः सिञ्चनं तेन निर्वाप्यमाणो विलुप्यमानश्चिरकालीनपुत्रानुत्पत्तिनिमित्तकः शोक एवानलो बह्निस्तस्मात्प्रभव उत्पत्तिर्यस्यैवंभूतं स्तनवृन्तोपरि श्यामतालक्षणधूममिव वमतोस्त्यजतोः । पुनरुत्प्रेक्षां कुर्वन्नाह - गृहीतेति । गृहीतमात्तं नीलोत्पलं कुवलयं याभ्यामेवंभूतयोश्चक्रवाकयोरिव रथाङ्गाह्वयोरिव । पुनरुत्प्रेक्षां कुर्वन्नाह - तमालेति । तमालस्तापिच्छस्तस्य पल्लवाः किसलयास्तैर्लाञ्छितं चिह्नितं मुखं ययोरेवंभूतयोः कनककलशयोरिव सुवर्णकुम्भयोरिव । पुनः प्रकारान्तरेणोठप्रेक्षां कुर्वन्नाह - सकृदिति । सकृदेकवारमालिखिता कृष्णागुरुपङ्केन पत्रलता पत्रवल्ली ययोरेतादृशयोरिव श्यामायमानं श्यामतामापद्यमानं चूचुकं स्तनवृन्तं ययोः पयोधरयोस्तयोर्गोपनं कथं करिष्यसि । स्तनाग्रश्यामता गर्भव्यतिरेकेणानुपपद्यमाना तद्भावमाविष्करोतीति भावः । अस्य चेति । मध्यभागस्येत्यनेनान्वितम् । प्रतिदिनं प्रत्यहमतिगाढतरतामतिदृढतामापद्यमानेन प्राप्यमाणेन काञ्चीकलापेन रशनाकलापेन दूयमानस्य पीड्यमानस्य । नश्यदिति । नश्यद्भ्रश्यत्त्रिवल्यास्त्रिकस्यै रेषावलयं यस्मिन्स तथा तस्य । कृशस्य भावः क्रशिमा कृशत्वमुज्झतस्त्यजतो मध्यभागस्य मध्यप्रदेशस्येत्येवमिति पूर्वोक्तप्रकारेण ब्रुवाणं वदन्तं अवनिपालं नृपं शुकनास इत्यब्रवीदित्यन्वयः । कीदृक् । अन्तर्मुखे मुखमध्ये हासो यस्य सः । एतेन महापुरुषत्वं सूचितम् । इतिशब्दार्थमाह - देवेति । टिप्पo. - 1 'परिमलानुमीयमानकुङ्कुमरागस्य पाण्डुरतामापद्यमानस्य वर्णस्य', इत्यपि पाठः । चम्पकपुष्पकान्तेस्तुल्यवर्णतया परिमलेन (सुगन्धेन) अनुमीयमानः काश्मीरजाङ्गरागो यस्मिन् तादृशस्य वर्णस्य तव शरीरकान्तेः किं प्रतिविधास्यतीत्यन्वयः । कुङ्कुमाङ्गरागः शरीरवर्णश्चेत्युभयमपि चम्पकसवर्णमिति पृथक्तया अनुपलक्ष्यमाणत्वात् परिमलेन केशरानुलेपनमनुमीयते इति भावः । उन्मीलितमलंकारः । 2 नश्यत् विलुप्यमानं त्रिवलिलेखानां वलयं मण्डलं यस्मिन्नित्यर्थः । पाठा० - १ मानस्य कुङ्कुमरागस्य; मानकुङ्कुमाङ्गरागस्य २ पाण्डुतामापाद्यमानस्य. ३ मानस्य वर्णस्य ४ संभवावसेक. ५ हृदयशोका. ६ वमतोरन्तर्गृहीत; बहतोराननगृहीत. ७ कलशयोरिव ८ लिखित ९ अतिगाढताम् १० आपाद्यमानेन ११ लेखा. १२ उद्वहतः १३ मुखविनिगूढहासः; मुखनिगूढाहासः. 156 कादम्बरी । कथायाम् Page #170 -------------------------------------------------------------------------- ________________ इयमनया कथयापि लज्जते । त्यज कुलवर्धनाकथितवार्तासंबद्धमालापकैम्' इत्यब्रवीत् । एवंविधाभिश्च नर्मप्रायाभिः कथाभिः सुचिरं स्थित्वा शुकनासः स्वभवनमयासीत् । नरेन्द्रोऽपि तस्मिन्नेव वासगृहे तया सह तां निशामत्यवाहयत् । ततः क्रमेण समीहितगर्भदोहदसंपादनप्रमुदिता पूर्णे प्रसवसमये पुण्येऽहन्यनवरतगलनाडिकाकलितकालकलैर्बहिरागृहीतच्छायैर्गणकैर्गृहीते लग्ने प्रशस्तायां वेलायामिरंमदमिव मेघमाला सकललोकहृदयानन्दकारिण विलासवती सुतमसूत । तस्मिजाते सरभसमितस्ततः प्रधावितस्य परिजनस्य चरणशतसंक्षोभचलितक्षितितलो भूपालाभिमुखप्रसृतस्खल - *********** हे देव स्वामिन्, देवीं विलासवती किमायासयसि खेदयसि । इयं देव्यनया पूर्वोक्तया कथया वार्तयापि लज्जते त्रपां प्राप्नोति । त्यज दूरीकुरु । कुलवर्धना पूवोक्ता तया कथिता प्रोक्ता या वार्ता प्रवृत्तिस्तत्संबद्धमालापकं ज्ञातस्याप्यर्थस्यावेदने लज्जाकारिवाक्प्रयोगरूपम् । एवमिति । एवंविधाभिः पूर्वोक्ताभिर्नर्मप्रायाभिः परिहासबाहुल्याभिः कथाभिर्वार्ताभिः सुचिरं चिरकालं स्थित्वा तत्रावस्थानं कृत्वा शुकनासः स्वभवनं स्वगृहमयासीदाययौ । नरेन्द्रोऽपि नृपोऽपि तस्मिन्नेव वासगृहे तां निशां रात्रिं तया सह विलासवत्या सममत्यवाहयदनैषीत् । तत इति । ततः तदनन्तरं पुण्येऽहनि पवित्रवासरे प्रसवस्य जननस्य समयः कालस्तस्मिन्पूर्णे परिपक्वे सति गणकैयॊतिविद्भिगृहीते लग्ने मेषादिके प्रशस्तायां सर्वदोषराहित्येन मनोभीष्टायां वेलायां लग्नान्तर्वर्तिहोरायां विलासवती सुतं पुत्रमसूत सुषुवे । कीदृशी । समीहित ईप्सितो यो गर्भस्तन्निमित्तको दोहदो मनोरथः । नानारसविषयकोभिलाष इति यावत् । तस्य संपादनं परिपूर्णतापादनं तया प्रमुदिता संतुष्टा । अथ गणकान्चिशिनष्टि - आगृहीतेति । बहिरङ्गणादावागृहीता पूर्वपश्चिमादिदेशविशेषेण निश्चिता छाया यैः । अनवरतेति । अनवरतं नित्यं गलन्ती जलं त्यजन्ती या नाडिका घटिका । नाडिकाशब्दस्य समयवाचित्वेऽपि नाडीबोधकं पात्रविशेष लक्ष्यते । तया कलिता निश्चिता ज्ञाता कालकला सूक्ष्मकालो यैः । नित्यं चलन्ती या नाडिका मुहूर्ता) तस्मिन्कलिता कालकला यैरिति वा । का किमिव । मेघमाला कादम्बिनीरंमदमिव मेघवह्निमिव । 'मेघवहिरिरंमदः' इति हैमः । सुतं विशेषयन्नाह - सकलेति । सकला समग्रा ये लोकास्तेषां हृदयानि चित्तानि तेषामानन्दकारिणं प्रमोदजनकम् । अथ च तस्मिन्पुत्रे जाते परिजनस्य बाह्याभ्यन्तरसेवकजनस्य राजकुले राज्ञां समुदाये राजगृहे वा दिष्टिरानन्दस्तस्य या वृद्धिस्तस्याः संभ्रमः सोत्साहकर्मातिमहानभूदित्यन्वयः । परिजनं विशेषयन्नाह - सरभसमिति । सरभसं त्वरितमितस्ततः समन्तात्प्रधावितस्योच्चलितस्य । दिष्टिसंभ्रमं विशेषयन्नाह - चरणेति । चरणानां पादानां शतं तस्माद्यः संक्षोभः प्रघातस्तेन चलितं कम्पितं क्षितितलं यस्मात्स तथा । भूपालेति । भूपालाभिमुखं नृपसंमुखं - टिप्प० - 1 बहिः आगृहीता पादच्छाया शङ्कच्छाया वा यैः । पादच्छायाग्रहणेन पूर्वं समयनिरूपणमक्रियत । यथा-'पच्छायां द्विगुणीकृत्य चतुर्दशसमन्विताम् । पक्षग्रहकराद्भागलब्धं दण्डादिकं भवेत् ॥ इति । 2 समयनिरूपकयन्त्रविशेषः । सार्धद्वादशपलपरिमितताम्रनिर्मितः सार्धद्वादशपलपरिमितजलपूरणीयः पञ्चरत्तिकापरिमितस्वर्णनिर्मितशलाकया अधश्छिद्रसंयुक्तो यन्त्रविशेष इत्यर्थः । तया च शलाकया जलबिन्दुपतनात्तज्जले च चिह्नविशेषोपगते समयनिरूपण पूर्वमक्रियत । पाठा० - १ अनयापि कथया. २ आलापम्; आलापमपि. ३ वासगृहे ताम्. ४ यथासमीहित; समुचित. ५ पूर्णप्रसवः. ६ कलेः; कले. ७ जलधरमाला. चन्द्रापीडजन्मोत्सवः पूर्वभागः ।। Page #171 -------------------------------------------------------------------------- ________________ द्गतिशून्यकञ्चुकिसहसो जनसंमर्दनिष्षिष्यमाणपतितकुब्जवामनकिरातगणो विस्फार्यमाणान्तःपुरजनाभरणशङ्कारमनोहरः पूर्णपात्राहरणविलुप्यमानवसनभूषणः संक्षोभितनगरो राजकुले दिष्टिवृद्धिसंभ्रमोऽतिमहानभूत् । अनन्तरं च मैन्दरमथ्यमानर्जलधिघोष गम्भीरं दुन्दुभिध्वानपुरःसरेण पँहतमृदुमृदङ्गशङ्खकाहलानकनिवहनिर्भरेण मङ्गलपटहपटुरवसंवर्धितेनानेक जनसहसकलकलबहुलेन त्रिभुवनमापूरयतोत्सवकोलाहलेन ससामन्ताः सान्तःपुरा संप्रकृतयः सराजलोकाः सवेश्यायुवतयः सबालवृद्धा ननृतुरांगोपालमुन्मत्ता इव हर्षनिर्भराः प्रजाः । प्रतिदिनमवर्धत चन्द्रोदयेनेव जलधिः कलकलमुखरो राजसूनोर्जन्ममहोत्सवः । *********** प्रसृता विस्तृतास्तेषां हर्षोद्रेकात्स्खलन्ती या गतिर्गमनं तया शून्यं कञ्चुकिना सौविदल्लानां सहसं यस्मिन्सः । अनेन सुतोत्पत्तिज्ञापनार्थ सर्वतः कञ्चुकिनः प्रवृत्ता इति ध्वनितम् । जनेति । जनानां समर्दैन समुदायेन निष्पिष्यमाणा पीड्यमाना अतएव पतिताः सस्ताः । येषां शिरः शिरोधिपृष्ठिपादं लक्षणोपेतं न भवति पृष्ठ्युदरहृदयं च सुलक्षणं स्यात्ते कुब्जाः । एतद्विपरीतास्तु वामनाः । केवलं स्वल्पतनवः किराताः । 'किरातः स्यादल्पतनौ भूनिम्बे मलेच्छभिल्लयोः' इत्यनेकार्थः । तेषां गणः समुदायो यस्मिन् सः । विस्फार्येति । विस्फार्यमाणो वृद्धिं प्राप्यमाणो योऽन्तःपुरजनानामाभरणझङ्कारोऽलंकारनिनादस्तेन मनोहरो हृदयहारी । पूर्णेति । उत्सवेषु सुहृद्भिर्यद्वलादाकृष्य गृह्यते तत्पूर्णपात्रं तस्याहरणं ग्रहणं तेन विलुप्यमानानि गृह्यमाणानि बलादाकृष्यमाणानि वसनभूषणानि यस्मिन् सः । संक्षोभितं क्षोभ प्रापितं नगरं येन स तथा । अनन्तरं चेति । अनन्तरं सुतोत्पत्त्यनन्तरमुत्सवकोलाहलेन हर्षस्य निर्भरोऽतिशयो यास्वेवंविधाः प्रजा ननृतुनृत्यं चक्रुरित्यन्वयः । प्रजा विशिनष्टि - ससामन्ता इति । सामन्तां स्वेदशपार्श्ववर्तिनो राजानस्तैः, सहवर्तमानाः, सान्तःपुरा अन्तःपुरेण सहिताः, सप्रकृतयः प्रकृतिः पौरलोकस्तस्या सहवर्तमानाः, सराजलोकाः राजलोको नृपसंबन्धिजनस्तेन सहिताः, सवेश्यायुवतयो वेश्यायुवतिभिर्वाराङ्गनाभिरुपेताः, सबालवृद्धा बालवृद्धैः सहिताः । आगोपालमिति । आगोपालं बल्लवं मर्यादीकृत्य यथा स्यात्तथेति क्रियाविशेषणम् । क इव । उन्मत्ता इव क्षीबा इव । उत्सवकोलाहलेन किं कुर्वता । आपूरयता पूर्णीकुर्वता । किम् । त्रिभुवन त्रिविष्टपम् । उत्सवकोलाहलं विशिष्टि - मन्दरेति । मन्दरेण मेरुणा मथ्यमानो विलोड्यमानो यो जलधिः क्षीराब्धिस्तस्य घोषस्तद्वद्गम्भीरो यो मूदुर्मृदङ्गो मुरजः, शङ्खः कम्बुः, काहलो वाद्यविशेषः, आनको दुन्दुभिः तेषां निवहः समूहस्तेन निर्भरण पूर्णेन । मङ्गलार्थ वाद्यते यः स मङ्गलपटहश्चर्मवाद्यं तस्य यः पटुरवः स्पष्टः शब्दस्तेन संवर्धितेन वृद्धि प्रापितेन, अनेके ये जनास्तेषां सहस्त्रं तस्य यः कलकलः कोलाहलस्तेन बहुलेन दृढेन । अधिकीभूतेनेत्यर्थः । प्रतीति । प्रतिदिनं प्रत्यहं राजसूनोर्नृपात्मजस्य जन्ममहोत्सवो जनिक्षणोऽवर्धत वृद्धि प्राप । केनेव । चन्द्रोदयेन कुमुदबान्धवोद्गमनेन जलधिरिव समुद्र इव । कीदृग्जन्ममहोत्सवः । टिप्प० - 1 भूपालाभिमुखं प्रसृतं चलितं स्खलद्गतिशून्यम् (अन्यस्मिन् समये वार्धक्येन स्खलद्गतियुक्तमपि संप्रति हर्षोद्रेकवशात् तच्छून्यमित्यर्थः) । केषाञ्चिन्मते-'भूपालाभिमुखप्रसृतस्खलद्गतिविकलकञ्चुकिसहसः' इत्यपि पाठः । भूपालाभिमुखं प्रसृतं, स्खलद्गति (स्खलन्ती गतिर्यस्य तत्), विकलम् आनन्दव्याकुल च कञ्चुकिना सहस यस्मिन् स इति तदर्थः । पाटा० - १ गतिकञ्चुकि; गतिविकलकञ्चुकि. २ घूर्णमान. ३ विलुठ्यमान. ४ च मध्यमान. ५ मन्दराराध्यमान. ६ जलनिधि. ७ स्वान. ८ प्रहतमृदङ्ग. ९ निवहनिनादनिभरण. १० सान्तःपुरजनाः. ११ आगोपम्. १२ प्रतिक्षणम्. १३ जलनिधिः. १४ जन्मनो महोत्सवः. 158 कादम्बरी । कथायाम् Page #172 -------------------------------------------------------------------------- ________________ पार्थिवस्तु तनयाननदर्शनमहोत्सवहृतहृदयोऽपि दिवसवशेन मौहूर्तिकगणोपदिष्टे प्रशस्ते मुहूर्ते निवारितनिखिलपरिजनः शुकनासद्वितीयो मेणिमयमङ्गलकैलशयुगलाशून्येनासक्तबहुपुत्रिकालंकृतेन विविधनवपल्लनिवहनिरन्तरनिचितेन संनिहितकनकमयहलमुसलयुगेन विरलग्रथितसितकुसुममिश्रदूर्वाप्रवालमालालंकृतेनावलम्बिताविकलव्याघ्रचर्मणा वन्दनमालिकान्तरालघटितघण्टागणेन द्वारेण विराजमानम्, उभयतश्च द्वारपक्षकयोमर्यादानिपुणेन गोमयमयीभिरुत्तानविनिहितवराटकदन्तुराभिरन्तरान्तराबद्धविविधवर्णरागरुचिरसिकुसुमले - *********** कलकलेन कोलाहलेन मुखरो वाचालः । तदनन्तरं नृपतिर्यच्चकार तदाह - पार्थिवस्त्विति । पार्थिवो राजापि सूतिकागृहमरिष्टगृहमदर्शदिति दूरेणान्चयः । अथ राजान विशिनष्टि - तनयेति । तनयः सुतस्तस्यानन मुखं तस्य दर्शनेनावलोकनेन यो महोत्सवस्तेन हृत गृहीतं हृदयं चित्तं यस्यैवंभूतोऽपि । कदा ददर्शेत्यत आह - दिवेति । दिवसवशेन । शुभदिनानुसारेणेत्यर्थः । मौहूर्तिकानां ज्योतिर्विदा गणस्तेनोपदिष्टे प्रशस्त उत्कटफलसूचके मुहूर्ते । निवारितो दूरीकृतो निखिलः समग्रः परिजनः परिच्छदो येनेति राज्ञो विशेषणम् । शुकनास एव द्वितीयो यस्य स तथा । गृह विशेषयन्नाह - द्वारेति । द्वारेण प्रतीहारेण विराजमान शोभमानम् । द्वारं विशेषयनाह - मणीति । मणिमयं रत्नमयं यन्मङ्गलकलशयुगलं तेनाशून्येन । सर्वदा तत्संयुक्तेनेत्यर्थः । पुत्रवत्या महाद्वारोपरि मणिमयकलशारोपण क्रियत इति राजस्थितिः । आसक्ताः संश्लिष्टा बहुपुत्रिका मषीलिखितास्ताभिरलंकृततमिति गृहविशेषणम् । यस्मिन्गृहे प्रसूतिर्जायते तवारदेशे क्रमव्युत्क्रमाभ्यां मषीलिखिते संश्लिष्टे पुत्रिके क्रियते इति वृद्धाचारः । कैश्चित्तु बहुपुत्रिकानाम श्लक्ष्णफलैरुपेतो विटपिविशेषः । कथ्यते । शतावरीत्यन्ये । विविधा भिन्नभिन्नजातीया ये नवपल्लवा नवकिसलयास्तेषां निवहः समूहस्तेन निरन्तरं नित्यं निचितेन व्याप्तेन । संनिहितानि समीपवर्तीनि कनकमयानि सुवर्णमयानि हलं सीरम्, मुसलमयोग्रम्, युगमीशान्तबन्धनम्, एतानि यस्मिन् । अयं च राज्ञां गृहे क्वचिद् देशाचारः हलमुसलयोर्युगमिति समासो वा । विरलेति । विरलानि ग्रथितान्यन्तरान्तरा गुम्फितानि यानि सितकुसुमानि श्वेतपुष्पाणि तैर्मिश्रा संपृक्ता या दूर्वा बहुप्ररोहा तस्याः प्रवालमालया पल्लवश्रेण्यालंकृतं भूषितं तेन । अवेति । अवलम्बितमविकलं संपूर्ण व्याघ्रचर्म श्वेतपिङ्गलकृत्तिर्यस्मिंस्तत्तथा तेन । वन्दनेति । मङ्गल्यं पुष्पदाम वन्दनमालिका । 'तोरणार्थे तु मङ्गल्यं दाम वन्दनमालिका' इत्यभिधानचिन्तामणिः । तस्या अन्तराले मध्य विभागे घटितो रचितो घण्टागणो यस्मिन्स तेन । पुनस्तमेव विशेषयन्नाह - उभयतश्चेति । पुरंध्रिवर्गेण । 'पुरंध्री सुचरित्रा' इत्यमरः । समधिष्ठितमध्यमिति दूरेणान्वयः । किं कुर्वता । पुरंध्रिवर्गेण । आलिखितो लिपीकृतः स्वस्तिकः । प्रसिद्धो यस्मिन्नेवंभूतं भक्तिजालं रचनासमूहमुपरचयता कुर्वता । कयोः । द्वारपक्षकयोः । उभयत उभयपार्धयोः । ‘पक्षद्वारं तु पक्षकम्' इति कोशः । कीदृशेन । मर्यादानिपुणेन मर्यादा स्थितिस्तत्र निपुणेनाभिज्ञेनेति पुरध्रिवर्गस्य विशेषणम् । काभिः लेखाभिर्वर्तिभिः । अथ लेखा विशेषयन्नाह - गोमयेति । गोमयं छगणं तन्मयीभिः । उत्तानेति । उत्तानमूर्ध्वमुखं विनिहिताः स्थापिता ये वराटकाः कपर्दकास्तैर्दन्तुराभिर्विषमोन्नताभिः अन्तरान्तरा मध्येमध्य आबद्धा नियमिता विविधवर्णा नीलपीतादिधातवस्तेषा रागेण रुचिरं कूर्पासमेव कुसुमं तस्य लेशाश्छेदास्तैलाञ्छिताभिश्चिह्निताभिः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 शुभसमयानुरोधेनेत्यर्थः । 2 आसक्ताभिः परस्पराश्लिष्टाभिः संमिलिताभिर्वा बहुपुत्रिकाभिः बहपुत्रशालिनीभिर्नारीभिः अलंकृतेन इत्यर्थः । संतानरक्षाशकुनार्थं ता द्वारोपरि उपस्थिता भवन्तीत्याचारः । पाठा० - १ दर्शनोत्सव. २ कनकमय. ३ कलशाशून्येन. ४ पुत्रिकाप्रतानेन. ५ वन. ६ युगलेन. ७ आलम्बिताविरल; आलम्बिताविकट. ८ माला. ९ द्वारदशेन. १० वराटकप्रकारदन्तुराभिः ११ कार्पास; कास. (सूतिकागृहवर्णनम् । पूर्वभागः । 159 Page #173 -------------------------------------------------------------------------- ________________ शलाञ्छिताभिः कुसुम्भकेसरलवाश्लेषलोहिताभिर्लेखाभिरालिखितस्वस्तिकभक्तिजालमुपरचयता हारिद्रद्रावविच्छुरणपिञ्जरिताम्बरधारिणी भगवती षष्ठी देवीं कुर्वता विकचपक्षपुटविकटशिखण्डिपृष्ठमण्डलाधिरुढमालोललोहितपटघटितपताकमुल्लसितशक्तिदण्डप्रचण्डं कार्तिकेयं संघटयता विन्यस्तालक्तकपटलपाटलमध्यभागौ सूर्याचन्द्रमसावाबध्नता कुङ्कुमपङ्कपिञ्जरीकृतामूर्ध्वप्रोतकनकमययवनिकरकण्टकितामविरललग्नगौरसिद्धार्थकप्रकारतया काञ्चनरसखचितामिव मृन्मयगुटिकाकदम्बमालां विन्यस्यता चन्दनजलधवलितेषु भित्तिशिखरभागेषु पञ्चरागविचित्रचेलचीरकलापचिह्नामापीतपिष्टपङ्काङ्किता वर्धमानपरम्परामन्यानि च सूतिकागृहमण्डनमङ्गलानि संपादयता पुरंध्रिवर्गेण समधिष्ठितम्, उपद्वारसंयतविविधगन्धकुसुम - *********** कुसुम्भेति । कुसुम्भं कमलोत्तरं तस्य केसरलवाः किञ्जल्कखण्डास्तैराश्लेषः रक्ताभिः संबन्धस्तेन लोहिताभी रक्ताभिः । पुनः किं कुर्वता । सृजता । हरिद्रा रजनी तस्या द्रवो रसस्तस्य विच्छुरणं प्रोक्षणं तेन पिञ्जरितं पीतरक्ततां प्राप्तं यदम्बरं वस्त्रं तद्धारिणी भगवती षष्ठी देवीम् । पुनः किं कुर्वता । संघटयता रचयता । कम् । उल्लसितावुल्लासं प्राप्तौ यौ शक्तिदण्डौ । तत्र शक्तिरायुधविशेषः, दण्डो लगुडः, ताभ्यां प्रचण्डो भीषणो यः कार्तिकेयो गृहस्तम् । तमेव विशेषयन्नाह - विकचेति । विकचपक्षपुटाभ्यां विस्तीर्णवाजपुटाभ्यां विकटो विपुलो यः शिखण्डी मयूरस्तस्य पृष्ठमण्डलं तत्राधिरुढमुपविष्टम् । आलोलाश्चञ्चला लोहितपटघटिता रक्तवस्त्रनिर्मिताः पताका वैजयन्त्यो यस्मिन्स तम् । पुनः किं कुर्वता । आबध्नता न्धन विषयीकुर्वता । कौ । सूर्याचन्द्रमसौ पुष्पवन्तौ । देवताद्वन्द्वत्वात्पूर्वपदस्य दीर्घता । तौ विशेषयन्नाह - विन्यस्तेति । विन्यस्तं रचितं यदलक्तकपटलं तेन पाटलौ श्वेतरक्तौ मध्यभागी ययोस्तौ । पुनः किं कुर्वता । विन्यस्यता स्थापयता काम् । मृन्मयगुटिकाकदम्बमालां मृन्मय्यो मृत्तिकाभिर्निष्पन्ना या गुटिका गुलिकास्तासां कदम्बः समूहस्तस्य माला स्त्रक् । ताम् । मालां विशेषयन्नाह - कुङ्कमेति । कुङ्कुमस्य केशरस्य यः पङ्कस्तेन पिञ्जरीकृतां पीतरक्तीकृताम् । ऊर्ध्वप्रोताः स्यूता ये कनकमययवाः सुवर्णहयप्रियास्तेषां निकरः समूहस्तेन कण्टकिता संजातकण्टकाम् । अविरल निबिडं लग्नाः संबद्धा ये गौरसिद्धार्थका गौरसर्षपास्तेषां प्रकारस्तस्य भावस्तत्ता तया हेतुभूतया । काञ्चनस्य सुवर्णस्य यो रसस्तेन खचितामिव संबद्धामिव । अनेन सुवर्णसर्षपयोः साम्यं प्रदर्शितम् । चन्दनेति । चन्दनं मलयजं तस्य जलं द्रवस्तेन धवलितेषु शुभ्रीकृतेषु भित्तिशिखरभागेषु कुड्यप्रान्तप्रदेशेषु वर्धमानपरंपरां शरावश्रेणीमन्यानि च सूतिकागृहमरिष्टगृहं तस्य मण्डनमङ्गलानि शोभाकारिरचनाविशेषास्तानि संपादयता निष्पादयता । वर्धमानपरम्परां विशेषयन्नाह - पञ्चेति । पञ्चरागैर्विचित्रा ये चेलचीरा वस्त्रखण्डास्तेषां कलापः समूहः स एव चिह्न यस्यां सा ताम् । आ ईषत्पीते यः पिष्टपङ्कस्तेनाङ्कितां चिह्निताम् । पुनः प्रकारान्तरेण गृहं विशिनष्टि - उपेति । उपद्वारे द्वारसमीपे संयतो बद्धो विविधो गन्धो यास्वेवंविधाः कुसुममालाः पुष्पसजस्ताभिरलंकृतो भूषितो जरच्छागो वृद्धोडजो यस्मि - टिप्प० - 1 महारजनपुष्पं 'कसूंभा' इति भाषा । 2 तण्डुलपिष्टद्वारा निर्मिमाणेन । 3 अथवा गुलिका एव कदम्बानि कदम्बकुसुमानि तेषा मालामित्यर्थः । 4 सुवर्णनिर्मिता यवा (यवधान्यानिसुवर्णघटितयवग्रथनेन कण्टकितत्वं प्रतीयत इत्याशयः । 5 प्रकरतया, इत्यपि पाठः । अविरल यथा स्यात्तथाससक्तः श्वेतसर्षपाणां प्रकरः समूहो यस्मिन् तद्भावः, तत्तया । सा माला गौरसर्षपयुक्ता, अत एव सुवर्णलेपखचितेव प्रतीयत इत्याशयः । पाठा० - १ हरिद्र. २ परिपिञ्जराम्बर. ३ शिखण्डिमण्डलः, शिखिपृष्ठमण्डल. ४ संघट्टयता. ५ प्रकरतया. ६ पिष्टक; पिष्टातक. ७ वर्धमानक. ८. प्रसवगृह. (160) कादम्बरी । कथायाम्-) Page #174 -------------------------------------------------------------------------- ________________ मालालंकृतजरच्छागम्, अखिलव्रीहिमध्यावस्थापितार्यवृद्धाध्यासितशयनीयशिरोभागम्, अनवरतदह्यमानाज्यमिश्रभुजगनिर्मोकमेषविषाणक्षोदम्, अनलप्लुष्यमाणारिष्टतैरुपल्लवोल्लसितरक्षाधूमगन्धम्, अध्ययनमुखरद्विजगणविप्रकीर्यमाणशान्त्युदकलवम्, अभिनवलिखितमातृपदपूजाव्यग्रधात्रीजनम्, अनेकवृद्धाङ्गनारब्धसूतिकामङ्गलगीतिकामनोहरम्, उपपाद्यमानस्वस्त्ययनम्, क्रियमाणशिशुरक्षाबलिविधानम्, आबद्ध्यमानधवलकुसुमदामशतम्, अविच्छिन्नपठ्यमाननारायणनामसहस्त्रम् अमलहाटकयष्टिप्रतिष्ठापितैरन्तःशुभशतानीव निश्चलशिखैर्ध्यायद्भिर्मगलप्रदीपैरुद्भासितम, उत्खातासिलतासनाथपाणिभिः सर्वतो रक्षापुरुषैः परिवृतं सूतिकागृहमदर्शत् । अम्भः पावकं च स्पृष्ट्वा विवेश । प्रविश्य च प्रसवपरिक्षामपाण्डुमूर्तेरुत्सङ्गगतं विलासवत्याः, स्वप्रभासमुदयोपहतगर्भगृहप्रदीपप्रभम्, अपरित्यक्तगर्भरागत्वादुदयपरिपाटलमण्डलमिव सवितारम्, अपरसंध्यालोहितबिम्बमिव चन्द्रमसम्, अनुपजातकाठिन्यमिव कल्पतरु - *********** स्तत् । अखिलेति । 'क्षेत्राद्यप्रहितं खिलम्' इति कोशः । न विद्यते खिलं येषां तेऽखिलाः क्षेत्रोत्पना ये व्रीहयो धान्यानि तन्मध्येऽवस्थापिता यार्यवृद्धा तयाध्यासितः शयनीयशिरोभागो यस्मिन् । 'आयुर्वृद्ध' इति पाठ आयुर्वृद्धा गोमयपुत्तलिका । शेषं पूर्ववन् । अनवरतेति । अनवरतं निरन्तरं दह्यमानः प्रज्वलमान आज्येन सर्पिषा मिश्रः संयुक्तो भुजगस्य सर्पस्य निर्मोकः कञ्चुकः, मेषस्योरणस्य विषाणं श्रृङ्ग तयोः क्षोदचूर्ण यस्मिन् । अनलेति । अनलेन वह्निना प्लुष्यमाणा दह्यमाना येऽरिष्टतरुपल्लवा निम्बवृक्षकिसलयास्तेषामुल्लसितो विकसितो रक्षार्थं धूमगन्धो यस्मिन् । अध्ययनेति । अध्ययनेन मुखरा वाचाला ये द्विजगणा विप्रसमूहास्तैर्विप्रकीर्यमाणा इतस्ततो विक्षिप्यमाणाः शान्त्यर्थमुदकलवाः पानीयपृषता यस्मिन् । अभिनवेति । अभिनवो नूतनो लिखितो यो मातृणां पटो मातरो वालरक्षाकारिण्यो देव्यो यस्मिन्पटे लिख्यन्ते तस्य पूजायां व्यग्रो धात्रीजनो यस्मिन् । सूतिकेति । सूतिकामुद्दिश्य अनेकवृद्धाङ्गनाभिर्जरत्स्त्रीभिरारब्धा या सूतिकामङ्गलगीतिका तया मनोहरम् । उपपाद्यमानं क्रियमाणं स्वस्त्ययनमरिष्टनिवृत्त्युपायो यस्मिन्, क्रियते क्रियमाणं विधीयमानं शिशोर्बालस्य रक्षार्थं बलिविधान यस्मिन् । आबद्ध्येति । आबध्यमानं धवलकुसुमाना श्वेतपुष्पाणा दामशतं सक्शतं यस्मिन् । अवीति । अविच्छिन्नं निरन्तरं पठ्यमानं नारायणस्य कृष्णस्य नामसहस्त्रं यस्मिन् । अमलेति । अमलं निर्मलं यद्धाटक सुवर्णं तस्य यष्टयो दण्डास्तेषु प्रतिष्ठापितैः सम्यक्तया स्थापितैः । निश्चलेति । निश्चला अकम्प्रा शिखार्चिर्येषा ते तथा तैः । अतएवान्तमध्ये शुभशतानि ध्यायद्भिरिव । एवंविधैर्मङ्गलप्रदीपैरुद्भासितं शोभितम् । उत्खातेति । उत्खाताः कोशाहिः कर्षिता असिलताः खङ्गलतास्ताभिः सनाथाः सहिताः पाणयो हस्ता येषामेवंविधैः सर्वतश्चतुर्दिक्षु रक्षार्थं नियुक्तसुभटैः परिवृतं परिवेष्टितम् । अन्वयस्तु प्रागेवोक्तः । अम्भ इति । अम्भो जलं पावकं वह्निं च स्पृष्ट्वा तत्स्पर्श विधाय विवेश गृहे प्रवेशं कृतवान् । बालकनिरीक्षणे दृष्टिदोषनिवारकमेतत् । प्रविश्येति । प्रविश्य प्रवेशं कृत्वात्मजं ददर्शेत्यन्वयः । अथात्मजं विशेषयत्राह - प्रसवेति । प्रसवेन वैजननेन परिक्षामा कृशा पाण्ड्वी च मूर्तिः शरीरं यस्या एवंविधाया विलासवत्या उत्सङ्गः क्रोडस्तत्र गतं प्राप्तम् । स्वेति । स्वकीयप्रभायाः कान्त्याः समुदयेन समूहेनोपहता दूर ध्वस्ता गर्भगृहस्य सूतिकागृहस्य प्रदीपप्रभा गृहमणिकान्तिर्येन स तम् । अपरित्यक्तो यो गर्भस्य रागो रक्तिमा तस्य भावस्तत्त्वं तस्मात् । उदयेनोद्गमनेन परिपाटलं श्वेतरक्तं मण्डलं यस्यैवंभूतं सवितारं सूर्यमिव । अपरसंध्या पश्चिमसायंकालस्तयालोहितमा ईषद्रक्त बिम्ब यस्यैवंभूतं चन्द्रमसं निशानाथमिव । अनुपेति । पाठा० - १ अवस्थित. २ शयन. ३ निम्बतरु. ४ उद्यत, ५ अपश्यत्. ६ प्रदीपक. ७ संध्यालोहित. (सूतिकागृहवर्णनम् । पूर्वभागः । 161 Page #175 -------------------------------------------------------------------------- ________________ पल्लवम्, उत्फुल्लमिव रक्तारविन्दराशिम्, अवनिदर्शनावतीर्णमिव लोहिताङ्गम्, विद्रुमकिसलयदलैरिव बालातपच्छेदैरिव पद्मरागरश्मिभिरिव रचितावयवम्, अनभिव्यक्तमुखपञ्चकमिव महासेनम्, सुरवनिताकरपरिभ्रष्टमिवामरपतिकुमारकम्, उत्तप्तकल्याणकार्तस्वरभास्वरया स्वदेहप्रभया पूरयन्तमिव वासभवनम्, उद्भासमानैः सहजभूषणैरिव महापुरुषलक्षणैरुपेतम्, आगामिकालपालनप्रहृष्टयेव श्रिया समालिङ्गितम्, आह्लादहेतुमात्मजं ददर्श । विगतनिमेषनिश्चलपक्ष्मणा च मुहुर्मुहुः प्रमृष्टसंघटितानन्दबाष्पंपटलप्लुततारकेण दूविस्फारितेन स्निग्धेन चक्षुषा पिबन्निवालपन्निव स्पृशन्निव मनोरथसहसप्राप्तदर्शनं सस्पृहं निरीक्षमाणस्तनयाननं मुमुदे । कृतकृत्यं चात्मानं मेने । समृद्धमनोरथः शुकनासस्तु शनैःशनैरङ्गप्रत्यङ्गान्यस्य निरूपयन्प्रीतिविस्तारितलोचनं भूमिपालमवादीत्- ‘देव, . पंश्य पश्यास्य कुमारस्य गर्भसंपीडनवशास्फुटावयवशोभस्यापि - १४ *********** अनुपजातमनुत्पन्न काठिन्यं जरठता यस्मिन्नेवंभूतं कल्पतरुपल्लवमिव पारिजातकिसलयमिव । उत्फुल्लं विकसितं रक्तारविन्दराशिमिव कोकनदसमूहमिव, लोहिताङ्ग मङ्गलमवनिदर्शनं पृथिव्या अवलोकनं तदर्थमवतीर्णमागतमिव । विद्रुमेत्यादि । विद्यमाणा हेमकन्दलाना यानि किसलयदलानि तैरिव, बालातपस्य नवीनातपस्य छेदैः खण्डैरिव, पद्मरागो लोहितमणिस्तस्य रश्मिभिरिव, रचिता निष्पादिता अवयवा अपघना यस्य स तम् । अनेति । अनभिव्यक्तमप्रकटितं मुखपञ्चकं यस्यैवंभूतं महासेनं कार्तिकेयमिव । सुरेति । सुरवनिता देवयोषितस्तासां कराद्धस्तात्परिभ्रष्टममरपतिरिन्द्रस्तस्य कुमारकं बालमिव । उत्तप्तं तापितं यत्कल्याणकारि कार्तस्वरं स्वर्णं तद्वद्भास्वरया दीप्यमानया स्वदेहप्रभया स्वशरीरकान्त्या वासभवनं पूरयन्तमिव परिपूर्णीकुर्वन्तमिव । उद्भासेति । उद्भासमानैः शौभमानैः सहजभूषणैरिव स्वाभाविकालंकारैरिव महापुरुषाश्चक्रवर्त्यादयस्तेषां लक्षणैश्चिद्वैरुपेतं सहितम् । आगामीति । आगामिकाले भविष्यत्काले यत्पालनं रक्षणं तस्मात्प्रहृष्टया हर्षितयेव श्रिया लक्ष्म्या समालिङ्गितमुपगृहितम् । आह्लादस्य प्रमोदस्य हेतुं कारणम् । अन्वयस्तु प्रागेवोक्तः । विगतेति । स राजा चक्षुषा तनयाननं निरीक्षमाणो मुमुदे संतोषमवाप । अथ चक्षुर्विशेषयन्नाह-विगतो निमेषो यस्मादत एव निश्चलं स्थिरं पक्ष्म यस्य तत्तेन मुहुर्मुहुर्वारंवारं प्रमृष्टः प्रमार्जितः संघटितः प्रादुर्भूतो य आनन्दबाष्पः प्रमोदाश्रु तस्य पटलं तेन प्लुता क्लिन्ना तारका कनीनिका यस्मिंस्तत्तेन दूरमत्यर्थं विस्फारितेन विस्तारितेन स्निग्धेन चिक्कणेन । एतेनानन्दस्वरूपरसाभिव्यक्तिः सूचिता । पिबन्निव । अत्यादरेणावलोकनं पानमुच्यते । आलपन्निवालापं कुर्वन्निव । स्पृशनिव स्पर्शं कुर्वन्निव । मन इति । मनोरथानां वाञ्छितानां यत्सहसं तेन प्राप्तं दर्शनं यस्य स तम् । सस्पृह स्पृहासंयुक्तं यथा स्यात्तथेति क्रियाविशेषणम् । कृतेति । आत्मानं च कृतकृत्यं कृतार्थ मेने ज्ञातवान् । शुकनासस्तु समृद्धः संपन्नो मनोरथो यस्यैवंभूतः शनैःशनैरस्य कुमारस्याङ्गं शरीरं प्रत्यङ्गानि हस्तपादादीनि निरूपयन्विलोकयन् । प्रीतीति । प्रीत्या स्नेहेन विस्तारित लोचने नेत्रे येनैवंभूतं भूमिपालं नृपतिमवादीदभ्यधात् । देवेति । हे देव हे स्वामिन्, पश्य पश्य विलोकय विलोकय अस्य कुमारस्य गर्भे यत्संपीडनं तदशा - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 प्रवालानां वा । 2 शुकनासस्य समृद्धमनोरथताहर्षसूचनाय प्रीतिविस्फारितलोचनो यथा स्यात्तथा निरूपयनिति क्रियाविशेषणमिदम् । पाठा० - १ विरचित. २ करतल. ३ भ्रष्ट. ४ अमरपतिकुमारम्; अमरकुमारकम्. ५ भास्वरतया. ६ प्रहृष्टया श्रिया. ७ पक्ष्मणा मुहुर्मुहुः. ८ संघट्टिता. ९ बाष्पबिन्दु. १० दूरम्. ११ ईक्षमाणः. १२ बालस्य. १३ विस्फारितलोचनम्; विस्फारिताक्षः; विस्फारितलोचनः. १४ पश्यास्य. १५ अपरिस्फुट. (162) कादम्बरी। कथायाम् Page #176 -------------------------------------------------------------------------- ________________ माहात्म्यमाविर्भावयन्ति चक्रवर्तिचिह्नानि । तथाहि । अस्य संध्यांशुकरक्तबालशशिकलाकारे ललाटपट्टे नलिननालभङ्गतन्तुतन्वीयमूर्णा परिस्फुरति । एतद्विकचपुण्डरीकधवलं कर्णान्तायतं मुहुर्मुहुरुन्मिषितैर्धवलयतीव वासभवनमरालपक्ष्म लोचनयुगलम् । विजृम्भमाणकमलकोशपरिमलमनोहरमियमस्य सहजमाननामोदमाजिघ्रतीव दूरायता कनकले खेव नासिका । रक्तोत्पलकलिकाकारमुबहतीवं चास्याधररुचकम् । रक्तोत्पलकलिकालोहिततलौ भगवतो विष्टरश्रवस इव शङ्खचक्रचिह्नौ प्रशस्तलेखालाञ्छितौ करौ । अभिनवकल्पतरुपल्लवकोमलं लेखामयैर्ध्वजरथतुरगातपत्रकमलैरलंकृतमनेकनरेन्द्रसहस्त्रचूडामणिचक्रचुम्बनोचितं चरण - *********** दस्फुटानामव्यक्तानामवयवानामपघनानां शोभा यस्यैवंभूतस्यापि चक्रवर्ती सार्वभौमस्तद्वच्चिह्नानि सामुद्रिकशास्त्रोक्तानि माहात्म्य महापुरुषत्वमाविर्भावयन्ति प्रकटीकुर्वन्ति । तदेव दर्शयन्नाह - तथाहीति । 'अस्य इत्यारभ्य ‘रुदतः श्रूयते इतिपर्यन्तं प्रघट्टकः । संध्यांशव एव संध्यांशुकाः । स्वार्थे कः । तै रक्ता लोहिता या बालशशिनः प्रतिपच्चन्द्रस्य कला तस्या आकार आकृतिर्यस्यैवंविधे ललाटपट्टे भालस्थले नलिननालं मृणालं तस्य भङ्गाच्छेदादन्तस्तन्तुनिसरति तद्वत्तन्वी सूक्ष्मा इयं ऊर्जा रोमपद्धतिः परिस्फुरति । एतल्लक्षणद्वयं चक्रवर्तिन एव स्यादिति भावः । अरालं वक्र पक्ष्म नेत्ररोम यस्मिन्नेवंभूतमेतल्लोचनयुगलं मुहुर्मुहुरुन्मिषितैर्निमेषोन्मेषैर्वासभवनं धवलयतीव शुभ्रीकुर्वन्नि (करोती) व । कीदृशम् । विकचं यत्पुण्डरीकं सिताम्भोजं तद्वद्धवलम् । कर्णान्तं यावदायतं विस्तृतम् । विजृम्भेति । विजृम्भमाणः सर्वतः प्रसृतो यः कमलकोशस्तस्य परिमलस्तद्वन्मनोहरं चार्वस्थाननामोदं सहजं स्वारसि(भावि)कमियं नासिका नासा जिघ्रतीव गन्धोपादानं कुर्व(करो)तीव दूरायता दूरमत्यर्थमुच्छ्रिता । केव । कनकलेखेव सुवर्णलेखेव । रक्तोत्पलं कोकनदं तस्य या कलिका तस्या आकारो यस्मिन्नेवंभूतमधररुचकमधरलक्षणं रुचकं मङ्गलद्रव्यं मणिविशेषं वोदहतीवोद्वहनं कुर्व(करो)तीव । 'रुचक मङ्गलद्रव्ये बीजपूरे ससैन्धवे' इत्यनेकार्थः । चिह्नान्तरमाह - रक्तेति । रक्तोत्पलस्य कलिकावल्लोहितौ रक्तौ तलौ ययोस्तो भगवतो माहात्म्यवतो विष्टरश्रवस इवेन्द्रस्येव शङ्खः कम्बुः; चक्र प्रसिद्धम्, एतयोश्चिह्न ययोरेतादृशो करौ हस्तौ । इन्द्रस्यापि करौ शङ्खचक्रलाञ्छितौ भवतः । विष्णोरनुजत्वादिति भावः । करयोरेव द्वितीयं चिह्नमाह - प्रशस्तेति । प्रशस्ता लक्षणोपेता या लेखा रेखा तया लाञ्छितौ चिह्निती करौ हस्तौ । चरणयोरप्याह - अभिनवेति । अभिनवाः प्रत्यग्रा ये कल्पतरुपल्लवाः पारिजातकिसलयास्तद्वत्कोमलं मृदु । इत्येकं लक्षणम् । पञ्चभिर्द्धितीयमाह - लेखेति । लेखामयै रेखानिष्पन्नैः । ध्वजरथतुरगातपत्रकमलैरिति । ध्वजः पताका, रथः स्यन्दनः, तुरगो ययुः, आतपत्रं छत्रम, कमलं नलिनम, एतैरलंकतं भषितम् । वैभवमाह - अनेकेति । अनेके ये नरेन्द्रा राजानस्तेषां सहस्त्रं तस्य चूडामणीनां चक्र समूहस्तेन चुम्बनं - - - - - - - - - - - टिप्प० - 1 पीडनवशादस्फुटा सर्वतोभावेन अव्यक्ता अवयवशोभा यस्य तादृशस्यापि । इत्युचितम् । 2 'सन्थ्यांशुरक्त' इत्यपि पाठः, निरर्थक'क'प्रत्ययस्य कवेरनभिमतत्वात् । 3 भ्रूयुगलमध्यवर्तिनी 'ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा ध्रुवोः' इत्यमरः । 4 अस्य अधरो रुचकमिव अधररुचकम् (बिम्बाकार मङ्गलद्रव्यम्) रक्तोत्पलस्य या कलिका तस्या आकारमुबहतीव, इति व्याख्योचिता । 5 'वैकुण्ठोविष्टरश्रवाः' इति विष्णुरप्यर्थः । 6 प्रशस्ताः याः अडशादिरेखाः ताभिरिति बहुवचनमन्ये यथार्थं मन्चते किन्त्वेकवचनेऽपि न व्याकरणबाधा । पाठा० - १ आविर्भावयन्तीव. २ संध्यांशुरक्त. ३ ललाटपट्टे च. ४ नवनलिन. ५ विजृम्भमाणकोश. ६ दूरादायता. ७ रक्तोत्पलनिकरम्; रक्तोत्पलकलिकानुरागम्. ८ इवास्य; एतस्य. ९ चास्याधरकम्; चास्याधरपुटकम्. १० कलिकाकारलोहित. (जातस्य कुमारस्य वर्णनम् । पूर्वभागः। 163) Page #177 -------------------------------------------------------------------------- ________________ युगलम् । एष च दुन्दुभेरिवातिगम्भीरः स्वरयोगोऽस्य रुदतः श्रूयते।' इत्येवं कथयत्येव तस्मिन्ससंभ्रमापसृतेन राजलोकेन द्वारिस्थितेन दत्तमार्गस्त्वरितगतिरागत्य प्रहर्षोद्गमपुलकिततनुः स्फारीभवल्लोचनो मङ्गलकनामा प्रहप्टवंदनः पुरुषः पादयोः प्रणम्य राजानं व्यजिज्ञपत्-‘देव, दिष्ट्या वर्धसे । प्रतिहतास्ते शत्रवः । चिरं जीव । जय पृथिवीम् । त्वत्प्रसादादत्रभवतः शुकनासस्यापि ज्येष्ठायां ब्राहाण्यां मनोरमाभिधानायां राम इव रेणुकायां तनयो जातः, श्रुत्वा देवः प्रमाणम् इति । अथ नृपतिरमृतवृष्टिप्रतिममाकर्ण्य तद्वचनं प्रीतिविस्फारिताक्षःप्रत्यवदत्-‘अहो कल्याणपरम्परा । सत्योऽयं लोकप्रवादो यद्विपद्विपद संपत्सपदमनुबघ्नातीति । सर्वथा समानसुखदुःखता दर्शयता विधिनापि भवतेव वयमनुवर्तिताः' इत्यभिधाय प्रीतिविकसितमुखः सरभसमालिङ्गय विहसन्स्वयमेव शुकनासस्योत्तरीयं पूर्णपात्रं जहार । तस्मै च प्रीतमनाः प्रियवचनानुरूपं पुरुषायापरिमितं पारितोषिकमादिदेश । उत्थाय च तथैव तेन चरणविकुट्टनक्वणितनू - *********** सश्लेषस्तत्राचित योग्यमवविध चरणयुगलं पादद्वितयम् । चिह्नान्तरमाह - एष चेति । अस्य बालस्य रुदत एष समीपतरवर्ती दुन्दुभरिव पटहस्येवातिगम्भीरोऽतिमन्द्रः स्वरयोगो ध्वनिसंवन्धः श्रूयत आकर्ण्यते । इत्येवं पूर्वोक्तप्रकारेण कथयत्येवेति क्रियासगतेनैवकारेण सामानाधिकरण्यमुच्यत इति । तस्मिञ्शुकनासे कथयत्येव ब्रुवत्येव मङ्गलकनामा पुरुषो राजानं पादयोश्चरणयोः प्रणम्य व्यजिज्ञपद्विज्ञापना चकार । मङ्गलक विशेषयन्नाह - दत्तेति । दत्तो मार्गो यस्येति स तथा । केन । राजलोकेन राजसमूहेन । कीदृशेन । द्वारि स्थितेन प्रतीहारस्थितेन । पुनः कीदृशेन । ससंभ्रमं सत्वरमपसृतेन दूरीभूतेन । त्वरित (ता) शीधं (घा) गतिर्गमनं यस्य स तथा । प्रहर्षेति । प्रहर्षोद्गमन प्रमोदोद्गमेन पुलकित (ता) कण्टकितं(ता) तनुर्यस्य सः । स्फारीभवती विस्तीर्णता प्राप्यमाणे लोचने यस्य सः । प्रहृष्ट सहर्ष वदनं यस्य सः । देव स्वामिन्, त्वं दिष्ट्या भाग्येन वर्धस एधसे । ते शत्रवः प्रतिहताः क्षयं प्राप्तां । चिरं बहुकाल जीव प्राणिाहे । पृथिवीं वसुंधरा जय गृहाण ! त्वत्प्रसादात्तव माहात्म्यादत्रभवतः पूज्यस्य शुकनासस्यापि ज्येष्ठाया ब्राहाण्याम् । इत्यनेन हातिशयः सूचितः । शूद्राया त्वनौचित्यात् 'तत्राय जायते स्वतः' इत्युक्तत्वात् । मनोरमत्यभिधानं नाम यस्याः सा तस्याम् । कस्या क इव । रेणुकाया तुलजायां राम इव परशुराम इव तनयः पुत्रो जातः समुत्पनः । श्रुत्वेति । श्रुत्वा एतदाकर्ण्य देवो भवान्प्रमाणमिति यदाज्ञापयति देवस्तदेव कर्तव्यमिति भावः ।। अथेति । अथ एतदाकर्णनान्तरं नृपती राजाऽमृतस्य पीयूषस्य या वृष्टिर्वर्षणं तत्प्रतिम तुल्यं तद्वचन मङ्गलकवच आकर्ण्य श्रुत्वा । प्रतीति । प्रीत्या स्नेहेन विस्फारिते विस्तारिते अक्षिणी येनेति बहुव्रीहिः । ततो डः समासान्तः डित्वाट्टिलोपः । प्रत्यवदत्प्रत्यवोचत् । अहो इत्याश्चर्ये । कल्याणपरम्परा श्रेयःसंततिः । अतो ज्ञायत इति । सत्योऽयमवितथोऽयं लोकप्रवादो जनाना चिरतनो वचनव्यापारः । इतिवाच्यं दर्शयन्नाह - यदिति । यत् यस्माद्धेतोविपदं विपत्, सम्पदं सम्पदनुबघ्नात्यनुगच्छति । सर्वथा सर्वप्रकारेण समान सुखदुःख ययोस्तयोभावस्तत्ता ता दर्शयता ज्ञापयता विधिनापि भवतेव वयमनुवर्तिताः पुत्रोत्पत्तिभ्यां निर्मिताः, यथा पुत्रप्राप्त्या मत्साम्य तव, तथा भवतेव ममापि साम्यमिति भावः । इत्यभिधायेत्युक्त्वा प्रीत्याभ्यन्तरस्नेहेन विकसित विमुद्रं मुखं यस्य सः । सरभस वेगेनालिङ्गयोपगृहन कृत्वा विहसन्स्मित कुर्वन्स्वयमेवात्मनैव शुकनासस्योत्तरीयं निवसनं पूर्णपात्रं पूर्वं व्याख्यातस्वरूपं जहार हृतवान् । तस्मै शुभशंसिने पुरुषाय नराय प्रीतमनाः संतुष्टचित्तः प्रियमिष्टं यद्वचनं तस्यानुरूपं योग्यमपरिमित संख्यातीतं पारितोषिक संतोषप्रयुक्तं दातुमादिदेशाज्ञा दत्तवान् । उत्थाय चेति । तथैव तेनैव प्रकारेण उत्थायात्थानं कृत्वा शुकनासभवनं गत्वा द्विगुणतर - पाटा० - १ द्वारास्वतन. २ मङ्गल. ३ बदनपुरुषः. ४ जय च. ५ पृथिवीं प्रांतपालय. ६ भूपतिः. ७ जनप्रवादः. ८. अनुवनाति. ९ प्रियवचनश्रवणानुरूपम्. १० विघटन, कुन. ११ माणनपुर. (164 कादम्बरी। कथायाम् Page #178 -------------------------------------------------------------------------- ________________ पुरसहसमुखरितदिगन्तरेण सरभसोत्क्षेपचालितमणिवलयावलीवाचालितर्भुजलतेनोर्श्वीकृतैरुत्तानतलैः करपुटैरनिललैलितामाकाशकमलिनीमिव दर्शयता पर्यस्तमृदितकर्णपल्लवेन परस्पराङ्गदकोटिसंघट्टदष्टपाटितोत्तरीयांशुकेन श्रमजलधौताङ्गरागरञ्जितनॅवीनवाससा किंचिदवशिष्टतमालपत्रेण विलसद्वारविलासिनीहसितैरुन्निद्रकैरववनानुकारं प्रथयता सरभसवल्गनस्खलल्लोलहारलतास्फालितकुचस्थलेन सिन्दूरतिलकलुलितालकलेखेन विप्रकीणपिष्टार्तकपांसुपुञ्जपिञ्जप्रनृत्र्त्तकलमूककुब्जकिरातवामनबधिरजडजनपुरःसरेणोत्तरीयांशुकग्रीवाबद्धावकृष्टर्विडम्बितजरत्कञ्चुकिकै रितकेशपाशेन दम्बकेन वीणावेणुमुरजकांस्यताललयानुगतेन कल - मुत्सवमकारयत्कारयामासेति दूरेणान्वयः । कीदृशो राजा । अन्तःपुरिकाजनेनानुगम्यमानोऽनु पश्चात्तदनन्तरं गन्तुं योग्य इत्यर्थः । अथ चान्तःपुरिकाजनं विशेषयन्नाह - चरणेति । चरणानां पादानां प्रमोदातिरेकाद्य द्विकुट्टनमास्फालनं तेन क्वणितं शब्दितं यन्नूपुरसहस्त्रं पादकटकसहस्त्रं तेन मुखरितं वाचालितं दिगन्तरं दिङ्मध्यं येन स तेन । सरभसेति । सरभसेने वेगेन य उत्क्षेपो भुजानां चालन तेन चालिता कम्पिता या मणिवलयावली रत्नकङ्कणश्रेणी तया वाचालिता मुखरिता भुजलता बाहुलता यस्य सः तथा तेन । हर्षवशादूर्श्वीकृतैरुच्चैर्विहितैरुत्तानतलैः संमुखतलैः करपुटैर्हस्तपुटैरनिललुलितां वायुना विलुठितामाकाशकमलिनीं व्योमपद्मिनीमिव दर्श प्रकाशयता । पर्यस्तेति । पर्यस्ता विक्षिप्ता मृदिताश्चूर्णिताः कर्णपल्लवा येन स तथा तेन । परस्परेति । परस्परमन्योन्यमङ्गद वाहुवलयानां या कोटिरग्रभागस्तस्याः संघट्टोऽभिघातस्तेनेव दष्टमिव पाटितं छिन्नमुत्तरीयांशुकं यस्य स तेन । संघट्टवशाच्छ्रमजलेन धीतः क्षालितो योऽङ्गरागो विलेपनं तेन रञ्जितानि नवीनवासांसि नव्यवस्त्राणि यस्य स तेन । किंचिदिति । किंचित् अवशिष्टं उर्वरितं तमालपत्रं यस्य स तेन । इतरेषां भूषणानां वस्त्राणां च संमर्दवशान्निपतनमभूत् । तमालपत्रं तु महता क्लेशेन सौभाग्यमण्डननिमित्तकत्वाद्व्यवस्थापितमिति भावः । विलसन्त्यो या वारविलासिन्यो वारयोषितस्तासां हसितैर्हास्यैः । उन्निद्रेति । उन्निद्राणि विकसितानि यानि कैरववनानि तेषामनुकारं सादृश्यं प्रथयता विस्तारयता । सरभसेति । सरभसं सवेगं यद्वल्गनं परस्परमङ्गानामामोटनं तेन स्खलन्तीर्लोलाश्चपला या हारलता मुक्तालतास्ताभिरास्फालितमाहतं कुचस्थलं यस्य स तेन । सिन्दूरेति । सिन्दूरं नागजं तेन जनितं यत्तिलक पुण्ड्रं तत्र श्रमवशालुलिता लुठिता अलकलेखा यस्य स तेन । अत्र लेखाशब्देन ततिरुच्यते । तेन कियतामलकानां तत्रावस्थितिर्न सर्वेषामिति भावः । विप्रेति । विप्रकीर्णो विक्षिप्तो यः पिष्टात एव पिष्टातकः । स्वार्थे कः । पटवासकस्तस्य पांसुपुञ्जो धूलिसमूहस्तेन पिञ्जरितः पीतरक्ततां प्राप्तः केशपाशो यस्य स तेन । प्रनृत्तेति । प्रनृत्ताः स्वयमेवारब्धताण्डवाः, कला मनोज्ञाः, मूका अस्फुटवाचः, कुब्जाः पूर्वोक्तलक्षणाः; किराताः स्वल्पतनवः, वामनाः पूर्वव्याख्याताः, बधिरा अकर्णाः, जडा मूर्खाः, एवंविधा जनाः पुरःसरा अग्रगामिनो यस्य स तेन । उत्तरीयेति । उत्तरीयांशुकेन प्रच्छादनवस्त्रेण ग्रीवायां कन्धरायां बद्धं संयमितमवकृष्टमाकृष्टम एव विडम्बि विडम्बनां प्रापितं जरत्कञ्चुकिकदम्बकं येन स तेन । वीणेति । वीणा वल्लकी, I - टिप्प० - 1 सरभसं वेगेन इत्युचितम् । 2 संमुखतलानां हस्तानामुपरि उत्थापनात् आकाशकमलिनी (कमलपुष्पयुक्ता कमलिनी, वृक्षः) दर्शितेत्यर्थः । 3 संघट्टेन पूर्वं दष्टानि विद्धानि ततः पाटितानि उत्तरीयांशुकानि यस्य तेनेत्यर्थ उचितः । 4 तिलकम् । ' तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च' इति हैमः ! 5 स्खलन्त्य इत्यर्थः । 6 'प्रनृत्यविकल' इति केषाञ्चनाभिप्रेतः पाठः । 'विशेषनर्तनेन विह्वला मूकाः, इति तदर्थः । पाटा० - १ चलित; बलित. २ भुजवलयेन. ३ लुण्टिताम्. ४ आकाशगङ्गा. ५ चीन; स्वच्छचीन; चीर. ६ चलन. ७ लोलित. ८ पांसुपिञ्जरित ९ प्रणत्यविकल; प्रनृत्तकल: प्रवृत्तकल. १० विलम्वित ११ कदम्वेन. १२ अनुयातेन. (शुकनासपुत्रजन्मोत्सवः) पूर्वभागः । 165 Page #179 -------------------------------------------------------------------------- ________________ मधुरमुद्गायता हर्षनिर्भरतया मत्तेनेवोन्मत्तेनेव ग्रहगृहीतेनेवांपगतवाच्यावाच्यविवेकेन नृत्तंक्रीडाप्रसक्तेनान्तःपुरिकाजनेन पँचलमणिकुण्डलाहतकपोलभित्तिना च विधूर्णमानकर्णोत्पलेनाधोविंगलितविलोलशेखरेण दोलायमानवैकक्षककुसुममालेन निर्दयप्रहतभेरीमृदङ्गमर्दलपटहनिनादानुगतकाहलशङ्खवजनितरभसेन चरणसंनिपातैरियतेव वसुधां राजपरिजनेन प्रवृत्तनृत्येन च चारणगणेन विविधमुखवायंकृतकोलाहलेन पठता गोयता चानुगम्यमानः शुकनासभवनं गत्वा द्विगुणतरमुत्सवमकारयत् । अतिक्रान्ते च षष्ठीजागरे प्राप्ते दशमेऽहनि पुण्ये मुहूर्ते गाः सुवर्णं च कोटिशो ब्राह्मणसात्कृत्वा ‘मातुरस्य मया परिपूर्णमण्डलश्चन्द्रः स्वप्ने मुखकमलमाविशन्द्रष्टः' इति स्वप्नानुरूपमेव राजा स्वसूनोश्चन्द्रापीड इति नाम चकार । अपरेयुः शुकनासोऽपि कृत्वा ब्राह्मणोचिताः सकलाः क्रिया राजानुमतमात्मजस्य विप्रजनोचितं वैशम्पायन इति नाम चक्रे । *********** वेणुवंशः, मुरजो मृदङ्गः, कांस्यतालं प्रसिद्धम्, एतेषां यो लयः साम्यावस्था तदनुगतेन कलं मधुरं यथा स्यात्तथोद्गायता गानं कुर्वता, हर्षस्य यो निर्भरोऽतिशयस्तस्य भावस्तत्ता तया मत्तेनेव क्षीबेणेवोन्मत्तेनेव वातग्रस्तेनेव ग्रहगृहीतेनेव ग्रथिलेनेव । अपेति । अपगतो दूरीभूतो वाच्यावाच्ययोविवेकः पृथगात्मता यस्मात्स तेन । नृत्तेति । नृत्तलक्षणा या क्रीडा विनोदस्तस्यां प्रसक्तेन लग्नेन । अथ च राजपरिजनेन नृप परिवारेणानुगम्यमानः । परिजनं विशेषयन्नाह - प्रचलेति । प्रचलानि चञ्चलानि यानि मणिकुण्डलानि रत्नकर्णाभरणानि तैराहता कपोलभित्तिर्यस्य स तेन । विघूर्णमानं पतनायोन्मुखं कर्णोत्पलं यस्य स तेन । अध इति । अधो विगलितो विलोलश्चञ्चलः शेखरोऽवतंसो यस्य स तेन । दोलायमानाः कम्पमाना वैकक्षकीकृतोत्तरासङ्गीकृता कुसुममाला यस्य स तेन । निर्दयमिति । निर्दयमतिशयेन प्रहता वादिता भेर्यो दुन्दुभयः, मृदङ्गा वाद्यविशेषाः, मर्दला मुरजाः, पटहाः प्रसिद्धाः एतेषां यो निनादः शब्दस्तदनुगतस्तन्मिश्रितः काहला वाद्यविशेषः शङ्खः प्रसिद्धः, तयो रवः शब्दस्तेन जनितो निष्पादितो रभसो वेगो यस्य स तेन । चरणसनिपातैः पादविक्षेपैर्वसुधां पृथ्वी दारयतेव विदीर्णां कुर्वतेव । प्रवृत्तं प्रारब्धं नृत्यं येन स तथा तेन । चारणगणेन कुशीलवसमुदायेन । कीदृशेन विविधं यन्मुखमेवं वायं तेन कृतो विहितः कोलाहलः कलकलो येन स तेन । पठतोच्चैःस्वरेण राजस्तुतिं गायता गानं कुर्वता च । अनुगम्यमान इत्यस्य सर्वत्रानुषङ्गः ।। __ अतीति । अतिक्रान्ते व्यतीते षष्ठीजागरे षष्ठदिवसकृत्ये च सति दशमेऽहनि दशमे दिवसे प्राप्ते सति पुण्ये पवित्रे मुहूर्ते वेलाया गाः सुरभीः कोटिशः सुवर्णं कनकं ब्राह्मणसाद् ब्राहाणाधीनं कृत्वा विधाय, मया स्वप्ने परिपूर्णमण्डलश्चन्द्रः शशी अस्य मातुर्जनन्या मुखकमलं वदनाम्भोजमाविशन्प्रविशन्दृष्टोऽवलोकित इति स्वप्नानुरूपमेव स्वप्नसदृशमेव राजा नृपः स्वसूनोः स्वपुत्रस्य चन्द्रापीड इति नाम चकार निर्ममे । अपरेघुरन्यस्मिन्दिने शुकनासोऽपि ब्राह्मणोचिता विप्रकुलयोग्याः सकलाः समग्राः क्रियाः कृत्वा विधाय राजानुमतं नृपेणानुज्ञातमात्मजस्य पुत्रस्य विप्रजनोचितं ब्राह्मणजनयोग्यं वैशम्पायन इति नाम चक्रे कृतवान् । - - - - - टिप्प० - भूताविष्टेनेवेत्युचितम् । 2 आनन्दो यस्य स इत्यर्थः । 3 विविधं यन्मुखवाद्यम् (मुखद्वारा नानाविधाव्यक्तध्वनिनिःसारणम्) । पाठा० - १ व्यपगत. २ विवेकेनेव. ३ नृत्यगीतक्रीडा. ४ प्रचलितमणि. ५ उद्घट्टितकपोल. ६ गलित. ७ वैकक्षिक वैकक्ष. ८ काहल. ९ विदारयता. १० वसुंधराम्. ११ प्रवृत्तनृतेन; नृत्ते प्रवृत्ते. १२ विविधवाद्य. १३ गायता वल्गता च. १४ कोटिशो वत्त्वा. १५ सूनोः. 166 कादम्बरी। कथायाम् Page #180 -------------------------------------------------------------------------- ________________ क्रमेण कृतचूडाकरणादिक्रियाकलापस्य शैशवमतिचक्राम चन्द्रापीडस्य । तारापीडो क्रीडाव्यासङ्गविघातार्थं बहिर्नगरादर्नुसिप्रमर्धक्रोशमात्रायामम्, अतिमहता तुहिनगिरिर्शिखिरमालानुकारिणा सुधाधैवलितेन प्राकारमण्डलेन परिवृतम्, अनुप्राकारमाहितेन महता परिखावलयेन परिवेष्टितम्, अतिदृढकपाटसंपुटम्, उद्घाटितैकद्वारप्रवेशम्, एकान्तोपरचिततुरैङ्गवाह्यालीविभागम्, अधः कल्पितव्यायामशालम्, अमरागाराकारं विद्यामन्दिरमकारयत् । सर्वविद्याचार्याणां च संग्रहे यत्नमतिमहान्तमन्वतिष्ठत् । तत्रस्थं च तं केसरिकिशोरकमिव पञ्जरगतं कृत्वा प्रतिषिद्धनिर्गमम्, आचार्यकुलपुत्रप्रायपरिजनपरिवारम्, अपनीताशेषशिशुजनक्रीडाव्यासङ्गम् अनन्यमनसम्, अखिलविद्योपादानार्थमाचार्येभ्यश्चन्द्रापीडं शोभने दिवसे वैशम्पायनद्वितीयमर्पयांबभूव । प्रतिदिनं चोत्थायोत्थाय सह विलासवत्या विरलपरिजनस्तत्रैव गत्वैनमालोकयामास राजा । क्रमेणेति । क्रमेण परिपाट्या कृतो निष्पादितः चूडाकरणं चौलकर्म तदादिकाः क्रियास्तासां कलापो यस्य स तथा तस्य चन्द्रापीडय शैशवं बाल्यमतिचक्राम । कौमारं प्राप्तवानित्यर्थः । तारापीडस्तस्य पिता व्यासङ्गश्चित्तस्यान्यत्र गमनं तस्य विधातार्थं दूरीकरणार्थं नगराद्बहिर्विद्यामन्दिरमकारयदित्यन्वयः । अनुसिप्रंसिप्रासमीपवर्ति । कीदृशम् । अर्धक्रोशमात्रमायामो विस्तारो यस्य तत् । अतिमहतात्युच्चेन तुहिनगिरिर्हिमगिरिस्तस्य या शिखरमाला सानुश्रेणिस्तदनुकारिणा तत्सादृश्यधारिणा, सुधा पूर्वोक्ता तया धवलितेन शुभ्रीकृतेन प्राकारमण्डलेन वप्रवलयेन परिवृतं वेष्टितम्, अनुप्राकारमाहितेन स्थापितेन महता परिखावलयेन परिवेष्टितम् । अतिदृढं कपटसंपुट यस्य तत् । उद्घाटितं यदेकद्वारं तत्र ( तेन) प्रवेशो यस्मिंस्तत् । एकान्तेति । एकान्ते निर्जनस्थल उपरचितस्तुरङ्गाणामश्वानां वाह्य शिबिकादीनां व्यवस्थापनविभागो यस्मिंस्तत् । अध इति । अधोभागे कल्पिता व्यायामशाला बाहुयुद्धाभ्यासादियोग्यं स्थलं यस्मिंस्तत् । अमरेति । अमरागारं देवगृहं तद्वदाकारो यस्य तत् । सर्वेति । सर्वविद्याचार्याणां समग्रविद्याध्यापकानां संग्रहे स्वीकारेऽतिमहान्तमत्युत्कृष्टं यत्नमन्वतिष्ठदकरोत् । तत्रेति । तत्रस्थं तन्निवासिनं तं चन्द्रापीडं पञ्जरगतं केसरिकिशोरकमिव कृत्वा विधाय प्रतिषिद्धो निर्गमो बहिर्गमनं यस्य स तम् । आचार्येति । आचार्यस्य कुलं वैशम्पायनकुलं तस्य पुत्रप्रायो यः परिजनः स एव परिवारो यस्य स तम् । अपेति । अपनीतो दूरीकृतोऽशेषायाः समग्रायाः शिशुजनक्रीडाया बालजनलीलायाः व्यासङ्गो विद्याप्रतिबन्धकं यस्य स तम् । न विद्यतेऽन्यस्मिन्मनो यस्य स तम् । एकाग्रचित्तमित्यर्थः । अखिलेति । अखिलाः समग्रा या विद्यास्तासां यदुपादानं ग्रहणं तदर्थमाचार्येभ्यः पाटकेभ्यः शोभने प्रशस्ते दिवसे दिने वैशम्पायनो मन्त्रिसुतः स एव द्वितीयो विद्याभ्यसने सहायो यस्यैवंभूतं चन्द्रपीडमाचार्येभ्योऽर्पयांबभूवार्पितवान् । अथ च राजा प्रतिदिनं प्रत्यहमुत्थायोत्थायोत्थानं कृत्वा । स्वगृहादिति शेषः । वीप्सायां द्वित्वम् । सहवास विरलपरिजनः स्वल्पपरिच्छदस्तत्रैव गत्वैनं चन्द्रपीडमालोकयामास व्यलोकयत् । *** टिप्प० - 1 अतिदृढाभ्यां कपाटाभ्यां संपुटम् पिधानं यस्य तत् । 2 आचार्याः अध्यापकाः, कुलपुत्राः सद्वंशजाताः समानवयसः कुमाराः, एतत्प्रायः (एतद्बहुलः) परिजनो यस्य तम्, इत्यर्थः । पाठा० - १ बालक्रिया. २ क्रीडाव्यासङ्ग. ३ अनुक्षिप्रम् ४ शिखरानुकारिणा. ५ धवलेन; प्राकारधवलेन चन्द्रशालावलयेन विलसितं प्राकार. ६ तुरग. ७ विद्यागृहम्. ८ शिशुक्रीडन; शिशुजनक्रीडन. ९ चोत्थाय सह. चन्द्रापीडस्य शिक्षा पूर्वभागः । 167 Page #181 -------------------------------------------------------------------------- ________________ चन्द्रापीडोऽप्यनन्यहृदयतया तथा यन्त्रितो रोज्ञाऽचिरेणैव यथास्वमात्मकौशलं प्रकटयद्भिः पात्रवशादुपजातोत्साहैराचार्योपदिश्यमानाः सैर्वा विद्या जग्राह । मणिदर्पण इवातिनिर्मले तस्मिन्संचक्राम सकलः कलाकलापः । तथा हि । पदे, वाक्ये, प्रमाणे, धर्मशास्त्रे, राजनीतिषु, व्यायामविद्यासु, चापचक्रचर्मकृपाणशक्तितोमरपरशुगदाप्रभृतिषु सर्वेष्वायुधविशेषेषु, रथचर्यासु, गजपृष्ठेषु, वीणावेणुमुरजकांस्यतालदर्दुरपुटप्रभृतिषु वायेषु, भरतादिप्रणीतेषु नृत्तशास्त्रेषु नारदीयप्रभृतिषु गान्धर्ववेदविशेषेषु; हस्तिशिक्षायाम्, तुरङ्गवयोज्ञाने, पुरुषलक्षणे, चित्रकर्मणि, पत्रच्छेद्ये, पुस्तकव्यापारे, लेख्यकर्मणि, सर्वासु द्यूतकलासु, शकुनिरुतज्ञाने, ग्रहगणिते, रत्नपरीक्षासु, दारुकर्मणि, दन्तव्यापारे, वास्तुविद्यासु, आयुर्वेद, यन्त्र - *********** चन्द्रापीडोऽपि राज्ञा तारापीडेन तथेति तेन प्रकारेण यन्त्रितो नियमितो यथाऽचिरेणैव स्वल्पकालेनैवानन्यहृदयतयैकाग्रचित्ततयाचार्यगुरुभिरुपदिश्यमाना अध्याप्यमानाः सर्वाः समग्रा विद्या द्वासप्ततिकला जग्राह गृहीतवान् । आचार्यैः किं कुर्वद्भिः । स्वं स्वकीयमात्मकौशलं निजचातुर्यं प्रकटयद्भिराविष्कुर्वद्भिः, पात्रवशादत्युत्कृष्टविद्याग्राहकवशादुपजातः समुत्पन्न उत्साहः प्रगल्भता येषां तैः । आचार्यविशेषणम् । मणिदर्पणे रत्नादर्श इवातिनिर्मलेऽतिस्वच्छे तस्मिन्सकलः कलाकलापः संचक्राम संक्रमं कृतवान् । तमेव दर्शयन्नाह - तथा हीति । पदेति । पदं व्याकरणशास्त्रं तस्मिन् । वाक्येति । वाक्य मीमांसे पूर्वोत्तरे तस्मिन् । प्रमाण न्यायवैशेषिकसाख्यपातञ्जलरूप तस्मिन् । धर्मशास्त्रं मन्वादिप्रणीतो ग्रन्थस्तस्मिन् । इतः परं चतुःषष्टिकला आह - राजेति । राजनीतयः कामन्दकीप्रभृतिशास्त्राणि तेषु । व्यायामः श्रमस्तदर्थं या विद्या मल्लयुद्धादिकास्तासु । चापेति । चापं धनुः, चक्र प्रसिद्धम्, चर्म संनाहः, कृपाणः खङ्गम्, शक्तिः शस्त्रविशेषः, तोमरः प्रहरणविशेषः, परशुः कुठारः, गदा प्रसिद्धा, एतत्प्रभृतिषु सर्वेष्वायुधविशेषेषु । रथचर्यासु रथपरिवर्तनेषु । गजपष्ठप हस्तिशिरोदेशेषु । वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, कांस्यतालं वाद्यविशेषः, दुर्दुरपुटं दर्दुरशब्दाकारशब्दं वाद्यम्, एतत्प्रभृतिए वाद्येष्वातोयेषु । भरतादयो विद्वांसस्तैः प्रणीतानि विहितानि नृत्तशास्त्राणि ताण्डवविधानप्रतिपादकग्रन्थास्तेषु । नारदीयप्रभृतिषु गान्धर्ववेदविशेषेषु । हस्तिशिक्षायां गजशिक्षायाम् । तुरगस्याश्वस्य वयोज्ञाने वयोऽवस्था तस्य ज्ञाने । पुरुषाणां नराणां लक्षणेषु सामुद्रिकप्रतिपादितेषु माषतिलकादिलक्षणेषु । चित्रकर्मण्यालेख्यविद्यायाम् । पत्रच्छेद्ये केतकादिपत्रच्छेदने । पुस्तकानां शास्त्राणां व्यापारे प्रयोगे । लेख्यकर्मणि लेखनविद्यायाम् । सर्वासु समग्रासु द्यूतकलासु । शकुनिरुतज्ञाने पतत्रिशब्दज्ञाने । ग्रहगणिते ज्योतिःशास्त्रे । रत्नपरीक्षासु रत्नाना मण्यादीनां शुद्धाशुद्धज्ञाने । दारुकर्मणि काष्ठकर्मणि । दन्ता गजाना रदनास्तेषां व्यापारो व्या(व्यव)हृतिस्तस्मिन् । वास्तुविद्यासु गृहनिर्मितविद्यासु । आयुर्वेद वैद्यकशास्त्रे । यन्त्राणां सूर्यप्रतापादीनां प्रयोगो व्यापारणं तस्मिन् । विषाणां स्थावरजंगमप्रभृतीनामपहरण दूरीकरणं तस्मिन् । सुरङ्गाऽसंधिशिला तस्या उपभेदो भेदनं तस्मिन् । तरणे नद्यादितरणे । लङ्घने कूपकाद्युल्लङ्घने । प्लुतयो व्याघ्रादिवत्- - - - - - - - - - - - - - - - - - - -- - - - - - -- - - - - - - - - - - - - - टिप्प० -1 तथा तेन प्रकारेण नियन्त्रित नियमितश्चन्द्रापीडः यथास्वम् यथार्थम् 'यथास्वं तु यथायथम्' इत्यमरः । आत्मकौशल प्रकटयद्भिः आचार्यैः उपदिश्यमानाः सर्वाविद्या अचिरेणैव जग्राह, इति योजना, 2 रथचालनेषु, आरोहणेषु वा, इत्यर्थ उचितः । 3 यन्त्रच्छेद्य इति पाठे तु यन्त्रेण दूरवीक्षणादियन्त्रेण परिच्छेत्तुं शक्ये ग्रहनक्षत्रादिनिर्णये इत्यर्थः । 4 'सुरङ्ग इति ख्यातो गुप्तदीर्घपथस्तस्य खनने निर्माणे चेत्यर्थः । पाठा० - १ नियन्त्रितः. २ अचिरेणैव कालेन. ३ यथास्वम्. ४ उपदिश्यमानः. ५ सर्वविद्याः. ६ वर्म. ७ गजपृष्टेषु तुरंगमेषुः गजपृष्टेषु तुरंगेषु. ८ नृत्य. ९ तुरगवयोज्ञानेपु. १० यन्त्रच्छेये. ११ द्यूतकलासु गन्धर्वशास्त्रेषु; यूतकलासु गान्धर्वशास्त्रेषु. १२ मन्त्रप्रयोगे. 168 कादम्बरी। कथायाम् Page #182 -------------------------------------------------------------------------- ________________ प्रयोगे, विषापहरणे, सुरङ्गोपभेदे, तरणे, लङ्घने, प्लुतिषु, इन्द्रजाले, कथासु, नाटकेषु, आख्यायिकासु, काव्येषु, महाभारतपुराणेतिहासरामायणेषु, सर्वलिपिषु, सर्वदेशभाषासु, सर्वसंज्ञासु, सर्वशिल्पेषु, छन्दःसु, अन्येष्वपि कलाविशेषेषु परं कौशलमवाप। सहजा चाजसमभ्यस्यतो वृकोदरस्येव शैशव एवाविर्बभूव लोकॅविस्मयजननी महाप्राणता । यदृच्छया क्रीडताप्यनेन करतलावलम्बितकर्णपल्लवावनताङ्गाः सिंहकिशोरकक्रमाक्रान्ता इव गजकलभकाश्चलितुमपि न शेकुः । एकैकेन कृपाणप्रहारेण तालतरून्मृणालदण्डानिव लुलाव । सकलराजन्यवंशवनदावानलस्य परशुरामस्येवास्य नाराचाः शिखरिशिलातलभिदो बभूवुः । दशपुरुषसंवाहनयोग्येन चायोदण्डेन श्रममकरोत् । ऋते च महाप्राणतायाः सर्वाभिरन्याभिः कलाभिरनुचकार तं वैशम्पायनः । चन्द्रापीडस्य तु सकलकलाकलापपरिचयबहुमानेन शुक - *********** सङ्ग्रामादिषु व्युत्करणादिरूपास्तासु । इन्द्रजालं मायाकूटनिर्मितं तस्मिन् । कथासु बृहत्कथाप्रभृतिषु । नाटकेष्वभिनयात्मकेषु । आख्यायिकासु वासवदत्ताप्रभृतिषु । काव्यं कविकर्म तेषु । महाभारतं प्रसिद्धम् । तदुक्तम्-'भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुषु । तरणं सर्वतीर्थाना तेन भारतमुच्यते । पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम्, रामायणं रामचरित्रम्, एतेषु । सर्वलिपिष्वष्टादशविद्याक्षरविन्यासेषु । सर्वेषा देशानां भाषासु वचनव्यापारेषु । सर्वा याः संज्ञाः परिभाषास्तासु । सर्वेषु शिल्पेषु विज्ञानेषु । छन्दःस्वाम्नायेषु । अन्येष्पप्येतद्व्यतिरिक्तेषु कलाविशेषेषु परमधिकं कौशलं चातुर्यमवाप प्राप्तवान् । अस्य कुमारस्याजसं निरन्तरमभ्यस्यतो विद्यापरिश्रम कुर्वतो वृकोदरस्येव भीमस्येव शैशव एव बाल्य एव सहजा नौपाधिकी लोकानां जनानां विस्मयजनन्याश्चर्यकारिणी महाप्राणता महासाहसशक्तिराविर्बभूव प्रकटीबभूव । एतदेव विवृणोति - यदृच्छयेति । यदृच्छया स्वेच्छया क्रीडतापि केलिं कुर्वताप्यनेन कुमारेण गजानामनेकपानां कलभा एव कलभकाः । स्वार्थे कः । 'कलभास्त्रिंशदब्दकः' इति कोशः । सिंहस्य हर्यक्षस्य किशोरको वालस्तस्य क्रमो पादौ ताभ्यामाक्रान्ताः पीडिता इव चलितुमपीतस्ततो गन्तुमपि न शेकुर्न शक्ता बभूवुः । कीदृशाः । अनेन करतलेनावलम्विता गृहीता ये कर्णपल्लवास्तैरवनतान्यङ्गानि येषां ते तथा । कर्णे धृत्वैव नम्रीकृता इति भावः । अन्यदप्याह - एकैकेति । एकैकेन कृपाणप्रहारेण तालतरून्मृणालदण्डानिव नलिनदण्डानिव लुलाव चिच्छेद । सकलेति । अस्य नाराचा बाणाः शिखरिशिलातलभिदो बभूवुः । अस्य किंविशिष्टस्य । सकलाः समग्रा राजन्या राजनस्तेषां वंशा अन्वयास्त एव वनानि काननानि तेषु दावानलस्य । वनवह्निसदृशस्येत्यर्थः । कस्येव । परशुरामो जामदग्न्यस्तस्येव । यथा तस्य बाणाः शिलातलभिदस्तथास्यापीति भावः । दशेति । दशपुरुषैः संवाहनयोग्येनोत्थापनोचितेन । अतिप्रमाणेनेत्यर्थः । अयोदण्डेन लोहदण्डेन श्रममकरोत्परिश्रममकार्षीत् । ऋते चेति । 'ऋतेयोगे द्वितीया' इति केषांचिन्मतम् । तेनान्यशब्दार्थयुक्तायाः पञ्चम्या न विरोधः । महाप्राणताया ऋतेऽन्याभिः सर्वाभिः कलाभिर्वेशम्पायनस्तं कुमारमनुचकार सादृश्यमकरोत् । वैशम्पायनस्य ब्राहाणपुत्रत्वात्तस्मिन्नापेक्षिता साहसशक्तिरिति भावः । चन्द्रेति । चन्द्रापीडस्य वैशम्पायनः पर मित्रमासीदित्यन्वयः । तत्र हेतुमाह - सकलेति । सकलाः समग्रा याः कला विज्ञानैकदेशास्तासां कलापः समूहस्तदर्थं यः परिचयः - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 व्याघ्रवदुल्लम्फनम् । 2 पिङ्गलादिप्रणीतछन्दःशास्त्रेषु च। - - - - - - - - - - - - - - - - - - - - - पाठा० - १ प्लुतिषु आरोहणे, रतितन्त्रे; प्लुतिषु आरोहणावरोहणे, रतितन्त्रेषु. २ शिल्पेषु सर्वशिल्पिषु. ३ सर्वकौशलम्. ४ श्रमम् अस्य श्रमम्; चाजसश्रमम्. ५ अभ्यस्यतो वृकोदरस्य. ६ शैशवमेव. ७ सर्वलोक. ८ आलम्बित; आकुञ्चित. ९ किशोर. १० बाल एव तालतरून. ११ सर्वविद्याभिः. (चन्द्रापीडस्य यौवनोद्गमः। पूर्वभागः । Page #183 -------------------------------------------------------------------------- ________________ नासगौरवेण सहपांसुक्रीडनतया सहसंवृद्धतया च सर्वविश्रम्भस्थानं द्वितीयमिव हृदयं वैशम्पायनः परं मित्रमासीत् । निमेषमपि तेन विना स्थातुमेकाकी न शशाक । वैशम्पायनोऽपि तमुष्णकरमिव वासरोऽनुगच्छन्न क्षणमपि विरहयांचकार । एवं तस्य सर्वविद्यापरिचयमाचरतश्चन्द्रापीडस्य त्रिभुवनविलोभनीयोऽमृतरस इव सागरस्य, सकललोकहृदयानन्दजननश्चन्द्रोदय इव प्रदोषस्य, बहुविधरागविकारभङ्गुरः सुरधनुःकलाप इव जलधरसमयस्य, मकरध्वजायुधभूतः कुसुमप्रसव इव कल्पपादपस्य, अभिनवाभिव्यज्यमानरागरमणीय सूर्योदय इव कमलवनस्य, विविधलास्यविलासयोग्यः कलाप इव शिखण्डिनो यौवनारम्भः प्रादुर्भवन्रमणीयस्यापि द्विगुणां रमणीयतां पुपोष । लब्धावसरः सेवैक इव निकटीबभूवास्य मन्मथः । लक्ष्म्या सह वितस्तार वक्षःस्थलम् । बन्धुजनमनो - **** ******* संस्तवस्तत्कृतबहुमानेन संमानेन, शुकनासस्य गौरवेण पूज्यत्वेन, सह सार्धं यत्पांसुना धूल्या क्रीडनं खेलनं तस्य भावस्तत्ता तया, सह सार्धं संवृद्धः संवर्धितस्तस्य भावस्तत्ता तया । चकारो हेतुसमुच्चयार्थः । मित्रं विशेषयन्नाह - सर्वेति । सर्वो यो विश्रम्भो विश्वासस्तस्य स्थानमाश्रयो द्वितीयं हृदयमिव । एतेन सर्वथाभेदो दर्शितः । निमेषमप्यभिचलनमात्रमप्येकाकी तैन वैशम्पायनेन विना स्थातुं न शशाक न समर्थो बभूव । वैशम्पायनोऽप्युष्णकरं सूर्यं वासर इव दिवस इव तं चन्द्रापीडमनुगच्छन्पश्चाद्व्रजन्क्षणमप्यक्षिस्पन्दनमात्रमपि न विरहयांचकार न विरक्तौ बभूव । एवमिति । एवं पूर्वोक्तप्रकारेण तस्य चन्द्रापीडस्य सर्वविद्या परिचयं कलादिकाभ्यासमाचरतः कुर्वतः । त्रिभुवनेति । त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य विलोभनीयो लोभजनको यौवनारम्भो यौवनं बाल्यात्परं वयस्तस्यारम्भः प्रादुर्भवन्प्रकटीभवन्रमणीयस्यापि मनोहरस्यापि द्विगुणां पूर्वतो द्विभागाधिकां रमणीयतां शोभातिरेकैतां पुपोष । कीदृशः । सकललोकानां समग्रजनानां हृदयस्य स्वान्तस्यानन्दजननः प्रमोदोत्पादकः । कस्येव । सागरस्य समुद्रस्यामृतरस इव पीयूषद्रव इव । प्रदोषस्य यामिनीमुखस्य चन्द्रोदय इव । जलधरसमयस्य मेघकालस्य सुरधनुःकलाप इन्द्रचापसमूह इव, बहुविधा अनेकप्रकारा ये रागास्तेषां ये विकारा विकृतयस्तैर्भङ्गुरो वक्रः । उभयोर्विशेषणम्, यौवनारम्भस्याप्येतादृशरूपत्वात् । कल्पपादपस्य पारिजातस्य कुसुमप्रसव इव पुष्पोद्गम इव मकरध्वजस्य कंदर्पस्यायुधभूतः । शस्त्रभूतः । उभयोर्विशेषणम्, द्वयोरपि कामोद्दीपकत्वात् । अभीति । अभिनवो नूतनोऽभिव्यज्यमानः प्रकटीक्रियमाणो यो रागस्तेन रमणीयो मनोहरः । इदमपि द्वयोर्विशेषणम् । उभयत्र रागोदयसद्भावात् । कमलवनस्य सूर्योदय इव । विविधो यो लास्यविलासो नृत्यविलासस्तस्य योग्य उचितः । उभयोर्विशेषणम् । शिखण्डिनो मयूरस्य कलाप इव प्रचलाक ईव । अस्य चन्द्रापीडस्य लब्धावसरःप्राप्तप्रस्तावः सेवक इव भृत्य इव मन्मथः कंदर्पो निकटीबभूव समीपवर्त्यभूत् । इत्यनेन चन्द्रापीडस्य मन्मथाधीनत्वं नास्तीति सूचितम् । एतदेव विवृणोति - लक्ष्म्येति । लक्ष्म्या सह श्रिया सह वक्षःस्थलं भुजान्तरस्थलं वितस्तार विस्तीर्णं बभूव । बन्धुजनानां कुटुम्बजनानां मनोरथैर्वाञ्छितैः सहोरुदण्डद्वयं सक्थियुगलमापूर्यत पूर्णं बभूव । सातिशयमजनिष्टेति भावः । अरिजनेन शत्रुजनेन सह मध्यभागोऽवलग्नप्रदेशस्तनिमानं कृशत्वमभजताश्रयत् । त्यागेन दानेन सह नितम्बभाग आरोहप्रदेशः प्रथिमानं टिप्प० - 1 न तत्याज इत्यर्थः । 'न वियुक्तो बभूव' इति फलितार्थो वा उचितः । 2 शोभातिरेकमित्यर्थः । 3 रागा विषयाभिलाषाः, नीलपीतादिवर्णाश्च । 4 'रमणीयस्यापि रमणीयतां पुपोष', इत्यत्र सर्वेषां वाक्यानामन्वयः । पाठा० - १ गच्छन्क्षणमपि. २ हृदयनयनानन्द. ३ नवसेवकः; अनुसेवकः. 170 - कादम्बरी | कथायाम् Page #184 -------------------------------------------------------------------------- ________________ रथैः सहापूर्यतोरुदण्डद्वयम् । अरिजनेन सह तनिमानमभजत मध्यभागः । त्यागेन सह प्रथिमानमाततान नितम्बभागः । प्रतापेन सहारुरोह रोमराजिः । अहितकलवालकलताभिः सह प्रलम्बतामुपययौ भुजयुगलम् । चरितेन सह धवलतामभजत लोचनयुगलम् । आज्ञया सह गुरुर्बभूव भुजशिखर देशः । स्वरेण सह गम्भीरतामाजगाम हृदयम् । एवं च क्रमेण समारूढयौवनारम्भं परिसमाप्तसमग्रकलाविज्ञानमधीताशेषविद्यं चावगम्यानुमोदितमाचार्येश्चन्द्रापीडमानेतुं राजा बलाधिकृतं बलाहकनामानमाहूय बहुतुरगबलपदातिपरिवृतमतिप्रशस्तेऽहनि प्राहिणोत् । स गत्वा विद्यागृहं द्वाःस्थैः समावेदितः प्रविश्य क्षितितलावलम्बितचूडामणिना शिरसा प्रणम्य स्वभूमिसमुचिते राजसमीप इव सविनयमासने राजपुत्रानुमतो न्यषीदत् । स्थित्वा च मुहूर्तमानं बलाहकश्चन्द्रापीडमुपसृत्य दर्शितविनयो व्यजिज्ञपत्"कुमार, महाराजः समाज्ञापयति-'पूर्णा नो मनोरथाः । अधीतानि शास्त्राणि । *********** महत्त्वमाततान विस्तारमवाप । 'तनु विस्तारे लिटि रूपम् । प्रतापेन कोशदण्डप्रसवतेजसा सह रोमराजिस्तनूरुहश्रेणिरारुरोहारूढा बभूव । 'रुह जन्मनि इत्यस्य लिटि रूपम् । अहितेति । अहितकलत्राणां शत्रु स्त्रीणामलकलताभिः केशलताभिः सह भुजयुगलं बाहुयुग्म प्रलम्बतां दीर्घतामुपययौ प्राप । चरितेनाचारेण सह लोचनयुगलं नेत्रयुग्मं धवलतां शुभ्रतामभजत प्रापत् । आज्ञया निर्देशेन सह भुज़शिखरदेशः स्कन्धप्रदेशः । 'अंसो भुजशिरः स्कन्धे' इति कोशः । गुरुर्महान्बभूवाभूत् । स्वरेण शब्देन सह गम्भीरतां गाम्भीर्यता हृदयं स्वान्तमाजगामागमत् । यद्यपि लक्ष्म्या विस्तारस्य मनोरथेषु पूर्णत्वस्यैवमरिजने कृशत्वादेः स्वस्ववाक्यादेव लाभेऽपि सातिशयत्वं व्यङ्ग्यम् । एवमिति । एवं पूर्वोक्तप्रकारेण समारूढः प्राप्तो यौवनारम्भो येन स तम् । परिसमाप्तं समग्रकलाविज्ञानं यस्य स तम् । अधीता अशेषविद्या येनैवंभूतं चन्द्रापीडमवगम्य ज्ञात्वाचारध्यापकैरनुमोदितं श्लाषितम् । अथ राजा चन्द्रापीडमानेतुं बलेन धाम्नाधिकृतं सहित बलाहकनामानं पुरुषभृत्यमाहूयाह्वानं कृत्वा बहवो ये तुरगा अवास्तेषां बलं साधनं पदातिः (तयः) पत्ति(त्तय)स्ताभ्यां परिवृतं सहितमतिप्रशस्तेऽतिशोभनेऽहनि दिने प्राहिणोप्रेषयामास । सेति । स बलाहको विद्यागृहं गत्वा द्वाःस्थैर्वारपालकैः समावेदितो निवेदितः प्रविश्य प्रवेशं कृत्वा क्षितितले वसुधापीठेऽवलम्बित आश्रितः चूडामणिः शिरोमणिर्यस्यैवंविधेन शिरसोत्तमाङ्गेन प्रणम्य नमस्कृत्य स्वभूमिसमुचिते स्वस्य भूमौ यत्समुचितं योग्यं तस्मिनासने विष्टरे राजपुत्रेण नृपपुत्रेणानुमतोऽनुज्ञातो राजसमीप इव नृपसंनिधाविव सविनयं यथा स्यात्तथा न्यषीदत्तस्थौ । स्थित्वा चेति । मुहूर्तमात्रं स्थित्वावस्थानं कृत्वा बलाहकश्चन्द्रापीडमुपसृत्य समीपे गत्वा दर्शितः प्रकटीकृतो विनयः । सेवकार्थो येनेवभूतो व्यजिज्ञपद्विज्ञापनां चकार । हे कुमार, महाराजस्तारापीडः समाज्ञापयत्याज्ञां ददाति । तदेवाह - पूर्णेति । नोऽस्माकं मनोरथाश्चिन्तितानि पूर्णाः संपूर्णाः । जाता इति शेषः । अधीतानि पठितानि - टिप्प० -1 बाहुयुग्मं प्रलम्बतां दीर्घताम्, शत्रुस्त्रीणाम्, अलकलता लतावल्लम्बमानाः केशाश्च प्रलम्बतां लम्बितताम् (भाविभर्तुविरहेण असंयमनात्) उपपयौ, इत्यर्थः । 2 नेत्रयुग्मं धवलताम्, आचारश्च बाल्यचापल्यदोषराहित्यरूपं स्वच्छत्वमभजत । 3 अंसदेशो विशालः, आज्ञा च गुरुः गौरववाहिनी सर्वेषा शिरोधार्येत्यरर्थः । 4 बलाधिकृतं सेनाध्यक्षमित्यर्थः । 5 स्वोचिता या भूमिः (स्थानम्, राजपुत्रस्य वामपार्श्वम्) तत्र समुचिते इत्यर्थः । पाठा० - १ शिखरदेशः. २ एवं क्रमेण. ३ सकल. ४ बृहत्तुरग. ५ द्वारपैः. ६ प्रवेशितः. ७ विलम्बित; चुम्बित. ८ व्यजिज्ञापयत्. (तारापीडस्य गृहागमनादेशः। पूर्वभागः । Page #185 -------------------------------------------------------------------------- ________________ शिक्षिताः सकलाः कलाः । गतः सर्वास्वायुधविद्यासु परां प्रतिष्ठाम् । अनुमतोऽसि विनिर्गमाय विद्यागृहात्सर्वाचार्यैः । उपगृहीतशिक्षं गन्धगजकुमारकमिव वारिविनिर्गतमवगतसकलकलाकलापं पौर्णमासीशशिनमिव नवोद्गत पश्यतु त्वां जनः । व्रजन्तु सफलतामतिचिरदर्शनोत्कण्ठितानि लोकलोचनानि । दर्शनं प्रति ते समुत्सुकान्यतीव सर्वाण्यन्तःपुराणि । अयमत्रं भवतो दशमः संवत्सरो विद्यागृहमधिवसतः । प्रविष्टोऽसि षष्ठमनुभवन्वर्षम् । एवं संपिण्डितेनामुना षोडशेन प्रवर्धसे । तदद्यप्रभृति निर्गत्य दर्शनोत्सुकाभ्यो दत्त्वा दर्शनमखिलेमातृभ्योऽभिवाद्य च गुरूणामपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि नवयौवनललितानि च । संमानय राजलोकम् । पूजय द्विजातीन् । परिपालय प्रजाः । आनन्दय बन्धुवर्गम् । अयं च त्रिभुवनैकरत्नमनिलगरुडसमजव इन्द्रायुधनामा तुरङ्गमः प्रेषितो महाराजेन द्वारि तिष्ठति । *********** शास्त्राणि कामन्दकीप्रभृतीनि । सकलाः समग्राः कलाः शिक्षिता अभ्यस्ताः । सर्वास्वायुधविद्यासु धनुरादिविद्यासु परामनिर्वचनीयस्वरूपा प्रतिष्ठा महत्त्वं गतः प्राप्तः । विद्यागृहात्कलाभ्यसनमन्दिराद्विनिर्गमाय निःसरणायानुमतोऽनुज्ञातः । न केवलं महाराजस्यानुज्ञामात्रं किंतु गृहीतसकलकलाकलापोऽयमित्याचार्यैरप्यनुमतोऽसि । उपगृहीतशिक्षमुपगृहीता गुरोः सकाशाच्छिक्षा शास्त्राभ्यासादिरूपा येनैवभूतं त्वा जनो लोकः पश्यतु विलोकयतु । कस्मात्कमिव । वारी गजवन्धनी तस्माद्विनिर्गत वहिरागतं गन्धगजकुमारकमिव । अत्र गन्धशब्दोपादानेन हस्तिनो मुख्यत्वं सूचितम् । पुनरुपमानान्तरं प्रदर्शयन्नाह - सकलेति । अवगता ज्ञाताः प्राप्ताश्च सकलाः समग्रा याः कलाः षोडश द्वासप्ततिर्वा तासा कलापः समूहो येन स तम् । नवोद्गतं नूतनोदितं पौर्णमासीशशिनमिव राकाचन्द्रमिव । अतिचिरेण कालेन यदर्शनमीक्षणं तत्रोत्कण्ठितानि सोत्कलिकानि लोकलोचनानि जननेत्राणि सफलतां साफल्यं व्रजन्तु गच्छन्तु । ते तव दर्शनं विलोकनं प्रति सर्वाण्यन्तःपुराण्यतीव समुत्सुकान्यतिसोत्कण्ठितानि । अत्रेति । अत्र विद्यागृहेऽयं दशमः । संवत्सरो वर्षो भवतस्तव विद्यागृहमधिवसतोऽधितिष्ठतः । अत्र ‘अधिशीस्थासाम्-' इत्याधारे द्वितीया । अथ च षष्ठं वर्षमनुभवस्त्वं प्रविष्टोऽसि । विद्यागृहमिति शेषः । एवमनेन प्रकारेण संपिण्डितेन संकलितेनामुना षोडशेन वर्षेण त्वं प्रवर्धसे वृद्धिं गच्छसि । तदिति हेत्वर्थे । कृतकृत्यत्वादिति भावः । अद्यप्रभृतीतो निर्गत्य दर्शनोत्सुकाभ्योऽखिलमातृभ्यो दर्शनं दत्त्वाभिवाद्य च पादग्रहण कृत्वा गुरुणामपगतं नियन्त्रणं निरोधो यस्यैवभूतो यथासुख राज्यसुखानि नवयौवनललितानि च विलसितान्यनुभव साक्षात्कुरु । समानय राजलोकम् यथा योग्यं समानदानेन राजलोक वशीकुर्वित्यर्थः । द्विजातीन्ब्राहाणान्पूजय । वस्त्रादिप्रदानेनाराधयेत्यर्थः प्रजाः प्रकृतीन् (तीः) परिपालय रक्षां कुरु । बन्धुवर्ग स्वजनवर्गमानन्दय प्रमोदय । अयं चेति । अयं प्रत्यक्षोपलभ्यमानस्त्रिभुवने त्रिविष्टप एकमद्वितीयं रत्नम् । स्वजातिषु सर्वोत्कृष्टमित्यर्थः । आविष्टलिङ्गत्वानपुंसकत्वम् 'वेदाः प्रमाणम्' इतिवत् । अनिलो वायुः गरुडो गरुत्मान्, तयोः समः सदृशो जवो वेगो यस्य तथा । इन्द्रायुध इति नाम यस्यैवंविधस्तुरङ्गमोऽश्वो महाराजेन स्वामिना प्रेषितः प्रहितो द्वारि विद्यागृह - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'अधिगतसकलकलाकलापम् इत्यपि पाठः । अधिगतः सकलाना (षोडशानाम् कलाना कलापो येन तादृशः पूर्णमासीचन्द्रः । अधिगतः सकलानां चतुःषष्टिकलाना कलापो येन तादृशश्चन्द्रापीड इति च व्याख्या । अवगत इति ज्ञातार्थपाठस्तु चन्द्रापीडपक्ष एव समन्वयेत् । पाटा० - १ गतोऽसि. २ सर्वायुध. ३ निर्गमाय. ४ वारिवन्दाद्विनिर्गतसकल; वारिबन्धाद्विनिर्गतमधिगतसकर ५ कलापकम्. ६ उद्गतं. ७ अत्रभवतः, ८ वत्सरः. आपीडितेन, १० अधुना. ११ अखिलाभ्यो मातृभ्य. १२ मातृकाभ्यः. १३ गुरूनपगत. १४ परिपूजय. १५ च ते. (172 कादम्बरी । कथायाम Page #186 -------------------------------------------------------------------------- ________________ एष खलु देवस्य पारसीकाधिपतिना त्रिभुवनाश्चर्यमितिकृत्वा 'जैलधिजलादुत्थितमयोनिजमिदमश्वरत्नमासादितं मया महाराजाधिरोहणयोग्यम्' इति संदिश्य प्रेहितः । दृष्ट्वा चै निवेदितं लक्षणविद्भिः- ‘देव, यान्युच्चैःश्रवसः श्रूयन्ते लक्षणानि तैरयमुपेतः । नैवंविधो भूतो भावी वा तुरङ्गमः' इति । तदयमनुगृह्यतामधिरोहणेन । इदं च मूर्धाभिषिक्तपार्थिवकुलप्रसूतानां विनयोपपन्नानां शूराणामभिरुपाणां कैलावतां च कुलक्रमागतानां राजपुत्राणां सहस्त्रं परिचारार्थमनुप्रेषितं तुरङ्गमारूढं द्वारि प्रणामलालसं प्रतिपालयति' । इत्यभिधाय विरतवचसि बलाहके चन्द्रापीडः पितुराज्ञां शिरसि कृत्वा नवजलधरध्यानगम्भीरया गिरा 'प्रवेश्यतामिन्द्रायुधः' इति निर्जिगमिषुरादिदेश । अथ वंचनानन्तरमेव प्रवेशितम्, उभयतः खंलीनककटकावलग्नाभ्यां पदे पदे कृताकुञ्चनप्रयत्नाभ्यां पुरुषाभ्यामवकृष्यमाणम्, अतिप्रमाणम्, ऊर्ध्वकरपुरुषप्राप्यपृष्ठभागम्, 1 प्रतोल्यां तिष्ठति । खलु निश्चयेन । एष इन्द्रायुधः पारसीकाधिपतिना यवनाधीशेन देवस्य स्वामिनस्त्रिभुवनाश्चर्यमिति कृत्वेति संदिश्येति कथयित्वा च प्रहितः प्रेषितः । इति वाच्यमाह - इदमश्वरत्नं मयासादितं प्राप्तं महाराजस्य स्वामिनस्तारापीडस्याधिरोहण आरोहणे योग्य समुचितम् । अस्मिन्नर्थे हेतुमाह - जलधीति । जलधिजलात्समुद्रोदकादुत्थितमतएवायोनिजं पुंस्त्रीसंबन्धादनुत्पन्नम् । दृष्ट्वा चेति । लक्षणविद्भिः शालिहोत्रशास्त्रज्ञैर्दृष्ट्वा निरीक्ष्य । तमिति शेषः । निवेदितं कथितम् । राज्ञ इति शेषः । देव हे स्वामिन्, यान्युच्चैःश्रवस इन्द्रतुरङ्गमस्य लक्षणानि चिह्नानि श्रूयन्त आकर्ण्यन्ते तैर्लक्षणैरयमिन्द्रायुध उपेतः सहितः । एवंविध एतादृशस्तुरङ्गमो न भूतः पूर्वं नासीन्न भावी भविष्यति नाग्रे । तदिति हेत्वर्थे । अयमश्वोऽधिरोहणेनानुगृह्यतामनुग्रहविषयीक्रियताम् । इदं राजपुत्राणां सहस्रं परिचारार्थ सेवार्थमनुप्रेषितम् । तुरङ्गमप्रेषणानन्तरं पश्चात्प्रेषितमिति भावः । एतदेव विशिनष्टि - मूर्धाभिषिक्ता ये पार्थिवा राजानस्तेषां कुलं वंशस्त्र प्रसूतानामुत्पन्नाना, 'विनयेन मर्यादयोपपन्नानां सहितानाम्, शूराणां साहसगुणोपेतानाम्, अभिरूपाणां मण्डितानाम्, कलावतां विज्ञानवताम्, कुलक्रमागतानां परम्परयागतानाम्, तुरङ्गमारूढमश्चाधिरूढं द्वारि प्रतोल्यां प्रणामलालसं प्रणामो नमस्कारस्तत्र लालसं कृतस्पृहं प्रतिपालयति कालक्षेपं करोति । इत्यभिधायेत्युक्त्वा बलाहके विरतवचसि सति चन्द्रापीडः पितुराज्ञां जनकनिदेशं शिरसि मस्तके कृत्वारोप्य । नवेति । नवो यो जलधरो मेघस्तस्य यो ध्वानः शब्दस्तद्वद्गम्भीरया मन्द्रया गिरा वाचा ततो निर्जिगमिषुर्निर्गन्तुमिच्छुरिन्द्रायुधः प्रवेश्यतामानीयतामित्यादिदेशाज्ञां दत्तवान् । अथ एतद्वाचनानन्तरमेव प्रवेशितं प्रवेशं कारितमिन्द्रायुधनामानमश्वमद्राक्षीदिति दूरेणान्वयः । तत्राश्वस्ययथासंभवं क्रियागुणद्रव्यजातिभिः स्वभावं वर्णयितुं तद्विशेषणान्याह - खलीनेति । खलीनकं मुखयन्त्रणं तस्य कटके वलये तत्रावलग्नाभ्यामासक्ताभ्यां पदे पदे प्रतिपद कृतं विहितमाकुञ्चन आकर्षणे प्रयत्नो याभ्यामेवंविधाभ्यां पुरुषाभ्यामुभयतोऽवकृष्यमाणमितस्ततो विक्षिप्यमाणम् । अतिप्रमाणमतिमहान्तम् । ऊर्ध्वमुच्चैः करो यस्यैवंभूतेन पुरुषेण प्राप्यः स्प्रष्टुं योग्यः पृष्ठभागो यस्य स तम् । अस्य व्यादानस्वभावमाह - टिप्प० 1 ब्राह्मणेभ्यः क्षत्रियासु जाता मूर्धाभिषिक्ताः । यथाविधि राज्यासनेऽभिषिक्ता वा मूर्धाभिषिक्ता इत्यपि संप्रदायः । पाटा० - १ जलनिधि. २ प्रहितम्. ३ निवेदितं च. ४ मूर्धाभिषिक्तानाम्. ५ कुलवताम्. ६ परिवारार्थम्. ७ अधिरूढम् ८ अभिधाय विरराम. ९ वचनान्तम्. १० खलीनकथनक.. इन्द्रायुधः पूर्वभागः । 173 Page #187 -------------------------------------------------------------------------- ________________ आपिबन्तमिव संमुखागतमखिलमाकाशम्, अतिनिष्ठुरेण मुहुर्मुहुः प्रकम्पितोदररन्ध्रेण हेषारवेण पूरितभुवनोदरविवरण निर्भर्त्सयन्तमिवालीकवेगदुर्विदग्धं गरुत्मन्तम्, अतिदूरमुन्नमता जवनिरोधस्फीतरोषघुरघुरायमाणेघोरघोणेन शिरोभागेन निजदर्पवशादुल्लङ्घनार्थमाकलयन्तमिव त्रिभुवनम्, असितपीतहरितपाटलाभिराखण्डलचापानुकारिणीभिर्लेखाभिः केल्माषितशरीरम्, आस्तीर्णविविधैवर्णकम्बलमिव कुञ्जरकलभम्, कैलासतटाघातधातुधूलिपाटलमिव हरवृषभम्, असुररुधिरपङ्कलेखालोहितसटमिव पार्वतीसिंहम्, रंहःसंघातमिव मूर्तिमन्तम्, अनवरतपरिस्फुरत्योथऍटोन्मुक्तसूत्कारेणातिजवापीतमनिलमिव नासिकाविवरेणोद्वमन्तम्, अन्तःस्खलितमुखरखलीनखरशिखरक्षोभजन्मनो लालाजलभुवः फे पल्लवानुदधिनिवासपरिपीतामृतरसगण्डूषानिवोदगिरन्तम्, अत्यायतमंतिनिर्मांसतया समुत्कीर्णमिव वदनमुदहन्तम्, आननमण्डलनिहितारुणमणिसमुद्गतैरंशुकलापैरुपेतेनावसक्तरक्तचामरेणेव निश्च - *********** आपिबेति । संमुखागतमभिमुखागतमखिलं समग्रमाकाशं व्योमापिबन्तमिवास्वादयन्तमिव । निजजवेनेत्यध्याहारः । अतीति । अतिनिष्टुरेणातिकठिनेन मुहुर्मुहुः प्रकम्पितमुदररन्ध्र जठरविवरं येनैवंभूतेन हेषारवेण हेषाशब्देन । कीदृशेन । पूरितेति । पूरितं व्याप्त भवनोदरविवरं येन स तेन । अलीको वितथो यो वेगो जवस्तेन दुर्विदग्धं मिथ्याभिमानिनं गरुत्मन्तं सौपर्णेयं निर्भर्त्सयन्तमिव तिरस्कार कुर्वन्तमिव । क्रियास्वभावमाह - अतीति । अतिदूरमतिशयेनोन्नमतोधं कुर्वता शिरोभागेनोत्तमाङ्गप्रदेशेन । कीदृशेन । जवस्य वेगस्य यो निरोधः स्खलना तेन स्फीतो बहुलो रोषः क्रोधस्तेन घुरघुरायमाणा घुरघुरेतिशब्दं कुर्वाणा घोरा क्रूरा घोणा नासिका य(स्य)स्मिन् स तेन । निजः स्वकीयो यो दर्पोऽहंकार तद्वशात् उल्लङ्घनार्थमतिक्रमणार्थं त्रिभुवन त्रिविष्टपमाकलयन्तमिव विचारयन्तमिव । पुनः प्रकारान्तरेण तमेव विशिनष्टि - असितेति । आखण्डलस्येन्द्रस्य यच्चापं धनुस्तदनुकारिणीभिरसितपीतहरितपाटलाभिलेखाभिः कल्माषित कर्बुरितं शरीरं देहो यस्य स तम् । कर्बुरशरीरादेवोत्प्रेक्षामाह - आस्तीर्णेति । आस्तीर्ण आच्छादितो विविधवर्णो विचित्ररागः कम्बलो रल्लको यस्मिन्नेतादृशं कुञ्जरकलभमिव । कैलासस्य रजतानेर्यस्तटाघातो वप्रप्रघातस्तस्य या धातुधूलि रिकक्षोदस्तया पाटलं श्वेतरक्त हरवृषभमिवेश्वरधवलमिव । असुरस्य यो रुधिरपङ्को रक्तकर्दमस्तस्य या लेखा ततिस्तया लोहिता रक्ताः सटाः केसरा यस्यैवंविध पार्वतीसिंहमिव । रंहोवेगस्तस्य संघातं समूहमिव मूर्तिमन्तं देहधारिणम् । क्रियास्वभावमाह - अनवरतेति । अनवरतं निरन्तरं परिस्फुरदितस्ततःप्रसरसोथो मुखाग्रं तस्य पुटादुन्मुक्तो यः सूत्कारोऽव्यक्तः शब्दस्तेनातिजवेन वेगेनापीतमास्वादितमनिलमिव वायुमिव नासिकाविवरेण नासारन्ध्रेणोद्वमन्तं बहिर्निष्कासयन्तम् । द्रव्यस्वभावमाह - अन्तरिति । अन्तर्मध्ये स्खलितं स्खलनां प्राप्तं मुखरं वाचाल यत्खलीनं कैवीयं तस्य खरं लोहकण्टकयुक्तं यच्छिखरमग्रं तस्माद्यः क्षोभः परिश्रमस्तजन्मोत्पत्तिर्येषां ताँल्लालाजल रूपादानं येषा तान्फेनपल्लवान्फेनो मुखकफ उदधौ समुद्रे यो निवासोऽवस्थानं तत्र परिपीतो योऽमृतरसः पीयूषरसस्तस्य गण्डूषानिव चुलुकानिवोगिरन्तं वमन्तम् । अत्यायतमतिविस्तीर्णम् । जातिस्वभावमाह - अतीति । अतिनिर्मासतया सर्वथा - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 उन्नमता ऊर्ध्वं गच्छता इत्येव व्याख्योचिता । सघुरघुरशब्दं शिरोभागस्योोत्रमनेन गर्वात्रिभुवनमुल्लङ्घयितुं वितर्कयन्तमिवेत्युत्प्रेक्षा । 2 कविका, इत्यर्थः । 3 तस्मात् जन्म उत्पत्तिर्येषां तानिति व्याख्योचिता । 4 लालाजलात् मुखसावजलात् भवन्ति ते लालाजलभुवः पाठा० - १ उन्नमता च; अवनमता प्रतिक्षणमतिदूरमुत्रमता च; अबनमता प्रदक्षिणमतिदूरमुत्रमता च. २ माणघोणेन. ३ मुखेन. ४ निजजवदर्पवशात्; निजजवदपविशात्. ५ कल्मिषित; कल्मषित. ६ आस्तीर्णविचित्रवर्णकम्बलम्; आस्तीर्णकम्बलम्. ७ प्रोवोन्मुक्तफत्कारेण; पुटोन्मुक्तफूत्कारेण. ८ फेनलबानुदधीनिवास्य. ९ निर्मासतया. १० गण्ड. (174) 174 कादम्बरी। कथायाम् Page #188 -------------------------------------------------------------------------- ________________ लशिखरेण कर्णयुगलेन विराजमानम्, उज्ज्वलंकनकशृङ्खलारचितरश्मिकलापकलितया लाक्षालोहितलम्बलोलसटासंतानया जलनिधिसंचरणलग्नग्रविद्रुमपल्लवयेव शिरोधरयोपशोभितम्, अतिकुटिलकनकपत्रलताप्रतानभङ्गरेण पदे पदे रणितरत्नमालेन स्थूलमुक्ताफलप्रायेण तारागणेनेव संध्यारागमरुणेनाश्चालंकारेणालंकृतम्, अचालंकारनिहितमरकतरत्नप्रभाश्यामायमानदेहतया गगनतलनिपतितदिवसकररथतुरङ्गमशामिवोपजनयन्तम्, अतितेजस्वितया जवनिरोधरोषवशात्प्रतिरोमकूपमुद्गतानि सागरपरिचयलग्नानि मुक्ताफलानीव स्वेदलवजालकानि वर्षन्तम्, इन्द्रनीलमणिपादपीठानुकारिभिरञ्जनशिलाघटितैरिवानवरतपतनोत्पतनज - *********** विगतमांसतया समुत्कीर्णमिव यन्त्रकर्षितमिव वदनमाननमुदहन्तं धारयन्तम् । आननमण्डलं मुखमण्डलं तत्र निहिताः स्थापिता येऽरुणमणयः पद्मरागरत्नानि तेभ्यः समुद्गतैनिःसृतैरंशुकलापैर्दीप्तिसमूहैरुपेतेन सहितेनावसक्तानि लग्नानि रक्तचामराणि लोहितवालव्यजनानि यस्मिन्नेवंभूतेनेव निश्चलं स्थिरं शिखरमग्रं यस्य तेन कुर्णयुगलेन श्रवणद्वितयेन विराजमानं शोभमानम् । तस्य श्रृङ्गारवर्णनद्वारा विशेषयन्नाह-उज्ज्वलेति । उज्ज्वला निर्मला या कनकश्रृङ्खला सुवर्णश्रृङ्खला तया रचिता निर्मिता ये रश्मयोऽधानां संयमनाधोरज्जवस्तेषां कलापस्तेन कलितया सहितया । लाक्षेति । लाक्षा जतु तबल्लोहिता रक्ता लम्बा विस्तीर्णा लोलाञ्चपला या सटाः स्कन्धकेसरास्तस्याः संतानं यस्याः सा तया । जलनिधौ समुद्रे यत्संचरणं भ्रमणं तत्र लग्ना आसक्ता विद्रुमपल्लवाः प्रवालकिसलया यस्यामेवंविधयेव शिरोधरया ग्रीवयोपशोभितं विराजितम् । अलंकारद्वारा विशेषयन्नाह - अतीति । अतिकुटिलातिवक्रा या कनकपत्रलता सुवर्णपत्रभङ्गिस्तस्याः प्रतानं समूहस्तेन भङ्गुरेण वक्रेण, पदे पदे रणिता शब्दिता रत्नमाला यस्मिन्स तेन । स्थूलमुक्ताफलानि प्रायो बाहुल्येन सन्ति यस्मिन्नेवंभूतेनारुणेन रक्तेनाचालंकारेणालंकृतं भूषितम् । अलंकारस्यारुणत्वान्मुक्ताफलानां च श्वेतत्वादुत्प्रेक्षामाह - तारेति । तारागणेन विभूषितं संध्यारागमिव । संध्यारागपक्षेऽरुणो गरुडाग्रजः प्रकृते रक्तिमा । पुनरुपमानान्तरमाह - अश्चेति । अश्वालंकारे निहितानि स्थापितानि यानि मरकतरत्नान्यश्मगर्भानि तेषां प्रभा कान्तिस्तया श्यामायमानः कृष्णतां समाचरमाणो देहो यस्य तस्य भावस्तत्ता तया गगनतलादाकाशतलानिपतितो यो दिवसकरस्य सूर्यस्य रथतुरङ्गमः स्यन्दनहयस्तस्य शङ्कामारेकामुपजनयन्तमिवोत्पादयन्तमिव । सूर्यरथाश्वानां हरितत्वादिति भावः । अतितेजस्विनो भावोऽतितेजस्विता तया जवस्य वेगस्य यो निरोधोऽन्तरान्तरा रुन्धनं तस्माद्यो रोषः क्रोधस्तद्वशाच्चेति हेतुद्वयम् । प्रतिरोमकूपं प्रतिरोमरन्ध्रमुद्गतानि प्रादुर्भूतानि स्वेदलवजालकानि प्रस्वेदबिन्दुसमूहानि वर्षन्तं वृष्टिं कुर्वन्तम् । धेतत्वसाम्यादुपमानान्तरमाह - सागरेति । सागरपरिचयात्समुद्रोत्पन्नत्वाल्लग्नानि मुक्ताफलानीव रसोद्भवानीव । शालिहोत्रोक्ताः खुरपुटेषु गुणाः । तद्द्वारा विशेषयन्नाह - इन्द्रेति । इन्द्रनीलमणिनिर्मितं यत्पादपीठं पदासनं तदनुकारिभिस्तत्सादृश्यधारिभिः । अतोऽञ्जनशिलाघटितैरिव श्यामशिलानिर्मितैरिवानवरतं निरन्तरं यत्पतनोत्पतनमुत्प्लुत्योत्प्लुत्य - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 लाक्षावत् लोहितः लम्बो लोलश्च सटासंतानः (केसरसमूहः) यस्या इति व्याख्यायाः सरलोऽर्थः । 2 अवाभरणे अतिकुटिलानां स्वर्णनिर्मितपत्राकाराणां लतानां समूहो लग्नः, अत एव वक्राणां लतानां समूहवशात्तदाभरणमपि भङ्गरं वक्रमस्तीत्याशयः 3 रोधनमित्यर्थः । 4 प्रस्तावेऽस्मिन्नन्योऽपि विचारस्तद्यथा अतितेजस्विता स्वेदोद्गमे न हेतुः । किन्त्वयमर्थः-अतितेजस्वितावशात् यो जवनिरोधे रोषः (तेजस्विनो वेगरोधे कृते रोषः स्वाभाविक एव) तस्मात्प्रतिरोमकूपम् (प्रतिरोमकूपात्) उद्गतानि । 5 स्वेदलवजालकानि मुक्ताफलानीव वर्षन्तमित्युत्प्रेक्षा । पाठा० - १ रुचिर. २ इव च. ३ रागानुरागेण. ४ तुरग. ५ शङ्काम्. ६ कूपात्समुद्गता; कपात्समुद्गतानि. ७ परिचयाल्लग्नानि. ८ स्वेदजललव. ९ इन्द्रनीलपाद. (इन्द्रायुधः । पर्वभागः । Page #189 -------------------------------------------------------------------------- ________________ नितविषमखरमुखरवैः पृथुभिः खुरपुटैर्जर्जरितवसुंधरैर्मुरजवाद्यमिवाभ्यस्यन्तम्, उत्कीर्णमिव जङ्घासु, विस्तारितमिवोरसि, श्लक्ष्णीकृतमिव मुखे, प्रसारितमिव कंधरायाम्, उल्लिखितमिव पार्श्वयोः, द्विगुणीकृतमिव जघनभागे, जैवप्रतिपक्षमिव गरुत्मतः, त्रैलोक्यसंचरणसहायमिव मारुतस्य, अंशावतारमिवोच्चैःश्रवसः, वेगैसब्रह्मचारिणमिव मनसः, हरिचर - णमिव सकलवसुंधरोल्लङ्घनक्षमम्, वरुणहंसमिव मानसप्रचारम्, मधुमासदिवसमिव विकसिताशोकपाटलम्, व्रतिनमिव भस्मसितपुण्ड्रकाङ्कितमुखम्, कमलवनमिव मधुपङ्कपिङ्गकेसरम्, ग्रीष्मदिवसमिव महायाममुग्रतेजसं च, भुजंगमिव सदागत्यभिमुखम्, उदधिपुलिनमिव - 176 **: गमनं तस्माज्जनितः समुत्पन्नो यो विषमोऽसदृशः खरः कठिनो मुखेरवो येषां तैः । पृथुभिर्विस्तीर्णेर्जर्जरिता जर्जरीकृता वसुंधरा पृथ्वी यैरेवंविधैः खुरपुटैः शफपुटैर्मुरजवाद्यमिव मृदङ्गवाद्यमिवाभ्यस्यन्तमभ्यासं कुर्वन्तम् । पुनरप्यस्य शालिहोत्रप्रोक्तमवयवेषु गुणातिशयं वेगलाघवक्रियातिशयं च प्रतिपादयितुमस्य विशेषणान्याह - उत्कीर्णेति । उत्कीर्णमिव यन्त्रघर्षितमिव जङ्घासु प्रसिद्धासु । विस्तारितमि प्रसारितमिवोरसि हृदये । श्लक्ष्णीकृतमिव सौन्दर्यविशेषमापादितमिव मुखे वदने । प्रसारितमिव विस्तीर्णीकृतमिव कंधरायां ग्रीवायाम् ! उल्लिखितमिवोत्कीर्णमिव पार्श्वयोः प्रसिद्धयोः । नानागुणव्यञ्जकरेखोपरेखावत्त्वादित्युपमानम् । द्विगुणीकृतमिव द्विगुणतामापादितमि जघनभागेऽग्रभागे । जयप्रतिपक्षमिव वेगर्दस्युमिव गरुत्मतो गरुडस्य । त्रैलोक्यसंचरणसहायमिव त्रिविष्टपगमनसखायमिव मारुतस्य बायोः । उच्चैःश्रवस इति । उच्चैःश्रवा अमृतमथनसमुत्पन्नोऽश्वो देवराजस्येतस्यांशावतारमिवांशेनावतरणमिव । मनोवेग सब्रह्मचारिणं सतीर्थ्यमिव । ऋद्धस्य राजमातङ्ग इतिवन्मनसोऽभिन्नत्वेऽपि संबन्धः । सकलवसुंधरोल्लङ्घनक्षमं हरिचरणमिव जनार्दनापादमिव ।. वरुणस्य प्रचेतसो यो हंसस्तमिव । इति उभयविशेषणानि - मानसप्रचारं मानसं मनस्तद्वत्प्रचारो गमनं यस्य स तम् । पक्षे मानससरसि प्रचारो यस्येति विग्रहः । अत्र वरुणेतिपदमुत्कर्षातिशयप्रतिपादनार्थम् । मध्विति । मधुमासो वसन्तमासस्तस्य यो दिवसो दिन चैत्रमासदिनं तद्बदिव विकसितो योऽशोकः कङ्केल्लिस्तद्वत्पाटलं श्वेतरक्तम् । पक्षे विकसितानि विनिद्राण्यशोकानि कङ्केल्लिपुष्पाणि पाटलानि पाटलवृक्षकुसुमानि यस्मिन् । अशौकैः पाटल इति वा । भालस्थश्वेतपट्टाभिप्रायेणाह - व्रतिनमिति । व्रतिनं संन्यासिनमिव भस्मवत्सितं शुक्लं यत्पुण्ड्रकं तिलकं तेनाङ्कितं चिह्नितं मुखं यस्य स तम् । पक्षे भस्मनः सितं तिलकम् । शेषं पूर्ववत् । कमलस्य नलिनस्य यद्वनं तदिव । मधुयुक्तो यः पङ्को वचाकर्दमस्तेन पिङ्गानि बभ्रूणि । रक्तपीतानीत्यर्थः । केसराणि स्कन्धरोमाणि यस्मिन् । उक्तं हि वैद्य के'अश्वस्य वातादिदोषशान्तये मधुयुक्तवचादिचूर्णस्य पङ्कस्तेन तनुलेपनम्' । पक्षे मधु पुष्परसस्तस्य पङ्कः कर्दमस्तेन पिङ्गानि केसराणि यस्मिन् । ग्रीष्मस्य निदाघस्य दिवसो वासरस्तमिव महायामं महानायामो विस्तारो यस्य स तम् । पक्षे महान्यामः प्रहरो यस्मिन् । उग्रतेजस च । विशेषणमुभयत्र समानम् । भुजंगः सर्पस्तद्वदिव सदा निरन्तरं या गतिर्गमनं तस्या अभिमुखं संमुखम् । पक्षे सदागतिर्वायुस्तस्याभिमुखम् । वातपानकारित्वात् । उदधिः समुद्रस्तस्य पुलिनं सैकतं तद्वदिव शङ्खा कम्बवस्तेषां मालिका पङ्क्तिः सैवाभरणं भूषणं यस्येत्यभङ्गश्लेषः । अश्वानां गले शङ्खमालिकाबन्धनस्य सर्वत्र प्रसिद्धत्वात्समुद्रपुलिनोपमानम् । भीतं भयाकुलं तद्वदिव स्तब्धौ निश्चली कर्णौ श्रोत्रे यस्येत्यभङ्गश्लेषः । विद्याधरा व्योमचारिणस्तेषां राज्यमाधिपत्यं तदिव चक्रवर्ती यो नरस्तस्य वाहनं उद्वहनं उचितं योग्यम् । टिप्प० 1 अग्रभागध्वनिः । 2 वेगे प्रतिस्पर्धिनमित्यर्थः । पाठा० - १ विषमस्वरमुख; विषममुख. २ जय. ३ वेगरथ ४ विकासित ५ उग्रतेजसा भुजगम्. कादम्बरी | कथायाम् Page #190 -------------------------------------------------------------------------- ________________ शङ्खमालिकाभरणम्, भीतमिव स्तब्धकर्णम्, विद्याधरराज्यमिव चक्रवर्तिनरवाहनोचितम्, सूर्योदयमिव सकलभुवनाहिम्, अश्वातिशयमिन्द्रायुधमद्राक्षीत् । दृष्ट्वा च तमदृष्टपूर्वममानुषलोकोचिताकारमखिलत्रिभुवनराज्योचितमशेषलक्षणोपपन्नमश्वरूपातिशयमतिधीरप्रकृतेरपि चन्द्रापीडस्य पस्पर्श विस्मयं हृदयम् । आसीच्चास्य मनसि सरभसपरिवर्तनवलितवासुकिभ्रमितमन्दरेण मथ्नता जलधिजलमिदमश्वरत्नमनभ्युद्धरता किं नाम रत्नमुद्धृतं सुरासुरलोकेन । अनारोहता च मेरुशिलातलविशालमस्य पृष्ठमाखण्डलेन किमासादितं त्रैलोक्यराज्यफलम् । उच्चैःश्रवसा विस्मितहृदयो वञ्चितः खलु जलनिधिना शतमखः । मन्ये च भगवतो नारायणस्य चक्षुर्गोचरमियंता कालेन नायमुपगतो येनाद्यापि तो गरुडारोहणव्यसनितां न त्यजति । अहो खल्वतिशयितत्रिदशराज्यसमृद्धिरियं तातस्य - *********** पक्षे चक्रवर्ती यो नरवाहनो वत्सराजसुतो विद्याधरस्तस्योचितं योग्यम् । विद्याधरादिषु नरवाहनराजकीयत्वस्य प्रसिद्धत्वादित्युपमानम् । सूर्योदयमिव सकलं समग्रं भुवनं जगदेवा? मूल्यं तस्याहं योग्यम् । सर्वोत्कृष्टमित्यर्थः । पक्षे सकलभुवनास्यार्घः पूजा तस्याहम् । योग्यमित्यर्थः । 'सकलभुवननाथार्हम्' इति कुत्रचित्पाठः । तत्र समग्रभुवनस्य नाथः स्वामी तस्याहं योग्यम् । पक्षे सकलभुवनस्य नाथ आशीस्तस्या अहँ योग्यम् । ध्वान्तध्वंसकत्वेन त्रिभुवनेन मङ्गलशंसनमस्य क्रियत इति भावः । अधेषु तुरङ्गमेष्वतिशयमत्युत्कृष्टमेवंविधमिन्द्रायुधमद्राक्षीदपश्यदिति । अन्वयस्तु प्रागेवोक्तः । तमदृष्टपूर्वमनवेक्षितपूर्वं दृष्ट्वा विलोक्यातिधीरप्रकृतेरप्यतिसाहसभावस्यापि चन्द्रापीडस्य हृदयं विस्मयमाश्चर्यं पस्पर्श स्पृष्टवदित्यन्वयः । तमेव विशेषयन्नाह - अमान्विति । अमानुषो यो लोको देवलोकस्तस्योचितो योग्य आकार आकृतिर्यस्य स तम् । अखिलं समग्रं त्रिभुवनराज्यं यस्य, अखिलं त्रिभुवनराज्यं वा तस्योचितं योग्यम् । अशेषलक्षणैरुपपन्नं सहितम् । अवस्य यद्रूपं तदेवातिशयमत्युत्कृष्ट यस्मिन् । अस्य चन्द्रापीडस्य मनसि चित्त इदमासीद्धभूव । तदेवाह - सरभसेति । सरभसं वेगवत्तरं परिवर्तनार्थं वलितो बद्धो यो वासुकिः सर्पस्तेन भ्रमितो यो मन्दरो मेरुस्तेन जलधिजलं समुद्रपानीयं मथ्नता विलोडयतेदमश्वरत्नमनभ्युद्धरतागृह्णता सुरासुरलोकेन । किमिति प्रश्ने । नामेति कोमलामन्त्रणे । रत्नं वसूद्धृतम् । न किंचिदुद्धृतमिति भावः । अनेति । मेरुशिलातलवद्विशाल विस्तीर्णमस्य पृष्ठं पृष्ठप्रदेशमनारोहतानधिरोहताखण्डलेनेन्द्रेण त्रैलोक्यराज्यफलं किमासादितम् । न किमपीत्यर्थः । उच्चैरिति । खलु निश्चयेन उच्चैःश्रवसा कृत्वा विस्मितहृदयो हर्षितहृदयो जलनिधिना समुद्रेण शतमख इन्द्रो वञ्चितो विप्रतारितः । गुणातिशयं प्रतिपादयितु वितर्कमाह - मन्ये चेति । अहमिति मन्य इति जाने । इयता कालेन भगवतो नारायणस्य चक्षुर्गोचर नेत्रविषयमयं नोपगतो न प्राप्तः । हेतुमाह - येनेति । येन हेतुनाप्येतावत्कालपर्यन्तमपि । तां गरुडारोहणव्यसनितां वैनतेयाधिरोहणासक्ततां न त्यजति न जहाति । अहो इत्याश्चर्ये । खलु निश्चयेन तातस्य मत्पितुरियं राज्यलक्ष्मीराधिपत्यश्रीरतिशयि - - - टिप्प० -1 मतान्तरेण स्वयं नरवाहनो न विद्याधरः । किन्तु उदयनाभिधानाद्वत्सराजाद्वासवदत्तानाम्न्यां महिष्यां नरवाहनदत्ताख्यः पुत्रो बभूव यो हि विद्याधरराज्यमधितष्ठाविति कथासरित्सागरे कथा । 2 अश्वरूपो यः अतिशयः लोकातीतः कश्चिदतिरेकः (अद्भुतः पदार्थः) तम् । 3 सरभसं यत्परिवर्तन मथन तत्र वलितो वेष्टितः । - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ भुवनाभ्यर्हम्. २ विस्मयः. ३ विवर्तन. ४ चलित. ५ जलनिधि. ६ अभ्युद्धरता; अनुद्धरता पूर्वम्. ७ सुरलोकेन. ८ इयतापि. ९ त गरुडाधिरोहणव्यसनिता. १० परित्यजति. ११ अतिशय. १२ राज. इन्द्रायुधः पर्वभागः I NIY177) Page #191 -------------------------------------------------------------------------- ________________ राज्यलक्ष्मीर्यदेवंविधान्यपि सकलत्रिभुवनदुर्लभानि रत्नान्युपकरणतामागच्छन्ति । अतितेजस्वितया महाप्राणतया च सदैवतेवेयमस्याकृतिर्यत्सत्यमारोहणे शङ्कामिव मे जनयति । न हि सामान्यवाजिनाममानुषलोकोचिताः सकलत्रिभुवनविस्मयजनन्य ईदृश्यो भवन्त्याकृतयः । दैवतान्यपि हि मुनिशापवशादुज्झितनिजेशरीराणि शापवचनोपनीतान्येतानि शरीरान्तराण्यध्यासत एव । श्रूयते हि पुरा किल स्थूलशिरा नाम महातपा मुनिरखिलत्रिभुवनललामभूतामप्सरसं रम्भाभिधानां शशाप । सा सुरलोकमपहायाश्चहृदये निवेश्यात्मानमश्चहृदयेति विख्याता वडवा मृत्तिकावत्यां शतधन्वान नाम राजानमुपसेवमाना मर्त्यलोके महान्तं कालमुवास । अन्ये च महात्मानो मुनिजनशापपरिपीतप्रभावा नानाकारा भूत्वा बभ्रमुरिमं लोकम् । असंशयमनेनापि महात्मना केनापि शापभाजा भवितव्यम् । आवेदयतीव मद - *********** तातिक्रान्ता त्रिदशराज्यसमृद्धिदेवाधिपत्यश्रीर्ययैवंविधा वर्तते । अस्मिन्नर्थे हेतुं प्रदर्शयन्नाह - यदिति । एवंविधान्यपि पूर्वोक्तस्वरूपाण्यपि सकलत्रिभुवनदुर्लभानि त्रिजगहुःप्राप्याणि रत्नान्युपकरणतां परिभोग्यतामागच्छन्ति प्राप्नुवन्ति । अतीति । अतितेजस्वितया महाप्राणतया महासाहसपराक्रमतया । चकारः समुच्चयार्थः । अस्य अवस्येयमाकृतिराकारः सदैवता स्वर्वासिना सहवर्तमाना । अधिष्ठितेति यावत् । सत्यमेतद्यस्मादारोहणेऽधिरोहणे मे मम शङ्कामिव जनयति । नहि सामान्यवाजिनां दैवतानधिष्ठिततुरङ्गमाणाममानुषलोकोचिताः सुरलोकयोग्याः सकलं समग्रं यत्रिभुवनं त्रिविष्टपं तस्य विस्मयजनन्य आश्चर्योत्पादिन्य ईदृश्य एतादृशा आकृतय आकारा भवन्ति । देवानामपि रूपान्तरग्रहणं संभवतीत्याशयेनाह - दैवतेति । हीति निश्चितार्थे । दैवतान्यपि नाकिनोऽपि मुनयो योगिनस्तेषां शापवशादननुग्रहबलादुज्झितानि त्यक्तानि निजशरीराणि यैरेवंभूतानि शापवचनोपनीतानि शापवाक्यप्रापितानि शरीरान्तराणि स्वशरीराद्भिनेन्द्रियायतनान्यध्यासत एवाश्रयन्त्येव । श्रूयते हीति । किलेति सत्ये । हि निश्चये । श्रूयते आकर्ण्यते । पुरा पूर्व स्थूलशिरा नाम महातपा मुनिरखिलं समग्र यत्रिभुवनं त्रिविष्टपं तत्र ललामभूतामाभरणभूतामप्सरसं स्वर्वधूम् । क्वचिदेकवचनान्तोऽप्ययम् । तदुक्तम्- 'स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा इति' इति । रम्भाभिधाना रम्भानाम्नी शशाप शापं दत्तवान् । सा सुरलोक देवलोकमपहाय विहायाश्चहृदये तुरङ्गमोरस्यास्मानं निवेश्य संस्थापा । अश्वशरीरं परिगृह्येत्यर्थः । अतएवाश्चहृदयेति विख्याता वडवा मृत्तिकावत्यां मृत्तिकावती नगरी तस्यां भवं शतधन्वानं नाम राजानमुपसेवमाना भजमाना मर्त्यलोके नृलोके महान्तं भूयास कालं समयमुवासोषितवती । अत्र कथा-'स्थूलशिरा नाम महर्षिः कुशसमिदर्थं पर्यटन् महति वभ्रान्तरे पतामः परित्रायस्व परित्रायस्व' इत्युच्चतरं ध्वनिमश्रृणोत् । गत्वा च तत्र क्षामशरीरान्पुरुषास्तत्र लग्नान्प्रलम्बमानानपश्यत् । पृष्टाश्च 'के यूयम् इति । ते च पितर इत्यवोचन् 'त्वया चापत्योत्पत्तिर्न कृता । तद्विरहात्त्वदुपरमे पुनाम्नि नरके पतिष्यामः' इति । तच्छ्रुत्वा महर्षी रम्भाभिधानामेव योषितमिदमुक्तवान्- 'त्वां कामयामः' इति । तया चोक्तम्- 'यथाज्ञापयसि । किंतु देवकार्यं कृत्वागच्छामि । क्षम्यतां तावत्' इति । गतायां संकेतभङ्गो जात इति महर्षिणा क्रुद्धेन 'वडवा भव' इति सा शप्ता 'नरनारायणविग्रहावधिश्च शापो भविष्यति' इति x x x x । अन्ये चेति । अन्ये महात्मानोऽपरे गरीयांसो जना मुनिजनाना तपस्विनां शापेनाननग्रहेण परिपीत - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 सदैवता कयाचिद्देवतयेव अधिष्ठिता । पाटा० - १ सर्वदैवतेयम्. २ शरीरकाणि. ३ शापवचनबलोपनीतानि. ४ शरीराणि. ५ पुरा स्थूलशिराः. ६ भुवन. ७ वडवा भूत्वा. ८ मूर्तिकावत्याम्. 178 कादम्बरी। कथायाम्-) Page #192 -------------------------------------------------------------------------- ________________ न्तःकरणमस्य दिव्यताम्' इति विचिन्तयन्त्रेवारुरुक्षुरासनादुदतिष्ठत् । मनसा च तं तुरङ्गममेनुपसृत्य 'महात्मन्नर्वन्, योऽसि सोऽसि । नमोस्तु ते । सैर्वथा मर्षणीयोऽयमारोहणातिक्रमोऽस्माकम् । अपरिगतानि दैवतान्यप्यनुचितपरिभवभाञ्जि भवन्ति' इत्यामन्त्रयांबभूव । विदिताभिप्राय इव स तमिन्द्रायुधश्चटुलशिरः केसरसटाहतिकूणिताकेकरतारकेण तिर्यक्चक्षुषा विलोक्य मुहुर्मुहुस्ताडयता क्षितितलमुत्खातधूलिधूसरितक्रोडरोमराजिना दक्षिणखुरेणारोहणायाह्वयन्निव स्फुरितघ्राणविवरघर्घरध्वनिमिश्रं मधुरमपैरुषहुंकारपरम्परानुबद्धमतिमनोहरं हेषारवमकरोत् । अथानेन मधुरहेषितेनं दत्तारोहणाभ्यनुज्ञ इवेन्द्रायुधमारुरोह चन्द्रापीडः । समारुह्य तं प्रादेशमात्रमिव त्रैलोक्यमखिलं मन्यमानो निर्गत्य जलधरविमुक्तोपलासारपरुषेण जर्जर - ** आस्वादितः प्रभावो माहात्म्यं येषां ते तथा नानाकारा भूत्वा विविधप्रकाराणि शरीराण्युपगृह्येमं लोकं बभ्रमुर्भ्रमितवन्तः । असंशयं निःसंशयमनेनापि केनापि महात्मना महापुरुषेण शापभाजा भवितव्यम् । मदन्तःकरणं मन्मानसमस्य तुरङ्गस्य दिव्यतां देवत्वमावेदयतीव ज्ञापयतीव । इति विचिन्तयन्त्रेवेति ध्यायन्नेव आरुरुक्षुरारोढुमिच्छुरासनात्सिंहासनादुदतिष्ठदुत्थितो बभूव । तं तुरङ्गममनुपसृत्य तत्समीपेऽनागत्य मनसैवं महात्मन् हे अर्वन् हे अश्व, योऽसि सोऽसि यत्तद्भवसि । अतोऽलक्ष्यस्वरूपायानाकलनीयात्मने ते तुभ्यं नमो नमस्कारोऽस्तु । सर्वथा सर्वप्रकारेणास्माकमारोहणेन योऽतिक्रमोऽवज्ञा स मर्षणीयः सहनीयः । अपरिगतान्यज्ञातानि दैवतान्यनुचितोऽयोग्यो यः परिभवः क्लेशस्तद्भाजि भवन्तीति हेतोरामन्त्रयांबभूवामन्त्रणं चकार । स इन्द्रायुधोऽश्वस्तं चन्द्रापीडं स्वस्मिन्नारोहणेऽनुमतिरेव नापराध इति स्वाभिप्रायं स्वाङ्गक्रियाभिः स्पष्टयन्विदितो ज्ञातोऽभिप्राय आरोहणानुमतिलक्षणो येनैतादृश इव हेषारवं हेषाशब्दमकरोदित्यन्वयः । अथ हेषारवं विशेषयन्नाह - स्फुरितेति । स्फुरितो धूतो यो घ्राणविवरो नासिकारन्ध्रं तस्य यो घर्घरध्वनिरव्यक्तः शब्दस्तेन मिश्र संयुक्तं मधुरं कर्णसुखदमतएवापरुषमकठोरं हुंकारस्य हुंकृतेर्या परम्परा संतानं तयानुबद्धं सहितमत एवातिमनोहरमतिरमणीयम् । चटुलं चञ्चलं यच्छिर उत्तमाङ्गं तस्य या केसरलक्षणा सटा जटा तस्या आहतिराघातस्तया कूणिता किंचिन्निम्ना आकेकरा किंचिद्वक्रा तारका कनीनिका यस्मिन्नेवंभूतेन चक्षुषा नेत्रेण तिर्यक्तिरश्चीनं विलोक्य निरीक्ष्य मुहुर्मुहुर्वारंवारं क्षितितलं पृथ्वीतलं ताडयतास्फालयतोत्खातोत्खनिता या धूलिः पांसुस्ता धूसरिता धूम्रा क्रोडरोमराजिर्भुजान्तरालकपङ्क्तिर्यस्मिन्नेवंविधेन दक्षिणखुरेणापसव्यशफेनारोहणायाधिरोहणायाह्वयन्निवाह्वानं कुर्वन्निव । अथेत्यानन्तर्ये । अनेन मधुरहेषितेन दत्तारोहणाभ्यनुज्ञ इव दत्तारोहणेऽभ्यनुज्ञा यस्यैवंविध इव चन्द्रापीड इन्द्रायुधमारुरोहाधिरूढः । तमिति । तमिन्द्रायुधं समारुह्यारोहणं कृत्वाखिलं समग्रं त्रैलोक्यं त्रिविष्टपं प्रादेशमात्रमिति तर्जन्यङ्गुष्ठे वितते सति यन्मानं तत्प्रादेशः कथ्यते । यदाह - 'प्रदेशिन्यादिभिः सार्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम्' इत्यभिधानचिन्तामणिः । तद्वदिव मन्यमानो ज्ञायमानः । निर्गत्येति । निर्गत्य ततो बहिरागत्य स चन्द्रापीडोऽश्वसैन्यमपश्यदित्यन्वयः । अश्वसैन्यं विशिनष्टि - इन्द्रायुधं वा । बधिरीकृतमकर्णतां प्रापितं सकलत्रिभुवनविवरं येन तत् । केन । जलेति । जलधरविमुक्तो य उपलासारः करकासारस्तद्वत्परुषेण रूक्षेण टिप्प० 1 जानन्नित्यर्थः । पाठा० - १ उपसृत्य; समुपसृत्य. २ सर्वथा स्थितेन. ३ कूणित. ४ रोहणाय. ५ अपरुषम्. ६ हेषितेन. ७ त्रैलोक्यं मन्यमानः ८ प्रलयजलधर. ९ उपलसारपातपरुषेण. चन्द्रापीडस्य विद्यागृहात् प्रत्यावर्तनम् पूर्वभागः । 179 Page #193 -------------------------------------------------------------------------- ________________ यतेव रसातलमतिनिष्टुरेण खुरपुटानां रवेण रजोनिरुद्धघ्राणघोरघोषेण च हेषितेने बधिरीकृतसकलत्रिभुवनविवरम्, अशिशिरदीधितिसंस्पर्शस्फुरितविमलफलकेनो/कृतेन कुन्तलतावनेनोन्नालनीलोत्पलकलिकावनगहनं सर इव गगनतलमलकुर्वाणम्, उद्दण्डमायूरातपत्रसहसान्धकारिताष्टदिङ्मुखतया स्फुरितशतमन्युचापकलापकल्माषमिव जलधरवृन्दम्, उद्धमत्फेनपुञ्जधवलितमुखतयानवरतवल्गनचटुलतया च प्रलयसागरजलकल्लोलसंघातमिव समुद्गतम्, अदृष्टंपर्यन्तमश्चसैन्यमपश्यत् । तच्च सागरजलमिव चन्द्रोदयेन चन्द्रापीडनिर्गमेन सकलमेव संचचालाश्चीयम् । अहमहमिकया च प्रणामलालसाः सरभसापनीतातपत्रशून्य - *********** रसातलं पृथ्वीतलं जर्जरयतेव प्रशिथिलावयवं कुर्वतेवातिनिष्टुरेणातिकठिनेन खुरपुटानां शफपुटानां रवेण ध्वनिना । पुनः केन । रजसा निरुद्धमावृतं यद्माणं घोणा तस्य यो घोरघोषो घोरध्वनिस्तेन हेषितेन शब्दितेन । चकारः समुच्चयार्थः । पुनः प्रकारान्तरेण विशेषयन्नाह . अशिशिरेति । अशिशिरदीधितिः सूर्यस्तेन यः संस्पर्शः संश्लेषस्तेन स्फुरितं देदीप्यमानं विमलफलक निर्मलावरणं यस्मिंस्तेनो/कृतेनोर्ध्वं स्थापितेन कुन्तलताः । कुन्तः प्रासः । सरलत्वाल्लतोपमानम् । तासां वनं तेनो नालानि मृणालानि यास्वेवंविधा या नीलोत्पलकलिका इन्दीवरकोरकास्तासां वनं तेन गहनं सर इव तटाक इव गगनतलमाकाशतलमलकुर्वाणं शोभा विदघानम् । अत्र लोहफलकस्य नीलत्वसाम्यात्रीलोत्पलोपमानं कुन्तानां च सरलत्वसाम्यान्मृणालोपमानम् । नीलत्वसाम्याद्गगनतलस्य सरस उपमानम् । ऊर्ध्वं दण्डा येष्वेवंविधानि यानि मायूरातपत्राणि मयूरपिच्छनिर्मितानि छत्राणि तेषां सहसं तेनान्धकारिता अन्धकार प्रापिता अष्टौ दिङ्मुखास्तेषा भावस्तत्ता तया स्फुरितो दीप्यमानः शतमन्युरिन्द्रस्तस्य यश्चापकलापो धनुःसमुदायस्तेन कल्माष कर्बुर जलधरवृन्दमिव मेघसमूहमिव । उद्घमदहिनिःसरयः फेनोऽश्चमुखकफस्तस्य पुञ्जस्तेन धवलितानि शुभ्रीकृतानि यानि मुखानि तेषां भावस्तत्ता तयानवरतं निरन्तर यद्वल्गनमन्योन्यसंघट्टस्तेन या चटुलता चञ्चलता तया च प्रलयकालीनो यः सागरः समुद्रस्तस्य जलं पानीयं तस्य कल्लोलास्तरङ्गास्तेषा संघातमिव समहमिव समद्गतं प्रादुर्भतम् । फेनचलत्वसाम्येन सागरोपमानमिति । अदृष्टोऽनवलोकितः पर्यन्तः प्रान्तो यस्य तत । सोऽश्वसैन्यमपश्यदित्यन्वयस्तु प्रागेवोक्तः । तच्चेति । तच्च सकलमेव समग्रमेवाश्चीयं सैन्यं चन्द्रापीडनिर्गमेन संचचालाचालीत् । केन किमिव । चन्द्रोदयेन सागरजलमिव समुद्रपानीयमिव । अहंपूर्वमहंपूर्वमित्यहमहमिका । स्पर्धेत्यर्थः । तया प्रणामलालसाः प्रणामे नमस्कृती लालसा लोलुपा राजपुत्रा नृपसुतास्तं चन्द्रापीडं पर्यवारयन्त परिवेष्टनमकुर्वत । राजसुतान्विशेषयन्नाह - सरभसेति । सरभसं सवेगमपनीटिप्प० - 1 पूर्वसंपादकेनाऽत्र वर्णनस्याऽस्येदमर्थघटनं कृतं । अशिशिरदीधितेः सूर्यस्य संस्पर्शेन स्फुरितं देदीप्यमानम् (चमत्कुर्वत्) विमलं फलकम् अग्रदेशः (तीक्ष्णाग्रलोहमुखम्) यस्य तेन, ऊ/कृतेन ऊर्ध्वमुखं स्थापितेन, कुन्ताः भल्लाः एव लताः (लतावल्लम्बाकारत्वात्) तासां वनेन समूहेन (करणभूतेन), उन्नालानां नीलोत्पलकलिकानां वनेन काननेन गहनं नीरन्ध्र सरः सरोवरमिव गगनतलम् अलंकुर्वाणं शोभयत् । नीलोत्पलवनेन यथा सरोवरमलंक्रियते तथा कुन्तसमूहेन गगनमलंकृतमित्याशयः । 2 छत्रसहसेण अन्धकारितानि (अन्धकारयुक्तानि कृतानि) अष्टदिङ्मुखानि येन स मायूरातपत्रसहसान्धकारिताष्टदिङ्मुखस्तत्तया इन्द्रधनुश्चित्रितं मेघवृन्दमिव स्थितमित्यर्थो बोध्यः । 3 शुभ्रीकृतानि वदनानि यस्मिन् तद्भावः तत्ता तया । इत्यर्थ उचितः । - - पाटा० - १ खुररजो; प्रचुररजो. २ हेषितेन. ३ भुवनं. ४ अशिशिरकिरणदीधितिपरामर्श. ५ ऊर्चीकृत. ६ अन्धकारित. ७ कल्माषितम्. ८ पूर्व तम्. ९ अधीय सन्यम्; अप्रमेयमश्वसैन्यम्. १० चन्द्रोदयेनेव. 180 कादम्बरी। कथायाम Page #194 -------------------------------------------------------------------------- ________________ शिरसः परस्परोत्पीडनकुपिततुरङ्गमनिवारणायस्ता राजपुत्रास्तं पर्यधारयन्त । एकैकशश्च प्रतिनामग्रीहमावेद्यमाना बलाहकेन विचलितमुकुटपद्मरागकिरणोद्गमच्छलेनानुरागमिवोद्धमद्भिः संघटितसेवाञ्जलिमुकुलतया यौवराज्याभिषेककलशावर्जितसलिललग्नकमलैरिव दूरावनतैः शिरोभिः प्रणेमुः । चन्द्रापीडस्तु तान्सर्वान्मानयित्वा यथोचितमनन्तरं तुरङ्गमाधिरूढेनानुगम्यमानो वैशम्पायनेन, राज्यलक्ष्मीनिवासपुण्डरीकाकृतिना सकलराजन्यकुलकुमुदखण्डचन्द्रमण्डलेनेव तुरङ्गमसेनासवन्तीपुलिनायमानेन क्षीरोदफेनधवलितवासुकिफणामण्डलच्छविना स्थूलमुक्ताकलापजालकावृतेनोपरि चिह्नीकृतं केसरिणमुरहतातिमहता कार्तस्वरदण्डेन ध्रियमाणेनातपत्रेण निवारितातपः, उभयतः समुद्भूयमानचामरकलापपवननर्तित - *********** तानि दूरीकृतानि यान्यातपत्राणि छत्राणि तैः शून्यानि रिक्तानि शिरांसि येषां ते तथा । परस्परेति । परस्परमन्योन्यं यत्पीडनं तेन कुपिताः कोपं प्राप्ता ये तुरङ्गमा अवास्तेषां निवारणं निषेधनं तत्रायस्ता उद्यताः । अथ च बलाहकेन नामनिवेदननियुक्तपुरुषेण प्रतिनामग्राहं यथा स्यात्तथैकश आवेद्यमाना निवेद्यमानाः । नामग्रहणे नामग्रहणनियुक्ते वा । 'बलाहकोऽम्बुदे गिरौ' इत्यनेकार्थः । शिरोभिः प्रणेमुर्नमस्कारं चक्रुः । तमिति शेषः । शिरांसि विशेषयत्राह - विचलितेति । विशेषेण चलिताः कम्पिता मुकुटाः कोटीराणि तेषां पद्मरागा लोहितमणयस्तेषां किरणानां प्रभाणामुद्गमो बहिःप्रचारस्तस्य छलेन मिषेणानुरागं रक्तिमानमुद्वमद्भिरिवोद्गिरद्भिरिव । संघटीति । संघटितः संगतो यः सेवाया अञ्जलिः स एव मुकुलः कुड्मलस्तस्य भावस्तत्ता तया । शिरसां वर्तुलत्वसाम्यादञ्जलिमुकुलस्य कमलमुकुलसाम्याच्छिरःस्थिताञ्जलिमुकुलोत्प्रेक्षामाह यौवराज्येति । यौवराज्यस्य योऽभिषेकस्तदर्थं ये कलशाः कुम्भास्तैरावर्जितं गृहीतं यत्सलिलं तत्र लग्नानि यानि कमलानि तैरिव दूरावनतैर्दूरतोऽवनतैर्नम्रीभूतेश्चन्द्रापीडं पर्यवारयन्तेत्यन्वयस्तु प्रागेवोक्तः । चन्द्रापीडस्तु नगराभिमुखं प्रतस्थ इत्यन्वयः । तान्सर्वानाजपुत्रान्यथोचितं यथायोग्यं मानयित्वा संमानं दत्त्वानन्तरं पश्चाद्भागेनैव तुरङ्गमाधिरूढेनानुगम्यमानः समनुयायमानः । पुनः कीदृशः । आतपत्रेण छत्रेण निवारितो दूरीकृत आतपो दिनकरप्रकाशो यस्य सः । छत्रं विशेषयन्नाह - राज्येति । राज्यस्याधिपत्यस्य या लक्ष्मीः श्रीस्तस्या यनिवासार्थं पुण्डरीक कमलं तद्वदाकृतिराकारो यस्य स तेन । सकलानि समग्राणि यानि राजन्यकुलानि नृपकुलानि तान्येव कुमुदानि कैरवाणि तेषां खण्डं वनं तत्र चन्द्रमण्डलेनेव शशिबिम्बेनेव । छत्रेण राजचिह्नेन राजन्या विकसितमुखा भवन्तीति भावः । तुरङ्गमसेनाश्ववाहिनी सैव सवन्ती तटिनी तस्याः पुलिनायमानेन सैकतायमानेन । अत्र विततगहनगाम्भीर्यादिगुणवत्त्वादश्वसेनाया नधुपमानम् । क्षीरोदस्य दुग्धसमुद्रस्य यः फेनोऽब्धिकफस्तेन धवलितो यो वासुकिर्नागराजः । वासुकेर्नीलत्वप्रसिद्ध्या एतद्विशेषणम् । तस्य यत्फणामण्डलं तद्वच्छविर्यस्य स तथा तेन । स्थूलमुक्तानां कलापैर्निर्मितजालकैर्गुच्छरावृतेनाच्छादितेन । उपरीति । उपरि ऊर्ध्वं चिह्नीकृतं लाञ्छनीकृतं केसरिण सिंहमुद्हता धारयतातिमहतातिमहीयसा कार्तस्वरदण्डेन सुवर्णदणेडन कृत्वा ध्रियमाणेन धार्यमाणेन । उभयत इति । उभयत उभयपार्ययोः समुद्भूयमानो वीज्यमानो यश्चामरकलापो वालव्यजनसमूहस्तस्य यः पवनः समीरणस्तेन नर्तिता लास्य कारिताः कर्णपल्लवा यस्य स तथा । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 दूरावनतैः शिरोभिः प्रणेमुरित्येवान्चयः 2 शेषस्य श्वेतत्वं सुप्रसिद्धम् । अत एव तच्छत्रस्य वासुकि(शेष)फणामण्डलेन साम्यम् । क्षीरोदफेनेस्तस्य ततोप्यतिशयितशुभ्रत्वमित्यर्थः । 3 छत्रे सिंहमूर्तिः राजचिह्नत्वेनाङ्कितेत्यर्थः । पाठा० - १ निवारणायस्ता; निवारणयासितहस्ताः; निवारणयायासि. २ ग्रहणम्. ३ संघट्टित. ४ अभिषेकतया. ५ समानयित्वा. ६ निवासयोग्य. ७ मुक्ताफलककलाप. ८ परिवृतेन. ९ कार्तस्वरेण दण्डेन. नगरं प्रति प्रस्थानम् पूर्वभागः । Page #195 -------------------------------------------------------------------------- ________________ कर्णपल्लवः, पुरः प्रधावता तरुणवीरपुरुषप्रायेणानेकसहससंख्येन पदातिपरिजनेन जय जीवेति च मधुरवचसा मङ्गलेप्रायमनवरतमुच्चैः पठता बन्दिजनेन स्तूयमानः, नगराभिमुखं प्रतस्थे । क्रमेण च तं समासादितविग्रहमनङ्गमिवावतीर्णं नागरमार्गमनुप्राप्तमवलोक्य सर्व एव परित्यक्तसकलव्यापारो रजनिकरोदयपरिबुध्यमानर्कुमुदवनानुकारी जनः समजनि । 'सत्यस्मिन्मुखकुमुदकदम्बकविकृताकृतिः कार्तिकेयो विडम्बयति कुमारशब्दम् । अहो, वयमति पुण्यभाजो यदमानुषीमस्याकृतिमन्तःसमारूढप्रीतिरसनिःस्यन्दविस्तारितेन कूतूहलोत्तानितेन लोचनयुगलेनानिवारिताः पश्यामः । सफला नोऽद्य जाता जन्मवत्ता । सर्वथा नमोऽस्मै रूपान्तरधारिणे भगवते चन्द्रापीडच्छद्मने पुण्डरीकेक्षणाय' इति वदनारचितप्रणामाञ्जलिर्नगरलोकः प्रणनाम । सर्वतश्च संमुपावृत्तकपाटपुटप्रकटवातायनसहसतया चन्द्रापीडदर्शनकुतूहलानगरमपि समुन्मीलितलोचननिवहमिवाभवत् । *********** पुर इति । पुरोऽग्रे प्रधावता प्रचलता तरुणा युवानो ये वीरपुरुषाः सुभटनरास्तत्प्रायेण तत्तुल्येनानेकेषां सहसाणां संख्या यस्मिन्स तेन पदातिपरिवारेण पत्तिपरिजनेन । पुनः कीदृशः । बन्दिजनेन याचकजनेन स्तूयमानो नयमानः । अनवरतं निरन्तरं मधुरवचसा मिष्टवाक्येन जय जीवेति मङ्गलप्रायं मङ्गलात्मकमुच्चैः पठता पाठं कुर्वता । अन्वयस्तु प्रागेवोक्तः। क्रमेणेति । क्रमेण परिपाट्या तं चन्द्रापीडं नगरमार्ग पुरीपद्धतिमनुप्राप्तमागतमवलोक्य निरीक्ष्य रजनीकरश्चन्द्रस्तस्योदयेनोद्गमेन परिबुध्यमानं विकास प्राप्यमाणं यत्कुमुदवनं तस्यानुकारी सादृश्यकरणशीलः सर्व एव जनो लोकः समजनि बभूव । तमेव विशिनष्टि - समेति । समासादितः प्राप्तो विग्रहः शरीरं येनैवंभूतमनङ्ग काममिवावतीर्णं गृहीतावतारम् । पूर्वमीश्वरेण शरीरस्य दग्धत्वात्समासादितेत्युक्तम् । कीदृशो जनः । परित्यक्तो दूरीकृतः सकलव्यापारः समग्रव्यापृतिर्येन स तथा तेन । सतीति । अस्मिंश्चन्द्रापीडे सति कार्तिकेयो गुहः कुमारशब्दं विडम्बयति । नाममात्रं धत्त इति भावः । तस्मिन्निति शेषः । अस्मिन्नर्थे हेतुगर्भितं विशेषणमाह - मुखेति । मुख्यान्येव कुमुदानि । विकाससाम्यात्तदुपमानम् । तेषां कदम्बकं समूहस्तेन विकृता बीभत्साकृतिराकारो यस्य स तथा । अहो इत्याश्चर्ये । वयमतिपुण्यभाजो गरिष्ठसुकृतभाजः । यदिति हेत्वर्थे । अस्य कुमारस्यामानुषीं देवसंबन्धिनीमाकृतिमाकारं लोचनयुगलेन नेत्रयुग्मेनानिवारिताः पश्यामो विलोकयाम इत्यन्वयः । लोचनयुगलं विशिनष्टि । अन्त इति । अन्तः स्वान्ते समारूढः समुत्पन्नो यः प्रीतिरसः स्नेहरसस्तस्य निःस्यन्दः सारस्तेन विस्तारितेन विस्तीर्णीकृतेन । कुतूहलमाश्चर्यं तेनोत्तानितेनोर्ध्वमुखेन । नोऽस्माकमद्य जन्मवत्तोत्पत्तिमत्ता सफला फलवती जाता जज्ञे । सर्वथेति । सर्वथा सर्वप्रकारेणास्मै चन्द्रापीडच्छद्मने पुण्डरीकेक्षणाय कृष्णाय भगवते रूपान्तरधारिणे नम इति वदनिति ब्रुवन्नारचितो विहितः प्रणामार्थमञ्जलिर्येनैवंभूतो नगरलोकः प्रणनाम प्रणामं चक्रे । समुपावृत्तेति । सर्वतः सर्वत्र समुपावृत्तं समुद्घाटितं कपाटपुटमररसंपुटं यस्मिन्नेवंभूतं प्रकटं स्पष्टं वातायनसहसं गवाक्षसहसं तस्य भावस्तत्ता तया चन्द्रापीडस्य यद्दर्शनकुतूहलं दर्शनाश्चर्यं तस्मानगरमपि द्रङ्गमपि समुन्मीलितं विकसितं लोचननिवहं यस्मिन्नेतादृशमिवाभवद्वभूव । अत्रावलोकननिमित्तत्वसाम्याद्वातायनसहसस्य विकसितनेत्रोपमानम् । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 तद्बहुलेनेत्यर्थः । 2 स्ववाचकत्वेन स्वीकृत्य कुमारशब्द कदर्थयतीत्यर्थः । यतो हि मुखानि षड् वदनानि कुमुदानीव तेषां कदम्बक समूहः, तथा च अस्वाभाविकमुखबाहुल्यात् विकृताकारे कार्तिकेये कुमारशब्दो विडम्बनायै । अस्मिंस्तु कुत्सितो मारो यस्मादिति कुमार इति व्युत्पत्त्या कामादप्यधिकदर्शनीयेऽस्मिन्कुमारशब्द उपयुज्यत इत्याशयः । 3 समपावृतम् इत्यपि पाठः । 4 पुरमिति प्रसिद्धा व्याख्या । पाठा० - १ वीरप्रायेण. २ प्रायालापम्. ३ नगराभिमुखः, ४ पुष्पकुमुद. ५ सत्यस्मिन्संप्रति मुख. ६ मुखकलापविडम्बन; मुखकमल. ७ यदिमाम्; यत इमाम्. ८ प्रणामाञ्जलि. ९ समपावृत; समुपावृत. १० कपाटप्रकट. (182 कादम्बरी । कथायाम् Page #196 -------------------------------------------------------------------------- ________________ अनन्तरं च ‘समाप्तसकलविद्यो विद्यागृहानिर्गतोऽयं चन्द्रापीड:- समाकर्णालोकनकुतूहलिन्यः सर्वस्मिन्नेव नगरे ससंभ्रममुत्सृष्टार्धपरिसमाप्तप्रसाधनव्यापाराः, काश्चिद्वामकरतलगतदर्पणाः स्फुरितसकलरजनिकरमण्डला इव पौर्णमासीरजन्यः, काश्चिदा लक्तकरसपाटलितचरणपुटाः कमलपरिपीतबालातपा इव नलिन्यः, काश्चित्ससंभ्रमगतिविगलितमेखलाकलापाकुलितचरणकिसलयाः श्रृङ्खलासंदानमन्दमन्दसंचारिण्य इव करिण्यः, काश्चिज्जलधरसमयदिवसश्रिय इवेन्द्रायुधरागरुचिराम्बरधारिण्यः, काश्चिदुल्लसितधवलनखमयूखपल्लवानूपुररवाकृष्टगृहकलहंसकानिव चरणपुटानुद्वहन्त्यः, काश्चित्करतलस्थितस्थूलहारयष्टयो रतिमिव मदनविनाशशोकगृहीतस्फटिकाक्षवलयां विडम्बयन्त्यः, काश्चित्पयोधरान्तरालगलितमुक्ता तास्तनुविमलसोतोजलान्तरितचक्रवाकमिथुना इव प्रदोषश्रियः, काश्चिन्नूपुरमणिस *********** अनन्तरमिति । अनन्तरं । चन्द्रापीडदर्शनोत्कण्ठया गवाक्षकपाटोद्घाटनानन्तरमित्यर्थः । समाप्ता पारं प्राप्ता सकला समग्रा विद्या यस्य स तथा । विद्यागृहादयं चन्द्रापीडो निर्गत इति समाकर्ण्य श्रुत्वालोकने विलोकने कुतूहलं यासां ता आलोकनकुतूहलिन्यो ललनाः स्त्रियो हर्म्यतलानि समारुरुहुरारोहणं चक्रुः । सर्वस्मिन्नेव नगरे ससंभ्रममुत्सृष्टस्त्यक्तोऽर्धपरिसमाप्तः प्रसाधनं प्रतिकर्म तस्य व्यापारो याभिस्ताः । काश्चिद्वामकरतले सव्यपाणितले गतः प्राप्तो दर्पणो मुकुरो याभिस्ताः पौर्णमासीरजन्यः राकात्रियामा इव । कीदृश्यः । स्फुरितं स्फुटित सकलं समग्रं रजनिकरमण्डलं शशाङ्कबिम्ब यासु ताः । निर्मलत्ववर्तुलत्वसाम्यादर्पणस्य चन्द्रोपमानम् । काश्चिदिति । काश्चनार्दो योऽलक्तकरसो यावकरसस्तेन पाटलितं श्वेतरक्तीकृतं चरणपुटं यासां ताः । का इव । नलिन्य इव पद्मिन्य इव । कीदृश्यः । कमलेन परिपीतो बालातपो याभिस्ताः । अत्रालक्तकस्य बालातपसाम्यं चरणपुटानां च कमलेन साम्यं सूचितम् । काश्चिदिति । काश्चन स्त्रियः संभ्रमेण या गतिर्गमनं तया विगलितः सस्तो यो मेखलाकलापो रसनाकलापस्तेनाकुलिता व्याकुलीभूताश्चरणकिसलयाः पादपल्लवा यासा ताः । का इव । करिण्य इव हस्तिन्य इव । कीदृश्यः । श्रृङ्खला प्रसिद्धा तस्याः संदानं बन्धनं तेन मन्दमन्दसंचारिण्यो मन्दमन्दगामिन्यः । अत्र गतिप्रतिबन्धसाम्यान्मेखलायाः श्रृङ्खलोपमानम् । काश्चिदिति । काश्चनेन्द्रायुधमिन्द्रधनुस्तस्य राग इव रागो येष्वेवंविधानि रुचिराण्यम्बराणि धारयन्तीत्येवंशीलास्तास्तथा । का इव । जलधरसमयस्य यो दिवसो दिनं तस्य श्रियस्ता इव । इन्द्रायुधं तस्य रागो रक्तिमा तेन रुचिरं यदम्बरमाकाशं तद्धारिण्यः । काश्चिदिति । काश्चन किं कुर्वत्यः । उद्वहन्त्य उद्वहनं कुर्वत्यः । कान् । चरणपुटान् । तानेव विशिनष्टिउल्लसिता उल्लासं प्राप्ता धवला नखमयूखा एव पल्लवा येषु तात्पुररवेण पादकटकध्वनिनाकृष्टानाकर्षितान्गृहकलहंसकान्सद्महंसानिव । काश्चिदिति । काश्चन करतले स्थिता स्थूलहारयष्टिर्यासां ताः । किं कुर्वत्यः । रति मदनस्त्रियं विडम्बयन्त्यो निराकुर्वत्यः । तामेव विशिनष्टि - मदनेति । मदनस्य कन्दर्पस्य यो विनाशोऽभावस्तस्मायः शोकस्तेन गृहीतं स्फटिकाक्षवलयं यया सा ताम् । अतिस्वच्छत्वात्स्फटिकाक्षवलयेन समं मुक्ताफलसाम्यं दर्शितम् । काश्चिदिति । काश्चन स्त्रियः पयोधराणामन्तरालं मध्यभागस्तत्र गलिता सस्ता मुक्तालता यासा ताः । तनु स्तोकं विमलं निर्मलं यत्सोतोजलं प्रवाहपानीयं तेनान्तरितं व्यवधान प्रापितं चक्रवाकमिथुनं रथाङ्गाह्वमिथुनं यास्वेवंविधाः । प्रदोषो रजनीमुखं तस्य श्रिय इव शोभा इव । काश्चिदिति । काश्चन योषितो नूपुरमणिभ्यः समुत्थितं प्रकटीभूतं यदिन्द्रायुधं शक्रधनुस्तस्य भावस्तत्ता तया । परिचयेन संबन्धेन वात्सल्येन वा । अनुगताः पश्चादागता गृहमयूरिका इव सदन - पाठा० - १ आगच्छति चन्द्रापीडः. २ सर्वस्मिनगरे. ३ मुक्ताहार. ४ लता विमल. (चन्द्रापीडप्रवेशे पुरनारीणां भावाः) पूर्वभागः । 183 Page #197 -------------------------------------------------------------------------- ________________ मुत्थितेन्द्रायुधतया परिचयानुगतगृहमयूरिका इव विरोजन्त्यः, काश्चिदर्धपीतोज्झितमणिचषकाः स्फुरितगरागैर्मधुरसमिवाधरपल्लवैः क्षरन्त्यो हर्म्यतलानि ललनाः समारुरुहुः । अन्याश्च मरकतवातायनविवरविनिर्गतमुखमण्डला विकचकमलकोशपुटामम्बरतलसंचारिणी कमलिनीमिव दर्शयन्त्यो ददृशुः । उदपादि च सहसा सरभससंचलनजन्मा, मधुरसारणास्फालितवीणारवकोलाहलबहलः, रसनारवाहूतसारसरसितसंभिन्नः, स्खलितचरणतलताडितसोपानजातगम्भीरध्वनिप्रहृष्टानामवरोधशिखण्डिनां केकारवैरनुगम्यमानः, नवजलधररवभयचकितकलहंसकोलाहलकोमलः, मकरध्वजविजयघोषणानुकारी, परस्परविघट्टनारणिततौरेतरहारमणीनां रमणीनां श्रोत्रहारी, हर्नाकुक्षिषु प्रतिरवनिर्बादी भूषणनिनादः । *********** मयूर्य इव विराजन्त्यः । पूर्वनायिकानामिन्द्रायुधरागरुचिराम्बरपरिधानवत्त्ववर्णनादेतदुपमानम् । काश्चिदिति । अर्धं पीतं पानविषयीकृत येष्वेवंविधा उज्झितास्त्यक्ता मणिचषका रत्ननिर्मितपानभाजनानि याभिस्ताः । स्फुरितो देदीप्यमानो रागो रक्तिमा येष्वेवंविधैरधरपल्लवैर्दन्तच्छदकिसलयैर्मधुरसमिव कादम्बरीरसमिव क्षरन्त्यः क्षरणं कुर्वत्यः । रक्तत्वसाम्यादधररागस्य मधुरसोपमानमिति भावः । ललना हऱ्यातलानि समारुरुहुरित्यन्वयस्तु प्रागेवोक्तः । अन्याश्चेति । अन्याः काश्चन स्त्रियश्चन्द्रापीडं ददृशुद्राक्षुः । कीदृश्यः । मरकतस्याश्मगर्भस्य ये वातायना गवाक्षास्तेषां विवराणि रन्ध्राणि तेभ्यो विनिर्गतं बहिरागतं मुखमण्डलं यासां ताः । कमिव । विकचं स्फीतं कमलकोशपुट यस्यामेवंविधामम्बरतलसंचारिणीं व्योमतलगामिनी कमलिनीमिव दर्शयन्त्य आत्मानं प्रकाशयन्त्यः । अत्र नीलत्वसाम्यान्मरकताम्बरयोः साम्यं वर्तुलत्वसाम्यान्मुखकमलयोः साम्यं च प्रदर्शितम् । ततो भूषणनिनादोऽङ्गाभरणध्वनिः सहसा सद्य उदपायुत्पन्नः । अथ ध्वनि विशेषयन्नाह - सरभसेति । सरभसं सत्वरं यत्संचलनं गमनं तस्माज्जन्मोत्पत्तिर्यस्य स तथा । मधुरं यथा स्यात्तथा सारणासु तन्त्रीष्वास्फालिता या वीणा वल्लक्यस्तासां रवः शब्दस्तज्जनितो यः कोलाहलः कलकलस्तेन बहलो दृढः । रसना काञ्ची तस्या रवेण शब्देनाहूता आमन्त्रिता ये सारसा लक्ष्मणास्तेषां रसितं शब्दितं तेन संभिन्नो मिश्रितः । स्खलिताः स्खलनां प्राप्ता ये चरणाः प्रादास्तेषा तलेन ताडितं हतं यत्सोपानजातमारोहणसमूहं ततो यो गम्भीरध्वनिर्मन्द्रध्वनिस्तेन प्रहृष्टानां हर्षितानामवरोधशिखण्डिनामन्तःपुरमयूराणा केकारवैरनुगम्यमानः । नवो नवीनोऽकालसंभवो यो जलधरो मेघस्तस्य यो रवः शब्दस्तस्माद्यद्भयं तेन चकितास्त्रस्ता ये कलहंसाः कादम्बास्तेषां कोलाहलस्तेन कोमलो मधुरः । हर्षप्रकर्षाद्वाद्यमानपटहध्वनेर्नवजलधरध्वनिसाम्यम् । मकरध्वजस्यकन्दर्पस्य या विजयघोषणा त्रैलोक्यं मया जितमित्युद्धोषणं तस्या अनुकारी सादृश्यकरणशीलः । परस्परं यद्विशेषेण घट्टनं संश्लेषस्तेनारणिताः शब्दितास्तारतरा आकरशुद्धोद्भवा अतिमनोहरा हारमणयो यासामेवंविधानां रमणीनां स्त्रीणां श्रोत्रहारी कर्णमनोहरः । हर्नाकुक्षिषु गृहकोणेषु प्रतिरवनिर्बादः प्रतिच्छन्दध्वनिर्विद्यते यस्य स तथा । ततो भषणध्वनिरूदपादीत्यन्वयस्त प्रागेवोक्तः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 नपुरमणिभ्यः समुत्थितानि उद्गतानि इन्द्रायुधानि इन्द्रधनुःसदृशनानावर्णप्रभामण्डलानि यासां तत्तया, परिचयवशादनुगता गृहमयूरिका यासा ता इव । मयूरीणां यथा नानावर्णमयपक्षशालित्वं तथा नपुरमणीनामपि विविधरागकान्तिशालित्वम् । ततश्च नपुरमणीना विविधरङ्गशालितयैव अनुगतमयूरिकात्वोत्प्रेक्षेत्यर्थः । 2 अर्धपीतानि पश्चादुझिातानि मणिनिर्मितानि चषकाणि याभिस्ता इत्यर्थ उचितः । चषकाणां तत्स्थितमद्येषु लक्षणा । 3 अत्र स्त्रियः कमलिनी(कमलखण्ड)स्थानीयाः, तन्मुखानि च विकचकमलपुष्पस्थानीयानीत्याशयः । 4 स्खलितचरणतलताडनेनैव सोपानश्रेण्या मेघगम्भीरो ध्वनिः, तेनैव मयूराणां हंसानां च जलदभ्रान्तिरिति ज्ञेयम् । 5 अतिबहुमूल्या अतिस्थूला वा । पाठा० - १ परिचर्या. २ विराजयन्त्यः. ३ दीर्घ. ४ पुटाम्बर. ५ साधारण. ६ कोलाहलः. ७ गृहसारस. ८ चरणताडित. ९ मणिसोपान. १० प्रहृष्टताम्. ११ हसकुल. १२ तारहार. (184 कादम्बरी । कथायाम् Page #198 -------------------------------------------------------------------------- ________________ मुहूर्तादिव युवतिजननिरन्तरतया नारीमया इव प्रासादाः, सालक्तकपदकमलविन्यासैः पल्लवमयमिव क्षितितलम्, अङ्गनाङ्गप्रभाप्रवाहेण लावण्यमयमिव नगरम्, आननमण्डलनिवहेन चन्द्रबिम्बमयमिव गगनतलम्, आतपनिवारणायोत्तोनितकरतलजालकेन कमलवनमयमिव दिक्चक्रवालम्, आभरणांशुकलापेनेन्द्रायुधमय इवातपः, लोचनमयूखलेखासंतानेन नीलोत्पलदलमय इव दिवसो बभूव । कौतुकप्रसारितनिश्चललोचनानां च पश्यन्तीनां तासामादर्शमयानीव सलिलमयानीव स्फटिकमयानीव हृदयानि विवेश चन्द्रापीडाकृतिः । आविर्भूतमदनरसानां चान्योन्यं सपरिहासाः सविश्रम्भाः ससंभ्रमाः सेाः सोत्प्रासाः साभ्यसूयाः सविलासाः समन्मथाः सस्पृहाश्च तत्क्षणं रमणीयाः प्रससुरालापाः । तथाहि 'त्वरितगमने, मामपि प्रतिपालय । दर्शनोन्मत्ते, गृहाणोत्तरीयम् । उल्लासयालकलतामाननावलम्बिनीम् । मूंढे, चन्द्रलेखामुपाहर । उपहारकुसुमस्खलितचरणा पतसि - *********** मुहूर्तादिव मुहूर्तानन्तरं युवतिजनैः स्त्रीजनैर्निरन्तरतया निबिडतया प्रासादा भूपसद्मानि नारीमया इव स्त्रीभिर्निष्पन्ना इव बभूवुः । सालक्तक सयावकं यत्पदकमलं चरणपद्मं तस्य विन्यासैः स्थापनैः क्षितितलं वसुधातलं पल्लवमयमिव किसलयमयमिवासीत् । अङ्गनाना योषितामङ्गस्य शरीरस्य प्रभाप्रवाहेण कान्तिधारया नगरं द्रङ्ग लावण्यमयमिव चातुर्यमयमिवासीत् । आननं मुखं तस्य मण्डलम् । वर्तुलाकृतित्वात् । तेषां निवहेन समूहेन गगनतलं व्योमतलं चन्द्रबिम्बमयमिवासीत् । आतपनिवारणाय सूर्यालोकदूरीकरणायोत्तानितान्यूर्वीकृतानि यानि करतलानि तेषां जालकेन समूहेन दिक्चक्रवालं दिशां चक्र कमलवनमयमिवासीत् । आभराणानां भूषणानामंशवः किरणास्तेषां कलापेन समूहेनातप इन्द्रायुधमय इवासीत् । लोचनानां नेत्राणां या मयूखलेखाः कान्तिराजयस्तासां संतानेन परंपरया दिवसो नीलोत्पलदलमय इव बभूव । नीलनलिनदलैर्निष्पन्न इवेत्यर्थः । कौतुकेन कुतूहलेन प्रसारितानि विस्तारितान्यतएव निश्चलानि स्थिराणि लोचनानि नेत्राणि यासामेवंविधानां पश्यन्तीनां विलोकयन्तीनां तासां योषितां हृदयानि चन्द्रापीडाकृतिविवेश प्रविष्टा । हृदयानि विशेषयनाह - आदर्शति । आदर्शो मुकुरस्तन्मयानीव तद्रूपाणीव । सलिलं जलं तन्मयानीव । स्फटिकः प्रसिद्धस्तन्मयानीव । प्रतिबिम्बसाधयदितेषामुपमानम् । आविरिति । आविर्भूतः प्रकटीभूतो मदनरसः कामरसो यासामेवंविधानां कामिनीनामन्योन्यं परस्परं तत्क्षणं तस्मिन्समये रमणीया मनोहरा आलापाः संलापाः प्रससुर्विस्तारं प्रापुः । आलापान्विशिनष्टि - सपरीति । सह परिहासेन नर्मवचनेन वर्तमानाः सपरिहासाः । सह विश्रम्भेण विश्वासेन वर्तमानाः सविश्रम्भाः । सह संभ्रमेण भयेन वर्तमानाः ससंभ्रमाः । सहेjया परासहनलक्षणया वर्तमानाः सेाः । सहोत्प्रासेन वितर्केण वर्तमानाः सोत्प्रासाः । सहाभ्यसूययान्यगुणासहनात्मिकया वर्तमानाः साभ्यसूयाः । सह विलासेन नेत्रजेन वर्तमानाः सविलासाः । सह मन्मथेनानङ्गेन वर्तमानाः समन्मथाः । सह स्पृहया वाञ्छया वर्तमानाः सस्पृहाः । तानेव प्रदर्शयन्नाह - तथाहीति । त्वरितं शीघ्रं गमनं यस्यास्तस्या संबोधनं हे त्वरितगमने । मां सखीमपि प्रतिपालय । गृहीत्वा गच्छेत्यर्थः । दर्शनेऽवलोकन उन्मत्ता ग्रथिला तस्याः संबोधनं हे दर्शनोन्मत्ते । उत्तरीयमुपरिवस्त्रं गृहाण । पतन्तं निवारयेत्यर्थः । हे मूढेऽनभिज्ञे । आननावलम्बिनीं मुखोपरि सस्तामलक - टिप्प० - 1 सौन्दर्यमयमिति तात्पर्यम् । 2 उत्प्रासेन मन्दहासेन सहिताः, 'उत्प्रासः स मनाक् स्मितम् अमरः । 3 उल्लासय इतः पूर्वं 'चपत्वे' इति सवोधनं । इदं त्वतनम् । पाटा० - १ अङ्गप्रभा; अङ्गनानामङ्गप्रभा. २ उत्तानितेन. ३ आभरणांशुककलापेन. ४ साभ्यसूयालोचन. ५ अन्योन्यतः. ६ अतिरमणीयाः, अभिरमणीयाः. ७ चपले उल्लासय. ८ चन्द्रलेखे किमुपहार. ९ मुहुरुपाहर. १० समुपाहर. - - - - - - - - - - - - - - - - - - - - - - - - - - चन्द्रापीडप्रवेशे नारीणां भावालापाः पूर्वभागः । 185 Page #199 -------------------------------------------------------------------------- ________________ I मदनान्धे संयमय मदनिश्चेतने, केशपाशम् । उत्क्षिप चन्द्रापीडदर्शनव्यसनिनि, काञ्चीदामकम् । उत्सर्पय पापे, कपोलदोलायितं कर्णपल्लवम् । अहृदये, गृहाण निपतितं दन्तपत्रम् | यौवनोन्मत्ते, विलोक्यसे जनेन स्थगय पयोधरभारम् । अपगतलज्जे, शिथिलीभूतमाकलय दुकूलम् । अलीकमुग्धे, द्रुततरमागम्यताम् । कुतूहलिनि, देहि नृपदर्शनान्तरम् । असंतुष्टे, कियदालोकयसे, । तरलहृदये, परिजनमपेक्षस्व । पिशाचि, गैलितोत्तरीया स्यसे जनेन । रागावृतनयने, पश्यसि न सखीजनम् । अनेक भङ्गिविकारपूर्णे, दुःखमकारणायासितहृदया जीवसि । मिथ्याविनीते, किं व्यपदेशवीक्षितैः, विश्रब्धं विलोकय । यौवनशालिनि, किं पीडयसि पयोधरभारेण, अतिकोपने, पुरतो भव । मत्सरिणि, किमेकाकिनी रुणत्सि वातायनम् । अनङ्गपरवशे, मदीयमुत्तरीयांशुकमुत्तरीयतां नयसि । राँगासवमत्ते, निवारयात्मानम् । उज्झितधैर्ये, किं धावसि गुरुजनसमक्षम् । उल्लसत्स्वभावे, किमेवमाकु - 1 ***: ****** लतां केशलतामुल्लासयोर्श्वीकुरु । हे मदनान्धे, चन्द्रलेखामलिकाभरणमुपाहर दूरीकुरु । उपहारार्थं पूजार्थं यानि कुसुमानि तैः, स्खलितचरणा पतसि । पतिष्यसीत्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमानः । हे मदनिश्चेतने, केशपाशमलकसमूह संयमय सम्यग्बन्धनं कुरु । हे चन्द्रापीडदर्शनव्यसनिनि, काञ्चीदामकं रसनादामोत्क्षिपौच्चैर्नय । हे पापे, कपोलदोलायितं कपोलावलम्वि कर्णपल्लवमुत्सर्पयोर्ध्वं कुरु । हे अहृदये हृदयवर्जिते । निपतितं सस्तं दन्तपत्रं कर्णाभरणं गृहाण स्वीकुरु । हे यौवनोन्मत्ते, यौवनं तारुण्यं तेनोन्मत्ते, पयोधरभारं स्थगयाच्छादय । जनेन विलोक्यसे आगन्तुकलोकेन दृग्विषयीक्रियसे । हे अपगतलज्जे, अपगता दूरीभूता लज्जा यस्यास्तस्याः संबोधनम्, शिथिलीभूतं श्रलथीभूतं दुकूलं दुगूलमाकलय संयमय । हे अलीकमुग्धे, त्वं मुग्धा नासि । किंतु विं प्रतिपन्नासि । द्रुततरं शीघ्रतरमागम्यताम् । किमर्थं विलम्बं करोषि । हे कुतूहलिनि, कुतूहलं विद्यते यस्यामिति तस्याः संबोधनम्, नृपदर्शनार्थमन्तरं विचलं देहि । 'विचालं मध्यमन्तरे' इति कोशः । हे असंतुष्टे संतोषवर्जिते, कियत्कियन्मात्रमालोकयसे वीक्षसे । हे तरलहृदये चञ्चलचित्ते, परिजनं परिच्छदमपेक्षस्वापेक्षां कुरु । हे पिशाचि हे राक्षसि, गलितं स्वस्थानात्सस्तमुत्तरीयं संव्यानं यस्या एवंविधा त्वं जनेन लोकेन हस्यसे । हे रागावृतनयने रागेण कामरागेणावृते आच्छादिते नयने लोचने यस्यास्तस्याः संबोधनम्, सखीजनमालिजन न पश्यसि न विलोकयसि । अनेकेति । अनेके ये भङ्गिविकाराः कौटिल्यविकारास्तैः पूर्णे भृते हे सखि, अकारणेन निमित्तव्यतिरेकेणायासितं खेदितं हृदयं ययैवंभूता सती दुःखं दुःखरूपमेव । न सुखेनेत्यर्थः । जीवसि प्राणान्धत्से । हे मिथ्याविनीते हे असत्येनं विनयकारिणि, व्यपदेशवीक्षितैः कपटावलोकितैः किम् । विश्रब्धं सविश्वासं यथा स्यात्तथा विलोकय पश्य । हे यौवनशालिनि हे तारुण्यशोभिनि, पयोधरभारेण स्तनभारेण किं पीडयसि किं पीडां जनयसि । मदुपरि पतनेनेति भावः । अतिकोपने हे चण्डि पुरतोऽग्र भव । हे मत्सरिणि हे अमर्षिणि, एकाकिनी वातायनं गवाक्षं किं रुणत्सि रोधनं कुरुषे । हे अनङ्गपरवशे हे मदनायत्ते, मदीयमुत्तरीयांशुकमुत्तरीयतामुपरिवस्त्रतां नयसि प्रापयसि । हे रागासवमत्ते रागः प्रीतिः स एवासवः सीधु तेन मत्ते क्षीबे, आत्मानं निवारय वारणां कुरु । अतिरागवशान्मरणं भविष्यतीति भावः । हे उज्झितधैर्ये त्यक्तसाहसे, गुरुजनसमक्षं - टिप्प० - 1 पतितां चन्द्रलेखाम् ('चाँद' 'बैंदा') उपाहर उत्थापय, गृहाणेत्यर्थः । 2 अवकाशम्, मह्यमपि दर्शनाय स्थानं देहीत्याशयः । 3 चन्द्रापीडलाभासंभवादकारणमेव हृदयस्यायासः दुःखमयं च जीवनमित्याशयः । 4 मिथ्यैव विनयाऽभिनयं प्रदर्शयसीत्यर्थः । पाठा० - १ भागम्. २ दर्शनान्तरम्. ३ पिशाचिके. ४ वलित. ५ विहस्यसे. ६ आलोकय. ७ रागमत्ते. 186 कादम्बरी | कथायाम् Page #200 -------------------------------------------------------------------------- ________________ लीभवसि । मुग्धे, निगृहस्व मदनज्वरजनितपुलकजालकम् । असाध्वाचरणे, किमेवमुत्ताम्यसि । बहुविकारे, अङ्गभगवलनायासितमध्यभागा वृथा खिद्यसे । शून्यहृदये, स्वभवनान्निर्गतमपि नात्मानमवगच्छसि । कौतुकाविष्टे, विस्मृतासि निःश्वसितुम्, अन्तःसंकल्परचितरतसमागमसुखरसनिमीलितलोचने, समुन्मीलय लोचनयुगलम्, अतिक्रामत्ययम् । अनङ्गशरप्रहारमूर्छिते, रविकिरणनिवारणाय कुरु शिरस्युत्तरीयांशुकपल्लवम् । अयि सतीव्रतग्रहगृहीते, द्रष्टव्यमपश्यन्ती वञ्चयसि लोचनयुगलम् । अधन्ये, हतासि परपुरुषादर्शनव्रतेन । प्रसीदोत्तिष्ठ सखि, पश्य रतिविरहितं साक्षादिव भगवन्तमगृहीतमकरध्वजं मकरध्वजम् । अयमस्य सितातपत्रान्तरेण अलिकुलनीले शिरसि तिमिरशङ्कानिपतित इव शशिकरकलापो मालतीकुसुमशेखरोऽभिलक्ष्यते । एतदस्य कर्णाभरणमरकतप्रभाश्यामायितमुपरचितविकचशिरीषकुसुमकर्णपूरमिव कपोलतलमाभाति । अयमस्य हारान्तर्निविष्टारु - *********** गुरुजनाः पूज्यजनास्तेषां समक्ष प्रत्यक्षं किं धावसि किं प्रधावन करोषि । हे उल्लसत्स्वभावे प्रवर्धमानाशये । किमिति प्रश्ने । एवममुना प्रकारेणाकुलीभवसि व्याकुलता भजसे । हे मुग्धे ग्रथिले, मदनज्वरेण कामज्वरेण जनितं यत्पुलकजालक रोमाञ्चसमूह निगृहस्व संवृत करु। हे असाध्वाचरणे अशभचरिते । किमेवमत्ताम्यसि कथं ग्लानि भजसि । हे बहविकारे हे अनेकविकारवति, अङ्गाना भङ्गाः संस्थानविशेषास्तेषां वलनं संकोचस्तेनायासितः खिन्नो मध्यभागोऽवलग्नं यस्या एवंविधा त्वं वृथा मधा खिद्यसे खेद प्राप्नोषि । हे शून्यहृदये शून्यचित्ते । स्वभवनानिजगृहादात्मानं निर्गतमपि बहिरागतमपि नावगच्छसि न जानासि । हे कौतुकाविष्टे हे कुतूहलगृहीते । निःश्वसितुं निःश्वासं ग्रहीतुं विस्मृतासि । कौतुकेनैवं व्याक्षिप्तचित्ताभूर्यथोच्छासमपि न गृह्णासीति भावः । अन्तःसंकल्पेन मनोध्यवसायेन रचितो यो रतसमागमो मैथुनप्राप्तिस्ततो यत्सुखं सातं तस्य यो रस आन्तरप्रीतिस्तेन निमीलिते मुद्रिते लोचने यस्यास्तस्याः संबोधनम्, लोचनयुगलं समुन्मीलय विकासय । अयं चन्द्रापीडोऽतिक्रामति गच्छति । हे अनङ्गशरप्रहारमूर्छिते हे कामबाणाघातनिश्चेतने, रविकिरणनिवारणाय सूर्यतापापनोदायोत्तरीयांशुकपल्लवं शिरसि मस्तके कुरु विधेहि । अयीति कोमलामन्त्रणे । हे सतीव्रतग्रहगृहीते सतीव्रत पातिव्रत्यं तल्लक्षणो यो ग्रहस्तेन गृहीते, ग्रथिले इत्यर्थः । द्रष्टव्यं द्रष्टुं योग्यमपि चन्द्रापीडमपश्यन्त्यनवलोकयन्ती लोचनयुगल वञ्चयसि वञ्चना करोषि । हे अधन्ये हे अभाग्ये, परपुरुषाणां यददर्शनव्रतं तेन हतासि पीडितासि । चन्द्रापीडस्तु न तथाविधः पुरुषो येन दर्शनादेव व्रतभङ्गः स्यादिति भावः । प्रसीद प्रसन्ना भव । हे सखि, उत्तिष्ठोत्थानं कुरु । रतिविरहितं रतिरहितमगृहीतो मकरचिह्नितो ध्वजो येनैवभूतं साक्षादिव भगवन्तं मकरध्वजं पश्य विलोकय । अयमिति । अस्य चन्द्रापीडस्य सितं यदातपत्र छत्रं तस्यान्तरेणान्तराऽलिकुलं भ्रमरकुलं तद्वन्नीले हरिते शिरसि मस्तकेऽयं मालतीकुसुमशेखरस्तिमिरस्य या शङ्का शङ्कनं तेन निपतितः शशिकरकलाप इव चन्द्ररश्मिसमूह इवाभिलक्ष्यते जनैर्जायते । तिमिरस्य शशिकरबाध्यत्वात्तच्छकया तद्धातयितुं निपतित इवेत्युत्प्रेक्षा । श्वेतत्वसाम्यान्मालतीकुसुमशेखरस्य चन्द्रकरकलापोपमानम् । एतदिति । अस्य कुमारस्यैतत्कपोलतलं गल्लात्परो भाग आभाति शोभते । कीदृश कपोलस्थलम् । कर्णाभरणस्य या मरकतप्रभा तया श्यामायितं श्यामवदाचरितम् । किमिव । उपरचितो निर्मितो विकचशिरीषकुसुमस्य कर्णपूरो यस्मिन्नेवभूतमिव । मरकतप्रभायाः श्यामत्वात्तयालंकृतस्य कपोलस्य - - - - - - - - - - - - टिप्प० -1 चन्द्रापीडालाभादित्यर्थः । - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ अंसावरणे. २. विविधागावलन; विविधाङ्गभङ्गवलन; विविधाङ्गभङ्गचलचलन. ३ सुरत; रति. ४ अधमे. ५ परिहारव्रतेन. S चन्द्रापीडप्रवेशे नारीणां भावालापाः पूर्वभागः । 187 Page #201 -------------------------------------------------------------------------- ________________ णमणिकिरणकलापच्छलेन हृदयं विविक्षुरभिनवयौवनराग इव बहिः परिस्फुरति । एतदनेन चामरकलापान्तरित एव वीक्षितम् । एतत्किमपि वैशम्पायनेन सह समामन्त्र्य दशनमयूखलेखाधेवलीकृतदिक्चक्रवालं हसितम् । एषोऽस्य शुकपक्षतिहरितरागेणोत्तरीयांशुकप्रान्तेन बलाहकस्तुरगखुरचलनजन्मानं लैग्नमग्रकेशेषु रेणुमपहरति । अयमनेन लक्ष्मीकरकमलकोमलतलः समुत्क्षिप्य तिर्यक्तुरङ्गमस्कन्धे निक्षिप्तश्चरणपल्लवः सलीलम् । अयमनेन च ताम्बूलयाचनार्थमुत्तानिततलो दीर्घाङ्गुलिराताम्रपुष्करकोशशोभी गजेनेव शैवालकवलग्रासलालसः प्रसारितः करः । धन्या सा या लक्ष्मीरिव निर्जितकमलं करतलमस्य वसुंधरासपत्नी ग्रहीष्यति । धन्या च देवी विलासवती सकलमहीमण्डलभारधारणक्षमः ककुभा दिग्गज - *********** शिरीषकुसुमकर्णपूरीभावेऽपि तद्वत्त्वं बोध्यमिति भावः । एतस्येति विषये षष्ठी । फलस्येच्छेतिवत् । एतद्विषये योऽभिनवयौवनेनाभिनवतारुण्येन योऽस्माकं रागः स हारा मुक्ताकलापास्तेष्वन्तर्निविष्टा अन्तःप्रविष्टा येऽरुणमणयः पद्मरागास्तेषां किरणास्त्विषस्तेषां कलापच्छलेन बहिः परिस्फुरति हृदयं चित्तं विविशुः प्रवेष्टुमिच्छुरिव बहिः परिस्फुरति बहिः प्रसर्पति । यद्वाभिनवयौवनरागो हृदयं विविक्षुरिव पूर्वोक्तच्छलेन बहिः परिस्फुरति । एतदिति । एतद्वंस्त्वभिनवमनेन चन्द्रापीडेन चामरकलापान्तरैर्मध्येरित एवेतः प्रदेश एव वीक्षितमवलोकितम् । अनेन किमप्येतदज्ञातस्वरूपं वैशम्पायनेन सह समामन्त्र्य संभाषणं कृत्वा दशनमयूखलेखाधवलीकृतदिक्चक्रवाल यथा स्यात्तथा हसितम् । एषोऽस्येति । एष बलाहकोऽस्य राज्ञैः शुकः कीरस्तस्य पक्षतिः पक्षस्तद्वद्धरितरागो नीलरागो यस्मिन्नेवभूतेनोत्तरीयांशुकप्रान्तेन संव्यानवस्त्रप्रान्तेन । तुरगखुरचलनजन्मानमिति । तुरुगा अधास्तेषां खुराः शफास्तेषां चलनं गमनं तस्माज्जन्मोत्पत्तिर्यस्यैवंविधं रेणु धूलिमाकेशेषु लग्नमपहरति दूरीकरोति । अनेनेति । अनेन चन्द्रापीडेन लक्ष्म्या यत्करकमलं तद्वत्कोमल मृदु तलं यस्य स तथा चरणपल्लवस्तुरङ्गमस्कन्धे तिर्यक्समुत्क्षिप्य तिर्यगुत्पाद्य सलील यथा स्यात्तथा निक्षिप्तः स्थापितः । अयमिति । अनेन चन्द्रापीडेन ताम्बूलं नागवल्लीदलं तयाचनार्थमयं करो हस्तः शुण्डा च गजेनेव प्रसारितो विस्तारितः । कर विशिनष्टि - उत्तानितेति । उत्तानितं तलं यस्य स तथा । दीर्घा अङ्गुलयो यस्य स तथा । आ ईषत्ताम्रो रक्तवर्णः पुष्करकोशः कमलकोशस्तद्वच्छोभत इत्येवंशीलः स तथा । पक्षे पुष्करं शुण्डाग्रम् । ताम्बूलपत्राणां तत्साम्येनाह - शैवेति । शैवालं शेवालं तस्य कवलो गुडस्तस्य ग्रासो भक्षणं तत्र लालसो लोलुपः । धन्येति । सा स्त्री धन्या भाग्यवती यास्य निर्जितकमलं करतल लक्ष्मीरिव ग्रहीष्यति । अतएव वसुंधरायाः सपत्नीत्युक्तम् । धन्या चेति । चकारः पुनरर्थे । देवी विलासवती धन्या महाभाग्यवती । एतदर्थं स्पष्टयन्नाह - सकलेति । यया विलासवत्या सकलं यन्महीमण्डलं तस्य यो भारो वीवधस्तस्य - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 अस्य वक्षसि हारान्तर्गतरक्तमणीनामयं रक्तिमा नास्ति किन्तु अभिनवो यौवनरागोऽस्य हृदयं प्रवेष्टुमिच्छति परं नाद्यापि प्रवेश लब्धवान्, अत एव स बहिः स्फुरति । शैशवं पराजित्य नाद्यापि यौवनस्य पूर्णाधिकारोभूदिति सन्धिविशेषो व्यङ्ग्यः । 2 अनेन (चन्द्रापीडेन) चामरकलापस्य अन्तरः मध्यप्रदेशैः इत एव मा प्रत्येव एतद् वीक्षितम् । एतदिति दर्शनक्रियायाः परामर्शः । सेयं सविलासमन्मथा कस्याश्चिदुक्तिः । 3 राजकुमारस्य (चन्द्रापीडस्य) इत्यर्थः । 4 उत्थाप्य । पाठा० - १ अलकचामरकलापान्तरेरितविरलवीक्षितम्। अनेकचामरकलापान्तरितमस्य वीक्षितम्. २ धवलित. ३ आलग्न. ४ करतल. ५ कोमलदीर्घाङ्गुलिः. ६ कवललालसः; कवलग्रासवाञ्छया. ७ मण्डलधारण. 188 कादम्बरी । कथायाम् Page #202 -------------------------------------------------------------------------- ________________ इव गर्भेण यया व्यूढः । इत्येवंविधानि चान्यानि च वदन्तीनां तासामापीयमान इव लोचनपुटैः, आहूयमान इव भूषणरवैः, अनुगम्यमान इव हृदयैः, अनुबध्यमान इवाभरणरत्नरश्मिरज्जुभिः, उपह्रियमाण इव नवयौवनबलिभिः, शिथिलभुजलताविगलितधवलवलयनिकरे पदे पदे विवाहानल इव कुसुममित्रैाजाञ्जलिभिरवकीर्यमाणश्चन्द्रापीडो राजकुलसमीपमाससाद । क्रमेण च यामावस्थिताभिरनवरतकरटस्थलगलितमदमषीकरीभिरञ्जनगिरिमालामलिनाभिः कुञ्जरघटाभिरन्धकारितदिङ्मुखतया जलधरदिवसायमानमुद्दण्डधवलातपत्रसहससंकटमनेकद्वीपान्तरागतदूतशतसंकुलं राजद्वारमासाद्य तुरङ्गमादवततार । अवतीर्य च करतलेन करे वैशम्पायनमवलम्ब्य पुरः सविनयं प्रस्थितेन बलाहकेनोपदिश्यमानमार्गस्त्रिभुवनमिव पुञ्जीभूतम्, आगृहीतकनकवेत्रलतैः सितवारबाणैः सितकुसुमशेखरैः सितोष्णीषैः - *********** धारणे निर्वहणे क्षमः समर्थो गर्भेण गर्भत्वेन व्यूढो वर्धितः । कः कयेव । ककुभा दिशा गर्भेण मध्यभागेन दिग्गज इव व्यूढो धृतः । सोऽपि समग्रमहीभारधारणक्षमः उपसंहरन्नाह - इत्येवमिति । इति समाप्तौ । एवंविधानि पूर्वोक्तस्वरूपाण्यन्यानि चैभ्योऽनुक्तानि वचनानि च वदन्तीनां जल्पन्तीनां तासां स्त्रीणां लोचनपुटेरापीयमान इव । अत्यादरेण वीक्षणं पानमुच्यते । भूषणरवैराभरणध्वनिभिराहूयमान इव निमन्त्र्यमाण इव हृदयश्चित्तैरनुगम्यमान इवानुयायमान इव । आभरणरत्नानां रश्मयः किरणास्त एव रज्जवस्ताभिरनुबध्यमान इव । नवयौवनान्येव बलयस्तैरुपहियमाणः पूज्यमान इव । शिथिलाः श्लथा या भुजलता बाहुलतास्ताभ्यो विगलितानि च्युतानि धवलवलयनिकरः श्वेतकटकसमूहो यस्मिन्नेवंविधे पदे पदे प्रतिपदं विवाहानल इवोद्वाहवह्निरिव कुसुममित्रैः पुष्पसंपृक्तैर्लाजाञ्जलिभिरवकीर्यमाणो वर्धाप्यमानश्चन्द्रापीडो राजकुलसमीपमाससाद प्राप । क्रमेण परिपाट्या राजद्वारमासाद्य प्राप्य तुरङ्गमादश्चादवततारोत्तीर्णः । अथ राजद्वारं विशिनष्टि - यामेति । यामावस्थिताभिः सेवावसरस्थिताभिः । अनवरतं निरन्तरं करटस्थलाद्गण्डस्थलाद्गलितो यो मदो दानं स एव मषीनामाम्बुकर्दमस्तं कुर्वन्तीति कार्यस्ताभिः । अञ्जनगिरीणां या माला पङ्क्तिस्तद्वन्मलिनाभिर्मलीमसाभिः कुञ्जरघटाभिर्हस्तिसंहतिभिरन्धकारितानि यानि दिङ्मुखानि तेषां भावस्तत्ता तया जलधरदिवसायमानं मेघदिनमिवाचरमाणमुद्दण्ड प्रचण्डं यद्धवलातपत्राणां वेतच्छत्राणां सहसं तेन संकटं संकुलम् । अनेके द्वीपान्तराद्देशान्तरादागता ये दूताः सदेशहारकास्तेषां शतानि तैः संकुलं व्याप्तम् । अन्वयस्तु प्रागेवोक्त । च पुनरर्थे । अवतीर्याश्चादुत्तीर्य करतलेन हस्ततलेन कृत्वा करे हस्ते वैशम्पायनं मन्त्रिसुतमवलम्ब्यावलम्बनीकृत्य पुरोऽग्रे सविनयं विनयसहितं यथा स्यात्तथा प्रस्थितेन गन्तुं प्रवृत्तेन बलाहकेनोपदिश्यमानो निवेद्यमानो - - - - - - - - - - - - - - - टिप्प० - 1 गर्भेण ययाऽयमूढः । इत्यपि पाठः प्रचलितः । अयम् ऊढो धारितः । 2 निकरित्यपि पाठः । वासनोदेकात् शिथिलाभ्यो भुजलताभ्यो विगलितो धवलवलय (हीरकादिकङ्कण)समूहो येषु तादृशैः कुसुममित्रैर्लाजाञ्जलिभिर्विवाहानल इवाऽवकीर्यमाणः । पाणिग्रहणसमयेपि अग्नेरुपरि लाजाक्षेपः, राजागमनेपि लाजाक्षेप इति द्वयोः साम्यम् । तथा च कालिदासोपि - 'अवाकिरन् बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः। 3 मदमसीपङ्ककरीभिः । इत्यपि पाठः । मदा एव मसीपङ्काः तेषा करीभिः कारिणीभिः । - - - - - - - - - - पाटा० - १ गर्भणायमूढः. २ यया च. ३ निबध्यमानः. ४ शिथिलित. ५ निकरैः. ६ मिश्र. ७ विगलित. ८ मषीपङ्ककरीभिः; मषीपट्टधराभिः. ९ समाकुलम्, १० वाणधारिभिः. ११ सिताङ्गरागैः. राजभवनम् ( पूर्वभागः । 489 Page #203 -------------------------------------------------------------------------- ________________ सितवेषपरिग्रहतया वेतद्वीपसंभवैरिव कृतयुगपुरुषैरिव महाप्रमाणैर्दिवानिशमालिखितैरिवोत्कीर्णेरिव तोरणस्तम्भनिषण्णैारपालैरनुज्झितद्वारदेशम्, अनेकसंयवनचन्द्रशालाविटङ्कवेदिकासंकटशिखरैरभ्रंकषैरैपहसितसितकैलासशोभैरमलसुधावदातैः सप्रालेयशैलमिव महाप्रासादैरनेकवातायनविवरविनिर्गतयुवतिकिरणसहसतया कनकश्रृङ्खलाजालकेनेवोपरि विस्तीर्णेन विराजमानम्, अन्तर्गतायुधनिवहाभिराशीविषकुलसंकुलाभिः पातालगुहाभिरिवातिगम्भीराभिरायुधशालाभिरुपेतम्, अबलाचरणालक्तकरसरक्तमणिशकलैः शिखरनिलीनशिखिकुलकृतककारवकलकलैः क्रीडापर्वतकैरुपशोभितम्, उज्ज्वलवर्णकम्बलावगुण्ठितकनकपर्याणाभिः प्रलम्बचामरकलापचुम्बितचलकर्णपल्लवाभिः कुलयुवतिभिरिवोपारूढशिक्षाविनयनिभृता - *********** मार्गः पन्था यस्यैवंभूतो राजकुलं विवेशेति दूरेणान्चयः । अत्र कुलं गृहम् । 'कुलं गृहेऽपि ताटङ्के कुबेरे चैव कुण्डले' इत्यनेकार्थः । पुजीभूतमिव राशीभूतमिव त्रिभुवनम् । आगृहीतात्ता कनकवेत्रलता सुवर्णवेष्टिता वेत्रयष्टियः । सितः शुक्लो वारबाणः कञ्चुको येषां तैः । सितानि यानि कुसुमानि तेषां शेखरो येषां तैः । सितः श्वेत उष्णीषो मूर्घवेष्टनं येषां तैः । सितो यो वेषो नेपथ्यं तस्य परिग्रहः स्वीकारस्तस्य भावस्तत्ता तया । श्वेतद्वीपसंभवैरिव । श्वेताभिधानद्वीपे सर्वः श्वेतवर्णोपयुक्तः स्यादित्यभिप्रायः । कृतयुगपुरुषैरिव कृतयुगः सत्ययुगस्तत्रोत्पनैः पुरुषैनररिव । महाप्रमाणैरत्युच्चैर्दिवानिशमहर्निशमालिखितैरिव चित्रितैरिव । उत्कीर्णैरिवोत्कीर्य कर्षितैरिव । तोरण प्रसिद्धं तस्य यः स्तम्भस्तत्र निषण्णैः स्थितैस्तदवष्टम्भेनावस्थितैरेवंभूतैर्वारपालैौवारिकैरनुज्झितोऽपरित्यक्तो द्वारदेशो यस्य तत् । पुनः कीदृशम् । विराजमानं शोभमानम् । कैः कैः । प्रासादैर्देवभूपानां गृहैः । कीदृशैः । अनेकेति । अनेकानि संयवनानि, चतुःशालानि, चन्द्रशालाः शिरोगृहाणि विटङ्कः कपोतपालिका स चोन्नतप्रदेशः, वेदिकाः प्रसिद्धाः, ताभिः संकटानि संकीर्णानि शिखराणि गृहप्रान्ताग्राणि येषां तैरभ्रंकषैर्योमव्यापिभिरपहसितापहासास्पदीकृता सितकैलासस्य शोभा दीप्तियः । अमला निर्मला या सुधा तयावदातैः शुभैरेवंभूतैर्महाप्रासादैर्देवभूपानां गृहैः सप्रालेयशैलमिव हिमोपयुक्तगिरिमिव सुधाधवलितत्वेनोच्चत्वेन च द्वारदेशस्य शैलसाम्यम् । अनेके ये वातायना गवाक्षास्तेषां विवराणि रन्ध्राणि तेषु विनिर्गतं यावतीनां स्त्रीणां किरणसहसं तस्य भौवस्तत्ता तया । कनकश्रृङ्खलाजालकेनेवोपरिविस्तीर्णेन विस्तृतेन विराजमानमित्यर्थः । पुनः कीदृशम् । अतिगम्भीराभिरलब्धमध्याभिरायुधशालाभिः शस्त्रशालाभिरुपेत सहितम् । कीदृशीभिः । अन्तर्गतो मध्यगत आयुधनिवहः शस्त्रसमूहो यासु ताभिः । काभिरिव । आशीविषाः सस्तेिषां कुलानि तैः संकुलाभिाप्ताभिः पातालगुहाभिरिव बलिवेश्मकन्दराभिरिव । पुनः प्रकारान्तरेण तदेव विशेषयन्नाह - अबलेति । अबलाचरणानां वनितापादानां योऽलक्तकरसो यावकरसस्तेन रक्तानि मणिशकलानि रत्नखण्डानि येषु तैः, शिखरनिलीनैः सानुमध्यवर्तिभिः शिखिकुलैमयूरसमूहैः कृतस्यविहितस्य केकारवस्य कलकलः कोलाहलो येषु तैरेवंभूतैः क्रीडापर्वतकैः क्रीडाचलैरुपशोभितम् । उज्ज्वलेति । उज्ज्वलवर्णो यः कम्बलो रल्लकस्तेनावगुण्ठितमाच्छादितं कनकपर्याणं सुवर्णपल्ययनं यासु ताभिः । प्रलम्बानि यानि चामराणि तेषां कलापः समूहस्तेन चुम्बिताः सहिताश्चलाः कर्णपल्लवा यासां ताभिः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'संजवन' इत्यपि पाठः 'संजवनं त्विदम् । चतुःशालम्' इत्यमरः । 2 हिमशैलैः सहितमिव । 3 भूषणानां यत्किरणसहसमिति बोध्यम् । न किल युवतयोरवयः । 4 विनिर्गतं युवतिभूषणकिरणसहसं यस्मिन् तत्, तत्तया, इति बहुव्रीयुत्तरं तल्प्रत्यय उचितः । राजभवनस्य गवाक्षविवरेभ्यो भूषणकिरणा निर्गच्छन्ति, ते च कनकशृङ्खलावत्प्रतीयन्त इत्युत्प्रेक्षाशयः पाठा० - १ संयमन; संजवन. २ शालिका. ३ अपहसितकैलासशैलशोभैः, उपहसितकैलासशिखरशोभैः. ४ शैलमिव. ५ युवतिभूषणकिरण. ६ वितानेन; विततेन; वितानेन. ७ प्रचल; लम्ब. ८ कलापचल. ९ उपरूढ; उपगूढ. १० विनयेन निभृताभिः. 190 कादम्बरी ।) कथायाम् Page #204 -------------------------------------------------------------------------- ________________ भिर्यामकरेणुकाभिरशून्यकक्षान्तरम्, आलानस्तम्भनिषण्णेन च नवजेलधरघोषगम्भीरमनुगतवीणावेणुरवरम्यमास्फालितघर्घरिकाघर्घरमैनवरतसंगीतकमृदङ्गर्ध्वनिमामीलितलोचनत्रिभागेण वामदशनकोटिनिषण्णहस्तेन निश्चलकर्णतालेनाकर्णयता सलीलमुभयपाविलम्बिवर्णकम्बलतया विन्ध्यगिरिणेवाविष्कृतधातुविचित्रितपक्षसंपुटेनाधोरणगीतानन्दकृतमन्द्रकण्ठगर्जितेन मदजलशबलशङ्खशोभितश्रवणपुटेन रजनिकरबिम्बचुम्बिसंवर्तकाम्बुदवृन्दविडम्बकेन कर्णावलम्बिना काञ्चनमयेन कृतकर्णपूरमिवाङ्कुशेन मुखमुद्बहता मदजलमलिनेन द्वितीयेनेव कर्णचामरेण कपोलतलदोलायमानेन मधुकरकुलेनालंक्रियमाणेनात्युदग्रतया पूर्व - *********** उपारूढौ प्राप्तौ यौ शिक्षाविनयौ ताभ्यां निभृताभिर्भूताभिः । तत्र शिक्षा संज्ञादिज्ञानम्, विनयो नम्रता । अतएव कुलयुवतिभिरिव ता अपि शिक्षाविनयाभ्यां निभृताः स्युः । एवंविधाभिर्यामकरेणुकाभिश्चतुष्किकाहस्तिनीभिरशून्यं कक्षान्तरं गृहान्तरं यस्य तत् । आलानेति । आलानस्तम्भो गजबन्धनस्तम्भस्तत्र निषण्णेन स्थितेन गन्धमादननाम्ना गन्धहस्तिना सनाथीकृत एकदेशो यस्येति दूरेणान्वयः । अथ गजं विशेषयन्नाह - नवेति । नवजलधरो नवीनमेघस्तस्य यो घोषो ध्वनिस्तद्वद्गम्भीरम् । अनुगतः सहितो यो वीणावेणुरवस्तेन रम्य मनोहरम । आस्फालिता वादिता या घर्घरिका वायविशेषस्तस्या घर्घरम । घर्घरशब्दमिश्रमित्यर्थः । अनवरतं निरन्तरम । गीतनत्यवायत्रयं प्रेक्षणार्थे प्रयुक्तं संगीतकमुच्यते । तस्य यो मृदङ्गध्वनिर्मुरजरवस्तं सलीलं यथा स्यात्तथाकर्णयता श्रृण्वतात एवामीलितो निमीलितो लोचनत्रिभागो नेत्रत्रिभागो येन स तथा तेन । यद्वा गजानामवलोकनस्वभावोऽयमिति । वामेति । वामदशनकोटावपसव्यदन्ताग्रे निषण्णः स्थितो हस्तो येन (यस्य) तथा । अयमपि गजस्य स्वभावः । निश्चलः स्थिरः कर्णतालो यस्य स तथा तेन, केवलमेतद्गीतश्रवणमाहात्म्यम् । उभयेति । उभयपार्थेऽवलम्बत इत्येवंशीलो यो वर्णकम्बलः परिस्तोमस्तस्य भावस्तत्ता तया विन्ध्यगिरिणेव जलबालकेनेव । आविष्कृतेति । आविष्कृतो यो धातुगैरिकं तेन विचित्रितं पक्षसंपुटं यस्य । गजस्यापि कुथेनाच्छादितत्वेन तस्योपमानम् । विचित्रितपक्षसंपुटत्वादिति भावः । आधोरणेति । आधोरणा हस्तिपकास्तेषां गीतं गानं तस्माद्य आनन्दः प्रमोदस्तेन कृतं विहितं मन्द्रं मधुरं कण्ठगर्जित येन स तथा तेन । मदेति । मदजलं दानजलं तेन शबलः कर्बुरो यः शङ्खो भालध्रुवोरन्तरं तेन शोभितं विराजितं श्रवणपुट कर्णसंपुटं यस्य स तथा तेन । 'शङ्को निधौ ललाटास्थिन कम्बौ' इत्यमरः । रजनीति । रजनिकरबिम्बं चन्द्रबिम्बं चुम्बन्तीत्येवंशीला ये संवर्तकाम्बुदा लोकविनाशकालीना मेघास्तेषां वृन्दं समूहस्तद्विडम्बयत्यनुकरोति यः स तथा तेन । 'शेषाद्विभाषा' इति कप्प्रत्ययः । अनेन स्वच्छत्वेन वर्तुलत्वेन च शङ्खस्य चन्द्रसादृश्यं हस्तिनो जलधरसाम्यं च स्पष्टीकृतम् । कर्णेति । कर्णावलम्बिना काञ्चनमयेन स्वर्णनिष्पन्नेनाङ्कुशेन सृणिना कृतकर्णपूरमिव विहितश्रोत्राभरणमिव मुखमाननमुबहता धारयता । पुनः कीदृशेन । मधुकरकुलेन भ्रमरसमहेन कृत्वालंक्रियमाणेन । विभूष्यमाणेन । भ्रमरकुलं विशिनष्टि - कपोलेति । कपोलतलं गल्लात्परो भागस्तत्र दोलायमानेनेतस्ततो भ्रममाणेन । चञ्चलत्वसाम्यादुपमानान्तरमाह - कर्णेति । द्वितीयेनापरेण कर्णचामरेणेव । शुक्लत्वशङ्का निराकर्तुमाह - मदेति । मदजलं दानजलं तेन मलिनेन कृष्णेन । एतेन वर्णेनाप्युपमानस्य साम्यमाविष्कृतम् । तदवयवानां सगुणत्वं वर्णयितुमाह - पूर्वेति । अत्युदग्रतयात्युच्चतया पूर्वकायस्य - - - - - - टिप्प० - 1 कुलयुवतीना पक्षे शिक्षा गार्हस्थ्यपरिचालनचातुर्यानुकूला बोध्या । 2 प्रतिप्रहरं रक्षाप्राहरिकरूपेण बन्धनीयाः करेणुका यामकरेणुकाः । - - - पाठा० - १ यामक. २ जलधरगर्जितघोष. ३ अतनु. ४ अनवरतमृदुमृदङ्गध्वनिमामीलित; अनवरतसंगीतमृदुमृदङ्गध्वनिमतिमनोहरं किञ्चिदामीलित. ५ संगीत. ६ ध्वानम्. ७ पाचप्रलम्बित. ८ विचित्र. ९ चुम्बितावर्तक; चुम्बिनावर्तक; चुम्बितसंवर्तक. १० अम्बुदविडम्बकेन. ११ कर्णान्तलम्बिना. (राजभवनम् । पूर्वभागः । 111) Page #205 -------------------------------------------------------------------------- ________________ कायस्य वामनतया च जघनभागस्य पोतालादिवोत्तिष्ठता निशासमयेनेव परिस्फुरत्सार्धचन्द्रनक्षत्रमालेन शरदारम्भेणेव प्रकटितारुणचारुपुष्करेण वामनरूपेणेव कृतत्रिपदीविलासेन स्फटिकगिरितटेनेव लग्नसिंहमुखप्रतिमेन प्रसाधितेनेवालोलैकर्णपल्लवाहतमुखेन गन्धमादननाम्ना गन्धहस्तिना सनाथीकृतैकदेशम्, उज्ज्वलपट्टकम्बलपटप्रवारितपृष्ठैश्च रसितमधुरघण्टिकारवमुखरकण्ठैर्मज्जिष्ठालोहितस्कन्धकेसरबालैर्वनगजरुधिरपाटलसटैरिव केसरिभिः पुरोनिहितयवसराशिशिखरोपविष्टमन्दुरापालैरासन्नमङ्गलगीतध्वनिदत्तकर्णैरन्तः कपोलधृतमधु - *********** पुरोभागस्य जघनभागे वामनत्वं गजस्य गुण इत्याशयेनाह - वामनेति । वामनतया ह्रस्वतया जघनभागस्य पश्चाद्भागस्य । एतन्निमित्तादेवोव्प्रेक्षामाह - पातालेति । पातालाद्वसातलाद्वडवामुखादुत्तिष्ठता प्रादुर्भवता । निशासमयेनेव विभावरीकालेनेव । कीदृशेन । परिस्फुरन्ती दीप्यमानार्धचन्द्रोऽष्टमीचन्द्रस्तदाकृतिना मध्यमणिना सहवर्तमाना नक्षत्रमालाभरणं यस्मिन्स तेन । पक्षे सार्धचन्द्रा नक्षत्रमाला तारापङ्क्तिर्यस्मन्निति विग्रहः । पुनस्तमेव विशिनष्टि प्रकटितेति । प्रकटितमाविष्कृतमरुणं रक्तमतएव चारु मनोहरं पुष्करं शुण्डाग्रं येन स तथा तेन । केनेव । शरदारम्भेणेव घनात्ययप्रारम्भेणेव । तत्पक्षे पुष्कराणि कमलानि । 'राजीवपुष्करे' इति कोशः । शेषं पूर्ववत् । पुनर्विशेषतो विशेषयन्नाह - वामनेति । वामनरूपेणेव वामनावतारेणेव । उभयसाम्यमाह - त्रिपदीति । कृतो विहित एकं पादमुत्क्षिप्य पादत्रयेऽङ्गावस्थानं त्रिपदी तस्या विलासो विभ्रमो येन स तथा तेन । पक्षे त्रिपदीति स्वर्गमृत्युपाताललक्षणा तस्यां विलासो विलसन येनेति भावः । स्फटिकेति । स्फटिकगिरिः स्फटिकाचलस्तस्य तटेनेव वप्रेणेव । उभयं विशिनष्टि - लग्नेति । लग्ना सिंहमुखा प्रतिमा गजस्य दन्तबैन्धो यस्य स तेन । 'प्रतिमा प्रतिरूपके । गजस्य दन्तबन्धे च' इत्येनकार्थः । पक्षे लग्ना प्रतिबिम्बिता सिंहमुखस्य प्रतिमा प्रतिरूपकं यस्मिन्स तेन । अतएव प्रसाधितेनेव स्वीकृत भूषणपरिग्रहेणेव । लोलौ चपलौ यौ कर्णपल्लवौ ताभ्यामाहतं मुखं येन (यस्य) स तेन । पक्षे कर्णपल्लवः । शेषं पूर्ववत् । अन्वयस्तु प्रागेवोक्तः । पुनः प्रकारान्तरेण विशेषयन्नाह - उज्ज्चलेति । उज्ज्वलाः श्वेता ये पट्टकम्बलाः पट्टसूत्रनिर्मिताः । 'षट्' (?) इति प्रसिद्धा वा । तेषां पटास्तैः प्रावारितान्याच्छादितानि पृष्ठानि येषां तैः । रसितेति । रसितानां रणितानां मर्धुरः श्रोत्रसुखदो यो घण्टिकानां लघुकिङ्किणीनां रवः स्वरस्तेन मुखरो बाचालः कण्ठो येषां तैः । मञ्जिष्ठेति । मञ्जिष्ठया प्रसिद्धया लोहिता रक्तीकृताः स्कन्धकेसराणां बाला येषां तैः । रक्तबालसाम्यादाह - वनेति । वनगजानामरण्यहस्तिना रुधिरेण पाटलाः श्वेतरक्ताः सटा येषामेवंभूतैः केसरिभिरिव हर्यक्षैरिव । पुरो निहितोऽग्रे न्यस्तो यो यवसराशिस्तृणसमूहस्तस्य शिखरमग्र तत्रोपविष्टा मन्दुरापाला वाजिशालारक्षका येषां तैः । 'वाजिशाला तु मन्दुरा' इति कोषः । आसन्नेति । आसन्नः समीपवर्ती यो - - टिप्प० - 1 अयमत्र विचारान्तरम् । परिस्फुरन्ती शोभमाना सार्धचन्द्रा (अर्धचन्द्राकारललाट भूषणसहिता) नक्षत्रमाला सप्तविंशतिमहामौक्तिकमाला यस्य तेन, (इति गजपक्षे ) स्पष्टोऽर्थः । 'सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः । 2 अत्रेदृगपि संभाव्यते - 'त्रिपदी पादबन्धनम्' । 'त्रिपदीच्छेदिनामपि इति कालिदासः । तथा च कृतः त्रिपद्या (पादबन्धनशृङ्खलया) विलासः क्रीडा येन इत्यर्थः । 3 तात्पर्यं ग्राह्यम् । 4 लग्ना सिंहस्येव मुखम् अग्रभागो यस्यां ईदृशी प्रतिमा दन्तबन्धनश्रृङ्खला यस्य तेनेति बोध्यम् । 5 प्रसाधितः कृतश्रृङ्गारो हि प्रसाधनार्थं धृताभ्याम् आलोलाभ्यां कर्णस्थपल्लवाभ्यां आहत (वायुवशात्) मुखं यस्य, ईदृशो भवति । अयं तु-आहतं गजस्वभावात् भ्रमरापसारणनिमित्तं वा आलोलाभ्यां दीर्घकर्णाभ्यां मुखं येन स इत्यर्थः । 6 रसितानामिति विशेषणं यदा घंटिकानां तदा मध्ये मधुर इति स्वरस्य कथं विशेषणं स्यात् । अतः - रसितानां शब्दायमानानां मधुर ( मनोहर) घंटिकाना यो रव इति समासो विधेयः । पाठा०-१ अतिवामनतया २ पातालतलादिव ३ लोध्र. ४ प्रावृत; प्रावरित. ५ बालपल्लवैर्निहतगज. 192 कादम्बरी | कथायाम् Page #206 -------------------------------------------------------------------------- ________________ रसरसलुलितलाजकेवलै पालवल्लभैर्मन्दुरागतैस्तुरङ्गमैरुद्भासितम्, अधिकरणमण्डपगतैश्चार्यवेषैरत्युच्चवेत्रासनोपविष्टैधर्ममयैरिव धर्माधिकारिभिर्महापुरुषैरधिष्ठितम्, अधिगतसकलग्रामनगरनामभिरेकभवनमिव जगदखिलमालोकयद्भिरालिखितसकलभुवनव्यापारतया धर्मराजनगरव्यतिकरमिव दर्शयद्भिरधिकरणलेखकैरालिख्यमानशासनसहसम्, अभ्यन्तरावस्थितनरपतिनिर्गमप्रतीक्षणपरेण च स्थानस्थानेषु बद्धमण्डलेन कनकमयार्धचन्द्रतारागणशबलचर्मफलकैर्निशासमयमिव दर्शयता स्फूरितनिशितकरवालकरप्ररोहकरालितातपेनैकश्रवणपुटंघटितधवलदन्तपत्रेणोर्ध्वबद्धमौलिकलापेन धवलचन्दनस्थासकखचितभुजोरुदण्डेन बद्धा - *********** मङ्गलगीतध्वनिस्तत्र दत्ता न्यस्ताः कर्णा यैः । अन्तरिति । कपोलयोरन्तर्मध्ये धृता स्थापिता मधुरा मिष्टाः सरसा रसोपेता लुलिता हस्तेन मर्दिता लाजा आर्द्रतण्डुलाः । 'लाजाः स्युरार्द्रतण्डुलाः' इति कोशः । तेषां कवला गुडेरका येषां तैः । भूपेति । भूपाला राजानस्तेषां वल्लभैः प्रीत्युत्पादकैर्मन्दुरागतैर्वाजिशालाप्राप्तैरेवंविधैस्तुरङ्गमैरश्चैरुद्भासितं शोभितम् । अधीति । अधिक्रियते जवोऽस्मिन्नित्यधिकरणमण्डपस्तत्र गतैः । आर्यः प्रशस्यो वेषो नेपथ्यं येषां तैः । अत्युच्चं यक्षेत्रासनं तत्रोपविष्टैः स्थितैर्धर्ममयैरिव धर्मनिष्पन्नरिव धर्माधिकारिभिर्महापुरुषैरधिष्ठितमाश्रितम् । पुनः कीदृशम् । यस्य यस्य कार्यस्य यदधिकरणं तस्मिन्ये लेखकास्तैरालिख्यमानं लिपीक्रियमाणं शासनसहसमाज्ञापत्राणां दशशतं यस्मिन् । अथ लेखकान्चिशिनष्टि - अधीति । अधिगतं ज्ञातं सकलग्रामनगराणां नामाभिधानं यैस्ते तथा तैः । एकभवनमिवैकगृहमिवाखिलं समग्रं जगद्विष्टपमालोकयद्भिर्विलोकयद्भिः । आलिखितेति । आलिखितो लिपीकृतः सकलभुवनस्य त्रिविष्टपस्य यो व्यापारो व्यवहारस्तस्य भावस्तत्ता तया । धर्मराजो यमस्तस्य नगर संयमिनीति ख्यातं तस्माद् व्यतिकरमतिशयं दर्शयद्भिः । एतेन चित्रगुप्तलिखितोत्कृष्टलिपीकरणेन यमनगरापेक्षयाप्यत्र सातिशयत्वं सूचितमिति भावः । पुनः कीदृशम् । वक्ष्यमाणेन सेवकजनेनोत्पादिनाधिष्ठितमिति सर्वत्रान्वयः । अथ सेवकजनं विशिनष्टि - अभ्यन्तरेति । अभ्यन्तरे राजसमीपे येऽवस्थिता नरपतयो राजानस्तेषां निर्गमो बहिरागमनं तस्य प्रतीक्षणं प्रतीक्षा तत्र परेणासक्तेन । स्थानस्थानेषु स्थानानि च स्थानानि च स्थानस्थानानीति कर्मधारयस्तेषु बद्धं मण्डलं येन स तेन । कनकेति । कनकमयः सुवर्णनिष्पन्नो योऽर्धचन्द्रोऽर्धचन्द्रचित्रं तारागणश्च धेतबिन्दुचित्रं ताभ्यां शबलानि कर्बुराणि चर्मफलकानि तैः । चन्द्रतारकानिमित्तवत्त्वादाह - निशेति । निशासमयमिव रात्रिकालमिव दर्शयतान्येभ्यो ज्ञापयता । स्फुरितेति । स्फुरितं देदीप्यमानं निशितं तीक्ष्णं यत्करवालं खङ्ग तस्य ये कराः किरणास्तेषां प्ररोहा अङ्कुरास्तैः करालितो दन्तुरित आतपो दिनकरालोको येन स तथा तेन एकश्रवणपुट एककर्णपुटे घटित संयोजितं धवलं दन्तपत्रं येन स तथा तेन । देशाचारोऽयं यदेककर्णे दन्तपत्रपरिधानम् । ऊर्ध्वं बद्धो नद्धो मौलिकलापः केशकलापो येन स तथा तेन । धवलेति । धवल यच्चन्दनं तस्य स्थासका आभरणविशेषास्तैः खचिता नद्धा भुजोरुदण्डा बाहुदण्डा यस्य स तेन । बद्धासीति । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 गुडेन आर्टीकृताः इत्यर्थो बोध्यः । गुडमिश्रिता लाजग्रासाः चाञ्चल्यवशान्मा निपातयन्त्विति सेवकैर्मुखे ध्रियन्त इति तुरगस्वभावः । 2 केषाञ्चित्पक्षे आलिखितसकलभुवनव्यापारत्वरूपं द्वयोः समानधर्मत्वमेवेति नातिशयः । तस्मात् धर्मराजनगरस्य व्यतिकरं व्यापार संबन्धं वेत्यर्थः । यमनगरलेखकैः सह अधिकरण (कचहरी) लेखकानां साम्येन एतेषां क्रूरतोपहासश्चातुर्येण ध्वनितो ग्रन्थकृता परमविदुषा । 3 चन्दनलिप्तहस्तस्य प्रतिच्छन्दः स्थासकः-एवमपि कस्यचन मतः । 'थापा' इति भाषा । पाठा० - १ लवलुलित; लवविलुलित. २ जम्बाल. ३ ग्रामखर्बटनगर; नगरखेटखवट; खेटखवट. ४ अधिकार. ५ निर्गमन. ६ परेण स्थाने स्थाने. ७ तारागणशतशबलः. ८ घटितानेकदन्त. राजभवनम् । पूर्वभागः । 193 Page #207 -------------------------------------------------------------------------- ________________ सिधेनुकेनान्ध्रद्रविडसिंहलप्रायेण सेवकजनेनास्थानमण्डपगतेन च यथोचितासनोपविष्टेन प्रसारयता दुरोदरक्रीडामभ्यस्यताष्टापदव्यापारमास्फालयता परिवादिनीमालिखता चित्रफलके भूमिपालप्रतिबिम्बमाबध्नता काव्यगोष्ठीमातन्वता परिहासकथां विन्दता बिन्दुमती चिन्तयता प्रहेलिकां भावयता नरपतिकृतकाव्यसुभाषितानि पठता द्विपदीं गृह्णता कविगुणानुत्किरता पत्रभङ्गानालपता वारविलासिनीजनमाकर्णयता वैतालिकगीतमनेकसहससंख्येन धवलोष्णीषपटाश्लिष्टविकटकिरीटसंकटशिरसा सनिझरशिखरलग्नबालातपमण्डलेनेव कुलपर्वतचक्रवालेन मूर्धाभिषिक्तेन सामन्तलोकेनाधिष्ठितम्, आस्थानोत्थितभूमिपालसंवर्तितानां च कुथानां रत्नासनानां च राशिभिरनेकवर्णैरिन्द्रायुधपुजैरिव विराजितसभा - *********** बद्धा । कट्यामिति शेषः । असिधेनुका क्षुरिका येन । नानादेशपरिग्रहादाह - आन्ध्रेति । आन्ध्रस्त्रीलिङ्ग, द्रविडो द्राविडदेशः, सिंहलः सिंहलद्वीपम्, तत्यायेण तत्सदृशेन । एतद्देशोद्भवाः प्रायो बाहुल्येन सन्ति यस्मिन्निति वा । स तेन सेवकजनेन । सेवकसेवकेनेत्यर्थ । इतः परं सामन्तविशेषणानि - आस्थानमण्डपो मध्यमण्डपस्तत्र गतेन प्राप्तेन यथोचितानि यथायोग्यानि यान्यासनानि विष्टराः तेषूपविष्टेनासेदुषा । किं कुर्वता । दुरोदरक्रीडां द्युतक्रीडां प्रसारयता विस्तारयता । अष्टापदमभ्यस्यताभ्यासं कुर्वता । अष्टापदं शारिफलम् । नयपिटकमित्यन्ये । तस्य व्यापारम् । आस्फालयता वादयता परिवादिनी वीणाम् । चित्रफलक आलेख्यपट्टके भूमिपालो राजा तस्य प्रतिबिम्ब प्रतिरूपमालिखता लिपीकुर्वता । काव्येति । काव्यगोष्ठीमाबध्नता । काव्यश्रवणार्थं स्वस्योपवेशनेन जनबन्धं कुर्वतेत्यर्थः । परिहासकथामुपहासकारिवचनरचनामातन्वता विस्तारयता । बिन्दुमती विचित्रां लिपि विन्दता प्राप्नुवता । प्रहेलिकां पूर्वोक्तां चिन्तयता ध्यायता । नरपतिना राज्ञा कृतानि विरचितानि यानि काव्यसुभाषितानि काव्यसूक्तानि तानि भावयता चेतसि भावनां कुर्वता । द्विपदी पदद्वयात्मिकां पठता पाठं कुर्वता । कविगुणान्नवीनकाव्यकर्तृणां गुणांस्तत्कालकाव्यकरणादिरूपान्गृह्णता ग्रहणं कुर्वता । पत्राणि केतकीसंबन्धीनि तेषां भङ्गानचनाविशेषानुत्किरतोत्कीर्णं कुर्वता । वारविलासिनीजनं वारयोषिज्जनमालापयता संभाषयता । वैतालिका बोधिजनाः सुभाषितपाठका बन्दिनो या तेषां गीतं गानमाकर्णयता श्रृण्वता । अनेकेति । अनेकानि सहसानि संख्या परिमाणं यस्य स तेन । धवलेति । धवलः श्वेतो य उष्णीषपटो मूर्धवेष्टनपटस्तेनाश्लिष्टान्यालिङ्गितानि विकटानि विपुलानि किरीटानि कोटीरानि तैः संकटं संकीर्णं शिरो यस्य स तेन । उष्णीषस्य श्वेतत्वात्किरीटस्य मणिप्रभया रक्तत्वाच्च श्वेतरक्तत्वसाम्यादुत्प्रेक्षामाह - सेति । सनिर्झर निर्झरे : सहवर्तमानं यच्छिखरं श्रृङ्गं तत्र लग्नं बालातपस्य मण्डलं यस्मिन्नेवभूतेन कुलपर्वतचक्रबालेनेवेदृशेन मूर्धाभिषेकेण कृतपट्टाभिषेकेण सामन्तलोकेन स्वदेशसमीपवर्तिराजसमूहेनाधिष्ठितमिति प्रागुक्तमेव । आस्थानेति । आस्थानादुपवेशनस्थलादुत्थितो यो भूमिपालो नृपतिस्तस्मात्संवर्तितानां समूहैरिवेन्द्रायुधपुजैरिवेन्द्रधनुःसमूहैरिव विराजितः शोभितः सभापर्यन्तः संसप्रान्तो यस्य तत् । पुनः कीदृशम् । अनवरतं निरन्तरं वारविलासिनीनां जनेनागच्छता निर्गच्छता चाकुलितं व्याकुलीभूतम् । अथ - - टिप्प० - 1 'चौपड' इति भाषा । 2 पद्यवर्णसंख्यया बिन्दवो लिख्यन्ते तैः पद्यस्य परिज्ञानं बिन्दुमती । यथा-01०1०००:३०ौ (वागर्थाविव संपृक्तौ) । 3 पदद्वयात्मिकां गाथाम्, इति वाच्यम् । 4 अग्रसंबन्धेन - वारविलासिनीनां कपोलादिषु चन्दनादिना पत्ररचनां कुर्वतेत्यर्थो वा । 5 आस्थानादुत्थितेषु भूमिपालेषु (सामन्तेषु) संवर्तितानां भृत्यैः संकोचितानाम् ('तह' 'घडी' किये हिन्दी) कुथानां रत्नासनानां च समूहैः, अनेकवर्णैः इन्द्रधनुःसमूहैरिव शोभितः सभापर्यन्तो यस्य तत् । - - - - - - - - - - पाठा० . १ द्विपदीः. २ उत्कीर्यता. ३ गीतिम्. ४ आलग्न. (1947 कादम्बरी। कथायाम् Page #208 -------------------------------------------------------------------------- ________________ पर्यन्तम्, अमलभूमिसंक्रान्तमुखनिवहप्रतिबिम्बतया विकचकमलपुष्पप्रकरमिव संपादयता गतिवशरणितनूपुरपारिहार्यरशनास्वनमुखरेण स्कन्धावसक्तकनकदण्डचामरेण निर्गच्छता प्रविशता चानवरतं वारविलासिनीजनेनाकुलितम्, एकदेशनिषण्णचामीकरश्रृङ्खलासंयतश्चगणम्, इतस्ततः प्रचलितपरिचितामितकस्तूरिकाकुरङ्गपरिमलवासितदिङ्मुखम्, अनेककुब्जकिरातवर्षवरबधिरवामनमूकसंकुलम्, उपाहृतकिंनरमिथुनम्, आनीतवनमानुषम्, आबद्धमेषकुक्कुटकुररकपिञ्जललावकवर्तिकायुद्धम्, उत्कूजितचकोरकादम्बहारीतकोकिलम्, आलप्यमानशुकसारिकम्, इभपतिपरिमलामर्षजृम्भितैश्च निःकूजद्भिः शिखरिणां जीवितैरिवगिरिगुहानिवासिभिर्गृहीतैः पञ्जरकेसरिभिरुद्भांस्यमानम्, उत्त्रास्यमानैः काञ्चनभवनप्रभाजनितदावानलशङ्कर्लोलतारकैर्धमद्भिर्भवनहरिणकदम्बकैर्लोचनप्रभया शबलीकृतदिगन्तरम्, - *********** च वारविलासिनीजनं विशेषयन्नाह - अमलेति । अमला निर्मला भूमिस्तस्यां संक्रान्तो यो मुखनिवहस्तस्य प्रतिबिम्बस्तस्य भावस्तत्ता तया । तस्य विकाससौगन्ध्यादिगुणवत्त्वादुत्प्रेक्षते - विकचेति । विकचो विकस्वरः कमललक्षणपुष्पाणां प्रकरः समूहो यस्मिन्नेवंभूतमिव संपादयता कुर्वता । गतिवशेन गमनवशेन रणितानि शब्दितानि नपुराणि पादकटकानि पारिहार्याणि कङ्कणानि रशनाश्च कटिमेखलास्तासां स्वनः शब्दस्तेन मुखरेण वाचालेन । स्कन्धेऽवसक्तं स्थापितं कनकदण्डयुक्तं चामरं येन स तथा तेन । एकस्मिन्देशे निषण्ण आसीनश्चामीकरस्य सुवर्णस्य श्रृङ्खलान्दुकस्तया संयतो नद्धः शुनां गणो यस्मिन् । इतस्तत इति । इतस्ततः समन्ताप्रचलिताः परिचिता विश्वस्ता अमिता अनेके ये कस्तूरिकाकुरङ्गाः कस्तूरिकामृगास्तेषां परिमल आमोदस्तेन वासितं सुरभीकृतं दिङ्मुखं यस्य तत् । अनेकेति । प्रत्येकमभिसंबन्धः । कुब्जाः पूर्वोक्तलक्षणाः, किराताः पूर्वव्याख्याताः, वर्षवराः षण्ढाः, बधिराः प्रसिद्धाः, वामनाः पूर्वव्यावर्णितस्वरूपाः, मूकाः प्रसिद्धाः, तैः संकुलं व्याप्तम् । आश्चर्यावहमाह - उपाहृतेति । उपाहृतमानीतं किंनरमिथुनं यस्मिंस्तत् । आनीतं वनमानुषमरण्यमनुष्यरूपवनचरं यस्मिन् । आबद्धेति । आबद्धाः संयता ये मेषा हुडाः, कुक्कुटाश्चरणायुधाः, कुरराः पक्षिविशेषाः, कपिञ्जला गणेशाः, लावकाः प्रसिद्धाः, वर्तिकाः पक्षिविशेषाः, तेषां युद्धं यस्मिन् । उदिति । उत्प्राबल्येन कूजितं येषामेवंविधाचकोरा विषसूचकाः, कादम्बाः कलहंसाः, हारीताः पक्षिविशेषाः, कोकिलाः पिकाः यस्मिन् । आलप्येति । आलप्यमानाः संभाष्यमाणाः शुकसारिका यस्मिन् । पुनः कीदृशम् । पञ्जरकेसरिभिः पञ्जरप्राप्तहर्यक्षरुद्भास्यमानमुत्याबल्येन शोभमानम् । अथ केसरिणं(णो) विशेषयन्नाह - इभपतीति । इभपतिर्गन्धगजस्तस्य परिमलस्तस्माद्योऽमर्षः क्रोधसंभवस्तेन जृम्भितैपूर्णितैरतएव निःकूजद्भिर्नितरां गुञ्जद्भिर्गुञ्जारवं कुर्वद्भिः । शिखरिणां पर्वतानां केसरिसारवत्त्वादाह - जीवितैरिति । जीवितैरिव प्राणितैरिव । गिरीणां या गुहाः कन्दरास्तत्र निवासिभिरवस्थायिभिर्गृहीतैर्बलाद्वनानीतैरित्यर्थः पुनः प्रकारान्तरेण विशेषयन्नाह - भवनेति । भवनहरिणकदम्बकैर्गृहमृगसमूहैर्लोचनप्रभया नेत्रदीप्त्या शबलीकृत कर्बुरीकृतं दिगन्तरं यस्मिन् । कीदृशैः । काञ्चनभवनं सुवर्णगृह तस्य प्रभा कान्तिस्तया जनितोत्पादिता दावानलशङ्का वनवह्निद्वापरो येषां तैः । अत एवोत्रास्यमानैरुत्प्राबल्येन त्रासं प्राप्यमाणैः । लोला - - - - - -- टिप्प० - 1 आनीताः वनमानुषा यस्मिनिति समासो बोध्यः । 2 आबद्धं संघटित मेषादीनां युद्धं यस्मिन्नित्यर्थः । 3 सिंहा न गृहीता मन्ये पर्वतानां जीवा एव गृहीताः, इति भावार्थः । अत्र सिहंविषये निष्कूजद्भिरितिपदस्य परमार्थः 'गर्जद्भिः' इति स्यात् । - - - - - - - - पाठा०.१ अमलमणिभूमि. २ परिहार्य. ३ ख. ४ स्कन्धसक्त. ५ वारविलासिनीनां जनेन. ६ संयताश्चगणम्. ७ अपरिमितसितिकस्तूरिक. ८ वर्षधर; बर्बरवर्षवर, ९ वामनक. १० लालप्यमान. ११ पतिमद. राजभवनम् पूर्वभागः ।। 195 Page #209 -------------------------------------------------------------------------- ________________ उद्दामकेकारवानुमीयमानमरकतकुट्टिमस्थितशिखण्डिमण्डलम्, अतिशिशिरचन्दनविटपिच्छायानिषण्णनिद्रायमाणगृहसारसम्, अन्तःपुरेण च बालिकाजनप्रस्तुतकन्दुकपञ्चालिकाक्रीडेनानवरतसंवाह्यमानदोलाशिखरक्वणितघण्टाटकारपूरिताशामुखेन भुजंगनिर्मोकशङ्कितमयूरह्रियमाणहारेण सौधशिखरावतीर्णप्रचलितपारावतकुलतया स्थलोत्पलिनीवनेनेवान्तःपुरिकाजनप्रस्तुतनरपतिचरितविडम्बनक्रीडेनाश्चमन्दुरापरिभ्रष्टागतैरवलुप्तभवनदाडिमीफलैराखण्डिताङ्गणसहकारपल्लवैरभिभूतकुब्जवामनकिरातकरतलाच्छिन्नानि भूषणानि विकिरद्भिः कपिभिराकुलीभूतेन शुकसारिकाप्रकाशितसुरतविश्रम्भालापलज्जितावरोधजनेन प्रासादसोपानसमारोहणचलितैरबलानां चरणावसक्तैर्मणिमयैः पदेपदे रणद्भिस्तुलाकोटिवलयैर्द्विगुणी - *********** स्तारकाः कनीनिका येषां तैर्धमद्भिरितस्ततः पर्यटद्भिः । उद्दामेति । उद्दाम उद्धतो यः केकारवस्तेनानुमीयमानमनुमानविषयीक्रियमाण मरकतकुट्टिमस्थितमश्मगर्भबद्धभूमिस्थितमुपविष्टं शिखण्डिमण्डलं मयूरसमूहो यस्मिन् । अतीति । अतिशिशिरोऽतिशीतलो यश्चन्दनविटपिमलयजतरुस्तस्य छाया आतपाभावस्तत्र निषण्णा उपविष्टा निद्रायमाणाः प्रमीलां कुर्वन्तो गृहसारसा येस्मिन् । अथ चान्तःपुरेण शुकत्यारभ्यावरोधजनेन भवनेत्यारभ्य गणेनाधिष्ठितेन समुपेतं सहितमभ्यन्तरं मध्यं यस्येति दूरेणान्चयः । क्रमेण कीदृशेत्यादि । बालिकेति । बालिकाजनेन कन्याजनेन प्रस्तुता प्रारब्धा कन्दुकस्य गेन्दुकस्य पाञ्चालिका, पञ्चभिर्मंदादिमयीभिः स्वल्पगुलिकाभित पञ्चालिकोच्यते । तस्याः क्रीडा येन स तेन । अनवरतेति । अनवरतं निरन्तरं संवाह्यमानारुह्यमाणा या दोला प्रेवा तस्याः शिखरमग्न तस्मिन्क्वणिता या घण्टास्तासां टङ्कारस्तेन पूरितं भृतमाशामुखं येन । भुजगेति । भुजंगस्य सर्पस्य यो निर्मोकः कञ्चुकस्तेन शङ्कितः शङ्का प्राप्तो यो मयूरः केकी तेन ह्रियमाणो गृह्यमाणो हारो मुक्ताकलापो यस्य स तेन । सौधेति । सौधशिखरादवतीर्णं प्रचलित यत्पारावतकुलं रक्तलोचनकुलं तस्य भावस्तत्ता तया । स्थलेति । स्थलस्य या उत्पलिन्यः कमलिन्यस्तासा वनेनेव काननेनेव । पारावतानां नीलत्वसाम्यात्तदुप्रेक्षा । अन्तःपुरेति । अन्तःपुरिकाजनेन प्रस्तुता प्रारब्धान्यनरपतिचरिताना विडम्बनक्रीडा यस्मिन्स तेन । पुनः किंविशिष्टेन । कपिभिर्वानरैराकुलीभूतेन । अधानां दृष्टिदोषबाधनार्थमश्वशालायां कपयः स्थाप्यन्त इति राज्ञामाचारः। अत उक्तम् । अश्वमन्दुरातः परिभ्रष्टा बन्धनाद्विमुक्ता अतएवागतास्तैः । अवेति । अवलुप्तानि मर्दितानि भवनदाडिमीफलानि यैः । आखण्डितेति । आखण्डिताः शकलीकृता अङ्गणं गृहाङ्गणं तस्य सहकारपल्लवाचूतकिसलया यैः । अभीति । अभिभूताः पराभूता ये कुब्जवामनकिरातास्तेषां करतलाद्धस्ततलादाच्छिन्नानि बलाद्गृहीतानि भूषणानि विकिरद्भिर्विक्षिपद्भिरेवभूतैः कपिभिर्वानरैराकुलीभूतेन व्याकुलीभूतेन । शुकेति । शुकः कीरः, सारिका पीतपादा, ताभिः प्रकाशितः प्रकटीकृतो यः सुरते मैथुने विश्रम्भालापो विश्वासालापस्तेन लज्जितस्त्रपितोऽवरोधजनो यस्मिन्स तेन । प्रासादेति । प्रासादस्य गृहस्य यानि सोपानान्यारोहणानि तत्र यत्समारोहणमुपरिष्टाद्गमनं तेन चलितैः कम्पितैरबलानां स्त्रीणां चरणावसक्तैः पादावलग्नैर्मणिमयै रत्नविकारैः पदे पदे । प्रतिचरणविन्यासमित्यर्थः । रणद्भिः शब्दं कुर्वद्भिस्तुलाकोटिवलयैः पादाङ्गदवलयैर्द्विगुणीकृतं द्विगुणतामापादितं कूजितलक्षणं रुतं शब्दितं यासा ताभिरेवभूताभिर्हसमालिकाभिः कलहंसपङ्क्तिभिर्धवलितं शुभ्रीकृतमङ्गणं चत्वरं यस्य - - - - - - - -. - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'ईदृशेन अन्तःपुरेण समुपेताभ्यन्तरम्' इति दूरेणान्चय इति वक्तव्यम् । 2 कन्दुकैः पाञ्चालिकाभिः वस्त्रनिर्मितपुत्तलिकाभिश्च क्रीडा यस्मिन्नित्यर्थः । ‘पञ्चालिका स्त्रियां वस्त्रपुत्रिकागीतिभेदयोः' इति मेदिनी । पाठा० - १ अविरत. २ वाह्यमानतोली. ३ वनशोभितेनेव. ४ आकुलीकृतेन. ५ मणिमयविभूषणैः पदेपदे. (196 कादम्बरी। कथायाम Page #210 -------------------------------------------------------------------------- ________________ कृतकूजितरुताभिर्भवनहंसमालिकाभिर्धवलिताङ्गणेन धृतधौतधवलदुकूलोत्तरीयैः कलधौतदण्डावलम्बिभिः पलितपाण्डुरमौलिभिराधारमयैरिव मर्यादामयैरिव मङ्गलमयैरिव गम्भीराकृतिभिः स्वभावधीरैरुष्णीषिभिर्वयःपरिणामेऽपि जैरत्सिहैरिवापरित्यक्तसत्त्वावष्टम्भैः कञ्चुकिभिरधिष्ठितेन समुपेताभ्यन्तरम्, जलधरसनाथमिव कृष्णागुरुधूमपटलैः, सनीहारमिव यामकुञ्जरघटाकरसीकरैः, सनिशमिव तमालवीथिकान्धकारैः, सबालातपमिव रक्ताशोकैः, सतारागणमिव मुक्ताकलापैः, सवर्षासमयमिव धारागृहैः, सतडिल्लतमिव हेममयीभिर्मयूरयष्टिभिः, सगृहदैवतमिव शालभञ्जिकाभिः, शिवभवनमिव द्वारावस्थितदण्डपाणिप्रतीहारगणम्, उत्कृष्टकविगद्यमिव विविधवर्णश्रेणिप्रतिपाद्यमानाभिनवार्थसंचयम्, अप्सरोगणमिव - *********** स तेन । धृतेति । धृतं धारित धौत क्षालितं धवलं श्वेतं दुकूलस्य क्षौमस्योत्तरीयं यैः । कलेति । कलधौतस्य सुवर्णस्य यो दण्डो यष्टिस्तस्यावलम्बो विद्यते येषां तैः। अतिवृद्धत्वाद्दण्डमवलम्ब्य स्थायिभिरित्यर्थः । पलितेति । पलितं पाण्डुराः कचास्तैः पाण्डुराः श्वेता मौलयो येषां तैः । आधारोऽवष्टम्भस्तन्मयैरिव तद्विकारिव, मर्यादा स्थितिस्तन्मयैरिव, मङ्गलं श्रेयस्तन्मयैरिव, गम्भीराऽलब्धमध्याकृतिराकारो यैषां तैः । अतएव स्वभावेनानुपाधिकेन धीरा धैर्यवन्तस्तैः । उष्णीषो मूर्धवेष्टनं विद्यते येषां तैरुष्णीषिभिः । वयः परिणामेऽप्यतिवृद्धत्वेऽपि जरसिंहैरिव वृद्धहर्यक्षरिवापरित्यक्तोऽनुज्झितः सत्त्वावष्टम्भो यैः सत्त्वं साहसं तस्यावष्टम्भ आधारो यैरेवंविधैः कञ्चुकिभिः सौविदल्लैरधिष्ठितेनाश्रितेन । अङ्गणविशेषणम् । एवंविधेनान्तःपुरेण समुपेतं सहितमभ्यन्तरं मध्यभागो यस्येति गृहविशेषणमितिभावः । प्रकारान्तरेण गृह वर्णयन्नाह - जलेति । जलधरसनाथमिव मेघसदृशमिव । कैः । कृष्णागुरूणां काकतुण्डानां ये धूमास्तेषां पटलैः समूहैः । सनीति । नीहारेण हिमेन सह वर्तमानमिव यामकुञ्जराश्चतुष्किकागतहस्तिनस्तेषां घटाः समूहास्तेषां कराः शुण्डास्तेषा शीकराः पृषतास्तैः । सनीति । निशा रात्रिस्तया सह वर्तमानमिव तमालानां तापिच्छाना वीथिका पङ्क्तिस्तस्या अन्धकारैस्तिमिरैः । सेति । सह बालातपेन तरुणालोकेन वर्तमानमिव रक्ता येऽशोकाः कथेल्लयस्तैः । सेति । सह तारागणेन नक्षत्रसमूहेन वर्तमानमिव । कैः मुक्ताकलापैर्मुक्ताप्रालम्बैः । सवर्षेति । सह वर्षासमयेन प्रावृट्समयेन वर्तमानमिव । कैः । धारागृहैर्यन्त्रगृहैः । सेति । सह तडिल्लतया विद्युल्लतया वर्तमानमिव । काभिः । हेममयीभिः सुवर्णनिर्मितैर्मयूरयष्टिभिः कलापिसमूहोपवेशनदण्डैः । सेति । सह गृहदैवतेन वर्तमानमिव । काभिः । शालभञ्जिकाभिः पुत्रिकाभिः । शिवेति । शिवस्येश्वरस्य भवनं गृहं तद्वदिव द्वारावस्थिता दण्डपाणयः प्रतीहारगणा यस्मिन् । ईश्वरपक्षे कूष्माण्डकादयो गणाः । उत्कृष्टमलंकाराद्युपेतं यत्कविगद्यमच्छन्दं तद्वदिव । उभयं विशेषयन्नाह - विविधेति । विविधा अनेके ये वर्णा ब्राहाणादयः, एकमुख्यसजातीयसमूहश्रेणिः, ताभिः प्रतिपाद्यमान उत्पाद्यमानोऽभिनवः प्रत्यग्रोऽर्थसंचयो द्रव्यसमूहो यस्मिन् । पक्षे विविधवर्णश्रेणिभिर्विविधाक्षरपङ्क्तिभिः प्रतिपाद्यमानः कथ्यमानोऽभिनवोऽश्रुतपूर्वोऽर्थसंचयोऽभिधेयसमूहो यस्मिन् । अप्सरसां तिलोत्तमादीनां गणः समुदायस्तमिव । प्रकटः स्पष्टो मनसो रमाणां सुन्दराणा - - - - - - - - - टिप्प० - 1 किञ्चिदेवं कथयति । अधिष्ठितेन अन्तःपुरेण समुपेताभ्यन्तरमित्यन्वयो बोध्यः । 2 मेघसहितमिति बोध्यम् । 3 प्रतिप्रहरं यामिकरूपेण परिवर्तनीयाः कुञ्जरा यामकुञ्जराः इत्यर्थः । 4 द्वारावस्थिता दण्डपाणिः (भैरवः) गणाः प्रमथाश्च यस्य तत् इति शिवभवनपक्षेऽर्थः । 5 छन्दोरहित गद्यकाव्यमिवेत्यर्थो वाच्यः । 6 उपहाररूपेण दीयमान इत्यर्थ उचितः । 7 प्रकटः (सर्वविदितः) मनोरमः आरम्भः कार्योपक्रमो यस्मिन् तदित्यर्थः । - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ कलहसमालाभिः. २ धवलीकृताजिरेण धौत. ३ पलितपाकपाण्डुर; पलितपाण्डु. ४ आचारमयः. ५ विनयमयैरिव मर्यादा. ६ जरीजरत्. ७ सजलजलधर. ८ कविकाव्यम्. ९ श्रेणी. १० अनेकाभिनव. राजभवनम् पूर्वभागः । 197 Page #211 -------------------------------------------------------------------------- ________________ प्रकटमनोरमारम्भम्, दिवसकरोदयमिवोल्लसत्पद्माकरकमलामोदम्, उष्णकिरणमिव निजलक्ष्मीकृतकमलोपकारम्, नाटकमिव पंताकाङ्कशोभितम्, शोणितपुरमिव बाणयोग्यावासोपेतम्, पुराणमिव विभागावस्थापितसकलभुवनकोशम्, संपूर्णचन्द्रोदयमिव मूदुकरसहससंवर्धितरत्नालयम्, दिग्गजमिवाविच्छिन्नमहादानसंतानम्, ब्रह्माण्डमिव सकलजीवलोकव्यवहारकारणोत्पन्नहिरण्यगर्भम्, ईशानबाहुवनमिव महाभोगिमण्डलसहसाधिष्ठितप्रकोष्ठम्, महाभारतमिवानन्तगीताकर्णनानन्दितनरम्, यदुवंशमिव कुलक्रमागतशूरभीमपुरुषोत्तमबलपॅरिपालितम्, व्याकरणमिव प्रथममध्यमोत्तमपुरुषविभक्तिस्थितानेकादेशकारकाख्यात - *********** मारम्भः प्रारम्भो यस्मिन्, पक्षे मनोरमा रम्भा देवाङ्गना यस्मिन् । दिवसेति । दिवसकरस्य सूर्यस्योदय उद्गमनं तमिव । उल्लसन्ति यानि पद्माकरेषु तटाकेषु कमलानि सरोजानि तेषामामोदः परिमलो यस्मिन्नित्यभङ्गश्लेषः । यद्वोल्लसन्तः पद्माकराः श्रीकारकाः कमला हरिणविशेषास्तेषामामोदः परिमलो यस्मिन् । उष्णकिरणः सूर्यस्तमिव निजलक्ष्म्या स्वराज्यश्रिया कृतो विहितः कमलवज्जलजवत्कमलैर्वोपकार उपकृतिः पूजा वा येन तत् । पक्षे निजलक्ष्म्या निजशोभया कृतो विहितः कमलानामुपकारो विकाशरूपो येन तम् । नाटक ताण्डवं तद्वदिव पताका वैजयन्ती तस्या अङ्को मध्यं तेन शोभितम् । पक्षे पताका हस्तविन्यासः, अङ्को नाटकैकदेशः ताभ्यां शोभित विराजितम् । शोणितपुरं बाणनाम्नो दैत्यस्य नगरं तच्च ‘देवीकोट' इति प्रसिद्धं तद्वदिव बाणाः शरास्तेषां योग्यो य आवासस्तेनोपेत सहितम् । पक्षे बाणो दैत्यस्तदावासोपेतमित्यर्थः । पुराणेति । पुराणं पञ्चलक्षणं तद्वदिव विभागेन भिन्नतयावस्थापितो रक्षितः सकलभुवनस्य समाविष्टपस्य कोशो द्रव्यसमूहो यस्मिन् । पक्षे विभागेनावस्थापितो ज्ञापितः सकलभवनकोशः समग्रभुवनमण्डलं येन । संपूर्णेति । संपूर्णः समग्रो यश्चन्द्रस्तस्योदयस्तद्वदिव मृदवः स्वल्पा ये करा राजदेयद्रव्याणि तेषां सहसं तेन संवर्धितानि वृद्धि प्राप्तानि यानि रत्नानि तान्येवालये गृहे यस्मिन् । पक्षे मृदुकराणां सुकुमारकिरणानां यत्सहसं तेन संवर्धितो वेलां ग्राहितो रत्नालयः समुद्रो येन स तम् । दिगिति । दिशि स्थितो गजो दिग्गजस्तमिवाविच्छिन्नमत्रुटितं महादानस्य महद्वितरणस्य संतानं परंपरा यस्मिन् । पक्षे दानसंतान मदसंततिः । शेषं पूर्ववत् । ब्रह्माण्डेति । ब्रह्माण्डं विश्वं तदिव सकलजीवलोकस्य समाविष्टपस्य व्यवहारो व्यवहरणं तस्य कारण निदानं तदर्थमुत्पन्नं यद्धिरण्यं सुवर्णं तदेव गर्भे मध्ये यस्य तत् । पक्षे हिरण्यगर्भो विश्वरेताः । शेषं पूर्ववत् । ईशानेति । ईशान ईश्वरस्तस्य बाहुवनं भुजवनम् । सरलत्वादाहुत्वाच्च नृत्यारम्भ उर्वीकृतत्वेन च वनोपमानम् । तद्वदिव । महेति । महाभोगिनां नृणा मण्डलसहसैरधिष्ठित आश्रितः प्रकोष्ठो गृहैकदेशो यस्मिन् (स्य) । पक्षे महाभोगिनां महासर्पाणां मण्डलसहसैरधिष्ठितः प्रकोष्ठः कलाचिका यस्मिन् (स्य) । महानाभोगो विद्यते येषामेवंविधानां मण्डलानां खङ्गानां सहसं तेनाधिष्ठितौ प्रकोष्ठौ यस्येति वा । महेति । महाभारत शास्त्रं तदिवानन्तान्यसंख्यानि गीतानि गानानि तेषामाकर्णन श्रवणं तेनानन्दिता हर्षिता नरा मानवा यस्मिन् । पक्षेऽनन्तः परमेश्वरस्तस्य गीतं स्तुतिस्तदाकर्णनेनानन्दितो नरोऽर्जुनो यस्मिन् । यदुवंशमिव यदुर्नपतिस्तस्य वंशः संतानपरंपरा तमिव कुलक्रमागताः परंपरायाताः, शूराः शौर्यगुणयुक्ताः, भीमाः क्रूराकृतयः, पुरुषोत्तमाः पुरुषेषु मुख्याः, तेषां बलेन सैन्येन परिपालितं रक्षितम् । रजन्यां चतुष्किकाप्रदानेन तद्रक्षां कुर्वन्तीति - - - - - - - - - - - - - - - - - - टिप्प० - 1 हन्त धिकू । निजलक्ष्म्या निजशोभया कृतः कमलायाः (राजलक्ष्म्याः ) वृद्धिरूपः शोभारूपो वा उपकारो येन तत् । ईदृशेन राजभवनेन राजलक्ष्म्याः शोभा भवतीति भवनेनोपकारः कृतः । 2 करसहसैः संवर्धिताः रत्नालयाः धनागाराणि यस्मिन्निति स्पष्टोऽर्थः । 3 अनन्तस्य सिद्धभगवतो या ध्यानप्रवृत्तिः तया आनन्दित इत्यर्थो वक्तव्यः । पाठा० . १ रम्भाभोगम्. २ प्रकटपताका. ३ यथाविभाग. ४ अवस्थित. ५ पूर्ण. ६ अध्यासितप्रकोष्ठमिव. ७ पालितम्. 198 कादम्बरी ।। कथायाम् Page #212 -------------------------------------------------------------------------- ________________ संप्रदानक्रियाव्ययप्रपञ्चसुस्थितम्, उदधिमिव भयान्तःप्रविष्टसपक्षभूभृत्सहससंकुलम्, उषानिरुद्धसमागममिव चित्रलेखादर्शितविचित्रसकलत्रिभुवनाकारम, बलियज्ञमिव पुराणपुरुषवामनाधिष्ठिताभ्यन्तरम्, शुक्लपक्षप्रदोषमिव विततशशिकिरणकलापधवेलाम्बरवितानम्, नरैवाहनदन्तकथेवान्तःसंवर्धितप्रियदर्शनराजदारिकागन्धर्वदत्तोत्कण्ठम्, महातीर्थमिव सद्योऽनेकपुरुषप्राप्ताभिषेकफलम्, प्राग्वंशमिव नानासवपात्रसंकुलम्, निशासमयमिवानेक - *********** भावः । पक्षे शूरी नाम विष्णोः पितामहः, भीमो नाम कश्चित्, पुरुषोत्तमो विष्णुः, बलो बलदेवः एभिः परिपालितं लालितम् । जरासिन्धोरिति शेषः । व्याकरणं शब्दशास्त्रं तद्वदिवायं प्रथम आयः, अयं मध्यमऽनुत्कृष्टाधमः, अयं चोत्तमः सर्वोत्कृष्टः, एवंविधा या पुरुषविभक्तिस्तस्यां स्थिता येऽनेक आदेशकारकाः आज्ञाकारकास्तराख्याता प्रतिपादिता सम्यक्प्रकारेण या संप्रदानक्रिया तस्या यो व्ययस्तस्य प्रपञ्चो विस्तारस्तत्र सुस्थितम् । सुखेनावस्थितमित्यर्थः । पक्षे प्रथमपुरुषो मध्यमपुरुष उत्तमपुरुषश्चेति संज्ञात्रयं पाणिनिना प्रपञ्चितम् । विभक्तयश्च स्वादयस्तासु स्थिता आदेशास्तिसृचतसृप्रभृतयः, कारकाणि कादीन्याख्यातानि नव दश वा, संप्रदान चतुर्थीकारकम्, क्रिया भ्वादिः, अव्ययान्युच्चैरित्यादीनि तेषां प्रपञ्चो विस्तारः सुस्थितो यस्मिन् । उदधिः समुद्रस्तद्वदिव भयाद्भीतेरन्तःप्रविष्टं मध्ये समागतं यत्सपक्षाणां परिच्छेदोपेतानां भूभृतां राज्ञां सहसं तेन संकुलम् । पक्षे सपक्षाः पक्षयुक्ता भूभृतः पर्वताः । शेष पूर्ववत् । उषेति । उषा बाणासुरपुत्री, अनिरुद्धः प्रद्युम्नतनयः, तयोः समागमः संबन्धस्तदिव । तस्याः सखीभूता चित्रलेखा तयानिरुद्धोत्कण्ठितामुषां प्रत्यनिरुद्धज्ञानाय चित्रे त्रिभुवनमालिख्य दर्शितमिति पौराणिकी कथा । तामधिकृत्याह - चित्रेति । चित्रलेखाभिरालेख्यपङ्क्तिभिर्दर्शितः प्रकाशितो विचित्रो नानाविधः सकलः समग्रस्त्रिभुवनस्य त्रिविष्टपस्याकार आकृतिर्येन तत् । पक्षे चित्रलेखा सखी । शेषं पूर्ववत् । बलिनुपस्तेन कृतो यज्ञो यागस्तमिव पुराणपुरुषैर्वृद्धपुरुषैर्वामनैश्चाधिष्ठितमाश्रितमभ्यन्तरं मध्यभागो यस्य तत् । पक्षे पुराणपुरुषो यो वामनो गृहीतवामनावतारः शेषं पूर्ववत् । शुक्लेति । शुक्लो यः पक्षस्तस्य प्रदोषो यामिनीमुखं तद्वदिव । विततो विस्तीर्णो यः राशिकिरणकलापस्तद्वद्धवलं यदम्बरं वस्त्रं तस्य वितानमुल्लोचो यस्मिन् । पक्षे शशिकिरणकलापेन धवलाम्बरमेव वितानं यस्मिन्निति विग्रहः । नरवाहनो राजा तस्य दन्तकथा लोकप्रवृत्तिस्तद्वदिवान्तःसंवर्धिता अन्तःपुरे वृद्धि प्राप्ता याः प्रियदर्शना इष्टावलोकना राजदारा एव राजदारिकाः । स्वार्थे कः । 'काम्यच्च' इति पूर्वस्येकारः । ताभिर्गन्धर्वाणां देवगायकानां दत्तोत्कण्ठा यस्मिन् । पक्षेऽन्तःसंवर्धिता प्रियदर्शनानाम्नी राजदारिका नरवाहनपुत्री गन्धर्वदत्तश्च तस्या गान्धर्वशिक्षकोपाध्यायस्तयोश्चिरविरहितयोः समागमोत्कण्ठा यस्मिन् । महातीर्थं वाराणस्यादि तद्वदिव सद्यस्तत्कालमनेकैः पुरुषैः प्राप्तं लब्धमभिषेकेण फलं शरीरशुद्धिलक्षणं यस्मिन् । पक्षेऽनेकपुरुषैः प्राप्तमभिषेकात्स्नानात्स्वर्गादिपदबन्धफलं यस्मात् । प्रागिति । प्राग्वंशो हविर्गृहात्याग्गृहम् । यज्ञगृहमित्यर्थः । तमिव नानाविधो या आसंवः सोमवल्ल्यासवस्तेषां पात्राणि भाजनानि तैः संकुलं व्याप्तम् । - - - - - - - - - - - - - - - - - - - टिप्प० - 1 भयेन शत्रुभयेन अन्तःप्रविष्टानां स्वपक्षीयजनसहितानां भूभृतां राज्ञां सहस्त्रेण संकुलमिति राजभवनपक्षेऽर्थः । 2 अन्तःसंवर्धिता प्रियदर्शना (परमसुन्दरी) गन्धर्वदत्ताख्या या (सागरदत्तस्य कन्या) तस्या उत्कण्ठा (नरवाहनदत्तस्य कृते) यस्याम् इत्यर्थः । तथाहि कथासरित्सागरः- 'राजा सागरदत्ताख्यो गन्धर्वाणामिहास्ति यः । तस्य गन्धर्वदत्ताख्या सुतास्ति न्यकृताप्सराः । सा हि बन्दिमुखावरवाहनदत्तस्य गुणान् श्रुत्वा तस्मिनुत्कण्ठिता बभूव । पाठोऽपि - 'नरवाहनदत्तकथेव' इति कैश्चनाऽनुमीतः । 3 अनेकपुरुषैर्नानादेशीयैः राजपुरुषैः प्राप्तम्, अभिषेक (राज्याभिषेक) रूपं फलं यस्मात् । अर्थात् यस्माद्राजभवनात् बहुभिः राजभिः राजत्वं प्राप्तम् । 4 नानाविधैः सवस्य यज्ञस्य पात्रैः सुक्सुवादिभिः संकुलमित्यर्थो वाच्यः । पाठा० - १ संप्रदानापादान. २ भयात्प्रविष्ट. ३ भूमिभृत्. ४ विचित्रलेखा. ५ धवलित. ६ नरवाहनदत्तचरितमिव. राजभवनम् पूर्वभागः । 199 Page #213 -------------------------------------------------------------------------- ________________ नक्षत्रमालालकृतम्, प्रभातसमयमिव पूर्वदिग्भागरागानुमेयमित्रोदयम्, गन्धिकभवनमिव स्नानधूपविलेपवर्णकोज्ज्वलम्, ताम्बूलिकभवनमिव कृतलवलीलविङ्गैलाकङ्कोलपत्रसंचयम्, प्रथमवेश्यासमागममिवाविदितहृदयाभिप्रायचेष्टाविकारम्, कामुकजनमिव बहुचाटुसलापसुभाषितरसास्वाददत्ततालशब्दम्, धूर्तमण्डलमिव दीयमानमणिशतसहसालंकरणकृतलेख्यपत्रसंचयम्, धर्मारम्भमिवाशेषजनमनःप्रह्लादनम्, महावनमिव चोपदद्विजोपघुष्टम्, रामायणमिव कैपिकथासमाकुलम्, माद्रीकुलमिव नकुलालकृतम्, संगीतभवनमिवानेकस्थानावस्थापितमृदङ्गम्, रघुकुलमिव भरतगुणानन्दितम्, ज्यौतिषमिव ग्रहमोक्षकलाभागनिपुणम्, - *********** पक्ष आसवपात्राणि मद्यपात्राणि । 'मध्वासवो माधवको मैरेये सीधुरासवः' इति कोशः । निशा रात्रिस्तस्याः समयः कालस्तमिव सप्तविंशतिभिर्मुक्ताफलैः रचिता नक्षत्रमालास्ताभिरनेकाभिरलंकृतं विभूषितम् । पक्षेऽनेका नक्षत्रमाला ग्रहश्रेणियस्मिन् । प्रभातं प्रत्यूषं तस्य समयोऽवसरस्तमिव पूर्वदिशा पूर्वरीत्या भागेनैकदेशेन यो रागः स्नेहस्तेनाप्यनुमेयो मित्रस्य सुहृद उदयोऽभ्युन्नतिर्यस्मिन् । स्तोकसबन्धेन समागतानामपि सुहृदामतिगौरवम् । का कथा बहुसंबन्धेनागतानामिति भावः । पक्षे पूर्वदिग्भागे प्राच्येकदेशे यो रागस्ते नानुमेयोऽनुमातुं योग्यो मित्रस्य सूर्यस्योदयो यस्मिन् । गन्धिक औषधादिविक्रयकृत्तस्य भवनं गृहं तद्वदिव स्नानानन्तरं केशानां धूपः, विलेपनमङ्गरागः, वर्णको वर्तिविशेषः, तैरुज्जवलं निर्मलमित्यभङ्गश्लेषः । ताम्बूलिकानां नागवल्लीदलविक्रयकारिणां भवनमिव कृतो विहितो लवली सुगन्धवल्लीविशेषः, लविङ्ग देवकुसुमम्, एला चन्द्रवाला, कङ्कोलः कोशफलम्, पत्रं जातिफलपत्रम्, एतेषां संचयः संनिधिर्यस्मिनित्यभङ्गश्लेषः । प्रथम आयो यो वेश्यया वारयोषिता समागमस्तमिव । अतिगाम्भीर्यादविदितोऽज्ञातो हृदयाभिप्रायश्चित्ताशयो यस्यैवंविधस्य । अर्थाद्राज्ञः । चेष्टाविकारश्चेष्टा शरीरादिक्रिया तस्या विकारो विकृतिर्यस्मिनित्यभङ्गश्लेषः । कामुकः कामयिता यो जनस्तमिव बहूनि चाटूनि प्रियप्रायाणि येष्वेवंविधाः संलापाः परस्परालापाः सुभाषितानां सूक्तानां रसास्वादास्तेषु दत्तास्तालशब्दा अभीष्टावबोधनेन परस्परकरतालाहतयो यस्मिन् । पक्षे यैरिति तृतीयाबहुव्रीहिः । धूर्ता द्यूतकृत्तस्य मण्डलमिव समूहमिव दीयमानं यन्मणिशतसहसालकरणमलंकृतिस्तत्र कृतो लेख्यपत्रसंचयो यस्मिन् । अवरोधजनस्य मध्ये यदलंकारादिकं प्रेष्यते प्रदीयते वा तत्सर्वं बहिःस्थैलिपीक्रियत इति राजस्थितिः । पक्षे कृतो लेख्यपत्रसंचयो यैरिति । धूर्तेरपि सर्वं पत्रलेख्यपूर्वकं गृह्यत इति तदुपमानम् । धर्मस्य वृषस्यारम्भः प्रारम्भस्तमिवाशेषाः समग्रा जनास्तेषां मनस्तस्य प्रह्लादनमानन्दजनकमित्यभङ्गश्लेषः । महच्च तद्वनं च महावन तदिव वापदा वने व्याघ्रादयो गृहे मृगयार्थं संरक्षिताश्च द्विजाः पक्षिणो ब्राह्मणाश्च तैरुपघुष्टं शब्दितम् । रामायणं रामचरित्रं तदिव विनोदार्थं रक्षिताना कपीना वानराणां कथा वार्तास्ताभिः समाकुलम् । पक्षे कपिकथा हनूमत्कथा । माद्रीकुलं माद्री पाण्डुपत्नी तस्याः कुलं तद्वदिव नकुलः सर्पहा तेनालंकृतम् । विनोदार्थं राज्ञां गृहे तत्सद्भाव इति भावः । पक्षे नकुलः सहदेवाग्रजः । संगीतस्य प्रेक्षणार्थं प्रयुक्तस्य गीतनृत्यवायत्रयस्य भवनमिवानेकस्थानेष्ववस्थापितं न्यस्तं मृदां मृत्तिकानामङ्गं यस्मिन् । पक्षे मृदङ्गानि मुरजानि । रघुकुलं दशरथकुलं तद्वदिव । भरतः शैलूषस्तस्य गुणेन कलाकौशलेनानन्दितम् । पक्षे भरतस्य दाशरथेगुणो व्रतपालनलक्षणः । ज्योतिषमिव ज्योतिःशास्त्रमिव ग्रह उद्धतनृपाणा ग्रहणं, मोक्षस्तेषामेव - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 गन्धद्रव्याणि विक्रीणीते स गान्धिकः (गन्धी 'सुगन्धी' इति ख्यातः) । 2 पर्णम् (नागवल्लीदलम्) इर्थः । 3 दीपमान्य (दातव्याय) मणिशतसहसाय अलंकरणाय च कृतः लेख्यपत्रसंचयः 'एतावत्काले दास्यामि' इति ऋणलेख्यपत्रसमूहो यस्मिनित्यर्थः । पाठा० - १ गान्धिक. २ लेपन. ३ लवङ्गलाकोलि; लवङ्गैलाकक्कोल. ४ प्रधान. ५ विविधश्चापद. ६ कविकथा. ७ कुल. M (200 MMMM कादम्बरी । कथायाम Page #214 -------------------------------------------------------------------------- ________________ नारदीयमिव वर्ण्यमानराजधर्मम्, यन्त्रमिव विविधशब्दरसलब्धास्वादम्, मृदुकाव्यमिवान्यचिन्तितस्वभावाभिप्रायावेदकम्, महानदीप्रवाहमिव सर्वर्दुरितापहरम्, धनमिव न कस्यचित्राकाङ्क्षणीयम्, संध्यासमयमिव दृश्यमानचन्द्रापीडोदयम्, नारायणवक्षस्थलमिव श्रीरत्नप्रभाभासितदिगन्तम्, बलभद्रमिव कादम्बरीरसविशेषवर्णनाकुलमेतिम्, ब्राह्मणमिव पद्मासनोपदेशदर्शितभूमण्डलम्, स्कन्दमिव शिखिक्रीडारम्भचञ्चलम्, कुलाङ्गनाप्रचारमिव सर्वदोपजातशङ्कम्, वेश्याजनमिवोपचारचतुरम्, दुर्जनमिवापगतपरलोकभयम्, अन्त्यजजनमिवागम्यविषयाभिलाषम्, अगम्यविषयासक्तमपि प्रशंसनीयम्, अन्तकभटगणमिव - - *****: दण्डादिना मोचनम्, कलाभागा विज्ञानैकदेशाः तेषु निपुणा यस्मिन् । पक्षे अर्केन्द्रोः ग्रहो मोक्षश्च, कला षोडशो भागः, तासां भागा विभागास्तेषु निपुणम् । एतज्ज्ञापकमित्यर्थः । नारदीयं पुराण तद्वदिवासमन्ताद्वर्ण्यमानः स्तूयमानो राजधर्मो यस्मिन्नित्यभङ्गश्लेषः । यन्त्र वीणा तद्वदिव विविधाः शब्दा मनोज्ञशब्दाः, रसाः श्रृङ्गारादयः तेषां लब्ध आस्वादश्चर्वणं येन तत् । पक्षे विविधशब्दरसैर्नानाविधरागरसैर्लब्धास्वादा, जना यस्मात् । मृदु सुकुमारं यत्काव्यं कविकर्म तद्वदिवान्यचिन्तितानि स्वभावाः प्रकृतयः, अध्यवसाया मनोगताभिप्रायाः, तेषामावेदकं कथकम् । पक्षेऽन्येन कविना चिन्तितो विचारितो यः स्वभावाभिप्रायः सहजोऽभिप्रायः । तात्पर्यविषयी भूतोऽर्थ इति यावत् । तस्यावेदकं ज्ञापकम् । महानद्या बृहत्तटिन्याः प्रवाह ओघस्तमिव सर्वं यद्दुरितं दुश्चरितं तस्यापहरम् । पक्षे सर्वं दुरितं पापम् । धनं द्रव्यं तद्वदिव न कस्यचिदपि नाकाङ्क्षणीयं नाभिलषनीयम् । अपि तु सर्वस्यापि स्पृहणीयमित्यर्थः । इत्यभङ्गश्लेषः । संध्यायाः सायंकालस्य समयः क्षणस्तमिव दृश्यमानः प्रेक्ष्यमाणश्चन्द्रापीडस्य सुतस्योदयोऽभ्युन्नतिर्यस्मिन् । पक्षे चन्द्रापीड ईश्वरः । सर्वदा संध्यायां नृत्यविधानादिति भावः । नारायणो विष्णुस्तस्य वक्षस्थलं भुजान्तरं तद्वदिव श्रीः शोभा तया युक्तानि रत्नानि तेषां प्रभाः कान्तयस्ताभिर्भासितं प्रकाशितं दिगन्तं यस्मिन् । पक्षे श्रीलक्ष्मीः, रत्नं कौस्तुभम् । शेषं पूर्ववत् । बलभद्रो रामस्तमिव कादम्बरी वक्ष्यमाणी स्त्री तस्या रसविशेषवर्णन आकुला मतिर्यस्मिन् । पक्षे कादम्बरी कापिशायनम् । ब्राह्मणमिव द्विजमिव पद्मासनोपदेशेन दर्शितं भूमण्डल यस्मिन् । पक्षे पद्मासनो ब्रह्मा तस्योपदेशो वेदस्तेन दर्शितमन्येभ्यः प्रकाशितं भूमण्डलं येन स तम् । स्कन्दः स्वामी तमिव शिखी मयूरस्तस्य यः क्रीडारम्भस्तेन चञ्चलं चटुलमित्यभङ्गश्लेषः । कुलाङ्गनायाः कुलवध्याः प्रचारः संचरणं तमिव सर्वं ददातीति सर्वदःपरमेश्वरस्तस्मादुपजाता शङ्का भयं यस्मिन् । पक्षे सर्वदा सर्वकालम् । वेश्याजनो वाराङ्गनाजनस्तमिवोपचारः सेवा तत्र चतुरमित्यभङ्गश्लेषः । दुर्जनः खलस्तमिवागतं परे लोकाः शत्रवस्तेभ्यो भयं यस्मिन् । पक्षे परलोको भवान्तरम् । अन्त्यजजनो दिवाकीर्तिजनस्तमिवागम्यः परैरग्राह्य एवंविधो विषयो देशस्तमिवोपचारो यस्मिन् । पक्षेऽगम्यानां विषयाभिलाषो यस्मिन्निति बहुव्रीहिः । अगम्यविषया - सक्तमपि राजभवनम् *** टिप्प० - 1 अन्यैः (वक्तुर्भिन्त्रैः) चिन्तितः श्रवणमात्रेणाऽवगतः स्वभावः (स्वोऽर्थः ) अभिप्रायः कवेराशयश्च तयोरावेदकम् । प्रसादगुणविशिष्टं काव्यमन्ये श्रवणमात्रेण आशयतोऽवबुध्यन्त इत्यर्थः । 2 कादम्बर्या सांप्रतं परिचयाभावान्नोचितोयमर्थः केषाञ्चिन्मते । उभयत्रापि मद्यमेवार्थः । राजकुलपक्षे 'आकुलमति' इति लिङ्गव्यत्ययः कार्यः । 3 पद्मायाः आसनाय (स्थितये) य उपदेशो ( गुरुभिर्दत्तः ) तेन दर्शितं भूमण्डलं ( भूमण्डलव्यवहारः ) यस्मिन् । 4 सर्वदा उपजाता शङ्का यस्मात्, साधारणजना राजभवनाद् बिभ्यति । 5 परैः अगम्यः अज्ञेयः विषयाणां देशानामभिलाषो यस्मिन्, कदा कीदृशो देशः आक्रम्य ग्रहीष्यते इति गुप्तमन्त्रत्वाद् न ज्ञायते इत्यर्थो योग्यः । पाठा० - १ अनन्य. २ वेदकम. ३. दुरिततापहरम्. ४ काङ्क्षणीयम्; काङ्क्षणीयं फलम्. ५ मति. ६ ब्रह्माणम्. ७ अन्यजन. पूर्वभागः । 201 Page #215 -------------------------------------------------------------------------- ________________ कृताकृतसुकृतविचारनिपुणम्, सुकृतमिवादिमध्यावसानकल्याणकरम्, वासरारम्भमिव पद्मरागारुणीक्रियमाणनिशान्तम्, दिव्यमुनिगणमिव केलापिसनाथश्वेतकेतुशोभितम्, भारतसमरमिव कृतवर्मबाणचक्रसंभारभीषणम्, पातालमिव महाकञ्चुक्यध्यासितम्, वर्षपर्वतसमूहमिवान्तःस्थितापरिमितश्रृङ्गिहेमकूटम, महाद्वारमपि दुष्प्रवेशम्, अवन्तिविषयगतमपि मागधजनाधिष्ठितम्, स्फीतमपि भ्रमन्नग्नलोकं राजकुलं विवेश । ससंभ्रमोपगतैश्च कृतप्रणामैः प्रतीहारमण्डलैरुपदिश्यमानमार्गः, सर्वतः प्रचलितेन च - *********** प्रशंसनीयमिति विरोधः । तत्परिहारस्त्वगम्यः परैरग्राह्यो विषयो देशस्तदासक्तमित्यर्थात् । अन्तको यमस्तस्य भटगणः सुभटसमूहस्तमिव कृताकृतं यत्सुकृतं शोभनं कृत्यं तस्य यो विचारस्तत्र निपुणं चतुरम् । पक्ष------- । सुकृतं पुण्यं तद्वदिवादिमध्यावसानेषु कल्याणकर शुभकारकमित्यभङ्गश्लेषः । वासरस्य दिवसस्यारम्भस्तमिव पद्मरागै रक्तमणिभिररुणीक्रियमाणं रक्तीक्रियमाणं निशान्तं गृहं यत्र तत् । 'धामागारं निशान्तम्' इति कोशः । पक्षे पद्माना रागैररुणीक्रियमाणो निशान्तो रात्रिप्रान्तो यस्मिन् । दिव्यो मुनिगणो वसिष्ठादिस्तमिव कलापिनो मयूरास्तैः सनाथाः सहिता ये श्वेतकेतवः सितध्वजास्तैः शोभितम् । पक्षे कलापी सनाथः श्वेतकेतुश्च त्रयोऽप्येते देवर्षयस्तैः शोभितं विराजितम् । भारतशास्त्रोक्तसमरमिव कृतो विहितो वर्म कवचम्, बाणाः शराः, चक्राणि प्रसिद्धानि, एतेषां संभारः समूहस्तेन भीषणं भयजनकम् । पक्षे कृतवर्मा हृदीकपुत्रः, बाणाः शिलीमुखाः, तेषां चक्रेषु परदलेषु संभारस्तेन भीषणम् । पाताल वडवामुखं तदिव महाकञ्चुकिनः सौविदल्लास्तैरध्यासितमाश्रितम् । पक्षे महाकञ्चुकिनः सर्पाः । वर्षपर्वताः क्षेत्रसीमाकारिणोऽचलाः सप्तैव । तदुक्तम्'हिमवान् हेमकूटश्च निषधो मेरुरेव च । श्वेतः कृष्णश्च श्रृङ्गी च सप्तैते वर्षपर्वताः । तेषां समूहमिवान्तःस्थितानि मध्यस्थितान्यपरिमितान्यसंख्येयानि श्रृङ्गीहेमानि । 'अलंकाराय यत्स्वर्णं तच्छृङ्गीकनकं विदुः । तेषां कूटानि यस्मिंस्तत्संबन्धस्तैरपरिमितत्वेनं श्रृङ्गं प्राधान्य येषामेवंभूतानि हेमकूटानि सुवर्णसमूहा यस्मिन् । 'श्रृङ्गं प्राधान्यसान्वोच' इत्यनेकार्थः । पक्षेऽपरिमितश्रृङ्गी हेमकूटाचलो यस्मिन् । महाद्वारमपि दुःप्रवेशमित्यतिशयोक्तिः । अवन्तिविषयो मालवदेशस्तत्र गतमपि प्राप्तमपि मागधजनै जरासन्धदेशोद्भवजनैरधिष्ठितमिति विरोधः । तत्परिहारस्तु मागधा युद्धान्निवर्तिनो गायनास्तैरधिष्ठितमित्यर्थात् । स्फीतमपि ऋद्धिमदपि भ्रमन्तो नग्ना लोका यस्मिन्निति विरोधः । तत्परिहारस्तु भ्रमन्तो देशान्तरादागता नग्नलोकाः स्तुतिव्रता नग्नाचार्याश्च यस्मिन्नित्यर्थात् । ससंभ्रमं सवेगमुपगतैः प्राप्तैः कृतः प्रणामो येनैवंभूतैः प्रतीहारमण्डलैभरपालसमूहैरुपदिश्यमान उपदय॑मानो मार्गः पन्था यस्य स तथा । बहुभिर्वर्षर्विद्याभ्यासं विधाय गृहागतत्वेन तादृशगृहज्ञानाभावाद्वारपालैर्मार्गः प्रदीत इति भावः । यद्वा पितुराह्वानजनितप्रमोदातिरेकेण विस्मृतान्यव्यापारत्वात्तत्प्रदर्शनं युक्तमेवेति भावः । राजगृहप्रवेशानन्तरं स चन्द्रापीडो भुवनान्तराणीव सप्तकक्षान्तराण्यतिक्रम्य पितरं तारापीडमपश्यदित्यन्वयः । पुनः कीदृशः । राजलोकेन प्रणम्यमानो नमस्क्रियमाणः । अथ राजलोकं विशिनष्टि - सर्वति इति । सर्वतः - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 प्रजाभिः कृतस्य अकृतस्य सुन्दररूपेण कृतस्य च (कार्यस्य) विचारे इति राजकुलपक्षे । कृतयोः अकृत(पाप) सुकृत (पुण्य) योर्विचारे इति यमभटपक्षे । 2 अन्तःस्थितः अपरिमितानां श्रृङ्गिणां (गवादीनाम्) हेम्नां च कूटो (समूहः) यस्मिन्निति राजकूलम् । अन्तःस्थितौ अपरिमितौ (महान्तौ) गि - हेमकुटौ तन्नामको पर्वतौ यस्य इति वर्षपर्वतसमूहः । इत्यर्थः । 3 विरोधालंकारोऽत्र । महाद्वारत्वे दुःप्रवेशत्वं विरुद्धम् । राज्ञः प्रतापात् साधारणैः दुःप्रवेशत्वमिति तत्परिहारः । पाठा० - १ परिस्फुरत्पद्म. २ चित्रकलापि. ३ उपशोभितम्. ४ शिलीमुख. ५ कञ्चुकिसहसाध्यासितम्. ६ परिमाण. ७ श्रृङ्गः श्रृङ्गि. (202) कादम्बरी। कथायाम् Page #216 -------------------------------------------------------------------------- ________________ पूर्वकृतावस्थानेन दूरपर्यस्तमौलिशिथिलितंचूडामणिमरीचिचुम्बितवसुधातलेन राजलोकेन प्रत्येकशः प्रतीहारनिवेद्ये मानेन सादरं प्रणम्यमानः, पदे पदे चाभ्यन्तरविनिर्गताभिराचारकुशलाभिरन्तःपुरवृद्धाभिः क्रियमाणौवतरणमङ्गलः, भुवनान्तराणीव विविधप्राणिसहस्त्रसंकुलानि सप्तकक्षान्तराण्यतिक्रम्याभ्यन्तरावस्थितम्, अनवरतशैस्त्रग्रहणश्यामिकालीढकरतलैः करचरणलोचैनवर्जमसितलोहजालैकावृतशरीरैरालानस्तम्भैरिव गजमदपरिमललो भँनिरन्तरनिलीनमधुकरपटलजटिलैः कुलक्रमागतैरुदात्तान्वयैरनुरक्तैर्महाप्राणतयातिकर्कशतया च दानवैरिवार्शयाकारसंभाव्यमानपराक्रमैः सर्वतः शरीररक्षाधिकारनियुक्तैः पुरुषैः परिवृतम्, उभयतो वारविलासिनीभिश्चानवरतमुद्धूयमानधवलचामरम्, अमलपुलिनतलशोभिनि सुरकुञ्जरमिव मन्दाकिनीवारिणि हसंधवलशयनतले निषण्णं पितरमपश्यत् । आलोकयेति च प्रतीहारवचनानन्तरमतिदूरावनतेन चलितचूडामणिना शिरसा कृतप्रणाममेोहीत्यभिदधानो दूरादेव प्रसारितभुजयुगलः शयनतलादीषच्छसितमूर्तिरानन्दजलपूर्यमाणलोचनः समुद्गत - ** I 1 समन्तात्प्रचलितेनोत्थितेन कुमारागमनप्रतीक्षया पूर्वं कृतं विहितमवस्थानमवस्थितिर्येन । दूरादेव पर्यस्ता नम्रा ये मौलयः शिरांसि मुकुटानि वा तेभ्यः शिथिलिताः श्लथीभूता ये चूडामणयस्तेषां मरीचिभिश्चुम्बितमाश्लिष्टं वसुधातलं येन । प्रत्येकशः प्रत्येकं प्रतीहारो द्वारपालस्तेन निवेद्यमानेन निवेदनां क्रियमाणेन सादरं यथा स्यात्तथेति क्रियाविशेषणम् । पदे पदे प्रतिपदमभ्यन्तरान्मध्यप्रदेशाद्विनिर्गताभिर्बहिर्निःसृताभिराचारे राजस्थितौ कुशलाभिर्निपुणाभिरन्तः पुरवृद्धाभिर्महत्तरिकाभिः क्रियमाणमवतरणमङ्गलं यस्य सः । अथ राजानं विशेषयन्नाह - अभ्यन्तरेति । अभ्यन्तरे मध्यगृहेऽवस्थितं कृतावस्थानम् । पुनः कीदृशम् । पुरुषैः परिवृतं आवृतम् । पुरुषान्विशेषयन्नाह - अनवरतेति । अनवरतं निरन्तरं यच्छस्त्रग्रहणं तेन या श्यामिका तयालीढमाश्लिष्टं करतलं हस्ततलं येषां तैः । करचरणलोचनवर्जम् एतान्विहायेत्यर्थः । तेषामप्यावरणे शस्त्रग्रहणगतिप्रेक्षणानामेवाभावः स्यादित्यर्थः । असितं यल्लोहजालकं तेनावृतमाच्छादितं शरीरं येषां तैः । कैरिव । आलानस्तम्भैरिव गजबन्धनस्तम्भैरिव । असितत्वसाम्यादाह - गजेति । गजस्य हस्तिनो यो मदो दानं तस्य यः परिमलस्तस्य लोभेन निरन्तरं निलीना ये मधुकरा भ्रमरास्तेषां पटलानि तैर्जटिलैव्र्व्याप्तैः । कुलक्रमागतैः परम्परायातैः । उदात्तो महानन्वयो वंशो येषां तैः । अनुरक्तैः प्रीतिमद्भिः । महाप्राणतया महापराक्रमतयातिकर्कशतयातिनिष्ठुरतया च दानवैरिव दनुजैरिवाशयश्चित्ताभिप्रायः, आकार आकृतिः, ताभ्यां संभाव्यमानः पराक्रमः साहसं येषु तैरेवंभूतैः सर्वतश्चतुर्दिक्षु शरीररक्षाधिकारनियुक्तैरात्मरक्षकैः पुरुषैः परिवृतं परिवेष्टितम् । उभयतः पार्श्वद्वये वारविलासिनीभिर्वारयोषिद्भिरनवरतमुद्धूयमानं वीज्यमानं धवलचामरं यस्य स तम् । पुनः कीदृशम् । हंसवद्धवलं यच्छयनतलं शय्यातलं तत्र निषण्णं स्थितम् । कमिव । मन्दाकिनी गङ्गा तस्या वारिणि जले सुरकुञ्जरमिवैरावणमिव । शयनं विशिनष्टि - अमलेति । अमलं निर्मलं यत्पुलिनं सैकतं तस्य तलं तद्वच्छोभिनि विराजिनि । अन्वयस्तु प्रागेवोक्तः । आलो विलोकयेति प्रतीहारवचनानन्तरं द्वारपालोक्तेः पश्चादतिदूरादतिदविष्ठदेशादवनतेन नम्रेण चलितः कम्पितश्चूडामणिः शिरोमणिर्यस्यैवंभूतेन शिरसा मस्तकेन कृतः प्रणामो येन तम् । एह्येहि । वीप्सायां द्वित्वम् । आगच्छागच्छेत्यभिदधान इति ब्रुवाणः दूरादेव प्रसारितं विस्तारितं भुजयुगलं बाहुयुग्मं येन सः । शयनतलादीषत्किंचिदुच्छ्वसितोर्ध्वभूता मूर्तिः शरीरं यस्य सः । आनन्दजलेन प्रमोदबाष्पेण पूर्यमाणे भ्रियमाणे लोचने नेत्रे यस्य सः । आनन्दरूपमभिव्यञ्जयन्नाह समुद्गतेति । समुद्गतः प्रादुर्भूतो यः - - पाठा० - १ चलित. २ निवेद्यमाननाम्ना. ३ अवतारण; अवतरणक. ४ शस्त्रग्रह. ५ विलोचन. ६ जालावृत. ७ लोभनिलीन. ८ महाप्रमाणतया. ९ अतिशयाकारम्; आशयाकारम्; अतिशयाकारैः; अतिशयाकार. १० हंसधवले. ११ आदरेणाभिदधानः १२ उल्लसित. १३ आपूर्यमाण. चन्द्रापीडस्य मातापित्रोर्दर्शनम् पूर्वभागः । 203 Page #217 -------------------------------------------------------------------------- ________________ पुलकतया सीव्यन्निवैकीकुर्वन्निव पिबन्निव तं पिता विनयावनतमालिलिङ्ग । आलिङ्गितोन्मुक्तश्च पितुश्चरणपीठसमीपे पिण्डीकृतमुत्तरीयमात्मीयं ताम्बूलकरङ्कवाहिन्या सत्वरमासनीकृतमपनयेति शनैर्वदन्नग्रचरणेन समुत्सार्य चन्द्रापीडः क्षितितल एव निषसाद । अनन्तरं निहिते चास्यासने राज्ञा सुतनिर्विशेषमुपगूढो वैशम्पायनो न्यषीदत् । मुहूर्तमिव विस्मृतचामरोत्क्षेपनिश्चलानां वारविलासिनीनां साभिलाषैरनिलचलितकुवलयदामदीर्धे[जिहातरलतारसारैरवलुप्यमान इव दृष्टिपातैः स्थित्वा ‘गच्छ वत्स, पुत्रवत्सलां मातरमभिवाद्य दर्शनलालसा यथाक्रम सर्वा जननीदर्शनेनानन्दय' इति विसर्जितः पित्रा सविनयमुत्थाय निवारितपरिजनो वैशम्पायनद्वितीयोऽन्तःपुरप्रवेशयोग्येन राजपरिजनेनोपदिश्यमानवान्तःपुरमाययौ । तत्र धवलकञ्चुकावच्छन्नशरीरैरनेकशतसंख्यैः श्रियमिव क्षीरोदकल्लोलैः समन्तात्परिवृतां - *********** पुलको रोमाञ्चस्तस्य भावस्तत्ता तया सीव्यन्निव सीवनं कुर्वन्निवैकीकुर्वन्निव तन्मयीकुर्वन्निव पिबन्निवात्यादरेण पानं कुर्वन्निव । पितुर्निकटे विनयातिशय व्यञ्जयन्नाह - विनयेति । विनयाद्वैनयिकगुणेनावनत नभ्रीभूतं पिता तारापीडस्तं चन्द्रापीडमालिलिङ्ग परिषस्वजे । पूर्वमालिङ्गितः पश्चादुन्मुक्तो विभिन्नीभूतः पितुस्तारापीडस्य चरणयोः पादयोः पीठं पादासनं तस्य समीपेऽन्तिके ताम्बूलकरङ्कवाहिन्या पिण्डीकृतमात्मनः स्वकीयमुत्तरीयं सत्वरं शीघ्रमासनीकृतं विष्टरीकृतम् अपनय दूरीकुर्विति शनैःशनैर्वदन्ब्रुवन्नग्रचरणेन तत्समुत्सार्य दूरीकृत्य चन्द्रापीडः क्षितितल एव भूमावेव निषसादोपविष्टवान् । तदनन्तरं तदुपवेशनानन्तरं राज्ञा तारापीडेन सुतनिर्विशेष यथा स्यात्तथोपगूढ आलिङ्गितो वैशम्पायनो निहिते स्थापितेऽस्यासने चन्द्रापीडासने न्यषीददुपाविशत् । विस्मृतो यश्चामरोत्क्षेपस्तेन निश्चलाना वारविलासिनीनां वाराङ्गनानां दृष्टिपातैर्नेत्रप्रान्तैरवलुप्यमान इवाच्छाद्यमान इव । दृष्टिपातं विशेषयन्नाह - सेति । सहाभिलाषाभिर्वर्तमानैः साभिलाषैः । सहस्य सादेशः । अनिलेन वायुना चलितं कम्पितं यत्कुवलयदाम कमलमाला तद्दीधैरायतैराजिह्माकुटिला तरला चञ्चला तारा कनीनिका सैव सारं प्रधानं येषु तैः । मुहूर्तमिव कियत्कालं तत्र राजसमीपे स्थित्वा स्थानं कृत्वा । हे वत्स हे पुत्र, गच्छ व्रज । पुत्रवत्सलां पुत्रहितां मातरं जननी दर्शनलालसा त्वदर्शनोत्कण्ठितामभिवाद्य पादग्रहणं कृत्वा यथाक्रम यथानुक्रम सर्वा जननीरुपमातृर्दर्शनेनानन्दय प्रमोदय । इति हेत्वर्थे । पित्रा तारापीडेन विसर्जितो विसृष्टः सविनयं यथा स्यात्तथोत्थायोत्थानं कृत्वा निवारितस्तत्रैव रक्षितः परिजनः परिच्छदो येनैवंभूतो वैशम्पायनद्वितीयोऽन्तःपुरप्रवेशयोग्येन राजपरिजनेनोपदिश्यमानवान्तःपुरमाययौ समागमत् । । तत्रेति । तत्र अन्तःपुरे मातरं जननी प्रणनाम नमश्चक्र इति दूरेणान्वयः । अथ मातुर्विशेषणानि-धवलकञ्चुकैरवच्छन्नान्याच्छादितानि शरीराणि येषां तैः । अनेके ये शतसंख्यास्तैः शुद्धान्तर्वशिकैः शुद्धोऽन्तर्वंशश्चान्तःपुरं तत्र नियुक्ता आन्तर्वशिकाः कञ्चुक्यादयस्तैः समन्तात्सर्वतः परिवृतां परिवेष्टिताम् । कैः कामिव । - - - - - - - - - - - - - टिप्प० - 1 वदति कश्चनैवम्-अस्य (चन्द्रापीडस्य) अनन्तरं (पश्चात्) निहिते आसने, इत्यर्थः । ब्राहाणत्वेन वैशम्पायनायासनदान नानुचितम् । 2 'आजिह्यतरलतरतारैः' इत्यपि पाठः प्रचलितः । तरलतराः ताराः येष्वित्यर्थः । सारैरिति पाठेऽपि तालव्यादिः 'शारैः' इति पाठः । आजिह्याः तरलतराश्च यास्ताराः ताभिः शारैचित्रितैः । इति तदर्थः । - - - - - - - - - - - - - पाठा० . १ पुलककण्टकतया. २ एकीकुर्वत्रिव तम्. ३ आत्मीयम्. ४ करण्ड, ५ समुत्सार्य क्षितितले. ६ अनन्तरनिहिते; अनन्तरविनिहिते. ७ कुवलयदल. ८ जिहिात. ९ तरलतरतार. १० दर्शनलालसाः. ११ परिजनेन. १२ नैकशत. 204 कादम्बरी। कथायाम् Page #218 -------------------------------------------------------------------------- ________________ शुद्धान्तर्वशिकः, अतिप्रशान्ताकाराभिश्च कषायरक्ताम्बरधारिणीभिः संध्याभिरिव सकललोकवन्याभिः प्रलम्बश्रवणपाशाभिर्विदितानेककथावृत्तान्ताभिभूतपूर्वाः पुण्याः कथाः कथयन्तीभिरितिहासान्वाचयन्तीभिः पुस्तकान्दधतीभिर्धर्मोपदेशानिवेदयन्तीभिः जरत्प्रव्रजिताभिर्विनोद्यमानाम, उपरचितस्त्रीवेषभाषेण गृहीतविकटप्रसाधनेन वर्षवरजनेनोपसेव्यमानाम्, अनवरताभिधूयमानवालव्यजनकलापाम्, अङ्गनाजनेन च वसनाभरणकुसुमपटवासताम्बूलतालवृन्ताङ्गरागभृङ्गारधारिणा मण्डलोपविष्टेनोपास्यमानाम्, पयोधरावलम्बिमुक्तागुणाम् अचलमध्यस्त्रवद्गङ्गाप्रवाहामिव मेदिनीम्, आसनदर्पणपतितमुखप्रतिविम्बाम् अर्क - *********** क्षीरोदकल्लोलैः क्षीरसमुद्रतरगैः परिवृतां श्रियमिव लक्ष्मीमिव । पुनः कीदृशीम् । जरत्प्रव्रजिताभिवृद्धतापसीभिर्विनोद्यमानां विनोदविषयीक्रियमाणाम् । अथ च तापसीना विशेषणानि-अतिप्रशान्तोऽतिशान्त आकारो यासा ताभिः । कषायेण रक्तं यदम्बरं वस्त्रं तद्धारयन्तीत्येवशीलास्ताभिः । सकलाः समग्रा ये लोकास्तैर्वन्याभिर्वन्दनीयाभिः । रक्ताम्बरसाम्यादाह - संध्याभिरिव । प्रलम्बा लम्बायमानाः श्रवणपाशाः कर्णपाल्यो यासां ताभिः । विदिता ज्ञाता अनेकाः कथाः प्रबन्धास्तासां वृत्तान्तो वार्ता याभिस्तास्ताभिः । पूर्वं भूता भूतपूर्वा एवंविधाः पुण्याः पवित्राः कथाः संबन्धान्कथयन्तीभिः प्रतिपादयन्तीभिः । इतिहासान्पूर्ववृत्तान्तान्वाचयन्तीभिः पठन्तीभिः । पुस्तकाञ्छास्वान्दधतीभिर्धारयन्तीभिः । धर्मोपदेशानिवेदयन्तीभिर्जापयन्तीभिः । पुनस्तामेव विशेषयन्नाह - उपरचितेति । उपरचितो विहितः स्त्रीणां वेषो नेपथ्यं भाषा च येन स तथा तेन । गृहीतमात्तं विकटं विपुलं प्रसाधनं प्रतिकर्म येनैवंविधेन वर्षवरजनेन षण्ढजनेनोपसेव्यमाना पर्युपास्यमानाम् । कामन्दक्यां तेषां लक्षणं यथा-'ये त्वल्पसत्त्वाः प्रथमाः क्लीबाश्च स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः' इति । अनवरतं निरन्तरमभिधूयमानो वीज्यमानो वालव्यजनकलापश्चामरसमूहो यस्याः सा ताम् । अङ्गनाजनेन स्त्रीजनेन चोपास्यमानां सेव्यमानाम् । अङ्गनाजनं विशेषयन्नाह - वसनेति । वसनानि वस्त्राणि; आभरणानि भूषणानि; कुसुमानि पुष्पाणि, पटवासः पिष्टातः, ताम्बूलं नागवल्लीदलानि, तालवृन्तं व्यजनम्, अङ्गरागो विलेपनम्, भृङ्गारः कनकालुका, एतान्धरतीति धारी तेन धारिणा । कीदृशेन । मण्डल्योपविष्टेन स्थितेन । अन्वयस्तु प्रागेवोक्तः । पुनरपि विशेषतस्तामेव विशेषयन्नाह - पयोधरेति । पयोधरयोः कुचयोरवलम्बी मुक्तागुणो हारो यस्यास्ताम् । स्तनानामत्युच्चत्वेन मुक्तानां चात्युज्जवलत्वेनोपमान्तरं प्रदर्शयन्नाह - अचलेति । अचलयोः पर्वतयोर्मध्येऽन्तरे स्त्रवन् वहमानो गङ्गाप्रवाहो यस्यामेवंभूतां मेदिनीमिव वसुंधरामिव । सर्वसहत्वात्तस्याः पृथिव्या उपमानम् । आसनेति । आसन्नः समीपवर्ती यो दर्पण आदर्शस्तत्र पतितो मुखप्रतिबिम्बो यस्यास्ताम् । अत्रार्थ उपमानान्तरं दर्शयत्राह - अर्केति । अर्कबिम्बे सूर्यमण्डले प्रविष्टं शशिमण्डलं यस्यामेवंभूतां दिवमिवाकाशमिव । तस्यामेव शशिबिम्बस्यार्कबिम्बे प्रवेशात् । अत्रादर्शस्य सूर्यबिम्बोपमानम् । मुखस्य शशिमण्डलोपमानम् । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अतिप्रशान्ताकाराभिरित्यादि विशेषणत्रयं प्रव्रजितासु सन्ध्यासु च योज्यते । अतिप्रशान्ताकाराभिः सकललोकवन्याभिरिति तभयत्र समानं स्पष्ट च । सन्ध्यापक्षे-कषायेण रक्तमिव यदम्बरम् (आकाशम्) तद् धारयन्तीभिरित्यर्थो बोध्यः । 2 पुस्तक-शास्त्रयोः क्लीबत्वमेवोचितम् । पाठा० - १ शुद्धान्तान्तर्वशिकैः. २ कथालाप. ३ श्रुतपूर्वाः. ४ कथाः. ५ वाचयन्तीभिरितिहासपुस्तकानि ददतीभिः; इतिहासान्वाचयन्तीभिः पुस्तकानि दधतीभिः. ६ निवेदयन्तीभिः पुण्याः कथा जरत्. ७ भारेण. ८ वर्षधर. ९ संसेव्यमानाम्. १० विधूयमानाम्. ११ ताम्बूलवृन्त. १२ अवलम्बित; अन्तरावलम्बित. १३ अचलद्वयप्रवृत्तगङ्गा; अचलद्वयमध्यप्रवृत्तगङ्गा. सागर सार चन्द्रापीडस्य मातापित्रोदर्शनम् पूर्वभागः । 205 Page #219 -------------------------------------------------------------------------- ________________ बिम्बप्रविष्टशशिमण्डलामिव दिवं समुपसृत्य मातरं प्रेणनाम । सा तु तं ससंभ्रममुत्थाप्य सत्यप्याज्ञासंपादनदक्षे पार्थपरिवर्तिनि परिजने स्वयमेव कृतावतरणका प्रेस्नुतपयोधरक्षरत्पयोबिन्दुच्छलेन द्रवीभूय स्नेहाकुलेन निर्गच्छतेव हृदयेनान्तःशुभशतानीव ध्यायन्ती मूर्धन्युपाघ्राय तं सुचिरमाशिश्लेष । अनन्तरं च तथैव कृतयथोचितसमुपचारमाश्लिष्टवैशम्पायना स्वयमुपविश्य विनयादवनितले समुपविशन्तमाकृष्य बलादनिच्छन्तमपि चन्द्रपीडमुत्सङ्गमारोपितवती । ससंभ्रमपरिजनोपनीतायामासन्यामुपविष्टे च वैशम्पायने चन्द्रापीडं पुनःपुनरालिङ्ग्य ललाटदेशे वक्षसि भुजशिखरयोश्च मुहुर्मुहुः करतलेन परामृशन्ती विलासवती तमवादीत्-'वत्स, कठिनहृदयस्ते पिता येनेयमाकृतिरीदृशी त्रिभुवनलालनीया क्लेशमतिमहान्तमियन्तं कालं लम्भिता । कथमसि सोढवानतिदीर्घामिमां गुरुजनयन्त्रणाम् । अहो, बालस्यापि सतः कठोरस्येव ते महद्धैर्यम् । अहो, विगलितशिशुजनक्रीडाकौतुकलाघवमर्भके ते हृदयम् । अहो, गुरुजनस्योपरि भक्तिरसाधारणा सर्वा । यथा पितुःप्रसादा - *********** राज्या अमावास्योपमानमिति भावः । समुपसृत्य पार्श्वे समागत्य । अन्वयस्तु प्रागेवोक्तः । तु पुनरर्थे । सा विलासवती तं सुतं ससंभ्रम सवेगं पादपतितमुत्थाप्य पार्श्वपरिवर्तिनि निकटस्थायिनि परिजने परिच्छद आज्ञासंपादनदक्षे नियोगकरणाभिज्ञे सत्यपि स्वयमेवात्मनैव कृतं विहितमवतरणमुत्साहकर्मविशेषो यया सा । हृदयेन चेतसान्तमध्ये शुभशतानि कल्याणशतानि ध्यायन्ती चिन्तयन्ती । अथ हृदयविशेषणानि - प्रस्नु(प्रस्तु)तेति । प्रस्तुतौ पयःपूर्णो यौ पयोधरौ ताभ्यां क्षरन्तो ये पयोबिन्दवस्तेषां छलेन मिषेण द्रवीभूय रसीभूय निर्गच्छतेव बहिःप्रसर्पतेव स्नेह आभ्यन्तरप्रीतिस्तेनाकुलेन व्याप्तेन मूर्धन्युत्तमाङ्ग उपाघ्राय चुम्बनं कृत्वा तं सुचिरं चिरकालमाशिश्लेषालिलिङ्ग । अनन्तरं चेति । अनन्तरम् आलिङ्गनानन्तरम् । तथैव पूर्ववत् । कृतमिति । कृतो यथोचितो यथायोग्यः समुपचारः प्रियवाग्व्यापारो यथा स्यात्तथाश्लिष्ट आलिङ्गितो वैशम्पायनो यया सा स्वयमुपविश्य विनयादवनितले समुपविशन्तमासेदिवासमाकृष्य बलादाकर्षणं कृत्वानिच्छन्तमपि । मातुः श्रमसंभवात् । चन्द्रापीडमुत्सङ्गं क्रोडमारोपितवत्यारोपयामास । ससंभ्रमं सवेगं परिजनेन परिच्छदेनोपनीतायामानीतायामासन्यां वेत्रपीठे वैशम्पायन उपविष्टे स्थिते सति चन्द्रापीडं पुनःपुनरिवारमालिङ्ग्योपगृहनं विधाय ललाटदेशेऽलिकप्रदेशे वक्षसि भुजान्तरे भुजशिखरयोः स्कन्धयोर्मुहुर्मुहुरिवारं करतलेन स्वपाणितलेन परामृशन्ती परामर्शनं कुर्वती विलासवती तमवादीदवोचत् । किमुवाचेत्याह - वत्सेति । हे वत्स हे पुत्र, कठिनं कठोरं हृदयं यस्यैवंविधस्ते पिता जनको येनेदृश्येतादृशीयमाकृतिराकारस्त्रिभुवने लालनीया पालनीया अतिमहान्तं कालं भूयस्तरमियन्तमेतावत्प्रमाणं क्लेशं खेदं लम्भिता प्रापिता । अतिदीर्घा चिरकालमिमा गुरुजनयन्त्रणां पूज्यजननियन्त्रणां कथं सोढवानसि । अहो इत्याश्चर्ये । ते तव बालस्यापि ततः कठोरस्येव महद्धैर्यम् । अहो इति पूर्ववत् । अर्भके बालके त्वयि विगलितं दूरीभूतं शिशुजना बालजनास्तेषां क्रीडाकौतुकं तेन लाघवं लघुत्वमेवंभूतं हृदयम् । अहो इति पूर्ववत । गुरुजनस्योपर्यसाधारणा सर्वा भक्तिः । यथा पितर्जनकस्य प्रसादान्माहात्म्यात्समस्ताभिः समग्राभिर्विद्याभिरुपेतः सहित आलोकितोऽसि वीक्षितोऽसि । - -- - - - - - - - - - - - - - - - - - टिप्प०.1 यानावतरणकालिक धान्यदूर्वादिनिक्षेपरूपं मङ्गलाचरणम् । 2 'अर्भकस्यापि ते हृदयम्' इत्यपि केषाञ्चन विदुषां मते पाठः । 3 'असाधारणी भक्तिः सर्वथा इत्यपि पाठः । 'सर्वा इति विशेषणस्याऽसमर्पकत्वात् । - - - - - - - - - - - - - - - - - पाठा० - १ दिवसमुपसृत्य; दिवसश्रियं समुपसृत्य. २ ननाम. ३ तु ससंभ्रममुत्थाय. ४ कृतावतरणकापस्नुतपयोधर; कृतावतरणकमङ्गला प्रस्नुतपयोधर. ५ प्रस्तुत. ६ निर्गतेव. ७ शतान्यभिध्यायन्ती; शतानीवाभिध्यायन्ती. ८ समुपाविशन्तम्; उपविशन्तम्. ९ ससंभ्रमम्. १० ईदृश. ११ कथमपि. १२ गुरुयन्त्रणाम्. १३ विगत. १४ अर्भकत्वे त्वयि; अर्भकस्यापि ते; अर्भके ते. १५ असाधारणी सर्वथा. 206 कादम्बरी । कथायाम Page #220 -------------------------------------------------------------------------- ________________ त्समस्ताभिरुपेतो विद्याभिरालोकितोऽस्येवमचिरेणैव कालेनानुरूपाभिर्वधूभिरुपेतमालोकयिष्यामि' इत्येवमभिधाय लज्जास्मितावनतमात्ममुखप्रतिबिम्बगर्भे विकचकमलकृतकर्णपल्लवावतंस इव कपोले पर्यचुम्बदेनम् । एवं च तत्रापि नोतिचिरमेव स्थित्वा क्रमेण सर्वान्तःपुराणि दर्शनेनानन्दयामास । निर्गत्य च राजकुलद्वारा बहिःस्थितमिन्द्रायुधमारुह्य तथैव तेन राजपुत्रलोकेनानुगम्यमानः शुकनासं द्रष्टुमयासीत् । यामावस्थितविविधंगजघटासंकटम्, अनेकतुरङ्गसहससंबाधम्, अपरिमितजनसमूहसहससंमर्दसंकुलम्, एकदेशोपविष्टैः सहसशो निबद्धचक्रवालैरनेककार्यागतैर्दर्शनोत्सुकैः समन्ततो विविधशास्त्रा, जनोन्मीलितप्रतिभैरवरच्छद्मना विनयानुरा - *********** एवं पूर्वोक्तप्रकारेणाचिरेणैव कालेन स्तोककालेनानुरूपाभिर्योग्याभिः वधूभिरुपेतमालोकयिष्यामीत्येवमभिधाय एवं कुमारं पर्यचुम्बच्चुम्बन कृतवती । कीदृशम् । लज्जास्मितेनावनतं नम्रीभूतम् । कस्मिन् । कपोले गल्लात्परभागे । कीदृशे । आत्मनो मातुर्मुखप्रतिबिम्बो गर्भे यस्मिन् । मुखस्य कमलसाम्यादाह - विकचेति । विकचैर्विकस्वरैः कमलैः कृतो विहितः कर्णपल्लवावतंसो यस्मिन् । एवं चेति । पूर्वोक्तप्रकारेण तत्रापि मातुः समीपेऽपि नातिचिरं नातिचिरकालमेव स्थित्वावस्थानं कृत्वा क्रमेण परिपाट्या सर्वान्तःपुराणि समग्राण्यवरोधानि दर्शनेनानन्दयामास प्रमोदयामास । राजकुलद्वारा प्रतोलीमार्गेण निर्गत्य बहिरागत्य बहिःस्थितमिन्द्रायुधमधमारुह्य तथैव पूर्वोक्तप्रकारेण तेन पूर्वोक्तेन राजपुत्रलोकेनानुगम्यमानः शुकनासं मन्त्रिणं द्रष्टुं विलोकयितुमयासीदित्यन्वयः । ‘या प्रापणे लुङिरूपम् । ततश्च शुकनासगृहद्वारमासाद्य शुकनासभवनं विवेशेत्यन्वयः । अथ गृहद्वारं विशेषयन्नाह - यामेति । यामावस्थिताश्चतुष्किकायां स्थिता विविधानां गजानां घटा समूहस्तया संकट संबाधं प्रवेष्टुमशक्यम् । अनेके ये तुरङ्गा स्तुरङ्गमास्तेषां सहस्त्रं तेन सबौधं बाधासहितम् । अपरीति । अपरिमिता असंख्या ये जना मनुष्यास्तेषां समूहा भिन्नभिन्नजातीयनरगणास्तेषां सहस्त्राणि तेषां समर्दोऽन्योन्याघातस्तेन संकुलम् । एकदेश एकान्त उपविष्टैः स्थितैः सहस्त्रशो निबद्धानि चक्रवालानि यैः । अनेकानि यानि कार्याणि तदर्थं आगतैः प्राप्तैः । दर्शनार्थमवलोकनार्थमुत्सुकैरुत्कण्ठितैः । समेति । समन्ततः सर्वतो विविधानि यानि शास्त्राणि तान्येवाञ्जनं नेत्रौषधंतेनोन्मीलितानि विकास प्रापितानि प्रतिभानि चक्षूषि येषां तैः । अवरेति । अवरच्छद्मना सेवक - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 विकस्वरेण कमलेन, इत्येकवचनमत्रोचितं भासते । प्रतिबिम्बस्य (उपमानकोटिस्थस्य, मुखप्रतिबिम्बस्य) एकत्वात् । 2 अवरोधान, पुंस्त्वात् । 3 'राजकुलद्वारावस्थितम्' इत्यपि पाटप्रचारः । 4 संकीर्णम् । 'संकटं ना तु संबाधः कलिलं गहनं समे । संकीर्णे संकुलाकीर्णे इत्यमरः । 5 उन्मीलितानि बुद्धिरूपलोचनानि येषामिति स्पष्टीकरणमर्थस्य । शास्त्रेष्वञ्जनत्वारोपो हि प्रतिभासु लोचनत्वारोपमपेक्षते । 6 'चीवरच्छद्मना' इत्यपि पाठः । तथा च-चीवराणि बौद्ध भिक्षुप्रावरणानि तेषां व्याजेन-विनये धर्मशिक्षायामनुराग एव अनुरागः (रञ्जनद्रव्यम्) विद्यते येषाम् अर्थात् धर्मानुरागरूपेण रङ्गेण रञ्जितैः धर्मपटैरिव बौद्धाचारसिद्धवसनविशेषैरिव (येषु पटेषु धर्मशासनान्युल्लिख्य शिष्येभ्यः प्रदर्श्यन्ते) अवगुण्ठितैः बौद्धशासनमार्गनिपुणैः (बौद्ध भिक्षुभिः) । अयं भावःबौद्धभिक्षुभिर्यानि चीवराण्यङ्गेषु धारितानि तेषु धर्मपटत्वमुत्प्रेक्ष्यते । अर्थात् चीवराणां तु व्याजो वर्तते, वास्तवे तु धर्मपटैरेव ते आच्छादिता इति कवेर्बाणस्य कल्पना । अनुराग इति श्लिष्टम्, ततश्च श्लेषोत्थापिता सापह्नवोत्प्रेक्षाऽलंकारः । - - - - - - - - - - - - - - पाठा० - १ अवलोकसे एवम्. २ नातिचिरं स्थित्वा. ३ नन्दयामास. ४ द्वारावस्थितम्. ५ गन्धगज. ६ समूहसंमर्द. ७ उन्मीलितबुद्धिलोचनैश्चीवर. ८ रक्ताम्बरच्छद्मना गुरुविनयानुरागिभिः. चन्द्रापीडस्य शुकनाससाक्षात्कारः पूर्वभागः । (207) Page #221 -------------------------------------------------------------------------- ________________ गिभिर्धर्मपटैरिवावगुण्ठितैः शाक्यमुनिशासनपथधौरेय रक्तपटैः पाशुपतैर्द्विजैश्च दिवानिशमासेव्यमानम्, अभ्यन्तरप्रविष्टानां च सामन्तानां जघनोपविष्टपुरुषोत्सङ्गावस्थितद्विगुणंकुथाभिरतिचिरावस्थाननिर्वेदप्रसुप्ताधोरणाभिरपर्याणाभिः सपर्याणाभिश्च निश्चलावस्थानप्रचलायिताभिः शतसहस्त्रशः करिणीभिराकीर्णं शुकनासगृहद्वारमासाद्य सत्वरप्रधावितै रदेशावस्थितैः प्रतीहारपुरुषैरनिवार्यमाणोऽपि राजकुल इव राजपुत्रो बाह्याङ्गण एव तुरगादवततार । द्वारदेशावस्थापिततुरङ्गश्च वैशम्पायनमवलम्ब्य पुरःप्रधावितैः समुत्सारितपरिजनैस्तत्प्रतीहारमण्डलैरुपदिश्यमानमार्गस्तथैव चलितमुकुटकोटिभिनरेन्द्रवृन्दैः सेवासमुपस्थितैरुत्थायोत्थाय प्रणम्यमानस्तथैव च प्रचण्डप्रतीहारहुंकारभयमूकीभवत्परिजनानि प्रचलितवेत्रलताचकितसामन्तचक्रचरणशतचलितवसुंधराणि कक्षान्तराणि निरीक्षमाणस्तथैव च नवनव *********** मिषेण विनयेनानुरागो विद्यते येषां तैः । तद्गुणानुरागेण विनयादेव सेवकीभूतैरित्यर्थः । धर्मपटैरिवावगुण्ठितैराच्छादितैः शाक्यमुनीनामकंबान्धवतपस्विनां यच्छासनमाज्ञा तस्य पन्थाः मार्गस्तत्र धौरेयधुरंधरैस्तथा रक्तपटै रक्ताम्बरैः पाशुपतैः शैवैर्द्विजैाहाणैश्च दिवानिशमहनिशमासेव्यमानमुपास्यमानम् । अभ्यन्तरप्रविष्टानां मध्यगतानां सामन्तानां स्वदेशपार्थवर्तिराज्ञां च शतसहस्त्रशः करिणीभिर्धेनुकाभिराकीर्ण व्याप्तम् । अथ करिणीविशेषणानि - जघनेति । कट्या अग्रिमो भागो जघनं तत्रोपविष्टाः स्थिता ये सामन्तीयाः पुरुषास्तेषामुत्सङ्गाः क्रोडास्तेष्ववस्थिता द्विगुणाः कुथा वर्णपरिस्तोमा यासु ताभिः । अतीति । अतिचिरं बहुकालं यदवस्थानं तस्मायो निर्वेदः स्वावमानन तेन प्रसप्ता निद्रा प्राप्ता आधोरणा हस्तिपका यास ताभिः । सह पर्याणेन पल्ययनेन वर्तमानास्ताभिर्निश्चलं चेष्टारहितं यदवस्थान तेन प्रचलायिताभिः संजातनिद्राभिरेतादृशं शुकनासगृहद्वारमासाद्य प्राप्य सत्वरं सवेगं प्रधावितैरतित्वराकृतगमनैभरदेशावस्थितैः प्रतीहारपुरुषैरिपालकैरनिवार्यमाणोऽप्यनिषेध्यमानोऽपि राजकुल इव बाह्याङ्गण एव राजपुत्रस्तुरगादश्चादवततारोत्तीर्णवान् । द्वारेति.। द्वारदेशे प्रतोल्यामवस्थापितस्तुरङ्गो येन स वैशम्पायनमवलम्ब्यालम्ब्य पुरः प्रधावितैरग्रतः शीघ्रप्रचलितैः । समुत्सारितो दूरीकृतः परिजनो यैः । तथैव पूर्ववत् । प्रतीहारमण्डलैरुपदिश्यमान उपदेशविषयीक्रियमाणो मार्गः पन्था यस्य स तथा । तथैव पूर्ववत् । चलिताः कम्पिता मुकुटानां कोटयो येषां तैः नरेन्द्रवृन्दै राजसमूहैः सेवार्थं सपर्यार्थं समुपस्थितैरागतैरुत्थायोत्थायेति । उत्थानमुत्थानं कृत्वेत्यर्थः । प्रणम्यमानो नमस्क्रियमाणः । तथैव पूर्ववत् । प्रचण्डा ये प्रतीहारा द्वारपालकास्तेषां हुंकारा हुंकृतयस्तेभ्यो भयं भीतिस्तेन मूकीभवन्मौनता समाश्रयपरिजनो येषु तानि । प्रचलितेति । प्रचलिता इतस्ततो विक्षिप्ता या वेत्रलता वेतसयष्टयस्ताभिश्चकितं शङ्कितं यत्सामन्तचक्र तस्य चरणशतेन पादशतेन चलिता कम्पिता वसुंधरा पृथ्वी येषु तान्येवंविधानि कक्षान्तराणि गृहप्रदेशानि । 'कक्षा प्रकोष्ठे केदारे काञ्च्या मध्येभबन्धने' इति विश्वः । निरीक्षमाणो विलोकमानः । नवेति । नवनवा नवीनाः सुधावदाताः सुधयावदाता उज्ज्वला ये प्रासादास्तैनिरन्तरं व्याप्तं द्वितीयमिव राजकुलं शुकनासभवनं विवेश प्रविष्टवान् । प्रविश्य च प्रवेशं कृत्वा । - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 सामन्तानां शुकनाससविधे गमनोत्तरं तद्भत्याः करिणीनां कटिदेशे उपविष्टाः सन्ति तेषामके च द्विगुणीकृताः (अपसार्य द्विगुणभागे संकोचिताः 'तहकिए) कुथाः स्थिताः सन्तीत्याशयः । 2 निद्रावेशेन पूर्णिताभिरित्यर्थो बोध्यः 'पूर्णितं प्रचलायितम अमरः । पाठा० - १ रक्तपादैः. २ स्थानोपविष्टपुरुषावस्थित. ३ सङ्गस्थित. ४ द्विगुणित. ५ धोरणाभिः सपर्याणाभिः. ६ बाह्याङ्गे. ७ तुरङ्गात्. ८ अवस्थित. ९ तथैव प्रतीकार; तथैव च प्रतीहार. १० तथैव प्रचण्ड. ११ त्रासनचकित. १२ तथैव नव. 208 कादम्बरी। कथायाम् Page #222 -------------------------------------------------------------------------- ________________ सुधावदातप्रासादनिरन्तरं द्वितीयमिव राजकुलं शुकनासभवनं विवेश । प्रविश्य चानेकनरेन्द्रसहस्त्रमध्योपैस्थितमपरमिव ... पितरमुपदर्शितविनयो दूरावनतेन मौलिना शुकनासं ववन्दे । शुकनासस्तं सैसंभ्रम समुत्थायानुपूर्येणोत्थितराजलोकः सादरमभिमुखदत्ताविरलपदः प्रहर्षविस्फारितविलोचनागतानन्दजलकणः संमं वैशम्पायनेन प्रेम्णा गाढमालिलिङ्ग । आलिङ्गितोन्मुक्तश्च सादरोपनीतमपहाय रत्नासनमवनावेव राजपुत्रः समुपाविशत्, तदनु च वैशम्पायनः । उपविष्टे च राजपुत्रे शुकनासवर्जमन्यदखिलमवनिपालचक्रमुज्झितनिजासनमवनितलमभजत । स्थित्वा च तूष्णी क्षणमिव शुकनासः समुद्गतप्रीतिपुलकैरगैरावेद्यमानहर्षप्रकर्षस्तमब्रवीत् - 'तात, अद्य खलु देवस्य तारापीडस्य समाप्तविद्यमुपारुढयौवनमालोक्य भवन्तं सुचिराद्भुवनराज्यफलप्राप्तिरुपजाता । अद्य समृद्धाः सर्वा गुरुजनाशिषः । अद्य फलितमनेकजन्मान्तरोपात्तमवदातं कर्म । अद्य प्रसन्नाः कुलदेवताः । न ह्यपुण्यभाजा भवादृशास्त्रिभुवनविस्मयजनकाः पुत्रता प्रतिपद्यन्ते । क्वेदं वयः । क्वेयममानुषी शक्तिः । क्व - *********** अनेकेति । अनेकेषां नरेन्द्राणां यत्सहस्त्रं तन्मध्य उपस्थितमपरमिवान्यमिव पितरं जनकम् । उपेति । उपदर्शितो विनयो येन स तथा दूराद्दविष्ठादवनतेन मौलिना शिरसा शुकनासं ववन्दे नमश्चके । शुकनासस्तं चन्द्रापीडं गाढं यथा स्यात्तथालिलिङ्गोपगृहनं चक्रे । ससंभ्रमं सवेगं समुत्थायोत्थानं कृत्वा वैशम्पायनेन स्वसुतेन समं सार्धम् । केन । प्रेम्णा स्नेहेन । अथ शुकनासं विशेषयन्नाह - आन्विति । आनुपूर्व्यानुक्रमेणोत्थितो राजलोको यस्मात् । आदरेण सहवर्तमानं सादरं यथा स्यात्तथा । अभिमुखं संमुख दत्तान्यविरलान्यनवच्छिन्नानि पदानि येन स तथा । प्रहर्षेति । प्रहर्षेण प्रमोदेन विस्फारिते विस्तारिते ये विलोचने तयोरागता आनन्दजलकणा यस्य स तथा । पूर्वमालिङ्गितः पश्चादुन्मुक्तश्च सादरं उपनीतमानीत रत्नासन सिंहासनमपहाय त्यक्त्वावनावेव पृथिव्यामेव राजपुत्रश्चन्द्रापीडः समुपाविशदुपाविशत् । तदनु पश्चाद्वैशम्पायन उपाविशत् । उपविष्टे च राजपुत्रे शुकनासवर्जमेक शुकनासं विहायाखिलं समग्रमन्यदवनिपालचक्र राजसमूहमुज्झितं त्यक्तं निजासनमात्मीयासन येन तत् । अवनितलं पृथ्वीतलमभजदशिश्रियत । क्षणमिति । क्षणमिव क्षणमात्रं तूष्णीं मौनं स्थित्वा च शुकनासः समुद्गतः प्रादुर्भूतः प्रीत्या स्नेहेन पुलको रोमाञ्चो येष्वेवंविधैरभैरावेद्यमानो हर्षप्रकर्ष उत्कर्षप्रमोदो यस्य स तथा तं चन्द्रापीडमब्रवीत् । हे तात हे पुत्र । 'तातस्तु पितृपुत्रयोः' इति कोशः । खलु निश्चितम् । अद्यास्मिन्दिने देवस्य तारापीडस्य समाप्तविद्य परिपूर्णीकृता विद्या येनैवंविधमुपारूढयौवन संप्राप्ततारुण्यं भवन्तं त्वामालोक्य सुचिराच्चिरकालेन भुवनराज्यफलप्राप्तिस्त्रिभुवनाधिपत्यफलोपलब्धिरुपजाता प्रादुर्भूता । अद्य गुरुजनाना पूज्यजनानां सर्वा आशिष आशीर्वादाः समृद्धाः संपत्तिभाजो बभूवुः । अद्यानेकजन्मान्तरोपात्तमनेकभवार्जितमवदातं शुद्धं कर्म फलित फलवज्जज्ञे । अद्य कुलदेवताः कुलाधिष्ठात्र्यः प्रसन्नाः प्रसादवत्यः । न हि अपुण्यभाजामधर्मवतां भवादृशा भवत्सदृशास्त्रिभुवनस्य त्रिविष्टपस्य विस्मयजनका आश्चर्योत्पादकाः पुत्रतां सुतत्वं प्रतिपद्यन्ते भजन्ते । क्वेति महदन्तरे । इयं वयोवस्था - - - - - - - - - - - टिप्प० - 1 प्रमोदोत्कर्ष इति वाच्यम् । 2 'समाप्तवियं भवन्तमालोक्य देवस्य तारापीडस्य भुवनराज्यफलप्राप्तिरुपजाता' इत्यन्वयो वाच्यः ।। - - - - - - पाठा० - १ प्रासादसहस्त्र. २ उपविष्टम्. ३ ससंभ्रम. ४ उत्थाय. ५ अनुपूर्वेण. ६ लोकैः. ७ सहर्ष. ८ लोचन. ९ सह. १० समुपविष्टे. ११ क्षणमपि. १२ हृदयहर्ष. १३ तात चन्द्रापीड. १४ तत्पुण्यभाजाम्. १५ सकलत्रिभुवन. १६ हेतवः. (शुकनाससाक्षात्कारः। पूर्वभागः । 1209) Page #223 -------------------------------------------------------------------------- ________________ चेदमशेषविद्याग्रहणसामर्थ्यम् । अहो, धन्याः प्रजा यासां भरतभगीरथप्रतिमो भवानुत्पन्नः पालयिता । किं खलु कृतमवदातं कर्म वसुंधरया ययासि भर्ता समासादितः । हरिवक्षस्थलनिवासासद्ग्रहव्यसनितया हता खलु लक्ष्मीः, या विग्रहवती भवन्तं नोपसर्पति । सर्वथा कल्पकोटीर्महावराह इव दंष्ट्रावलयेन वह बाहुना वसुंधराभारं सह पित्रा' इत्यभिधाय च स्वयमाभरणवसनकुसुमाङ्गरागादिभिरभ्यर्च्य विसर्जयांचकार । विसर्जितश्चोत्थायान्तःपुरं प्रविश्य दृष्ट्वा वैशम्पायनमातरं मनोरमाभिधानां निर्गत्य समारुह्येन्द्रायुधं पित्रा पूर्वकल्पितम्, प्रतिच्छन्दकमिव राजकुलस्य, द्वारावस्थितसितपूर्णकलशम्, आबद्धहरितचन्दनमालम्, उल्लसितसितपताकासहस्त्रम्, अभ्याहतमङ्गलतूर्यरवपरिपूरितदिगन्तरम्, उपरचितविकचकमलकुसुमप्रकरम्, अचिरकृताग्निकार्यम्, उज्ज्वलविविक्तपरिजनम्, उपपादिताशेषगृहप्रवेशमङ्गलं कुमारो भवनं जगाम । गत्वा च श्रीमण्डपावस्थिते शयने मुहूर्तमुपविश्य सह - *********** क्व । इयं परिदृश्यमानाऽमानुषी मनुष्येष्वसंभाव्यमानैतादृशी शक्तिः पराक्रमः क्व । इदमशेषविद्याग्रहणसामर्थ्यं च क्व । अहो इत्याश्चर्ये । धन्या भाग्यवत्यः प्रजाः प्रकृतयो यासां प्रजानां भरत आर्षभिः, भगीरथः सगरपौत्रः, ताभ्यां प्रतिमः सदृशो भवास्त्वं पालयिता रक्षक उत्पन्नः । किमिति प्रश्ने । खलु निश्चयेन । वसुंधरया पृथिव्यावदातं शुद्धं कर्म किं कृतमाचरितं यया त्वं भर्ता प्रभुः समासादितः प्राप्तः असि । हरिवक्षस्थले विष्णुभुजान्तरे यो निवासोऽवस्थितिस्तल्लक्षणो योऽसद्गहो हठस्तव्यसनितया तदासक्ततया । खलु निश्चयेन लक्ष्मीः श्रीहता । दैवेनेति शेषः । या श्रीभवन्तं त्वां विग्रहवती शरीरधारिणी नोपसर्पति नाभ्युपैति । अमूर्तरूपेण यद्यप्यनुसरति तथापि न मूर्तिविग्रहरूपेणेत्यर्थः । सर्वथेति । सर्वथा सर्वप्रकारेण कल्पकोटीर्यावद्वाहुना भुजेन वसुंधराभारं पित्रा सह जनकेन सम वह धारय । दंष्ट्रावलयेन दाढामण्डलेन महावराह इव । इति पूर्वोक्तप्रकारेणाभिधायोक्त्वा । चकारः समुच्चयार्थः । स्वयमात्मनैव । आभरणेति । आभरणानि भूषणानि, वसनानि वस्त्राणि, कुसुमानि पुष्पाणि, अङ्गरागो विलेपनम्, एतत्प्रभृतिभिर्वस्तुभिरभ्यर्चियित्वा विसर्जयांचकार विसर्जितवान् । विसर्जितो गृहायानुज्ञात उत्थायोत्थानं कृत्वान्तःपुरमवरोधं प्रविश्य मध्ये गत्वा मनोरमाभिधानां मनोरमेति नाम्नी वैशम्पायनमातरं दृष्ट्वा विलोक्य तदनन्तरं बहिर्निर्गत्येन्द्रायुधं समारुह्यारोहणं कृत्वा कुमारो भवनं जगामेत्यन्वयः । अथ भवनं विशेषयन्नाह - पित्रेति । पित्रा जनकेन पुर्वं पूर्वस्मिन्काले कल्पितम् । कारितमित्यर्थः । राजकुलस्य राजसमूहस्य प्रतिच्छन्दकमिव प्रतिबिम्बमिव । द्वारेऽवस्थिताः सिताः श्वेताः पूर्णाः कलशाः कुम्भा यस्मिन् । आबद्धाः सदानिता हरिता नीलाश्चन्दनमाला यस्मिन् । उल्लसितमुच्छ्रित सितपताकानां चेतवैजयन्तीनां सहस्त्रं यस्मिन् । अभ्याहतानि वादितानि यानि मङ्गलतूर्याणि कल्याणहेतुकातोद्यानि तेषां रवेण शब्देन परिपूरितं दिगन्तरं येन तत् । उपरचितो निर्मितो विकचानां विकस्वराणां कमलानां नलिनानां कुसुमप्रकरो यस्मिन् । अचिरं कृतमग्निकार्य होमादिकं यस्मिन् । उज्ज्वलो निर्मलो विविक्तो भिन्नभिन्नस्वरूपः परिजनः परिवारो यस्मिन् । उपपादितं विहितमशेषं समग्रं गृहप्रवेशमङ्गलं धात्वालेख्यादि यस्मिन् । अन्वयस्तु प्रागेवोक्तः । गत्वा चेति । गत्वा तत्र गमनं कृत्वा श्रीमण्डप आस्थानमण्डपस्तत्रावस्थिते स्थापिते शयने शय्यायां मुहूर्तं नाडिकाद्वयमात्रमुपविश्यावस्थानं कृत्वा तेन राज - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'वन्दनमाला' इत्यपि पाठः । टीकाकारस्य शब्दयोजना निश्चे विशेषगौरवशालिनी । पाठा० - १ व्यसनिनी. २ दंष्ट्राबलेन. ३ दृष्ट्वा च. ४ हरिचन्दन. [210 An 210 nanony कादम्बरी) N कथायाम्-) Page #224 -------------------------------------------------------------------------- ________________ तेन राजपुत्रलोकेनाभिषेकादिमशनावसानमकरोद्दिवसविधिम् । अभ्यन्तरे च शयनीयगृह एवेन्द्रायुधस्यावस्थानमकल्पयत् । एवंप्रायेण चास्योदन्तेन तदहः परिणतिमुपययौ । गगनतलादवतरन्त्या दिवसश्रियः पद्मरागनूपुरमिव स्वप्रभापिहितरन्ध्र रविमण्डलमुन्मुक्तपादं पपात । जलप्रवाह इव रथचक्रमार्गानुसारेण दिवसकरस्य वासरालोकः प्रतीचीं ककुभमगात् । अभिनवपल्लवलोहिततलेन करेणेवाधोमुखप्रसृतेन रविबिम्बेन वासरः कमलरागमशेषं ममार्ज । कमलिनीपरिमलपरिचयागतालिमालाकुलितकण्ठं कालपाशैरिव चक्रवाकमिथुनमाकृष्यमाणं विजघटे । करपुटैरादिवसान्तमापीतमरविन्दमधुरसमिव रक्तातपच्छलेन गगनगमनखेदादिव दिवसकरबिम्बं ववाम । क्रमेण च प्रतीचीकर्णपूररक्तोत्पले लोकान्तरमुपगते भगवति गभस्तिमालिनि, स - *********** पुत्रलोकेन सह सार्धमभिषेकः स्नानमादिर्यस्य तम् । अशनं भोजनमवसानेऽन्ते यस्यैवंभूतं दिवसविधि दिवसकर्माकरोदकार्षीत् । अभ्यन्तरे मध्ये यच्छयनीयगृहं सुषुप्तिगृह तस्मिन्नेवेन्द्रायुधस्य स्वकीयावस्यावस्थानमकल्पयदन्वतिष्ठत् । एवमिति । अस्य राज्ञ एवंप्रायेणोदन्तेन वृत्तान्तेन तदहस्तद्दिनम् । परिणतिस्त्रयोदशमुहूर्तपर्यन्तदिवसावस्था परिणतिस्तामुपययावगमत् । रविमण्डलं सूर्यबिम्बमुदूर्ध्वं मुक्ताः पादाः किरणा येनैवंभूतं पपात सस्तम् । अन्योऽप्युपरिप्रदेशाद्यः पतति स ऊर्ध्वपाद एव स्यात् । स्वभाववर्णवर्तुलत्वसाम्यादुपमानान्तरं दर्शयन्नाह - गगनेति । गगनतलादाकाशतलादवतरन्त्या आगच्छन्त्या दिवसश्रियो दिनलक्ष्म्याः पद्मरागनूपुरमिव लोहितकपादकटकमिव । नूपुरं प्रायेण सच्छिद्रम् । छिद्रोपलब्धय आह - स्वेति । स्वस्य या प्रभा कान्तिस्तया पिहितान्याच्छादितानि रन्ध्राणि छिद्राणि यस्य तत् । दिवसकरस्य सूर्यस्य रथचक्रमार्गानुसारेण वासरालोको दिवसप्रकाशः प्रतीची पश्चिमा ककुभं दिशमगाप्रययौ । क इव । जलप्रवाह इव पानीयपूर इव । सोऽपि रथमार्गानुगामी स्यादिति भावः । वासरो दिवसोऽधोमुख प्रसृतेन विस्तृतेन रविबिम्बेन सूर्यबिम्बेनाभिनवाः प्रत्यग्रा ये पल्लवास्तवलोहितं रक्तं तलं यस्यैवंभूतेन करेणेव करतलेनेव कमलरागमशेष समग्रं ममार्ज दूरीचकारेत्यन्वयः । अत्र वर्तुलत्वरक्तत्वसाम्याद्रविबिम्बस्य हस्ततलोपमानम् । कमलानां संकोचत्वादेव रागनिवृत्तिरिति । कमलिनीति । कमलिन्या नलिन्या यः परिमलस्तस्य परिचयात्संबन्धादागता प्राप्तालिमाला भ्रमरश्रेणिस्तयाकुलितो व्याप्तः कण्ठो यस्य । अतएव हेतुनाह - कालेति । कालपाशैः कृष्णबन्धनैराकृष्यमाणमिव चक्रवाकमिथुनं द्वन्द्वचरमिथुनं विजघटे विघटयांचकार । दिवसकरेति । दिवसकरबिम्ब सूर्यबिम्ब गगनगमनखेदादिव व्योमसंचरणप्रयासादिव करपुटैः किरणसंपुटैरा दिवसान्तमा दिनपर्यन्तमापीतो योऽरविन्दमधुरसस्तमिव रक्तातपच्छलेन लोहितप्रकाशमिषेण ववामोद्गिरयांचकार । अस्तावस्थामाह - प्रतीचीति । प्रतीची पश्चिमा तस्याः कर्णपूरं तदेव रक्तोत्पलं तद्रूपे लोकान्तरं क्षेत्रान्तरमुपगते प्राप्ते भगवति माहात्म्यवति गभस्तिमालिनि श्रीसूर्ये सति । अथ च संध्यायां समुल्लसितायामुल्लासं प्राप्तायाम् । - - - - - - - - - - - - टिप्प० - 1 संकोचादेवेति तात्पर्यम् । 2 रात्रौ चक्रद्वन्द्वस्य तथा विघटनमभूद् यथा काल (मृत्यु) - पाशैराकृष्टस्य मुभूर्षोः प्रियजनसकाशाद्वियोगो भवतीति शब्दशक्त्या ध्वन्यते । मृत्युवदुःखसूचनेन प्रेमातिशयश्चरम व्यङ्ग्यम् । 3 वियुक्तं बभूवेति व्याख्यानमुचितम् । 4 उज्जगारेत्यर्थं । मार्गगमनखेदातिशयाद् यथा श्रान्तस्य निपीतपदार्थस्य वमनं भवति तथाऽत्र सूर्यस्य वमनमित्याशयः । - - - - - - पाटा० - १ अभिषेकादिकम्. २ स्वशयनीय. ३ सलिलप्रवाहः. ४ दिशम्. ५ अगमत्. ६ पल्लवदललोहितकरेण. ७ दिवसकर. ८ करपुटैर्दिवसान्तम्. चन्द्रापीडस्य शुकनास-तत्पत्नीसाक्षात्कारः Page #225 -------------------------------------------------------------------------- ________________ मुल्लसितायोमम्बरतटोकविकचकमलिन्यां संध्यायाम, कृष्णागुरुपङ्कपत्रलतास्विव तिमिरलेखासु स्फुरन्तीषु दिशामुखेषु, अलिकुलमलिनेन कुवलयवनेनेव रक्तकमलाकरे तिमिरेणोत्सार्यमाणे संध्यारागे, कमलिनीनिपीतमातपमुन्मूलयितुमन्धकारपल्लवेष्विव प्रविशत्सु रक्तकमलोदराणि मधुकरकुलेषु, शनैःशनैश्च निशाविलासिनीमुखावतंसपल्लवे गलिते संध्यारागे, दिक्षु विक्षिप्तेषु संध्यादेवतार्चनबलिपिण्डेषु, शिखरदेशलग्नतिमिरास्वनारूढमयूरास्वपि मयूराधिष्ठितास्विव मयूरयष्टिषु, गवाक्षविवरनिलीनेषु प्रासादलक्ष्मीकर्णोत्पलेषु पारावतेषु, विगतविलासिनीसंवाहननिश्चलकाञ्चनपीठासु मूकीभूतघण्टोस्वरास्वन्तःपुरदोलासु, भवनसहका - *********** अत्रोल्लास एव कमलिनीसाम्यं प्रदर्शयन्नाह - अम्बरेति । अम्बरमाकाशम् । स्वच्छत्वनीलत्वसाम्यात्, तदेव तटाकः सरस्तस्मिन्विकचा विकस्वरा कमलिनी नलिनी तस्याम् । अत्रारुण्यातिशयो व्यङ्ग्यः । पुनः केषु सत्सु । दिशामुखेषु दिग्वदनेषु तिमिरलेखासु भूछायराजिषु स्फुरन्तीषु देदीप्यमानासु । कृष्णत्वसाम्यादाह - कृष्णेति । कृष्णागुरुः काकतुण्डस्तस्य पकः कर्दमस्तस्य पत्रलतास्विव पत्रभङ्गेष्विव । दिशां मुखं तन्मुखमेव । अतएव तिमिरलेखासु पत्रलतात्वोपवर्णनं युक्तम् । तिमिरेणान्धकारेण संध्याराग उत्सार्यमाणे दूरीक्रियमाणे सति । केनेव । अलिकुलं भ्रमरसमूहस्तेन मलिनेन कृष्णेन कुवलयवनेनेव रक्तकमलाकरे रक्तपद्मसमूहे । तथा च रागतिमिरयोः कुमुदकमलयोर्विरुद्धातिशयवत्त्वेनैतदुपमानम् । कमलिनीति । कमलिन्या पद्मिन्या निपीतमास्वादितमातप सूर्यालोकमुन्मूलयितु मूलतोऽपि दूरीकर्ता रक्तकमलोदराणि मधुकरकुलेषु शनैः शनैः प्रविशत्सु प्रवेश कर्वत्स । कष्णत्वसाम्यादाह - अन्धेति । अन्धकारपल्लवेष्विव तमोभागेष्विव । एतेन तमसोऽतिशयत्वं सूचितम् । निशेति । निशैव रात्रिरेव विलासिनी स्त्री तस्या मुखमाननं तस्यावतसपल्लवे शेखरकिसलये संध्यारागे गलिते दूरीभूते सति । दिक्षु पूर्वादिषु संध्यादेवतार्चनार्थं बलिपि डेषु विक्षिप्तेषु विकीर्णेषु सत्सु । अर्घजलाञ्जलिभिरित्यपि । बोध्यम् । तमसो नीलत्वात्तदेव मयूरसाम्यमित्याशयेनाह - मयूरेति । शिखरदेशे प्रान्तप्रदेशे लग्न तिमिर तमो यास्वेवविधास्वनारूढमयूरास्वप्यनाश्रितनीलकण्ठास्वपि मयूराधिष्ठितास्विव मयूरयष्टिषु सतीषु । पारावताना रात्रौ विवरे निवासः प्रसिद्ध इति तदाह - गवाक्षेति । गवाक्षा वातायनास्तेषां विवरेषु छिद्रेषु निलीना गुप्तीभूय स्थितास्तेषु । कृष्णत्वसाम्यादाह - प्रासादेति । प्रासादस्य राजसदनस्य या लक्ष्मीस्तस्याः कर्णोत्पलेषु पारावतेषु कपोतेषु सत्सु । पुनः कासु । अन्तःपुरदोलास्ववरोधप्रेङ्खासु सतीषु । ता विशेषयन्नाह - विगतेति । विगतं दूरीभूतं विलासिनीनां संवाहनमुद्वहनं तेन निश्चलानि स्थिराणि काञ्चनपीठानि सुवर्णफलकानि यासु । मूकीति । मूकीभूता दोलासंबन्धिघण्टास्ताभिरस्वरासु शब्दरहितासु । आन्दोलनाभावादिति भावः । तदभावस्तु कस्यचिदारोहणाभावात् । भवनेति । भवनस्य गृहस्य यः सहकारभूतस्तस्य शाखावलम्बीनि पञ्जराणि येषां तेषु विगतालापेषु संलापवर्जि - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अन्धकारपरम्परास्वित्यर्थः । 2 दिशां यः प्राग्भागः स एव मुखं (वदनम्), अत एव तिमिरलेखास्तत्र कृष्णागुरुपत्रभङ्गायिता इति टीकाकर्तुस्तात्पर्यम् । 3 भ्रमरसमूहाच्छादिततया मलिनेन कुवलय (नीलोत्पल) वनेन रक्तपद्मसरोवरे इव तिमिरेण सन्ध्यारागै उत्सार्यमाणे (सति) इत्यन्चयो वोध्यः । 4 अत्र 'अन्धकारकरपल्लवेष्विव इत्यपि पाठः प्रचलितः । अन्तःप्रविष्टपदार्थस्य निःसारणाय हस्तः प्रवेश्यते, अत एव मधुकरेषु अन्धकारकरपल्लवत्वोप्रेक्षेत्यर्थः पाठान्तरस्याऽस्य । पाटा० - १ अम्बरतल. २ तडाग. ३ दिशां मुखेषु. ४ अलिकुलेन मलिनेषु. ५ तिमिरनिकरण. ६. अन्धकारकरपल्लवेषु. ७ विशत्सु. ८ दिक्षु दिक्षु. ९ अर्चना. १० कर्णोत्पलेष्विव. ११ निश्चलासु. १२ पीटिकासु. १३ घण्टारवासुः घण्टासु. 212 कादम्बरी। कथायाम् Page #226 -------------------------------------------------------------------------- ________________ रशाखावलम्बिपञ्जरेषु विगतालापेषु शुकसारिकानिवहेषु, संगीतविरामविश्रान्तरवासूत्सार्यमाणासु वीणासु, युवतिनपुरशब्दोपशमनिभृतेषु भवनकलहंसेषु, अपनीयमानकर्णशङ्खचामरनक्षत्रमालामण्डनेषु मधुकरकुलशून्यकपोलभित्तिषु मत्तवारणेषु, प्रदीप्यमानेषु राजवल्लभतुरङ्गममन्दुराप्रदीपेषु, प्रविशन्तीषु प्रथमयामकुञ्जरघटासु, कृतस्वस्त्ययनेषु निष्कामत्सुपुरोहितेषु, विसर्जितराजलोकविरलपरिजनेषु विस्तारितेष्विव राजकुलकक्षान्तरेषु, प्रज्वलितदीपिकासहस्त्रप्रतिबिम्बचुम्बितेषु कृतविकचचम्पकदलोपहारेष्विव मणिभूमिकुट्टिमेषु, निपतितदीपालोकासु रविविरहार्तनलिनीविनोदनागतबालातपास्विव भवनदीर्घिकासु, निद्रालसेषु पञ्जरकेसरिषु, समारोपितकार्मुके गृहीतसायके यामिक इवान्तःपुरप्रविष्टे मकरकेतो, अवतंसपल्लवेष्विव सरागेषु कर्णे क्रियमाणेषु सुरतदूतीवचनेषु, सूर्यकान्तमणिभ्य इव संक्रान्ता - *********** तेषु । शुकः कीरः, सारिका पीतपादा, तयोर्निवहेषु सत्सु । संगीतेति । संगीतस्य यो विरामोऽवसानं तेन विश्रान्तः स्थितो रवः शब्दो यासां तासूत्सार्यमाणासु दूरीक्रियमाणासु वीणासु वल्लकीषु सतीषु । युवतीति । युवतीनां यानि नपुराणि पादकटकानि तेषां यः शब्दस्तस्योपशमो निवृत्तिस्तेन निभृतेषु निश्चलेषु भवनकलहंसेषु गृहराजहंसेषु सत्सु । नूपुरशब्दोपशमस्य सजातीयरवशङ्काकारित्वाभावेन तेऽपि सुखेन सुप्ता इति भावः । अपनीति । अपनीयमानानि दूरीक्रियमाणानि दृष्टिदोषशमार्थं कर्णे बद्धो यः शङ्खः, चामरं वालव्यजनम्, नक्षत्रमाला नक्षत्रसंख्यमौक्तिकरचिताभरणविशेषः, एवंविधानि मण्डनानि भूषणानि येषु । मधुकरेति । मधुकरा भ्रमरास्तेषां कुलं समूहस्तेन शून्या रिक्ता कपोलभित्तिर्येषां तेषु एवंविधेषु मत्तवारणेषु मत्तगजेषु सत्सु । प्रदीति । प्रदीप्यमानेषु प्रज्वाल्यमानेषु राज्ञो नृपस्य वल्लभाः प्रिया ये तुरङ्गमा अश्वास्तेषां मन्दुरा शाला तस्यां प्रदीपेषु स्नेहप्रियेषु । प्रवीति । प्रविशन्तीषु प्रवेशं कुर्वतीषु प्रथमयामसक्ता याः कुञ्जरघटास्तासु । कृतेति । कृतं विहितं स्वस्त्ययनं विघ्नोपशमनविधियैरेवंभूतेषु पुरोहितेषु पुरोधस्सु निष्कामत्सु बहिर्गच्छत्सु । पुनः केषु सत्सु । मणिभूमिकुट्टिमेषु स्फटिकमणिना बद्धानि यानि भूमौ कुट्टिमानि तेषु सत्सु । तानि विशेषयन्नाह - विसर्जित इति । विसर्जितो विसृष्टो यो राजलोकस्तेन विरलः स्तोकः परिजनो येषु । अतएव विस्तारितेष्विव विस्तारं प्राप्तेष्विव । स्तोकजनापेक्षया स्थानं महदृश्यते रजन्यामिति भावः । राजेति । राजकुलस्य यानि कक्षान्तराणि प्रकोष्ठान्तराणि तेषु । प्रचलितं यद्दीपिकासहस्त्रं तस्य प्रतिबिम्बानि प्रतिच्छायास्तैश्चुम्बितेषु सहितेषु । दीपकप्रतिविम्बानां पीतत्वादुपमानान्तरं दर्शयन्नाह - कृतेति । कृतो विहितो विकचचम्पकदलैरुपहारः पूजा येष्वेवंविधेष्विव । चम्पकदलाना पीतत्वादेव तदुपमानमिति भावः । निपतितेति । निपतितः पतितो दीपालोको गृहमणिप्रकाशो यासु । रवीति । रविविरहेण सूर्यविरहेणार्ता या नैलिन्यस्तासां विनोदन क्रीडनं तदर्थमागतो बालातपो यास्वेवविधास्विव भवनदीर्घिकासु गृहवापीषु सतीषु । पज्जरस्थकेसरिषु सिंहेषु निद्रया प्रमीलयालसेषु मन्थरेषु सत्सु । समारोपितेति । समारोपितमधिज्य कृतं कार्मुकं येन स तस्मिन् । गृहीताः सायका बाणा येन स तस्मिन् । यामिक इव प्राहरिक इवान्तःपुरप्रविष्टे मकरकेतौ कंदर्प सति । सुरतेति । सुरते मैथुने यानि दुतीवचनानि तेषु कर्णे श्रोत्रे क्रियमाणेषु श्रूयमाणेषु सत्सु सरागेषु । अत्र राग आरुण्यं इच्छा च । अत एवावतंससाम्यं प्रदर्शयन्नाह - अवेति । अवतंसपल्लवेष्विव । मानि - - - - - टिप्प० - 1 हंसरवानुकारी नूपुरशब्दः । ततश्च नूपुरशब्दे जाते हंसाः सजातीयस्य विरावभ्रमेण शब्दायन्ते, किन्तु नूपुरशब्दोपरामेण रात्री तेपि निभृताः स्थिता इति ग्रन्थकर्तुराशयः । 2 दीपालोकः दीपकानां प्रकाशः । 3 पु-स्त्रीलिङ्गाभ्यां रवि-नलिन्योंर्नायकनायिकाव्यवहारसूचनात् समासोक्तिः । पाठा० - १ अवलम्बित. २ संगीतक. ३ मण्डलपिण्डेषु; मण्डलेषु. ४ तुरङ्ग. ५ कृतराज. ६ विकच. ७ सूर्यमणिभ्यः, (सन्ध्यावर्णनम् पूर्वभागः । Page #227 -------------------------------------------------------------------------- ________________ नलेषु प्रज्वलत्सु मानिनीनां शोकविधुरेषु हृदयेषु, प्रवृत्ते प्रदोषसमये चन्द्रापीडः प्रज्वलितदीपिकाचक्रवालपरिवारश्चरणाभ्यामेव राजकुलं गत्वा पितुः समीपे मुहूर्तं स्थित्वा दृष्ट्वा च विलासवतीमागत्य स्वभवनमनेकरत्नप्रभाशबलमुरगराजफणामण्डलमिव हृषीकेशः शयनतलमधिशिश्ये ।। प्रभातायां च निशीथिन्यां समुत्थाय समभ्यनुज्ञातः पित्राभिनवमृगयाकौतुकाकृष्यमाणहृदयो भगवत्यनुदित एव सहस्त्ररश्मावारुह्येन्द्रायुधमग्रतो बोलेयप्रमाणानाकर्षयद्भिश्चामीकरश्रृङ्खलाभिः कौलेयकाञ्जरह्याघ्रचर्मशबलवसनकञ्चुकधारिभिरनेकवर्णपट्टचीरिकोद्वंद्धमौलिभिरुपचितश्मश्रुगहनमुखैरेककर्णावसक्तहेमतालीपुटैराबद्धनिबिडकखैरनवरतश्रमोपचितोरुपिण्डिकैः कोदण्डपाणिभिः श्वपोषकैरनवरतकृतकोलाहलैः प्रधावद्भिर्द्विगुणीक्रियमाणमनोत्साहो - *********** नीति । मानिनीनां शोकविधुरेषु शुक्पीडितेषु हृदयेषु मनस्सु मानादेव प्रज्वलत्सु दह्यमानेषु सत्सु । अतएवाह - सूर्येति । सूर्यकान्ता ये मणयस्तेभ्य इव संक्रान्तः प्रतिबिम्बितोऽनलो वह्निर्येषु । उपसंहरन्नाह-एवंविधे प्रदोषसमये यामिनीमुखसमये प्रवृत्ते सति प्रसृते सति चन्द्रापीडः । प्रज्वलितेति । प्रज्वलितमुद्दीपितं यद्दीपिकाचक्रवालं तदेव परिवारः परिच्छदो यस्यैवंभूतः । चरणाभ्यामेव राजकुलं गत्वा पितुः समीपे मुहूर्तं स्थित्वा दृष्ट्वा च विलासवतीमागत्य स्वभवनं शयनतलं शयनीयतलमधिशिश्ये शयनं चक्रे । शयनतलमित्यत्र 'अधिशीस्थासाम्-' इत्यधिकरणे द्वितीया । शयनतलं विशेषयन्नाह - अनेकेति । अनेकेषां रत्नानां मणीनां या प्रभा तया शबल कर्बुरम् । कृष्णत्वसाम्यादुपमानान्तरमाह - उरगेति । उरगराजः शेषनागस्तस्य यत्फणामण्डलं तत्र हृषीकेश इव । प्रभातायामिति । प्रभातायां विभातायां निशीथिन्यां रजन्यां च समुत्थायोत्थानं कृत्वा पित्रा जनकेन समभ्यनुज्ञातः प्रदत्तानुज्ञोऽभिनवा प्रत्यग्रा या मृगयाखेटकं तस्य यत्कौतुकमाश्चर्यं तेनाकृष्यमाणं हृदयं यस्य सः । भगवत्यनुदित उदयमप्राप्त एव सहस्त्ररश्मी सूर्य इन्द्रायुधमश्वमारुह्य बहुगजतुरगपदातिपरिवृतो वनं ययावित्यन्वयः । कीदृशो राजकुमारः । द्विगुणेति । द्विगुणीक्रियमाणो मनोत्साहो यस्य सः । कैः । श्वपोषकैः कौलेयकरक्षकैः । तानेव विशिनष्टि - अग्रत इति । अग्रतः पुरतो बालेयो रासभस्त प्रमाणाश्चामीकरश्रृङ्खलाभिः सुवर्णश्रृङ्खलाभि कौलेयकाशुन आकर्षयद्भिराकर्षणं कुर्वद्भिः । जरदिति । जरञ्जरीयान्यो व्याघ्रो द्वीपी तस्य चर्म त्वक्तद्वत्तदिव शबलं कर्बुर यद्वसनं वस्त्रं तस्य यः कञ्चुकोऽङ्गिका तद्धारिभिः । अनेकेति । अनेकवर्णा या पट्टचीरिका तयोद्धाः संयता मौलयः केशा यैः । उपेति । उपचितानि वर्धितानि यानि श्मश्रूण्यास्यलोमानि तैर्गहनानि संकीर्णानि मुखानि येषां तैः । एकेति । एकस्मिन्कर्णेऽवसक्तं क्षिप्तं हेमतालीपुटं यैः । आबद्धेति । आबद्धा नद्धा निबिडं दृढं कक्षा मध्यप्रदेशो यैः । अनवरतेति । अनवरतं यः श्रमस्तेनोपचिते पुष्टे ऊरुपिण्डिके जवापिचिण्डिके येषां तैः । पिण्डिका च गुल्फोपरि जानोरधःप्रदेशः । कोदण्डो धनुः पाणी येषा तैः । अनवरतेति । अनवतं निरन्तरं कृतः कोलाहलो यैः ।। - टिप्प० - 1 अत्र केषाञ्चनमते न खलु कृष्णवर्णे शयनीये सुष्याप चन्द्रापीडः, न च तस्य शोभैव । शेषोपि च श्वेत एव । अत एव तन्मते श्वेतत्वसाम्यादित्युचितम् । 2 द्विगुणीक्रियमाणो गमनोत्साहो यस्येत्यपि पाठः । मनोत्साह इति पाठस्वीकारस्तु न टीकाकृता संभाव्यतेऽव्युत्पत्तिमत्त्वात्, किन्तु लिपिकारेण कृतोऽयं दोषः, अतो 'मनसामुत्साह' इत्यर्थसंगता पाठघटना । 3 आकर्षद्भिरित्यपि पाठः, णिचोऽनावश्यकत्वात् । 4 अनेकवर्णाः याः पट्ट (क्षौम)वस्त्रस्य चीरिकाः क्षुद्रखण्डास्तैः उत् उपरि बद्धाः जटीभूताः केशा यैरिति व्याख्योचिता । 5 स्वर्णघटितोऽलंकारविशेषः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ चलत्सु. २ मुहूर्तकम्. ३ अभ्यनुज्ञातः. ४ अवकृष्यमाण. ५ बालेयद्वीपिप्रमाणान्. ६ आकर्षद्भिः. ७ शबलकञ्चुक. ८ अवबद्ध; ऊर्ध्वबळ. ९ पिण्डकैः. १० दण्डपाणिभिः. ११ उत्साहः, गमनोत्साहः. 214 कादम्बरी। कथायाम् Page #228 -------------------------------------------------------------------------- ________________ बहुगजतुरगपदातिपरिवृतो वैनं ययौ । तत्र चाकर्णान्ताकृष्टमुक्तैर्विकचकुवलयपलाशकान्तिभिभल्लैर्मदकलकलभकुम्भभित्तिभिदुरैश्च नाराचैश्चापटङ्कारभयचकितवनदेवतार्धाक्षवीक्षितो वनवैराहान्केसरिणः शरभाचामराननेककुरङ्गकांच सहस्त्रशो जघान । अन्यांश्च जीवत एव महाप्राणतया स्फुरतो जग्राह । समारूढे च मध्यमह्नः सवितरि वनात्स्नानोत्थितेनेव श्रमसलिलबिन्दुवर्षमनवरतमुज्झता मुहुर्मुहुर्दशनविघट्टनैः खणखणायितखरखलीनेन श्रमशिथिलमुखविगलितफेनिलरुधिरलवेन पर्याणपट्टकानुसरणोत्थितफेनराजिना कर्णावतंसीकृतमुत्फुल्लकुसुमशबलमलिपटलझङ्काररवमुखर वनगमनचिह्न पल्लवस्तबकमुबहतेन्द्रायुधेनोह्यमानः, समुद्गतस्वेदतयान्तरार्दीकृतमंण्डलेन मृगरुधिरलवशतशबलेन वारबाणेन द्विगुणतरमुपजात - *********** प्रधावद्भिः शीघ्रं गच्छद्भिः । तत्रेति । तत्र तस्मिन्बने सहस्त्रशोऽनेकशो वनवराहानरण्यक्रोडान्, केसरिणः सिंहान्, शरभानष्टापदान चामराश्चमरी , अनेककुरङ्गकानसंख्यमृगांश्च जघान हतवानित्यन्वयः । कैः । नाराचैर्लोहनिर्मितैर्बाणैः । 'सर्वलोहो नाराच एषणश्च सः' इति कोशः । अथ नाराचान्विशेषयन्नाह - कर्णान्तेति । आकर्णान्तमाश्रवणप्रान्तमाकृष्टा आकर्षिताः पश्चान्मुक्ताः क्षिप्तास्तैः । मदेति । मदेन कला मनोहराः । अनेन कलभस्य त्रिंशदब्दकत्वान्मदावस्था सूचिता । अत एव कलभशब्दप्रयोगः । एवंविधा ये कलभा हस्तिशावकास्तेषां कुम्भाः शिरसः पिण्डास्त एव भित्तयः कुड्यानि तासां भिदुरैर्भेदकैः । पुनः कैः । भल्लैः कुन्तैः । तामेव विशिनष्टि - विकचेति । विकचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां पलाशानि पत्राणि तद्वत्कान्तिीप्तिर्येषां तैः । उत्तेजिताना भल्लानामपि तदुपमानम् । चापेति । चापस्य धनुषो यष्टङ्कारष्टङ्काररवोऽनुकरणशब्दस्तस्माद्यद्भयं तेन चकिता त्रस्ता या वनदेवता वनाधिष्ठात्र्यस्ताभिरक्षण वीक्षितः । अन्याश्चेति । अन्यानेतद्भिन्नाञ्जीवत एव प्राणान्दधत एव स्फुरतो दीप्यमानान्महाप्राणतया महासाहसतया जग्राह गृहीतवान् । समेति । अह्रो दिवसस्य मध्यं समारूढे प्राप्ते सवितरि सूर्ये सति वनादरण्यात्कुमारः स्वभवनं स्वगृहमाजगामाययावित्यन्वयः । अथ कुमारं विशिनष्टि - इन्द्रेति । इन्द्रायुधेनाश्वेनोह्यमानः वहमानः । अश्वं तुरंगमं विशेषयन्नाह - स्नानेति । अनवरतं श्रमसलिलाना खेदोत्थजलाना ये बिन्दवः पृषतास्तेषां वर्षं वृष्टिमुज्झता त्यजता । अत एवाह-स्नानोत्थितेनेवाप्लवानन्तरमेव कृताभ्युत्थानेनेव । मुहुरिति । मुहुर्मुहुर्वारंवारं दशनविघट्टनैर्दन्तघर्षणैः खणखणायितं खणखणेत्याचरितं खरं कठिनं खलीनं मुखयन्त्रणं येन । श्रमेति । श्रमेण खेदेन शिथिलं श्लथं यन्मुखं तस्माद्विगलिताः स्त्रस्ताः फेनिलयुक्ताः कफसहिता रुधिरलवा यस्य स तेन । पर्याणेति । पर्याण पल्ययनं तस्य पट्टकः काष्ठपीठं तयावदनुसरणं यस्या एवंविधोत्थिता फेनराजिः कफश्रेणिर्यस्य स तेन । कर्णेति । कर्णेऽवतंसीकृतं श्रवणाभरणं कृतम् । उत्फुल्लानि विकचानि यानि कुसुमानि तैः शबलं मिश्रितम् । अलिपटलानि भ्रमरसमूहास्तेषां झङ्काररवो झङ्कृतिशब्दस्तेन मुखरं वाचालं वनेऽरण्ये यद्गमनं तस्य चिह्न लक्ष्मैवंविधं पल्लवस्तबकं किसलयगुच्छकमुरहता धारयता । पुनः कीदृशः । समुद्गतः प्रादुर्भूतः स्वेदस्तस्य भावस्तत्ता तयान्तरार्दीकृतं मण्डलं यस्य स तेन । मृगेति । मृगाणां हरिणानां रुधिरलवा रक्ताशास्तेषां शतं तेन शबलेन कबुरेणैवंभूतेन वारबाणेन कञ्चुकेन द्विगुणतरमुपजाता कान्तिर्यस्य सः । सत्त्ववतो वारबाणेन महती दीप्तिर्भवत्येवेति विश्वविदितम् । - - - - - - - - - - टिप्प० - 1 इलच्प्रत्ययः स्वयं मत्वर्थे । अत एव फेनयुक्ता इत्युचितम् । । पाठा० - १ पादातिभिः. २ घन वनम्. ३ अवकृष्ट. ४ टड्काररव. ५ वनवराहकेसरिणः. ६ चामराननेकविधः. । स्नानोत्थितेन. ८ खररवाभीतेन. ९ गलित. १० अनुसारोत्थितः. ११ झङ्कारमुखरम्. १२ अन्तरान्तरा. १३ उपजनित. (चन्द्रापीडस्य मृगया । पूर्वभागः ।) 215 Page #229 -------------------------------------------------------------------------- ________________ कान्तिः, अनेकरूपानुसरणसंभ्रमपरिभ्रष्टच्छेत्रधरतया छत्रीकृतेन नवपल्लवेन निवार्यमाणातपः, विविधवनलताकुसुमरेणुधूसरो वसन्त इव विग्रहवान्, अश्वखुररजोमलिनललाटाभिव्यक्तावदातस्वेदलेखः, दूरविच्छिन्नेन पदातिपरिजनेन शून्यीकृतपुरोभागः, प्रजवितुरङ्गमाधिरूढेरल्पावशिष्टैः, सह राजपुत्रैः ‘एवं मृगपतिः, एवं वराहः, एवं महिषः, एवं शरभः, एवं हरिणः इति तमेव मृगयावृत्तान्तमुच्चारयन्स्वभवनमाजगाम । उत्तीर्य, च तुरङ्गमात्ससंभ्रमप्रधावितपरिजनोपनीत उपविश्यासने वारबाणमवतार्य, अपनीय चाशेषं तुरङ्गाधिरोहणोचितं वेषपरिग्रहमितस्ततः प्रचलिततालवृन्तपवनापनीयमानश्रमो मुहूर्तं विशश्राम । विश्रम्य च मणिरजतकनककलशशतसनाथामन्तर्विन्यस्तकाञ्चनपीठां स्नानभूमिमगात् । निर्वतिताभिषेकव्यापारस्य च विविक्तवसनपरिमृष्टवपुषः स्वच्छदुकूलपल्लवाकलितमौलेर्गृहीतवाससः कृतदेवार्चनस्याङ्गरागभूमौ समुपविष्टस्य राज्ञा विसर्जिता महा - *********** अनेकेति । अनेके ये रूपाः पशवस्तेषामनुसरणं गवेषणं तत्र यः संभ्रमश्चेतसो वैक्लव्यं तेन परिभ्रष्टा दूरीभूता ये छत्रधरास्तेषां भावस्तत्ता तया । 'रूपं तु श्लोकशब्दयोः पशौ' इत्यनेकार्थः । छत्रीकृतेनातपवारणीकृतेन नवपल्लवेन प्रत्यग्रकिसलयेन निवार्यमाणो दूरीक्रियमाण आतपो यस्य सः । विविधेति । विविधा अनेकप्रकारा या वनलता अरण्यव्रतत्यस्तासां कुसुमरेणुः पुष्परागस्तेन धूसरे ईषत्पाण्डुः । क इव । विग्रहवान्सशरीरो वसन्त इव इष्य इव । अश्वखुरस्य यद्रजस्तेन मलिनं कश्मलं यल्ललाट तत्राभिव्यक्ता प्रकटावदाता निर्मला स्वेदलेखा यस्य सः । दूरविच्छिन्नेन दूरान्तरितेन पदातिपरिजनेन पत्तिपरिच्छदेन शून्यः कृतो विहितः पुरोभागोऽग्रभागो यस्य सः । प्रजविनो जवयुक्ता ये तुरङ्गमा अवास्तेष्वधिरूढरारूढेरल्पावशिष्टैः स्तोकैः राजपुत्रैर्नृपसुतैः सह । इति तमेव मृगयावृत्तान्तमाखेटकोदन्तमुच्चारयन्नन्योन्यं ब्रुवन् । इतिशब्दार्थमाह - एवमिति । एवं पूर्वोक्तप्रकारेण मृगपतिः सिंहः, एवं वराहो वनक्रोडः, एवं महिषो रक्ताक्षः, एवं शरभोऽष्टापदः, एवं हरिणो मृगः । व्यापादित इति शेषः । अन्वयस्तु प्रागेवोक्तः ।। स्वभवनगमनानन्तरं च तुरङ्गमादश्चादुत्तीर्यावरोह कृत्वा ससंभ्रमं सवेगं प्रधावितो यः परिजनः परिच्छदस्तेनोपनीत आनीत आसने विष्टर उपविश्योपवेशनं कृत्वा वारवाणं कवचमवतार्य तस्यावतरणं कृत्वा तुरङ्गाधिरोहणोचितमशेषं समग्रं वेषपरिग्रहणमपनीय दूरीकृत्य । इतस्ततः प्रचलितं यत्तालवृन्तं व्यजनं तस्य यः पवनो वायुस्तेनापनीयमानो दूरीक्रियमाणः श्रमः क्लमो यस्य स तथा मुहूर्तं घटिकाद्वयं विशश्राम विश्राम गृहीतवान् । विश्रम्यचेति । विश्राम गृहीत्वा । मणीति । मणयश्चन्द्रकान्तायाः, रजत रौप्यम्, कनक सुवर्णम्, एतेषां यत्कलशशतं कुम्भशतं तेन सनाथा सहिताम् । अन्तर्मध्ये विन्यस्त स्थापितं काञ्चनपीठं स्वर्णपीठ यस्यामेवभूता स्नानभूमिमगाज्जगाम । निर्वर्तितेति । निर्वतितो निष्पादितोऽभिषेकव्यापारो यस्य स तस्य । विविक्ते विजने वसनं वस्त्रं तेन परिमृष्टं शुष्कीकृतं वपुर्येन स तस्य । स्वच्छेति । स्वच्छो निर्मलो यो दुकूलपल्लवस्तेनाकलितो वेष्टितो मौलिः शिरो यस्य स तस्य । गृहीत स्वीकृत वासो वस्त्रं येन स तथा तस्य । कृतं देवार्चन देवपूजा येन स तस्य । अङ्गरागभूमौ विलेपनभूमौ समुपविष्टस्य राज्ञा तारापीडेन विसर्जिता विसृष्टा महाप्रतीहारेण महाद्वारपालकेनाधिष्ठिता आश्रिता राजकुलपरिचारिका नृपकुलसेवाकारिण्यः कुलवर्धना - - - - टिप्प० - 1 विविक्तेन पवित्रेण वसनेनेत्यर्थ उचितः । - - - - - - - - - - - - - - - - -- - - -- पाटा० - १ अनुसार. २ छत्रधारतया. ३ वनपल्लवेन. ४ जनेन. ५ बनमहिषः. ६ अवतीर्य. ७ समुपविश्य. ८ तुरङ्गम. ९ निवर्तित. १० आकुलित. ११ गृहीतधोतवाससः. १२ देवता. 216 कादम्बरी। कथायाम Page #230 -------------------------------------------------------------------------- ________________ प्रतीहाराधिष्ठिता राजकुलपरिचारिकाः कुलवर्धनासनाथाश्च विलासवतीदास्यः सर्वान्तःपुरप्रेषिताश्चान्तःपुरपरिचारिकाः पटलकविनिहितानि विविधान्याभरणानि मोल्यान्यङ्गरागान्वासांसि चादाय पुरतस्तस्योपतस्थुरेपनिन्युश्च । यथाक्रममादाय च ताभ्यः प्रथम स्वयमुपलिप्य वैशम्पायनमुपरचिताङ्गरागो दत्त्वा च समीपवर्तिभ्यो यथार्हमाभरणवसनाङ्गरागकुसुमानि विविधमणिभाजनसहस्त्रसारं शारदमम्बरतलमिव स्फुरिततारागणमाहारमण्डपमगच्छत् । तत्र च द्विगुणितकुथासनोपविष्टः समीपोपविष्टेन तद्गुणोपॅवर्णनपरेण वैशम्पायनेन येथार्ह भूमिभागोपवेशितेन राजपुत्रलोकेन 'इदमस्मै दीयताम्, इदमस्मै दीयताम्इति प्रसादविशेषदर्शनसंवर्धितसेवारसेन च सहाहारविधिमकरोत् । उपस्पृश्य च गृहीतताम्बूलस्तस्मिन्मुहूर्तमिव स्थित्वेन्द्रायुधसमीपमगमत् । तत्र चानुपविष्ट एव तद्गुणोपवर्णनप्रायालापाः कथाः कृत्वा सत्यप्याज्ञाप्रतीक्षणोन्मुखे पार्श्वपरिवर्तिनि परिजने तद्गुणहृतहृदयः स्वय - *********** प्रगल्भा दासी तया सनाथाः सहिता विलासवती कुमारजननी तस्या दास्यः कूटहारिकाः (?) । सर्वान्तःपुरप्रेषिता इति । सर्व यदन्तःपुरं तेन प्रेषिता अन्तःपुरपरिचारिकाश्चावरोधसेवाविधायिन्यः पटलकं वङ्गेरिका तस्यां विनिहितानि स्थापितानि विविधानि विचित्राण्याभरणानि भूषणानि, माल्यानि पुष्पदामानि, अङ्गरागान्विलेपनानि, वासांसि वस्त्राण्यादाय गृहीत्वा तस्य चन्द्रापीडस्य पुरतोऽग्रत उपतस्थुः स्थिता बभूवुः । उपनिन्युश्च । आनीतं वस्तूपढौकयामासुरित्यर्थः । यथेति । यथाक्रममनुक्रमेण ताभ्योऽन्तःपुरपरिचारिकाभ्यस्तद्वस्त्वादाय गृहीत्वा प्रथममादौ वैशम्पायनमुपलिप्य पश्चात्स्वयमुपरचितः कृतोऽङ्गरागो येनैवंभूत आहारमण्डपं भोजनमण्डपमगच्छदित्यन्वयः । किं कृत्वा । यथार्ह यथायोग्यमाभरणवसनाङ्गरागकुसुमानि समीपवर्तिभ्यः पार्थस्थायिभ्यो दत्त्वा वितीर्य । भोजनमण्डप विशेषयन्नाह - विविधेति । विविधानि विचित्राणि यानि मणिभाजनानि रत्नपात्राणि तेषां सहस्त्रं तेनं सारं प्रधानम् । भाजनानां वर्तुलत्वादिसाम्यादुपमानान्तरमाह - शारदेति । स्फुरिततारागण शारदमम्बरतलमिव । तत्र चेति । तत्र तस्मिन्मण्डप आहारविधि भोजनविधिमकरोदित्यम्बयः । द्विगुणितं परावर्तित यत्कुथासनं तत्रोपविष्टः । समीपेति । समीपं पार्थ तत्रोपविष्टेन स्थितेन । तदिति । तस्य तारौपीडस्य ये गुणाः शौर्यादयस्तेषामुपवर्णनं श्लाघनं तत्र परेणासक्तेन वैशम्पायनेन यथार्ह यथायोग्यम् । भूमिभागेति । यस्य योचिता योग्या भूस्तस्यामुपवेशितेन स्थापितेन । राजपुत्रलोकस्य विशेषणम् । राजपुत्रलोकेन 'अस्मा इदं दीयताम्, अस्मा इदं दीयताम्' इति पूर्वोक्तप्रकारेण प्रसादः प्रसन्नता तस्य विशेष आधिक्यं तस्य दर्शनं प्रकटीकरणं तेन संवर्धितो वृद्धि प्रापितः सेवारसः सपर्यास्वादो यस्य स तेन । अन्वयस्तु प्रागेवोक्तः । भोजनानन्तरमुपस्पृश्याचमनं कृत्वा गृहीतं ताम्बूलं नागवल्लीदलं येन सः । तस्मिन्मण्डपे मुहूर्तमिव नाडिकाद्वयमिव स्थित्वेन्द्रायुधसमीपमगमद्ययौ । तत्र चेति । तत्र तस्मिन्स्थलेऽनुपविष्ट एवोर्ध्वस्थित एव तस्येन्द्रायुधस्य ये गुणा मुखमण्डले निर्मासत्वादयस्तेषामुपवर्णन प्रायो बाहुल्यं येषु एवंविधा आलापाः संलापा यास्वेवंभूताः कथाः किंवदन्तीः कृत्वा विधायाज्ञाया निदेशस्य प्रतीक्षणं समयावेक्षणं तत्रोन्मुखे सावधाने पार्थपरिवर्तिनि समीपस्थायिनि परिजने सत्यपि तस्य ये गुणाः शालिहोत्रप्रसिद्धास्तैर्हतमा - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पेटिका इत्यर्थः । 2 'भाजनसहसशारम्' इत्यपि पाठः । मणिभाजनसहस्त्रैः शारं विचित्रमिति तदर्थः । 3 चन्द्रापीडस्येत्युचितम्, संनिधानात्, 4 वेगेन गमनं, मनोभावानुसारं स्थित्यादिकाः । पाठा० - १ प्रतिचारिकाः. २ माल्याङ्गरागान्. ३ उपनिन्युश्चोपनीतानि च. ४ रचित. ५ शाराम्बर. ६ द्विगुणीकृत. ७ वर्णन. ८ वैशम्पायनेन सह. ९ यथार्ह. १० सह राज. ११ प्रदीयताम्. १२ तस्मै. १३ प्रदीयताम्. १४ विशेषसंवर्धितसेवारसेनाहार. १५ अगात्. १६ आज्ञा प्रतीक्षमाणोन्मुरवे. १७ अपहत. चन्द्रापीडस्य विश्राम-भोजनादिव्यापारः पूर्वभागः । 217 Page #231 -------------------------------------------------------------------------- ________________ मेवेन्द्रायुधस्य पुरो यवसमाकीर्य निर्गत्य राजकुलमयासीत् । तेनैव च क्रमेणावलोक्य राजानमागत्य निशामनैषीत् । अपरेयुश्च प्रभातसमय एव सर्वान्तःपुराधिकृतम्, अवनिपतेः परमसंमतम्, अनुमार्गागतया च, प्रथमे वयसि वर्तमानया, राजकुलसंवासप्रगल्भयाप्यनुज्झिातविनयया, किंचिदुपारूढयौवनया, शक्रगोपालोहितरागेणांशुकेन रचितावगुण्ठनया सबालातपयेव पूर्वया ककुभा प्रत्यग्रदलितमनःशिलावर्णेनाङ्गलावण्यप्रभाप्रवाहेणामृतरसनदीपूरेणेव भवनमापूरयन्त्या, ज्योत्स्नयेव राहुग्रहग्रासभयादपहाय रजनिकरमण्डलं गामवतीर्णया, राजकुलगृहदेवतयेव मूर्तिमत्या, क्वणितमणिनूपुराकुलचरणयुगलया कूजत्कलहंसाकुलितकमलयेव कमलिन्या महार्हहेममेखलाकलापकलितजघनस्थलया, नातिनिर्भरोद्भिन्नपयोधरया, मन्दं मन्दं - *********** कर्षितं हृदयं चेतो यस्यैवंभूतः । स्वयमेवात्मनैव, अत्रैवकारोऽन्ययोगव्यवच्छेदकृत् । इन्द्रायुधस्याश्वस्य पुरोऽग्रे यवसं तृणमाकीर्य प्रकीर्य प्रक्षिप्य तदनन्तरं निर्गत्य राजकुलमयासीदबाजीत् । तेनैव क्रमेण पूर्वोक्तपरिपाट्या राजानं तारापीडमवलोक्य निरीक्ष्य पुनरागत्यैत्य । स्वगृहमिति शेषः । निशां रात्रिमनैषीत्परिकलितवान् । अपरेयुरिति । अपरस्मिन्दिने प्रभातसमय एव कन्ययानुगम्यमानं कैलासनामानं कञ्चुकिनमायान्तमागच्छन्तमपश्यदित्यन्वयः । कञ्चुकिनं विशिनष्टि - सर्वेति । सर्वं समग्रं यदन्तःपुरं तत्राधिकृतं नियुक्तम् । स्वस्वामिनेति शेषः । अवनिपते राज्ञः परमसंमतं पर विश्वस्तम् । अथ च सहागतकन्यां विशेषयन्नाह - अन्विति । अनुलक्षीकृत्य मार्गमागता प्राप्ता तया । प्रथमवयः कौमारवयस्तस्मिन्वर्तमानया स्थितया । राजेति । राजकुले नृपकुले यः संवासो वसनं तत्र प्रगल्भया प्रतिभान्वितयाप्यनुज्झितोऽपरित्यक्तो विनयो मर्यादा यया सा तया । प्रगल्भस्याभिमानातिरेकेण विनयाभावः स्यात् । अत्र तु तत्सद्भावेऽपि तदाधिक्यमित्याश्चर्यमिति भावः । किचिदिति । किंचिदीषदुपारूढमाश्रितं यौवनं तारुण्यं यया सा तया । शक्रेति । शक्रगोप एव शक्रगोपकः । स्वार्थे कः । आरक्तः प्रावृटुकीटस्तद्वदालोहितो रक्तो रागो यस्मिन्नेतादृशेनांशुकेन वस्त्रेण रचितं विहितमवगुण्ठनं शिरोवेष्टनं यया सा तया । अंशुकस्यातिरक्तत्वादुपमान प्रदर्शयन्नाह - सबालेति । सह बालातपेन वर्तमानया पूर्वया प्राच्या ककुभा दिशा इव । प्रत्यग्रदलिता तत्कालमर्दिता या मनःशिला मनोगुप्ता तद्वद्वर्णो यस्यैवंभूतेनाङ्गस्य देहस्य लावण्यं सौन्दर्यं तस्य प्रभा कान्तिस्तस्याः प्रवाहो रयस्तेन भवनं गृहमापूरयन्त्या परिपूर्ण कुर्वत्या । केनेव । अमृतरसस्य या नदी तस्याः पूरेणेव । राहुः सैहिकेयः स चासौ ग्रहस्तेन ग्रासो भक्षणं तस्माद्यद्भयं तस्माद्रजनिकरमण्डलं चन्द्रबिम्बमपहाय त्यक्त्वा गां पृथ्वीमवतीर्णयागतया ज्योत्स्नयेव कौमुद्येव । मूर्तिमत्या शरीरधारिण्या राजकुलदेवतयेव नृपकुलाधिष्ठात्येव । क्वणितं शब्दितं यन्मणिनपुरं रत्नपादकटकं तेनाकुलं व्याप्तं चरणयुगलं पादद्वितयं यस्याः सा तया । नूपुरस्य श्वेतत्वाच्चरणयोश्चारक्तत्वादुत्प्रेक्षामाह - कूजदिति । कूजन्यः कलहंसः कादम्बस्तेनाकुलितं कमलं यस्या एवंविधया कमलिन्येव । महार्हो महा? यो हेममेखलाकलापः सुवर्णरशनाकलापस्तेन कलितं जघनस्थलं कट्या अग्रप्रदेशो यस्याः सा तया । नातीति । नातिनिर्भर नातिबाहुल्येनोदिन्नौ प्रकाशं प्राप्तौ पयोधरौ स्तनौ यस्याः सा तया । मन्दमिति । मन्दं मन्दं नातिप्रयत्नेन यो भुजलताया बाहुवल्लया विक्षेप इतस्ततञ्चालनं तेन प्रेलिता धूता ये नखमयूखा नखरदीप्तयस्तेषां छलेन मिषेणानवरतं निरन्तरं लावण्यरस तारु - -------------------------------- टिप्प० - 1 'मैनसिल' इति ख्यातो धातुविशेषः । - - - - पाठा० - १ परेयुश्च. २ अधिकृततया. ३ गतया प्रथमे. ४ लोहित. ५ चूर्णवर्णेन. ६ राहुग्रास; राहुग्रसन. ७ भूमण्डलम्. ८ कुलदेवतया. ९ आकुलित; आकलित. १० चरणया रुचिररेणुचर्चितचञ्चरीकचक्रवालवाचालितरक्तकमलयुगलयेव स्थलकमलिन्या. ११ आकलित. १२ मन्दमन्द. MARRRRRRRRR स कादम्बरी I (218 कथायाम- } IIIIIIIIIIIIIIII Page #232 -------------------------------------------------------------------------- ________________ भुजलताविक्षेपप्रेषैितनखमयूखच्छलेन धाराभिरिव लावण्यरसमनवरतं क्षरन्त्या, दिङ्मुखविसर्पिहारलतानां रश्मिजाले निमग्नशरीरतया क्षीरसागरोन्मग्नवदनयेव लक्ष्म्या, बहलताम्बूलकृष्णिकान्धकारिताधरलेखया सैमसुवृत्ततुङ्गनासिकया, विकसितपुण्डरीकलोचनया, मणिकुण्डल-मकरपत्रभङ्गकोटिकिरणातपाहतकपोलतया सकर्णपल्लवमिव मुखमुद्रहन्त्या, पर्युषितधूसरचन्दनरसतिलकालंकृतललाटपट्टया, मुक्ताफलप्रायालंकारया, राधेयराज्यलक्ष्म्येवोपपादिताङ्गरागया, नेववनलेखयेव कोमलतनुलतया, त्रय्येव सुप्रतिष्ठितचरणया, मखशालयेव वेदिमध्यया, मेरुवनलतयेव कनकपत्रालंकृतया, महानुभावाकारयानुगम्यमानं कन्यया कैलासनामानं कञ्चुकिनमायान्तमपश्यत् । स कृतप्रणामः समुपसृत्य क्षितितलनिहितदक्षिणकरो विज्ञापयामास-'कुमार, महादेवी - *********** ण्यरसं धाराभिः क्षरन्त्येव । दिगिति । दिङ्मुखविसर्पिण्यो दिङ्मुखप्रसरणशीला या हारलतास्तासां रश्मिजाले कान्तिसमूहे निमग्नं बुडितं यच्छरीरं तस्य भावस्तत्ता तया क्षीरसागरात् दुग्धाम्भोधेरुन्मग्नं वदनं यस्या एवंविधया लक्ष्म्येव । बहलेति । बहलो निबिडो यस्ताम्बूलस्तस्य कृष्णिका श्यामता तयान्धकारितान्धकार इवाचरिताधरलेखा दन्तच्छदरेखा यस्याः सा तया । समेति । समाऽविषमा, सुवृत्ता वर्तुला, तुङ्गोच्चा नासिका नासा यस्याः सा तया । विकेति । विकसितं यत्पुण्डरीक तरलोचने यस्याः सा तया । मणीति । मणिकुण्डलयो रत्नभूषणयोर्मकरपत्रभङ्गः कोटीरपत्रेषु मकराकृतिस्तस्याः किरणानामातपः प्रकाशस्तस्याहंत प्रतिबिम्बितं ययोरेवंविधकपोलो तस्य भावस्तत्ता तया । सह कर्णपल्लवेन श्रोत्रावतसेन वर्तमानं मुखमिवोद्वहन्त्या धारयन्त्या । पर्युषीति । पर्युषितो गतदिनोद्भवोऽत एव धूसरो यश्चन्दनरसस्तस्य तिलकेनालङ्कृतं भूषितं ललाटपट्ट यस्याः सा तया । मुक्तेति । मुक्ताफलानि प्रायो बाहुल्येन सन्ति यस्मिन्नेवंविधा अलंकारा यस्याः सा तया । राधेयेति । राधेयः कर्णस्तस्य या राज्यलक्ष्मीराधिपत्यश्रीस्तयेव । उभयं विशिनष्टि - उपेति । उपपादितो विहितोऽङ्गरागो यया । पक्षेऽङ्गनाम्नो देशस्य रागः प्रीतिः । नवा प्रत्यग्रा या वनलेखारण्यश्रेणिस्तयेव । उभय विशेषयन्नाह -कोमलेति । कोमला सुकुमारा तनुलता शरीरलता यस्याः सा तया । पक्षे कोमलास्तन्व्यो लता व्रतत्यो यस्याम् । त्रयी वेदत्रयी तयेव । सुप्रतीति । सुप्रतिष्ठिताः शोभनतया स्थापिताश्चरणाः पादा यया सा तया । पक्षे सुप्रतिष्ठिताः सर्वत्र प्रसिद्धाश्चरणाः शाखाः पदानि यस्याः सा तया । मखेति । मखो यज्ञस्तस्य शालयेव । उभयोः साम्ययाह - वेदीति । वेदिवन्मध्यं यस्याः सा तया । तनुमध्ययेत्यर्थः । पक्षे वेदिः परिष्कृता भूमिमध्ये यस्याः । मेरुर्मन्दरस्तस्य या वनलता तयेव । कनकपत्रैः कर्णाभरणैरलंकृतया भूषितया । पक्षे कनकः नागकेसरश्चम्पको वा तस्य पत्राणि दलानि । 'कनको नागकेसरे । धत्तूरे चम्पके काञ्चनारकिंशुकयोरपि इत्यनेकार्थः । महाननुभावो माहात्म्यं तदनुरूप आकार आकृतिर्यस्याः सा तया । अन्वयस्तु प्रागेवोक्तः । आगमनानन्तरं स कञ्चुकी कृतः प्रणामो येनैवंभूतो विज्ञापयामास विज्ञप्तिमकरोत् । किं कृत्वा । समुपसृत्य समीपमागत्य क्षितितले निहितः स्थापितो दक्षिणकरो येन सः । इयं दक्षिणदेशरीतिः-क्षितौ दक्षिणकरं व्यव - - - - - - - - - - - - - - -- टिप्प० - 1 दिङ्मुखेषु (सर्वतः) प्रसरणं हारलतारश्मिजालानां, न हारलतानाम् । अत एव 'दिङ्मुखविसर्पिणि हारलतानां रश्मिजाले' इत्यपि पाठान्तर तदर्थसङगतिञ्च केचिद् वदन्ति । 2 आतपेन आहतौ (संस्पृष्टौ) कपोलौ यस्यास्तत्तयेति सरलोऽर्थः । 3 पादाविति द्विवचनमेवोचितम् । - - - पाठा० - १ कृष्णिमा. २ समुपवृत्त. ३ धवललोचनया. ४ मरकतमकर. ५ कपोलतलतया. ६ नवनव. ७ कन्यकया. ताम्बूलकरकवाहिन्याः परिचयः पूर्वभागः । 1219 Page #233 -------------------------------------------------------------------------- ________________ विलासवती समाज्ञापयति-'इयं खलु कन्यका महाराजेन पूर्वं कुलूतराजधानीमवजित्य कुलूतेश्वरदुहिता पत्रलेखाभिधाना बालिका सती बन्दीजनेन सहानीयान्तःपुरपरिचारिकामध्यमुपनीता । सा मया विगतनाथा राजदुहितेति च समुपजातस्नेहया दुहितृनिर्विशेषमियन्तं कालमुपलालिता संवर्धिता च । तदियमिदानीमुचिता भवतस्ताम्बूलकरङ्कवाहिनीति कृत्वा मया प्रेषिता । न चास्यामायुष्मता परिजनसामान्यदृष्टिना भवितव्यम् । बालेव लालनीया । स्वचित्तवृत्तिरिव चापलेभ्यो निवारणीया । शिष्येव द्रष्टव्या । सुहृदिव सर्वविधैम्भेष्वभ्यन्तरीकरणीया । दीर्घकालसंवर्धितस्नेहतया स्वसुतायामिव हृदयमस्यामस्ति मे । महाभिजनराजवंशप्रसूता चाहतीयमेवंविधानि कर्माणि । नियत स्वयमेवेयमतिविनीततया कतिपयैरेव दिवसैः कुमारमाराधयिष्यति । केवलमतिचिरकालोपचिता बलवती मे प्रेमप्रवृत्तिरस्याम् । अविदितशीलश्चास्याः कुमार इति संदिश्यते । सर्वथा तथा कल्याणिना प्रयतितव्यं यथेयमतिचिरमुचिता परिचारिका ते भवति' इत्यभिधाय विरतवचसि कैलासे कृता - *********** स्थाप्य विज्ञप्तिं कुर्वन्तीति भावः । हे कुमार, महादेवी विलासवती समाज्ञापयति भवन्तं ज्ञापना करोति । इयमिति । खलु निश्चयेन । इयं कन्यका महाराजेन त्वपित्रा पूर्वं कुलूतनाम्नी राजधानीमवजित्य स्वायत्तीकृत्य कुलूतेश्वरस्य हिमवद्रोण्या ईश्वरस्य दुहिता, पुत्री पत्रलेखेत्यभिधानं यस्याः सा बालिका सती बन्दीजनेन सहानीयान्तःपुरस्य याः परिचारिकाः सेवाकारिण्यस्तासां मध्यमुपनीता प्रापिता सती सा मया विगतनाथा राजदुहितेति कृत्वा समुपजातः समुत्पन्नः स्नेहो यस्यामेवंविधा मया सा पत्रलेखा दुहितृनिर्विशेषं दुहिता पुत्री तस्याः सकाशानिर्गतो विशेषोऽस्या यथा स्यात्तथेयन्तं कालमेतावत्पर्यन्तमुपलालिता पालिता संवर्धिता च वृद्धि प्रापिता च । तदिति हेत्वर्थे । इदानीं सांप्रतमियमुचिता योग्या भवतस्तव ताम्बूलस्य करङ्कः स्थगी तद्वाहिनीति कृत्वा मया प्रेषिता । नचेति । अस्या पत्रलेखायामायुष्मता भवता परिजने परिच्छदे सामान्या सर्वसाधारणा दृष्टिर्यस्यैवंविधेन त्वया न च भवितव्यम । बालेव वालिकेव लालनीया पालनीया । स्वस्य चित्तवृत्तिर्मनोवृत्तिस्तद्वदिव चापलेभ्योऽनवस्थितिभ्यो निवारणीया वर्जनीया । शिष्या शिष्यणी सेव द्रष्टव्या विलोकनीया । सुहृदिव मित्रमिव सर्वविश्रम्भेषु समग्रविश्वासस्थानेष्वभ्यन्तरा मध्यवर्तिनी करणीया कार्या । दीर्घकालेन संवर्धितो वृद्धि प्राप्तो यः स्नेहः प्रीतिस्तस्य भावस्तत्ता तया स्वसुतायामिव निजपुत्र्यामिवास्यां मे मम हृदयं चेतोऽस्ति । महानभिजनः कुलं यस्मिन्नेवंभूतो यो राजवंशस्तत्र प्रसृतोत्पन्नवंविधानि कर्माणि ताम्बूलकरकंधारणप्रभृतीनीयमेवार्हति योग्या । नियतमिति । नियतं निश्चितमियं स्वयमेवातिविनीततयातिविनयवत्तया. कतिपयैरेव कियद्भिरेव दिवसैर्घस्त्रैः कुमारं त्वामाराधयिष्यति स्ववशीकरिष्यति । केवलं परमस्यामतिचिरकालेन भूयसानेहसोपचिता पुष्टि प्राप्ता मे मम बलवती प्रेमप्रवृत्तिः स्नेहप्रवृत्तिः । अस्या अविदितमज्ञातं शील येनैवविधः कुमार इति संदिश्यते कथ्यते । सर्वथेति । सर्वथा सर्वप्रकारेण तथा कल्याणिना श्रेयोवता प्रयतितव्यं प्रयत्नः कर्तव्यः । यथातिचिरं चिरकालं यावत् । ते तवोचिता योग्येय परिचारिका भवतीत्यभिधायेत्युक्त्वा विरतवचस्यपास्तवचने कैलासे सति कृतोऽभिजातः कुलीनस्तद्वत्प्रणामो यया तां पत्रलेखामनिमिषलोचन यथा स्यात्तथा सुचिरं - - - - - - - - - - - टिप्प० -1 हिमालयसमीपे 'कुल्लू' इति साम्प्रतं प्रसिद्धा राजधानी, तस्या ईश्वरः। 2 ताम्बूलपात्रमित्यर्थः । 3 शासनीया शिष्यिणी यथा छात्री इति परमार्थः । पाठा० - १ कन्या. २ कलत; कुन्तल. ३ कलूतलेश्वर; कुन्तलेश्वर. ४ इति समुपजात. ५ करण्डक. ६ इति मया. ७ उपदेष्टव्या. ८ विश्वासेषु. ९ बलवानस्या पक्षपातो महा. १० एवंविधानि नियतम्. ११ नियत च. १२ अभिविनीत. १३ भवतीतीत्यभिधाय. १४ अभिज्ञात. (220 कादम्बरी | कादम्बरा । A M कथायाम-) Y Page #234 -------------------------------------------------------------------------- ________________ भिजातप्रणामां पत्रलेखामनिमिषलोचनं सुचिरमालोक्य चन्द्रापीडः 'यथाज्ञापयत्यम्बा' एवमुक्त्वा कञ्चुकिन प्रेषयामास । पत्रलेखा तु ततःप्रभृति दर्शनेनैव समुपजातसेवारसा न दिवा न रात्रौ न सुप्तस्य नासीनस्य नोत्थितस्य न भ्रमतो न राजकुलगतस्य छायेव राजसूनोः पार्थं मुमोच । चन्द्रापीडस्यापि तस्यां दर्शनादारभ्य प्रतिक्षणमुपचीयमाना महती प्रीतिरासीत् । अभ्यधिकं च प्रतिदिनमस्य प्रसादमकरोत् । आत्महृदयादव्यतिरिक्तामिव चैनां सर्वविश्रम्भेष्वमन्यत । एवं समतिक्रामत्स दिवसेष राजा चन्द्रापीडस्य यौवराज्याभिषेक चिकीर्षः प्रतीहारानपकरणसंभारसंग्रहार्थमादिदेश । समुपस्थितयौवराज्याभिषेक च तं कदाचिद्दर्शनार्थमागतमारूढविनयमपि विनीततरमिच्छशुकनासः सविस्तरमुवाच'तात चन्द्रापीड, विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एवाभानुभेद्यमरत्नालोकोच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम् । अपरिणामोपशमो दारुणो - *********** चिरकालमालोक्य निरीक्ष्य चन्द्रापीडो यथाज्ञापयत्यादेशं दत्तेऽम्बा मातैवमुक्त्वा कञ्चुकिनं प्रेषयामास विसर्जितवान् । तु पुनरर्थे । पत्रलेखा ततःप्रभृति तद्दिनादारभ्य दर्शनेनैव तदवलोकनेनैव समुपजातः समुत्पन्नः सेवायां रसो यस्याः सा । न दिवेति । न दिवा दिवसे, न रात्रौ त्रियामायाम्, न सुप्तस्य शयनं कृतवतः, नासीनस्योपविष्टस्य, नोत्थितस्योत्थानं कृतवतः, न भ्रमत इतस्ततो गच्छतः, न राजकुलगतस्य छायेव स्वप्रतिबिम्बमिव राजसूनोश्चन्द्रापीडस्य पार्श्व मुमोचेत्यस्य सर्वत्र नकारेणान्चयः । चन्द्रापीडस्यापि तस्यां पत्रलेखाया दर्शनादारभ्यावलोकनात्प्रभृति प्रतिक्षणं क्षणं क्षणं प्रत्युपचीयमाना वृद्धिं प्राप्यमाणा महती प्रीतिर्महान्स्नेह आसीदभूत् । अस्य प्रतिदिन प्रत्यहमभ्यधिकमधिकाधिक प्रसादं सद्वस्तुप्रत्यर्पणरूपमकरोत् । सर्वविश्रम्भेषु समग्रविश्वासस्थलेष्येनां पत्रलेखामात्महृदयादव्यतिरिक्तामिव स्वस्वान्तादभिन्नामिवामन्यत ज्ञातवान् । एवं पूर्वोक्तप्रकारेण समतिक्रामत्सु गत्छत्सु दिवसेषु राजा तारापीडश्चन्द्रापीडस्य यौवराज्ये योऽभिषेकस्तं चिकीर्षुः कर्तुमिच्छुः प्रतीहारान्द्वारपालानुपकरणस्य स्नानयोग्यसामग्र्याः संभारः समूहस्तस्य संग्रहार्थमानयनार्थमादिदेश आज्ञां दत्तवान् । समिति । समुपस्थितः संजातो यौवराज्याभिषेको यस्य स तम् । कदाचित्कस्मिंश्चित्समये दर्शनार्थमवलोकनार्थमागतं प्राप्तमारूढविनयमपि संप्राप्तविनयमपि । किंचिनिगूढाभिप्रायः । विनीततरं विनम्रतरमिच्छन्वाञ्छशुकनासः सविस्तरं सव्यासमुवाचाब्रवीत् । तदेवाह-तातेति संबोधनम् । हे पुत्र चन्द्रापीड, ते तवाल्पमपि स्तोकमप्युपदेष्टव्यं वक्तव्यं नास्ति । तत्र हेतुमाह - अधीतेति । अधीतानि पठितानि सर्वशास्त्राणि येन स तथा तस्य । सर्वपदेन नीतिशास्त्रस्यापि परिग्रहः । अधीतशास्त्रत्वेऽपि तत्त्ववित्त्वाभावादुपदेष्टव्यमस्तीत्यत आह - विदितेति । विदितं ज्ञातं वेदितव्य शास्त्राभिप्रायो येन तस्य । आशयमुद्घाटयति - केवलं चेति । परं निसर्गत एव स्वभावत एवाभानुभेद्यमसूर्योच्छेद्यम् । अरत्नेति । न रत्नाना मणीनामालोकेनोच्छेद्य दूरीकर्तुं योग्यम् । अप्रदीति । न प्रदीपप्रभया गृहमणिकान्त्यापनेयं दूरीकरणीयम् । अतीति । अतिशयेन निरवधिकतया गहनमलब्धमध्यं यौवनं तारुण्यं ततः प्रभव उत्पत्तिर्यस्यैवंविधं तमोऽज्ञानम् । द्वितीयो लक्ष्मीमदो द्रव्यमदः । अपरीति । न विद्यते परिणामेनोपशमो यस्य सः । अयं भावः-परिणामेनोपशम ओषध्यादिषु प्रसिद्धः । विपरीतमत्र वयःपरिणामेऽपि - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 (अस्याः) इति पाठः प्रचलितः । 2 यौवनजनितं तमः अतिदुर्दमनीयमित्यर्थः ।। - - - - - - - - - - - - - - - पाटा० - १ लोचनः, २ इत्येवम्. ३ प्रतिदिवसमस्याः . ४ केषुचिद्दिवसेषु. ५ उपसभार. ६ कर्तुम्. ७ वेयस्य. ८ तु. (शुकनासोपदेशः पूर्वभागः । 221 Page #235 -------------------------------------------------------------------------- ________________ लक्ष्मीमदः । कष्टमनञ्जनवर्तिसाध्यमपरमैश्चर्यतिमिरान्धत्वम् । अशिशिरोपचारहार्योऽतितीव्रो दर्पदाहज्वरोष्मा । सततममूलमन्त्रगम्यो विषमो विषयविषास्वादमोहः । नित्यमस्नानशौचवथ्यो रागमलावलेपः । अजस्त्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसंनिपातनिद्रा भवतीति विस्तरेणाभिधीयसे । गर्भेवरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्व चेति महतीयं खल्वनर्थपरंपरा सर्वा । अविनयानामेकैकमप्येषामायतनम्, किमुत समवायः । यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः । अनुज्झितधवलतापि सरागैव भवति यूनां दृष्टिः । अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजोभ्रान्तिर - *********** नोपशमः । दारुणो भयावहः । कष्टं दुःखरूपमपरं तृतीयमैश्चर्यमेव तिमिरमन्धकारं तेनान्धत्वं गताक्षत्वम् । अनञ्जनेति । अञ्जनवर्तिर्विडालादिवसाञ्जनवर्तिस्तया तिमिरान्धत्वं विनश्यति । तदुक्तम् - 'अन्धकारे महाघोरे रात्रौ पठति पुस्तकम्' इति । पदं वाञ्जनवर्तेरपि न साध्यम् । न निवर्तयितुं शक्यमिति भावः । अशिशिरेति । न शिशिरैः शीतलैरुपचारैश्चन्दनादिभिर्हार्यः परिहर्तुं योग्यः । अत्यन्तमतिशयेन तीव्रः कठिनो दर्पोऽभिमानः स एव दाहज्वरस्तीव्रतापस्तस्योष्मा धर्मः । सततेति । सततं निरन्तरं मूलमन्त्रैरगम्यो निवर्तयितुमशक्यः । मूलमन्त्रेत्युपलक्षणम् । तेन मणिमधुकरादिविषोत्तारणहेतूनां सर्वेषामपि संग्रहः । विषमः कठिनो विषयाः स्त्रक्चन्दनादयस्त एव विषं गरलं तस्यास्वादो भक्षणं तस्माद्यो मोहो मूर्छा । नित्यमिति । नित्यं सर्वदा स्नानमाप्लवः, शौचं शुचिक्रिया, ताभ्यां न वध्यो न विनाश्य एवंविधो रागो विषयाभिलाषः स एव मलः पङ्कस्तस्यावलेपः संपर्कः । अजस्त्रमिति । अजस्त्रं निरन्तरं न विद्यते क्षपावसाने राज्यन्ते प्रबोधो विनिद्रत्वं यस्यामेतादृशी घोरा च राज्यस्याधिपत्यस्य यत्सुखं सातं तस्य संनिपातः संघातः स एव निद्रा प्रमीला भवतीति हेतोर्विस्तरेण वारंवारमभिधीयसे । वक्तव्योऽसीत्यर्थः । अपरामप्यनर्थपरंपरां प्रदर्शयन्नाह - गर्भेश्वरेति । गर्भेश्वरत्वं बाल्यावधिकमीश्वरत्वम्, अभिनवयौवनत्वं सर्वाधिक तारुण्यम्, अप्रतिम प्रतिनिधिशून्यं रूपं सौन्दर्यम्, अमानुषशक्तित्वं न विद्यते मानुषेषु मनुष्येषु यैवंविधा शक्तिः सामर्थ्यं यस्मिंस्तस्य भावस्तत्त्वम् । चकारः समुच्चयार्थ । इति समाप्तौ । खलु निश्चये । इयं महती. गरीयसी सर्वा समग्रानर्थपरंपरा कष्टपरंपरा । एषां पूर्वोक्तानामेकैकमप्यविनयानां दुर्बुद्धीनामायतनमास्थानम्, किमुत समवायः । एतेषां समुदायस्य दुर्बुद्धिजनकत्वे किं पुनर्भण्यते । तदुक्तम् - 'यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमनवस्थानं किं पुनस्तच्चतुष्टयम् । अथ यौवनस्यापि दर्बद्धिजनकत्वं प्रदर्शयन्नाह - यौवनेति । यौवनारम्भे तारुण्यप्रारम्भे प्रायो बाहल्येन शास्त्रमेव जलं पानीयं तेन प्रक्षालन तेन निर्मला निर्गतो मलोऽबोधो यस्या एवंभूतापि बुद्धिः कालुष्यं बुद्धिवैपरीत्यमुपयाति प्राप्नोति । अन्चिति । अनुज्झिताऽपरित्यक्ता धवलता चेतता ययैवंविधापि यूनां तरुणानां दृष्टिः । सरागैवेति । सह रागेण वर्तमानैव भवति । आत्मेति । आत्मेच्छया स्वेच्छया यौवनसमये तारुण्यक्षणे प्रकृतिः पुरुषं दूरमपहरति । दूरं परिनयतीत्यर्थः । अस्मिन्नर्थ उपमानमाह - शुष्कमिति । वातानां समूहो वात्या वातकलिकोच्यते । शुष्कपत्रं यथापहरति । उभयोः साम्यमाह - समुद्भूतति । समुद्भूता - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अपरम्, प्रसिद्धात् अन्धत्वाद्भिनमित्यर्थो वन्तव्यः । 2 'नियतमस्नानशौचबाध्यः' इत्यपि केषाञ्चनाऽभिप्रेतः पाठः । स्नानजनितशौचेन (शुद्ध्या) न बाध्यः (अपनेयः) इति तदर्थः । 3 अभिनवतया दुर्दमनीयवेग तारुण्यमित्यर्थे वक्तव्यः । 4 अनुज्झितधवलताऽपि सरागा (रक्तिम्ना सह वर्तमाना) इति विरोधः, तत्परिहारस्तुरागेण रमण्यादिषु प्रेम्णा सहवर्तमानेति कर्तव्यः । पाठा० - १ अपटलम्. २ अत्यन्ततीव्रः. ३ मूल. ४ शम्याः. ५ वध्यो बलवान्; बाध्यो बलवान्. ६ इत्यतः. ७ अभिधीयते. ८ महती. ९ धवलापि. १० सरागेव. ११ अदूरम्; A (222 A W कादम्बरी । myyyyyyyy कथायाम Page #236 -------------------------------------------------------------------------- ________________ तिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः । इन्द्रियहरिणहारिणी च संततदुरन्तेयमुपभोगमृगतृष्णिका । नवयौवनकषायितात्मनश्च सलिलानीव तान्येव विषयरूपाण्यास्वाद्यमानानि मधुरतराण्यापतन्ति मनसः । नाशयति च दिङ्मोह इवोन्मार्गप्रवर्तकः पृषमत्यासङ्गो विषयेषु । भवादृशा एव भवन्ति भाजनान्युपदेशानाम् । अपगतमले हि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखेनोपदेशगुणाः । गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य तु करिण इव शखाभरणमाननशोभासमुदयमधिकतरमुपजनयति । ह॑रत्यतिमलिनमन्धकारमिव दोषजातं प्रदोषसमयनिशाकर इव । गुरूपदेशः प्रशमहेतुर्वयः परिणाम इव पलितरूपेण शिरसिजजालममलीकुर्वन्गुणरूपेण तदेव परिणमयति । अयमेव चानास्वादितविषयरसस्य ते काल उपदेशस्य । कुसुमशरशर *********** रजोगुणेन भ्रान्तिर्भ्रमो यस्याम् । पक्षे रजसां रेणूनां भ्रमो यस्याम् । इन्द्रियेति । इन्द्रियाण्येव करणान्येव हरिणाः कुरङ्गास्तेषां हारिणी हरणशीलैतादृश्युपभोगोऽङ्गनादिकः स एव मृगतृष्णिका मरुमरीचिकेयं सततं निरन्तरम् । सुखाभिमानोत्पादनाद् दुरन्ता दुःखावसाना । नवेति । नवयौवनेन प्रत्यग्रतारुण्येन कषायितं विपरिवर्तितमात्मान्तःकरणं यस्यैवंभूतस्य पुरुषस्यास्वाद्य मानानि तान्येव विषयस्वरूपाणि मनसश्चेतसो मधुरतराण्यापतन्ति । मधुराण्येव भवन्तीत्यर्थः । अत्रैव दृष्टान्तमाह- सलिलेति । यथा कषायद्रव्येण हरीतक्यादिना मधुराण्यपि जलानिमधु ( रत) राणि स्युः । 'आत्मानः' इति प्रामादिकः पाठः । विषयेषु स्त्रक्चन्दनवनितादिष्वत्यासङ्गोऽत्यासक्तिः पुरुषमात्मानं नाशयति । क इव । दिङ्मोहो दिग्भ्रान्तिरिव । उभयोः सादृश्यमाह उन्मार्ग इति । उन्मार्गोऽपथो विरुद्धाचारश्च तत्र प्रवर्तकः प्रेरकः । ततः किमित्यत आह - भवादृशा इति । उपदेशानां शिक्षाणां भाजनानि पात्राणि भवादृशा भवत्सदृशा एव भवन्ति नान्य इति भावः । उपदेशफलमाह - अपगतेति । अपगतो दूरीभूतः कालुष्यलक्षणो मलो यस्मादेवंभूते मनसि चित्त उपदेशगुणाः शिक्षागुणाः सुखेनानायासेन विशन्ति प्रवेशं कुर्वन्ति । कस्मिन्क इव । स्फटीति । स्फटिकमणौ रजनिकरश्चन्द्रस्तस्य गभस्तयः किरणास्तद्वदिव । दोषे सति किं स्यादित्याह - गुरुवचनमिति । गुरुवचनं हिताहितप्राप्तिपरिहारोपदेष्टा गुरुस्तस्य वचनं वाक्यममलमपि निर्मलमप्यभव्यस्यासाधोः श्रवणस्थितं कर्णकोटरगतं सन्महच्छूलमुपजनयत्युत्पादयतीत्यर्थः । अत्रार्थेऽनुभवसिद्धं दृष्टान्तमाह- सलिलेति । यथा सलिलं पानीयमतिस्वच्छमपि कर्णगतं महाव्यथाजनकं स्यात् । दोषाभावे त्वाहइतरस्य त्वधिकतरमाननशोभास ु दयमुपजनयति विदधाति । क इव । शङ्खो जलजस्तस्याभरणं भूषणं करिण इव हस्तिन इव । हस्तिनां दृष्टिदोषबाधनार्थं शङ्खाभरणं कर्णे बध्यत इति लोकरीतिः । अतिमलिनमतिश्यामं दोषजातं दूषणसमूहमन्धकारमिव तिमिरमिव हरति दूरीकरोति । क इव, प्रदोषसमयनिशाकर इव यामिनीमुखचन्द्रोदय इव । प्रकारान्तरेणाह - प्रशम इति । प्रशमोऽन्तरिन्द्रियनिग्रस्तद्धेतुर्गुरूपदेशः शिरसिजजालं शिरोरुहभारममलीकुर्वन्गुणरूपेण तदेव परिणमयति परिपाकं नयति । क इव । वयःपरिणाम इवावस्थापरिणतिरिव । यथा सोऽपि शिरसिजजालं केशसमूह पलितरूपेणामलीकुर्वंस्तदेव शिरसिजजालं गुणरूपेण परिणमयति । तन्निदानमेव प्रथमे वयसि किमुपदेशेनेत्यत आह- अयमिति । अयमेव नापरस्ते तवोपदेशस्य कालः शिक्षाप्रदानसमयः । अत्रार्थे हेतुं प्रदर्शयन्नाह - अनास्वादीति । न विद्यत आस्वादोऽनुभवो यस्यैवंविधो विषयरसो यस्य तथा तस्य । आस्वादितविषयस्य तूपदेशो निरर्थकः स्यादित्याह - कुसुमेति । टिप्प० - 1 कर्णगतशङ्खाभरणेन यथा हस्तिनो मुखशोभा, तथा गुरुवचनेन साधोर्मुखशोभा, रुचिपूर्वकं श्रवणेन आनने उल्लासोदयात् । पाठा० - १ इन्द्रियहरिणहरती च २ सततमतिदुरन्तेयमुपभोग; सततमतिदुरन्ते इयं दूरं नयत्युपभोग. ३ भाजनम् ४ सुखम् ५ च ६ अपहरति; अपहरति सकलम्; हरति च सकलम्; हरति सकलम् ७ अतिमलिनमपि ८ परिणामः ९ कुसुमशरप्रहार. शुकनासोपदेशः पूर्वभागः । 223 Page #237 -------------------------------------------------------------------------- ________________ प्रहारजर्जरिते हिं हृदि जलमिव गलत्युपदिष्टम् । अकारणं च भवति दुष्प्रकृतेरन्वयः श्रुतं चौविनयस्य । चन्दनप्रभवो न दहति किमनलः ? किं वा प्रशमहेतुनापि न प्रचण्डतरीभवति वडवानलो वारिणा ? गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नानम्, अनुपजातपलितादिवैरूप्यमजरं वृद्धत्वम्, अनारोपितमेदोदोषं गुरूकरणम्, असुवर्णविरचनमग्राम्यं कर्णाभरणम्, अतीतज्योतिरालोकः, नोबेगकरः प्रजागरः । विशेषेण राज्ञाम् । विरला हि तेषामुपदेष्टारः । प्रतिशब्दक इव राजवचनमनुगच्छति जनो भयात् । उद्दाम - *********** हि निश्चितम् । कुसुमशरः कंदर्पस्तस्य शरा बाणास्तेषां प्रहारा अभिघातास्तैर्जर्जरिते शिथिलीभूते हृद्युपदिष्टमुपदेशविषयीकृत जलमिव गलति क्षरति विनश्यति । निरर्थक भवतीत्यर्थः । दोषान्तरमाह - अकारणं चेति । उपशमादिकार्यजनक न भवतीत्यर्थः । ननु मदनशरप्रहारजर्जरितहृदयस्योपदेशाभावेऽप्युपदेशकार्य प्रशमादिकं सर्वमन्वयो वंशः, श्रुतं च शास्त्रम्, ताभ्यामेव भविष्यतीत्याशयेनाह - दुष्प्रकृतेरिति । दुष्प्रकृतेर्दुरात्मनस्तादृशहृदयस्यान्वयः श्रुतं चाविनयस्य हेतोर्भवति । न तु विनयायेत्यर्थः । ननु सुवंशजस्य कशमविनये प्रवृत्तिरित्यत आह - चन्दनेति । चन्दनं मलयज तस्मात्प्रभवो यस्यैवंभूतोऽनलो वह्निः किं न दहति न भस्मीकरोति । परस्परसंघर्षदोषे सति चन्दनात्समुत्थितोऽग्निर्दहत्येवेति । ननु प्रशमहेतुभूताच्छ्रुतात्कथमविनयोत्पत्तिरित्यत आह - किं वेति । प्रशमहेतुनापि वारिणा किं वडवानलो वाडवाग्निस्तोयधेः प्रादुर्भवति, सर्वलोकविनाशाय सर्वदा महासमुद्रे तिष्ठति; यस्य वाडवामुख इति प्रसिद्धिः । न प्रचण्डतरीभवति प्रबलतरो न स्यात् । अथ प्रकारान्तरेण गुरुवचनमाहात्म्यं वर्णयन्नाह - गुर्विति । नामेति कोमलामन्त्रणे । गुरूणां हिताहितप्राप्तिपरिहारोपदेष्ट्रणामुपदेशः शिक्षा । पुरुषाणाम् अजलं जलव्यतिरेकेणापि स्नानमाप्लवः । कीदृशम् । अखिलः समग्रो यो मलः कालुष्य तस्य प्रक्षालनं शुचीकरणं तत्र क्षमं समर्थम् । अन्विति । अनुपजातमनुत्पन्न पलितं पाण्डुरः कचस्तदादिवरूप्यं यस्मिनेतादृशम् ।. अजरमिति । जराव्यतिरेकेण वृद्धत्वं स्थविरत्वम् । अनेति । नारोपितः स्वीकृतो मेदोदोषो येनैवंभूतं गुरूकरणं स्थूलीभवनम् । मेदोदोषेण स्थूलता भवतीति सर्वत्र प्रसिद्धम् । तथायं न भवतीत्यर्थः । असुवेति । न विद्यते सुवर्णस्य कनकस्य विरचनं यस्मिन्नेवभूतमग्राम्य प्रशंसनीयं कर्णाभरणं श्रवणविभूषणम् । अतीतेति । अतीतो गतो ज्योतिः प्रकाशो यस्मादेवंभूत आलोक उद्योतः । न उद्धेगकरो न संतापजनकः प्रजागरो जागरणम् । केवलं तवैव नायमुपदेश इत्यत आह - विशेषेणेति । राज्ञां भूभुजामयमुपदेशो विशेषेणाधिक्येन प्रदातव्य इति भावः । राज्ञामनेक उपदेष्टारः किं तवोपदेशेनेत्यत आह - विरलेति । हि निश्चितम् । तेषां राज्ञामुपदेष्टार उपदेशदातारो विरलाः स्तोकाः । यतो राज्ञामुपदेशसमर्थोऽत्युत्कृष्टो विवक्षितोऽस्मदादिः, न त्वन्यो जनः । तदेव प्रदर्शयन्नाह - प्रतिशब्दक इवेति । जनो लोको भयादीते राजवचनं नृपवचोऽनुगच्छति नृपवचनानुगो भवति । न तु प्रत्युत्तरं दातुं समर्थ इति भावः । क इव प्रतिशब्दक इव प्रतिध्वनिरिव । यथा सोऽपि मूलशब्दसाम्येनानुगच्छति । केषांचिदुपदेशश्रवणमेव नास्तीत्यत आह - उद्दामेति । उद्दाम उत्कटो दर्पोऽहंकारो येषा ते च । पृथु यथा स्यात्तथा स्थगितान्या - टिप्प० - 1 दुष्प्रकृतेरन्वयः श्रुतं वा विनयस्य अकारण (कारण न) भवतीत्यपि पाठः, तदर्थश्च । अविनयस्येति पाठे तु अकारणमित्यनेन सह कथं योगः ? 2 प्रशमहेतुना वारिणा वाडवाग्निः किं न चण्डतरो भवति ? अपि तु भवत्येवेति स्पष्टोऽर्थः । 3 'उद्दामदर्पश्चयथुस्थगितश्रवणविवराश्च' इत्यपि केषाञ्चनाभिप्रेतः पाठः । तदर्थश्चैवम्- उद्दामदर्प एव श्वयथुः (शोथः) तेन रुद्धं श्रवणविवर येषाम् । शोथेन कर्णविवररोधे श्रवणाभावो यथा भवति तथा गर्वेण तेषामुपदेशगिरः श्रवणे न गच्छन्तीत्याशयः । पृथुस्थगितेत्यत्र पृथुपदेन कोऽर्थपरिपोष इति सहृदयाः प्रमाणम् । पाठा० - १ संप्रहार. २ हि हृदये; हृदये. ३ वा विनयस्य. ४ प्रभवोऽपि. ५ क्षमजलम्. ६ मददोषम्. ७ विरचनाग्राह्यम्. ८ अपनीत. ९ तु राज्ञाम्. १० एव. (224 कादम्बरी। कथायाम Page #238 -------------------------------------------------------------------------- ________________ १० दाश्च पृथुस्थगितश्रवणविवराश्चोपदिश्यमानमपि ते न श्रृण्वन्ति । श्रृण्वन्तोऽपि च गजनिमीलितेनावधीरयन्तः खेदयन्ति हितोपदेशदायिनो गुरून् । अहंकारदाहचरमूर्छान्धकारिता विह्वला हि राजप्रकृतिः, अलीकाभिमानोन्मादकारीणि धनानि, राज्यविषविकारतन्द्राप्रदा रोजलक्ष्मीः । आलोकयतु तावत्कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम् । इयं हि खंगमण्डलोत्पलवनविश्रमभ्रमरी लक्ष्मीः क्षीरसागरात्पारिजातपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैःश्रवसश्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौस्तुभमणेर्नेष्टुर्यम्, इत्येतानि सहवासपरिचयवशाद्विरहविनोदचिह्नानि गृहीत्वैवोद्गता । न ह्येवंविधमपरिचितमिह जगति किंचिदस्ति यथेयेमनार्या । लब्धापि खलु दुःखेन परिपाल्यते । दृढगुणसंदाननिस्प - *********** च्छादितानि श्रवणविवराणि कर्णच्छिद्राणि येषां ते च । द्वौ चकारावेककालं सूचयतः । एवंविधा राजान उपदिश्यमानमपि कथ्यमानमपि हितोपदेशमपि न श्रृण्वन्ति नाकर्णयन्ति । कदाचिच्छृण्वन्तोऽप्याकर्णयन्तोऽपि गजो हस्ती तस्य यनिमीलित नेत्रसंकोचस्तद्वनिमीलितेनावधीरयन्तोऽनादरं कुर्वन्तः । हितोपदेशदायिनः शिक्षाकथकान्गुरुन्खेदयन्ति । दुःखं प्रापयन्तीत्यर्थः । अथ नृपस्वभावं प्रदर्शयन्नाह - राजेति । हि निश्चितम् । एतादृशी राजप्रकृती राज्ञा स्वभावो विह्वला व्याकुला । अहमिति । अहंकार एव दाहज्चरस्तीव्रतापस्तद्धेतुका या मूर्छा मोहस्तयान्धकारितान्धकार इवाचरिता । धनराज्यलक्ष्म्याः स्वरूपं प्रदर्शयन्नाह - अलीकेति । अलीकोऽवास्तवो योऽभिमानोऽहंकार उन्मादश्च तावुभौ कुर्वन्तीति तान्येवंविधानि धनानि द्रव्याणि । राज्यमिति । राज्यमेव विषं गरलं तस्माद्यो विकारो विकृतिस्तेन कृत्वा तन्द्रालस्यं तत्प्रदा राजलक्ष्मी राजश्रीः । नेदं पूर्वोक्तमतथ्यं किंतु सत्यमेवेत्याह - आलोकयत्विति । कल्याणे मङ्गलेऽभिनिवेश आग्रहो यस्यैवंभूतस्त्वं तावदादौ लक्ष्मीमेव प्रथममालोकयतु विचारयतु । लक्ष्मीदोषानाह - इयमिति । हि निश्चितम् । इयं प्रत्यक्षोपलभ्यमाना खङ्गानां कौक्षेयकाणां यन्मण्डल संघातस्तदेव कृष्णत्वसाम्यादुत्पलवनं तत्र विश्रमोऽवस्थितिस्तस्मिंश्चञ्चलत्वसाम्याद्रमरी मधुकरी लक्ष्मीः । पुनर्दोषान्तरं प्रदर्शयन्नाह - क्षीरेति । यदा कश्चिद्दूरदेशान्तरं गन्तुमीहते तदासौ च सहवासिस्मृतिहेतोस्तदीयं किंचिद्वस्त्वादायैव गच्छति, तथेयमपि सहवासजनितो यः परिचयः संबन्धविशेषस्तद्वशात्सहवासिपारिजातादीनामित्येतानि वस्तूनि गृहीत्वैवादायैव क्षीरसागराढुग्धाम्बुधेरुद्गता प्रादुर्भूता । कीदृशानि । विरहः सहवासिभिरसंबन्धस्तस्मिन्विनोदचिह्नानि चित्तालम्बनलक्षणानि । एतानि कानीत्यपेक्षायामाह - पारीति । पारिजातपल्लवेभ्यो मन्दारकिसलयेभ्यो राग विषयलिप्सामारुण्यं च । इन्दुशकलाच्चन्द्रलेखा(याः)देकान्तवक्रता कुटिलता प्रातिकूल्यं च । उच्चैःश्रवस इन्द्राश्वाच्चञ्चलता चित्तास्थैर्यं चाञ्चल्यं च । कालकूटात्कालकूटनाम्नो विषान्मोहनशक्ति मूर्योत्पादकशक्तिमन्यवशीकरणशक्ति च । मदिरायाः कादम्बर्या मदमुन्मादकत्वमुन्मोहसंभेदलक्षणं च । कौस्तुभमणेर्नेष्ठुर्यं काठिन्यं निर्दयत्वं चेति । अथ लक्ष्म्यास्तत्सहितस्यापि राज्ञो निन्दा कुर्वन्नाह - नहीति । इह जगत्येवंविधमेतादृशमपरिचितं निर्दाक्षिण्यं किंचिन्नास्ति यथेयमनार्याऽश्रेष्ठा वर्तते । एतदेव प्रपञ्चयन्नाह - लब्धेति । लब्धापि महता कष्टेन प्राप्तापि दुःखेन खलु परिपाल्यते परिपालनविषयीक्रियते । दृढं गाढं गुणाः शौर्यादयस्तल्लक्षणं यत्संदानं बन्धनं तेन निस्पन्दीकृतापि निश्च - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 विभ्रमभ्रमरीत्येव ग्रन्थानुकूलः पाठः इत्यभिप्रयन्ति केचित् । भ्रमणमेव भ्रमरस्वभावो, विश्रमस्तु सर्वेषामेव । - - - - - - - - - - - पाटा० - १ दर्पश्वयथुस्थगित; दोश्चर्यसंस्थगित. २ उपदिश्यम्. ३ अवधारयन्तः. ४ विषविकारतन्द्री; विषतन्द्री; विषयविकारतन्द्रा. ५ राज्यलक्ष्मीः. ६ सुभटखग. ७ विभ्रम. ८ अतिनैष्ठुर्यम्. ९ इव. १० अपरमपरिचितम्. ११ किंचित्रास्ति. १२ अनार्या दुःखेन लभ्यते लब्धापि. १३ गुणपाश. शुकनासोपदेशः पूर्वभागः । 225 Page #239 -------------------------------------------------------------------------- ________________ न्दीकृतापि नश्यति । उद्दामदर्पभटसहस्त्रोल्लासितासिलतापञ्जरविधृताप्यपक्रामति । मदजलदुर्दिनान्धकारगजर्घटितघनघटौपरिपालितापि प्रपलायते । न परिचयं रक्षति । नाभिजनमीक्षते । न रूपमालोकयते । न कुलक्रममनुवर्तते । न शीलं पश्यति । न वैदग्ध्यं गणयति । न श्रुतमाकर्णयति । न धर्ममनुरुध्यते । न त्यागमाद्रियते । न विशेषज्ञतां विचारयति । नाचारं पालयति । न सत्यमनुबुध्यते । न लक्षणं प्रमाणीकरोति । गन्धर्वनगरलेखेव पश्यत एव नश्यति । अद्याप्यारूढमन्दरपरिवर्तावर्तभ्रान्तिजनितसंस्कारेव परिभ्रमति । कमलिनीसंचरणव्यतिकरलग्ननलिननालकण्टकेव न क्वचिदपि निर्भरमाबध्नाति पदम् । अति - 1 ****** 1 लीकृतापि नश्यति प्रपलायते । उद्दामेति । उद्दाम उत्कटो दर्पोऽहंकारो येषामेवंभूता ये भटा योद्धारस्तेषां सहस्त्रं तेन उल्लासिता ऊर्ध्वकृता या असिलतास्ता एव पञ्जरं तत्र विधृतापि स्थापिताप्यपक्रामत्यपसरति । मदेति । मदजलं दानवारि तदेव श्यामत्वसाधर्म्याटुर्दिनान्धकारस्तद्युक्ता ये गजा हस्तिनस्तैर्घटिता निष्पादिता या घेना निबिडा घटा समूहस्तया परिपालितापि रक्षितापि प्रपलायते पलायन करोति । नेति । परिचयं संस्तवं न रक्षति न पालयति । नेति । अभिजनं कुलं नेक्षते नावलोकयति । नेति । रूपं सौन्दर्यं न आलो - कयतेऽवलोकयति । नेति । कुलक्रमं कुलपरिपाटीं नानुवर्तते नानुगच्छति । नेति । शीलमाचारं न पश्यति नावलोकयति । नेति । वैदग्ध्यं पाण्डित्यं न गणयति न विचारयति । नेति । श्रुतं शास्त्रं नाकर्णयति न शृणोति । नेति । धर्मं वृषं नानुरुध्यते धर्मानुरोधेनैव न प्रवर्तते । अधर्मवतामपि गृहे तद्दर्शनात् । नेति । त्यागं दानं प्रति नाद्रियते नादरं करोति । कृपणसद्मन्यपि दर्शनात् । नेति । विशेषज्ञतां विशेषेण सर्वार्थवेदितां न विचारयति न विचारणां करोति । यत एव विद्वांसो दरिद्रोपद्रुताः स्युरिति प्रसिद्धिः । नेति । आचार शिष्टानुचरितं मार्गं न पालयति न रक्षति । लक्ष्मीवतोऽपि प्रायः ( अ ) शिष्टाचरणदर्शनात् नेति । सत्यमवितथं नानुबुध्यते न जानाति । असत्यवतोऽपि गृहे बाहुल्येन दर्शनात् । नेति । लक्षणं मषीतिलकादि सामुद्रिकशास्त्रप्रतिपादितं न प्रमाणीकरोति । लक्षणसत्त्वेऽपि तस्या अभावदर्शनात् । गन्धर्वेति । गन्धर्वनगरलेखा हरिश्चन्द्रपुरीति यस्याः प्रसिद्धिः । असद्वस्तुभ्रमो वा । तद्वदेव पश्यत एवावलोक एव पुरुषस्य नश्यति विनश्यति । अद्यापीति । अद्यापि इदानीमप्यारूढः प्राप्तो यो मन्दरेण मेरुणा परिवर्तः परिभ्रमस्तज्जनितो य आवर्तः पयसां भ्रमस्तस्माद्या भ्रान्तिर्भूमिस्तज्जनितः संस्कारो वेगाख्यो यस्या एवंविधेव परिभ्रमति परिभ्रमणं करोति । क्वचिदपीति । क्वापि स्थले निर्भरं निश्चलं पदं नावबध्नाति न निदधाति । अत एवोत्प्रेक्षतेलक्ष्म्याः कमलवासस्य प्रसिद्धत्वात्कमलिनीषु संचरणव्यतिकरः संबन्धस्तेन लग्ना नलिननालकण्टका यस्याः सैवंविधेव । यथा भग्नकण्टका भूमौ निश्चलपदं न दत्ते तथेयमपीत्यर्थः । अतिप्रयत्नेनातिप्रयासेन विधृतापि स्थिरीकृतापि परमेश्वरगृहेषूत्कृष्टेभ्यसद्मसु परिस्खलति स्खलनां प्राप्नोति । विविधा ये गन्धगजा गन्धेभास्तेषां गण्डाः कटास्तेषां मधु मदस्तस्य पानमास्वादस्तेन मत्तेव क्षीबेव । ननु परमेश्वरगृहे गजास्तिष्ठ - टिप्प० - 1 मदजलरूपैर्दुर्दिनैः (वृष्टिभिः) अन्धकारिणो ये गजास्त एव घनघटा मेघसमूहास्तैः परिपालितेत्यर्थ उचितः । दुर्दिनत्वारोपो गजेषु मेघत्वारोपे कारणमिति परम्परितरूपकम् । परिपालितापि पलायते इति विभावना - विशेषोक्तयोः सदेहसंकरश्चेति द्वयोरङ्गाङ्गिभावसंकरः । 2 भूतयोनिविशेषाणां रात्रावेव दृश्यमानं यद् नगरं तत्पङ्क्तिः । दृष्टिभ्रमाद् गगने दृश्यमाना नगराकारा रेखा वा । यथा बृहत्संहिता - 'गन्धर्वनगरमुत्थितमापाण्डुरमशनिपातवातकरम्' इति । 3 अतिधनिकगृहेषु । 'इभ्य आढ्यो धनी स्वामी' । पाठा - १ उल्लसित. २ गन्धगज. ३ घटाटोप. ४ आलोकयति. ५ अवबुध्यते ६ गन्धर्वलेखेव ७ भ्रमति. ८ संचार. ९ कण्टकक्षतेव; कण्टकेत्येव. १० क्वचिन्निर्भरम्. 226 कादम्बरी । कथायाम् Page #240 -------------------------------------------------------------------------- ________________ प्रयत्नविधृतापि परमेश्वरगृहेषु विविधगन्धगजगण्डमधुपानमत्तेव परिस्खलति । पारुष्यमिवोपशिक्षितुमसिधारासु निवसति । विश्वरूपत्वमिव ग्रहीतुमाश्रिता नारायणमूर्तिम् । अप्रत्ययबहुला च दिवसान्तकमलमिव समुपचितमूलदण्डकोशमण्डलमपि मुञ्चति भूभुजम् । लतेव विटपकानध्यारोहति । गङ्गेव वसुजनन्यपि तरंगबुद्बुदचञ्चला । दिवसकरगतिरिव प्रकटितविविधसंक्रान्तिः । पातालगुहेव तमोबहुला । हिडम्बेव भीमसाहसैकहार्यहृदया । प्रावृडिवाचिरद्युतिकारिणी । दुष्टपिशाचीव दर्शितानेकपुरुषोच्छ्राया स्वल्पसत्त्वमुन्मत्तीकरोति । सरस्वतीपरिगृहीतमीर्ण्ययेव नालिङ्गति । जन गुणवन्तमपवित्रमिव न स्पृशति । उदारसत्त्वम - *********** न्तीति कृत्वा तन्मधुपानमत्तायाः स्खलनं भवतु परं साधुगृहेष्वपरिस्खलिता कुतो न तिष्ठतीत्यत आह - पारुष्यमिति । पारुष्यं क्रूरत्वमिवोपशिक्षितुमभ्यसितुमसिधारासु खङ्गधारासु निवसति निवासं करोति । ययासिधारासु क्रौर्यशिक्षणं कृतं सा क्रूरा साधुगृहेषु कथं तिष्ठतीति भावः । विश्वं प्रविष्टं यस्मिन्रूपे तत् । अथवा विश्वेन रूप्यते निरूप्यते यद्रूपं तद्विश्वरूपं तस्य भावस्तत्त्वं तदिव ग्रहीतु नारायणमूर्ति जनार्दनशरीरमाश्रिताधिगता । अप्रत्ययेति । अप्रत्ययोऽविश्वासो बहुलो यस्यामेवंभूता सती । दिवसान्ते यथा कमलं स्वाश्रय मुञ्चति तथा स्वाश्रयीभूतं भूभुजमपि । तत्रोभयोः साम्यमाह - समिति । सम्यक्प्रकारेणोपचितानि वृद्धि प्राप्तानि । अथ च समुपचित वर्धमानं मूलं मित्रादिमूलकन्दः, दण्डो नालम्, कोशः कमलाभ्यन्तरम्, मण्डलं पारिमाण्डल्यम्, एतानि यस्येति विग्रहः । दण्डः करः, कोशो भाण्डागारः, मण्डल देशो यस्य । 'मण्डल द्वादशराजकम्' इत्येकस्य । 'विजिगीषुरुदासीनो मध्यमश्चेति राजकम् । गुणानां विषय वृद्धा जगुः प्रकृतिमण्डलम् । पाणिराक्रन्द आसारः, इत्यपि । 'तदेवं शक्रमित्यादिभेदा द्वादश इष्यते । मण्डलं द्वादशराजकम्' इत्यन्ये । लता वल्ली सेव विटा भाण्डादयस्तान्पान्तीति विटपाः । विटपा एव विटपकाः । स्वार्थे कप्रत्ययः । पक्षे विटपा वृक्षाः । विटपानध्यारोहत्याश्रयण करोति । गड तज्जनन्यपि तरंगा भङ्गाः बद्धदः स्थासकस्तद्वच्चञ्चला चपला । पक्षे वसोभीष्मस्य(जननी) तरंगबुद्धदाभ्यां चाञ्चल्यवती च । दिवसकरः सूर्यस्तस्य या गतिर्गमनं सेव प्रकटिताविष्कृता विविधानेकप्रकारा संक्रान्तिर्वस्तुनेच्छासबन्धी यया सा । पक्षे राशिषु सूर्यसंबन्धः । पातालं वडवामुखं तस्य गुहा कन्दरा सेव तमोगुणस्तेन बहुला दृढा । पक्षे तमोऽन्धकारः । हिडम्वेव घटोत्कचप्रसूरिव भीमसाहसेनातिकठिनकर्मणैकमद्वितीयं हार्द (य)हृदयं यस्याः । पक्षे भीमस्य वृकोदरस्य यः साहसगुणः । प्रावृडिति । प्रावृड्वर्षाकालः सेवाचिरा स्वल्पकालीना या द्युतिः प्रकाशस्तत्कारिणी । पक्षेऽचिरद्युतिर्विद्युत् । दुष्टेति । दुष्टा क्रूरा या पिशाची राक्षसी सेव दर्शितः प्रकटीकृतोऽनेकपुरुषाणामुच्छ्रायोऽभ्युनतिर्यया सा । पक्ष ऊर्वीकृतभुजपाणिनरमानं पुरुषः । अनेकपुरुषाणामुच्छ्राय उच्चता । एवंभूता लक्ष्मीः स्वल्पसत्त्वमल्पसाहसं नरमुन्मत्तीकरोत्युन्मत्ततां नयति । सरस्वतीति । सरस्वती भारती तया परिगृहीतं स्वीकृतं नरमीययेव मत्सरेणेव नालिङ्गति नाश्लिष्यति । गुणवन्तं शौर्यादिगुणोपयुक्तं जनं नरमपवित्रमिवापावनमिव न स्पृशति न स्पर्श करोति । उदारेति । उदारं स्फारं सत्त्वं यस्यैवंविधं पुरुषममङ्गलमिव न बहु मन्यते नादरं करोति । सुजनं शुभजनमनिमित्तमिव निष्फलामव न पश्यति नावलोकयति । - - - - - - - - - - - - - - - - - टिप्प० - 1 कदाचिद्व्यापारिणां गृहे वाणिज्यलक्ष्मीरूपेण, कदाचिद्वीराणां राज्ञा राजलक्ष्मीरूपेणेत्यादिनानारूपधारण विश्वरूपधारकस्य विष्णोः सकाशाद गृहीतमित्युत्प्रेक्षा । 2 प्रकटिता विदिधेषु (जनेषु)संक्रान्तिः संचारो यया सेति स्पष्टोर्थोति प्रहेलिकायां परिणमितः । 3 अनेकेषां पुरुषाणामभ्युदया दर्शितः (लक्ष्म्या), अनेकपुरुषपरिमिता उच्चता दर्शिता (पिशाच्या) इति स्फुटोऽर्थः । 4 उल्कापातादि दुर्लक्षणमिवेत्यर्थो वक्तव्यः । - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ दिवसावसानकमलम्. २ हिडिम्बेव. (शुकनासोपदेशः पर्वभागः । 227 Page #241 -------------------------------------------------------------------------- ________________ मङ्गलमिव न बहु मन्यते । सुजनमनिमित्तमिव न पश्यति । अभिजातमहिमिव लङ्घयति । शूरं कण्टकमिव परिहरति । दातारं दुःस्वप्नमिव न स्मरति । विनीतं पातकिनमिव नोपसर्पति । मनस्विनमुन्मत्तमिवोपहसति । परस्परविरुद्धं चेन्द्रजालमिव दर्शयन्ती प्रकटयति जगति निजं चरितम् । तथाहि । संर्ततमूष्माणमुपजनयन्त्यपि जाड्यमुपजनयति । उन्नतिमादधानापि नीचस्वभावतामाविष्करोति । तोयराशिसंभवापि तृष्णां संवर्धयति । ईश्वरतां दधानाप्यशिवप्रकृतित्वमातनोति । बलोपचयमाहरन्त्यपि लघिमानमापादयति । अमृतसहोदरापि कंटुकविपाका । विग्रहवत्यप्यप्रत्यक्षदर्शना । पुरुषोत्तमरतापि खलजनप्रिया । रेणुमयीव स्वच्छमपि कलुषीकरोति । यथा यथा चेयं चपला दीप्यते तथा तथा दीपशिखेव कज्जलमलिनमेव कर्म केवलमुद्धमति । तथाहि । इयं संवर्धनवारिधारा तृष्णाविषवल्लीनाम्, व्याधगीतिरिन्द्रियमृगाणाम्, परामर्शधूमलेखा सच्चरितचित्राणाम्, विभ्रमशय्या मोहदीर्घ - *********** अभिजातं कुलीनमहिमिव सर्पमिव लङ्घयत्युत्क्रामयति । शूरमिति । शूरं शौर्यगुणोपेतं कण्टकमिव परिहरति दूरतस्त्यजति । दातारमिति। दातारं बहुप्रदं दुःस्वप्नमिवाशुभस्वप्नमिव न स्मरति न स्मृतिविषयीकरोति । विनीतमिति । विनीतं विनयगुणोपेतं पातकिनमिव पापकारिणमिव नोपसर्पति न पार्श्वे प्रयाति । मन इति । मनस्विनं पण्डितमुन्मत्तमिव ग्रथिलमिवोपहसत्युपहास्यं करोति । इन्द्रेति । इन्द्रजालमिव कुहकमिव परस्परविरुद्धमन्योन्यासंबद्धं दर्शयन्ती प्रकाशयन्ती निजमात्मीयं चरितं वृत्तं जगति लोके प्रकटयत्याविष्करोति । तदेव दर्शयति - तथाहीति । संततं निरन्तरमूष्माणं तापमुपजनयन्त्यपि कुर्वत्यपि जाड्यं शैत्यमुपजनयतीति विरोधः शाब्दः । तत्परिहारस्तूष्माणं दर्पं शैत्यं जाड्यमित्यर्थात् । उन्नतिमादधानापि धारयन्त्यपि नीचस्वभावतामाविष्करोतीति विरोधः । तत्परिहारस्तूतिमुत्कर्ष नीचस्वभावोऽकर्तव्यं कर्मेत्यर्थात् । तोयराशिः समुद्रस्तस्मात्संभवापि समुत्पन्नापि तृष्णां संवर्धयतीति विरोधः । तत्परिहारस्तु तृष्णां गार्ध्यमत्यर्थात् । ईश्वरतां दधानाप्यशिवप्रकृतित्वमनीश्वरप्रकृतित्वमातनोतीति विरोधः । तत्परिहारस्त्वीश्वरतां प्रभुतामशिवमशुभमित्यर्थात् । बलोपचयमाहरन्त्यप्यानयन्त्यपि लघिमानमापादयतीति विरोधः । तत्परिहारस्तु बलोपचयं सैन्यसमूहं लघिमानं कार्पण्यमित्यर्थात् । अमृतसहोदरा मृतेन सहोत्पन्नापि कटुकरसोपेतो विपाको यस्या इति विरोधः । तत्परिहारस्तु कटुको दुःखदायीत्यर्थात् । विग्रहवत्यपि मूर्तिमत्यप्यप्रत्यक्षमगम्यं दर्शनं यस्या इति विरोधः । तत्परिहारस्तु विग्रहवती कलहवतीत्यर्थात् । पुरुषोत्तमरतापि खला ये दुर्जना जनास्ते प्रिया यस्या इति बिरोधः । तत्परिहारस्तु पुरुषोत्तमे कृष्णे रतं मैथुनं यस्या एवंविधापि खलजनानां प्रिया वल्लभेत्यर्थात् । रेणुमयीव रजोगुणमयींव स्वच्छमपि निर्मलमपि कलुषीकरोति मलिनीकरोति । यथेति । यथा यथेयं लक्ष्मीश्चपला चञ्चला दीप्यते दीप्ता भवति तथा तथा केवल दीपशिखेव कज्जलवन्मलिनं कश्मलं कर्मोद्वमत्युद्गिरति । दीपशिखापि कज्जललक्षणं यन्मलिनं कर्म तदेवोद्वमति । तदेव दर्शय तथाहीति । तृष्णा लोभस्तल्लक्षणानां विषवल्लीनां संवर्धने विस्तारणे वारिधारा जलश्रेणिः । अत्र श्रीजलधारयोर्वृद्धिहेतुत्वेन साम्यम् । छेदयोग्यतया तृष्णावल्लयोः साम्यम् । व्याधेति । व्याधगीतिर्मृगवधजीविगानमिन्द्रियमृगाणामक्षहरिणानाम् । अत्र नाशकत्वसाम्याच्छ्रीगीत्योः साम्यम् । नाश्यत्वसाम्याच्चाक्षमृगयोः साम्यम् । गानलुब्धाश्च मृगा हन्यन्त इति सर्वप्रसिद्धम् । सच्चरितानि सदाचरणानि तान्येव चित्राणि तेषां परामर्श औमर्शनं तदर्थं या धूमलेखा धूमपङ्क्तिः । टिप्प० 1 जाड्यम् (जडत्वम्) सदसद्विवेकराहित्यरूपं मौढ्यमित्यर्थो वाच्यः । 2 प्रोञ्छनम्, आवरणमित्यादिरर्थ उचितः । पाठा० - १ इव पश्यति. २ दुःखस्वप्नम्. ३ नापसर्पति ४ हसति ५ प्रकटयति निजम् ६ सततम् ७ आरोपयन्त्यपि. ८ राशिरिव ९ कटुविपाका. 228 कादम्बरी । कथायाम् - Page #242 -------------------------------------------------------------------------- ________________ निद्राणाम्, निवासजीर्णवलभी धनमदपिशाचिकानाम्, तिमिरोद्गतिः शास्त्रदृष्टीनाम्, पुरःपताका सर्वाविनयानाम्, उत्पत्तिनिम्नगा क्रोधावेगग्राहाणाम्, आपानभूमिर्विषयमधूनाम्, संगीतशाला भ्रूविकारनाट्यानाम्, आवासदरी दोषाशीविषाणाम्, उत्सारणवेत्रलता सत्पुरुषव्यवहाराणाम्, अकालप्रावृड् गुणकलहंसकानाम्, विसर्पणभूमिर्लोकापवादविस्फोटकानाम्, प्रस्तावना कपटनाटकस्य, कदलिका कामकरिणः, वध्यशाला साधुभावस्य, राहुजिह्वा धर्मेन्दुमण्डलस्य । न हि तं पश्यामि यो ह्यपरिचितयानया न निर्भरमुपगूढः, यो वा न विप्रलब्धः । नियतमियमालेख्यगतापि चलति, पुस्तकमय्यपीन्द्रजालमाचरति, उत्कीर्णापि - *********** लोकैः कफनिवृत्त्यर्थं द्रव्यान्तरस्य धूम्रपानं कृत्वा पश्चात्स एवोदीर्यते तत्स्पशदिवालेख्यं विनश्यतीति भावः । मोह इति । मोहो मौढ्यम्, दीर्घनिद्रा निमीलितानि (?), तासां विभ्रमशय्या विलासशयनम् । धनेति । धनानि द्रव्याणि, मंदो मुन्मोहसंभेदः त एव पिशाचिन्यस्तासा निवासार्थं जीर्णा प्राचीना वलभी गृहोपरिभागः । तिमिरेति । शास्त्राण्येव दृष्टयस्तासां तिमिरस्य नेत्ररोगविशेषस्योद्गतिः प्रादुर्भावः । पुर इति । सर्वेषामविनयानां दुर्बुद्धीनां पुरःपताकाओवैजयन्ती । उत्पत्तीति । क्रोधस्य कोपस्य ये आवेगाः संभ्रमास्त एव ग्राहा जलजन्तवस्तेषामुत्पत्तिनिम्नगा तटिनी । आपानेति । विषया गोचरा एव मधूनि मद्यानि तेषामापानभूमिः पानगोष्ठिकास्थलम् । संगीतेति । ध्रुवां विकारा विकृतयस्त एव नाट्यानि तेषां संगीतशाला रङ्गशाला । आवासेति । दोषा एव दूषणान्येव आशीविषा आशी दंष्ट्रा तस्यां विषं येषां त आशीविषाः सास्तेषामावासार्थं दरी गुहा । उत्सारणेति । सत्पुरुषाः शिष्टास्तेषां व्यवहारा आचरणानि तेषामुत्सारणं दूरीकरणं तद्धेतुका वेत्रलता वेत्रयष्टिः । अकालेति । गुणा एव कलहंसाः कादम्बास्तेषामकालप्रावृड्समयो वर्षाकालः । प्रावृषि हंसा नश्यन्ति । इयं तु सर्वगुणानां विनाशहेतुरित्यपकर्षस्तु प्रसिद्धः । विसर्पणेति । लोकेषु येऽपवादा विरोधोक्तयस्त एव विस्फोटकाः शिलीन्द्राणि तेषां विसर्पणभूमिर्विस्तरणस्थलम् । प्रस्तावनेति । कपटनाटकस्य कैतवनृत्यस्य प्रस्तावना प्रारम्भः सूत्रधारादिप्रवेशः । कदलिकेति । कामकरिणो मदनगजस्य कदलिका रम्भा । वध्येति । साधुभावस्य शोभनाध्यवसायस्य वध्यशाला सूनास्थानम् । राहुजिह्वेति । धर्मः सदाचारः निर्मल(त्व)साम्यात्स एवेन्दुमण्डलं चन्द्रबिम्ब तस्य राहुजिह्वा सैहिकेयरसना । न हीति । हि निश्चितम् । तं पुरुष न पश्यामि नावलोकयामि, यत्तदोर्नित्याभिसंबन्धात् । यः पुमानपरिचितयासंनिहितया निर्भरमतिशयं नोपगूढो नाश्लिष्टः । यो वा न विप्रलब्धो न च विप्रतारितः । नियतं निश्चितम् । इयं लक्ष्मीरालेख्यगता चित्रलिखितापि चलति न स्थिरा भवति । अन्येषां चित्तानि चालयतीति वा । पुस्तकेति । पुस्तकमैय्यपि ज्ञानमय्यपीन्द्रजालवज्जालमाचरति । उत्कीर्णेति । उत्कीर्णाप्युत्कीरितापि विप्रलभते विप्रतारणा - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 केचिदत्रेदं वदन्ति धूममात्रेण चित्राणि विकृत्य आब्रियन्ते यथा महानसभित्तौ । 2 तद्विच्छेदो मा भूदिति-मोहीः विवेकाभावा एव दीर्घनिद्रास्तासामित्यर्थो वाच्यः । 3 धनमदा एव पिशाचिका इत्यर्थ उचितः । 4 सचन्दनादय इन्द्रियभोग्यपदार्था इत्यर्थ उचितः । 5 व्रणविशेषा इत्यर्थ उचितः । 6 कदलीसमूहे गजः स्वैरं विहरतीत्यर्थः । 7 परस्परपरिज्ञानरहितया इत्यर्थ उचितः । 8 लक्ष्म्यां कार्यद्वारा कुलटाया वेश्याया वा व्यवहारसमारोपात्समासोक्तिर्बोध्या । 9 'पुस्तमय्यपि' इति पाठः कञ्चनाऽभिप्रेतः । पुस्तमयी मृत्काष्ठादिनिर्मितपुत्तलिकारूपापि इन्द्रजालमारचयति, अकस्मात् लक्ष्म्या विलोयात् । इति तदर्थः । 'पुस्तस्त्रीहस्तनिर्यत्' इत्यादि वाग्भटः । पाठा० - १ पुरःसर. २ आवास. ३ व्याहाराणाम्. ४ विस्फोटानाम्. ५ अपरिचितया न निर्भरम्; अपगिषु तयानया न निर्भरम्. ६ पुस्तमय्यपि. (शुकनासोपदेशः पूर्वभागः । 1229) Page #243 -------------------------------------------------------------------------- ________________ विप्रलभते, श्रुताप्यभिसंधत्ते, चिन्तितापि वञ्चयति । एवंविधयापि चानया दुराचारया कथमपि दैववशेन परिगृहीता विक्लवा भवन्ति राजानः, सर्वाविनयाधिष्ठानतां च गच्छन्ति । तथाहि-अभिषेकसमय ऐव चैतेषां मङ्गलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम्, अग्निकार्यधूमेनेव मलिनीक्रियते हृदयम्, पुरोहितकुशाग्रसंमार्जनीभिरिवापहियते क्षान्तिः, उष्णीषपट्टेबन्धेनेवाच्छाद्यते जरागमनस्मरणम्, आतपत्रमण्डलेनेवापसार्यते परलोकदर्शनम्, चामरपवनैरिवापहियते सत्यवादिता, वेत्रदण्डैरिवोत्सार्यन्ते गुणाः, जयशब्दकलकलरवैरिव तिरस्क्रियन्ते साधुवादाः, ध्वजपटपल्लवैरिव परामृश्यते यशः । तथाहि केचिच्छ्रमवशशिथिलशकुनिगलपुटचटुलाभिः खद्योतोन्मेषमुहूर्तमनोहराभिर्मनस्विजनगर्हिताभिः संपद्भिः प्रलोभ्यमाना धनलवलाभावलेपविस्मृतजन्मानोऽनेकदोषोपचितेन दोषासृजेव रागावेशेन - *********** करोति । श्रुताप्याकर्णिताप्यभिसंधत्ते संशयं करोति । चिन्तितापि वञ्चयति वञ्चनां करोति । एवंविधयापि पूर्वोक्तलक्षणलक्षितयाप्यनया श्रिया दुराचारया दुष्टाचरणया कथमपि महता कष्टेन दैववशेन भाग्यवशेन परिगृहीताः स्वीकृता राजानो विक्लवा विह्वला भवन्ति । सर्वेषामविनयानां दुर्बुद्धीनामधिष्ठानतामधिकरणों च गच्छन्ति प्राप्नुवन्ति । चकारः समुच्चयार्थः । तदेव दर्शयति - तथाहीति । अभिषेकसमये राज्याभिषेकक्षण एवैतेषां राज्ञां मङ्गलकलशजलैरिव कल्याणकुम्भाम्भोभिरिव दाक्षिण्यमनुकूलता प्रक्षाल्यते धावनविषयीक्रियते । अग्नीति । अभिषेकानन्तरं होमस्य सद्भावादग्नीत्युक्तम् । अग्निकार्यं होमादि तस्य धूमेन हृदयं स्वान्तं मलिनीक्रियते : राज्ञामिति शेषः । पुरोहितेति । पुरोहितः पुरोधास्तस्य कुशाग्राणि दर्भाग्राण्येव संमार्जन्यो बहुकार्यस्ताभिरिव शान्तिः क्षमापहियत दूरीक्रियते । उष्णीषेति । उष्णीषं मूर्धवेष्टनं तदेव पट्टबन्धस्तेनेव जरा विससा तस्याः आगमनमागमस्तस्य स्मरण स्मृतिगलायत आब्रियते । आतपत्रेति । आतपत्रं छत्रं तस्य मण्डलेन निस्तलेन परलोकस्य भवान्तरस्य दर्शनमवलोकनमपसार्यते दूशाक्रयने ! चामरेति । चामरं वालव्यजनं तस्य पवनैर्वीजनैरिव सत्यमवितथं वदतीत्येवंशीलः सत्यवादी तस्य भावस्तत्ता सा अपहियतऽपहरणविषयीक्रियते । वेत्रेति । वेत्रदण्डैर्वेतसयष्टिभिरिव गुणाः शौर्यादय उत्सायन्ते दूरीक्रियन्ते । जयेति । जयशब्दस्य ये कलकलरवाः कोलाहलशब्दास्तैरिव साधुवादाः ख्यातयस्तिरस्क्रियन्ते । न्यक्कियन्ते । ध्वजेति । ध्वजा वैजयन्त्यस्तेषां पटा वस्त्राणि तेषां पल्लवैः प्रान्तैरिव यशः श्लोकः परामृश्यते परामर्शो लोपः स क्रियते । तदेव दर्शयति - तथाहीति । केचिन्मनुष्याः । श्रमेति । श्रमवशेन प्रयासाधिक्येन शिथिलः श्लथोऽदृढः शकुनेर्मयूरस्य अन्यस्य वा पक्षिविशेषस्य यो गलः कण्ठस्तस्य यत्पुटं तद्वच्चपलाभिः । मयूरस्य कण्टः श्रमवशेन चात्यन्तं चपलः स्यादिति तदुपमानम् । खद्योत इति । खद्योतो ज्योतिरिङ्गणस्तस्य य उन्मेषोऽवभासस्तद्वन्मुहूर्तं मनोहराभिश्चित्तहारिणीभिः । मनस्वीति । मनस्विजनाः पण्डितलोकास्तैगर्हिताभिर्निन्दिताभिरेवंविधाभिः संपद्भिः समृद्धिभिः प्रलोभ्यमाना लोभ प्राप्यमाणाः । धनेति । धनस्य द्रव्यस्य यो लवो लेशस्तस्य लाभः प्राप्तिस्तस्माद्योऽवलेपोऽहंकारस्तेन विस्मृतं विस्मरणं प्राप्तं जन्म येषां ते तथानेके दोषा दूषणानि तैरुपचितेन व्याप्तेन । रागावेशेनेति । राग इच्छारुण्यं च तेषामावेशस्तन्मयीभावस्तेन बाध्यमानाः पीड्यमानाः । - - - - - - - - - - - - - - - - - - - - -- - - - - - - - - - - - - -- - - --- टिप्प० - 1 कपटव्यवहारं करोति । 2 राज्ञां प्रसङ्गे 'मनुष्याः' इति व्याख्या प्रमादः । राजान इत्युचितम् । 3 दोषैः वातपित्तकफविकारैः उपचितेन वृद्धिंगतेन दुष्टेन असृजा (रक्तेन) यथा पीड्यमाना भवन्ति तथा दोषैः कामक्रोधादिभिः प्रवृद्धेन रागावेशेन विषयासक्तिरूपेणाभिनिवेशेन अधरीक्रियमाणा इति व्याख्योचिता । इदं सर्वं भ्रममात्रम् । अत एव 'दुष्टासजेव' इत्यपि पाठः ‘दोषोपचितेन' इति पर्वमुक्तत्वेन पौनरुक्त्यप्रसङ्गात् ।। पाठा० - १ दैवपरिगृहीता. २ विक्लबीभवन्ति. ३ एवैषाम् एव चैषाम्. ४ मलिनीभवति. ५ अपनीयते. ६ पट. ७ अवच्छाद्यते. ८ अपवार्य अपवार्यते. ९ कलकलेः. १० क्वचित्. ११ श्रमशिथिल. १२ पक्षपुट. १३ दुष्टासृजेव. (230 कादम्बरी । कथायाम Page #244 -------------------------------------------------------------------------- ________________ वाध्यमानाः, विविधविषयग्रासलालसैः पञ्चभिरप्यनेकसहस्त्रसंख्यैरिवेन्द्रियैरायास्यमानाः, प्रकृतिचञ्चलतया लब्धप्रसरेणैकेनापि शतसहस्त्रतामिवोपगतेन मनसाकुलीक्रियमाणा विह्वलतामुपयान्ति । ग्रहैरिव गृह्यन्ते, भूतैरिवभिभूयन्ते, मन्त्रैरिवावेश्यन्ते, सत्त्वैरिवावष्टभ्यन्ते, वायुनेव विडम्ब्यन्ते, पिशाचैरिव ग्रस्यन्ते, मदनशरैर्महिता इव मुखभङ्गसहस्त्राणि कुर्वते, धनोष्मणा पच्यमाना इव विचेष्टन्ते, गाढप्रहाराहता इवाङ्गानि न धारयन्ति, कुलीरा इव तिर्यक्परिभ्रमन्ति, अधर्मभग्नगतयः पङ्गव इव परेण संचार्यन्ते, मृषावादविपाकसंजातमुखरोगा इवातिकृच्छ्रेण जल्पन्ति, सप्तच्छदतरव इव कुसुमरजोविकारैः पार्श्ववर्तिनां शिरःशूलमुत्पादयन्ति, आसनमृत्यव इव बन्धुजनमपि नाभिजानन्ति, उत्कम्पितलोचना इव - *********** केनेव । दोषेति । दोषं दुष्टं यदसृग्रक्तं तेनेव । तत्रापि रागो भवत्येवेति साम्यम् । विविधेति । विविधा येऽनेके विषया गोचरास्त एव ग्रासा गुडेरकास्तत्र लालसैर्लम्पटैः । पञ्चभिरिति । पञ्चभिरपि प्राणप्रमितसंख्यैरपि चक्षुरादिभिरपि शतसहस्त्रतां लक्षतामुपगतेने प्राप्तेन अनेकसहस्त्रसंख्यैरिन्द्रियैः करणैरायास्यमानाः परिक्लिश्यमानाः । प्रकृतीति । प्रकृत्या स्वभावेन चञ्चलश्चपलस्तस्य भावस्तत्ता तया लब्धः प्रसरोऽवकाशो येनैवंभूतेनैकेन मनसा चितेनाकुलीक्रियमाणा विह्वलतामुत्पिञ्जलतामुपयान्ति गच्छन्ति । ग्रहैरिति । ग्रहैः शनैश्चरादिभिरिव गृह्यन्ते ग्रहणविषयीक्रियन्ते । भूतैः पिशाचैरिवाभिभूयन्ते । मन्त्रैरिति । मन्त्रा देवाधिष्ठातृकास्तैरिवावेश्यन्ते । मन्त्रेणान्यत्रावेशः क्रियते । यथा भूतमन्यत्र प्रवेश्यते । सत्त्वैरिव दुष्टप्राणिभिरिवावष्टभ्यन्ते हठेन गृह्यन्ते । वायुनेव पवनेनेव विडम्ब्यन्त इतस्ततो विक्षिप्यन्ते । पिशाचैरिव राक्षसैरिव ग्रस्यन्ते भक्ष्यन्ते । मदनेति । मदनशरैः कामबाणैर्मर्मस्थल आहतास्ताडिता इव मुखभङ्गसहस्त्राण्याननविकृतिसहस्त्राणि कुर्वते घटयन्ति । धनेति । धनस्यद्रव्यस्योष्मा तापस्तेनपच्यमानाः पाकविषयीक्रियमाणा इव विचेष्टन्ते । विविधा चेष्टां कुर्वन्तीत्यर्थः । गाढेति । गाढस्तीव्रो यः प्रहारो लगुडादिना कुल्लण्टनं तेनाहता इवाङ्गानि हस्तपादादीनि न धारयन्ति न धर्तु शक्नुवन्तीत्यर्थः ! कुलीरेति । कुलीरा इव कर्कटा इव तिर्यक्तिरश्चीना एव परिभ्रमन्ति परिभ्रमणं कुर्वन्ति । अधर्मेति । अधर्मेणासदाचरणेन भग्ना भङ्ग प्राप्ता गतिर्गमनं सत्कर्मणि वृत्तिश्च येषामेवंभूताः पङ्गव व खञा इव परेणान्येन संचार्यन्ते संचरणशीलाः क्रियन्ते । मृषेति । मृषावादोऽसत्यभाषणं तस्य विपाकः परिणामस्तेन संजातः समुत्पन्नो मुखरोगो येषामेतादृश इवातिकृच्छ्रेणातिकष्टेन जल्पन्ति ब्रुवन्ति । सप्तेति । सप्तच्छदतरव इव विषमच्छदवृक्षा इव कुसुमानि नेत्राणि तेषां ये रजोभिर्गुणैर्विकारा विकृतयस्तैः । पक्षे कुसुमरजोविकारैः पुष्परागविकृतिभिः । 'कुसुमं स्त्रीरजो नेत्रे' इत्यनेकार्थः । पार्थवर्तिनां समीपस्थायिनां शिरः शूलं मस्तकव्यथामुत्पादयन्ति जनयन्ति । सप्तपर्णकुसुमरजसः शिरः शूलोत्पादकत्वं वैद्यके प्रसिद्धम् । आसन्नेति । आसन्नः समीपवर्ती मृत्युर्येषां त एवंविधा इव बन्धुजनमपि स्वजनमपि नाभिजानन्ति नोपलक्षयन्ति । उदिति । उत्प्राबल्येन कम्पितं धूतं लोचनं नेत्रं येषामेवंविधा इव - -- - - - - - - - -- - - - - - - - - - - - - - - - - - टिप्प० - 1 उपगतैरिति वाच्यम् । 2 सर्वैः सह कौटिल्यमाचरन्तीत्यर्थः । 3 कुसुमजसा विकारैः (तत्संपर्कजनितवायुविकारैः) सप्तपर्णतरवो यथा शिरोवेदनामुत्पादयन्ति, तथा इमे कुसुमानि (नेत्ररोगाः) एव रजोविकारा रजोगुणपरिणामास्तैः आसत्रवर्तिनां शिरःशूलजन्यपीडामिवोत्पादयन्तीति तात्पर्यम् । 'कुसुम स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः । ' इति हैमस्य शुद्धः पाठः 4 'उत्कुपितलोचना इव' इत्यपि पाठः । उत्कुपितलोचना रुग्णनेत्रा इति तदर्थः । यस्य नेत्रपीडा भवति स तेजस्विपदार्थं न शक्नोति वीक्षितम् । पाठा० - १ विषयरसग्रास. २ प्रसारण. ३ अभिहताः. ४ राभिहताः. ५ विषपाक. ६ आसनवर्तिनाम्. ७ पुरःस्थितं बन्धुजनम्. ८ उत्कुपित. (शुकनासोपदेशः पूर्वभागः । MA 231) Page #245 -------------------------------------------------------------------------- ________________ तेजस्विनो नेक्षन्ते, कालदष्टा इव महामन्त्रैरपि न प्रतिबुध्यन्ते, जातुषाभरणानीव सोष्माणं न सहन्ते, दुष्टवारणा इव महामानस्तम्भनिश्चलीकृता न गृह्णन्त्युपदेशम्, तृष्णाविषमूर्छिताः कनकमयमिव सर्वं पश्यन्ति, इषव इव पानवर्धिततैदेण्याः परप्रेरिता विनाशयन्ति, दूरस्थितान्यपि फलानीव दण्डविक्षेपैर्महाकुलानि शातयन्ति, अकालकुसुमप्रसवा इव मनोहराकृतयोऽपि लोकविनाशहेतवः, श्मशानाग्नय इवातिरौद्रभूतयः, तैमिरिका इवादूरदर्शिनः, उपसृष्टा इव क्षुद्राधिष्ठितभवनाः, श्रूयमाणा अपि प्रेतपटहा इवोद्धजयन्ति, चिन्त्यमाना अपि महापातकाध्यवसाया इवोपद्रवमुपजनयन्ति । अनुदिवसमापूर्यमाणाः पापेने - *********** तेजस्विनः प्रतापवतः पुरुषानिःस्पृहान्नेक्षन्ते नावलोकयन्ति । पक्षे तेजस्विनः सूर्यादिकान् । कालदष्टेति । निषिद्धकाले संध्यादिरूपे दष्टा भक्षिताः । सर्पणेति शेषः । एवंविधा इव महामन्त्रैर्जाङ्गलीप्रभृतिभिः । षागुण्यादिभिरपि न प्रतिबुध्यन्ते न बोध प्राप्नुवन्ति । जातुषेति । जातुषाभरणानि लाक्षानिष्पन्नभूषणानीव सोष्माणं तेजस्विनं पुरुषं न सहन्ते न मृष्यन्ति । दुष्टेति । दुष्टवारणा इव मदोन्मत्तगजा इव महानत्युत्कृष्टो यो मानोऽहंकारस्तल्लक्षणो यः स्तम्भः स्थूणा तेन निश्चलीकृताः स्तब्धतां प्रापिताः सन्त उपदेशं शिक्षा न गृह्णन्ति नाददते । गजपक्षे महन्मानं यस्यैवंविधो यः स्तम्भ आलानस्तम्भस्तेन निश्चलीकृता नद्धाः सन्त उपदेश हस्तिपकवाक्य न गृह्णन्ति । अवगणयन्तीत्यर्थः । तृष्णेति । तृष्णैव विषं गरलं तेन मूर्छिता भ्रान्ताः कनकमय सुवर्णमयमिव सर्वं पश्यन्ति विलोकयन्ति । इपव इति । पान मधुपान निशानघर्षणं च ताभ्यां वर्धित तैक्ष्ण्यं मदक्रौर्यं प्रहारशक्तिश्च येषामेवंविधा इषव इव बाणा इव परोऽन्यो मन्त्री च ताभ्यां प्रेरिता नोदिता विनाशयन्ति विनाशं जनयन्ति । दण्डो यष्टिर्भागधेयश्च तयोर्विक्षेपाः प्रहारा दुर्दिनानि च तैर्दूरस्थितान्यपि दविष्ठदेशवीन्यपि फलानीव सस्यानीव महाकुलानि महाभिजनानि शातयन्ति पीडयन्ति पातयन्त्यपि च । अकालेति । मनोहराश्चित्तहारिण्य आकृतय आकारा येषामेवंविधा अपि राजानो लोकविनाशहेतवो भवन्ति । सदाकृतिसाम्यादुपमानान्तरमाह - अकालेति । अकालेऽऋतौ कुसुमप्रसवा इव तदुक्तम्-'द्रुमौषधिविशेषाणामकाले कुसुमोद्गमः । फलप्रसवयोवन्धं महोत्पातं विदुर्बुधाः । श्मशानाग्नय इति । श्मशानं प्रेतवनं तस्याग्नय इवातिरौद्रा अन्येषां भयोत्पादिका भूतिः संपयेषां ते तथा । पक्षेऽतिक्रूरा भूतिभस्म येषु । तैमिरिकेति । तिमिरं नेत्ररोगः संजातो येषां ते तैमिरिकास्त इवादूरदर्शिनः । भाविनं दोषं न पश्यन्तीत्यर्थः । दूरं परलोकं न पश्यन्तीत्ययों वा । पक्षेऽदूरदर्शिनः समीपस्थितवस्तुविलोकिनः । उपसृष्टेति । उपसृष्टा बहिःकृता इव क्षुद्रैविटेरधिष्ठितमाश्रित भवन गृह येषा ते तथा । श्रूयमाणा इति । श्रूयमाणा आकर्ण्यमाना उद्वेजयन्त्युद्धेगं जनयन्ति । क इव प्रेतपटहा इव यथा मृतकवाद्यानि निर्वेदमन्येषा समुत्पादयन्तीत्यर्थः कस्मिंश्चिद्देशे मृतकानां पुरस्ताद्वायानि वाद्यन्त इति देशाचारः । चिन्त्येति । चिन्त्यमाना अपि चेतसि स्मर्यमाणा अपि महापातकं स्त्रीहत्यादि तदध्यवसाया इव तदभिप्राया इवोपद्रवं वञ्चकादिदुःखमुपजनयन्ति निष्पादयन्ति । अन्विति । अनुदिवस प्रतिदिवस पापेनैनसापूर्यमाणा - - -- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 भूषणपक्षे अग्निम् । राजपक्षे - ईर्ष्यावशादसहनम् । जातुषपक्षे-विगलनवशादित्यर्थः । 2 सामदामभेददण्डा इति चतुर्थोपाय इति व्याख्यायाः स्पष्टव्यम् । 3 रतिसंलग्ना वाराङ्गना इव क्षुद्रः नीचैर्लोकः, पक्षे विटैरधिष्ठितानि भवनायि येषा ते। 'उपसृष्टं तु मैथुनम्' इति त्रिकाण्डशेषः । 4 चित्तस्याऽ शान्तिम् । पाठा० - १ जातुषा इव. २ महालान; महानाल. ३ कृता अपि न. ४ अतितृष्णाविषवेग; तृष्णावेश. ५ असयः; अग्नयः, असवः. ६ पारुष्याः. 232 | कादम्बरी । कथायाम्-) Page #246 -------------------------------------------------------------------------- ________________ वामातमूर्तयो भवन्ति, तदवस्थाश्च व्यसनशतसख्यतामुपगता वल्मीकतॄणाग्रावस्थिता जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति । अपरे तु स्वार्थनिष्पादनपरैर्धनपिशितग्रासगृङ्रास्थाननलिनीधूर्तबकैर्वृतं विनोद इति, परदाराभिगमनं वैदग्ध्यमिति, मृगया श्रम इति, पानं विलास इति, प्रमत्ततां शौर्यमिति, स्वदारपरित्यागमव्यसनितेति, गुरुवचनावधीरणमपरप्रणेयत्वमिति, अजितभृत्यता सुखोपसेव्यत्वमिति, नृत्यगीतवाद्यवेश्याभिसक्ति रसिकतेति, महापराधावकर्णनं महानुभावतेति, - *********** भ्रियमाणा इवाध्ातमूर्तयः स्थूलदेहा भवन्ति । तदिति । सैवावस्था येषां ते तदवस्थाः । चः समुच्चयार्थः । एवंविधा व्यसनानां द्यूतादीनां शत तस्य सख्यतां मित्रतामुपगताः प्राप्ताः । 'शरव्यताम्' इति पाठे तु शरव्यं लक्ष्यं तस्य भावस्तत्त्वमुपगता इत्यर्थः । वल्मीकेति । वल्मीकमुपदेहिकागृह तस्य तृणानि नडादीनि तेषामग्राणि प्रान्तानि तेष्ववस्थिता ये जलबिन्दवस्त इव पतितमपि मनुष्यजन्मनःस्त्रस्तमप्यात्मान नावगच्छन्ति न जानन्ति । अपरे त्विति । अपरेऽन्ये । तु पुनरर्थे । राजानः । श्रीमता दोषान्तरमप्याह - अपरे त्विति । इति दोषानपि गुणपक्षमध्यारोपयद्भिधूर्तर्विप्रतारकैः स्तुतिभिः प्रतार्यमाणाः सर्वजनस्योपहास्यतामुपहासयोग्यतामुपयान्ति प्राप्नुवन्तीत्यन्वयः । कीदृशैधूर्तः । स्वेति । स्वस्यात्मनो योऽर्थः प्रयोजन तस्य निष्पादन करणं तत्र परैस्तत्परैः । धनमिति । धनं द्रव्यं तदेव पिशितं मास तस्य ग्रासो ग्रहण तस्मिन् गृधैर्दूरदृग्भिर्यथा तथा द्रव्यार्जनपरित्यर्थः । आस्थानेति । आस्थानं नृपोपवेशनस्थलं तदेव नलिनी कमलिनी तस्यां बकैधूर्तेः । यथा बका नलिनीमाश्रित्य तदाश्रयबलेन स्वात्मानमाच्छाद्य येन केन प्रकारेण परान्वञ्चयित्वाकस्मादेव परान्भक्षयन्ति तद्वदास्थानवलेन परान्वञ्चयित्वा स्वानि भक्षयन्ति । इतिशब्दार्थमाह - चूतमिति । द्यूतं दुरोदरं विनोदः क्रीडामात्रम् । न चैतद्विहिते किंचित्पातकमस्तीति भावः । परेति । परदाराः परस्त्रियस्तेषामभिगमनं संभोगो वैदग्ध्यमिति चातुर्यमित्यर्थः । मृगयेति । मृगयां मृगव्यां श्रम इति । 'अभ्यासः खुरलीति श्रमो योगाभ्यासः' इति कोशः । न तु परप्राणव्यापादनजनितं किमपि पातकमस्तीति भावः । पानमिति । पान मद्यादीना । विलास इति । विलसितमित्यर्थः । प्रमत्ततामिति । प्रमत्तता क्षीबतां शौर्यं सुभटकृत्यमिति । स्वेति । स्वस्य दाराः स्त्री तस्याः परित्यागं त्यजनमव्यसनितानासक्तिता इति । नतु धर्माधिक्यम् । गुरुरिति । गुरुर्हिताहितप्राप्तिपरिहारोपदेष्टा तस्य वचनं वचस्तस्यावधीरणमुल्लङ्घनमपरप्रणेयत्वमन्यवश्यत्वम् । 'वश्यः प्रणेयः' इति कोशः । गुरुवचनावधीरणेन क्रूरोऽयं प्रभुरिति भियापरे सामन्तादयो वश्यत्वं प्रतिपद्यन्त इति तेषामाशयः । अजितेति । शिक्षार्थं ताडिता भृत्या यस्य राज्ञः सम्यक्सेवां कुर्वन्ति स जितभृत्योऽन्यस्त्वजितभृत्यस्तस्य भावस्तत्ता ताम् । इद च नृपतेर्दूषण् । वैगुण्ये भृत्यानामवश्यं शिक्षा प्रदातव्येति राजचिह्नम् । तदुक्तम् - 'शठदमनमशठपालनमाश्रितभरणं च राजचिह्नानि इति । तस्मिन्सुखोपसेव्यत्वं सुखेनोपसेवितुं योग्यः सुखोपसेव्यस्तस्य भावस्तत्त्वम् । सुखोपसेव्योऽयं नृप इति लोके ख्यातिमात्र गण आरोप्यते । नत्यति । नत्यं नाटयम, गीत गानम. वाद्यमातोद्यम. वेश्या वारवध्वः, तास्वभिसक्तिमत्या सक्तचित्ततां रसिकता रसाभिज्ञता इति । महेति । महापराधानां कौरवयुद्धादीनामवकर्णनं श्रवणं महानु - टिप्प० -1 उयीकाकृतमृत्तिकास्तूपः (कीटविशेषेण निःसारितमृत्तिकाराशिः) तत्रोत्पन्नतृणाग्रे स्थिता जलबिन्दव इव । पातित्येन युक्तमात्मानं मोहान जानन्ति । वल्मीके पतिता जलबिन्दवस्तु शुष्कत्वान्न प्रतीयन्त इत्याशयः । 2 धर्माद्भश इति वक्तव्यम् । 3 न परप्रणेय (वश्य)त्वम्, स्वाधीनतासूचनात्स्वातन्त्र्यामत्यर्थः । 4 'महापराधानाकर्णनम्' इत्यपि पाठः । महतोऽप्यपराधस्य 'अकिञ्चित्करमिदम्' इति उपेक्षावशादनाकर्णनम् । वस्तुतस्त्वयमविचारो दोष एव । पाटा० - १ तृणाग्रस्थिताः. २ नलिनीबकैः. ३ मृगया. ४ प्रमत्तता. ५ स्वदारपरित्यागः; स्वदारपरित्यागेषु. ६ भृत्यता. ७ नृत्त. ८ अभिसक्तिः. ९ रसिकतामिति. १० अनाकर्णनम्, अनवकर्णनम्. शुकनासोपदेशः पूर्वभागः । 223 Page #247 -------------------------------------------------------------------------- ________________ पराभवसहत्वं क्षमेति, स्वच्छन्दतां प्रभुत्वमिति, देवावमाननं महासत्त्वतेति, बन्दिजनख्याति यश इति, तरलतामुत्साह इति, अविशेषज्ञतामपक्षपातित्वमिति दोषानपि गुणपक्षमध्यारोपयद्भिरन्तः स्वयमपि विहसद्भिः प्रतारणकुशलैर्धूर्तेर्रमानुषलोकोचिताभिः स्तुतिभिः प्रतार्यमाणा वित्तमदमत्तचित्ता निश्चेतनतया तथैवेत्यात्मन्यारोपितालीकाभिमाना मर्त्यधर्माणोऽपिदिव्यांशावतीर्णमिव सदैवतमिवांतिमानुषमात्मानमुत्प्रेक्षमाणाः प्रारब्धदिव्योचितचेष्टानुभावाः सर्वजनस्योपहास्यतामुपयान्ति । आत्मविडम्बनां चानुजीविना जनेन क्रियमाणामभिनन्दन्ति । मनसा देवताध्यारोपणविप्रतारणादसद्भूतसंभावनोपहताश्चान्तः प्रविष्टापरभुजद्वयमिवात्मबाहुयुगलं संभावयन्ति । त्वगन्तरिततृतीयलोचनं स्वललाटमाशङ्कन्ते । *********** भावता महाधर्मिष्ठता । अदातृत्ववशात् मागधादिभिर्विहितस्य गालिप्रदानादिपराभवस्य तिरस्कृतेः सहत्वं क्षमेति क्षान्तिः । स्वच्छन्दतां निरवग्रहतां प्रभुत्वमैश्वर्यम् । देवेति । देवा अर्हदादयस्तेषामवमाननमवगणनं महासत्त्वत्ता महाधैर्यता । बन्दीति । बन्दिजना मागधादयस्तेषां ख्यातिं प्रसिद्धिम् । यशः श्लोक ( ? ) इति । एतेन पण्डितजनप्रदानं न श्लोकजनकमिति भावः । तरलतां चपलतामुत्साहः प्रगल्भता इति । अवीति । अविशेषज्ञतां विशेषाविशेषानभिज्ञतामपक्षपातित्वं माध्यस्थ्यमिति । अत्र 'द्यूतम्' इत्यारभ्य पूर्वपूर्वस्योद्देश्यतयोत्तरोत्तरस्य बाध्यमानतया पूर्वस्मिन्दोष उत्तरस्य गुणस्यारोपः प्रशंसनमेवाध्यारोपः । अत्राध्यारोपकलक्षणे रुपकव्यासङ्गजनकत्वं सातिशयसुखजनकत्वादिकं साम्यं स्वयमूहनीयम् । अथ धूर्तान्विशेषयन्नाह - अन्त इति । अन्तर्मध्ये स्वयमप्यात्मनापि विहसद्भिर्हास्यं कुर्वद्भिः । अस्मद्विप्रतारणानभिज्ञ इति हास्यनियामकम् । प्रतारणा वञ्चना तत्र कुशलैरभिज्ञैः । किं क्रियमाणा धनिनः । अमानुषो देवलोकस्तस्योचिताभिर्योग्याभिः । स्तुतेर्विशेषणम् । वित्तेति । वित्तस्य द्रव्यस्य मदस्तेन मत्तं चित्तं येषां ते तथा । अत एव निश्चे निर्गता चेतना ज्ञानं यस्मात्तस्य भावस्तत्ता तया । तथैवेति । यथा यथा प्रतार्यमाणास्तथैवेत्यर्थः । आत्मन्यारोपितं स्थापितमलीक मिथ्याभिमानं यैस्ते तथा मर्त्यधर्माणोऽपि मर्त्यस्य मनुष्यस्य धर्मा गमनादयो येषामेवंविधा अपि । दिव्येति । दिव्या देवसंबन्धिनो येऽशा भागस्तैरवतीर्णमुत्पन्नमिव सदैवतमिव देवताधिष्ठितमिवातिमानुषं कर्मातिक्रम्य वर्तमानमात्मानमुत्प्रेक्षमाणा मन्यमानाः । प्रारब्धेति । प्रारब्धा या दिव्योचिता देवजनयोग्याश्चेष्टाः क्रियास्ताभिरनुभावो माहात्म्यं येषां ते तथा । अन्वयस्तु प्रागेवोक्तः । अनुजीविना जनेन सेवकजनेन क्रियमाणां विधीयमानामात्मविडम्बनामर्सद्गुणारोपलक्षणामभिनन्दन्ति प्रशंसन्ति । चकारः पूर्वोक्तसमुच्चयार्थः । भू राज्ञां पुनर्दोषान्तरमाह - मनसेति । देवताया हरिहरादेरध्यारोपण आरोपणं तेन विप्रतारणं वञ्चनं तस्मादिति । असदिति । असद्भूतासद्रूपा या संभावना देवरूपत्वेन निश्चयस्तेनोपहता विनष्टबुद्धयः । देवत्वाध्यारोपत्वनिमित्तमूलानि प्रदर्शयन्नाह - अन्तरिति । अन्तर्मध्ये प्रविष्टमपरमन्यद्भुजद्वयं यस्मिन्नेवंविधमिवात्मनो बाहुयुगलं स्वकीयं भुजयुगं संभावयन्ति संभावनाविषयीकुर्वन्ति । एतेन स्वस्मिंश्चतुर्भुजत्व ख्यापितम् । त्रिनेत्रत्वमप्याह - त्वगिति । त्वद्वृत्तिस्तयान्तरितं पिहितं तृतीयं लोचनं यस्मिन्नेतादृशं - टिप्प० - 1 आत्मनि अविद्यमाना अपि ये गुणास्तदारोपणरुपां विडम्बनाम् । 2 धूर्तेः कृतं देवत्वाऽध्यारोपणमेव प्रतारणं तस्मात् असद्भूता मिथ्याभूता या संभावना आत्मनो देवत्वेन निश्चयस्तेन उपहता नाशितबुद्धय इति व्याख्या । 'अध्यारोपप्रतारणाऽसंभूत' इत्यपि पाठः । देवत्वारोप एव प्रतारणा तयाऽसंभूता या संभावना आत्मनि देवत्वभानं तेन उपहता इति तत्र व्याख्या । पाठा० - १ परभवसत्वम्; परिभवसत्वम्. २ स्वच्छन्दता. ३ आख्यातिम्; ख्यातिः ४ तदलतां ५ अविशेषज्ञता. ६ अमानुषोचिताभिः ७ मत्तनिश्चयेन ८ तथेति यथेति. ९ आत्मारोपित १० अतिमानुष्यकम् ११ प्रतारणादसद्भूत; प्रतारणासंभूतः प्रतारणासद्भूत. 234 कादम्बरी । कथायाम् Page #248 -------------------------------------------------------------------------- ________________ दर्शनप्रदानमप्यनुग्रहं गणयन्ति । दृष्टिपातमप्युपकारपक्षे स्थापयन्ति । संभाषणमपि संविभागमध्ये कुर्वन्ति । आज्ञामपि वरप्रदानं मन्यन्ते । स्पर्शमपि पावनमाकलयन्ति । मिथ्यामाहात्म्यगर्वनिर्भराश्च न प्रणमन्ति देवताभ्यः, न पूजयन्ति द्विजातीन्, न मानयन्ति मान्यान्, नार्चयन्त्यर्चनीयान्, नाभिवादयन्त्यभिवादनार्हान्, नाभ्युत्तिष्ठन्ति गुरुन् । अनर्थकायासान्तरितोपभोगसुखमित्युपहसन्ति विद्वज्जनम्, जरावैक्लव्यप्रलपितमिति पश्यन्ति वृंद्धोपदेशम्, आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदेशाय, कुप्यन्ति हितवादिने । सर्वथा तमभिनन्दन्ति, तमालपन्ति, तं पार्धं कुर्वन्ति, त संवर्धयन्ति, तेन सह सुखमवतिष्ठन्ते, तस्मै ददति, तं मित्रतामुपजनयन्ति, तस्य वचनं श्रृण्वन्ति, तत्र वर्षन्ति, तं बहु मन्यन्ते, तमाप्ततामापादयन्ति, योऽहर्निशमनवरतमुपरचिताञ्जलिरधिदैवतमिव विगतान्यकर्तव्यः - *********** स्वललाट निजालिकमाशङ्कन्त आरेकाविषयीकुर्वते । दशेति । लोकानां दर्शनप्रदान स्वात्मप्रकटनमनुग्रहं प्रसाद गणयन्ति मन्यन्ते । दृष्टीति । दृष्ट्याश्चक्षुषः पातमवलोकनं तदप्युपकारपक्ष उपकृतिपक्षे स्थापयन्ति निक्षिपन्ति । संभाषेति । संभाषणं जल्पनं तदपि संविभागः पारितोषिक दानं तन्मध्ये कुर्वन्ति । पारितोषिकतुल्यं गणयन्तीत्यर्थः । आज्ञामिति । आज्ञामपि निदेशमपि वरप्रदानं समीहितप्रदान मन्यन्ते जानन्ति । स्पर्शः संश्लेषस्तदपि पावनं पूतं पवित्रमाकलयन्ति विचारयन्ति । मिथ्येति । मिथ्या वृथा यो माहात्म्यगर्यो माहात्म्याभिमानस्तेन निर्भरा भृता देवताभ्योऽर्हद्भ्यो न प्रणमन्ति नमस्कारं न कुर्वन्ति । द्विजेति । द्विजातीस्त्रयीमुखान्न पूजयन्ति वस्त्रपात्रादिप्रदानेन सत्कुर्वन्तीत्यर्थः । मान्यानिति । मान्यान्माननीयान मानयन्ति न संमानं ददते । नेति । अर्चनीयानर्चायोग्यानार्चयन्ति नार्चा कुर्वन्ति । नेति । अभिवादनार्हानुपसंग्रहयोग्यानाभिवादयन्ति न पादग्रहणं कुर्वन्ति । नेति । गुरुन्हिताहितप्राप्तिपरिहारोपदेष्ट्रन् न अभ्युत्तिष्ठन्ति नाभ्युत्थान कुर्वन्ति । अनर्थकेति । अनर्थको निष्फलो य आयासः प्रयासः श्रौतस्मातकर्मणि क्लेशस्तेनान्तरित व्यवहितमुपभोगोऽङ्गनादिकस्तजनितं सुखं सातं यस्येति कृत्वा विद्वज्जनं विबुधजनमुपहसन्त्युपहासं कुर्वन्ति । जरेति । जरा विस्त्रसा तस्या वैक्लव्यं विकलता तेन प्रलपितं जल्पितमिति कृत्वा वृद्धानां स्थविराणामुपदेशं शिक्षा पश्यन्ति । जानन्तीत्यर्थः । आत्मेति । आत्मनः स्वस्य या प्रज्ञा बुद्धिस्तस्याः परिभवः पराभव इति कृत्वा सचिवोपदेशाय प्रधानशिक्षाया असूयन्त्यसूयां कुर्वन्ति । हितेति । हितवादिने यथास्थितवादिने कुप्यन्ति कोपं कुर्वन्ति । सचिवोपदेशाय हितवादिन इति चतुर्थीद्वयमपि 'क्रुधद्रुह' इत्यादिना संप्रदानसंज्ञाया सत्या ज्ञेयम् । एतादृशं पुरुष सर्वथा स्तवन्तीत्याशयेनाह - तमिति । तं पुरुष सर्वथा सर्वप्रकारेणाभिनन्दन्ति प्रशंसन्ति । तमालपन्त्यालापं कुर्वन्ति । तं पुरुषं पार्थे समीपे कुर्वन्ति रक्षन्ति । तं संवर्धयन्ति वृद्धि प्रापयन्ति । तेनेति । तेन पुरुषेण सह सुख यथा स्यात्तथावतिष्ठन्तेऽवस्थानं कुर्वन्ति । तस्मायिति । तस्मै पुरुषाय ददति प्रयच्छन्ति । तमिति । तं पुरुष प्रति मित्रतां सुहृद्भावतामुपजनयन्ति निष्पादयन्ति । तस्येति । तस्य पुरुषस्य वचनं वाक्यं श्रृण्वन्ति । तत्रेति । तस्मिन्पुंसि वर्षन्ति पुनःपुनः प्रदानं कुर्वन्ति । तं पुरुषं बहु मन्यन्ते । अत्युत्कृष्टतया जानन्तीत्यर्थः । तमिति । तं प्रत्याप्ततां शिष्टतामापादयन्ति प्रतिपादयन्ति । तच्छब्दस्य यच्छब्दसापेक्षत्वादाह - य इति । यः पुमानहर्निशमहोरात्रं अनवरतं निरन्तरं विगतमन्यकर्तव्यं यस्यैवंभूत उपरचिताज्जलिः संयोजितकरपुटोऽधिदैवतमिवेष्टदेवता - - - - - - - - - - - - - -- टिप्प० - 1 मिथ्यादैवतमेव प्रणमन्ति न सम्यग्दैवतमिति तात्पर्यम् । 2 'तं मित्रतामुपनयन्ति' तं जन मित्रत्वं प्रापयन्तीति पाठान्तरः, तदर्थश्च । - - - - - - - - - - - - - - - पाटा० - १ प्रदाने. २ संस्पर्शनम्. ३ द्विजान्. ४ विषयोपभोग. ५ विद्वज्जनशीलम्. ६ न पश्यन्ति. ७ वृद्धजनोपदेशम्. ८ तस्य मन्त्रिताम्. ९ उपनयन्ति. १० तमात्मनापादयन्ति तस्माद्विभ्यति. शुकनासोपदेशः पूर्वभागः । 235 Page #249 -------------------------------------------------------------------------- ________________ स्तौति, यो वा माहात्म्यमुद्भावयति । किं वा तेषां सांप्रतं येषामतिनृशंसप्रायोपदेशनिर्घृणं कौटिल्यशास्त्रं प्रमाणम्, अभिचारक्रियाः क्रूरैकप्रकृतयः पुरोधसो गुरवः पराभिसंधानपरा मन्त्रिण उपदेष्टारः, नरपतिसहस्रभुक्तोज्झितायां लक्ष्म्यामासक्ति, मारणात्मकेषु शस्त्रेष्वभियोगः, सहजप्रेमार्द्रहृदयानुरक्ता भ्रातर उच्छेद्याः । ७ तदेवप्रायातिर्कुटिलकष्टचेष्टासहसदारुणे राज्यतन्त्रेऽस्मिन्महामोर्हंकारिणि च यौवने कुमार ! तथा प्रयतेथा यथा नोपहस्यसे जैनैः, न निन्द्यसे साधुभिः, न धिक्कियसे गुरुभिः, नोपलभ्यसे सुहृद्भिः, न शोच्यसे विद्वद्भिः, यथा च न प्रकाश्यसे विटैः, न प्रतार्यसेऽकुशलैः, नास्वाद्य से भुजङ्गैः, नावलुप्यसे सेवकवृकैः, न वञ्चयसे धूर्तेः, न प्रलोभ्यसे 'वैनिताभिः, न विडम्ब्यसे लक्ष्म्या, न नर्त्यसे मदेन, नोन्मत्तीक्रियसे मदनेन, नाक्षिप्यसे - ११ *********** मिव स्तौति नवीति । यो वेति । यो माहात्म्यं तद्गुणवर्णनालक्षणमुद्भावयत्युद्भावनां करोति । विभूतिमतां पुनर्दोषान्तरमाह - किं वेति । तेषां विभूतिमतां वाथवा किं सांप्रतं युक्तं येषां विभूतिमतामतिनृशंसप्रायो ऽतिनिस्त्रिंशबहुल उपदेशः शिक्षा निर्गता धृणा दया यस्मादेतादृशं कौटिल्यशास्त्रं यामलादि प्रमाणमिति । अभिचारक्रिया कृत्याप्रतिकृत्यादिरुपक्रिया । क्रूरेति । क्रूरा निस्त्रिंशैकाद्वितीया प्रकृतिः स्वभावो येषामेवंविधाः पुरोधसः पुरोहिता गुरवो धर्मोपदेशकाः । परेषामितरेषामभिसंधानं निरोधँस्तत्र परास्तत्परा मन्त्रिणः सचिवा उपदेष्टारः शिक्षादायकाः । नरेति । नरपतीनां यत्सहस्रं तेन भुक्ता चासावुज्झिता त्यक्ता चेति कर्मधारयः । एवंविधायां लक्ष्म्यामासक्तिः प्रेमाधिक्यम् । मारणेति । मारणं व्यापादनं तदेवात्मा स्वरूपं येषां तथाविधेषु शस्त्रेष्वभियोग उद्यमः । सहेति । सहजं स्वारसिक यत्प्रेम तेनार्द्रं स्विन्नं हृदयंयेषामत एवानुरक्ता एतादृशा भ्रातरः सहोदरा उच्छेद्या मूलत उन्मूलनीयाः । प्रकृतमुपसंहरन्नाह - तदेवमिति । तदिति हेत्वर्थे । एवंप्राये पूर्वोक्तस्वरुपबहुले । अतीति । अतिकुटिला अतिवक्राः कष्टदायिन्यश्चेष्टाः कायव्यापारास्तासां सहस्रं तेन दारुणे भीषणे । राज्यतन्त्र इति । राज्यस्य तन्त्रं इतिकर्तव्यता । ' इतिकर्तव्यता तन्त्रे' इत्यनेकार्थः । अस्मिन्ननुभूयमाने यौवने तारुण्ये च महामोहकारिणि महामौढ्यजनके । कुमारेति संबोधनम् । तथेति । तेनैव प्रकारेण प्रयतेथाः प्रयत्नं कृथाः । यथा येन प्रकारेण जनैर्लोकैर्भवांस्त्वं नोपहस्यसे न उपहासविषयीक्रियसे । साधुभिः सज्जनैर्न निन्द्यसे न निन्दाविषयीक्रियसे । गुरुभिर्धर्माचार्यैर्न धिक्कियसे न धिग्जीवितमित्यादिवाक्यगोचरीक्रियसे । सुहृद्भिर्मित्रैर्नोपालभ्यसे नोपलम्भविषयीक्रियसे । विद्वद्भिः पण्डितैर्न शोच्यसे न शोकविषयीक्रियसे । यथा विटैरसदाचरणकारिभिर्न प्रकाश्यसे न प्रकटीक्रियसे । अकुशलैरनाचारादिभिर्न प्रतार्यसे न प्रतारणाविषयीक्रियसे । भुजङ्गैर्गणिकापतिभिर्नास्वाद्य से गणिकार्थं द्रव्यवितरणद्वारा नोपभोज्यसे । सेवकाः सपर्याकारिण एव वृका ईहामृगास्तैर्नावलुप्यसे नानिष्टे प्रसज्यसे । नाकुलीक्रियस इत्यर्थः । धूर्तेः शठैर्न वञ्च्यसे न प्रतार्यसे । वनिताभिः स्त्रीभिर्न प्रलोभ्यसे न प्रलोभना विषयः क्रियसे । लक्ष्म्या श्रिया न विडम्ब्यसे न विडम्बनायुक्तः क्रियसे । न परित्यज्यस इत्यर्थः । मदेनाधिपत्यजनिताहंकारेण न नर्त्यसे न नृत्यं कार्यसे । मदनेन मनोभवेन न उन्मत्तीक्रियसे न चित्तविप्लवतामापाद्य से । विषयैरिन्द्रियार्थैर्नाक्षिप्यसे न प्रेर्यसे । रागेण स्नेहादिना न विकृष्यसे नाकृष्यसे । सुखेन सातेन नापिह्रियसे न - टिप्प० - 1 चाणक्यादिप्रणीतं नीतिशास्त्रम् । 2 श्येनयागादिरुपपरवधजनकक्रूरकृत्यम् । 3 प्रतारणम् । 4 विटैः स्वसमानतया जनसमाजे न प्रकटीक्रियसे इति तात्पर्यम् । 5 ‘न प्रहस्यसे कुशलैः' इत्यपि पाटः । अकुशलानां प्रतारणसामर्थ्यमेव कथमिति पाठान्तरसमर्थकानामभिप्रायः । पाठा० - १ असांप्रतम्. २ प्रायोपदेश. ३ शास्त्रेषु. ४ एवंप्राये. ५ कुटिल कुचेष्टा; कुटिलचेष्टा. ६ मोहान्धकारिणि ७ तथातथा ८ यथायथा. ९ जनेन. १० उपलभ्यसे. ११ प्रहस्यसे. १२ सर्ववनिताभिः. 236 कादम्बरी | कथायाम् Page #250 -------------------------------------------------------------------------- ________________ विषयैः, नावकृष्यसे रोगेण, नौपहियसे सुखेन । कामं भवान्प्रकृत्यैव धीरः, पित्रा च समारोपितसंस्कारः, तरलहृदयमप्रतिबुद्धं च मदयन्ति धनानि, तथापि भवद्गुणसंतोषो मामेवं मुखरीकृतवान् । इदमेव च पुनः पुनरभिधीयसे । विद्वांसमपि सचेतनमपि महासत्त्वमप्यभिजातमपि धीरमपि प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति । सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवान्नर्वयौवराज्याभिषेकमङ्गलम् । कुलक्रमागतामुद्वह पूर्वपुरषैरुढां धुरम् । अवनमयद्विषतां शिरांसि । उन्नमय स्वबन्धूवर्गम् । अभिषेकानन्तरं च प्रारब्धदिग्विजयः परिभ्रमन्विजितामपि तेव पित्रा सप्तद्वीपंभूषणां पुनर्विजयस्व वसुंधराम् । अयं च ते कालः प्रतापमारोपयितुम् । आरुढप्रतापी राजा त्रैलोक्यदर्शीव सिद्धादेशो भवति' इत्येतावदभिधायोपशशाम । उपशान्तवचसि शुकनासे चन्द्रापी 99 टिप्प० *********** परित्यज्यसे । काममत्यर्थं सकलशास्त्रवेत्तृभिः शिक्षिते त्वय्युपदेशोव्यर्थ इत्यर्थः । पुनराह - प्रकृत्येति । प्रकृत्या स्वभावेन धीरो धैर्यवान् । यद्यपीति पूरणीयम् । कीदृक् । पित्रा चेति । पित्रा चकारान्मयापि समारोपिता विहिताः संस्कारो जातकर्मादयः । अथ च तत्तद्गुणविशेषाश्च यस्यैवंभूतः । अथवान्यदप्याह - तरलेति । तरलं चञ्चलं हृदयं चेतो यस्य स तमप्रतिबुद्धं बोधरहितं च पुरुषं धनानि द्रव्याणि मदयन्ति मदं जनयन्ति । अहं तु न तथानुनयाहमीति । येनोपदेशः सार्थकः स्यादिति तदभिप्रायमाशङ्क्योत्तरमाह - तथापीति । अनुपदेश्यत्वेऽपि भवद्गुणैः शौर्यादिभिर्यः संतोषो मनसस्तुष्टिर्मां शुकनासमेवं पूर्वोक्तप्रकारेण मुखरीकृतवांस्तादृग्वाग्व्यापारे प्रवर्तितवान् । अहार्यविपरीतशङ्कानिवृत्तयेऽयमुपदेश इत्यत आह - इदमेवेति । इदं पूर्वोक्तं पुनःपुनर्वारंवारमभिधीयसे कथ्यसे । अहार्यशङ्कामुद्घाटयति - विद्वांसमिति । विद्वांसमपि पण्डितमपि सचेतनमपि ज्ञानवन्तमपि महासत्त्वमपि महासाहसमप्यभिजातमपि कुलीनमपि धीरमपि धैर्यवन्तमपि प्रयत्नवन्तमप्युद्योगयुक्तमपि पुरुषं लक्ष्मीः श्रीः खलीकरोति सन्मार्गात्स्खलनां प्रापयति । अत्र सर्वत्रापिशब्दः कैमुतिकन्यायपरः । अयमप्येवं करोति । अन्यस्य का वार्तेत्यर्थः । तत्र हेतुमाह यत इयं दुर्विनीता । अपगतविनयेत्यर्थः । भवांस्त्वं पित्रा जनकेन कल्याणैर्मङ्गलैः क्रियमाणं विधीयमानं नवयौवनस्य यो राज्याभिषेकस्तल्लक्षणं यन्मङ्गलं श्रेयोऽनुभवत्वनुभवविषयीकरोतु । पूर्वपुरुषै कुलक्रमागतां परंपरायातां धुरं राज्यभारमुद्वहोद्वहनं कुरु । अवेति । द्विषतां शत्रूणां शिरांस्युत्तमाङ्गान्यवनमय नम्राणि कुरु । स्वबन्धुवर्गं स्वजनसमुदायमुन्नमयोर्श्वीकुरु । अभीति । अभिषेकानन्तरं यौवराज्याभिषेकादनु । प्रारब्धेति । प्रारब्धः प्रस्तुतो दिग्विजयो येन सः परिभ्रमन्प्रतिदिशं दिशं दिशंप्रति गच्छंस्तव पित्रा त्वज्जनकेन विजितामपि स्वायत्तीकृतामपि सप्तद्वीपभूषणां सप्तसंख्याका द्वीपा जम्बूप्रभृतयो भूषणं यस्या एवंविधां वसुंधरां पुनर्द्वितीयवारं विजयस्व स्वायत्तीकुरु । यमिति । प्रतापं कोशदण्डजं तेज आरोपयितुं लब्धास्पदं कर्तु ते तवायं कालः स्वमयः । समागत इति शेषः । तस्य फलं प्रदर्शयन्नाह - आरूढेति । आरुढो लब्धास्पदः प्रतापो यस्यैवभूतो राजा त्रैलोक्यदर्शीय योगीव सिद्धो निष्पन्न आदेश आज्ञा यस्य स तथा । त्रिकालदर्श्यपि सिद्धादेशो भवति । यथा वदति तथैव भवतीत्यर्थः । इतीति । इति परिसमाप्तौ । एतावन्मात्रमभिधायोक्त्वोपशशाम विरतवाग्व्यापारो बभूव । उपेति । उपशान्तवचस्युपरतवाग्व्यापारे तस्मिञ्शुकनासे सति चन्द्रापीडस्ताभिः पूर्वोक्ताभिरुपदेश - 1 समारोपितः शिक्षार्पणैः संस्थापितः संस्कारः सर्वविषयज्ञानं यस्य सः । इत्यर्थ उचितः । शुकनासोपदेशः - पाठा० - १ विकृष्यसे; रज्यसे; आकृष्यसे. २ रागैः. ३ उपह्नियसे. ४ च महता प्रयलेन. ५ एव. ६ नवयौवन; यौवन. ७ अनेकमङ्गलम् ८ बन्धुवर्गम्. ९ भवत्. १० द्वीप - समुद्रभूषणाम् ११ हि राजा. १२ वचने. पूर्वभागः । 237 Page #251 -------------------------------------------------------------------------- ________________ डस्ताभिरुपदेशवाग्भिः प्रक्षालित इव, उन्मीलित इव, स्वच्छीकृत इव, निर्मुष्ट इव, अभिषिक्त इव, अभिलिप्तइव, अलंकृत इव, पवित्रीकृत इव, उद्भासित इव, प्रीतहृदयो मुहूर्तं स्थित्वा स्वभवनमाजगाम । ततः कतिपयदिवसापगमे च राजा स्वयमुत्क्षिप्तमङ्गलकलशः सह शुकनासेन पुण्येऽहनि पुरोधसा संपादिताशेषराज्याभिषेकमङ्गलमनेकनरपतिसहस्त्रपरिवृतः सर्वेभ्यस्तीर्थेभ्यः सर्वाभ्यो नदीभ्यः सर्वेभ्यश्च सागरेभ्यः समाहृतेन सेर्वोषधिभिः सर्वफलैः सर्वमृद्भिः सर्वरत्नैश्च परिगृहीतेनानन्दबाष्पजलमिश्रेण मन्त्रपूतेन वारिणा सुतमभिषिषेच । अभिषेकसलिलादेहं च तं लतेव पादपान्तरं निजपादपममुञ्चत्यपि तारापीडं तत्क्षणमेव संचक्राम राज्यलक्ष्मीः । अनन्तरमखिलान्तः पुरपरिवृतया च प्रेमाहृदयया विलासवत्या स्वयमापादतलादामोदिना चन्द्रातपधवलेन चन्दनेनानुलिप्तमूर्तिः, अभिनवविकसितसितकुसुमकृतशेखरः, गोरोचनाच्छुरितदेहः, दूर्वाप्र - *********** वाग्भिः शिक्षावचनैः प्रक्षालित इव धौत इव, उन्मीलित इव विकसित इव, स्वच्छीकृत इव स्वच्छता प्रापित इव, निर्मुष्ट इव मसृणीकृत इव, अभिषिक्त इव स्नपित इव, अभिलिप्त इव प्रलिप्त इव, अलंकृत इव भूषित इव, पवित्रीकृत इव पावनीकृत इव, उद्भासित इवोद्दीपित इव । प्रीतेति । प्रीतं संतुष्टं हृदयं चेतो यस्यैवंभूतो मुहूर्तं घटिकाद्वयं स्थित्वावस्थानं कृत्वा स्वभवनं निजसमाजगामाययौ । तत इति । ततस्तदनन्तरं कतिपयदिवसापगमे कियद्वासरातिक्रमे च राजा नृपः सुतं तनयं वारिणा जलेनाभिषिषेच स्नपयांचकार । राजानं विशिनष्टि - स्वयमिति । स्वयमात्मनोत्क्षिप्त ऊर्ध्वं नीतो मङ्गलाभिधानः कलशो येन स तथा । शुकनासेन मन्त्रिणा सह पुण्येऽहनि पवित्रे वासरे । सुतं विशेषयन्नाह - पुरोधसेति । पुरोधसा पुरोहितेन संपादितं विहितमशेष समग्र राज्याभिषेकलक्षण मङ्गल यस्य स तम् । राजानं विशिनष्टि - अनेकेति । अनेके भिन्नभिन्नदेशोद्भवा ये नरपतयो राजानस्तेषां सहस्त्रं तेन परिवृतः सहितः जलं विशिनष्टि - सर्वेभ्य इत्यादि । सर्वेभ्यः समग्रेभ्यस्तीर्थेभ्यो मागधादिभ्यः । सर्वाभ्यो नदीभ्यस्तटिनीभ्यः । सर्वेभ्यः सागरेभ्यः । समुद्रान्तर्वर्तिस्थलेभ्य इत्यर्थः । अन्यथा सागरस्यैक्याबहुवचनमनर्थक स्यात् । समाहृतेनैकीकृतेन । पुनस्तदेव विशिनष्टि - सर्वोषधीति । सर्वाः समग्रा ओषधयः फलपाकान्तास्ताभिः सर्वफलैः समग्रसस्यैः सर्वमृद्भिः समग्रतीर्थोद्भवमृत्तिकाभिः सर्वरत्नैः समग्रमणिभिः परिगृहीतेन स्वीकृतेन । आनन्देति । आनन्दःप्रमोदस्तजनितं यद्वाष्पजलतेनमिश्रेण संपृक्तेनेति जलविशेषणम् । मन्त्रेति । मन्त्रो देवाधिष्ठातृकस्तेन पतेन पवित्रेणेति तस्यैव विशेषणम् । अभीति । अभिषेकस्य यौवराज्याभिषेकस्य यत्सलिलं पानीयं तेनाः स्विन्नो देहो यस्यैवंभूतं तं चन्द्रापीड राज्यलक्ष्मीराधिपत्यश्रीः अन्य पादपं पादपान्तरं लतेव वल्लीव निजपादपं स्वकीयवृक्षममुञ्चत्यप्यत्यज्य(ज)न्त्यपि तारापीडं तत्क्षणमेव तत्कालमेव संचक्राम प्रविष्टा बभूव । अनन्तरमिति । अनन्तरं यौवराज्याभिषेकानन्तरम् । अखिलेति । अखिल यदन्तःपुरमवरोधस्तेन परिवृतया सहितया प्रेम्णा स्नेहेनार्दै हृदयं यस्याः सा तया विलासवत्या स्वकीयजनन्या स्वयमात्मनामोदिनामोदः परिमलः स विद्यते यस्मिन्नेतादृशेन चन्द्रातपश्चन्द्रगोलिका तद्वद्धवलेन शभ्रेण चन्दनेन मलयजेनापादतलात पादतलं मर्यादीकत्यानलिप्ता कृताङ्गरागा मूर्तिर्यस्य सः । अभीति । अभिनवानि प्रत्यग्राणि विकसितानि विनिद्राणि सितानि श्वेतानि यानि कुसुमानि पुष्पाणि तेषां कृतो विहितः शेखरोऽवतंसो यस्य सः । गोरेति । गोरोचनेनाच्छुरितश्छुटितो देहो यस्य सः । दूर्वेति । दूर्वा शतपर्विका तस्याः प्रवालैः - - - - - - - - - - - - -- टिप्प० - 1 सप्त सागरा इति प्रसिद्धेः 'सिन्धु संज्ञया सप्तसंख्या प्रसिद्धैव । 2 चन्द्रकिरणाः, चन्द्रिका । 3 लिप्तः, रञ्जितः । पाठा० - १ ताभिरमलाभिरुपदेश. २ स्वस्थीकृतः. ३ सर्वोषधीभिः. ४ निजपादपं पादपान्तरम्; पादपं निजपादपान्तरम्. ५ विकसितकुसुम. ६ गोरचना. सार पर (238 कादम्बरी। कथायाम् Page #252 -------------------------------------------------------------------------- ________________ वालरचितकर्णपूरः, दीर्घदशमनुपहतमिन्दुधवलं दुकूलयुगलं वसानः, पुरोहितप्रतिबद्धप्रतिसरप्रसाधितपाणिः, नवराजलक्ष्मीकमलिनीमृणालेनाभिषेकदर्शनार्थमागतेन सप्तर्षिमण्डलेनेवहारेणालिङ्गितवक्षस्थलः, सितकुसुमग्रथिताभिराजानुलम्बिनीभिरिन्दुकरकेलाभिकक्षसग्भिनिरन्तरनिचितशरीरतया धवलवेषपरिग्रहतया च नरसिंह इव विधूतकेसरनिकरः, कैलास इव सवत्सोतस्विनीसोतोराशिः, ऐरावत इव मन्दाकिनीमृणालजालजटिलः, क्षीरोद इव स्फुरितफेर्नलवाकुलस्तत्कालप्रतिपन्नवेत्रदण्डेन पित्रा स्वयं पुरःप्रारब्धसमुत्सारणः सभामण्डपमुपगम्य काञ्चनमयं शशीव मेरुश्रृङ्ग चन्द्रापीडः सिंहासनमारुरोह । आरूढस्य चास्य कृतयथोचितसकलराजलोङसमानस्य मुहूर्त स्थित्वा दिग्विजयप्रयाणा - *********** किसलयै रचितो निर्मितः कर्णपूरः कर्णावतंसो येन सः । दीर्घेति । दीर्घा आयता दशा वर्तयो यस्यैवंभूतमनुपहतमखण्डमिन्दुश्चन्द्रस्तद्वद्धवलं घेतं दुकूलयुगलं दुगूलयुग्मं वसानो दधानः । पुरो इति । पुरोहितेन पुरोधसा प्रतिबद्धो यः प्रतिसरी हस्तसूत्रं तेन प्रसाधितोऽलंकृतः पाणिर्यस्य सः । राजानं विशिनष्टि - नवेति । नवा प्रत्यग्रा या राजलक्ष्मीराधिपत्यश्रीः सैवोल्लसत्त्वसाम्यात्कमलिनी नलिनी तस्या आयतत्वसाम्यान्मृणालेनेव बिसेनेव । मुक्तासु संक्रान्तमुखत्वेनोपमानान्तरमाविःकर्तुमाह - अभीति । अभिषेकदर्शनार्थं यौवराज्याभिषेकावलोकनार्थमागतेन प्राप्तेन सप्तर्षिमण्डलेनेव मरीचिप्रभृतिमुनिसमुदायेनैवंविधेन हारेण मुक्ताप्रालम्बेनालिङ्गितमाश्लिष्टं वक्षस्थल भुजान्तरं यस्य स तथा । सितेति । सितानि श्वेतानि यानि कुसुमानि पुष्पाणि तैर्ग्रथिताभिर्गुम्फिताभिराजान्वानलकील यावल्लम्बन्त इत्येवंशीला आजानुलम्बिन्यस्ताभिः । इन्दुरिति । इन्दुश्चन्द्रस्तस्य कराः किरणास्तद्वत्कला मनोहरास्ताभिः । वैकक्षेति । वैकक्षमुत्तरीयक तद्वत्स्थापिताभिः सग्भिर्मालाभिर्निरन्तरं निचितं व्याप्तं शरीरं यस्य तस्य भावस्तत्ता तया । धवलेति । धवलः शुभ्रो यो वेषो नेपथ्यं तस्य परिग्रहः स्वीकारो यस्य तस्य भावस्तत्ता तया । चेति । चकार उभयसमुच्चयार्थः । उभयसमुच्चयेन द्वयोरुत्प्रेक्षामाह - नरेति । नरसिंह इव नृसिंहावतार इव । कीदृक् । विधूतः कम्पितः केसरनिकरः सटासमूहो येन सः । अत्र केसरस्वजोः साम्यम्, वेषशरीरचर्मणोः साम्यं चेति भावः । कैलासेति । कैलास इव रजताद्रिरिव । एवं विशिनष्टि - सवदिति । सवन्त्याः क्षरन्त्याः स्रोतस्विन्या गङ्गायाः सोतोराशिः प्रवाहसमूहो यस्मिन् । अत्र कैलासवेषयोः साम्यम्, सक्स्रोतस्विन्योः साम्यं च दर्शितम् । ऐरावतेति । ऐरावत इव हस्तिमल्ल इव । एनं विशिनष्टि - मन्दाकिनीति । मन्दाकिन्या गङ्गाया यन्मृणालजालं बिससमूहस्तेन जटिलो व्याप्तः । पुनर्धवलवेषसाम्यनिमित्तकमुत्प्रेक्षान्तरमाह - क्षीरोदेति । क्षीरोदः क्षीरसमुद्रस्तद्वदिव । एनं विशेषयन्नाह - स्फुरितेति । स्फुरिता दीप्यमाना ये फेनलवा डिण्डीरांशास्तैराकुलो व्याप्तः । तदिति । तत्काले तदात्वे प्रतिपन्नः स्वीकृतो वेत्रदण्डो वेतसयष्टिर्येनैवंविधेन पित्रा जनकेन स्वयमात्मना पुरोऽग्रे प्रारब्धं प्रस्तुतं समुत्सारणं जननिवारणं येन सः । सभामण्डपमास्थानमण्डपमुपगम्य समीपे गत्वा काञ्चनमयं मेरुश्रृङ्गं स्वर्णाद्रिशिखर शशीव हिमद्युतिरिव चन्द्रापीडो युवराट् काञ्चनमयं सिंहासनं नृपासनमारुरोहारूढवान् । आरूढस्य च तदुपविष्टस्य च । अत्र चकारः पुनरर्थकः । अस्य चन्द्रापीडस्य कृतो विहितो यथोचितं यथायोग्यं सकलराजलोकस्य समग्रनृपजनस्य समानः सत्कारो येन स तस्य । मुहूर्तं घटिकाद्वयं स्थित्वोप - - - - - - - - - - - - - - टिप्प० - 1 प्राञ्चलवर्तिन्यः सूत्रवार्तिकाः । 2 शुक्लत्वसाम्यादेव सप्तर्षीणामुपमानता । 3 अग्रवर्तिन्यः सर्वा उपमाः । 4 क्षीरोद इवेत्यप्युपमैव । यदा पूर्वोक्ताः उपमा एकत्रोपमेये संघटितास्तदा सेयं मालोपमा । - - - - - - - - - - - - - - - - - - - - - - पाटा० - १ अभिनव. २ कोमलाभिः; कलापकोमलाभिः. ३ वैकक्षक. ४ विधृत; विधुत. ५ फेनतला. ६ आगम्य. ७ संधानस्य. चन्द्रापीडस्य दिग्विजययात्रा पूर्वभागः । 239 Page #253 -------------------------------------------------------------------------- ________________ शंसी प्रलयघनघटाघोषघर्घरध्वनिरुदधिरिव मन्दरपातैः, वसुंधरापीठेमिव युगान्तनिर्घातैः, उत्पातजलधर इव तडिद्दण्डपातैः, पातालकुक्षिरिव महावराहघोणाभिघातैः, कनककोणैरभिहन्यमानः प्रस्थानदुन्दुभिरामन्थरं दध्यान । येन ध्वनता समाध्मातानीवोन्मीलितानीव पृथकृतानीव विस्तारितानीव गर्भीकृतानीव प्रदक्षिणीकृतानीव बधिरीकृतानीव रवेण भुवनान्तराणि विश्लेषिता इव दिशामन्योन्यबन्धसंधयः । यस्य च भयवशविषमचलितोत्तानफणासहस्रणालिङ्ग्यमान इव रसातले शेषेण, मुहुर्मुहुरभिमुखंदन्तोघातैराहूयमान इव दिक्षु दिक्कुञ्जरैः, संत्रासरचितरेचकमण्डलैः प्रदक्षिणीक्रियमाण इव नभसि दिवसकररथुतुरङ्गमैः, अपूर्वशर्वाट्टहासशङ्काहर्षहुकृतेनाश्रुतपूर्व आभाष्यमाण इव कैलासशिखरिणि त्र्यम्बकवृषभेण, - *********** विश्य तदनन्तरं दिग्विजयार्थं यत्प्रयाणं गमनं तस्याशंसी कथकः प्रस्थानदुन्दुभिर्यात्रापटह आमन्थर नात्युच्च यथा स्यात्तथा दध्वान शब्द चकार । अथ दुन्दुभिं विशेषयन्नाह - प्रलयेति । प्रलयकालानां लीना कल्पान्तसमयोद्भवा या घनघटा कादम्बिनी तस्या घोषो गर्जित तद्वद्धर्धरः कठिनो ध्वनिः शब्दो यस्य सः । किंक्रियमाणः । अभिहन्यमानः । कैः । कनकस्य सुवर्णस्य कोणाः पटहवादनदण्डास्तैः । 'कोणो वीणादिवादनम् इति कोशः । क इव । उदधिः समुद्रस्तद्वदिव मन्दरो मेरुस्तस्य पातैः पुनःपुनः पतनैः । वसुधरेति । वसुंधरा पृथ्वी तस्याः पीठं मूलभागस्तद्वदिव युगान्ते कल्पान्ते निर्घाता दिशां महान्तः शब्दाः श्रूयन्ते तैः । उत्पातेति । उत्पातो जन्यं तज्जनितो यो जलधरो मेघस्तद्वदिव तडिद्दण्डा विद्युद्दण्डास्तेषां पातैः प्रपतनैः । पातालेति । पातालं बलिवेश्म तस्य कुक्षिमध्यप्रदेशस्तद्वदिव । महेति । महावराहः कृष्णावताररूपस्तस्य घोणा विकूणिका तस्या अभिघातैः प्रहारैः । येनेति । येन दुन्दुभिना । कर्तरि तृतीया । ध्वनता शब्दं कुर्वता रवेण शब्देन भुवनान्तराणि विश्वविवराणि समाध्मातानीवापूरितानीवोन्मीलितानीव विकसितानीव पृथकृतानीव भिन्नीकृतानीव विस्तारितानीव विपुलीकृतानीव गर्भीकृतानीवान्तर्हितानीव प्रदक्षिणीकृतानीवावर्तीकृतानीव बधिरीकृतानीवाकर्णीकृतानीव जातानीति सप्तभिः समाध्मातादिभिः संबध्यते । विश्लेषिता इति । दिशां ककुभामन्योन्यं परस्परं बन्धस्य बन्धविशेषस्य संधयः संश्लेषा विश्लेषिता विघटिता इव । यस्य चेति । दुन्दुभिना संबध्यते । निनादापेक्षया षष्ठी । यस्य दुन्दुभेनिनादः शब्दस्त्रिभुवन विष्टपत्रयं बभ्राम भ्रमणं चकार । अत्रोत्प्रेक्षते - भयेति । भयवशेन भीतिवशेन विषमं स्थपुटं चलितं पश्चादागतमुत्तानमूर्ध्वमुखंफणासहस्त्र यस्यैवंविधेन शेषेण नागाधिपेन रसातले वडवामुख आलिङ्ग्यमान इवाश्लिष्यमाण इव मुहुर्मुहुरिवारं दिक्षु दिशासु दिक्कुञ्जरैर्दिङ्नागैराहूयमान इव निमन्त्र्यमाण इवाभिमुखं संमुखं ये दन्तानां रदानामूर्ध्वघाता ऊर्ध्वप्रहारास्तै । संत्रासेति । संत्रासेन भयेन रचितं रेचकमण्डल तिर्यग्भ्रमणमण्डलं येरेवंविधैर्दिवसकररथतुरङ्गमैः सूर्यरथसप्तसप्तिभिर्नभसि विहायसि प्रदक्षिणीक्रियमाण आवर्तीक्रियमाण इव । अपूर्वेति । अपूर्वोऽश्रुतपूर्वो यः शर्वस्य भवानीपतेरट्टहासो महान्हासस्तस्य शङ्कारेका तया हर्षः प्रमोदस्तस्माद्यद्धंकृतं तेन हुंकारेण कैलासशिखरिणि रजताद्रिसानुनि त्र्यम्बकवृषभेणेश्वरबलीवनाभाष्यमाण इवोच्यमान इव । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 केचनाऽत्रेद वदन्ति- यदा प्रलयघनघटादिघोरशब्दैः साम्यं ततोपि नात्युच्चता ? अतः आमन्थरम् अतीव विशालमिति व्याख्यानमुचितम् । 'मन्थरः सूचके कोशे वक्र मन्दे पृथौ मथि । मन्थरं तु कुसुम्भ्यां स्यात्' इति हेमः । 2 'मन्दरघातैः' इत्यपि पाठः । मथ्यमानतादशायां विलोडनकृतो घात एट भवति न पुनः पातः । 3 अत्रेदं कस्यचिद् विप्रतिपत्तिः उत्पातसमये आकाशादभिपतिता वायुविशेषा निर्घाताः 'वायुनाभिहतो वायुर्गगनात्पतितः क्षिती । यदा दीप्तः खगरुतः स निर्घातोतिदोषकृत् ॥ नारदसंहिता । 4 आलप्यमान इवेत्युचितम् । पाठा० - १ घातैः. २ पीठः. ३ चण्डपातैः. ४ कनककणैः; कणकणैः. ५ येन च. ६ उन्मीलितानीव मुखरीकृतानीव पृथकृतानीव. ७ वलित. ८ दत्तदन्त. ९ तुरगे. १० हुकृतेनाभाष्यमाणः. 240 कादम्बरी। कथायाम् Page #254 -------------------------------------------------------------------------- ________________ कृतगम्भीरकण्ठगर्जितेन प्रत्युद्गम्यमान इव मेरोवैरावतेन, अश्रुतपूर्वरवरोषावेशतिर्यगवनमितविषाणमण्डलेन प्रणम्यमान इव विबुधसनि कृतान्तमहिषेण, संत्रस्तलोकपालाकर्णितो बभ्राम त्रिभुवनं निनादः । ततो दुन्दुभिरवमाकर्ण्य जयजयेति च सर्वतः समुद्भुष्यमाणजयशब्दः सिंहासनात्सह द्विषतां श्रिया संचचाल चन्द्रापीडः । समन्तात्ससंभ्रमोत्थितैश्च परस्परसंघट्टविघटितहारसूत्रविगलिताननवरतमाशाविजयप्रस्थानमङ्गललीलालाजानिव मुक्ताफलप्रकरान्क्षरद्भिः, पारिजात इव सितकुसुममुकुलपातिभिः कल्पपादपैः, ऐरावत इव विमुक्तकरशीकरैराशागजैः, गगनाभोग इव तारागणवर्षिभिदिगन्तरैः, जलदकाल इव स्थूलजललवासारस्यन्दिभिर्जलधरैरनुगम्यमानो नरपतिसहस्त्रैरास्थानमण्डपान्निरगात् । निर्गत्य च पूर्वारुढया पत्रलेखयाध्यासितान्तरासनामुपपादितप्रस्थानसमुचितमङ्गल्यालं - *********** कृतेति । कृतं विहितं गम्भीरमत्युच्चं कण्ठगर्जितं येनैवंविधेनैरावतेनाभ्रसुप्रियेण प्रत्युद्गम्यमान इवाभिमुखं यायमान इव । अश्रुतेति । अश्रुतपूर्वोऽनाकर्णितपूर्वो यो रवः शब्दस्तेन जनितो रोषो रुट् तस्यावेशोऽपस्मारस्तेन तिर्यगवनमितं नम्रीभूतं विषाणमण्डलं श्रृङ्गमण्डलं यस्यैवंविधेन विबुधसद्मनि देवलोके कृतान्तमहिषेण यमकासरेण प्रणम्यमान इव नमस्क्रियमाण इव । संत्रस्तेति । संत्रस्ताश्चकिता ये लोकपालाः सोमाद्यास्तैराकर्णितः श्रवणविषयीकृतः । ततस्तदनन्तरं दुन्दुभिरवं पटहरवं जयजयेति च शब्दम् । चकारः पुनरर्थकः । आकर्ण्य निशम्य सर्वतः सर्वत्र समुद्भुष्यमाण उद्घोषणाविषयीक्रियमाणो जयशब्दो यस्य स तथा । एवंविधश्चन्द्रापीडो द्विषतां शत्रूणां श्रिया लक्ष्म्या सह सिंहासनात् संचचाल चलितो बभूव । क्रमेणास्थानमण्डपान्निरगानिर्गतो बभूवेत्यन्वयः । किंविशिष्टः । नरपतिसहस्त्रैभूमिपतिदशशतैरनुगम्यमानोऽनुव्रज्यमानः । अथ नरपतीनां विशेषणानि - समन्तादिति । समन्तादेकवारं ससंभ्रमं त्वरितमुत्थितैः कृतोत्थानैः । किं कुर्वद्भिः । मुक्ताफलप्रकरान्मौक्तिकसमूहान्क्षरद्भिर्विकिरद्भिः । किंविशिष्टान् । परस्परं अन्योन्यं यः संघट्टः संमर्दस्तेन विघटितं त्रुटितं यद्धारसूत्रं तेन विगलितांश्च्युतान् । कानिव । अनवरतं निरन्तरमाशाविजयो दिग्विजयस्तदर्थं प्रस्थानं गमनं तस्मिन्मङ्गलस्य विघ्नवारकस्य या लीला विलासस्तस्य लाजानिवाक्षतानिव । मङ्गलनिमित्तं लीलया लाजाः प्रक्षिप्यन्त इति भावः । कैः क इवानुगतः । पारीति । कल्पपादपैर्देववृक्षरनुगतः पारिजात इव मन्दार इव । एतान् विशिनष्टि - सितेति । सितकुसुमानां श्वेतपुष्पाणां यानि मुकुलानि गुच्छानि तानि पातयन्त्येवंशीलास्तैः । ऐरावतेति । आशागजैर्दिग्गजैरनुगत ऐरावत इव श्वेतगज इव किंविशिष्टैः । विमुक्तेति । विमुक्तास्त्यक्ताः करेभ्यः शुण्डादण्डेभ्यः शीकराः पृषता यैः । गगनेति । दिगन्तरैर्दिशां विचालैरनुगतो गगनाभोग इव व्योमविस्तार इव । कीदृशैः । तारेति । ताराणां नक्षत्राणां गणः समूहस्तं वर्षन्तीत्येवंशीलास्तैः । जलदेति । जलधरैर्मेधैरनुगतो जलदकाल इव प्रावृट्समय इव । कीदृशैः । स्थूलेति । स्थूलाः स्थविष्ठा ये जललवाः पानीयबिन्दवस्तेषामासारो वेगवान्वृष्टिस्तं स्यन्दन्तीत्येवंशीलास्तैः । अत्र श्वेतत्वानुगत्वाभ्यां त्रिभिरप्यनुमानं बोध्यम् । अन्वयस्तु प्रागेवोक्तः । ततो निर्गत्य बहिरागत्य । चकारः पुनरर्थे । निर्गन्तुमिति । नितरामतिशयेन गन्तुं यातुमारेभ आरम्भं चकार । किं कृत्वा । संसंभ्रमेण वेगेनाधोरणा हस्तिपकास्तैरुपनीतामानीतां करेणुकां वशामारुह्यारोहणं कृत्वा । अथ करेणुकां विशिनष्टि - पूर्वेति । पूर्वारुढेति पूर्व प्रथममारुढयोपरिस्थितया पत्रलेखया ताम्बूलकरङ्कवाहिन्या ध्यासितमाश्रितमन्तरासनं नृपासनात्पृथगासनं यस्याः सा ताम् । उपेति । उपपादितो विहितः प्रस्थानसमुचितः - टिप्प० - 1 'मेरावैरावतेन' इति यदा पाठः स्वीकृतस्तदा 'मेरौ सुमेरुपर्वते ऐरावतेन गौरवसूचनार्थं प्रत्युद्गम्यमान इव' इति व्याख्यानमुचितम् । 2 'यमसद्मनि' इत्यपि पाठः, तत्रैव कृतान्तमहिषौचित्यात् केनचित् परिगृहीतः । 39. सोमः २. यमः ३. वरुणः ४. कुबेरः, इति चत्वारो दिशांपाला अत्र परिगृहीताः । 4 वेगवतीति तात्पर्यम् । 5 उपमानमित्यर्थः । पाठा० - १ इवैरावतेन. २ विबुधसमनि. ३ रवजनितरोषः; इव रोष. ४ यमसद्मनि. ५ त्रिभुवनमखिलम्. ६ विघट्टित. ७ मङ्गललीलाबीजानीव; मङ्गललाजानिव. ८ कुलूतेश्वरपुत्र्या - - - - - - - - - - - - - - - - - - - - - - - - - - - - समध्यासित. (दिग्विजयप्रस्थानम् । पूर्वभागः ।। 1241 Page #255 -------------------------------------------------------------------------- ________________ कारां ससंभ्रमाधोरणोपनीतां करेणुकामारुह्याचलरेचकचक्रीकृतक्षीरोदावर्तपाण्डुरेण दशवदनबाहुदण्डावस्थितकैलासकान्तिना मुक्ताफलजालिना शतशलाकेनातपत्रेण निवार्यमाणातपो निर्गन्तुमारेभे । निर्गच्छंश्चाभ्यन्तरावस्थित एव प्राकारान्तरितदर्शनानां प्रतिपालयतां राज्ञामुन्मयूखानां चूडामणीनामलैक्तकद्रवद्युतिमुषा बहलेनालोकबालातपेन राज्याभिषेकानन्तरप्रसृतेन स्वप्रतापवह्निनेवात्यर्थं पिञ्जरीर्क्रियमाणा दश दिशो यौवराज्याभिषेकजन्मना निजानुरागेणेव रज्यमानमवनितलमासन्नरिपुविनाशपिशुनेन दिग्दाहेनेव पाटलीक्रियमाणमम्बरतलमभिमुखागतभुवनतललक्ष्मीचरणालक्तकरसेनेव लोहितायमानातपं दिवसं ददर्श । विनिर्गतश्च संसंभ्रमप्रचलितगन्धगजघटासहस्त्रैरन्योन्यसंघट्टजर्जरितातपत्रमण्डलैरादरार्वनतमौलिशिथिलमणिमुकुटपङ्क्तिभिरावर्जितर्कर्णपूरैः कपोलस्थलस्खलितकुण्डलै राजाप्तसेनापतिनिर्दिश्ये ** `प्रयाणयोग्यो मङ्गलं यातीति मङ्गल्योऽलंकारो भूषा यस्यां (स्याः) सा ताम् । अचलेति । अचलरेचको मन्दरभ्रमणं तेन चक्रीकृतश्चक्रतां प्रापितो यः क्षीरोदः क्षीरसमुद्रस्तस्यावर्ताः पयसां भ्रमास्तद्वत्पाण्डुरेण शुभ्रेण । दशेति । दशवदनो लङ्काधिपतिस्तस्य वा भुजदण्डास्तत्रावस्थितः कृतावस्थानो यः कैलासो रजताद्रिस्तद्वत्कान्तिः प्रभा यस्य स तेन । मुक्तेति । मुक्ताफलानां जालानि विद्यन्ते यस्मिन्स तेन । शतेति । शतसंख्याः शलाकाः स्वर्णनिर्मिता ईषिका यस्मिन्स तेनैवंविधेनातपत्रेण छत्रेण निवार्यमाणो दूरीक्रियमाण आतपः सूर्यालोको यस्य स तथा । अन्वयस्तु प्रागेवोक्तः । निरिति । निर्गच्छन्द्रजन्नभ्यन्तरावस्थित एव चन्द्रापीडः प्राकारान्तरितदर्शनानां वप्रव्यवहितदर्शनानां प्रतिपालयतां प्रतीक्षां कुर्वाणानां राज्ञां नृपाणामुदूर्ध्वं मयूखाः किरणा येषामेवंविधानां चूडामणीनां शिरोमणीनामालोकलक्षणो यो बालातपस्तेन दृढेन बहुलेनालक्तकद्रवद्युतिमुषालक्तकरसहारिणात्यर्थमतिशयेन पिञ्जरीक्रियमाणाः पीतरक्तीक्रियमाणा दश दिशः कर्म ददर्शालोकयामासेत्यन्वयः । अत्रोत्प्रेक्षते - राज्येति । राज्यस्य यौवराज्यस्य योऽभिषेकः स्नानं तस्यानन्तरं प्रसृतेन विस्तृतेन स्वप्रतापवह्निनेव स्वस्य स्वकीयस्य यः प्रतापः कोशदण्डजं तेजः स एव वह्निरग्निस्तेनेव । प्रतापस्य रक्तत्वात्तदनुमानम् । अथ च यौवराज्याभिषेकजन्मना यौवराज्यस्नानसमुद्भवेन निजानुरागेणेवात्मीयस्नेहेन रज्यमानं रक्तीक्रियमाणमवनितलं वसुधातलम् । अथ चासन्नः समीपवर्ती यो रिपुविनाशः शत्रुक्षयस्तस्य पिशुनेन सूचकेन दिग्दाहेनेव पाटलीक्रियमाणं श्वेतरक्तीक्रियमाणं अम्बरतलं व्योमतलम् । अभीति । अभिमुखा संमुखागता या भुवनतललक्ष्मीस्त्रिविष्टपश्रीस्तस्याश्चरणालक्तकः पादयावकस्तस्य रसेनेव लोहितायमानो रक्तवदाचरमाण आतप आलोको यस्यैवंभूतं दिवसं वासरं ददर्शेति पूर्वक्रियया संबन्धः । विनीति । विशेषेण निर्गतो बहिरागतः । च पुनरर्थकः । अवनिभुजां राज्ञां चक्रवालैः समूहैः प्रणम्यमानो नमस्क्रियमाणः । अथ राजकविशेषणानि ससंभ्रमेति । ससंभ्रमं सवेगं प्रचलितं प्रस्थितं गन्धगजानां गन्धेभानां घटासहस्त्रं येषां तैः । अन्योन्येति । अन्योन्यं परस्परं यः संघट्टः संमर्दस्तेन जर्जरितानि शिथिलीभूतान्यातपत्रमण्डलानि छत्रसमूहा येषां तैः । आदरेति । आदरेण गौरवेणावनता नम्रा ये मौलयः शिरांसि तेन शिथिलाः श्लथा मणिमुकुटानां रत्नकिरीटानां पङ्क्तयः श्रेणयो येषां तैः । आवर्जितेति । आवर्जितान्यानमितानि कर्णपूराणि कर्णाभरणानि येषां तैः । कपोलेति । कपोलस्थलाद्गल्लात्परप्रदेशात्स्खलितानि स्खलनां प्राप्तानि कुण्डलानि कर्णभूषणानि येषां तैः । राजेति । राज्ञो य आप्तः प्रत्ययितः सेनापतिः सैन्याध्यक्षस्तेन निर्दिश्यमानानि निवेद्यमानानि नामानि येषां तैः । पुनः कीदृशः । गन्धमादननाम्ना गजे - 242 कादम्बरी । - पाठा० - १ अधिरुह्य २ वक्रीकृत. ३ धवलप्राकार. ४ द्वारावस्थितानां प्रत्यपालयताम्. ५ अलक्तक इव. ६ क्रियमाणदशदिशः ७ गज ८ आदरादनवरतप्रणामशिथिलित. ९ रत्नकर्णपूरे, रत्नकर्णपूरैः. १० रत्नकुण्डलैः ११ आज्ञप्त, अज्ञात १२ निर्दिश्यमानानामवनि. - कथायाम् Page #256 -------------------------------------------------------------------------- ________________ माननामभिरवनिभुजां चक्रवालैः प्रणम्यमानः, बहलसिन्दूररेणुपाटलेन क्षितितलदोलायमानमुक्ताकलापावचूलेन सितकुसुममालाजालशबलशिरसा संलग्नसंध्यातपेन तिर्यगावर्जितश्चेतगङ्गाप्रवाहेण तारागणदन्तुरितशिलातलेन मेरुगिरिणेव गन्धमादनेनानुगम्यमानः; कनकालंकारप्रभाकल्माषितावयवेन च दत्तकुङ्कुमस्थासेकेनेवोकृष्यमाणेनेन्द्रायुधेन सनाथीकृतपुरोभागः शनैः शनैः प्रथममेव शातक्रतवीमाशामभिप्रतस्थे । अंथ चलितगजधटाकम्पितातपत्रवनमनेककल्लोलपरम्परापतितचन्द्रमण्डलप्रतिबिम्बसहस्त्रं महाप्रलयजलधिजलमिव प्लावितमहीतलमद्भुतोद्भूतकलकलमखिलं संचचाल बलम् । उच्चलि - *********** न्द्रेणानुगम्यमानोऽनुव्रज्यमानः । अथ गजं विशेषयन्नाह - बहलेति । बहलो निबिडो यः सिन्दूररेणुः श्रृङ्गारभूषणधूलिस्तेन पाटलेन श्वेतरक्तेन । गजस्य सिन्दूरभूषणमिति सर्वप्रसिद्धिः । गजशोभान्तरमाह - क्षितीति । क्षितितलं पृथ्वीतलं यावद्दोलायमानः कम्पमानो यो मुक्ताकलापो मौक्तिकप्रकरस्तदेवावचूलं कर्णाभरणं यस्य स तथा । प्रस्थानसमये सर्वत्र गजस्येष्टत्वात् । अलंकारान्तरमाह - सितेति । सितं यत्कुसुममालाजालं पुष्पस्त्रक्समूहस्तेन शबलं कर्बुर शिरो यस्य स तेन । अत्रोत्प्रेक्षते - मेविति । मेरुर्मन्दरः स चासो गिरिश्चेति कर्मधारयः । तत्सदृशेनेव । उच्चत्वसाम्यादस्य मेरुसाम्यमित्यर्थः । विशेषणत्रयेण मेरोरपि गन्धमादनसाम्यं प्रदर्शयन्नाह - संलग्नेति । संलग्नः संश्लिष्टः संध्यातपो यस्मिन् । एतेन सिन्दूरसादृश्यम् । तिर्यगिति । तिर्यगावर्जितः प्रवर्तितः श्वेतगङ्गाप्रवाहो यस्मिन् । एतेन मुक्ताकलापसाम्यम् । तारेति । तारागणेन नक्षत्रवृन्देन दन्तुरितं विषमितं शिलातलं यस्मिन् । एतेन सक्साम्यम् । पुना राजानं विशेषयन्नाह - इन्द्रायुधेति । इन्द्रायुधेनाश्चरत्नेन सनाथीकृतः सहितः पुरोभागोऽग्रभागो यस्य स तथा । अथाश्चं विशेषयन्नाह - कनकेति । कनकस्य सुवर्णस्य योऽलंकारस्तस्य प्रभा कान्तिस्तया कल्माषिताः कर्बुरिता अवयवा अपघना यस्य स तेन । अत्रोत्प्रेक्षते - दत्तेति । दत्ताः कुङ्कुमस्य किञ्जल्कस्य स्थासका हस्तबिम्बा यस्यैवंविधेनेव । कीदृशेन । इन्द्रायुधेनाकृष्यमाणेन । अश्वपालकेनेति शेषः । एतेनास्याग्रयानत्वं सचितमिति भावः । शनैःशनैर्मन्दमन्दं प्रथममेवादावेव शातक्रतवीं शतक्रतोरियं शातक्रतवी तां प्राचीमभिप्रतस्थे । तस्या अभिमुखं चचालेत्यर्थं । तदनन्तरं बलं सैन्यं संचचाल । सम्यक्प्रकारेण चलितं बभूवेत्यर्थः । अथ बलं विशेषयन्नाह - चलितेति । चलिता गन्तुं प्रवृत्ता या गजघटा हस्तिसमुदायस्तया कम्पितानि धूतान्यातपत्राणि छत्राणि यस्मिंस्तत् । कीदृशम् । प्लावितेति । प्लावितं प्रलयं नीतं महीतलं येन तत् । गजानां कृष्णत्वसाम्यात्समन्ततः प्रसरणसाम्याच्चोपमानान्तरमाह - महेति । महाप्रलयो महाकल्पान्तस्तस्मिन्यो जलधिः समुद्रस्तस्य जलं पानीयं तद्वदिव । अथ जलं विशिनष्टि - अनेकेति । अनेके संख्यातीता ये कल्लोलास्त रङ्गास्तेषां परम्पराः पङ्क्तिविस्तारास्तासु पतितं प्रतिबिम्बितं संक्रान्तं चन्द्रमण्डलस्य शशिमण्डलस्य प्रतिबिम्बसहस्त्रं प्रतिच्छायसहस्त्रं यस्मिन् । अत्रातपत्राणां वर्तुलत्वस्वच्छत्वसाम्याच्चन्द्रप्रतिबिम्बसाम्यम् । एतदपि प्लावितमहीतलम् । अद्भुतेति । अद्भुतोद्भूत अधादप्याश्चर्यकारी कलकलः कोलाहलो यस्मिन् । एतच्चोभयत्र साम्यम् । उच्चेति । अथोत्याबल्येन चलितस्य कृतप्रयाणस्यास्य राज्ञश्चन्द्रापीडस्य । अत्र चकारोऽधिकारान्तरसूचकः । वैशम्पायनः समीपं पार्थमाजगामाययौ । कया त्वरितपदसंचारिण्या शीध्रचरणगामिन्या करिण्या हस्तिन्या - टिप्प० - 1 अद्भुतः आश्चर्यकारी उद्भूतः उत्पन्नः कलकलरवो यस्मिंस्तत् । - - - - - - - - - - - - - - - - - पाठा० -१ स्थूलमुक्ता. २ शिखरशिलातलेन. ३ प्रभाप्रतान; घटप्रतान. ४ परार्धेन. ५ स्थानकेन. ६ आकृष्यमाणेनेव. ७ पुरोभागः प्रथमम्. ८ चलित. ९ धवलातपत्रमनेक. १० सकलम्. दिग्विजयप्रस्थानम् पूर्वभागः ।। 243 Page #257 -------------------------------------------------------------------------- ________________ तस्य चास्य स्वभवनादुपपादितप्रस्थानमङ्गलो धवलदुकूलवासाः सितकुसुमाङ्गरागो महता बलसमूहेन नरेन्द्रवृन्दैश्चानुगम्यमानो धृतधवलातपत्रो द्वितीय इव युवराजस्त्वरितपदसंचारिण्या करिण्या वैशम्पायनः समीपमाजगाम । आगत्य च शशिकर इव स्वेरासन्नवर्ती बभूव । अनन्तरमितश्चेतश्च 'निर्गतो युवराजः' इति समाकर्ण्य प्रधावतां बलानां भरेण चलितकुलशैलकीलितजलधिजलतरङ्गगतेव तत्क्षणमाचकम्पे मेदिनी संमुखागतैरन्यैश्चान्यैश्च प्रणमद्भिभूमिपालैः । अंशुलताजालजटिलचूलिकानां मणिमुकुटानामालोकेनोन्मिषितबहुलरोचिषां च पत्रभङ्गिनीना केयूरमण्डलीनां प्रभासंतानेन क्वचिद्विकीर्यमाणचाषपक्षक्षोदा इव, क्वचिदुत्पतितशिखिकुलचलच्चन्द्रकशतशारा इव, क्वचिदकालजलधरतडित्तरला इव, क्वचित्सकल्पतरुपल्लवा इव, क्वचित्संशतक्रतुचापा इव, क्वचित्सबालातपा इव - *********** करणभूतयेत्यर्थः । स्वेति । स्वभवनानिजगृहादुपपादितं विहितं प्रस्थानमङ्गलं गमनमङ्गलं येन सः धवलेति । धवलं घेतं दुकूलमेव वासो वस्त्रं यस्य सः । सितेति । सितकुसुमैः श्वेतपुष्पैरङ्गरागः शरीरशोभा यस्य स तथा । सितकुसुमवदङ्गरागो विलेपनं यस्येति वा । महता महीयसा बलसमूहेन सैन्यसंधातेन नरेन्द्रवृन्दैश्च राजसमूहैश्चानुगम्यमानोऽनुव्रज्यमानः । धृतेति । धृतं शिरसि धारित धवलं वेतमातपत्रं छत्रं येन सः । द्वितीय इवापर इव युवराजः । आगत्याभ्येत्य । चकारः पुनरर्थकः । आसन्नवर्ती समीपवर्ती बभूव संजज्ञे । कस्य क इव । यथा रखेः सूर्यस्य शशिकरश्चन्द्रः समीपगो भवति । अत्र शशिकर इवेति कथनाद्वैशम्पायनस्य कुमारापेक्षया शोभायामपकर्षः सूचितः । युक्तोऽयमर्थः । अमावास्यायां सूर्यनिकटे चन्द्रस्य न्यूनतैव भवतीति भावः अथवेतश्चेतश्च निर्गतो युवराज इति लोकोक्त्या समाकर्ण्य श्रवणविषयीकृत्य प्रधावतां धावनं कुर्वतां बलानां सैन्यानां भरेण समुदायेन संमुखागतैरभिमुखायातैः प्रणमद्भिः प्रणामं कुर्वद्भिः अन्यैश्चान्यैश्च भिन्नभिन्नदेशोद्भवैश्च भूमिपालैर्नृपतिभिः कृत्वा तत्क्षणं तत्कालं मेदिनी पृथ्याचकम्पे चचाल । कीदृशीव । चलितेति । चलिताः कम्पिता ये कुलशैलाः क्षेत्रमर्यादाकारिणो नगास्तैः कलितो यन्त्रितो यो जलधिः समुद्रस्तस्य जलं पानीयं तस्य तरङ्गाः कल्लोलास्तत्र गतेव प्राप्तेव । अंशुलतेति । अंशुलतानां किरणश्रेणीनां जालं समूहस्तेन जटिला व्याप्ता चूलिका प्रान्तभागो येषामेवंविधानां मणिमुकुटानां रत्नकिरीटानामालोकेन प्रकाशेन । उन्मिषितेति । उन्मिषिता विकास प्राप्ता बहुला दृढा रोचिषः कान्तयो यासु तासाम् । पत्रेति । पत्रभङ्गा रचनाविशेषा विद्यन्ते यास्वेवंविधानां केयूरमण्डलीनामङ्गदश्रेणीनां प्रभासंतानेन च कान्तिसमूहेन चैवविधा दश दिशो दश ककुभः क्रियन्ते विधीयन्त इत्यन्वयः । तदाह - क्वचिदिति । क्वचित् कस्मिंश्चिप्रदेशे विकीर्यमाणा विक्षिप्यमाणाश्चाषाणां किकीदिवीनां पक्षक्षोदाः पिच्छचूर्णानि यास्वेवंविधेषु । क्वचिदिति । क्वचित् उत्पतितमुड्डीनं यच्छिखिकुलं नीलकण्ठसमुदायस्तस्य ये चलन्तो दीप्यमानाश्चन्द्रका मेचकास्तेषां शतं तेन शाराः कर्बुरा इव । 'शारः शबलवातयोः' इत्यनेकार्थः । क्वचिदिति । क्वचित् अकालेऽनवसरे यो जलधरो मेघस्तस्य तडिद्विद्युत्तया तरला इव पारिप्लया इव । क्वचिदिति । क्वचित् कल्पतरुणां देववृक्षाणां पल्लवाः किसलयास्तैः सह वर्तमानेवें । क्वचिदिति । क्वचित् शतक्रतुरिन्द्रस्तस्य चापं धनुस्तेन सह वर्तमानेव । क्वचिदिति । क्वचित् बालातपः प्रभातकालीनसूर्यालोकस्तेन सह वर्तमानेव । तथा राज्ञां धवला - - - - - - - - - - - टिप्प० -1 अत्र 'रजनिकर' इति पाठघटना व्याकरणसंगता, लिपिकृताऽयं पाठो दूषितः संभाव्यत इति । 2 'इवाऽक्रियन्त' इत्यपि । प्रमाण च सहृदयहदयम् । 3 एवंविधा इत्यप्युचितम् । 4 वर्तमाना इव इत्युचितम् । एवमग्रेपि । - - - - - - - - - - - - - - - - पाठा० - १ दुकूलवासाः; धवलवासाः. २ अनुरज्यमान. ३ समाजगाम. ४ रजनिकरः. ५ शैलकैलासजलधितरङ्ग. ६ अन्यैश्च. ७ पत्रभङ्गीनाम्. ८ सशतयज्ञ; शतयज्ञ. 244 कादम्बरी। कथायाम् Page #258 -------------------------------------------------------------------------- ________________ क्रियन्ते दश दिशः । धवलान्यपि विविधमणिनिकरकल्माषैरुत्सर्पिभिश्चूडामणिमरीचिभिर्मायूराणीव रोजन्ते राज्ञामातपत्राणि । क्षणेन च तुरगमयमिव महीतलम्, कुञ्जरमयमिव दिक्चक्रवालम्, आतपत्रमण्डलमयमिवान्तरिक्षम्, ध्वजवनमयमिवाम्बरतलम्, इभमदगन्धमय इव समीरणः, भूपालमयीव प्रजासृष्टिः, आभरणांशुमयीव दृष्टिः, किरीटमय इव दिवसः, जयशब्दमयमिव त्रिभुवनमभवत् । सर्वतश्च कुलपर्वताकारैः प्रचलद्भिर्मत्तवारणैः, उत्पातचन्द्रमण्डलनिभैश्च प्रेङ्खद्भिरातपत्रैः संवर्तकाम्भोदगम्भीरभीमनादेन च ध्वनता दुन्दुभिना, तारकावर्षसदृशेन विसर्पता गजसीकरनिकरेण, धूमकेतुधूसरैश्चोल्लसद्भिरवनिरजोदण्डकैः, निर्घातपातपरुषगम्भीरघोषैश्च करिकण्ठगर्जितैः, क्षतजकणवर्षबभ्रुणा च भ्रमता मतङ्गजकुम्भसिन्दूररेणुना, संक्षुभितजलधिजलकल्लोलचञ्चलाभिश्च प्रविसर्पन्तीभिस्तुरङ्गममालाभिः, अन्धकारितदि - *********** न्यपि श्वेतान्यप्यातपत्राणि । विविधेति । विविधानामनेकप्रकाराणां मणीनां. निकराः समूहास्तैः कल्माषैः शबलैरुत्सर्पिभिः प्रसरद्भिश्चूडामणिमरीचिभिः शिरोमणिकान्तिभिर्मायूराणीव मयूरपिच्छनिर्मितानीव राजन्ते शोभन्ते । क्षणेन समयमात्रेणैतादृशमभवदजायत । तदेवाह तुरगेति । तुरगा अश्वास्तन्मयमिव महीतलं पृथ्वीतलम् । कुञ्जरा हस्तिनस्तन्मयमिव दिक्चक्रवालं ककुभां मण्डलम् । आतपत्राणि छत्राणि तेषां मण्डलं तन्मयमिवान्तरिक्षमाकाशम् । ध्वजा वैजयन्त्यस्ता एव वनमरण्यं तन्मयमिवाम्बरतलमाकाशतलम् । इभा हस्तिनस्तेषां मदगन्धो दानवारिपरिमलस्तन्मय इव समीरणो वायुः । भूपाला राजानस्तन्मयीव प्रजासृष्टिः प्रकृतिसृष्टिः । आभरणानि तेषामंशवः किरणास्तन्मयीव दृष्टिश्चक्षुः । किरीटानि कोटीराणि तन्मय इव दिवसो वासरः । जयशब्दो मागधानां शुभसूचकः शब्दस्तन्मयमिव त्रिभुवनं त्रिविष्टपम् । सर्वतश्च वक्ष्यमाणेन प्रकारेण महाप्रलयकाल इव कल्पान्तसमय इव संजज्ञे समभूत् । तदेव दर्शयन्नाह - कुलपर्वतेति । सर्वतः सर्वक्षु प्रचलद्भिर्गच्छद्भिर्मत्तवारणैर्मदकलैर्हस्तिभिः । कीदृशैः । कुलपर्वताः सप्तकुलाचलास्तद्वदाकार आकृतिर्येषां तैः । अत्युच्चत्वसाम्यात्कल्पान्ते कुलाचलानामपि चलनसद्भावाच्च समग्रसाम्यमिति भावः । तथा । उत्पातेति । उत्पातकाले बहूनि चन्द्रमण्डलानि भवन्ति क्षतजकणवर्षाश्चेत्यत आह - तत्समयेति । तत्समयवतीनि यानि चन्द्रमण्डलानि शशिमण्डलानि तन्निभैस्तत्सदृशैरेवंविधैः प्रेङ्खद्भिः प्रचलद्भिरातपत्रैश्छत्रैश्च । तथा संवर्तकाम्भोदो लोकक्षयकारी मेघस्तद्वद्गम्भीरो भीमश्च नादो यस्यैवंविधेन ध्वनता शब्दं कुर्वता दुन्दुभिना पटहेन च । तथा तारकावर्षो नक्षत्रवृष्टिस्तत्सदृशेन तदनुकारिणा विसर्पता प्रसरणशीलेन गजानां हस्तिनां सीकरनिकरेण शुण्डानिः सृतजलपृषत्समूहेन । तथा धूमकेतुर्ग्रहविशेषस्तद्वद्धूसरैर्धूम्रैरुल्लसद्भिरुल्लासं गच्छद्भिरवनिरजोदण्डकैरवनेर्वसुंधराया रजोदण्डैर्धूलिदण्डैः । आयतत्ववर्तुलत्वाभ्यां दण्डसाम्यम् । निर्घातो वज्रं तस्य पातः पतनं तद्वत्परुषः कठोरो गम्भीरो बहुकालस्थायी घोषः शब्दो येषामेवंविधैः करिकण्ठगर्जितैर्गजशब्दैश्च । क्षतजं रुधिरं तस्य कणा बिन्दवस्तेषां वर्षो वृष्टिस्तद्वद्बभ्रुणा कडारेण मतङ्गजा हस्तिनस्तेषां कुम्भाः शिरसः पिण्डास्तेषां यः सिन्दूररेणुर्नागजधूलिस्तेन भ्रमता प्रसर्पता च । तथा संक्षुभितः क्षोभं प्राप्तो यो जलधिः समुद्रस्तस्य जलं पानीयं तस्य कल्लोलास्तरङ्गास्तद्वच्चञ्चलाभिस्तरलाभिः प्रविसर्पन्तीभिः प्रकर्षेण विस्तारं प्राप्नुवतीभिस्तुरङ्गममालाभिः । तथान्धकारितं संजातान्धकारं दिगन्तरं - 9 दिग्विजयप्रस्थानम् टिप्पo - 1 अराजन्त इत्यपि पाठः, भूतकालक्रियया 'त्रिभुवनमभवत्' इत्यनया सह सामञ्जस्यात् । 2 'चामरमय इव' इत्यपि कस्यचन संमतः पाठः । ऊर्ध्वं प्रस्फुरद्भिश्चामरैरेव दिवसस्य तन्मयतौचित्यात् । पाटा० - १ अक्रियन्त. २ अरज्यन्त ३ वृष्टिः ४ आतपः; चामरमय इव दिवस. ५ शतसितातपत्रैः ६ विसर्पन्तीभिः ७ तुरङ्ग. पूर्वभागः । - 245 Page #259 -------------------------------------------------------------------------- ________________ गन्तरेण चानवरतं क्षरता मैदजलधारादुर्दिनेन, कलकलेन च भुवनान्तरव्यापिना महाप्रलयकाल इव संजज्ञे । बलकोलाहलभीता इव धवलध्वजनिवहनिरन्तरावृता ययुः क्वापि दश दिशः । मलिनावनिरजःसंस्पर्शशङ्कितमिव समदगजघटावचूलसहस्त्रसंरुद्धमतिदूरमम्बरतलमपससार । प्रबलवेत्रिवेत्रलतासमुत्सार्यमाणा इव तुरगखुररजोधूसरताभीतार्ककिरणा मुमुचुः पुरोभागम् । इभकरसीकरनिर्वापणत्रस्त इवातपत्रसंच्छादितातपो दिवसो ननाश । बलभरजर्जरीकृता मदकलकरिचरणशतखण्डिता द्वितीयेव प्रयाणभेरी भैरवं भूमी ररास । गुल्फद्वयसे च तुरङ्गमु खविनिःसृतसितफेनपल्लविते मदपयसि मदसुतां क - *********** येनेवंविधेनानवरतं निरन्तरं क्षरता सवता मदजलधारा दानवारिधारा तदेव दुर्दिन मेघनं तमस्तेन । तथा भुवनान्तरव्यापिना विष्टपविवरप्रसरशीलेन । महाप्रलयेऽप्येतद्धर्माणां सद्भावात् । कलकलेन । सैन्येऽपि तद्दर्शनादुपमानोपमेयभावः । बलेति । बलस्य सैन्यस्य यः कोलाहलः कलकलस्तेन भीता इव वस्ता इव दशसंख्याका दिशः ककुभः क्वाप्यनिर्दिष्टस्थले ययुगताः । किंविशिष्टाः । धवलाः श्वेता ये ध्वजनिवहा वैजयन्तीगणास्तैर्निरन्तरं सर्वदावृता आच्छादिताः दिग्गमनेऽयमेव हेतुरिति भावः । मलिनेति । मलिनं यदवनिरजस्तस्य यः संस्पर्शः संश्लेषस्तस्माच्छङ्कितमिवारेकीकृतमिवातिदूरमतिदविष्ठमम्बरतलं व्योमतलमपससारापसृतं बभूव । अत्रार्थे हेतुगर्भित विशेषणमाह - समदेति । मदेन सह वर्तमाना या गजघटानेकपसमूहस्तस्य अवचूलसहस्त्रं कर्णाभरणसहस्त्रं तेन संरुद्धं संच्छन्नम् । अत्र गजातिशयत्वं व्यङ्ग्यम् । प्रबलेति । प्रबलाः प्रकृष्टबलयुक्ता ये वेत्रिणो द्वारपालकास्तेषां वेत्रलता वेतसयष्टयस्ताभिः समुत्सार्यमाणा इव दूरीक्रियमाणा इव । तुरगेति । तुरगाणामश्चानां खुररजः शफधूलिस्तेन या धूसरतेषत्पाण्डुता तया भीता इवार्ककिरणाः सूर्यरश्मयः पुरोभागमग्रभागं मुमुचुस्तत्यजुः । अनेन तुरङ्गाणां भूयस्त्वं वेगातिशयः खुरनिक्षेपशक्तिविशेषश्च व्यज्यते । इभेति । इभा हस्तिनस्तेषा करसीकराः शुण्डादण्डोद्गतजलपृषतास्तैर्निर्वापणमपनयनं तेन त्रस्त इव चकित इव । आतपत्रेति । आतपत्रैश्छत्रैः संच्छादित आतपो रविप्रकाशो यस्मिन्नेवंभूतो दिवसो ननाश नाशं प्राप्तवान् । बलेति । बलभरेण सैन्यभारेण जर्जरीकृताः श्लथीकृता मदेन कला मनोहरा ये करिणो हस्तिनस्तेषां चरणशतमङ्घ्रिशतं तेन खण्डिता भिन्ना द्वितीयापरा प्रयाणभेरीव प्रस्थानदुन्दुभिरिव भैरवं कठोरं भूमिर्वसुधा ररास शब्दं चकार । शब्दविशेषजनकत्वसाम्यादुत्प्रेक्षा । 'रस शब्दे इति धातोलिटि रुपम् । मदेति । मदसुतां दानवारि क्षरता करिणां गजानां मदपयसि पदे पदे पदातयः पत्तयः प्रचस्खलुः प्रस्खलनं प्रापुः । अथ मदपयो विशिनष्टि - गुल्फद्वयसे चरणग्रन्थिपरिमिते । अत्र प्रमाणे द्वयसच् । तुरङ्गेति । तुरङ्गमुखेभ्योऽश्वव - पाठा० - १ अनवरत. २ गजमद. ३ बलहबल; बहलबल. ४ मलिनीकृतमिव. ५ अम्बरम्. ६ प्रचलितवेत्र; प्रचुरवेत्र. ७ धूसरमर्कः; धूसरताभीता इवार्क. ८ सीकरनिकर. ९ बहलवल. १० संचरण. ११ संताडिता; ताडिता. १२ पल्वले. सार 246 कादम्बरी। कथायाम Page #260 -------------------------------------------------------------------------- ________________ रिणां प्रचस्खलुः पदे पदे पदातयः । हरितालपरिमलनिभेन चातिपटुना गजमदामोदेनानुलिप्तस्य सामजस्येव समुपययो निखिलान्यगन्धग्रहणसामर्थ्य घ्राणेन्द्रियस्य । क्रमेण च प्रसर्पतो बलस्य पुरः प्रधावतां जनकदम्बकानां कोलाहलेन, तारतरदीर्घेण च काहलानां निनादेन, खुररवविमिश्रेण च वाजिनां हर्षहेषारवेण, अनवरतकर्णतालस्वरसंपृक्तेन च दन्तिनामाडम्बररवेण, ग्रैवेयककिङ्किणीक्वर्णितानुसृतेन च गतिवंशाद्विषमविरागिणीनां घण्टानां टङ्क्तेन, मङ्गलश ङ्खशब्दसंवर्धितध्वनीनां च प्रयाणपटहानां निनादेन, मुहुर्मुहुरितस्ततस्ताड्यमानानांच डिण्डिमानां निस्वनेन जर्जरीकृतश्रवणपुटस्य मूर्छवाभवज्जनस्य । शनैः शनैश्चबलसंक्षोभजन्मा क्षितेरनेकवर्णतया क्वचिज्जीर्णशफरक्रोडधूम्रः, क्वचित्क्रमेलक - *********** दनेभ्यो विनिःसृता बहिरागताः सितफेनाः श्वेतकफास्तैः पल्लविते विस्तारं प्राप्ते । हरीति । हरितालस्य पिज्जरस्य यः परिमलो गन्धस्तस्य निभेन सदृशेनातिपटुनातिस्पष्टेन गजमदामोदेन करिदानवारिपरिमलेन चानुलिप्तस्य व्याप्तस्य घ्राणेन्द्रियस्य नासिकाकरणस्य निखिलान्यग्रहणसामर्थ्य समग्रापरग्रहणशक्ति समुपययौ । दूरीभूतमित्यर्थं : कस्येव । सामजस्येव मतङ्गजस्येव । यथा तदनुलिप्तत्वेन तस्यान्यग्रहणसामN न भवति तथेत्यर्थं । यथा नानारसशष्कुल्यादिस्थले सकलसमुदायवशानैकस्यापि रसविशेषस्य ग्रहो रसनेनैवं तादृशसमुदायद्वन्द्वयत्कुष्ठाईकनिम्बूफलरसमवधाने च रसनेन सकलान्यरसग्रहो भवत्ययमुत्कर्षः । आर्द्रकरसादेस्तथैव घ्राणेन्द्रियस्य नानासुगन्धद्रव्यसनिधानदोषवशान्नैकस्यापि गन्धविशेषस्य धूपग्रहणसामर्थ्यम् । एवं तादृशोक्तगजमदामोदेनानुलिप्तस्य घ्राणस्यातीतान्यगन्धग्रहणसामर्थ्यमभवदित्यर्थः । अथ चैतैः कृत्वा जनस्य लोकस्य मूर्छव मोह इवाभवदित्यन्वयः । तानेवाह - क्रमेति । क्रमेण परिपाट्या प्रसर्पतो गच्छतो बलस्य सैन्यस्य पुरोऽग्रे प्रधावतां शीघ्र प्रचलतां जनकदम्बकानां लोकसमुदायानां कोलाहलेन कलकलेन । तथा तारतरदीर्धेणोत्तरमधिकता प्राप्तेन काहलानां वाद्यविशेषाणां निनादेन शब्देन । तथा खुरवाः शफस्वनास्तैर्विमिश्रेण संपृक्तेन वाजिनां तुरङ्गाणां हर्षहेषारवेण हर्षः प्रमोदस्तेन या हेषा हेषा तस्या रवः शब्दस्तेन । तथा अनवरतं निरन्तरं कर्णतालस्य यः स्वरः शब्दस्तेन संपृक्तेन दन्तिनां हस्तिनामाडम्बरैरवेण । पृष्ठे मुखे दन्तयोश्च नानाश्रृङ्गारभूषणरवेणेत्यर्थः । दन्तिनं विशेषयन्नाह - ग्रैवेयकेति । ग्रैवेयकं कण्ठाभरणं तस्य किङ्किण्यः क्षुद्रघण्टिकास्तासां क्वणितं शब्दितं तेनानुसृतेनानुगतेन । तथा । गतीति । गतिवशाद्गमनवशाद्विषमोऽसदृशो विरावः शब्दो यासामेवविधानां घण्टाना भूषणविशेषाणां टङ्कृतेन टणत्कारशब्देन तथा । मङ्गलेति । मङ्गलार्थं श्रेयोऽर्थं ये शङ्खशब्दास्तै संवर्धिता वृद्धिं प्राप्ता ध्वनयो येषामेवंविधानां प्रयाणपटहानां प्रस्थानदुन्दुभीनां निनादेन नि?षेण । तथा मुहुर्मुहुरिवारमितस्ततस्ताङ्यमानानां डिण्डिमानां पटहविशेषाणां निःस्वनेन शब्देन । कीदृशस्य जनस्य । पूर्वोक्तैर्जर्जरीकृत श्लथीकृतं श्रवणयोः कर्णयोः पुटं यस्य स तथा तस्य । अन्वयस्तु प्रागेवोक्तः । शनैः शनैर्मन्दं मन्दम् । बलेति । बलेन सैन्येन यः संक्षोभः संमर्दस्तस्माज्जन्मोत्पत्तिर्यस्यैवंभूतो रेणू रज उत्पपातोय जगाम । क्षितेरिति । क्षितेः पृथिव्या अनेके ये वर्णाः चेतादयस्तेषां भावस्तथा तया । रेणोरप्यनेकवर्णता प्रदर्शयन्नाह - क्वचिदिति । क्वचित् क्वचितप्रदेशे जीर्णो जरीयान्यः शफरो मत्स्यस्तस्य क्रोड उपरिभागस्तद्वधूम्रो धूसरः । क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे क्रमेलक - - - - - - - - - - - - - - - - - - टिप्प० -1 प्रबलगन्धाकृष्टस्य घ्राणस्य तदपेक्षया दुर्बलगन्धानांग्रहणं न भवतीत्याशयः । ततश्च नानारसशष्कुल्यादि० इति टीकाकृतो विस्तरो बालबोधप्रदः । 2 ‘सामजस्तु गजे पुंसि सामोत्थे पुनरन्यवत् इति मेदिनी । 3 विशालेन हितध्वनिना । - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ अपययौ; उपययौ; समाययो. २ हेषारवेण. ३ स्वन; रख. ४ अनुगृहीतेन. ५ वशविषम. ६ द्विरदडिण्डिमानाम्. ७ सदृशाः. (दिग्विजयप्रस्थानम् पूर्वभागः । - 247) Page #261 -------------------------------------------------------------------------- ________________ सटासंनिभः, क्वचित्परिणतरल्लकरोमपल्लवमलिनः, क्वचिदुत्पन्नातन्तुपाण्डुरः, क्वचिज्जरठमृणालदण्डधवलः, क्वचिज्जरत्कपिकेशकपिलः, क्वचिद्धरवृषभरोमन्थफेनपिण्डपाण्डुरः, त्रिपथगाप्रवाह इव हरिचरणप्रभवः, कुपित इव मुञ्चन्क्षमाम्, आरब्धपरिहास इव रुन्धन्नयनानि, तृषित इव पिबन्करिकरसीकरजलानि, पक्षवानिवोत्पतनगगनतलम्, अलिनिवह इव चुम्बन्मदलेखाम्, मृगपतिरिव रचयन्करिकुम्भस्थलीषु पदम्, उपात्तविजय इव गृह्णन्पताकाम्, जरागम इव पाण्डुरीकुर्वशिरांसि, मुद्रयन्निव पक्ष्माग्रसंस्थितो दृष्टिम्, आजिघ्रनिव मकरन्दमधुबिन्दुपङ्कलग्नः कर्णोत्पलानि, मदकलकरिकर्णतालताडनत्रस्त इव विशन्कर्णशङ्खोदरविवराणि, पीयमान इवोन्मुखीभिरवनिपतिमुकुटमणिपत्रभङ्गमकरिकाभिः, अभ्यर्च्यमान - *********** उष्ट्रस्तस्य सटा जटास्ताभिः संनिभः सदृशः । क्वचिदिति । क्वचित् परिणतः पक्ववया यो रल्लको हुण्डस्तस्य रोमपल्लवस्तनूरुहकिसलयस्तद्वन्मलिनः कृष्णः । क्वचिदिति । क्वचित् उत्पन्नः समुद्भूतो य ऊर्णातन्तुर्जालकारकस्तद्वत्पाण्डुरः श्वेतरक्तः । क्वचिदिति । क्वचित् जरठो दीर्घकालीनो यो मृणालदण्डो बिसदण्डस्तद्वद्धवलः शुभ्रः । क्वचिदिति । जरज्जरीयान्यः कपिर्वनौकास्तस्य केशा अलकास्तद्वत्कपिलः पिङ्गलः । क्वचिदिति । क्वचित् वरः प्रधानो यो वृषभो बलीवर्दस्तस्य रोमन्थश्चर्वितचर्वणं तस्मिन्यः फेनपिण्डः कफपुञ्जस्तद्वत्पाण्डुरः श्वेतरक्तः । कीदृशः त्रिपथगा गङ्गा तस्याः प्रवाहः सोतस्तद्वदिव हरिचरणप्रभवः । हरयोऽश्वा विष्णुश्च । कुपित इव कोपं प्राप्त इव । किं कुर्वन् । क्षमा पृथ्वीं मुञ्चस्त्यजन् । पक्षे क्षमा शान्तिम् । आरब्धेति । आरब्धः प्रस्तुतः परिहासो हास्य येनैवविध इव । किं कुर्वन् । नयनानि लोचनानि रुन्धन्नाच्छादयन्, उपहासकारिणो लोचनाच्छादनं लोकेऽपि प्रसिद्धम् । तृषित इव पिपासित इव करिणां हस्तिनां करसीकरजलानि शुण्डादण्डोद्गतवातास्तवारीणि पिबन्पानं कुर्वन् । अदृश्यता प्रापयन्नित्यर्थं । पक्षेति । पक्षवानिव गरुत्मानिव । तत्कृत्यमाह - उदिति । गगनतलमाकाशतलमुत्पतन्गच्छन् । उभयोरेकधर्मत्वात्तदुपमानम् । अलीति । अलीना भ्रमराणां निवहः समूहस्तद्वदिव । किं कुर्वन् । मदलेखां दानरेखा चुम्बं श्रुम्बनं कुर्वन् । चुम्बनस्य संस्पर्शविशेषत्वात्तदुपमानम् । मृगेति । मृगपतिः सिंहस्तद्वदिव किं कुर्वन् । करिकुम्भस्थलीषु गजशिरसः पिण्डस्थलीषु पदं स्थानं चरणं वा रचयन्विदधत् । उपात्तेति । उपात्तः स्वीकृतो विजयो दस्युक्षयरुपो येन स तद्वदिवपताकां वैजयन्तीं गृह्णनाददन् । जरेति । जरा विससा तस्या आगमस्तद्वदिव । तत्कृत्यमाह - शिरांस्युत्तमाङ्गानि पाण्डुरीकुर्वञ्श्वेतीकुर्वन् । शुक्लतापादनसाधाज्जराया उपमानम् । मुद्रयन्निति । पक्ष्म नेत्ररोम सोनगमंस्थितस्तत्परोवती दृष्टिं मुद्रयन्निव संकोचयन्निव । मकरन्देति । मकरन्दो मरन्दस्तस्य मधु रसस्तस्य बिन्दुपङ्कः पृषत्कर्दमस्तत्र लग्नः संयुक्तः कर्णोत्पलानि श्रोत्रकुवलयान्याजिघ्रन्निव गन्धं गृह्णन्निव । मदेति । मदेन दानवारिणा कला मनोज्ञा ये करिणो हस्तिनस्तेषां कर्णतालास्तैस्ताडन प्रहाप्रदानं तेन त्रस्त इव भीत इव । कर्णाः श्रोताः, शङ्खो भालश्रवोन्तरम्, तेषामुदरविवराणि मध्यच्छिद्राणि विशन्प्रविशन् । उन्मुखीभिरिति । उन्मुखीभिरुर्ध्वमुखीभिरवनिपतयो राजानस्तेषां मुकुटाः - । - - - - -- - - - - टिप्प० -1 हरिणविशेषः । “रल्लकः कम्बले स्मृतः । तथैव कम्बलमृगे" इति हैमः । 2 'पत्रोणतन्तुपाण्डुरः' इत्यपि पाठः । पत्रसंबन्धिनी (लकुचादिपत्रेषु ऊर्णाया उत्पन्नत्वात्) ऊर्णा यत्र तत्पत्रोर्णम्, परिष्कृतकौशेयवस्त्रं तस्य तन्तुवत् पाण्डुरः । 'पत्रोर्णं धौतकोषेयम्' इत्यमरः । - -- - - -- - - - - - - - - - - - - -- - पाठा० - १ घटा. २ पत्रोर्णतन्तुपाण्डुरः. ३ जरठवत्. ४ केशर. ५ हर. ६ वृषाभरणांशुकेन. ७ पताकाः. ८ पाण्डरी. ९ बिन्दुलग्नः, १० आविशन्. ११ करिकर्ण. १२ मणिभङ्ग. (248 कादम्बरी। कथायाम् Page #262 -------------------------------------------------------------------------- ________________ इव तुरगमुखविक्षेपविप्लुतैः फेनपल्लवकुसुमस्तबकैः, अनुगम्यमान इव मत्तगजघटाकुम्भभित्तिसंभवेन धातुधूलिवलयेन, आलिङ्गयमान इव चलच्चामरकलापविधुतेन पटवासपांसुना, प्रोत्साह्यमान इव नरपतिशेखरसहसपरिच्युतैः कुसुमकेशररजोभिः, उत्पातराहुरिव दिवसकरमण्डलमकाण्ड एव पिबन्, नृपप्रस्थानमङ्गलप्रतिसरवलयमालिकासु गोरोचनाचूर्णायमानः, क्रकचकृतचन्दनक्षोदधूसरो रेणुरुत्पपात । अपरिमाणबलसंघट्टसमुपचीयमानश्च शनैः शनैः संहरनिव विश्वमशेषमकालकालमेघपटलमेदुरो विस्तारमुपगन्तुमारेभे । तेन च क्रमेणोपचीयमानबहलमूर्तिना, दिग्विजयमङ्गलध्वजेन, रिपुकुलकमलप्रलयनीहारेण, राजलक्ष्मीविलासपटवासचूर्णेन, अहितातपत्रपुण्डरीकखण्डन - *********** किरीटानि तेषां मणयश्चन्द्रकान्तायास्तत्र पत्रभङ्गमकरिकास्ताभिः पीयमान इव । तुरगेति । तुरगाणां वाजिनां मुखान्याननानि तेषां विक्षेपाः प्रसारणक्रियाविशेषास्तेभ्यो विप्लुतैर्गलितैः फेनो मुखकफस्तस्य पल्लवाः परंपरास्त एव कुसुमस्तबकाः पुष्पगुच्छास्तैरभ्यर्यमान इव पूज्यमान इव । मत्तेति । मत्ता मदयुक्ता ये गजा हस्तिनस्तेषां घटाः समूहास्तासां कुम्भाः शिरसः पिण्डास्त एव भित्तयः कुड्यानि तेभ्यः संभव उत्पत्तिर्यस्यैवंविधेन धातुर्गेरिकादिः कुम्भस्थलशोभार्थमनुलिप्यते तस्य धूलिवलयेनरजोवलयेनानुगम्यमान इव । चलदिति । चलन्वेल्लन्यश्चामरकलापो वालव्यजनसमूहस्तेन विधुतेन कम्पितेन पटवासः पिष्टातस्तस्यपांसुधूलिस्तेनालिङ्गयमान इवाश्लिष्यमाण इव । नरेति । नरपतीनां राज्ञां शेखरसहसमवतंससहसं तस्मात्परिच्युतैः सस्तैः कुसुमाणां पुष्पाणां केसराणि किजल्काः तेषां रजांसि परागास्तैः प्रोत्साह्यमान इव प्रोत्साहं प्राप्यमाण इव । उत्पातः उड्डीयमानो राहुः सैहिकेयस्तद्वदिवाकाण्ड एवाप्रस्ताव एव दिवसकरमण्डलं सूर्यबिम्ब पिबन्तसन् । नृपेति । नृपाणां राज्ञां प्रस्थानमङ्गलेषु याः प्रतिसरा हस्तसूत्राणि तेषां वलयमालिका वलयश्रेण्यस्तासु गोरोचनाचूर्णायमानो गोरोचनं प्रसिद्धं तत्क्षोदवदाचरमाणः । क्रकचेति । क्रकचं करपत्रकं तेन कृतो यश्चन्दनक्षोदो मलयजचूर्णं तद्वद्धूसरः । अन्वयस्तु प्रागेवोक्तः । । अपेति । अपरिमाणमसंख्यं यद्वलं सैन्यं तस्य संघट्टः संमर्दस्तेन समुपचीयमानः उपचयं प्राप्यमाणः । चकारः पुनरर्थकः । शनैः शनैर्मन्दमन्दमशेष समग्रं विश्वं संहरन्निव तिरोधानं कुर्वन्निव । अकालेति । अकालेऽप्रस्तावे यत्कालं कृष्णं मेघपटलमभ्रवृन्दं तद्वन्मेदुरः पुष्टो विस्तारमुपसरणमुपगन्तुं प्राप्तुमारेभे । प्रारम्भं चकारेत्यर्थः । तेनेति । तेन पूर्वोक्तेन रेणुना । चकारः पुनरर्थं । क्रमेति । क्रमेण परिपाट्योपचीयमाना पुष्टिं प्राप्यमाणा बहला दृढा मूर्तिहो यस्य स तेन । दिगिति । दिशां ककुभां यो विजय आत्मसात्करणं तत्र यन्मङ्गलं विघ्ननिवारकदधिदूर्वादि तस्य ध्वजेन केतुना । मुख्यमङ्गलेनेत्यर्थः । रिपुरिति । रिपवो दस्यवस्तेषां कुलानि गोत्राणि तान्येव कमलानि नलिनानि तेषां प्रलयः क्षयस्तस्मिन्नीहारेण । हिमप्रतिमेनेत्यर्थः । राजेति । राजलक्ष्मीनृपश्रीस्तस्या विलासो विलसनं तदर्थं पटवासचूर्णेन पिष्टातक्षोदेन । अहितेति । अहितानां विपक्षाणां यान्यातपत्राणि छत्राणि तान्येव पुण्डरीकाणि कमलानि - - -- - - - - - - - - - - - - - - - - - -- - - - - - टिप्प० - 1 तदभ्यन्तरगतत्वात् । 2 परागरजसामपि तत्पृष्ठगामित्वात्प्रकृष्टमुत्साहं प्राप्यमाण इवेत्युत्प्रेक्षा । 3 असमये उदयात् उत्पातसूचको यो राहुरित्यर्थो वक्तव्यः । 4 धिक् । दधिदूर्वादः काऽत्र कथा ? किन्तु-दिग्विजयस्य मङ्गलध्वजेन माङ्गलिककेतुदण्डस्वरुपेण । ध्वजवदुत्थानसादृश्यात् रजसि ध्वजत्वरूपणमित्यर्थः । पाठा० - १ विधूतेन. २ प्रसार्यमाणः; प्रोत्सार्यमाणः. ३ मङ्गलवलय. ४ प्रतिसरमालिकासु. ५ खण्ड, (दिग्विजयप्रस्थानम् । पूर्वभागः ।। 249) Page #263 -------------------------------------------------------------------------- ________________ तुषारेण, सैन्यभरपीडितमहीतलमूर्छान्धकारेण, चलद्धलजलदकालकदम्बकुसुमोद्गमेन, दिवसकरकरकमलवनोद्दलनद्विपयूथेन, गगनमहीतलप्लावनप्रलयपयोधिपूरेण, त्रिभुवनलक्ष्मीशिरोवगुण्ठनपटेन, महावराहकेसरनिकरकबुरेण, प्रलयानलधूमराजिमांसलेन, पातालतलादिवोत्तिष्ठता, चरणेभ्य इव निर्गच्छता, लोचनेभ्य इव निष्पतता, दिग्भ्य इवागच्छता, नभस्तलादिव पतता, पवनादिवोल्लसता, रविकिरणेभ्य इव संभवता, अनपहृतचेतनेन निद्रागमेन, अनवगणितसूर्येणान्धकारेण, अधर्मकालोपस्थितेन भूमिगृहेण, अनुदिततारागणनिवहेन बहुलनिशाप्रदोषेण, पतितसलिलेन जलधरसमयेन, अभ्रान्तभुजं - *********** तेषां खण्डनं कर्तनं तस्मिंस्तुषारेण नीहारेण । कमलानां विध्वंसन एतस्यैव सामर्थ्यात् । सैन्येति । सैन्यभरेण बलभरेण पीडितमाक्रान्तं यन्महीतलं पृथ्वीतलं तस्य मूर्छा निश्चेष्टता तत्रान्धकारेण तिमिरेण । चलदिति । चलद् गच्छद्धलं सैन्यं तदेव जलदकालः मेघसमयस्तत्र कदम्बकुसुमोद्गमेन नीपपुष्पोद्गमेन । दिवसेति । दिवसकरः सूर्यस्तस्य कराः किरणास्त एव कमलवनं नलिनखण्डं तस्योद्दलन मूलत उच्छेदनं तस्मिन्दिपयूथेन हस्तिसमूहेन । गगनेति । गगनमेव महीतलपृथ्वीतलं तस्य प्लावनमाक्रमणं तस्मिन्प्रलयः कल्पान्तस्तस्य यः पयोधिः समुद्रस्तस्य पूरेण प्लवेन । त्रिभुवनेति । त्रिभुवनस्य त्रिविष्टपस्य या लक्ष्मीः श्रीस्तस्याः शिरोवगुण्ठनपटेनोत्तमाङ्गाच्छादनवस्त्रेण । महेति । महावराह आदिवराहस्तस्य केसरनिकरः सटासमूहस्तद्वत्कबुरेण मलिनेन । प्रलयेति । प्रलयस्य कल्पान्तस्यानलो वह्निस्तस्य या धूमराजिर्दहनकेतनपङ्क्तिस्तद्वन्मांसलेन पुष्टेन । पातालेति । पातालतलाबडवामुखतलादुत्तिष्ठतेवोत्थानं कुर्वतेव । चरणेति । चरणेभ्यः पादेभ्यो निर्गच्छतेव निर्गमनं कुर्वतेव । लोचनेति । लोचनेभ्यो नेत्रेभ्यो निष्पततेव पतनं कुर्वतेव । दिग्भ्य ऐन्द्रयादिभ्य आगच्छतेवागमनं कुर्वतेव । नभ इति । नभस्तलाद्व्योमतलात्पततेव पतनं कुर्वतेव । पवनेति । पवनात्समीरणादुल्लसतेवोल्लास प्राप्नुवतेव । रवीति । रविकिरणेभ्यः सूर्यरश्मिभ्यः संभवतेव प्रादुर्भवतेव । अनेति । निद्रायाः प्रमीलाया आगमः समागमस्तेन । अत्र तु स्वप्नादिविलक्षणं बाह्यं ज्ञानं तस्मादित्यत आह - अनेति । अनपहृतमगृहीतं चेतनं चैतन्यं येनैवंविधेनेत्यर्थः । अत एवालौकिक एवेति भावः । अनवेति । अनवगणितोऽनिराकृतः सूर्यो भानुर्येनैवंभूतेनान्धकारेणेव तमिसेणेव । अधर्मेति । अधर्मकाल उपस्थितेन प्राप्तेन भूमिगृहेण वसुधामध्यसदनेन । धर्मकाले तु तदीप्सितं स्यादत एवोक्तम् - अधर्मकालेति । 'अधर्मकालोपस्थितेन' इति पाठे धर्मकालस्तपस्याचरणादौ तस्येष्टत्वात् । अतएवोक्तमधर्मकालेति । अनुदितेति । अनुदित उदयं न प्राप्तस्तारागणनिवहो नक्षत्रसमूहो यस्मिन्नेवभूतेन बहुलनिशा कृष्णपक्षरात्रिस्तस्याः प्रदोषेण यामिनीमुखेन । पतितेति । पंतितं स्त्रस्तं सलिलं पानीयं यस्मिन्नेवभूतेन जलधरसमयेन वर्षाकालेन । अभ्रेति । अभ्रान्ता अप्रचलिता भुजंगमाः सर्पा यस्मिन्नेवंविधेन - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०.1 गगनरुपमहीतलस्य प्लावने (जलद्वारा तिरोधाने) प्रलयपयोधेः पूरः (प्रवाहः) तेन, इति सरलोऽर्थः अवगन्तव्यः । 2 प्रत्येकचरणलग्नतया एवमुत्प्रेक्षा । एवमग्रेऽपि सर्वत्र बोध्यम् । 3 निद्रा चेतनामपहरति, किन्तु इदं रजश्चेतना न हरति अन्यत्सर्वं निद्रातादात्म्यमिति, अधिकाभेदरुपकम् । प्राचा मते - अधिकारुढवैशिष्ट्यरुपकम् । प्राचीनतराणां (वामनादीनाम्) मते तु - एक - गुणहानिकल्पनायां समग्रगुणदाय विशेषोक्तिरिति विशेषोक्तिः । एवमग्रे सर्वत्र । 4 'अपतितसलिलेन इत्यपि पाठः । न पतितं वृष्टं वर्षाजलं यनेति तदर्थः । पाठा० - १ सेनाभर; सैन्यतुरग. २ बहलबहल. ३ दिवसकरकमल; दिवसकरकिरणकमल. ४ अनपहृतलोचनेनानवगणित. ५ अपतित. ६ भुजङ्गेन. [250 कादम्बरी। कथायाम् Page #264 -------------------------------------------------------------------------- ________________ गमेन रसातलेन, हरिचरणेनेव संवर्धमानेन त्रिभुवनमलयत रजसा । विकचकुवलयवनमिव नवोदकेन गगनतलमवष्टभ्यमानमलक्ष्यत क्षीरोद॑पाण्डुना क्षितिक्षोदेन । बहुलरजोधूसरितमशिशिरकिरणबिम्बमवचूलचामरमिव निष्प्रभमभवत् । दुकूलपैटधवला कदलिकेव कलुषतामाजगाम गगनापगा । नरपालबलभारमसहमाना पुनरिव भारावतारणार्थममरलोकमारुरोह रजोमिषेण मही । निःशेषपीतातपमन्तर्दह्यमानमिव जलधिजलेषु धूसरितरविरथध्वजपटमपतदवनिरजः । मुहूर्तेन च गर्भवासमिव, संहारसागरजलमिव, कृतान्तजठरमिव, महाकालमुखमिव, नारायणोदरमिव, ब्रह्माण्डमिव विवेश पृथिवी । मृन्मय इव बभूव दिवसः । पुस्तमय्य इव चकाशिरे ककुभः । रेणुरूपेणेव परिणतमम्बरतलम् । एकमहाभूतमयमिव त्रैलोक्यमासीत् । *********** रसातलेन पृथ्वीतलेन । संवर्धनेन वृद्धिं प्राप्यमाणेन । केनेव । हरिचरणेनेव विष्णुपादेनेव । यथा हरिचरणो बलिध्वंसनार्थं क्रमेण वृद्धिं प्राप्तस्तथायमपीत्यर्थः । एवंविधेन रजसा रेणुना त्रिभुवनं त्रिविष्टपमलयत । क्षीरोदः क्षीरसमुद्रस्तद्वत्पाण्डुना श्वेतरक्तेन क्षितिक्षोदेन वसुधाचूर्णेन गगनतलं व्योमतलमवष्टभ्यमानं व्याप्यमानमलक्ष्यतादृश्यत । केन किमिव । नवोदकेन नवीनपानीयेन विकचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां वनमिव । अत्र गगनस्य कृष्णत्वसाम्यात्तदुपमानम् । क्षितिक्षोदस्य शुक्लत्वसाम्यानवोदकोपमानमिति भावः । बहुलेतिं । बहुलं निबिडं यद्रजस्तेन धूसरितं कर्बुरीकृतमशिशिरकिरणबिम्बं चन्द्रसूर्यबिम्बमण्डलमवचूलचामरमिव हस्तिकर्णाभरणवालव्यजनमिव निष्प्रभं विगतद्युत्यभवज्जज्ञे । दुकूलेति । दुकूलं क्षौमं तदेव पटो वस्त्रं तद्वद्धवला श्वेता गगनापगा स्वर्धनी कलुषता मलिनतामाजगामागतवती । केव । कदलिकेव रम्भेव । यथा रम्भा रजोभिः कृत्वा कृष्णत्वं याति तथेयमित्यर्थः । नरेति । नरपालो नृपस्तस्य बलं सैन्यं तस्य भरं वीवधमसहमानेवाक्षममाणेव पुनर्भारावतारणार्थं भारं कुत्रचित्स्थापयितुममरलोकं स्वर्लोक रजोमिषेण रेणुच्छलेन मही पृथ्यारोहावरोहणं चकार । एकवारं गोरूपेण गताभूत् । इदानीं त्वेतद्रूपेणेत्यर्थः । अत एव पुनःशब्दोपादानम् । निःशेषेति । तदवनिरजो जलधिजलेषु सामुद्रपानीयेष्वपतत्पपातेत्यर्थः । कीदृशम् । निःशेषः समग्रः पीत आस्वादित आतपः सूर्यालोको येन तदत एवान्तर्दह्यमानमिवान्तर्मध्ये प्रज्वलमानमिव । अनेन जलपाते हेतुर्दर्शितः । पुनः कीदृशम् । धूसरितेति । धूसरितो धूम्रवर्णीकृतो रविरथस्य सूर्यस्यन्दनस्य ध्वजपटो येन तत् । मुहूर्तेनेति । मुहूर्तमात्रेण । सर्वत्र सबाह्याभ्यन्तरव्याप्त्योपमानान्याह - गर्भेत्यादि । गर्भवासमिव भ्रूणवासमिव । संसारसागरजलमिव कल्पान्तजलधिपानीयमिव । कृतान्तजठरमिव यमोदरमिव । महाकालमुखमिवाखण्डदण्डायमानो यः कालो महाकालस्तस्य मुखमिव । नारायणोदरमिव जनार्दनोदरमिव । ब्रह्माण्डमिव । पृथिवी वसुंधरा विवेश सर्वत्र प्रविष्टवतीति । सैन्यमिति शेषः । गर्भवासादिकमिव रजोरूपेण पृथिवी सैन्यं प्रविष्टेत्यर्थः । अत्र गर्भवासादिभिरुपमानैः सैन्यस्यात्युत्कृष्टताद्यनेकधर्मावच्छिन्नत्वं सूचितम् । तदन्तःप्रवेशाच्च रजसोऽपि ततोऽप्याधिक्यमिति भावः । मृदिति । मृन्मय इव मृदो विकार इव । अत्र विकारार्थे मयट् । तद्वदिव दिवसो दिनं बभूव । पुस्त इति । पुस्तं लेप्यादिकर्म तन्मय्य इव विलिप्ता इव ककुभो दिशश्चकाशिरे शुशुभिरे । रेणुरूपेणेति । रेणुरूपेण रजोमयत्वेनेवाम्बरतलं व्योमतलं परिणतं तन्मयतां गतम् । एकमिति । एक महाभूतं पृथिवीलक्षणं तन्मयमिव त्रैलोक्यं त्रिविष्टपमासीद्वभूव । - - - - - - - - - - - - - - - - - - - टिप्प० - 1 श्वेतवर्णप्रभुत्वप्रतिपादनार्थमत्र क्षीरोदकस्य द्रष्टान्तग्रहः । - - - - - - - - - - - - - - - - - - - - - पाठा० - १ क्षणाक्षीरोदफेनपाण्डुना. २ पट्ट. ३ भरमतिगुरुम्. ४ रजोनिभेन. ५ निपीत. ६ प्रस्थमय्यः. ७ दिशः. ८ अम्बरम्. ९ महाभूतमिव. दिग्विजयप्रस्थानम् पूर्वभागः ।) 5251): Page #265 -------------------------------------------------------------------------- ________________ अथ निजमदोष्मसंतप्तानां दन्तिनां दिशि दिशि करविवरनिःसृतैः क्षरद्भिः क्षीरोदेधवलैः शीकरासारैः, कर्णपल्लवप्रहतिविसृतेन च विसर्पता दानजलबिन्दुदुर्दिनेन, हेषारवविप्रकीर्णैश्च वाजिनां लालाजललवजालकैरुपशमिते रजसि, पुनरपि जातालोकासु दिक्षु, सागरादिवोन्मग्नमालोक्य तदपरिमाणं बलमुपजातविस्मयः सर्वतोदत्तदृष्टिर्वैशम्पायनश्चन्द्रापीडमाबभाषे ‘युवराज, किं नैं जितं देवेन महाराजाधिराजेन तारापीडेन यज्जेष्यसि, का दिशो न वशीकृता या वशीकरिष्यसि, कानि दुर्गाणि न प्रसाधितानि यानि प्रसाधयिष्यसि, कानि द्वीपान्तराणि नात्मीकृतानी यान्यात्मीकरिष्यसि, कानि रत्नानि नोपार्जितानि यान्युपार्जयिष्यसि, के वा न प्रणता राजानः, कैर्न विरचितः शिरसि बालकमलकुड्मलकोमलः सेवाञ्जलिः, कैर्नै मसृणीकृताः प्रतिबद्धहेमपट्टेर्ललाटैः सभाभुवः, कैर्न घृष्टाः पादपीठे चूडामणयः, कैर्न प्रतिपन्ना वेल - *** 252 अथेति । तदनन्तरं वैशम्पायनश्चन्द्रापीडमाबभाषेऽभिदधावित्यन्वयः । कस्मिन्सति । रजस्युपशमिते शान्ति प्राप्ते सति । कैः । निजेति । निजमदस्यात्मीयदानस्य य ऊष्मा तापस्तेन संतप्तानां प्रज्वलितानां दन्तिनां हस्तिनां दिशि दिशि प्रतिदिशं कराः शुण्डादण्डास्तेषां विवराणि रन्ध्राणि तेभ्यो विनिःसृतैर्बहिरागतैरत एव क्षरद्भिः सवद्भिः । क्षीरोदः क्षीरसमुद्रस्तद्वद्धवलैः शुभैः । शीकरा वातास्तवारिविप्रुषस्तेषामासारा वेगवत्यो वृष्टयस्तैस्तथा । कर्णा एव पल्लवास्तेषां प्रहतिः प्रकर्षेण हननं तया विसृतेनेतस्ततो विक्षिप्तेन । विसर्पता प्रसरता दानजलबिन्दुदुर्दिनेन मदवारिपृषन्मेघजनिततमसा । तथा वाजिनां तुरङ्गाणां हेषारवा हेषाशब्दास्तैर्विप्रकीर्णैर्विक्षिप्तैः । 'हेषा द्वेषा तुरङ्गाणां गजानाम्' इति कोशः । एवंविधैः । लालाजलं मुखनिष्ठ्यूतजलं तस्य लवाः खण्डास्तेषां जालकैः समूहैः । ‘समवायो निकुरम्बं जालं निवहसंचयौ' इति हैमः । पुनरपीति । रजःशमनानन्तरं जातः प्रकटीभूत आलोकः प्रकाशो यास्वेवंभूतासु दिक्षु ककुप्सु । कृष्णत्वसाम्यादाह - सागरेति । सागरात्समुद्रादुन्मग्नमिवोपर्यागतमिवापरिमाणमसंख्यं बलं सैन्यमालोक्य निरीक्ष्य । अथ वैशम्पायनं विशेषयन्नाह - उपेति । उपजातः समुत्पन्नो विस्मयश्चित्रं यस्य सः । सर्वत इति । सर्वतो ऽभितो दत्ता प्रेरिता दृष्टिर्येन सः । अन्वयस्तु प्रागेवोक्तः । किमुवाचेत्याह - युवराजेति । हे युवराज, देवेन पूज्येन तारापीडेन महाराजाधिराजेन । किमिति प्रश्ने । न जितं वशीकृतम् । सर्वमेव जितमित्यर्थः । यद्भवांस्त्वं जेष्यसि वशीकरिष्यसि । तथा का दिशः ककुभो न वशीकृता नात्मसात्कृता यास्त्वं वशीकरिष्यसि स्वायत्तीकरिष्यसि । कानि दुर्गाणि कोट्टानि न प्रसाधितानि न गृहीतानि यानि त्वं प्रसाधयिष्यसि ग्रहीष्यसि । तथा कानि द्वीपान्तराण्यन्तरीपान्तराणि नात्मीकृतानि यानि त्वमात्मीकरिष्यसि । तथा कान्यनिर्दिष्टाभिधेयानि रत्नानि स्वस्वजातावत्युत्कृष्टवस्तूनि नोपार्जितानि नोपार्जनाविषयीकृतानि यानि त्वमुपार्जयिष्यस्युपार्जनां करिष्यसि । अथ च के राजानो नृपा न प्रणता न नमस्कार कृतवन्तः । तथा कैर्नृपै राजभिर्न विरचितो न विहितः शिरस्युत्तमाङ्गे बालकमलस्य नवीननलिनस्य कुड्मलोमुकुलं तद्वत्कोमलो मृदुरेतादृक्सेवाञ्जलिः सपर्यानियामकं पाणियोजनम् । तथा कैर्भूपतिभिः प्रतिबद्धाः संनद्धा हेमपट्टाः कनकपट्टा येष्वेवंभूतैर्ललाटैर्भालैः सभाभुवः समाजक्षोण्यो न मसृणीकृता न श्लक्ष्णीकृताः । तथा कै राजभिर्नृपैः पादपीठे पदासने चूडामणयः शिरोमणयो न घृष्टा न घर्षणं प्रापिताः । तथा कैर्नृपैर्वेत्रलता वेतसयष्टयो न प्रतिपन्ना न स्वीकृताः । एतेन सर्वे प्रतीहारतां प्राप्ता इति सूचितम् । तथा कैर्भूपति - पाठा० - १ संतप्तानां दिशि दिशि २ क्षीरोदक्षोद. ३ विप्लुतेन. ४ पुनरुपजात. ५ सागरसलिलादिव. ६ किमजितम्. ७ के न. ८ वेत्रयष्टयः. **** कादम्बरी । कथायाम् Page #266 -------------------------------------------------------------------------- ________________ 1 ताः कैर्नोद्धूतानि चामराणि, कैर्नोच्चारिता जयशब्दाः, केषां न पीताः किरीटपत्रमकरैः सलिलधारा इव निर्मलास्तच्चरणनखमयूखराजयः । एते हिँ चतुरुदधिजलावगाहर्दुर्ललितबलमदावलिप्ता दशरथभगीरथभरतदिलीपालर्कमान्धातृप्रतिमाः कुलाभिमानशालिनः सोमपायिनो मूर्धाभिषिक्ताः पृथिव्यां सर्वपार्थिवा रक्षाभूतिमिवाभिषेकपयःपातपूतैश्चडामणिपल्लवैरुद्वहन्ति मङ्गल्यां भवच्चरणरजः संहतिम् । एभिरियमादिपर्वतैरिवापरैर्धृता धरित्री । एतानि चाप्यमीषामाप्लावितदशदिगन्तरालानि सैन्यानि भवन्तमुपासते । तथाहि । पैंश्य पश्य यस्यां यस्यां दिशि विक्षिप्यते चक्षुस्तस्यां तस्यां रसातलमिवोद्गिरति, वसुधेव सूते, ककुभ इव वमन्ति, गगनमिव वर्षति, दिवस इव सृजति बलानि । अपरिमितबलभराक्रान्ता मन्ये स्मरति महाभारतसमरसंक्षोभस्याद्य क्षितिः । एष शिखरदेशेषु स्खलितमण्डलो ध्वजागणयन्निव कुतूहला *********** भिश्चामराणि वालव्यजनानि नोद्धूतानि न वीजितानि । एतेनास्य सर्वेऽपि राजानश्चामरग्रहिणोऽभूवन्निति ध्वनितम् । तथा कैर्नृपतिभिर्जयशब्दा मङ्गलशब्दा नोच्चारिता नोदीरिताः । तथा केषां राज्ञां किरीटानां मुकुटानां पत्रमकराः पत्रेषु मकराकारा विवृतमुखास्तैः सलिलधारा इव पतत्पानीयपङ्क्तय इव निर्मलाः स्वच्छास्तस्य तारापीडस्य यौ चरणौ पादौ तयोर्नखाः पुनर्भवास्तेषां मयूखाः किरणास्तेषां राजयः श्रेणयो न पीताः न पानविषयीकृताः । एतेन सर्वेऽपि क्षितिभुजस्तारापीडस्य महाराजस्य चरणसपर्यं कृतवन्त इति ध्वनितम् । अथ राज्ञां स्वरूपं वर्णयन्नाह - एते हीति । हि निश्चितम् । पृथिव्यां रत्नगर्भायामेते प्रत्यक्षोपलभ्यमाना ये सर्वपार्थिवाः समग्रराजानो रक्षाभूतिमिव रक्षाभस्ममिवाभिषेकस्य यौवराज्याभिषेकस्य यः पयःपातः सलिलपातस्तेन पूतैः पवित्रैश्चूडामणयः शिरोरत्नानि त एव पल्लवास्तैर्मङ्गल्यां मङ्गले हितां भवच्चरणयोस्त्वत्पादयो रजः संहतिं रेणुसमूहमुद्वहन्ति धारयन्ति । कीदृशा राजानः । चतुरिति । चतुरुदधयश्चतुःसमुद्रास्तेषां जलानामवगाहः तत्संबन्धी महाप्रलयस्तद्वद् दुर्ललितं दुश्चेष्टितं रिपुक्षयकृलक्षणं यस्मिन्नेतादृशं बलं सैन्यं तस्य मदोऽहंकारस्तेनावलिप्ता व्याप्ताः । दशरथो रामपिता, भगीरथः सगरपौत्रः, भरत आर्षभिः, दिलीपो रघुपिता, अलर्कः प्रसिद्धः, मान्धाता युवनाश्वतनयः, एतैः प्रतिमाः सदृशाः कुलस्य गोत्रस्य योऽभिमानोऽहंकारस्तेन शालिनः शोभिनः । सोमपायिनः सोमेष्टिकारिणो मूर्धन्यभिषिक्ताः कृताभिषेकाः । इयमिति । एभिः पूर्वोक्तव्यावर्णितस्वरूपै राजभिरियं धरित्री वसुधा धृता धारिता । कैरिव । अपरैर्भिनैरादिपर्वतैरिव कुलपर्वतैरिव । एतानीति । अमीषां राज्ञामेतानि सैन्यानि भवन्तं त्वामुपासते सेवन्ते । कीदृशानि । आप्लावितान्यवगाहितानि दशदिशामन्तरालानि मध्यभागा यैस्तानि । एतदेव दर्शयति - तथाहीति । पश्य पश्य विलोकय । यस्यां यस्यां दिशि चक्षुर्नेत्रं विक्षिप्यते प्रेर्यते तस्यां तस्यां दिशि रसातलमिव पृथ्वीतलमिवोद्गिरति वमति । बलानि सैन्यानीति सर्वत्र संबध्यते । वसुधेव वसुंधरेव सूते जनयति । ककुभ इव दिश वमन्त्युद्गिरन्ति वमति । गगनमिवान्तरिक्षमिव वर्षति वृष्टिं करोति । दिवस इव दिनमिव सृजति प्रणयति । अहमति मन्ये जानेऽद्य क्षितिर्वसुधाऽपरिमितं यद्वलं सैन्यं तस्य भरोऽतिशयस्तेनाक्रान्ता भरिता सती । महेति । महाभारते प्रतिपादितो व्याख्यातो यः समरसंक्षोभः सङ्ग्रामसंमर्दस्तस्य स्मरति स्मरणं करोति । अत्र स्मृत्यर्थधातुभिर्योगे 'मातुः स्मरति' इतिवत्कर्मणि षष्ठी । एष इति । एष समी - टिप्प० - 1 भस्मेवेत्यर्थः । 2 चतुरुदधिजलेषु योऽवगाहः विजययात्रार्थमवतरणं तेन दुर्ललितानां धृष्टमनोहराणां बलानां सैन्यानां मदेनावलिप्ताः (गर्विताः) इत्यर्थः । 3 व्याप्तानीत्यर्थः । पाठा० - १ उद्धृतानि २ त्वच्चरण. ३ हि ते ४ दुर्ललितवद. ५ माङ्गल्याम्; मङ्गलदाम्. ६ पश्य यस्याम् ७ गगनतलम्. ८ महाभारतसंक्षोभस्य; महाभारतबलसमरसंक्षोभस्य. १९ मत्तेभकरटशिखरदेशेषु. १० परिस्खलित. (दिग्विजयप्रस्थानम् पूर्वभागः । 253 Page #267 -------------------------------------------------------------------------- ________________ द् भ्रमति कदलिकावनान्तरेषु मयूखमाली । सर्वतश्च मदजलमुचा करिणामेलापरिमलसुरभिणि वेणिकावाहिनि मदवारिणि निरन्तरमग्ना निपतितमधुकरकुलकलकलकलिला कालिन्दीजलकल्लोलेकलितेव भाति भूतधात्री । सैन्यभरसंक्षोभभयात्सरित इव गंगनतलमुत्पतिता आच्छादयन्त्येता दिक्चक्रवालमिन्दुधवला ध्वजपङ्क्तयः । सर्वथा चित्रं यन्नाद्य विघटितसकलकुलशैलसंधिबन्धा सहस्रशः शकलीभवति बलभरेण धरित्री, यद्वा बलभरपीडितवसुधाधारणविधुरा न चलन्ति फणिनां पत्युः फणाभित्तयः' इत्येवं वदत एव तस्य युवराजः समुच्छ्रितानेकतोरणां तृणमयप्राकारमन्दिरसहससंबाधामुल्लासितधवलपटमण्डपशतशोभिनीमावासभूमिमवाप । *********** पतरवर्ती कदलिकावनान्तरेषु रम्भाकाननान्तरेषु मयूखमाली सूर्यः शिखरदेशेषु ध्वजाग्रभागेषु स्खलितं स्खलनां प्राप्तं मण्डल बिम्ब यस्यैवंभूतः प्रतिरोधनिवृत्त्यर्थं ध्वजान्गणयन्निव संख्यां कुर्वन्निव कुतूहलाद् भ्रमतीत्युत्प्रेक्षा । ध्वजानामुच्चतोत्कर्षो व्यङ्ग्यः । कदलिकावनमिति सूर्यप्रदर्शनोपलक्षणमात्रं न त्वन्यत् । करिमदोत्कर्षमाह - सर्वतश्चेति । मदजलमुचा मदसाविणां करिणां हस्तिनामेलायाश्चन्द्रबालाया यः परिमल आमोदस्तद्वत्सुरभिणि सौरभ्ययुक्ते । वेणिकावाहिनीति । वेणिका प्रवेणी तया वहति गच्छतीत्येवंशीलं तस्मिन्नेवभूते मदवारिणि दानजले निरन्तरं मग्ना । समन्ततो जलक्लिन्नेत्यर्थः । एवंभूता भूतधात्री पृथ्वी । तामेव विशिनष्टि - निपतितेति । निपतित पर्यस्तं यन्मधुकरकुलं भ्रमरसमूहस्तस्य यः कलकलः कोलाहलस्तेन कलिला गहना । 'कलिलं गहन इति कोशः । अत्र च श्यामताद्रवत्वाभ्यां मदवारिणः, शब्दविशेषैः श्यामतापरिमाणविशेषैश्च भ्रमरकुलस्य साम्येनोत्प्रेक्षते - कालिन्दीति । कालिन्दी यमुना तस्या जलकल्लोलैः पानीयतरङ्गः कलितेव भाति शोभते । सैन्येति । सैन्यस्य बलस्य यो भरस्तजनितो यः संक्षोभः क्षुब्धता तल्लक्षणं यद्भयं त्रासस्तस्माद्गगनतलं व्योमतलमुत्पतिताः स्वच्छत्वनैर्मल्यसाधात्सरित इव नद्य इव एताः प्रत्यक्षोपलक्ष्यमाणा इन्दुवच्चन्द्रवद्धवलाः शुभ्रा ध्वजपङ्क्तयो वैजयन्तीश्रेण्यो दिक्चक्रवालं ककुप्समूहमाच्छादयन्त्यावृण्वन्ति । सर्वथेति । सर्वथा सर्वप्रकारेणैतच्चित्रं महदाश्चर्यम् । एतत्किमित्याह - यदिति । यदद्य विधटिता विश्लेषं प्राप्ताः सकलाः समग्रा ये कुलशैलास्त एव संधिबन्धा अस्थिबन्धा यस्या एवंभूता धरित्री वसुंधरा बलभरेण सैन्यसंमर्दैन सहसशः सहस्रधा न शकलीभवति । न सहस्रधा जायत इत्यर्थः । एतदाश्चर्यमित्यर्थः । एतच्छङ्का दूरीकर्तुं पक्षान्तरमाह - यवेति । यद्वा बलभरेण सैन्यभरेण पीडिता या वसुधा तस्या धारणं तेन विधुराः पीडिताः फणिनां पत्युः शेषनागस्य फणाभित्तयः फणकुड्यानि न चलन्ति । अत एवेयं तदाधारेण तिष्ठतीत्यर्थः । इत्येवं पूर्वोक्तप्रकारेण तस्य वैशम्पायनस्य वदतो ब्रुवत एव युवराजश्चन्द्रापीड आवासभूमिं निवासभूमिमवाप प्रापेत्यन्वयः । अथ तां विशेषयन्नाह - समुच्छ्रितेति । समुच्छ्रितान्युच्चान्यनेकानि तोरणानि बहिराणि यस्यां ताम् । 'बहिरं तु तोरणम्' इति कोशः । तृणेति । तृणमयो यवसमयो यः प्राकारो वप्रस्तस्मिन्यन्मन्दिरसहसं गृहदशशतं तेन न विद्यते संबाधः सांकर्यं यस्याम् । उल्लासितेति । उल्लासितमुल्लासं प्राप्तं यद्धवलपटस्य श्वेतवस्त्रस्य मण्डपशतं जनाश्रयशतं तेन शोभिनीं शोभायुक्ताम् । टिप्प० - 1 पताकासमूहान्तरालेषु, इत्यर्थोऽयमत्र, कदलिका (रम्भा) काननस्याऽप्रसक्तत्वात् । व्याख्यातं च पूर्वम् - 'कदली वैजयन्त्या च रम्भाया हरिणान्तरे' इति । 2 विघटिताः सकलानां कुलशैलानां सन्धिबन्धाः (संयोगबन्धनानि) यस्याः सा, इति व्याख्यागतं हार्दम् । 3 पृथिव्यां शकलीभवनासंबन्धेऽपि, फणानां स्खलनाऽसंबन्धेऽपि, तत्संबन्धवर्णनादतिशयोक्तिरित्यलङ्कारः । 4 मन्दिरसहसेण संबाधां गहना (व्याप्ताम्) इत्यर्थः । 'संकटं ना तु संबाधः कलिलं गहनं समे' इत्यमरः । पाठा० - १ मदवारिणी मग्ना निरन्तरनिपतित. २ कलकलकलिता; कलकलालिका; कलकलललिता. ३ कलिका; कवलिता. ४ सैन्यसक्षोभ. ५ धरणिमपहाय गगन. ६ सच्छादयन्ति. ७ द्विजपङ्क्तयः. ८ शैलबन्धा. ९ दलन्ति. १० मन्दिरसंबाधा. ११ संशोभिनी. 254 कादम्बरी। कथायाम् Page #268 -------------------------------------------------------------------------- ________________ तस्यां चावतीर्य राजवत्सर्वाः क्रियाश्चकार । सर्वेश्च तैः समेत्य नरपतिभिरमात्यैश्च विविधाभिः कथाभिर्विनोद्यमानस्तं दिवसमशेषमभिनवपितृवियोगजन्मना शोकावेगेनायास्यमानहृदयो दुःखेनात्यवाहयत् । अतिवाहितदिवसश्च यामिनीमपि स्वशयनीयस्य नातिदूरे निहितशयननिषण्णेन वैशम्पायनेन, अन्यतश्च समीपे क्षितितले विन्यस्तकुथप्रसुप्तया पत्रलेखया सह, अन्तरा पितृसक्तम्, अन्तरा मातृसंबद्धम्, अन्तरा शुकनासमयं कुर्वनालापं नातिजातनिद्रः प्रायेण जाग्रदेव निन्ये । प्रत्यूषे चोत्थाय तेनैव क्रमेणानवरतप्रयाणकैः प्रतिप्रयाणकमुपचीयमानेन सेनासमुदायेन जर्जरयन्वसुंधराम्, आकम्पयन्गिरीन्, उत्सिञ्चन्सरितः, रिक्तीकुर्वन्सरांसि, चूर्णयन्काननानि, समीकुर्वन्विषमाणि, दलयन्दुर्गाणि, पूरयनिम्नानि, निम्नयन्स्थलानि प्रतिष्ठता शनैः शनैश्च स्वेच्छया परिभ्रमन्, नमयन्नुनतान्, उन्नमयन्नवनतान्, आश्वासयन्भीतान्, रक्षशरणागतान्, उन्मूलयन्विटपकान्, उत्सादयन्कण्टकान्, अभि - *********** तस्यामावासभूमाववतीर्यावतरणं कृत्वा । चकारः पुनरर्थकः । राजवत्तारापीडवत्सर्वाः क्रियाः समग्रकृत्यानि चकार कल्पयामास । सर्वेश्चेति । तैः पूर्वोक्तैः सर्वैः समग्रैर्नरपतिभिरमात्यैश्च । अत्र चकारः समुच्चयार्थः । समेत्य नृपान्तिकमागत्य विविधाभिरनेकप्रकाराभिः कथाभिर्वार्ताभिर्विनोद्यमानः क्रीडाविषयीक्रियमाणोऽशेष समग्रं तं दिवसं दिनमत्यवाहयदत्यक्रामत् । केन । दुःखेन कृच्छ्रेण । अथ युवराज विशिनष्टि - अभीति । अभिनवः प्रत्यग्रो यः पितृवियोगोऽननुभूतजनकविरहस्तस्माजन्मोत्पत्तिर्यस्य स तथैवंविधेन शोकावेगेन शोचतावेशेनायास्यमानमायासं प्राप्यमाणं हृदयं चित्तं यस्य स तथा । रात्रि कथमतिक्रमितवानित्याह - अतीति । अतिवाहितोऽतिक्रमितो दिवसो येनैवंभूतो यामिनीमपि त्रियामामपि स्वशयनीयस्य स्वीयशय्यायाः । नातीनि । नातिदूरे नातिदवीयसि प्रदेशे निहितं स्थापितं यच्छयन शयनीयं तत्र निषण्णेनोपविष्टेन वैशम्पायनेन । अन्यतश्चान्यस्मिन्वैशम्पायनानिषीदनव्यतिरिक्त समीपे पार्श्ववर्तिनि क्षितितले पृथ्वीतले विन्यस्ता स्थापिता या कुथा परिस्तोमस्तत्र प्रसुप्तया कृतशयनया पत्रलेखाभिधानया करङ्कवाहिन्या सह सार्धम् । अन्तरा मध्ये पितृसक्तं जनकसंबन्धि । अन्तरा मातृसंबद्धम् । अन्तरा शुकनासो वैशम्पायनपिता तद्वार्ताभिनिष्पन्नमालापमन्योन्यं प्रीतिभाषणं कुर्वन्विदधन्नातिजाता न बाहुल्येन समागता निद्रा प्रमीला यस्य स तथा । प्रायेण बाहुल्येन जाग्रदेव निद्राभाववानेव निन्ये निनाय । प्रत्यूषे चेति । प्रत्यूषे प्रभाते चोत्थायोत्थानं कृत्वा तेनैव क्रमेण पूर्वोक्तपरिपाट्यानवरतप्रयाणकैर्निरन्तरगमनैः प्रतीति । प्रतिप्रयाणक प्रयाणं प्रयाणं प्रत्युपचीयमानेन पुष्टतां प्राप्यमाणेन सेनासमुदायेन सैन्यसंघातेन प्रतिष्ठता चलता वसुंधरां धात्री जर्जरयञ्छिथिलतामापादयन् । गिरीन्पर्वतानाकम्पयंस्तरलतां नयन् । सरितो नदीः उत्सिञ्चजलं दूरीकुर्वन् । सरांसि तटाकानि रिक्तीकुर्वञ्छून्यीकुर्वन् । जलेनेति शेषः । काननानि वनानि चूर्णयन्क्षोदीकुर्वन्विषमाणि कठिनानि समीकुर्वन्सरलीकुर्वन् । दुर्गाणि कोट्टानि दलयन्खण्डयन् । निम्नानि गभीराणि पूरयन्पूर्णीकुर्वन् । स्थलानि स्थलप्रदेशान् निम्नयन्सगम्भीरतामापादयन् । शनैः शनैर्मन्दं मन्दं स्वेच्छया स्वातन्त्र्येण परिभ्रमन्पर्यटन् । उन्नतानुच्चान् नमयनम्रतामापादयन् । अवनतान्प्रणतान् उन्नमयनुच्चता प्रापयन् । भीतांस्त्रस्तानाधासयन्नाधासानां कुर्वन् । शरणागतांस्त्राणार्थं प्राप्तारक्षन्पालयन् । विटपकान्विटानुन्मूलयन्नुन्मूलनां कुर्वन् । कण्टाकाञ्छत्रूनुत्सादयन्दूरी - - - - - - - - - - - - - - - टिप्प० - 1 व्यत्यगमयत् इत्यर्थ उचितः । 2 विषादभरेण, इत्यर्थो योग्यः । 3 अनावश्यकमिदम् । अत एव 'प्रातिष्ठत' इति पाठस्तत्रैव वाक्यसमाप्तिश्च । पाठा० - १ नातिदूरनिषण्णेन. २ शयनीयसमीपे. ३ क्षितितलविन्यस्त. ४ नात्युपजात. ५ प्रत्युषसि. ६ उपसिञ्चन्. ७ प्रातिष्ठत; न्यायवर्त्मनि प्रजाः प्रतिष्ठापयन्प्रातिष्ठत्. ८ नतान्. ९ रक्षयन्. (दिग्विजयः पूर्वभागः ।। 255) Page #269 -------------------------------------------------------------------------- ________________ षिञ्चन्स्थानस्थानेषु राजपुत्रान्, समर्जयन्रत्नानि, प्रतीच्छन्नुपायनानि, गृह्णन्करान्, आदिशन्देशव्यवस्थाम, स्थापयन्स्वचिह्नानि, कुर्वन्कीर्तनानि, लेखयशासनानि, पूजयन्नग्रजन्मनः, प्रणमन्मुनीन्, पालयन्नाश्रमान्, जनानुरागं प्रकाशयविक्रमम्, आरोपयन्प्रतापम्, उपचिन्वन्यशः, विस्तारयगुणान्, प्रख्यापयन्सच्चरितम्, आमृद्श्च वेलावनानि, बलरेणुभिराधूसरीकृतसकलसागरसलिलः पृथिवीं विचचार । प्रथमं प्राचीम्, ततस्त्रिशङ्कुतिलकाम्, ततो वरुणलाञ्छनाम्, अनन्तरं च सप्तर्षिताराशबलां दिशं जिग्ये । वर्षत्रयेण चात्मीकृताशेषद्वीपान्तरं सकलमेव चतुरुदधिखातवलयपरिखाप्रमाणं बभ्राम महीमण्डलम् । ततः क्रमेणावजितसकलभुवनतलः प्रदक्षिणीकृत्य वसुधा परिभ्रमन्, कदाचिकैलाससमीपचारिणां हेमजकूटनाम्नां - *********** कुर्वन् । स्थानस्थानेष्विति । स्थानानि च स्थानानि च स्थानस्थानानि तेषु राजपुत्रानृपसुतानभिषिञ्चनभिषेकं कुर्वन् । रत्नानि स्वस्वजातावुत्कृष्टवस्तूनि समर्जयन् । उपायनानि प्राभृतानि प्रतीच्छन्स्वीकुर्वन् । करान्दण्डान्गृह्णन्ग्रहणं कुर्वन् । देशव्यवस्थां जनपदमर्यादामादिशनाज्ञापयन् । स्विचिह्नानि स्वस्यागमननिमित्तानि स्थापयन्स्थापनां कुर्वन् । कीर्तनानि हरिगुणगानानि कुर्वन् । शासनानि ग्रामपट्टकादीनि लेखयंलिपीकारयन् । अग्रजन्मनो ब्राह्मणान्पूजयन्नर्चयन् । मुनीनृषीन्प्रणमन्नमस्कुर्वन् । आश्रमान्ब्रहाचारिप्रभृतीन्पालयन्प्रतिपालनां कुर्वन् । जनानामनुरागो यथा स्यादेवंभूतं विक्रमं पराक्रमं प्रकाशयन्प्रकटयन् । प्रतापं कोशदण्डजं तेज आरोपयन्स्थापयन् । यशः सर्वदिग्गामुकमुपचिन्वन्पुष्टीकुर्वन् । गुणाशौर्यादीन्विस्तारयन्प्रथयन् । सच्चरितं शोभनं वृत्तं लोकेषु प्रख्यापयन्प्रकटीकुर्वन् । वेलावनानि समुद्रतीरोद्भवोपवनान्यामृद्नन्नाभञ्जयन् । किंविशिष्टः । बलरेणुभिः सैन्यधूलिभिरासमन्ताद्धूसरीकृतमीषत्पाण्डुरीकृतं सकलः समग्रो यः सागरः समुद्रस्तस्य सलिलं पानीयं येन सः । पृथिवीं वसुधां विचचार बभ्राम । प्रथमं क्व जग्मिवानित्याशयेनाह - प्रथममिति । प्रथममादौ प्राची प्राग्दिशम् । तत इति । ततः तद्गमनानन्तरं त्रिशङ्कुर्नृपतिरेव तिलको यस्यां सा तथा ताम् दक्षिणमित्यर्थः । इदं च पुराणे प्रसिद्धम् । ततो वरुणः प्रचेता लाञ्छनं यस्याः सा ताम् । पश्चिमामाशामित्यर्थः । अनन्तरं चेति । ततः पश्चात्सप्तर्षीणां मरीचिप्रमुखाणां तारा नक्षत्राणि ताभिः शबला कर्बुरा दिशमुदीची जिग्ये । जितवानित्यर्थः । वर्षेति । वर्षत्रयेणाब्दत्रयेण । सकलेति । सकलमेव समग्रमेव महीमण्डलं वसुधावलयं बभ्राम भ्रमणं चकारेत्यन्वयः । अथ महीमण्डलं विशिनष्टि - आत्मीति । आत्मीकृतं स्वायत्तीकृतमशेष समग्र द्वीपान्तरमन्तरीपान्तरं यस्मिंस्तत्तथा । चतुरिति । चतुरुदधयश्चतुःसमुद्रा एव खातवलयं तदेव परिखाप्रमाणं यस्य तत् । ततस्तज्जयानन्तरं क्रमेण परिपाट्या । अवेति । अवजितं स्वायत्तीकृतं सकलभुवनतलं समग्रवसुधातलं येन स एवंभूतः । वसुधां प्रदक्षिणीकृत्य पृथ्याः प्रदक्षिणां दत्त्वा परिभ्रमन्नितस्ततः पर्यटन् । कदाचित्कस्मिंश्चित्समये । कैलासेति । कैलासो रजताद्रिस्तत्समीपचारिणा तत्पार्श्वगामिना हेमजकूट इति नाम येषामेवंविधानां - टिप्प० -1 आत्मनो विक्रम-प्रतापादे?षणाः इत्यर्थ उचितः, हरिगुणगानस्य समरयात्रामप्रसक्तत्वात् । 2 सर्वत्र स्वकर्मसहितं शत्रन्तमुपात्तं न क्वचित्क्रियाविशेषणम् । अत एव 'जनयन् जनानुरागम्' इत्येव पाठः । 3 जि-धातोः परस्मैपदित्वादिदमशुद्धम् । अतः 'विजिग्ये' इत्येव पाठः । 4 'हेमजकूट' इत्यपि कस्याश्चिज्जाते म भवतीति यस्य परिज्ञानं सोपि टीकाकरणे व्यप्रियते इति महद्भागधेयमस्माकम् । अस्तु 'हेमकूटधाम्नाम्' इत्यपि पाठः । हेमकूटो हिमालयादुत्तरस्थितः पर्वतविशेषो धाम (निवासः) येषां तेषामिति तदर्थः । पाठा० - १ व्यवस्थाः. २ पूर्वाः प्रशस्तीः. ३ प्रीणयन्. ४ जनयञ्जनानुरागम्. ५ ख्यापयन्. ६ सच्चरितमुद्योतयन्पौरुषम्. ७ आमृद्नन्वेला; आमर्दयश्च वेला. ८ विजिग्ये. ९ एवं वर्षत्रयेणात्मी. १० अम्भोधि. ११ निर्जितं; आवाजतं. १२ वसुधराम्. १३ हेमकूटधाम्नाम्. हेमजटानाम्नाम्. - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - प (256 कादम्बरी। कथायाम् Page #270 -------------------------------------------------------------------------- ________________ किरातानां सुवर्णपुरं नाम निवासस्थान नातिविप्रकृष्टं पूर्वजलनिधेर्जित्वा जग्राह । तत्र च निखिलधरेणीतलपर्यटनखिन्नस्य निजबलस्य विश्रामहेतोः कतिपयान्दिवसानतिष्ठत् । एकदा तु तत्रस्थ एवेन्द्रायुधमारुह्य मृगयोनिर्गतो विचरन्कानने शैलशिखरादवतीर्णं यदृच्छया किंनरमिथुनमद्राक्षीत् । अपूर्वतया तु समुपजातकुतूहलः कृतग्रहणाभिलाषस्तत्समीपमादरादुपसर्पिततुरगः समुपसर्पन्, अदृष्टपूर्वपुरुषदर्शनत्रासप्रधावितं च तत्पलायमानमनुसरननवतरपाणिप्रहारद्विगुणीकृतजवेनेन्द्रायुधेनैकाकी निर्गत्य बलसमूहात्सुदूरमनुसंसार । 'अत्र गृह्यते, इदं गृहीतम्, इदं गृहीतम्' इत्यतिरभसाकृष्टचेता महाजवतया तुरंगमस्य मुहूर्तमात्रेणैकपदमिवासहायस्तस्मात्प्रदेशात्पञ्चदशयोजनमात्रमध्वानं जगाम । तच्चानुबद्धमानमालोकयत एवास्य संमुखापतितमचलतुङ्गशिखरमारुरोह । आरूढे च तस्मिञ्शनैः शनैस्तदनुसारिणी निवर्त्य दृष्टिम्, अचलशिखरप्रस्तरप्रतिहतगतिप्रसरो विधृततुरङ्गश्चन्द्रापीडस्तस्मिन्काले - *********** किरातानां भिल्लाना म्लेच्छानां वा सुवर्णपुरं नाम निवासस्थान जित्वा जयं कृत्वा जग्राह गृहीतवान् । कीदृशम् । पूर्वजलनिधेः पूर्वसमुद्रानातिविप्रकृष्टं नातिदूरम् । तत्र चेति । तस्मिन्स्थले निखिलं समग्रं यद्धरणीतलं पृथ्वीतलं तत्र पर्यटनं परिभ्रमणं तेन खिन्नस्य रीणस्य निजबलस्यात्मीयसैन्यस्य विश्रामहेतोः क्लान्तिनिवृत्त्यर्थं कतिपयान्कियतो दिवसान्वासरानतिष्ठदवस्थानमकारयत् । । एकदा त्विति । एकस्मिन्समये तत्रस्थ एव तस्मिन्स्थाने स्थित एवेन्द्रायुधमश्चमारुह्यारोहणं कृत्वा मृगयार्थमाखेटकार्थं निर्गतः कानने वने विचरन्गच्छशैलशिखराद्गिरिश्रृङ्गादवतीर्णमुत्तीर्णं यदृच्छया स्वेच्छया किंनरमिथुनं तुरङ्गवदनयुग्ममद्राक्षीदवलोकयांचकार । अपूर्वतयाद्भुततया । तु पुनरर्थकः । समुपजातं समुत्पन्नं कुतूहलमाश्चर्यं यस्य सः । कृतेति । कृतो विहितो ग्रहणे स्वीकारेऽभिलाष इच्छाविशेषो येन सः । तदिति । तस्य किंनरमिथुनस्य समीपं पार्थमादरादहुमानादुपसर्पितस्तद्दिशं प्रति प्रेरितस्तुरगो वाहो येन स तथा समुपसर्पन्समीपे गच्छन् । अदृष्टेति । अदृष्टपूर्वमनवलोकितपूर्वं यत्पुरुषदर्शनं मानुषेक्षणं तस्माद्यस्त्रास आकस्मिकं भयं तेन प्राधावितं प्रकर्षण प्रतिष्ठित प्रस्थितं तत्किंनरमिथुनं पलायमानं पलायनं कुर्वाणमनुसरननुगच्छन् । अनेति । अनवरतं निरन्तरं यः पाणिप्रहारो हस्ताभिधातस्तेन द्विगुणीकृतो द्विभागाधिकीभूतो जवो वेगो यस्यैवंविधेनेन्द्रायुधेनाश्चेनैकाक्यसहायो बलसमूहात्सैन्यसंदोहानिर्गत्य निर्गमनं कृत्वा सुदूरमतिविप्रकृष्टमनुससार पश्चाद्ययौ । अत्रेति । अत्रास्मिन्स्थले गृह्यते ग्रहणविषयीकियते । मयेति शेषः । इदं किंनरमिथुनं गृहीतम् । इदं गृहीतमिति पूर्वोक्तप्रकारेणातिरभसादतिवेगेनाकृष्टमाकर्षितं चेतो यस्य स तथा च । अथ च तुरंगमस्याचस्य महाजवतया महावेगतया मुहूर्तमात्रेण घटिकाद्वयेनैकपदमिवैकवारमिव । अत्र सादृश्य इवशब्दः । एकवारसदृशमित्यर्थः । असहायोऽद्वितीयस्तस्मा प्रदेशात्पञ्चदशयोजनमानं पञ्चदशयोजनपरिमितमध्वानं मागं जगाम ययौ । अस्य राज्ञस्तत्पूर्वोक्तमनुबध्यमानमनुबन्धविषयीक्रियमाणं किंनरमिथुनमालोकयत एव विलोकयत एव संमुखापतितमभिमुखागतम् । शिखरविशेषण् । अचलतुङ्गशिखरं पर्वतोच्चसानुमारुरोहारोहणं चकार । आरूढेति । तस्मिन्किनरमिथुन आरूढे सति शनैः शनैर्मन्दं मन्दं तदनुसारिणी तत्पृष्ठगामिनी दृष्टिं चक्षुः निवर्त्य निवर्तनविषयीकृत्य । अचलेति । अचलस्य पर्वतस्य शिखराणि सानूनि तेषां प्रस्तरा ग्रावाणस्तैः प्रतिहतः गतिप्रसरो गमनप्रचारो यस्य सः । अत एव विधृतो गमनात्प्रतिषिद्धस्तुरङ्ग इन्द्रायुधाचो येनैवंविधश्चन्द्रापीडस्तस्मिन्काले तस्मिन्समये समुपारूढो - टिप्प० - 1 परिश्रान्तस्येति सरलोऽर्थः । 2 अदृष्टपूर्वस्य पुरुषस्य दर्शनात् त्रास इत्युचितम् । पाठा० -१ विप्रकृतम्. २ धरणि. ३ विनिर्गतः. ४ काननम्. ५ शिखरावतीर्णम्. ६ अपूर्वदर्शनतया. ७ तुरङ्ग. ८ समुपससर्प. ९ पलायमानमनवरत. १० पाणिप्रहार. ११ निजबल. १२ उपससार. १३ अत्र गृह्यतेऽत्र गृह्यते. १४ प्रस्तरशकल. १५ तुरंगमः. (किन्नरमिथुनाऽप्राप्तौ निर्वेदः । पूर्वभागः । 257 Page #271 -------------------------------------------------------------------------- ________________ समुपारूढश्रमस्वेदाशरीरमिन्द्रायुधमात्मान चावलोक्य क्षणमिव विचार्य स्वयमेव विहस्याचिन्तयत् - 'किमिति निरर्थकमयमात्मा मया शिशुनेवायासितः । किमनेन गृहीतेनागृहीतेन वा किंनरयुगलेन प्रयोजनम् । यदि गृहीतमिदं ततः किम्, अथ न गृहीतं ततोऽपि किम् । अहो मे मूर्खतायाः प्रकारः । अहो यत्किंचनकारितायामादरः । अहो निरर्थकव्यापारेष्वभिनिवेशः । अहो बालिशचरितेष्वासक्तिः । साधुफलं कर्म क्रियमाणं वृथा जातम् । अवश्यकतव्या क्रिया प्रस्तुता विफलीभूता । सुहृत्कार्यमुपपाद्यमानं नोपपनम् । राजधर्मः प्रवर्तितो न निष्पन्नः । गुर्वर्थः प्रारब्धो न परिसमाप्तः । विजिगीषुव्यापारप्रयत्नो न सिद्धः । कस्मादहमाविष्ट इवोत्सृष्टनिजपरिवार एतावती भूमिमायातः । कस्माच्च मया निष्प्रयोजनमिदमनुसृतमश्चमुखद्वयमिति विचार्यमाणे संत्ययमात्मैव मे पर इव हासमुपजनयति । न जाने कियताध्वना विच्छिन्नमितो बलमनुयायि मे । महाजवो हीन्द्रायुधो निमेषमात्रेणातिदूर - *********** व्याप्तो यः श्रमस्वेदस्तेनार्दै स्विन्नं शरीरं देहो यस्यैवंविधमिन्द्रायुधमात्मानं चावलोक्य निरीक्ष्य क्षणमिव क्षणसदृशं विचार्य विमर्शनं कृत्व स्वयमेवात्मनैव विहस्य हास्यं विधायाचिन्तयच्चिन्तितवान् । किमिति हेतोः । अयमात्मा मया शिशुनेव बालकेनेव निरर्थक आयासितः प्रयास प्रापितः । किमनेनेति । अनेन किंनरयुगलेन किंनरमिथुनेन गृहीतेनागृहीतेन वा किं प्रयोजनं किं फलम् । यदीति चेदित्यर्थे चेदिदं किंनरमिथुनं गृहीतं ततः किम् । न किमपीत्यर्थः । अथ न गृहीतं ततोऽपि किम् । न किमपीत्यर्थः । अहो इत्याश्चर्ये । मे मम मूर्खताया मूढतायाः प्रकारो भेदः । अहो इति । यत्किंचन करोतीत्येवंशीलो यत्किंचनकारी तस्य भावस्तत्ता तस्यामादरो बहुमानः । अहो इति पूर्ववत् । निरर्थका निःप्रयोजना ये व्यापारास्तेष्वभिनिवेशो हटः । अहो इति पूर्ववत् । बालिशं निन्दितं चरितं चेष्टितं येषामेवविधेषु कृत्येष्वासक्तिस्तन्मयत्वम् । कर्मधारयो वा । साध्विति । साधु शोभनं फलं यस्यैवंविधं कर्म क्रिया क्रियमाणं विधीयमानं वृथा जातं निष्फलं जज्ञे । अवेति । अवश्यकर्तव्यावश्यकरणयोग्या क्रिया प्रस्तुता प्रारब्धा विफलीभूता निष्फलीभूता । सुहृदिति । सुहृत्कार्य मित्रकार्यमुपपाद्यमानं विधीयमानं नोपपन्नं न निष्पन्नम् । राजेति । राजधर्मो नीतिधर्मः प्रवर्तितः सर्वत्र विहितो न निष्पन्नो न सिडिं गतः । गुरोरर्थः पितुरर्थः प्रारब्धः प्रस्तुतो न परिसमाप्तो न परिपूर्णतां गतः । विजेतुमिच्छवो विजिगीषवस्तेषां व्यापारो व्याहृतिस्तस्मिन्प्रयत्न उद्योगो न सिद्धो न निष्पन्नः । कुत एतन्न जातमिति पराभिप्रायमाशङ्कयाह - कस्मादिति । कुतो हेतोरित्यर्थः । उत्तर प्रदर्शयन्नाह . अहमिति । अहमाविष्ट इव भूताभिभूत इवोत्सृष्ट उज्झितो निजपरिवारः स्वकीयपरिच्छदो येनैवंभूतः । एतावतीमियत्प्रमाणां भूमि वसुधामायात आगतः । कस्माद्धेतोः । मया निष्प्रयोजनं निरर्थकमिदमश्चमुखद्वयं किन्नरमिथुनमनुसृतमाश्रितमिति विचार्यमाणे सति विचिन्त्यमाने सत्ययमात्मैव स्वचेतन एव मे मम पर इव हास हास्यमुपजनयति निष्पादयति । न जाने नाकलयामि कियताध्वना कियन्मार्गेण विच्छिन्नं विच्छेदं प्राप्तमितो मत्सकाशाद्धलं सैन्यमनुयाय्यनुगमनशीलमित्यर्थः । मे मम । महाजवो महावेगः । हि निश्चितम् । इन्द्रायुधो निमेषमात्रेण चक्षुषो निमीलनमात्रेणातिदूरमतिविप्रकृष्टमतिक्रामत्यतिक्रमणं - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -- टिप्प० - 1 बालिशचरितेषु मूढजनकर्तव्येष्वित्येवार्थो व्याख्यायाः परमार्थः सत्यामपि बहुव्रीह्याम् । 2 दिग्विजयो वृथाऽभवदित्यर्थः, इतः परावर्तनाभावेन तत्फलभोगासंभवात् । 3 दिग्विजयेन दुष्टनिग्रहण-शिष्टानुग्रहणरूपा । 4 व्यवहृतिरित्याशयः । पाठा० - १ समारूढ. २ चालोक्य. ३ अन्वचिन्तयत्. ४ गृहीतम्. ५ कर्तव्यक्रिया. ६ व्यापारः. ७ उपसृज्य निजपरिवारम्; उत्कृष्टपरिवार एव तावतीम्. ८ यत्सत्यम्. ९ अन्वयायि. १० निमिष. IIIIIIIIIIIIIIIII (2581 I कादम्बरी । । MAY कथायाम् Page #272 -------------------------------------------------------------------------- ________________ मैतिक्रामति । न चागच्छता मया तुरगवेगवशात्किन्नरमिथुने बेद्धदृष्टिनास्मिन्नविरलतरुशतशाखागुल्मलतासंतानगहने निरन्तरनिर्पेतितशुष्कपर्णावकीर्णतले महावने पन्था निरूपितो येन प्रतिनिवृत्त्य यास्यामि । न चास्मिन्प्रदेशे प्रयत्नेनापि पॅरिभ्रमता मया मर्त्यधर्मा कश्चिदासाद्यते यः सुवर्णपुरगामिनं पन्थानमुपदेक्ष्यति । श्रुतं हि मया बहुशः कथ्यमानमुत्तरेण सुवर्णपुर सीमन्तलेखा पृथिव्याः सर्वजनपदानाम्, ततः परतो निर्मानुषमरण्यम्, तच्चातिक्रम्य कैलासगिरिरिति । अयं च कैलासः । तदिदानीं प्रतिनिवृत्त्यैकाकिना स्वयमुत्प्रेक्ष्योत्प्रेक्ष्य दक्षिणामाशां केवलमङ्गीकृत्य गन्तव्यम् । आत्मकृतानां हि दोषाणां नियतमनुभवितव्यं फलमात्मनैव' इत्यवधार्य वामकरतलचैलितरश्मिपाशस्तुरंगमं व्यावर्त यामास । निवँर्तिततुरंगमश्च पुनश्चिन्तितवान् - 'अयमुद्भासितप्रभाभास्वरो भगवान्भानुरधुना दिवसश्रियो रशनामणिरिव मध्यमलंकरोति । परिश्रान्तश्चायनिन्द्रायुधः । तदेनं तावदागृहीतक - *********** करोति । न चेति । अस्मिन्महावने महाविपिन आगच्छतागमनं कुर्वता मया पन्था मार्गो न च निरूपितो न ज्ञातः । कस्मात् । तुरगस्येन्द्रायुधस्य यो वेगो रयस्तद्वशात्तदनुरोधात् । कीदृशेन मया । बद्धेति । तस्मिन्किनरंमिथुने बद्धा स्थापिता दृष्टिर्येन स तथा तेन । वनं विशेषयन्नाह - अविरलेति । अविरलानि निबिडानि । अन्योन्यसंबद्धानीत्यर्थः । यानि तरुशतानि वृक्षशतानि, शाखा स्कन्धशाखाः, गुल्मा विटपाः, लताः, शाखाभ्यः प्रादुर्भूताः शाखाः, एतेषां संतानं परम्परा तेन गहने कलिले । निरेति । निरन्तरं प्रत्यहं निपतितानि सस्तानि यानि शुष्कपर्णानि शुष्कपत्राणि तैरवकीर्णं व्याप्तं तलमधोभागो यस्य तस्मिन् । येन पथा प्रतिनिवृत्त्य व्याघुट्य यास्यामि गमिष्यामि । न चेति । अस्मिन्प्रदेशे प्रयत्नेनाप्युद्योगेनापि परिभ्रमता परिभ्रमणं कुर्वता मया कश्चित् मर्त्यधर्मा मनुष्यो न चासा न प्राप्यते यः पुमान्सुवर्णपुरगामिनं पन्थानं मार्गमुपदेक्ष्यत्युपदेशं करिष्यति । मया बहुशोऽनेकवारं कथ्यमानं प्रतिपाद्यमानम् । जनैरिति शेषः । श्रुतमाकर्णितमुत्तरेण सुर्वर्णपुरम् । तद्विशेषयन्नाह - सर्वेति । सर्वजनपदानां समग्रदेशानां पृथिव्या वसुधायाः सीमन्तलेखा सीमन्तः केशवेशस्तस्य लेखेव लेखा । ततः परतोऽग्रतो निर्मानुषं मनुष्यरहितमरण्यं काननम् । तदरण्यमतिक्रम्योल्लङ्घ्य कैलासगिरिरिति । अयं चेति । अयं प्रत्यक्षः कैलासः । तदिदानीं प्रतिनिवृत्त्य व्याघुट्यैकाकिना मया स्वयमुत्प्रेक्ष्योठप्रेक्ष्य विलोक्य विलोक्य दक्षिणामपाची आशा दिशं केवलमङ्गीकृत्य स्वीकृत्य गन्तव्यं गमनीयम् । आत्मना कृतानां स्वयमाचरितानां दोषाणां दुष्कर्मणां नियतं निश्चितं फलमात्मनैव स्वयमेवानुभवितव्यमनुभवविषयीकर्तव्यम् । इत्यवधार्येति निश्चित्य । वामेति । वामकरतलेन सव्यपाणितलेन चलितः कम्पितो रश्मिपाशः खलीनं येन स तुरंगमिन्द्रायुधं व्यावर्तयामास निवर्तयामास । निवर्तिततुरंगमश्चेति । निवर्तितः पश्चाद्वलितस्तुरंगम इन्द्रायुधो येनैवंभूतः पुनस्तदनन्तरं चिन्तितवान्ध्यातवान् । तदेव दर्शयति अधुनेति । अधुना सांप्रतमयमुद्भासितातिप्रकटीभूता या प्रभा कान्तिस्तया भास्वरः शोभमानो यो भगवानैश्वर्यवान्भानुः सूर्यो दिवसश्रियो वासरलक्ष्म्या रशनामणिरिव मेखलारत्नमिव मध्यमवलग्नम् । सूर्यपक्षे मध्यं मध्यभागम् । अलंकरोति विभूषयति । परिश्रान्तः खिन्नश्चायमिन्द्रायुधः । तत्तावदादावेनमश्वम् । आगृहीतेति । आगृहीता आत्ताः कतिपये कियन्तो दूर्वायाः शतपर्वायाः प्रवालकवलाः टिप्प० - 1 अनेन हि घोटकपदचिह्नदर्शनेन परावर्तनमप्यसंभवमिति सूचितम् । 2 सुवर्णपुरम् उत्तरेण सुवर्णपुरादुत्तरदिशि इत्यन्वयो बोध्यः । 'एनपा द्वितीया' इति एनप्योगे द्वितीया । 3 पृथिव्याः सर्वजनपदानां (लोकनिवासस्थानानाम् ) सीमान्तलेखा अवधिः । इत्यन्वयः । 4 स्पष्टव्यमिदं पदम् । 5 बलित इत्यपि पाठः । परावर्तनार्थं तिर्यक्कृत्य धृत इति तदर्थः । पाठां० - १ अपचक्राम. २ निबद्ध ३ तस्मिन् ४ पतित. ५ परिभ्रमता मर्त्यधर्मा. ६ वलित. ७ व्यावर्तिततुरङ्गश्च ८ नभस्तलमध्यम्. ( किन्नरमिथुनाऽप्राप्तौ निर्वेदः पूर्वभागः । 259 - Page #273 -------------------------------------------------------------------------- ________________ तिपयदूर्वाप्रवालकवलं कस्मिंश्चित्सरसि शिलाप्रसवणे वा सरिदम्भसि वा स्नातपीतोदमपनीतश्रमं कृत्वा स्वयं च सलिलं पीत्वा कस्यचित्तरोरधश्छायायां मुहूर्तमात्रं विश्रम्य ततो गमिष्यामि' इति चिन्तयित्वा सलिलमन्वेषमाणो मुहुर्मुहुरितस्तो दत्तदृष्टिः पर्यटन्नलिनीजलावगाहोत्थितस्याचिंरादपक्रान्तस्य महतो गिरिचैरस्य वनगजयूथस्य चरणोत्थापितैः पङ्कपटलैरार्द्रीकृतम्, कैरावकृष्टैश्च समृणालमूलनालैः कमलकलापैः कल्माषितम्, आर्द्रार्द्रैिश्च शैवलप्रवालैः श्यामलितोद्देशम्, उद्दलितैश्च कुमुदकुवलयकह्लारकुड्मलैरन्तरान्तरा विच्छुरितम्, उत्खातैश्च सकर्दमैः शालूककन्दैराकीर्णम्, आँखण्डितैश्च कुसुमस्तबकसारैर्वनपल्लवैराच्छादितम्, आलूनाभिश्च कुसुमोपविष्टोल्लसत्षट्पदाभिर्वनलताभिराकुलितम्, अभिनैवकुसुमपरिमलवाहिना च तमालपल्लवसंरेंसश्यामेन मैदजलेन सर्वतः सिक्तं मार्गमद्राक्षीत् । उपजातजलाशयशङ्कश्च तं प्रतीपमनुसरन्नुद्ग्रीवदृश्यैरुपरिच्छत्रमण्डलाकारैः सरलसाल ** ** पल्लवग्रासा येन स तम् । कस्मिंश्चिदनिर्दिष्टनाम्नि सरसि कासारे शिलाप्रसवणे वा निर्झर वा सरिदम्भसि वा नदीजले वा । स्नात इति । पूर्वं स्नातः पश्चात्पीतमुदकं येन स तम् । अत एवापनीतश्रमं दूरीभूतक्लमं कृत्वा विधाय स्वयं च सलिलं पानीयं पीत्वा पान कृत्वा कस्यचित्तरोरनिर्दिष्टनाम्नो वृक्षस्याधश्छायायां मुहूर्तमात्रं विश्रम्य विश्रामं गृहीत्वा ततः पश्चाद् गमिष्यामि गमनं करिष्यामि । इति पूर्वोक्तं चिन्तयित्वा ध्यात्वा सलिलमम्भोऽन्वेषमाणो गवेषमाणो मुहुर्मुहुर्वारंवारमितस्ततो दत्ता दृष्टिर्येनैवंभूतः पर्यटन्परिभ्रमन्मार्गमध्वानमद्राक्षीदपश्यदित्यन्वयः । अथ मार्गं विशेषयन्नाह - नलिनीति । नलिनी कमलिनी तया संयुक्तं जलं नलिनीजलं तस्यावगाह आलोडन तस्मादुत्थितस्य निःसृतस्याचिरात्स्वल्पकालादपक्रान्तस्य पश्चाद्बलितस्य महतो महीयसो गिरिचरस्य पर्वचारिणो वनगजयूथस्य हस्तिसमूहस्य चरणोत्थापितैः क्रमोद्भूतैः पङ्कपटलैः कर्दमसमूहैरार्द्रीकृतं समुन्नीकृतम् । तथा करावकृष्टैः करैः शुण्डादण्डैरवकृष्टैराकर्षितैर्मृणाला बिसमूलानि च नालानि च तैः सह वर्तमानैः कमलकलापैः कल्माषितं चित्रवदाचरितमार्द्राणि चार्द्राणि चार्द्रार्द्राणि तैः शैवलप्रवालैर्जलशुककिसलयैः श्यामलितः कृष्णीभूत उद्देशः प्रदेशो यस्य तम् । उद्दलितैरवकृष्टैः कुमुदं श्वेतोत्पलम्, कुवलयं कुवेलम्, कह्लारं सौगन्धिकम्, तस्य कुड्मलानि मुकुलानि तैरन्तरान्तरा मध्ये मध्ये विच्छुरितं व्याप्तम् । उत्खातैरुत्पाटितैः सकर्दमैः सह पकेन वर्तमानैः शालूककन्दैरुत्पलानां कन्दैः । ‘उत्पलानां तु शालूकम्' इति कोशः । आकीर्णं व्याप्तम् । आ समन्तात्खण्डितैश्छिन्नैः कुसुमानां पुष्पाणां स्तवकैर्गुच्छकैः सारैः प्रधानैर्वनपल्लवैररण्यकिसलयैराच्छादितमावृतम् । आलूनाभिश्छिन्नाभिः कुसुमोपविष्टाः पुष्पमध्यवर्तिन उल्लसन्तो दीप्यमानाः षट्पदा भ्रमरा यास्वेवंविधाभिर्वनलताभिररण्यव्रततिभिराकुलितमाकीर्णम् । अभिनवेति । अभिनवः प्रत्यग्रो यः कुसुमपरिमलः पुष्पगन्धस्तद्वाहिना । तमालस्तापिच्छस्तस्य पल्लवाः किसलयास्तद्वत्सरसश्यामेन मदजलेन दानवारिणा सर्वतो विष्वक्सिक्तं सिञ्चितम् । अन्वयस्तु प्रागेवोक्तः । - उपजातेति । उपजाता समुत्पन्ना जलाशयस्य जलाधारस्य शङ्कारेका यस्य स तथा तं मार्गं प्रतीपमभिमुखमनुसंरन्ननुगच्छन् । उद्ग्रीवैरूर्ध्वकंधरैः पुरुषैर्दृश्यैर्द्रष्टुं योग्यैरुपरि प्रान्ते छत्रमण्डलस्यातपवारणवलयस्याकारो येषां तैः । छत्राकारैरित्यर्थः । सरलेति । सरैला अवक्राः साला वृक्षविशेषाः सल्लक्यो गजप्रियास्ता एव - टिप्प॰ - 1 चरणद्वारा उत्थापितैः (ऊर्ध्वं नीतैः) इत्यर्थ उचितः । 2 'कुसुमस्तबकशारैः' इति प्रचलितः पाठः । कुसुमगुच्छविचित्रैः, इति तदर्थः 3 एतन्नामका वृक्षाः । पाठा० - १ अन्विषमाणः, अन्विष्यन्; अन्वेषयन्. २ अपक्रान्तस्य च. ३ अतिमहता. ४ गिरिचरस्य चरण. ५ उत्सारितैः; उत्तारितैः ६ करिकलभकरावकृष्टैश्च मृणालनालैः, ७ कमलकुमुद. ८ खण्डितैक्ष. ९ शारैः १० उपविष्टनिष्पिष्टोच्छ्रसत्; उपविष्टनिमिष्टोच्चासित; उपक्ष्टिनिष्पिष्टोद्भमत्. ११ बकुलकुसुम १२ रसश्यामेन. १३ मदजलेन सिक्तम्. १४ उपजातजलाशङ्कश्च. १५ उद्ग्रैव. 260 कादम्बरी । कथायामु Page #274 -------------------------------------------------------------------------- ________________ सल्लकीप्रायैरविरलैरपि निःशाखतया विरलैरिवोपलक्ष्यमाणैः पादपैरुपेतेन, स्थूलकपिलवालुकेन, शिलाबहुलतया विरलतृणोलपेन, वनद्विपदशनदलितमनःशिलाधूलकपिलेन, आभङ्गिनीभिरुत्कीर्णाभिरिव पत्रभङ्गकुटिलाभिः पाषाणमेदकमञ्जरीभिर्जटिलीकृतशिलान्तरालेन, अनवरतगलद्गुग्गुलुडुमद्रवार्द्रीकृतदृषदा, शिखरसुतशिलाजतुरसपिच्छि लोपलेन, टेङ्कनहयखुरखण्डितहरितालक्षोदपांसुलेन, आखुनखरोत्खातर्बिलावकीर्णकाञ्चनचूर्णेन, सिकतानिमग्नचमरककस्तूरिकामृगीखुरपङ्क्तिना, संशीर्णरङ्कुरल्लकरोमप्रकरनिचितेन, विषमशिलाच्छेदोपविष्टजीवजीवकयुगलेन, वनमानुषमिथुनाध्यासिततटगुहामुखेन, गन्धपाषाणपरिमलामोदिना, वेत्रलतीप्रतानप्ररूढवेणुना, कैलासतलेन कंचिदध्वानं गत्वा तस्यैव कैलासशिखरिणः पूर्वोत्तरे दिग्भागे जलभारांलसं जलधरव्यूहमिव बहुलक्षपान्धकारमिव पुञ्जीकृतमत्यायतं तरुखण्ड - *********** प्रायो बाहुल्येन येष्वेवंविधैरविरलैर्निबिडैरपि निः शाखतया स्कन्धशाखाराहित्यतया विरलैरिवानिबिडैरिवोपलक्ष्यमाणैर्दृश्यमानैः पादपैर्वृक्षैरुपेतेन सहितेन । तथा स्थूला स्थविष्ठा कपिला पिङ्गला वालुका सिकता यस्मिंस्तेन । शिलानां बहुलता तया विरलानि स्तोकान तृणान्युलपाश्च वल्लयो यस्मिंस्तत्तेन । वनेति । वनद्विपानामरण्यदन्तिनां दशनैर्दन्तैर्दलिता मर्दिता या मनःशिला मनोगुप्ता तस्या धूल रेणुस्तया कपिलेन पीतरक्तेन । आ समन्ताद्भगिनीभिर्द्विधाभवनशीलाभिरुत्कीर्णाभिरिवोत्कीर्य कर्षिताभिरिव । पत्रभङ्गः पत्रवल्ली तबकुटिलाभिर्वक्राभिः पाषाणभेदनाम्न्यो या मञ्जर्यो वल्लर्यस्ताभिरजटिलं जटिलं क्रियत इति जटिलीकृतं शिलयोरन्तरालं मध्यभागो यस्य तत्तेन । तथानवरतं निरन्तरं गलन्तः सवन्तो ये गुग्गुलुद्रुमाः पलङ्कषवृक्षास्तेषां द्रवो रसस्तेनार्द्रीकृतानि दृषन्ति प्रस्तरा यस्मिंस्तत्तेन । तथा शिखरेभ्यः सानुभ्यः सुतश्च्युतो यः शिलाजतुरसो गिरिजद्रवस्तेन पिच्छिला विजिला उपला यस्मिंस्तत्तेन । टङ्कनेति । टङ्कनं प्रस्तरदारकं तल्लक्षणो यो हयखुरोऽश्वशफस्तेन खण्डितं शकलीकृतं यद्धरितालं गोदन्तं तस्य क्षोदचूर्णं तेन पांसुलेन पांसुयुक्तेन । तथाखूनां वृषाणां नखरैर्नखैरुत्खातान्यतिखनितानि यानि बिलानि विवराणि तेभ्योऽवकीर्णमवध्वस्तं काञ्चनचूर्णं सुवर्णक्षोदो यस्मिंस्तत्तेन । तथा सिकतासु वालुका निमग्ना ब्रुडिताश्चमरकाश्चमर्यः, कस्तूरिकामृग्यो नेपालदेशप्रसिद्धाः तेषां खुरपङ्क्तयो यस्मिंस्तत्तेन । तथा संशीर्णो विगलितो रङ्कुर्मृगविशेषः, रल्लेक उरभ्रः, एतयोर्यो रोमप्रकरस्तनूरुहसमूहस्तेन निचितेन व्याप्तेन । तथा विषमा असमा शिलाच्छेदास्तत्रोपविष्टान्यासीनानि जीवजीवकयुगलानि विषदर्शनमृत्युकयुग्मानि यस्मिंस्तत्तेन । मयूराकृतयः पक्षिविशेषा जीवजीवकाः ते च दक्षिणदेश एतन्नाम्नैव प्रसिद्धाः । वनेति । वनमानुषमिथुनैर्मनुष्याकृतिसदृशाकारैर्वनचारिविशेषैरध्यासितन्याश्रितानि तटगुहामुख यस्मिंस्तत्तेन । गन्धपाषाणः सुगन्धद्रव्यविशेषस्तस्य परिमलो विमर्दजनितो गन्धो विद्यते यस्मिंस्तत्तेन । तथा वेत्रलता वेत्रवल्ल प्रताने शाखापत्रप्रचये प्ररूढा उद्गता वेणवो वंशा यस्मिंस्तत्तेन । एवंविधेन कैलासतलेन रजताद्यधोभागेन कंचित्कियन्मात्रमध्वानं पन्थानं गत्वा तस्यैव कैलासशिखरिणः पूर्वोत्तरे दिग्भाग ईशान्यामत्यायतमतिविस्तीर्णं तरुखण्डं वृक्षसमूहं ददर्शावलोकयामास । जलभारेण पानीयवीवधेनालसं मन्थरम् । कृष्णत्वसाम्यादाह - जलेति । जलधरा मेघास्तेषां व्यूहमिव समूहमिव । बहुलेति । बहुलः कृष्णपक्षस्तस्य - टिप्प०-1 'लता प्रतानिनी वीरुद् गुल्मित्युलप इत्यपि' इत्यमरः । 2 आ (समन्तात्) भङ्गो (विविधभङ्गी ) ऽस्ति यासां ताभिरित्यर्थः । 3 उन्दुरूणामित्यर्थः । 4 मृगविशेषः । 5 चकोरपक्षिणः, 'जीवंजीवः खगान्तरे । द्रुमभेदे चकोरे च' इति हेमः । 6 गन्धक इति केचित् । पाटा० - १ शिलातल. २ पाषाणभङ्ग ३ शिलान्तरेण. ४ पिच्छिल ५ टङ्कनखरखुर. ६ बिलविप्रकीर्ण. ७ चमरकस्तूरिका. ८ संकीर्णजीर्णरङ्कु; संकीर्णजीर्णरल्लक. ९ प्रतानवता प्ररूढ. १० अलसजलधर. ११ बहुलपक्षक्षपैया. १२ विविधतरुखण्डम्. (जलान्वेषणम् पूर्वभागः । 261 Page #275 -------------------------------------------------------------------------- ________________ ददर्श । तच्च समुखागतेन कुसुमरजःकषायामोदिना । जलसंसर्गशिशिरेण शीकरिणा चन्दनरससमस्पर्शेनालिङ्ग्यमान इव जलतरङ्गमारुतेन कमलमधुपानमत्तानां च श्रोत्रहारिभिः कलहंसानां कोलाहलैराहूयमान इव विवेश । प्रविश्य च तस्य तरुखण्डस्य मध्यभागे मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः , स्फटिकभूमिगृहमिव वसुंधरादेव्याः, जलनिर्गमनमार्गमिव सागराणाम्, निस्यन्दमिव दिशाम्, अंशावतारमिव गगनतलस्य, कैलासमिव द्रवतामापन्नम्, तुषारगिरिमिव विलीनम्, चन्द्रातपमिव रसतामुपेतम्, हराट्टहासमिव जलीभूतम्, त्रिभुवनपुण्यराशिमिव सरोरूपेणावस्थितम्, वैडूर्यगिरिजालमिव सलिलाकारेण परिणतम्, शरदभ्रवृन्दमिव द्रवीभूयैकत्र निस्यन्दि - *********** क्षपा रात्रिस्तस्याः पुञ्जीकृतं राशीकृतमन्धकारमिव ध्वान्तमिव । अत्र जलान्धकारयोर्नीलगुणसंबन्धात्साम्यं प्रदर्शितम् । तच्चेति । तत्पूर्वोक्ततरुखण्डं विवेश प्रवेशं चकारेत्यन्वयः । किं क्रियमाणः । संमुखागतेनाभिमुखायातेन जलतरङ्गमारुतेन पानीयवीचिसमीरणेनालिङ्ग्यमान इवाश्लिष्यमाण इव । अथ वायुं विशिनष्टि - कुसुमेति । कुसुमरजसा पुष्परागाणां कषायस्तुवर आमोदो मुखवासनो विद्यते यस्मिन्स तेन । जलेति । जलस्य पानीयस्य संसर्गः संबन्धस्तेन शिशिरः शीतलस्तेन । शीकरो वातास्तं वारि विद्यते यस्मिन्स तेन । अत्रास्त्यर्थे इन् । चन्दनेति । चन्दनं मलयज तस्य रसो द्रवस्तस्य समः सदृशः स्पर्शो यस्य स तेन । कमलस्य नलिनस्य मधु रसस्तस्य पानमास्वादस्तेन मत्तानामुत्कटानां कलहंसानां कादम्बानां श्रोत्रहारिभिः कर्णरुचिरैः कोलाहलैः कलकलैराहूयमान इवाह्वानविषयीक्रियमाण इव । तस्य तरुखण्डस्य मध्यभागेऽन्तरालप्रदेशे प्रविश्य च प्रवेशं कृत्वाच्छोदं नाम यस्यैवंभूतं सरः कासारं दृष्टवानालोकितवान् । अथ सरो विशेषयन्नाह - मणीति । त्रैलोक्यलक्ष्म्यास्त्रिभुवनश्रियो मणिदर्पणमिव रत्नादर्शमिव । वसुंधरादेव्याः रत्नगर्भादेव्याः स्फटिकभूमिगृहमिव स्फटिकहर्म्यमिव । सागराणां समुद्राणां जलनिर्गमनमार्गमिव वारिबहिर्गमनपन्थानमिव । दिशां ककुभां निस्यन्दमिव रसक्षरणमिव । गगनतलस्य व्योमतलस्यांशावतारमिव तदंशेनावतीर्णमिव । निर्मलश्चेतरूपत्वादाह - कैलासेति । कैलासमिव रजताद्रिमिवः । एतस्य पाषाणमयत्वात्सरसश्च द्रवरूपतया साम्यं न संभवतीत्यत आह - द्रवेति । द्रवतां रसतामापनं प्राप्तम् । हिमजलवत्त्वादाह - तुषारेति । तुषारगिरिमिव हिमाचलमिव । तस्य दृढत्वानोपमानत्वमित्यत आह - विलीति । विलीनम् विद्रुतमित्यर्थः । अमृतमयत्वादाह - चन्द्रेति । चन्द्रस्य शशिन आतपमिव प्रकाशमिव । तस्य तेजोरूपत्वान्न साम्यमित्याह - रसेति । रसतां जलतामुपेतं प्राप्तम् । विषवत्त्वसाम्यादाह - हरेति । हरस्येश्वरस्य योऽट्टहासो महाहासस्तमिव । तस्य क्रियारूपत्वात्साम्यं न स्यादित्याशयेनाह - जलीति । जलीभूतमिव डलयोरैक्याज्जडीभूतमिव । सुखजनकत्वसाम्यादाह - त्रिभ्विति । त्रिभुवनस्य त्रिविष्टपस्य पुण्यराशिमिव श्रेयःसमूहमिव । अस्यामूर्ध्वान साम्यमित्याशयेनाह - सर इति । सरोरूपेण कासाररूपेणावस्थितम् । कृतावस्थानमित्यर्थः । नीलत्वसाम्यादाह - वैड्विति । वैडूर्यं बालवायज तन्मयं गिरिजालमिव । अतिकठिनत्वात्ततुल्यतानुपपत्तेराह - सलिलेति । सलिलाकारेण जलाकारेण परिणतं तद्रूपतामापन्नम् । उज्ज्वलत्वसाम्यादाह - शरद इति । शरत्कालीनं घनात्ययसमयसंभवं यदभ्रवृन्दं मेघपटलं तदिव । एतस्याकाशस्थत्वात्तत्साम्यानुपपत्तेराह - द्रवीति । द्रवीभूय रसीभूयैकत्र स्थले निस्यन्दितं निर्गलितम् । स्वच्छ - - - - - - - टिप्प० -1 अतिनिर्मलत्वात्सेयमुत्प्रेक्षा । एवमग्रेऽपि । - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ तं च. २ संमुखादागतेन. ३ कुमुद. ४ शिशिरशीकरिणा. ५ रसस्पर्शन. ६ प्रविवेश. ७ वसुधादेव्या निर्गमन. ८ अवतारमिव चलाकार गगन; अशावतार जलाकार गगन. 262 कादम्बरी। कथायाम Page #276 -------------------------------------------------------------------------- ________________ तम्, आदर्शमिव प्रचेतसः, स्वच्छतया मुनिमनोभिरिव सज्जनगुणैरिव हरिणलोचनप्रभाभिरिव मुक्ताफलांशुभिरिव निर्मितम्, आपूर्णपर्यन्तमप्यन्तः स्पष्टदृष्टसकलवृत्तान्ततया रिक्तमिवोपलक्ष्यमाणम्, अनिलोद्भूतजलतरङ्गसीकरधूलिजन्मभिः सर्वतः संस्थितैः संरक्ष्यमाणमिवेन्द्रचापसहसैः, प्रतिमानिभेनान्तःप्रेविष्टसजलचरकाननशैलनक्षत्रग्रहचक्रवाल त्रिभुवनमुद्भिन्नपङ्कजेनोदरेण नारायणमिव बिभ्राणम्, आसन्नकैलासावतीर्णस्य च - *********** प्रतिबिम्बसंक्रान्तिसाम्येनाह - आदर्शति । प्रचेतसो वरुणस्यादर्शमिव मुकुरमिव स्वच्छतया । उपमानान्तराण्याह - मुनिरित्यादि । मुनीना वाचयमाना मनोभिश्चितैरिव, सज्जनानामाप्ताना गुणैः शौर्यादिभिरिव, हरिणानां मृगाणां लोचनप्रभाभिर्नेत्रकान्तिभिरिव, मुक्ताफलाना रसोद्भवानाभंशुभिः किरणैरिव निर्मितं निष्पादितम् । चतुर्भुप्यतिनिर्मलत्वमेव नियामकमुत्प्रेक्षायाम् । पुनः कीदृशमिवोपलक्ष्यमाणमित्याह - रिक्तमिति । रिक्तमिव शून्यमिव । तत्र हेतुमाह - अन्तरिति । अन्तर्मध्ये स्पष्टं प्रकटं यथा स्यात्तथा दृष्टोऽवलोकितः सकलवृत्तान्तः समग्रोदन्तो यस्य तस्य भावस्तत्ता तया । तर्हि रिक्तमेव भविष्यतीत्याशयेनाह - आपूर्णेति । विचित्रत्वम् । एतद्वयमादायैवोत्प्रेक्षते - इन्द्रेति । इन्द्रचापसहसैराखण्डलधनुःसहसैः संरक्ष्यमाणमिव त्रायमाणमिव । एतदेव विशेषयन्नाह - अनिलेति । अनिलेन वायुनोद्धता उत्क्षिप्ता ये जलतरङ्गाः, पानीयकल्लोलास्तेषां सीकरधूलयस्ताभ्यां जन्मोत्पत्तिर्येषां तैः । कीदृशैः । सर्वतः समन्तात्संस्थितैः कृतावस्थानैः । अत्र कल्लोलानां वक्रत्वात्सीकरधूलीनामपि तदवस्थत्वाच्च शंक्रचापोपमानम् । पुनः सरो विशेषयन्नाह - उद्भिनेति । उद्भिन्नानि विकसितानि पङ्कजानि कमलानि यस्मिन्नेवंविधेनोदरेण मध्येन । द्वितीयपक्ष उनिद्रं पङ्कजं नाभिकमलं यस्मिन्नेवभूतेनोदरेण जठरेण नारायणमिव कृष्णमिवै त्रिभुवनं त्रिविष्टपं बिभ्राणं दधानम् । अत्र त्रिभुवनं विशेषयन्नाह - प्रतिमेति । प्रतिमा प्रतिबिम्ब तस्य मिषेण व्याजनान्तःप्रविष्टं मध्यप्रविष्टं सह जलचरेण नक्रचक्रादिना वर्तमानं यत्काननं वनम् शैलोऽद्रिः, नक्षत्राणि ऋक्षाणि, ग्रहा मङ्गलादयः, तेषां चक्रवालं समूहो यस्मिस्तत्तथा । पुनस्तदेव विशेषयन्नाह - आसन्नेति । आसनः समीपवर्ती कैलासो रजताद्रिस्तस्मादवतीर्णस्योत्तरितस्य शतशः शतवारं भगवतो माहात्म्यवतः खण्डपरशोरीश्वरस्य मज्जनोन्मज्जनाभ्यां यः क्षोभश्चित्तचाञ्चल्यं तेन चलितः कम्पितो यश्चूडामणिभूतश्चन्द्रखण्ड - - टिप्प० - 1 'मणिदर्पणमिव त्रैलोक्यलक्ष्म्याः ' इति पूर्वमुक्ततया 'आदर्शभवनमिव' इति पाठः इत्यपि कस्यचनाऽभिप्रायमात्रः । आदर्शभवन दर्पणमय गृहमिति तदर्थः । 2 'आदर्शभवनमिव प्रचेतसः एतावत्पर्यन्तमुत्प्रेक्षाप्रक्रमो यः प्रचलितस्तदनुसारमत्र प्रकारपार्थक्यम् । 'स्वच्छतया' इति निमित्तेन मुनिमनउपादानकनिर्माणस्योत्प्रेक्षा (अच्छोदसरसि), इति पृथगुत्प्रेक्षा । एवं सज्जनगुणादिष्वपि । इति चतसृणामुत्प्रेक्षाणां संसृष्टिः, परस्पर निरपेक्षत्वात् । 3 आप्तानां सत्य-दया-ऽऽर्जवादिगुणान् विहाय शौर्योपरि दृष्टिश्शौर्यमन्तरा न ते सत्यादय इति कथयति । 4 उच्छलितेषु जलक्षोदेषु सूर्यकिरणपातेन इन्द्रधनुष इव नानावर्णानां दृश्यमानत्वमित्याशयः । 5 उद्भिन्नपङ्कजेनोदरेण त्रिभुवनं बिभ्राणम्, अत एव नारायणमिव स्थितमिति सरलोऽन्वयः । व्याख्या तु टीकातो दृश्या । सरःपक्षे प्रतिबिम्बव्याजेन सकाननादेस्त्रिभुवनस्य धारणम्, नारायणस्तु बीजरूपेण स्थितं त्रिभुवनं स्वोदरे धारयत्येवेति तदाशयः । 6 मज्जनोन्मज्जनाभ्यां यः क्षोभः संचलनं (चन्द्रखण्डस्य) तेन चलितात् चूडामणिरूपात् चन्द्रखण्डात् गलितेन, इति स्फुटोऽर्थः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाटा० - १ आदर्शभवनमिव; आदर्शभुवनमिव. २ समुपस्थितैः. ३ प्रविष्टम्. ४ सकानन; सकलकानन. अच्छोदसरः पूर्वभागः । 263 Page #277 -------------------------------------------------------------------------- ________________ शतशो भगवतः खण्डपरशोर्मज्जनोन्मज्जनक्षोभचलितचूडामणिचन्द्रखण्डच्युतेनामृतरसेन जलक्षालितवामार्धकपोलगलितलावण्यप्रवाहानुकारिणा मिश्रितजलम्, उपकूलतमालवनप्रतिबिम्बान्धकारिताभ्यन्तरैदृश्यमानरसातलद्वारैरिव सलिलप्रदेशैर्गभीरतरम्, दिवाप्युपजातनिशाशकैश्चक्रवाकमिथुनैः परिहियमाणनीलोत्पलवनगहनम्, असकृत्पितामहपरिपूरितकमण्डलुपरिपूतजलम्, अनेकशो वालखिल्यकदम्बककृतसंध्योपासनम्, बहुशः सलिलावतीर्णसावित्रीभग्नदेवार्चनकमलसहसम्, सहसशः सप्तर्षिमण्डलस्नानपवित्रीकृतम्, सर्वदा सिद्धवधूधौतकल्पलतावल्कलपुण्योदकम्, उदकक्रीडादोहदागतानां च गृह्यकेश्वरान्तःपुरकामिनीनां मकरकेतुचापचक्राकृतिभिरतिविकटैरावर्तिभिर्नाभिमण्डलैरापीतसलिलम्, - *********** स्तस्माच्युतेन सस्तेनामृतरसेन पीयूषद्रवेण मिश्रितमेकीभूतं जले पानीयं यस्य तत्तथा । अथ पीयूषरसं विशेषयन्नाह - जलेति । जलेन क्षालितौ धौतौ यौ वामार्धकपोलौ पार्वतीगल्लात्परप्रदेशौ ताभ्यां गलितं च्युतं यल्लावण्यं सौन्दर्यं तस्य यः प्रवाहो रयस्तस्यानुकारिणा । तत्सदृशेनेत्यर्थः । उपेति । उपकूल उपकण्ठे यत्तमालवनं तापिच्छवनं तस्य प्रतिबिम्बः प्रतिच्छाया तेनान्धकारवदाचरितान्यभ्यन्तराणि मध्यप्रदेशा येषां तैः । अत्रान्धकारिताभ्यन्तरत्वसाम्येनोप्रेक्षते - दृश्यमानेति । दृश्यमानरसातलद्वारैरिव वीक्ष्यमाणवडवामुखप्रतीहारैरिव । एवंभूतैः सलिलप्रदेशैः पानीयस्थलैर्गभीरतरं गम्भीरतरम् । अत एव पूर्वोक्तसाम्यादेवाह - दिवापीति । दिवापि दिवसेऽप्युपजाता समुत्पन्ना निशायास्त्रियामायाः शङ्कारेका येषां तैश्चक्रवाकमिथुनैः कौकद्वन्द्वैः परि सामस्त्येन ह्रियमाणं त्यज्यमानं यन्नीलोत्पलवनमिन्दीवरखण्ड तेन गहनं निबिडम् । असकृदिति । असकृनिरन्तरं पितामहेन ब्रह्मणा परिपूरितो भृतो यः कमण्डलुः कुण्डिका तेन परि सामस्त्येन पूतं पावनं जले जीवनं यस्य तत्तथा । अनेकश इति । अनेकशी वारंवारं वालखिल्याः सूर्यपुरःसरा मुनयस्तेषां कदम्बक समूहस्तेन कृतं विहितं संध्योपासनं संध्यावन्दनं यस्मिंस्तत्तथा । बहुश इति । अनेकशः सलिले जलेऽवतीर्णोत्तीर्णा या सावित्री हुताशनपत्नी तया भग्नमुन्मूलितं देवार्चनार्थं कमलानां नलिनानां सहसं यस्मिंस्तत् । सहस्रश इति । सहसवारं सप्तर्षीणां मरीचिप्रभृतिनां मण्डलं समूहस्तस्य स्नानमाप्लवस्तेन पवित्रीकृतं पावनीकृतम् । सर्वदेति । सर्वदा सर्वकालं सिद्धवधूभिः सिद्धाङ्गनाभि/तानि क्षालितानि यानि कल्पलताया मन्दारातत्या वल्कलानि चोचानि तैः पुण्यानि पवित्राण्युदकानि जलानि यस्मिंस्तत्तथा । उदकेति । उदकस्य जलस्य या क्रीडा केलिस्तस्या दोहदोऽभिलाषस्तेनागतानां प्राप्तानां गृह्यकेश्वरस्य कुबेरस्यान्तःपुरकामिनीनामवरोधस्त्रीणां मकरकेतुः कंदर्पस्तस्यचापचक्रमारोपितं धनुस्तद्वदाकृतिराकारो येषां तैरतिविकटैरतिविपुलैरावर्ता विद्यन्ते येषु तैरावर्तिभिः । एवंभूतैर्नाभिमण्डलैस्तुन्दकूपिकासमूहैरापीतं ग्रस्तं सलिलं जलं यस्य तत्तथा । इदं च नाभिपर्यन्त - -- - - - -- - - - - - - - - - - - - - - - - - - - टिप्प० -1 दृश्यमानं रसातलस्य द्वारं येषु तैरिव स्थितैः । अन्धकारमाहत्म्यादस्य सलिलप्रदेशा अतीव निम्नतरा अत एव रसातलस्य द्वारमपि (यद्धि अतीव निम्नम्) दृश्यत इत्याशयः । पाठा० - १ लावण्यानुकारिणा. २ समिश्रित. ३ गम्भीरतरम्. ४ परिपूरित. ५ देवतार्चन. ६ कमलम्. ७ पुण्यीकृतोदकम्. IIIIIIIIIII 264 कादम्बरी। कथायाम्-) Page #278 -------------------------------------------------------------------------- ________________ क्वचिद्वरुणहंसोपात्तकमलवनमकरन्दम्, क्वचिदिग्गजमज्जनजरितजरन्मृणालदण्डम्, क्वचित्त्र्यम्बकवृषभविषाणकोटिखण्डिततटशिलाखण्डम्, क्वचिद्यममहिषश्रृङ्गशिखरविक्षिप्तफेनपिण्डम्, क्वचिदैरावतदशनमुसलखण्डितकुमुदखण्डम्, यौवनमिवोत्कलिकाबहुलम्, उत्कण्ठितमिव मृणालवलयालंकृतम्, महापुरुषमिव मीनमकरकूर्मचक्रप्रकटलक्षणम्, षण्मुखचरितमिव श्रूयमाणक्रौञ्चवनिताप्रलापम्, भारतमिव पाण्डुधार्तराष्ट्रकुलपक्षकृतक्षोभम्, अमृतम - *********** जलक्रीडावर्णनम् । क्वचिदिति । कस्मिंश्चित्प्रदेशे वरुणस्य प्रचेतसो हंसेन मरालेनोपात्तो गृहीतः कमलवनस्य नलिनखण्डस्य मकरन्दो मरन्दो यस्मिंस्तत्तथा । क्वचिदिति । दिग्गजानां दिग्दन्तिनां मज्जनेनान्तर्विगाहनेन जर्जरिताः शिथिलीभूता जरन्मृणालदण्डा बहुकालीनबिसदण्डा यस्मिंस्तत्तथा । क्वचिदिति । त्र्यम्बकस्येश्वरस्य यो वृषभो बलीवर्दस्तस्य विषाणकोटिः श्रृङ्गाग्रभागस्तया खण्डिता भेदितास्तटस्य तीरस्य शिलाखण्डा यस्य तत् । क्वचिदिति । यमस्य कृतान्तस्य यो महिषः कासरस्तस्य श्रृङ्गं विषाणं तस्य शिखरमग्रभागस्तेन विक्षिप्त इतस्ततः पर्यस्तः फेनपिण्डो डिण्डीरपुञ्जो यस्मिन् । क्वचिदिति । ऐरावतो हस्तिमल्लस्तस्य दशना दन्तास्त एव स्थूलत्वदृढत्वसाम्यान्मुसलान्ययोग्राणि तैः खण्डितं पाटितं कुमुदखण्डं कैरववनं यस्मिन् । अथ प्रकारान्तरेण तदेव विशेषयन्नाह - यौवेति । यौवनं तारुण्यं तद्वदिव । उभयसाम्यं प्रदर्शयन्नाह - उदिति । उत्कलिका तरङ्गसंततिस्तया बहुलं दृढम् । 'तरङ्गभङ्गवीच्यूर्युत्कलिका' इति कोशः । पक्ष उत्कलिका हल्लेखा । 'हल्लेखोत्कलिका च' इति कोशः । विविधकामाभिलाषस्तया बहुलम् । व्याप्तमित्यर्थः । उदिति । उत्कण्ठितमुन्म॑नसम् । अर्थाद्विरहिजनम् । तदिव । तत्सदृशमित्यर्थः । उभयोः साम्यमाह - मृणालेति । मृणालानां तन्तुलानां वलयैः समूहैरलंकृतम् । उन्मना अपि दाहचरोपशमनार्थं मृणालवलयालंकृतः स्यादित्यभङ्गश्लेषः । महेति । महांश्चासौ पुरुषश्चेति कर्मधारयः । तद्वदिव । उभयोर्विशेषणामाह - मीनेति । मीना मत्स्याः, मकरा जलचरविशेषाः, कूर्माः कच्छपाः, चक्रा जलचारिविशेषाः, प्रकटा बहिर्दश्यमाना लक्षणाः सारसाः सारस्यश्च यस्मिन् । पक्षे मकरादीनि चक्रान्तानि प्रकटानि स्पष्टानि लक्षणानि चिह्नानि यस्मिन् । महापुरुषस्य हस्तपादाद्यवयवेषु मकरादीनि चिह्नानि भवन्तीति सर्वप्रसिद्धम् । ननु 'सारसी लक्ष्मणा सानुसौमित्रौ श्रीमति त्रिषु इति रुद्रकोषादिदर्शनात्कथमत्र लक्षणाशब्दप्रयोग इति चेन्न । 'लक्षणश्चैव सारसः' इत्यमरमालायां निर्मकारस्यापि दर्शनात् । षण्मुखेति । षण्मुखः कार्तिकेयस्तस्य चरितमाचरणं तद्वदिव । श्रूयेति । श्रूयमाण आकर्ण्यमानः क्रौञ्चः पक्षिविशेषस्तस्य या वनिता स्त्री तस्याः प्रलापः प्रकर्षेण शब्दो यस्मिन् । पक्षे कार्तिकेयेन क्रौञ्चदैत्यो हतः । अत एव तस्य वनितायाः प्रलापो रुदैनं यस्मिन् । तथा भारत व्यासप्रणीतं शास्त्रं तद्वदिव । पाण्ड्विति । पाण्डवः श्वेतवर्णा ये धार्तराष्ट्रा हंसविशेषास्तेषां कुलं समूहस्तस्य पक्षा वाजास्तैः कृतो विहितः क्षोभो विग्रहो यस्मिन् । पक्षे पाण्डुरम्बात्मजः, धार्तराष्ट्रो दुर्योधनः तयोः कुले अन्वयौ तयोः पक्षौ स्वजनौ ताभ्यां कृतः क्षोभश्चित्तवैक्लव्यं यस्मिन् । अमृतेति । अमृतार्थं पीयूषार्थं यन्मथनम् । समुद्रस्येति - - - - - - - - - - टिप्प० - 1 विरहेण उन्मनस्कमित्यर्थः । 2 चक्रवाका इति प्रसिद्धोऽर्थः । 3 रोदनमित्याशयः । 4 कृष्णवर्णा इत्युचितम् । 'राजहंसास्तु ते चञ्चुचरणोहितैः सिताः । मलिनैमल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः' इत्यमरः । पाठा०-१ हंसाक्रान्तविकचकमलवनखण्डम् हसाक्रान्तकमलमकरन्दम्, हंसाघ्रातकमलबनमकरन्दमू. २ मृणालजालदण्डम्. ३ धवलवृषभ, ४ कोदण्ड. ५ प्रकटमीनमकरकूर्मचक्रलक्षणम्. अच्छोदसरः पूर्वभागः । 265 Page #279 -------------------------------------------------------------------------- ________________ थनसमयमिव तीरंकासारावस्थितशितिकण्ठपीयमानविषम्, कृष्णबालचरितमिव तटकदम्बशाखाधिरूढहरिकृतजलप्रपातक्रीडम्, मदनध्वजमिव मकराधिष्ठितम्, दिव्यमिवानिमिषलोचनरमणीयम्, अरण्यमिव विजृम्भमाणपुण्डरीकम्, उरगकुलमिवानन्तशतपत्रपद्मोद्भासितम्, सबलमिव मधुकरकुलोपगीयमानकुवलयापीडम्, केंद्र्स्तनयुगलमिव नागसहस्र-पीतपयोगण्डूषम्, मलयमिव चन्दनशिशिरवनम् असत्साधनमिवादृष्टान्तम्, अतिमनोहरमाह्लादनं दृष्टेरच्छोदं नाम सरो दृष्टवान् । ****** 1 शेषः । तस्य यः समयः कालस्तमिव । तीरेति । तीरं तटम्, कासारं प्रान्तदेशं तत्रावस्थिता ये शितिकण्ठा बर्हिणस्तैः पीयमानमास्वाद्यमानं विषं जलं यस्मिन् । पक्षे तीरे क्षीरोदस्येति शेषः । तस्मिन्नवस्थितो यः शितिकण्टो महेश्वरस्तेन पीयमानं भक्ष्यमाणं विषं कालकूट यस्मिन् । ‘कालकूटाम्भसोर्विषम्' इत्यनेकार्थः । तथा कृष्णेति । कृष्णस्य जनार्दनस्य यद्बालचरितं बाल्यावस्थायां क्रीडितं तद्वदिव । उभयोः साम्यमाविष्कुर्वन्नाह - तटेति । ' तटे तस्यैव सरसः' इति कोशः । तस्मिन्ये कदम्बा नीपास्तेषां शाखास्तस्यामधिरूढो यो हरिर्गोलाङ्गूलस्तेन कृता विहिता जलप्रपातलक्षणा क्रीडा यस्मिन् । पक्षे तटं यमुनायाः । हरिः कृष्णः । शेषं पूर्ववत् । मदेति । मदनस्य कन्दर्पस्य यो ध्वजः केतुस्तद्वदिव । उभयोः सादृश्यमाह - मकर इति । मकरो जलजन्तुस्तेनाधिष्ठितमाश्रितम् । पक्षे मकराकृतिरूपं चिह्नम् । दिव्येति । दिवि भवं दिव्यं तद्वदिव । उभयोः साम्यार्थमाह - अनिमिषेति । अनिमिषास्तिमयस्तेषां लोचनानि नेत्राणि तै रमणीयं मनोहरम् । पक्षेऽनिमिषलोचना देवाः । शेषं पूर्ववत् । अरण्येति । अरण्यं काननं तद्वदिव । उभयोः साधर्म्यमाह - विजृम्भेति । विजृम्भमाणि विनिद्राणि पुण्डरीकाणि सिताम्भोजानि यस्मिंस्तत्तथा । पक्षे विजृम्भमाणाः सन्त उज्झितनिद्राः पुण्डरीकश्चित्रकायाः । ‘चित्रकायः पुण्डरीकः' इति कोशः । शेषं पूर्ववत् । उरगेति । उरगाः सर्पास्तेषां कुलमन्वयस्तद्बदिव । उभयोः सादृश्यमाविः कुर्वन्नाह - अनन्तेति । अनन्तान्यसंख्यानि यानि शतपत्राणि पुष्पविशेषाणि, पद्मानि कमलानि, तैरुद्भासितं शोभितम् । पक्षेऽनन्तो नागाधिपः, शतपत्रो नागविशेषः, पद्मश्च । शेषं पूर्ववत् । कंस इति । कंसो दैत्यस्तस्य बलं सैन्यं तद्वदिव । उभयसाम्यार्थमाह - मध्विति । मधुकराणां भ्रमराणां कुलानि समूहाः तैरुपगीयमानानि गानविषयीक्रियमाणानि कुवलयान्युत्पलानि तान्येवापीडः शेखरो यस्मिंस्तत्तथा । पक्षे कुवलयापीडो गजः । शेषं पूर्ववत् । कद्रू इति । कद्रूर्नागमाता तस्याः स्तनयुगलं कुचयुग्मं तद्वदिव । उभयोः साम्यं प्रदर्शयन्नाह नागेति । नागसहसैर्हस्तिसहसैः पीता आस्वादिताः पयसो गण्डूषाश्चुलुका यस्मिंस्तत् । पक्षे नागाः सर्पाः । पयो दुग्धम् । शेषं पूर्ववत् । ` मलयेति । मलयो मलयाचलस्तद्वदिव । उभयोस्तुल्यतामाह - चन्दनेति । चन्दनं मलयजं तद्वच्छिशिरं शीतलं वनं जलं यस्मिन् । 'कीलालं भुवनं वनं घनरसः' इत्यभिधानचिन्तामणिः । पक्षे चन्दनानां शिशिराणि वनानि काननानि यस्मिन् । असदिति । असत्साधनमसद्धेतुस्तद्बदिव । शब्दापेक्षया तयोः साधर्म्यमाह - नेति । नदृष्टो न वीक्षितोऽन्तोऽवसानं यस्य तत् । पक्षे न विद्यते दृष्टान्तो निश्चितसाध्यवान्यस्मिन् । तदभावादसद्धेतुत्वमिति भावः । अतिमनोहरम् । अतिसुन्दरमित्यर्थः । दृष्टेर्नेत्रस्याह्लादनम् । प्रमोदजनकमित्यर्थः । टिप्पo - 1 अनिमिषे (निमेषरहिते) लोचने येषामित्यर्थ उचितः, मत्स्यानां नयनयोर्निमेषाभावात् । 2 व्याघ्रा इति स्पष्टोऽर्थो वक्तव्यः । 3 शतपत्रपद्मयोरापाततः पौनरुक्त्यभासनं पर्यन्ते च शतसंख्याकपत्रविशिष्टकमले पर्यवसानात्पुनरुक्तवदाभासोऽलंकारः । तथा च अनन्तानि यानि शतपत्रविशिष्टानि पद्मानि तैरुद्भासितमित्यर्थोऽत्र बोध्यः । 4 मदजलसौरभलोभाद् मधुकरैरुपगीयमानस्तदाख्यो हस्ती यत्रेत्यर्थः । 5 गोत्ववान् मनुष्यत्वादित्यादौ असद्धेतौ निश्चितसाध्य ( गोत्व ) वत्स्थलं ( दृष्टान्तः) नास्तीत्यर्थः । पाठा० - १ तीरावस्थित. २ बालकृष्ण ३ शाखारूढ ४ उपनीयमान ५ कद्रू. 266 कादम्बरी ) कथायाम् Page #280 -------------------------------------------------------------------------- ________________ आलोकमात्रेणैवापगतश्रमो दृष्ट्वा मैनस्येवमकरोत् - 'अहो निष्फलमपि मे तुरङ्गमुखमिथुनानुसरणमेतदालोकयतः सरः सफलतामुपगतम् । अद्य परिसमाप्तमीक्षणयुगलस्य द्रष्टव्यदर्शनफलम्, आलोकितः खलु रमणीयानामन्तः, दृष्ट आह्लादनीयानामवधिः, वीक्षिता मनोहराणां सीमान्तलेखा, प्रत्यक्षीकृता प्रीतिजननानां परिसमाप्तिः, विलोकिता दर्शनीयानामवसानभूमिः । इदमुत्पाद्य सरःसलिलममृतरसमुत्पादयता वेधसा पुनरुक्ततामिव नीता स्वसृष्टिः । इदमपि खल्वमृतमिव सर्वेन्द्रियाह्लादनसमर्थमतिविमलतया चक्षुषः प्रीतिमुपजनयति, शिशिरतया स्पर्शसुखमुपैहरति, कमलसुगन्धितया घ्राणमाप्याययति, हंसमुखरतया श्रुतिमानन्दयति, स्वादुतया रसनामाह्लादयति । नियतं चास्यैव दर्शनतृष्णया न परित्यजति भगवान्कैलासनिवासव्यसनमुमापतिः । न खलु सांप्रतमाचरति जलशयनदोर्हद देवो रथा - *********** आलोकेति । आलोकमात्रेणैव निरीक्षणमात्रेणैवापगतो दूरीभूतः श्रमः क्लान्तिर्यस्यैवंविधश्चन्द्रापीडस्तदृष्ट्वा विलोक्य मनसि एवमकरोदेवमघटयत् । अहो इति । अहो इत्याश्चर्ये । निष्फलमपि निरर्थकमपि मे मम तुरङ्गमुखमिथुनस्य किंनरमिथुनस्यानुसरणमनुगमनं सफलतां कृतार्थतामुपगतम् । प्राप्तमित्यर्थः । किं कुर्वतो मम । एतत्सरः कासारमालोकयतो दृग्विषयीकुर्वतः । अद्येति । अद्यास्मिन्दिने परिसमाप्तं परिपूर्णम् । संपूर्ण जातमित्यर्थः । किं तदित्याकाङ्क्षायामाह - ईक्षणेति । ईक्षणयुगलस्य द्रष्टव्यं दर्शनीयं यद्वस्तु तस्य दर्शनमवलोकनं तस्य फलं व्युष्टिः । खल्विति । खलु निश्चितम् । रमणीयानां मनोहराणामन्तः । प्रान्त आलोक वीक्षितः । एतदपरं रमणीयं नास्तीत्यर्थः । दृष्ट इति । आह्लादनीयानां प्रमोदकारिणामवधिर्मर्यादा दृष्टोऽवलोकितः । प्रमोदजनकमेतदन्यत्किमपि नास्तीति भावः । वीक्षितेति । मनोहराणां चित्तहारिणां सीमाया अन्तलेखा प्रान्तलेखा वीक्षिता नयनविषयीकृता । अतः परं चित्तहृत्किमपि नास्तीति भावः । प्रत्यक्षेति । प्रीतिजननानां प्रीत्युत्पादकानां परि सामस्त्येनाप्तिः परिसमाप्तिः प्रत्यक्षीकृतेन्द्रियगोचरीकृता । विलोकितेति । दर्शनीयानां द्रष्टुं योग्यानामवसानभूमिः प्रान्तभूमिश्चरमकथा वा विलोकिता वीक्षिता । इतः परं दर्शनीयं नास्तीति भावः । इदमिति । इदममृतं पीयूषं तद्वद्वसो यस्यैवंविधं सरसस्तटाकस्य सलिलं पानीयमुत्पाद्य निर्माय वेधसा ब्रह्मणोत्पादया जगत्सृजता स्वसृष्टिः स्वकीयनिर्मितिः पुनरुक्ततामिव नीता प्रापिता । एकमेव वस्तु नामान्तरेण विहितमिति भावः । अमृतगुणोपपादनेन पुनरुक्ततां स्पष्टयन्नाह - इदमिति । इदमपि । खलु निश्चितम् । इदं प्रत्यक्षोपलभ्यमानमप्यमृतमिव पीयूषमिव सर्वेषामिन्द्रियाणामाह्ला प्रीणनं तत्र समर्थं बलिष्ठमतिविमलतयातिस्वच्छतया चक्षुषो नेत्रस्य प्रीतिं स्नेहमुपजनयत्युत्पादयति । तथा शिशिरः शीतलस्तस्य भावस्तत्ता तया करणभूतया स्पर्शसुखमुपहरति करोति । तथा कमलस्य नलिनस्य सुगन्धो यस्मिंस्तस्य भावस्तत्ता तया घ्राणं नासिकामाप्याययति प्रीणयति । तथा हंसैर्मरालैर्मुखरो वाचालस्तस्य भावस्तत्ता तया श्रुतिं श्रोत्रमानन्दयति प्रीणयति । तथा स्वादुतया मिष्टतया रसना रसज्ञामाह्लादयति प्रीणयति । नियतमिति । नियतं निश्चितम् । अस्यैव सरस एव दर्शनतृष्णयावलोकनलोभेनोमापतिर्भगवानीश्वरः । कैलासेति । कैलासो रजताद्रिस्तत्र । यो निवासोऽवस्थानं स एव व्यसनमासक्तिस्तन्न परित्यजति न जहाति । न खल्वति । खलु निश्चितम् । रथाङ्गपाणिश्चक्रपाणिर्देवः कृष्णः सांप्रतमिदानीं जले पानीये शयनं स्वापस्तस्य दोहदमभिलाषं नाचरति न करोति । पूर्वं जल टिप्प० - 1 इदानीमपि समुद्रे शेत एव नारायणः, ततश्च जलशयनदोहदं नाचरतीति कथं संगच्छते । तस्मात् ' रथाङ्गपाणिर्जलशयनदोहदं सांप्रतं युक्त नाचरति, यदिदं सरो विहाय लवणपयस्युदन्वति स्वपिति' इत्यर्थ उचितः । 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः । पाठा० - १ आलोकन. २ मनस्यकरोत्. ३ तुरग ४ अवलोकिता. ५ उपाहरति ६ दोहदयितः. अच्छोदसरः पूर्वभागः । 267 Page #281 -------------------------------------------------------------------------- ________________ गपाणिर्यदिदममृतरससुरभिसलिलमपहाय लवणरसपरुषपयस्युदन्वति स्वपिति । नूनं चेदं न प्रथममासीत्सरो येन प्रलयवराहघोणाभिघातभीता भूतधात्री कलशयोनिपानपरिकलितसकलसलिलं सागरमवतीर्णा, अन्यथा यद्यत्रागाधानेकपातालगम्भीराम्भसि निमग्ना भवेन्महासरसि किमेकेन महावराहसहसैरपि नासादिता भवेत् । नूनं चास्मादेव सलिललेशमादायादाय महाप्रलयेषु प्रलयपयोदाः प्रलयदुर्दिनान्धकारितदशदिशः प्लावयन्ति भुवनान्तराणि । मन्ये च यत्सृष्टेरक्सिलिलमयं ब्रह्माण्डरूपमादौ भूवनमभूत्तदिदं पिण्डीभूय सरोव्यपदेशेनावस्थितम्' इति विचारयन्नेव तस्य शिलाशकलकर्कशवालुकाप्रायम्, विद्याधरोद्धृतसनालकुमुदकलापार्चितानेकचारुसैकतलिङ्गम्, अरुन्धतीदत्तार्घपयःपर्यस्तरक्तकमलशो - *********** शयनापेक्षाकारणमाह - यदिति । यदिति हेत्वर्थे । इदममृतवत्पीयूषवद्रसो यस्मिन्नेवंविधं यत्सुरभिसलिलं सुगन्धिपानीयं तदपहाय त्यक्त्वा लवणो यो रसस्तेन परुषं रूक्षं पयो यस्मिन्नेवंभूत उदन्वति समुद्रे स्वपिति शयनं करोति । अतो नूनं निश्चितम् । इदं प्रथममादौ नासीनाभूत । एतदभावादेव कृष्णः समुद्रे शयनं करोतीति भावः । कारणान्तरमाह - येनेति । येन कारणेनेदं प्रथमतो नासीदत एव भूतधात्री भूतानां प्राणीनां धात्री धारणक्षमा । एतदपेक्षया । नूनं सागरं समुद्रमवतीर्णा मध्यप्रविष्टा । अथ तां विशेषयन्नाह - प्रलयेति । प्रलये कल्पान्ते योऽवताररूपो वराहस्तस्य यो घोणा नासा । उपलक्षणं चैतत् । तेन दंष्ट्राया ग्रहणम् । तयाभिघातः प्रहारेस्तस्माद्रीता जस्ता सती । उपर्यागतेति शेषः । सागरं विशेषयन्नाह - कलश इति । कलशयोनिरगस्तिस्तेन पानार्थं परिकलितं चिन्ताविषयीकृत सकलं समग्रं सलिलं यस्य स तम् । अनेनातिन्यूनत्वमेतस्य ध्वनितम् । यदि सरसः समुद्रो महत्तरः स्यात्तदैकवराहघोणाभिघातमात्रेण भीत उपर्यागतो न भवेदेव । अत एवाग्रे व्यतिरेकमुखेन समर्थयन्नाह - अन्यथेति । पूर्वोक्तविपर्यये । यद्यत्र महासरसि निमग्ना बुडिता भवेत्स्यात् । अगाध इति । अगाधमतलस्पृक् एवंविधानि यान्यनेकानि पातालानि । वडवामुखानीति यावत् । गभीरं गम्भीरमम्भो यस्मिन् । किमिति । एकेन वराहेण किम् । न किमपीत्यर्थः । महेति । महावराहसहसैरपि नासादिता न प्राप्ता भवेत् । एतेन कल्पान्तेऽप्येतस्यावस्थानं सूचितमिति भावः । नूनमिति । नूनं निश्चितम् । महाप्रलयेषु कल्पान्तेषु प्रलयपयोदाः कल्पान्तमेघा अस्मादेव सरसः सलिललेशं जललेशमादायादाय गृहीत्वा गृहीत्वा भुवनान्तराणि त्रिभुवनविवराणि प्लावयन्ति जलमयीकुर्वन्ति । अथ प्रलयमेघाविशेषयन्नाह - प्रलयेति । प्रलयकालीनं यहुर्दिनंमेघजं तमस्तेनान्धकारिता अन्धकारवदाचरिता दश दिशो यैस्ते तथा । मन्ये चेति । अहमिति मन्ये जानामि यच्चादौ सृष्टेविश्वनिर्मितेरक्सिलिलमयं जलमयं ब्रह्माण्डरूपं भुवनं त्रिविष्टपमभूत्तदिदं पिण्डीभूयैकीभूय सरोव्यपदेशेन तटाकमिषेणावस्थितमिति विचारयन्नेव चिन्तयन्नेव चन्द्रापीडः सरसो दक्षिणतीरं दक्षिणदिग्वर्ति प्रतीरमासाद्य प्राप्य तुरगादश्वादवततारावतीर्णवान् । अथ दक्षिणतीरं विशेषयन्नाह - शिलेति । शिलाशकलवच्छिलाखण्डवत्कर्कशाः कठिना या वालुकाः सिकतास्ताः प्रायो बाहुल्येन यस्मिंस्तत् । विद्येति । विद्याधरैयॊमचारिभिरुद्धृतानि गृहितानि यानि सनालानि कुमुदानि कैरवाणि तेषां कलापः समूहस्तेनार्चितानि पूजितान्यनेकान्यसंख्यानि चारुणि मनोहराणि जलोज्झितं पुलिनं सैकतं तत्र स्थितानि लिङ्गानीश्वरसंबन्धीनि यस्मिस्तत् । अरुन्धतीति । अरुन्धत्या वसिष्ठपत्न्या दत्तं यदर्घपयः पूजार्थं जलं तस्मात्पर्यस्तानि पतितानि - - - - - - - - - - - - - टिप्प०-1 पृथिवीकथायां विवक्षितायां स्त्रीत्वं संबध्यम् । 2 अगाधपातालवत् गंभीरम् (अतलस्पर्शि) अम्भः यत्र तस्मिन् । 3 कुमुदकलापेन अर्चितानि अनेकानि चारूणि सैकतलिङ्गानि (वालुकानिर्मितशिवलिङ्गानि) यस्मिन् तत् । इत्यर्थः । - - - - - - -- - - - - - - - - - -- पाठा० - १ अभिभूता. २ अगाध; अनेक. ३ आदाय महा. ४ दिशः. ५ यत्तत्सलिलमयम्. ६ पिण्डीभूतम्. ७ अर्चितम्. ८ दत्तदिनकरार्ष; दत्तदिनकराय॑; हस्तदत्तदिनकरार्ध. ९ पर्यस्तारक्त. 268 कादम्बरी। कथायाम Page #282 -------------------------------------------------------------------------- ________________ भितम्, उपकूलशिलातलोपविष्टजलमानुषनिषेव्यमाणातपम्, अभ्यर्णतया च कैलासस्य स्नानागतमातृमण्डलपदपङ्क्तिमुद्राङ्कितम्, अवकीर्णभस्मसूचितमग्नोत्थितगणकदम्बकोद्भूलनम्, अवगाहावतीर्णगणपतिगण्डस्थलगलितमदप्रसवणसिक्तम्, अतिप्रमाणपादानुमीयमानतृषितकात्यायनीसिंहावतरणमार्ग दक्षिणेतीरमासाद्य तुरगादवततार । अवतीर्य च व्यपनीतपर्याणमिन्द्रायुधमकरोत् । क्षितितललुठितोत्थितं च गृहीतकतिपययवसग्रास सरोऽवतार्य पीतसलिलमिच्छया स्नातं चोत्थाप्यान्यतमस्य समीपवर्तिनस्तरोर्मूलशाखायामपगतखलीनं हस्तपाशश्रृङ्खलया कनकमय्या चरणौ बद्ध्वा कृपाणिकावलूनान्क्षिप्त्वा चाग्रतः कतिचित्सरस्तीरदूर्वाप्रवालकवलान्पुनरपि सलिलमवततार । ततश्च प्रक्षालितकरयुगलश्चातक इव कृत्वा जलमयमाहारम्, चक्राह्व इवास्वाद्य मृणालशक - *********** यानि रक्तकमलानि तैः शोभितं विराजितम् । उपेति । उपकूले तटसमीपे यानि शिलातलानि तत्रोपविष्टानि स्थितानि जलमानुपाणि प्रसिद्धानि तैर्निषेव्यमाणः सेव्यमान आतपः सूर्यालोको यस्मिन् । कैलासस्य रजतादेरभ्यर्णतया समीपवर्तितया स्नानार्थमागतं यन्मातृमण्डल ब्राहीप्रभृतीनां सप्तदेवीनां समुदायस्तस्य पदपङ्क्तिश्चरणवीथी तस्य मुद्रा भूमौ तत्प्रतिकृतिरूपा तयाङ्कितं चिह्नितम् । अवकीर्णेति । अवकीर्णमितस्ततः पर्यस्तं यद्भस्म भूतिस्तेन सूचितं प्रकाशितं स्नातुं मग्नं पश्चादुत्थितं यद्गणानां प्रमथानां कदम्बक समुदायस्तस्य त्रिपुण्ड्रसमय उद्भूलनं भस्मोद्भूलनं यस्मिंस्तथा । अवगाहेति । अवगाहार्थं जलक्रीडार्थमवतीर्ण उत्तरितो यो गणपतिर्गणेशस्तस्य गण्डस्थलाकरटप्रदेशाद्गलितं च्युतं यन्मदप्रसवणं दानक्षरणं तेन सिक्तं सिञ्चितम् । अतीति । अतिप्रमाणमतिदीर्घम् । पादेति । पादैश्चरणन्यासैरनुमीयमानोऽनुमानविषयीक्रियमाणस्तृषितः पिपासितो यः कात्यायनीसिंहो मनस्तालाभिधस्तस्यावतरणमार्गः सरसि समागमनपन्था यस्मिंस्तत्तथा । अवतीर्येति । अचादवतरणं कृत्वेन्द्रायुधनामानमश्चरत्नं व्यपनीतं दूरीकृतं पर्याणं पल्ययनं यस्मादेवंभूतमकरोदसृजत् । अथाचं विशेषयन्नाह - क्षितीति । पूर्व क्षितितले पृथ्वीतले लुठितमपावृत्तं पश्चादुत्थितं कृतोत्थानम् । गृहीतेति । गृहीता आत्ताः कतिपये कियन्तो यवसं तृणं तस्य ग्रासा गुडेरका येन स तं ततः पश्चात्तमश्वं सरोऽवतार्य सरोमध्ये नीत्वा पीतं सलिलमिच्छया येन न तु बलात्कारेण स्नातं कृताप्लवं चोत्थाप्योत्थानं कारयित्वा पश्चात्तटमानीयान्यतमस्य कस्यचित्समीपवर्तिनस्तरोवृक्षस्य मूलशाखायां च स्कन्धशाखाया गले निगरणे बद्ध्वा । कीदृशम् । अपगतं दूरीभूतं खलीनं मुखयन्त्रणं यस्यैवंभूतम् । कनकमय्या सुवर्णनिर्मितया हस्तपाशश्रृङ्खलया हस्तबन्धनार्थं यः पाशो ग्रन्थिस्तदर्थं या श्रृङ्खला तया चरणौ पादौ बद्ध्वा नियम्य कृपाणिका क्षुरिका तयावलूनान्कर्तितान्कतिचित्कियतः सरस्तीरस्य तटाकप्रतीरस्य दूर्वायाः शतपर्विकायाः प्रवालकवलान्किसलयगुडेरकानग्रतः क्षिप्त्वा पुरो निधाय । अत्र चकारः क्रियासमुच्चयार्थः । पुनरपि द्वितीयवारमपि सलिलं नीरमवततारोत्तीर्णवान् । स्वयमिति शेषः । ततश्च तदनन्तरं प्रक्षालितं करयुगलं हस्तयुग्म येनैवंभूतः सरःसलिलादुदगादुदतिष्ठदित्यन्वयः । चातक इव तोकक इव जलमयं पानीयमयमाहारं प्रत्यवसानं कृत्वा विधाय । चक्राह्व इव रथाङ्गनामेव मृणालशकलानि बिसखण्डान्यास्वाया - टिप्प० - 1 पुंस्त्वं योग्यम् । 2 इदमपि क्वाचित्कम् । अन्यथा अष्ट मातरः सुप्रसिद्धाः । 3 अतिप्रमाणैः अतिदीर्धेः पादैः पदचिह्नः अनुमीयमान इति योजना योग्या । 4 इदमपि नवीनं श्रूयते । पाठा० . १ उपशोभितम्. २ मण्डलमुद्राङ्कितम्. ३ अवतीर्ण. ४ वृन्द. ५ अवगाहन. ६ गण्डस्थलमद. ७ पद. ८ अवतार. ९ दक्षिणम्. १० अवतीर्य. ११ अखलीनम्. १२ चरेण. १३ तीरप्ररूढदूर्वा. १४ स्वयमपि. १५ करचरण. १६ जलमाहारम्. १७ चक्रायः. जलपान-विश्रामौ । पूर्वभागः । 269 Page #283 -------------------------------------------------------------------------- ________________ लानि, शिशिरांशुरिव कराग्रैः स्पृष्ट्वा कुमुदानि, फणीवाभिनन्द्य जलतरङ्गवातान्, अनङ्गशरप्रहारातुर इवोरसि निधाय नलिनीदलोत्तरीयम्, अरण्यगज इव शीकरार्द्रपुष्करोपशोभितकरः सैरः सलिलादुदगात् । प्रत्यग्रर्भेग्नशिरैश्च समृणालकैर्जलकणिकाचितैः कमलिनीपलाशैर्लतामण्डपपरिक्षिप्ते शिलातले संस्तरमास्तीर्य निधाय शिरसि पिण्डीकृत - मुत्तरीयं निषसाद । मुहूर्तं विश्रान्तश्च तस्य सरस उत्तरे तीरप्रदेशे समुच्चरन्तमुन्मुक्तकवलेन निश्चलश्रवणपुटेन तन्मुखीभूतेनोद्ग्रीवेणेन्द्रायुधेन प्रथममाकर्णितं श्रुतिसुभगं वीणातन्त्रीझंकारमिश्रममानुषं गीतँशब्दमशृणोत् । श्रुत्वा च कुतोऽत्र विगतमर्त्यसंपाते प्रदेशे गीतध्वनेः संभूतिरिति संमुपजातकौतुकः कमलिनीदलसंस्तरादुत्थाय तामेव गीतसंपातसूचितां दिशं चक्षुः प्राहिणोत् । *********** स्वादं कृत्वा । शिशिरांशुरिव हिमांशुरिव कुमुदानि कैरवाणि करोग्रैर्हस्ताग्रैः स्पृष्ट्वा स्पर्शं कृत्वा । फणीव भुजंग इव जलतरङ्गवातानम्भःकल्लोलसमीरानभिनन्द्य संस्तूय । अनङ्गशरप्रहारातुर इव कामबाणानुविद्ध इव नलिनीदलोर्त्तरीयं कमलिनीपत्रवैकक्ष्यमुरसि वक्षसि निधाय संस्थाप्य । अरण्यगज इव वनकरीव शीकरेणार्द्रमुत्रं पुष्करं कमलं शुण्डाँग्रं च तेनोपशोभितः करो हस्तः शुण्डा च यस्यैवंभूतश्चन्द्रापीडः । लतेति । लतालक्षणो यो मण्डपो जनाश्रयस्तेन 'परिक्षिप्ते वलयिते । परिक्षिप्तं वलयितम्' इति कोशः । एवंभूते शिलातले पृथुप्रस्तरोपरि सस्तरमास्तीर्यास्तरणं कृत्वा ततः पिण्डीकृतं पिण्डतां प्रापितं यदुत्तरीयं निवसनं शिरसि मस्तकस्याधोभागे निधाय संस्थाप्य निषसाद शयनं चकारेत्यन्वयः । कैः सस्तरं कृतवानित्याकाङ्क्षायामाह - कमलिनीति । कमलिनी नलिनी तस्याः पलाशैः पत्रैः । कीदृशैः । प्रत्यग्रं तत्कालं भग्नानि खण्डितानि शिरांसि प्रान्तानि येषां तैः समृणालकैः सतन्तुलैः । स्वार्थे कप्रत्ययः । जलस्य पानीस्य याः कणिकाः सूक्ष्मविप्रुषस्ताभिराचितैर्व्याप्तैः । कियन्मात्रं सुप्त इत्याकाङ्क्षायामाह - मुहूर्तेति । मुहूर्तं घटिकाद्वयं विश्रान्तः कृतविश्रामः । चकारः समुच्चयार्थः । अथ य तस्य सरस उत्तर उत्तरदिक्संबन्धिनि तीरप्रदेशे तटप्रदेशे चन्द्रापीडः सम्यक्प्रकारेणोत्प्राबल्येन चरन्तं प्रसरन्तं गीतशब्दं गेयध्वनिमश्रृणोदाकर्णयत् । एतद्विशेषयन्नाह - उन्मुक्तेति । उत्प्राबल्ये मुक्तस्त्यक्तः कवलो ग्रासो येन स तेन निश्चलंस्थिरं श्रवणपुटं कर्णपुटं यस्य स तेन तन्मुखीभूतेन तदभिमुखीभूतेनोद्ग्रीवेणोर्ध्वकन्धरेणैवंविधेनेन्द्रायुधेन प्रथममादावाकर्णितं श्रुतम् । कीदृशम् । श्रुतिसुभगं कर्णमनोहरं वीणा वल्लकी तस्यास्तन्त्र्यः प्रसिद्धास्तासां झंकारोऽव्यक्तशब्दस्तेन मिश्रं संपृक्तम् । अमानुषम् । दिव्यमित्यर्थः । श्रुत्वेति । श्रुत्वाकर्ण्य । चकारः पूर्ववत् । इति समुपजातं समुत्पन्नं कौतुकमाश्चर्यं यस्य स तथा । इतिशब्दद्योत्यमाह - कुत इति । अत्र विगतमर्त्यसंपातेऽमानुषे प्रदेशे गीतध्वने संभूतिः प्रभवः कुतः स्यात् । कमलिनीति । कमलिनी नलिनी तस्या दलैः पत्रैर्यः संस्तरः प्रस्तरस्तस्मादुत्थायोत्थानं कृत्वा गीतसंपातेन गेयोत्पत्त्या सूचितां ज्ञापितां तामेव दिशं 270 टिप्प० - 1 कुमारपक्षे अङ्गुलिभिः, चन्द्रपक्षे किरणाग्रैः, । 2 नलिनीदलरूपमुत्तरीयम् । 3 शीकरार्द्रं यत् पुष्पकरं ( कमलम् ) तेन उपशोभितः करः शुण्डा यस्य सः (करी ) । उपशोभितः करः ( हस्तः ) यस्य सः ( युवराजः ) । 4 मण्डपाकाराभिर्लताभिः परिक्षिप्ते इत्यर्थ उचितः । 5 'शिरैः' इति न रूपं क्वचित्संभवति । 'प्रत्यग्रभग्नशिशिरैः' इत्येव पाठः । प्रत्यग्रं भग्नानि च तानि शिशिराणीति तदर्थः । तृतीयायां पाठा० - १ आनन्या. २ पिधाय ३ सलिलात्. ४ शिशिरैः ५ मण्डलपरिक्षिप्तशिलातले. ६ संस्तरम् ; प्रस्तरम् ७ गीतम् ८ कुतोऽत्र. ९ उपजात. १०. पत्रसस्तरात्. - कादम्बरी । कथायाम् Page #284 -------------------------------------------------------------------------- ________________ अतिदवीयस्तया तु तस्य प्रदेशस्य प्रयत्नव्यापृतलोचनोऽपि विलोकयन्न किंचिद् ददर्श । तमेव केवलमनवरतं शब्द शुश्राव । कुतूहलवंशाच्च गीतध्वनिप्रभवजिज्ञासया कृतगमनबुद्धिर्दत्तपर्याणमिन्द्रायुधमारुह्य प्रियगीतैः प्रथमस्थितैरप्रार्थितैरपि वनहरिणैरुपदिश्यमानवा बकुलैलालवङ्गलवलीलतालोलकुसुमसुरभिपरिमलयालिकुलविरुतिमुखरितया तमालनीलया दिङ्नागमदवीथ्येव पश्चिमया नलेखया निमित्तीकृत्य तं गीतध्वनिमभिप्रतस्थे । क्रमेण च संमुखागतैः, अच्छनिर्झरजलकणजालजनितजडिमभिः, जर्जरितभूर्जवल्कलैः, धूर्जटिवृषरोमन्थफेनबिन्दुवाहिभिः, षण्मुखशिखण्डिशिखाचुम्बिभिः, अम्बिकाकर्णपूरपल्लवोल्लासनदुर्ललितैः, उत्तरकुरुकामिनीकर्णोत्पलप्रेखोलनदोहदिभिः, आकम्पितकक्कोलैः, नमे - *********** ककुभं प्रति चक्षुर्ने प्राहिणोत्प्रेरयामास । तस्येति । पूर्वोक्तप्रदेशस्य गीतस्थलस्यातिदवीयस्तयातिदूरतया प्रयत्नेनात्युद्यमेन व्यापृते व्यापारिते लोचने नेत्रे येनैवंभूतोऽपि विलोकयन्पश्यन्न किंचिद् ददर्शालोकयामास । केवलमनवरतं निरन्तरं तमेव शब्दं शुश्रावाकर्णया शात्कौतुकवशाच्च गीतध्वनेः प्रभव उत्पत्तिस्तस्य जिज्ञासा ज्ञातुमिच्छा तया कृता विहिता गमने बुद्धिर्येनैवंभूतः । दत्तेति । दत्तमारोपितं पर्याणं पल्ययनं यस्मिनेतादृशमिन्द्रायुधमश्चमारुह्यारोहणं कृत्वा तया पश्चिमया वनलेखया । तीरस्येति शेषः । तं पूर्वोक्त गीतध्वनि निमित्तीकृत्य निदानीकृत्याभिप्रतस्थे संमुखं जगाम । किंविशिष्टः । उपेति । उपदिश्यमानः कथ्यमानो वर्त्म मार्गो यस्य सः । कैः । अप्रार्थितैरप्ययाचितैरपि वनहरिणैररण्यमृगैः । अथ तानेव विशिनष्टि - प्रियेति । प्रियं वल्लभं गीतं गानं येषां तैरत एव प्रथममादौ प्रस्थितैः प्रचलितैः । अथ वनलेखां विशेषयन्नाह - बकुलेति । बकुलः केसरः, एला चन्द्रवाला । 'पृथ्वीका चन्द्रवालैला निष्कुटिर्बहुला' इत्यमरः । लवङ्गो देवकुसुमवृक्षः, लवलीनाम्नी लता वल्लीविशेषः । तासां लोलानि चञ्चलानि कुसुमानि पुष्पाणि तेषां सुरभिर्घाणतर्पणः परिमलो गन्धो यस्यां सा तया । अलीति । अलिकुलाना भ्रमरसमूहाना या विरुतिः शब्दविशेषस्तया मुखरितया वाचालितया । तमालेति । तमालास्तापिच्छास्तैर्नीलयाऽसितया । श्यामत्वसाधादाह - दिङ्नागेति । दिशां नागा हस्तिनस्तेषां मदवीथ्येव दानश्रेण्येव । क्रमेणेति । क्रमेण परिपाट्या । चकारः पूर्ववत् । अथ चन्द्रापीडं विशिनष्टि - पुण्यैरिति । पुण्यैः पवित्रैः कैलासमारुतै रजताद्रिवायुभिरभिनन्द्यमान आनन्द्यमानः । अथ मारुतानां विशेषणानि । संमुखागतैरभिमुखागतैः । अच्छेति । अच्छानि निर्मलानि यानि निरिजलनानि प्रसवणपानीयानि तेषां कणा बिन्दवस्तेषां जालं समूहस्तेन जनित उत्पादितो जडिमा जाड्यं यैस्तैः । जर्जरितेति । जर्जरितानि शिथिलीकृतानि भूर्जाना मुदुत्वचां वल्कलानि चोचानि यैस्तैः । धूर्जटीति । धूर्जटिरीश्वरस्तस्य यो वृषो बलीवर्दस्तस्य रोमन्थश्चर्वितचर्वणं तस्य फेनो डिण्डीरस्तस्य बिन्दून्वहतीत्येवंशीला वाहिनस्तैः । षण्मुखेति । षण्मुखस्य कार्तिकेयस्य यः शिखण्डी मयूरस्तस्य शिखा चूड़ा तच्चुम्बिभिस्तत्स्पर्शकारिभिः । अम्बिकेति । अम्बिकायाः पार्वत्याः कर्णपूरस्य कर्णावतंसस्य यः पल्लवः किसलयं तस्योल्लासनमूर्धीकरणं तत्र दुर्ललितं दुश्चेष्टितं येषां तैः । उत्तरेति । उत्तरदिग्वर्तिनां कुरूणां क्षेत्रविशेषाणां याः कामिन्यः स्त्रियस्तासा कर्णोत्पलानां श्रवणकुवलयाना प्रेखोलने आन्दोलने दोहदोऽभिलाषो विद्यते येषां तैः । आकम्पीति । आकम्पिता आधुनिताः कक्कोलाः कोशफला यैस्ते तथा तैः । नमेविति । नमेरवो वृक्षविशेषास्तेषां - टिप्प० - 1 येषां तैरित्यर्थ उचितः, मारुतानामेव शीतलत्वस्य वर्णनीयत्वात् । 2 छायावृक्षाः 'छाया वृक्षो नमेरुः स्यात्' इति 'स्निग्धच्छायातरुषु वसतिम् इति मेघदूत-टीकायां मल्लिनाथधृतः शब्दार्णवः । पाठा० - १ गीतशब्दम्. २ प्रभवाच्च, ३ ध्वनित. ४ सप्तच्छदबकुल. ५ सरस्तीरवन. ६ अनिर्जरजल. ७ वृषभ. ८ उल्लसन. ९ आकम्पितकमलैर्नवकुसुममालापासुवाहिभिः; आकम्पितकङ्कोलैः. - - - - - - - - - - - - - - - - - - - - शिवसिद्धायतनम् । पूर्वभागः । 271 Page #285 -------------------------------------------------------------------------- ________________ रुकुसुमपासुपातिभिः, पशुपतिजटाबन्धातवासुकिपरिपीतशेषः, आह्लादिभिः पुण्यैः कैलासमारुतैरभिनन्द्यमानो गत्वा च तं प्रदेशं सर्वतो मरकतहरितैः, हारिहारीतरुतिरमणीयैः, भ्रमट्टङ्गराजनेखरजर्जरितजरैठकुड्मलैः, उन्मदकोकिलकुलकवलीकृतसहकारकोमलाग्रपल्लवैः, उन्मदषट्चरणचक्रवालवाचालितविकचचूतकलिकैः अचकितचकोरचुम्बितमरिचाङ्कुरैः, चम्पकपरागपुञ्जपिञ्जरकपिञ्जलजग्धपिप्पलीफलैः, फलभरनिकरपीडितदाडिमनीडप्रसूतकलविकैः, प्रक्रीडितकपिकुलकरतलताडनतरलितांडीपुटैः, अन्योन्यकुपितकपोतपक्षपालीपातितकुसुमैः, कुसुमरजोराशिसारसौरिकाश्रितशिखरैः, शुकशतमुखनखशिखरशकलितफलस्फीतैः, - *********** कुसुमानि पुष्पाणि तेषां पासवो रजांसि पातयन्तीत्येवंशीलास्तैः । पशुपतीति । पशुपतेरीधरस्य जटा सटा तस्या बन्धो नियन्त्रणं तेनार्तः पीडितो यो वासुकिर्नागराजस्तेन परिपीता आस्वादितास्तेभ्यः शेषा अवशिष्टास्तैराह्लादिभिः प्रमोदकारिभिः । तं प्रदेशं स्थानं गत्वा स चन्द्रापीडः पादपैर्वृक्षैः परिवृतं चन्द्रप्रभनाम्नश्चन्द्रप्रभाभिधानस्य कैलासपादस्य रजताद्रिपर्यन्तपर्वतस्य तलभागनिविष्टमधोदेशस्थितं भगवतः शूलपाणेः शंभोः शून्यं जनवर्जितं भूतलभागे संनिविष्टं स्थापितं सिद्धायतनं चैत्यमपश्यदित्यन्वयः । अथ पावपान्विशेषयन्नाह - सर्वत इति । सर्वतः समन्तान्मरकतमश्मगर्भं तद्वद्धरितैर्नीलितैः । हारीति । हारिणो मनोहरा ये हारीता मृदङ्कुरास्तेषां रुतयः शब्दास्तै रमणीयैर्मनोहरैः । भ्रमदिति । भ्रमन्तश्चलन्तो ये भृङ्गराजा धूम्याटाः पक्षिणस्तेषां नखरा नखास्तै जरितानि श्लथीकृतानि जरटानि कठिनानि कुड्मलानि येषां तैः । उन्मदेति । उन्मदान्यत्युत्कृष्टमदयुक्तानि यानि कोकिलकुलानि पिकसमूहाः तैः कवलीकृता भक्षिताः सहकारस्याग्रस्य कोमला मृदवोऽग्रपल्लवाः प्रान्तकिसलयानि येषु तैः । उन्मदेति । उन्मदा ये षट्चरणा भ्रमरास्तेषां चक्रवालं समूहस्तेन वाचालिता मुखरीकृता विकचाः स्फुटाधूतकलिकाः । सहकारकोरका येषु तैः । अचकित इति । अचकिता अवस्ता ये चकोरा विषसूचकास्तैश्चुम्बिताश्चर्विता मरिचानां श्वेतशोभाजनानामङ्कुराः प्ररोहा येषु तैः । चम्पकेति । चम्पको हेमपुष्पकस्तस्य यः परागः पौष्पं रजस्तस्य पुञ्जः समूहस्तद्वत्पिञ्जराः पीतरक्ता ये कपिञ्जलास्तित्तिरास्तै ग्धानि भक्षितानि पिप्पल्या वैदेह्याः फलानि येषु तैः । फलेति । फलस्य भरो भारस्तस्य निकरः समूहस्तेन पीडिता बाधिता दाडिमाः करकास्तेषु ये नीडाः कुलायास्तेषु प्रसूता जनिताः कलविङ्काः कुलिङ्गका येषु तैः । प्रक्रीति । प्रकीडितं क्रीडया प्रवृत्तं यत्कपिकुलं गोलाङ्ग्लसमूहस्तस्य करतलानि पाणितलानि तेषां ताडनेन प्रघातेन तरलितानि कम्पितानि ताडीपुटानि येषु तैः । अन्योन्येति । अन्योन्यं परस्परं कुपिताः कोपं प्राप्ता, ये कपोताः पारावतास्तेषां पक्षपाल्यो गरुद्वीथ्यस्ताभिः पातितानि सस्तानि कुसुमानि प्रसूनानि येषां तैः । कुस्विति । कुसुमानि पुष्पाणि तेषां रजः परागस्तस्य राशिः समूहस्तदनुसारिण्यो याः सारिकाः पीतपादास्ताभिराश्रितानि व्याप्तानि शिखराणि वृक्षप्रान्ता येषां तैः । शुकेति । शुकानां कीराणां यच्छतं तस्य मुखान्याननानि नखा नखराश्च - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 ‘हरियल' इति भाषायां ख्याताः पक्षिविशेषाः । 2 भृङ्गराजा भ्रमराः 'भृङ्गराजो मधुकरे' इति हैम इति केचिदभिप्रयति । 3 रजःपुञ्जन (अर्थात् तत्पतनेन) पिञ्जरित्यपि अर्थान्तरः । 4 चटका इव प्रायः प्रसिद्धाः । 5 तालीपत्राणि । 6 'शारसारिका' इत्यपि पाठः । रजोराशिना शाराः चित्राः याः सारिका इति तदर्थः । पाठा० - १ बन्धनवासुकि. २ नख. ३ जठर. ४ सहकारकोरकैः. ५ चकोरचञ्चु. ६ निपीडित. ७ बिडदाडिमी. ८ चपलकपिलकपि. ९ नाडि. १० कलहकुपित. ११ कपोतपोतसंहतलोलपक्ष; कपोतपोतपक्ष. १२ पतित. १३ सारसिकामिश्र. १४ शिशिरैः. 272 कादम्बरी ।। कथायाम् ܠܠܠܠܠܠܠܠܠܠ Page #286 -------------------------------------------------------------------------- ________________ जलधरजेललुब्धविप्रलब्धमुग्धचातकध्वानमुखरिततमालखण्डैः, इभकलभकोल्लूनपल्लववेल्लितलवलीवलयैः, आलीयमाननवयौवनमत्तैपारावतपक्षक्षेपपर्यस्तकुसुमस्तबकैः, तनुपवनकम्पितकोमलकदलीदलवीजितैः, अविरलफलनिकरावनतनालिकेरवनैः, अकटोरपत्रपुटपूर्गविटपिपरिवृतैः, अनिवारितविहगतुण्डखण्डितपिण्डखर्जूरजालकैः, मदमुखरमयूरीमधुररखविराजितान्तरैः, आँकलितकलिकाकलापदन्तुरितैः, अन्तरान्तरा कैलासतरङ्गिणीतरङ्गितसिकतिलतलभूमिभागैः, वनदेवताकरतलनिवहनिभमलक्तकजललवसिक्तमिव किसलयनिकरमतिसुकुमारमुद्वहद्भिः, ग्रन्थिपर्णग्रासमुदितचमरीकुलनिषेवितमूलैः, कर्पूरागरुप्रायैः, इन्द्रायुधैरिव घना - *********** तेषां शिखराण्यग्राणि तैः शकलितानि खण्डितानि यानि फलानि तैः स्फीतैः स्फारैः । जलेति । जलधरो मेघस्तस्य जलं पानीयं तत्र लुब्धा. आसक्ता अथ च विप्रलब्धा वञ्चिता ये मुग्धचातका बप्पीहास्तेषां ध्यानेन शब्देन मुखरितं वाचालितं तमालखण्डं तापिच्छवनं येषु तैः । एतेन तमालखण्डानां कृष्णवर्णत्वेन जलधरभ्रमान्मुग्धचातकैः प्रार्थ्यत इति ध्वनितम् । इभेति । इभानां हस्तिनां कलभास्त्रिशदब्दकाः । स्वार्थे कः । तैरुल्लूनाः खण्डिताः पल्लवाः किसलयानि येषामेवंविधानि वेल्लितान्यान्दोलितानि लवलीवलयानि येषु तैः । आलीयेति । आ समन्ताल्लीयमाना अन्तः प्रविश्यमाना ये नवयौवनेन प्रत्यग्रतारुण्येन मत्ता उत्कटाः पारावताः कलरवास्तेषां पक्षक्षेपेण गरुद्विक्षेपेण पर्यस्ताः पतिताः कुसुमस्तबकाः पुष्पगुच्छा येषां तैः । तन्विति । तनुपवनेन मन्दवायुना कम्पिता धूता याः कोमला मृदवः कदल्यो रम्भास्तासां दलानि पत्राणि । 'पर्णं पत्रं छदं दलम्' इति कोशः । तैर्वीजितैः कृतवालव्यजनैः । अविरलेति । अविरलान्यपेलवनि यानि फलानि तेषां निकरः समूहस्तेनावनतानि नमितानि नालिकेरवनानि लाङ्गलीखण्डानि येषु तैः । अकठोरेति । अकठोराणि मृदूनि पत्रपुटानि येषामेवंविधा ये पूगविटपिनः क्रमुकवृक्षास्तै परिवृतैः परिवेष्टितैः । अनिवेति । अनिवारिता निषिद्धा ये विहगाः पक्षिणस्तेषां तुण्डानि मुखानि तैः खण्डितानि शकलीकृतानि पिण्डखर्जूरजालकानि प्रसिद्धानि येषु तैः । मदेति । मदेन गर्वेण ऋतुविशेषजनितबलभरेण वा मुखरा वाचाला या मयूर्यो नीलकण्ठयोषितस्तासां यो मधुरो मिष्टो रवः शब्दस्तेन विराजितान्यन्तराणि मध्यानि येषां तैः । आकलीति । आकलिताः प्रादुर्भूता याः कलिकाः कोरकाः । 'कलिका कोरकोऽस्त्रियाम्' इति कोशः । तस्याः कलापः संघातस्तेन दर्त्तुरितैरुन्नतैः । कैलासेति । कैलासस्य रजताद्रेरन्तरान्तरा । मध्ये मध्य इत्यर्थः । यास्तरङ्गिण्यो नद्यस्तासां तैरङ्गितेन भङ्गितेन सिकतिलो वालुकितस्तलभूमिभागोऽधः प्रदेशो येषां तैः । किं कुर्वद्भिः पादपैर्वृक्षैः । अतिसुकुमारमतिमृदु किसलयनिकरं पल्लवसमूहमुद्वहद्भिर्धारयद्भिः । रक्तत्वसादृश्यात्तदेव विशेषयन्नाह - वनेति । वनदेवतानामरण्याधिष्ठात्रीणां करतलनिवहनिभमिव हस्ततलसमूहसदृशमिव । अलेति । अलक्तको यावकस्तस्य जललवैः सिक्तमिव सिञ्चितमिव । ग्रन्थीति । ग्रन्थिपर्णं शुकम् । ‘ग्रन्थिपर्णं शुकं बर्हम्' इत्यमरः । तस्य ग्रासेन मुदितानि हर्षितानि यानि चमरीकुलानि वनोद्भवगोसमूहानि तैर्निषेवितानिवा बुध्नानि येषां तैः । कर्पूरेति । कर्पूरा अन्तर्गर्भितघनसारवृक्षाः, अगरवो राजार्हाः प्रायो बाहुल्येन विद्यन्ते येषु तैः । इन्द्रेति । इन्द्रायुधानीन्द्रधनूंषि तैरिव । उभयोः साम्यमाह - घनेति । घनं निबिडमव टिप्प० - 1 अविरलं (निबिडम् ) फलनिकरेणावनतं च नारिकेलानां वनं येषु तैरित्यपि व्याख्यायन्ति केचन विद्वांसः । 2 विषमैः इत्यपि वदन्ति केचिद् । 3 कैलासतरङ्गिणीतरङ्गितः (कैलासतरङ्गिणीनां तरङ्गाः संजाताः यस्मिन् सः) सिकतिलश्च तलभूमिभागो येषां तैः । पाटा० - १ जललव. २ कृतासीकमान ३ मदमत्त. ४ पर्यस्तस्तबकैः ५ पूत. ६ विरावित; रचित. ७ अकलित ८ दन्तुरैः ९ पर्णक. १० समुदित. ११ घनावलीस्थानैः . शिवसिद्धायतनम् - पूर्वभागः । 273 Page #287 -------------------------------------------------------------------------- ________________ वस्थानैः, कुमुदैरिवादत्तदिनकरकरप्रवेशशिशिराभ्यन्तरैः, दाशरथिबलैरिवोञ्जननीलनलपरिगतप्रान्तैः, प्रासादैरिव सपारावतैः, भवनतापसैरिव संनिहितवेत्रासनैः, रुद्रैरिव नागलताबद्धपरिकरैः, उदधिकूलपुलिनैरिव निरन्तरोद्भिन्नप्रवाललताङ्कुरजालकैः, अभिषेकसलिलैरिव सर्वोषधिकुसुमफलकिसलयसनाथैः, आलेख्यगृहैरिव बहुवर्णचित्रपत्रशकुनिशर्तसंशोभितैः, कुरुभिरिव भारद्वाजद्विजोपसेवितैः, महासमरमुखैरिव पुनागसमाकृष्टशिलीमुखैः, महाकरि - *********** स्थानं येषां तैः । पक्षे घनो मेघः । कुमुदैरिति । कुमुदानि कैरवाणि तैरिव । उभयोः साम्यमाह - अदत्तेति । न दत्तो यो दिनकराणा सूर्यकिरणानां प्रवेशस्तेन शिशिरं शीतलमभ्यन्तरं मध्यभागो येषां तैरित्यभङ्गश्लेषः । दाशेति । दाशरथी रामस्तस्य बलानि सैन्यानि तैरिव । अञ्जनेति । अञ्जनवनीलानि यानि नलानि तृणानि तैः परिगतो व्याप्तः प्रान्तो येषां तैः । पक्षेऽञ्जननीलनलाः कपयः । शेषं पूर्ववत् । प्रासादेति । प्रासादा देवगृहास्तैरिव । 'प्रासादो देवभूपानाम्' इत्यभिधानचिन्तामणिः । भङ्गश्लेषमाह - सेति । सह पारावतैर्मर्कटवर्तमानाः सपारावतास्तैः । 'पारावतः कलरवे गिरौ मर्कटतिन्दुके' इत्यनेकार्थः । पक्षे पारावतः कपोतः । भवनेति । भवने गृहे स्थिता ये तापसाः परिव्राजकास्तैरिव । एतत्साम्यमाह - सनीति । संनिहिताः । समीपवर्तिनो वेत्रा वृक्षविशेषा असनाः प्रियका येषां तैः, पक्षे संनिहितानि वेत्रासनानि विष्टरविशेषा येषामिति बहुव्रीहिः । रुद्रैरिति । रुद्रा ईश्वरा एकादश तैरिव । एतत्साम्यमाह - नागेति । नागलता ताम्बूली । 'ताम्बूलवल्ली ताम्बूली नागपर्यायवल्लयपि इत्यभिधानचिन्तामणिः । तया बद्धः परिकरः परिधिर्येषां तैः । पक्षे नागाः सर्पा एव लता तया बद्धः, अर्थाज्जटायाः परिकरो येषामिति बहुव्रीहिः । उदधीति । उदधेः समुद्रस्य कूलं तटं तस्य पुलिनानि जलोज्झितप्रदेशास्तैरिव । 'पुलिनं तज्जलोज्झितम्' इति कोशः । उभयोः सादृश्यमाविष्कुर्वनाह - निरन्तरमिति । निरन्तरं सततमुद्भिन्ना प्रकटितानि प्रवाला नवपल्लवा लताङ्कुरा वल्लीप्ररोहाच तेषां जालकानि वृन्दानि येषु तैः । पक्षे प्रवाललता विद्रुमलता । शेषं पूर्ववत् । अभीति । अभिषेकार्थं यानि सलिलानि जलानि तैरिव । एतत्साम्यमाह - सर्वेति । सर्वाः समग्राश्च ता ओषध्यः फलपाकान्तास्तासां यानि कुसुमफलकिसलयानि तैः सनाथैः सहितैः । पक्षे मङ्गलकर्मणि सर्वोषधी प्रसिद्धा । आलेख्येति । आलेख्यं चित्रं तेन युक्ता गृहास्तैरिव । उभयोः सादृश्यमाह - बह्विति । बहुवर्णैरनेकरागैश्चित्राणि पत्राणि पिच्छानि येषामेवंभूतानां शकुनीनां पक्षिणां शतं तेन संशोभितैर्विराजितैः । पक्षे बहुवर्णोपेतानि यानि चित्राण्यालेख्यानि तेषु यानि पत्राणि बाह्यानि । शकुनयः पक्षिणः । शेषं पूर्ववत् । कुरुभिरिति । कुरवः कुरुवंशोद्भवा राजानस्तैरिव । एतयो सादृश्यमाह - भारेति । भारद्वाजा व्याघ्राटा ये द्विजाः पक्षिणस्तैरुपसेवितैः, पक्षे भारद्वाजो द्रोणः । महेति । महान्ति प्रकृष्टानि यानि समरमुखानि सङ्ग्रामप्रारम्भास्तैरिव । 'मुखमुपाये प्रारम्भे श्रेणिनिःसरणास्ययोः' इत्यनेकार्थः । एतयोः साम्यार्थमाह - 'नागेति । पुनागैर्वृक्षविशेषैः समाकृष्टाः समाकर्षिताः शिलीमुखा भ्रमरा येषु तैः । पक्षे पुनागाः प्रकृष्टपुरुषाः । शिलीमुखा बाणाः । शेषं पूर्ववत् । - - -- टिप्प० - 1 भवनतापसैरिव गृहस्थतपस्विभिरिव इति व्याख्यानमुचितम्, इत्यत्र परिवाजकमतपक्षपातिनां यदभिप्रायः स हास्यास्पद एव । 2 निरन्तर उद्भिन्न तरङ्गाघातेन उत्थितं विद्रुमलतानाम् क्षुद्रक्षुद्रखण्डसमूहो येषु तैरिति पूर्णपदस्यार्थः । 3 सुरामासीत्यादयः पूर्वसूचिता इत्यर्थः । 4 नानारङ्गेषु चित्रेषु यानि पत्राणि वाहनानि (हस्त्यश्चादीनि) शकुनयः पक्षिणश्च तेषां शतेन शोभितरित्यर्थः । - - - - - - - - - - - - - - - - - - - पाठा० - १ दिनकरकर. २ नीलनलाञ्जन. ३ शोभितैः. ४ भारद्वाजोपसेवितैः; भारद्वाजद्विजोत्तमसेवितैः. 274 कादम्बरी। कथायाम Page #288 -------------------------------------------------------------------------- ________________ भिरिव प्रलम्बबालपल्लवस्पृष्टभूतलैः, अप्रमत्तपार्थिवैरिव पर्यन्तावस्थितबहुगुल्मकैः, दंशितैरिव भ्रमरसंघातकवचावृतकायैः, प्रेमाणाभिमुखैरिव वानरकराङ्गुलिस्पृष्टगुजैः, अवनिपालशयनैरिव सिंहपादाङ्किततरुतलैः आरब्धपञ्चतपःक्रियैरिवोच्छिखशिखिमण्डलपरिवृतैः, दीक्षितैरिव कृतकृष्णसारविषाणकण्डूयनैः, जरद्गृहमुनिभिरिव जटालबालकमण्डलधरैः, इन्द्रजालिकैरिव दृष्टिहारिभिः पादपैः परिवृतं चन्द्रप्रभनाम्नस्तस्य सरसः पश्चिमे तीरे - *********** महान्तोऽतिस्थूला ये करिणो हस्तिनस्तैरिव । उभयोस्तुल्यता प्रदर्शयत्राह - प्रलम्बेति । प्रलम्बा लम्बायमाना ये बालपल्लवा नवीनकिसलयानि तैः करणभूतैः स्पृष्टं संघट्टितं भूतलमधःप्रदेशो येषां तैः । पक्षे बालपल्लवाश्चमरप्रान्ताः । शेषं पूर्ववत् । शोभातिशयार्थं हस्तिना कर्णे चामराणि बध्यन्त इति सर्वप्रसिद्धम् । अप्रमत्तेति । अप्रमत्ताः सावधाना ये पार्थिवा राजानस्तैरिव । एतयोःसादृश्यमाह - पर्यन्त इति । पर्यन्ते प्रान्तेऽवस्थिता बहवोऽनेके गुल्मका गुच्छका येषु तैः । पक्षे गुल्मकाः सेनाविशेषाः । 'एकेभैकरथा त्र्यधा पत्तिः पञ्चपदातिका । सेना मुखं गुल्मः' इति कोशः । दंशितेति । दंशितैर्वमितैरिव । 'दंशितो वर्मितः सज्जः' इति कोशः । एतयोस्तुल्यत्वमाह - भ्रमेति । भ्रमराणां शिलीमुखानां यः संघातः समूहः स एव कवचं वर्म तेनावृत आच्छादितः कायो देहो येषां तैः । पक्षे भ्रमरा आवतस्तेिषां संघातः समूहो येष्वेवंविधानि कवचानि संनाहाः । शेषं पूर्ववत् । प्रमाणेति । प्रमाणं तोलनं तत्राभिमुखाः संमुखास्तैरिव । उभयोः प्रकारान्तरेण भङ्गमाह - वानरेति । वानरा गोलाङ्ग्लास्तैः कराङ्गुलिभिः करशाखाभिः स्पृष्टा आश्लिष्टा गुञ्जा येषु तैः । पक्षे वेति विकल्पार्थः । नराङ्गुलयो मनुष्याङ्गुलयः । शेषं पूर्ववत् । सुवर्णपरिमाणे गुञ्जाया एव ग्रहणमिति लोकप्रसिद्धम् । अवनीति । अवनिपाला राजानस्तेषां शयनैस्तल्पैरिव । एतयोः सादृश्यं प्रदर्शयन्नाह - सिंहेति । सिंहपादैर्हर्यक्षचरणैरङ्कितानि चिह्नितानि तरुतलानि वृक्षाधोभागा येषां तैः । पक्षे सिंहपादेष्वङ्किता एतादृशानि तलानि । शेषं प्राग्वत् । आरब्धेति । आरब्धा प्रस्तुता पञ्चतपःक्रिया पञ्चाग्निसाधनकर्म यैस्तैरिव । एतयोः शब्दसादृश्यमाह - उच्छिखेति । उच्छिखमूर्खचूडं यच्छिखिमण्डलं मयूरसमूहस्तेन परिवृतैः परिवेष्टितैः । पक्ष ऊर्ध्वं शिखा ज्वाला यस्यैवंभूतं शिखिमण्डलं वह्निमण्डलम् । शेषं प्राग्वत् । दीक्षिता यज्ञे गृहीतव्रतास्तैरिव । एतयोः साम्यमाविःकर्तुमाह - कृतेति । कृतं विहितं कृष्णसारैर्मृगेविषाणानां श्रृङ्गाणां कण्डूयनं कण्डूया येषु तैः । 'कण्डूः कण्डूयन खर्जूः कण्डूया' इत्यभिधानचिन्तामणिः । पक्षे कृष्णसारविषाणेन कण्डूयनम् । शेषं प्राग्वत् । दीक्षितानामयमाचारो यन्मृगविषाणैः कण्डूयनं विधीयत इति । जरेति । जरन्तो ज्यायांसो ये गृहमुनय आश्रमतापसास्तैः पञ्च(?)मुनीनामपत्यानि न भवन्तीति गृहपदं तैरिव । एतयोः सादृश्यप्रदर्शनार्थमाह - जटेति । जटाः शिफाः, आलवालक आवापः तस्य मण्डलं परिवेषस्तं धरन्तीति धरैः, पक्षे जटायुक्ता ये बालाः स्तनंधयास्त एव कमण्डलधरा पानीयसमूहधरा यैष्विति बहुव्रीहिः । इन्द्रेति । इन्द्रजालिका मायिकास्तैरिव । उभयोः सादृश्यमाह - दृष्टीति । दृष्टयो नेत्राणि तेषां हारिभिर्हरणशीलैः । नेत्राभिरामैरित्यर्थः । पक्षे दृष्टिवञ्चकैः । अन्वयस्तु - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 भ्रमरसंघात(भ्रमरसमूह)वत् स्थितैः (कृष्णवर्णैः) कवचैः वर्मभिः आवृता देहा येषां तैरिव कवचयुक्तवीरपुरुषैः । इत्यर्थो वाच्यः । 2 अत्र केषाञ्चन विदुषामते 'सिंहपादाङ्किततलैः' इत्यपि पाठः । केसरिणां पादैश्चरणचिद्वैरङ्कितानि तलानि तरुतलानि येषु इति वृक्षपक्षे । सिंहाना पादैरिव पादैः पल्यङ्कपादकैश्चिह्नितानि तलानि शयनतलानि येषु तैरिति अवनिपालपक्षेऽर्थः । 3 जटायुक्ता ये बालकास्तेषां मण्डलं समूह धरन्तीत्यर्थः । पाठा० -१ संपात. २ प्रयाण. ३ पादाङ्किततलैः. ४ दीर्घजटा. ५ कमण्डलु. शिवसिद्धायतनम् पूर्वभागः । 1275 Page #289 -------------------------------------------------------------------------- ________________ कैलासपादस्य ज्योत्स्नावदातया प्रभया धवलयतस्तं प्रदेशं भूतलभागसंनिविष्टं भगवतः शूलपाणेः शून्यं सिद्धायतनमपश्यत् । तच्च पवनोद्भूतैरितस्ततः समापतद्भिः केतकीगर्भधूलिभिर्धवलीक्रियमाणकायः पशुपतिदर्शनहेतोर्बलादिव प्रतिपाद्यमानो भस्मव्रतमायतनप्रवेशपुण्यैरिव परिगृह्यमाणः प्रविश्याद्राक्षीच्चतुःस्तम्भस्फटिकमण्डपिकातलप्रतिष्ठितम्, अचिरोद्भतरार्द्रर्दलशिखरगलज्जलबिन्दुभिरू विपाटितचन्द्रबिम्बदलैरिव निजाट्टहासावयवैरिव शेषफणाशकलैरिव पाञ्चजन्यसहोदरैरिव क्षीरोदहृदयाकारैरुपपादित मौक्तिकमुकुटविभ्रमैः शुचिभिर्मन्दाकिनीपुण्डरीकैः कृतार्चनम्, अमलमुक्ताशिलाघटितलिङ्गम्, अशेषत्रिभुवनवन्दितचरणम्, चराचरगुरुम्, चतुर्मुखम्, भगवन्तं त्र्यम्बकम् । *********** प्रागेवोक्तः । अथ कैलासपादं विशेषयन्नाह - ज्योत्स्नेति । ज्योत्स्ना कौमुदी तद्वदवदातया शुभ्रया प्रभया कान्त्या तं प्रदेशं तत्पार्श्ववर्तिभूभागं धवलयतो धवलीकुर्वतः ।। तच्चेति । तदायतनं प्रविश्य तत्र प्रवेशं कृत्वा भगवन्तं माहात्म्यवन्तं त्र्यम्बकं गौरीनाथमद्राक्षीद् ददर्शेत्यन्वयः । अथ चन्द्रापीडं विशेषयन्नाह - पवनेति । पवनेन वायुनोद्भूतैः कम्पितैरितस्ततः समापतद्भिर्यत्रतत्र निपतद्भिः केतक्याः प्रसिद्धाया गर्भधूलिभिर्मध्यरेणुभिर्धवलीक्रियमाणः शुभ्रीक्रियमाणः कायो देहो यस्य सः । पाण्डुरत्वसाम्येनाह - पशुरिति । पशुपतेरीश्वरस्य यद् दर्शनमवलोकनं तस्य हेतोः तदर्थमित्यर्थः । बलादिव हठादिव भस्मव्रतं विभूतिव्रतं प्रतिपाद्यमान इवाङ्गीक्रियमाण इव । धूलीनां शुचित्वात्पुण्यानामपि तथाविधत्वात् तत्साम्येनाह - आयेति । आयतनं चैत्यं तत्र यः प्रवेशस्तस्माद्यानि पुण्यानि श्रेयांसि तैः परिगृह्यमाण इवोपादीयमान इव । अथ सिद्धायतनं विशेषयन्नाह - चतुरिति । चत्वारः स्तम्भाः स्थूणा यस्यामेतादृशी या स्फटिकमण्डपिका चन्द्रकान्तलघुमण्डपस्तस्यास्तलेऽधोभागे प्रतिष्ठितमवस्थितम् । पुनः कीदृशम् । शुचिभिः पवित्रैर्मन्दाकिनी स्वधुंनी तस्याः पुण्डरीकैः सिताम्भोजैः कृतं विहितमर्चन पूजन यस्य तत् । अथ पुण्डरीकाणि विशेषयन्नाह - अचिरेति । अचिरोद्भूतैः स्वल्पकालोत्खातैरार्द्राणि चााणि चाार्द्राणि तैः जलस्विनैरित्यर्थः । दलेति । दलानां पत्राणां शिखराण्यग्रभागास्तेभ्यो गलन्तः सवन्तो जलस्याम्भसो बिन्दवो विप्रुषो येषु तैः । गलज्जलबिन्दुसाम्येनोत्प्रेक्षते - ऊद्येति । ऊर्ध्वं विपाटितं भिन्नं यच्चन्द्रबिम्ब शशिमण्डलं तस्य दलैः खण्डैरिव । तत्राप्यमृतस्य गलद्विन्दवो भवन्तीति भावः । अत्र शुक्लत्वसाम्यादाह - निजेति । निजः स्वकीयो योऽट्टहासो महान्हासस्तस्यावयवैरिवापघनैरिव । शेषेति । शेषस्य नागाधिपतेः फणा स्फटा तस्याः शकलैः खण्डैरिव । अर्धविकसितत्वसाम्यादाह - पाञ्चेति । पञ्चजने पाताले भवः पाञ्चजन्यों जनार्दनशङ्खस्तस्य सहोदरैरेकोदरसमुत्पनैरिव । हृदयस्य पुण्डरीकाकारत्वात्तत्साम्येनाह - क्षीरेति । क्षीरोदस्य यद्धृदयं स्वान्तं तद्वदाकार आकृतिर्येषां तैः । अग्रसंकुचितत्वसाम्येनाह - उपेति । उपपादितो विहितो मौक्तिकानां रसोद्भवानां मुकुटविभ्रम उष्णीषभ्रान्तियः । अथ स्थावररूपमधिकृत्य त्र्यम्बकं विशेषयन्नाह - अमलेति । अमला निर्मला या मुक्ताशिला मौक्तिकशिला तस्या घटितं निर्मित लिङ्ग यस्य स तम् । जङ्गमरूपमधिकृत्याह - अशेषेति । अशेषं यस्त्रिभुवनं त्रिविष्टपं तेन वन्दितौ नमस्कृतौ चरणौ यस्य स तम् । चरेति । चराचरस्य जीवलोकस्य गुरुं हिताहितप्राप्तिपरिहारोपदेष्टारम् । चतुरिति । चत्वारि मुखानि यस्य स - टिप्प० -1 गर्भधूलिभिरिति पाठस्वीकारः प्रामादिकः । 'पवनोद्धतैः' इति विशेषणाऽयोगात् । 'स्त्रियां धूलिः' इति कोशोक्तेः । तस्मात् 'धूलिपटलै रिति पाठ स्वीकर्तव्यः । 2 अर्थात् केतकधूलिभिर्धवलीस्त्रियमाणो नास्ति किंतु सिद्धाश्रमप्रवेशजन्यैः शुचिभिः पुण्यैरेव गृहीतशरीर इत्याशयः । 3 'अचिरोद्धृतैः' इत्यपि पाठः । पाठा० . १ तलभागनिविष्टम्. २ शूलपाणेः सिद्धायतनम्. ३ उद्धृतैः. ४ समाघट्टद्धिः. ५ घूलिधवलैः. ६ अचिरोद्भूतैः ७ आदिलशिखर; आशिखर. 1276 कादम्बरी। कथायाम् Page #290 -------------------------------------------------------------------------- ________________ तस्य च दक्षिणां मूर्तिमाश्रित्याभिमुखीमासीनाम्, उपरचितब्रह्मासनाम्, अतिविस्तारिणा सर्वदिङ्मुखप्लावकेन प्रलयविप्लुतक्षीरपैयोधिपूरपाण्डुरेणातिदीर्घकालसंचितेन तपोराशिनेव सर्वतो विसर्पता पादपान्तरैस्त्रिसोतोजलनिभेन पिण्डीभूय वहतेव देहप्रभावितानेन सगिरिकाननं दन्तमयमिव तं प्रदेशं कुर्वतीम्, अन्यथैव धवलयन्ती कैलासगिरिम, अन्तर्द्रष्टुरपि लोचनपथप्रविष्टेन वेतिमानमिव मनो नयन्तीम्, अतिधवलप्रभापरिगतदेहतया स्फटिकगृहगतामिव दुग्धसलिलमग्नामिव विमलचेलांशुकान्तरितामिव आदर्शतलसंक्रान्तामिव शरदभ्रपटलतिरस्कृतामिव अपरिस्फूटविभाव्यमानावयवाम्, पञ्चमहाभूतमयमपहाय द्रव्या - *********** चतुर्मुखस्तम् । ननु महादेवस्य पञ्चवक्त्रत्वात्कथमत्र चतुर्मुखोपवर्णनमिति वाच्यम् । सामान्यतस्तनिवासिनः प्रयोजनवशाच्चतुर्मुखस्यापि संभवात् । तस्य त्र्यम्बकस्य दक्षिणामपसव्यां मूर्ति प्रतिमामाश्रित्याश्रयणं कृत्वाऽभिमुखीं संमुखीमासीनां निषण्णां प्रतिपन्नं स्वीकृतं पाशुपतमीधरसक्तं व्रतं नियमविशेषो यया तां कन्यका महाश्वेताभिधानां ददर्शति दूरेणान्यवः । इतः कन्यकां विशेषयन्नाह - उपेति । उपरचित निर्मितं ब्रह्मासनं ध्यानासनं यया सा ताम् । पुनः किं कुर्वतीम् । सगिरिकाननं तं प्रदेशं दन्तमयमिव गजदन्तनिर्मितमिव कुर्वती प्रणयन्तीम् । केन । देहप्रभावितानेन शरीरकान्तिकलापेन । अथ प्रभावितानं विशेषयन्नाह - अतीति । अतिशयेन विस्तारिणा प्रसरणशीलेन । सर्वेति । सर्वदिङ्मुखानां प्लावकेनाच्छादकेन । प्रलयेति । प्रलयः कल्पान्तस्तेन विप्लुतो विस्तुतो यः क्षीरपयोधिस्तस्य पूरो रयस्तरत्पाण्डुरेण शुभ्रेण । उज्ज्वलत्वसाम्यादाह - अतीति । अतिदीर्घोऽत्यायतो यः कालोऽनेहा तेन संचितेनैकत्रीकृतेन विसर्पता प्रचलता तपोराशिना तपःसमूहेनेव । अतिस्वच्छत्वादाह - पादपेति । पादपान्तरैर्वृक्षान्तरैः प्रतिबन्धकीभूतैः पिण्डीभूय समूहीभूय वहतेव त्रिसोतोजलनिभेन गङ्गाम्भःसदृशेन । कैलासस्य श्वेतत्वादेतस्य च तदतिशयवत्त्वादाह - अन्यथेति । भिन्नप्रकारेण तेनैव देहप्रभावितानेन कैलासगिरिं रजताद्रिं धवलयन्तीं वेतिमानमापादयन्तीमिव । द्रष्टुरिति । तेनैव प्रभावितानेन द्रष्टुरपि विलोकयितुरप्यन्तर्लोचनपथप्रविष्टेन नेत्रमध्यमार्गगतेन मनश्चित्तं चेतिमानं शुक्लिमानं नयन्तीमिव प्रापयन्तीमिव । अतीति । अतिधवलातिशुभ्रा या प्रभा कान्तिस्तया परिगतो व्याप्तो देहो यस्यास्तस्या भावस्तत्ता तया । तथा च देहस्य प्रभारूपस्वच्छद्रव्यान्तरितत्वान्न परिस्फुटं विभाव्यमाना ज्ञायमाना अवयवा अपघना यस्याः । स्वच्छद्रव्यान्तरितत्वसाम्येनोत्प्रेक्षते - स्फटिकेति । स्फटिकश्चन्द्रकान्तस्तस्य गृह धाम तत्र गतामिव प्राप्तामिव । दुग्धेति । दुग्धसलिले क्षीरोदे मग्नामिव बुडितामिव । विमलेति । विमलं निर्मलं यच्चेलांशुकं वस्त्रविशेषस्तेनान्तरितामिव व्यवहितामिच । आदर्शति । आदर्शतलं मुकुरतलं तत्र संक्रान्तामिव प्रतिबिम्बितामिव । शरदिति । शरद्धनात्ययस्तस्या अभ्रपटलानि मेघवृन्दानि तैस्तिरस्कृतामन्तर्हितामिव । अपरिस्फुटावयवत्वादेवाशङ्कते - पञ्चेति । पञ्चमहाभूतमयं पृथिव्याद्यात्मक द्रव्यरूपमङ्गनिष्पादनोपकरणकलापं शरीरजनकसामग्रीमपहाय दूरीकृत्य केवलेन धवलगुणेनैवोत्पादितां निर्मिताम् । शौक्ल्यातिशयवत्त्वादिति भावः । केचिदपहायेत्यस्योभयत्र संबन्धमाहुः । तथा - धवलगुणेनेवोत्पादितायास्तस्याः पृथिव्याद्यनात्मकत्वे द्रव्यत्वमेव न स्यादित्यत आह - द्रव्येति । द्रव्यात्मकं - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'तदूर्ध्वभागः संजातश्चतुर्वक्त्रश्चतुर्भुजः । पद्मकेशरगौरागकायो ब्रह्मा महेश्वरः ॥ इति कालिकापुराण(द्वादशाध्याय)वचनाच्चतुर्मुखी अपि शिवस्य मूर्तिः । 2 दक्षिणाभिमुखीमित्यर्थः । 3 'चन्द्रमयमिव' इत्यपि पाठः । - - - - - - - -- पाठा० - १ अभिमुखम्. २ परिप्लुत. ३ पयोधिपयःपूर. ४ तपोराशिनैव विसर्पता. ५ हतमयम्; चन्द्रमयम्. ६ लोचनपथं प्रविश्य. ७ अतिबहल. ८ चीनांशुक. ९ परिस्फुट. महाश्वेता पूर्वभागः । 277 Page #291 -------------------------------------------------------------------------- ________________ त्मकमङ्गनिष्पादनोपकरणकलापं धवलगुणेनेवे केवलेनोत्पादिताम्, अध्वरक्रियामिवोर्द्धतगणकचग्रहभयोपसेवितत्र्यम्बकाम्, रतिमि मदनदेहनिमित्तं हरप्रसादनार्थमागृहीतहराराधनाम्, क्षीरोदाधिदेवतामिव सहवासपरिचितहरचन्द्रलेखोत्कण्ठाम्, इन्दुमूर्तिमिव स्वर्भानुभयकृतत्रिनयनशरणंगमनाम्, ऐरावतदेहच्छविमिव गजाजिनावगुण्ठनोत्कण्ठितशितिकण्ठचिन्तितोपनताम्, पशुपतिदक्षिणमुखहासच्छविमिव बहिरांगत्य कृतावस्थानाम्, - *********** स्वरूपमपहाय । ननु द्रव्यत्वाभावेऽङ्गानि शरीरावयवास्तनिष्पादने या उपकरणसामग्यपेक्षिता सा न स्यात् । तस्याश्च द्रव्यात्मककार्ये जननेऽसामर्थ्यादत आह - अङ्गेति । तदप्यपहाय । न चाभाव एव दूषणम् । अलौकिकप्रसिद्धेः दूषणस्यैव भूषणत्वात् । अध्वरक्रियायाः स्त्रीत्वमाश्रित्याह - अवर इति । अध्वरो दक्षस्य यज्ञस्तस्य क्रिया कर्म तामिव । उभयसादृश्यमाह - उद्भतेति । उद्धता अनार्या ये गणा मनुष्यवृन्दाः पार्षदाश्च तैर्य कचग्रहः केशग्रहस्तस्माद्यद्भयं तेनोपसेवितः सपर्याविषयीकृतस्त्र्यम्बक ईश्वरो यया सा ताम् । दक्षप्रजापतिनाध्वर ईश्वरो नाहूतः । तेन गणाः प्रेषिताः । तैरध्वरविनाशो विध्वस्त इति पुराणप्रसिद्धम् । रतिरिति । रतिर्मनोभवस्य स्त्री तामिव । उभयोः साम्यं स्पष्टमाह - मदनेति । मदनेन कंदर्पण पीडितो यो देहः शरीरं तन्निमित्तं तदर्थम् । मदनोपशान्त्यर्थमित्यर्थः । सा च हरप्रसन्नतायां स्यादित्याशयेनाह - हर इति । हरस्येश्वरस्य प्रसादनार्थं प्रसत्त्या आगृहीता स्वीकृता हराराधनेश्वरसपर्या यया सा ताम् । मदनस्य देह इव देहो यस्यैवंविधः पुण्डरीकमुनिस्तन्निमित्तं तदर्थमित्यर्थो वा । पक्षे मदनदेहनिमित्तम् । शेषं पूर्ववत् । ईश्वरेण कंदर्पदेहो भस्मसात्कृतः, पश्चाद्रत्येश्वरं सेवया प्रसन्नीकृत्य नवीनदेहः कारित इति पुराणप्रसिद्धम् । क्षीरोदेति । क्षीरसमुद्रस्याधिदेवताधिष्ठात्री लक्ष्मीस्तामिव । उभयं विशेषयन्नाह - सहेति । महादेवस्य निकटे कन्याया महाश्वेतायाश्चन्द्रलेखासहवासात्परिचितिविशेषतो दृष्टायां हरचन्द्रलेखायामुत्कण्ठाद्भुतातिशयो यस्याः सा ताम् । पक्षे क्षीरोदधौ समुद्रे यः पूर्वचन्द्रेण सहवासस्तेन परिचिता निर्णीता हरस्य चन्द्रकला तस्यामुत्कण्ठा रणरणकं यस्या इति बहुव्रीहिः । इन्दुरिति । इन्दुश्चन्द्रस्तस्य मूर्तिः शरीरं तामिव । उभयोः सादृश्यार्थमाह - स्वर्भानुरिति । स्वर्गतो योऽत्युच्चो भानुः सूर्यस्तस्यातपलक्षणं भयं तस्मात्कृतं विहितं त्रिनयनस्य शम्भोश्छायावशाच्छरणे गृह आगमनं यया सा ताम् । पक्षे स्वर्भानुः सैंहिकेयः । शरणार्थं त्राणार्थम् । शेषं पूर्ववत् । ऐरावतेति । ऐरावतो हस्तिमल्लस्तस्य देहच्छविः शरीरत्वक् तामिव । उभयोः साम्यमाह - गजेति । गजाजिनेन हस्तिचर्मेणावगुण्ठनमाच्छादनं तस्मिन्नुत्कण्ठितो यः शितिकण्ठो महादेवस्तस्य चिन्तित समीहितमुपनतं पूरितं यया सा ताम् । पक्षे गजाजिनावगुण्ठनोत्कण्ठितेश्वरस्य चिन्तितेनापेक्षयोपनता प्राप्ताम् । पशुपेति । पशुपतिरीश्वरस्तस्य दक्षिणमुखस्यापसव्याननस्य यो हासो हास्यं तस्य छविः शोभा तामिव । अत्र दक्षिणग्रहण प्रायशस्तत्र हास एवेति तदर्थम् । उभयोः साम्यमाह - बहिरिति । स्वस्थानान्मुखाच्च बहिरागत्य कृतमवस्थानं ययेत्यभङ्गश्लेषः । श्वेतत्वपवित्रत्वसाम्यादाह-शरीरिणी देहधारिणी रुद्रस्येश्वरस्योद्भूलनमङ्गमर्दनं तस्य भूतिं - - - - टिप्प०-1 'अध्वरक्रियामिव' इति सामान्यतः पाठाश्रयणमत्र यज्ञक्रियाया अनौचित्यं प्रतिपादनाय । न हि सामान्ययज्ञे केशाकर्षणं विहितम् । 'दक्षाध्वरक्रियामिव इत्यपि पाठ उचितः । 2 गणाः प्रमथा इत्येवोचितम् । 3 राहोभयेन कृतं त्रिनयनस्य शिवस्य शरणगमनं यया ईदृशीं चन्द्रस्य मूर्तिमिव । अस्मिन्नर्थे महाश्वेतापक्षे योजनस्य काऽऽवश्यकता ? एवमग्रेपि बोध्यम् । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ मङ्गल. २ एव. ३ दक्षाध्वर. ४ उद्धृत. ५ निरन्तरभस्मोल्लुण्ठनसिताङ्गी रतिम्. ६ क्षीरोदधि. ७ उत्कण्ठाकृष्टाम्; उत्कण्टोत्कृष्टाम्. ८ शरणागमना. ९ निर्गत्य. 278 कादम्बरी। कथायाम Page #292 -------------------------------------------------------------------------- ________________ शरीरिणीमिव रुद्रौद्धूलनर्भूतिम्, आविर्भूतां ज्योत्स्नामिव हरकण्ठान्धकारविघट्टनोद्यमप्राप्ताम्, गौरीर्मनः शुद्धिमिव कृतदेहपरिग्रहाम्, कार्तिकेयकौमारव्रतक्रियामिव मूर्तिमतीम्, गिरिशवृषभदेहद्युतिमिव पृथगवस्थिताम्, आयतनतरुकुसुमसमृद्धिमिव शंकराभ्यर्चनाय स्वयमुद्यताम्, पितामहतपः सिद्धिमिव महीतलमवतीर्णाम्, आदियुगप्रजापतिकीर्तिमिव सप्तलोकभ्रमणखेदविश्रान्ताम्, त्रयीमिव कलियुगध्वस्तधर्मशोकगृहीतवनवासाम्, आगामिकृतयुगबीजकलामिव प्रमदारूपेणावस्थिताम्, देहवतीमिव मुनिजनध्यानसंपदम्, अमरगजवीथीमिवाभ्रगङ्गाभ्यागमवेगपतिताम्, कैलासश्रियमिव दशमुखोन्मूलनक्षोभनिपतिताम्, श्वेतद्वीपलक्ष्मीमिवान्यद्वीपावलोकनकुतूहलागताम्, काशकुसुमविकासकान्तिमिव शरत्समय - *********** भस्मेव । प्रकाशरूपत्वसाम्येनाह - ज्योत्स्नेति । आविर्भूता प्रकटीभूता ज्योत्स्ना कौमुदी तामिव । हरेति । हरकण्ठे यः कृष्णत्वसाम्यादन्धकारस्तस्य विघट्टनं दूरीकरणं तत्र य उद्यमः प्रयत्नस्तेन प्राप्तां समागताम् । हरसंनिधानसाम्येनाह - गौरीति । गौरी पार्वती तस्या मनःशुद्धिश्चित्तनैर्मल्यं तामिव । अमूर्ताया मूर्तेन कथं साम्यं स्यादित्याह - कृतेति । कृतो विहितो देहस्य परिग्रहः स्वीकारो यया सा ताम् । सातिशयत्वसाम्येनाह - कार्तीति । कार्तिकेयस्य षडाननस्य या कौमाखतक्रिया बाल्यावस्थायां यत्तपोनुष्ठानं तामिव । अत्रापि क्रियारूपत्वेन तदसंभवादाह - मूर्तीति । मूर्तिमतीम् । सशरीरामित्यर्थः । गिरिशेति । गिरिशो महादेवस्तस्य यो वृषभो बलीवर्दस्तस्य देहद्युतिः शरीरच्छविस्तामिव । तस्या गुणरूपत्वेन तदुपमानाभावादाह - पृथगिति । शरीराद्बहिर्निर्गत्य पृथगवस्थिताम् । सशरीरामित्यर्थः । आयतनेति । आयतनं चैत्यं तस्य तरवो वृक्षास्तेषां कुसुमसमृद्धिः पुष्पसंपत् तामिव । तस्या आगमने निदानमाह - शंकरेति । शंकरस्येश्वरस्याभ्यर्चनं पूजनं तदर्थं स्वयमुद्यतामुद्योगयुक्ताम् । पितेति । पितामहस्य ब्रह्मणो या तपः सिद्धिस्तामिव । तपः सिद्धेरात्मगतत्वेनोपमानाभावादाह-महीतलेऽवतीर्णां कृतावताराम् । आदीति । आदियुगे कृतयुगे यः प्रजापतिर्ब्रह्मा मरीच्यादयश्च तस्य तेषां वा कीर्तिर्यशस्तामिव । तस्या एकत्रावस्थाने कारणमाह - सप्तेति । सप्तसु लोकेषु यभ्रमणं पर्यटनं तस्माद्यः खेदः श्रमस्तेन विश्रान्तामुपविष्टाम् । त्रयीत् । ऋग्यजुःसामवेदास्त्रयी तामिव । एतस्यास्तत्रागमने हेतुमाह - कलीति । कलीयुगेन कलिकालेन ध्वस्तो दूरीकृतो यो धर्मो वृषस्तस्माद्यः शोकः शुक् तेन गृहीतः स्वीकृतो वनवासोऽरण्यनिवासो यया सा ताम् । इयमपि ध्वस्तधर्मशोकेन गृहीतवनवासेत्युभयोः साम्यम् । धर्मातिशयवचनसाम्येनाह - आगामीति । आगाम्यग्रेभावी यः कृतयुगस्तस्य या बीजकला निदानमात्रं तामिव प्रमदारूपेण स्त्रीरूपेणावस्थितामासेदुषीम् । देहेति । देहवतीं शरीरधारिणीं मुनिजना वाचंयमास्तेषां ध्यानं प्राणायामस्तस्य संपत् समृद्धिः तामिव । अमरेति । अमरा देवास्तेषां गजा हस्तिनस्तेषां वीथी ततिस्तामिव । गजसमूहस्य तत्रागमने निदानमाह अभ्रेति । अभ्रगङ्गाकाशगङ्गा तस्यामभ्यागमः संमुखगमनं तत्र यो वेगस्त्वरा तेन पतितां सस्ताम् । कैलासेति । कैलासो रजताद्रिस्तस्य श्रीः शोभा तामिव । कीदृशीम् । दशेति । दशमुखो रावणस्तेन यदुन्मूलनं तस्माद्यः क्षोभस्त्रासस्तस्मान्निपतितां सस्ताम् । इयमपि क्षोभेण निपतिता । श्वैत्यातिशयं वर्णयन्नाह - श्वेतेति । यत्र सर्वमेव वस्तु श्वेतं तच्छ्रेतद्वीपं तस्य या लक्ष्मीः श्रीस्तामिव । सा तद्वीप एव नास्मिन्प्रदेश इत्याह - अन्येति । इतरद्वीपानां यदवलोकनं वीक्षणं तदेव कुतूहलमाश्चर्यं तेनागतां प्राप्ताम् । काश इति । काश इति इषीका तस्य कुसुमानि पुष्पाणि तेषां विकासो विकसनं तस्य कान्तिः प्रभा तामिव । कीदृशीम् । शरत्समयं घनात्ययकालमुदीक्षमाणां प्रतीक्षमाणाम् । टिप्प० - 1 काशः 'काँस' इति भाषायां ख्यातस्तृणविशेषः । पाटा० - १ हर. २ विभूतिम् ३ तपः सिद्धिम् ४ गिरीश. ५ द्वीपान्तर. ( महाश्वेता पूर्वभागः । - 279 Page #293 -------------------------------------------------------------------------- ________________ मुदीक्षमाणाम्, शेषशरीरच्छायामिव रसातलमपहाय निर्गताम्, मुसलायुधदेहप्रभामिव मधुमदविधूर्णनायांसविगलिताम्, शुक्लपक्षपरंपरामिव पुञ्जीकृताम्, सर्वहसैरिव धवलतया कृतसंविभागाम्, धर्महृदयादिव विनिर्गताम्, शङ्खादिवोत्की र्णाम्, मुक्ताफलादिवाकृष्टाम्, मृणालैरिव विरचितावयवाम्, दन्तदलैरिव घटिताम्, इन्दुकरकूर्चकैरिवाक्षालिताम्, वर्णसुधाच्छटाभिरिवोच्छुरिताम्, अमृतफेनपिण्डैरिव पाण्डुरीकृताम्, पारदरसधाराभिरिव धौताम्, रजतद्रवेणेव निदृष्टाम्, चन्द्रमण्डलादिवोत्कीर्णाम्, कुटजकुन्दसिन्दुवारकुसुमच्छविभिरिवोल्लासिताम्, इयत्तामिव धवलिम्नः, स्कन्धावलम्बिनीभिरुंदयतटगतादर्कबिम्बादुद्धृत्य बालरश्मिप्रभाभिरिव निर्मिताभिरुन्मिषत्तडित्तरलतेजस्ताम्राभिरचिरस्नानावस्थित - *********** शेषेति । शेषो नागराजस्तस्य यच्छरीरं तस्य छाया कान्तिस्तामिव । अत्र कथं तस्या आगम इत्याकाङ्क्षायामाह - रसेति । रसातलं भूतलमपहाय त्यक्त्वा निर्गता बहिरागताम् । मुसलेति । मुसलायुधो बलभद्रस्तस्य या देहप्रभा शरीरद्युतिस्तामिव । तस्या अत्रासंभवमाशङ्क्याह - मध्विति । मधुमदेन कादम्बरीमदेन यद्विघूर्णनं देहभ्रमस्तस्माद्य आयासः खेदस्तेन विगलितां च्युताम् । शुक्लेति । शुक्लपक्षस्तस्य परंपरा संततिस्तामिव । तस्या एकत्रावस्थितेरभावादाह - पुजीति । पुजीकृतामेकत्रीकृताम् । सर्वेति । धवलतया धेततया सर्वहंसैः समग्रसितच्छदैः कृतो विहितः संविभागः स्वश्चैत्यार्पणं यस्याः सा तामिव । धर्मेति । धर्मो वृषस्तस्य हृदयाद्वक्षसो विनिर्गतामिव । शङ्ख इति । शङ्खाज्जलजादुत्कीर्णामिवोत्कीर्य निर्मितामिव । मुक्तेति । मुक्ताफलाद्रसोद्भवादाकृष्टामिवाकर्षितामिव । मृणालेति । मृणालैस्तन्तुलैर्विरचिता विहिता अवयवा अपघना यस्याः सा तामिव । दन्तेति । दन्ता हस्तिमुखरदनास्तेषां दलैः खण्डैर्घटितामिव निर्मितामिव । इन्दुरिति । इन्दुश्चन्द्रस्तस्य करा अंशवस्त एव कूर्चकाः कुञ्चिकास्तैराक्षालिनामिव धौतामिव । वर्णेति । वर्णा शुक्ला । 'वर्णः स्वर्णे मखे सुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे' इत्यनेकार्थः । एतादृशी या सुधा गृहधवलीकरणद्रव्यं तस्याश्छटाभिः पृषद्भिराच्छुरितामिवाच्छोटितामिव । अमृत इति । अमृतस्य पीयूषस्य ये फेनाः पिण्डाः डिण्डीरसमूहास्तैः पाण्डुरीकृतामिव शुक्लीकृतामिव । पारदेति । पारदो रसेन्द्रस्तस्य रसो द्रवस्तस्य धाराः पङ्क्तयस्ताभिौतामिव क्षालितामिव । रजेति । रजतं रौप्यं तद्वेण तद्रसेन निदृष्टामिव निघर्षितामिव । चन्द्र इति । चन्द्रमण्डलं शशिबिम्ब तस्मादुत्कीर्णामिवोत्कीर्य कर्षितामिव । कुटजेति । कुटजो गिरिमल्लिका, कुन्दः प्रसिद्धः, सिन्दुवारो निर्गुण्डी, एतेषां कुसुमानि तेषां छवयः कान्तयस्ताभिरुल्लासितामिव प्रगुणीकृतशोभामिव । धवलिम्नेति । धवलिम्नः श्चेतिम्न इयत्तामिवैतावत्त्वमिव । परमावधिमिवेत्यर्थः । अत्र सर्वत्र धेतत्वसाम्यादुपमानोपमेयभावः । न तु व्यर्थता । पुनः प्रकारान्तरेण विशेषयन्नाह - जटाभिरिति । जटा सटास्ताभिरुद्भासित उत्पाबल्येन शोभितः शिरोभाग उत्तमाङ्गप्रदेशो यस्याः सा ताम् । अथ जटा विशेषयन्नाह - स्कन्धेति । स्कन्धो भुजान्तरं तत्रावलम्बिनीभिरवलम्बितुं शीलं यासां ताभिः । तासामारक्तत्वं वर्णयन्नाह - उदयेति । उदय उदयाचलस्तस्य तटं प्रस्थं तत्र गतात्याप्तादर्कबिम्बात्सूर्यमण्डलादुद्धृत्य निष्कास्य बालरश्मिर्बालातपस्तस्य प्रभाभिः कान्तिभिर्निर्मिताभिरिवोत्पादिताभिरिव । उन्मिषदिति । उन्मिषन्ती स्फुरन्ती या तडिद्विद्युत्तस्या यत्तरलं चञ्चलं तेजस्तद्वत्ताम्राभिः श्वेतरक्ताभिः । अचिरेति । अचिरं यत्स्नानमाप्लवस्ते - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पर्यन्ततो भ्रमणम्, 'घुर घूर्ण भ्रमणे' इति धातुपाठात् । 2 वर्णकारिणी सुधा वर्णसुधा (शुक्लवर्णकारिणी सुधा 'कली' इति ख्याता) इति स्पष्टोऽर्थः । पाठा० - १ निर्गताम्; उद्गताम्. २ प्रक्षालिताम्. ३ छुरिताम्. ४ सिन्धुवार. ५ उदयिताभ्र. ६ गतार्क. ७ तडित्तन्तुतरल. (280 कादम्बरी। कथायाम Page #294 -------------------------------------------------------------------------- ________________ विरलवारिकणतया प्रणामलग्नपशुपतिचरणभस्मचूर्णाभिरिव जटाभिरुद्भासितशिरोभागाम्, जटापाशग्रथितमुत्तमाङ्गेन मणिमयं नामाङ्कमीश्वरचरणद्वयमुद्वहन्तीम्, रविरथतुरङ्गखुरक्षुण्णनक्षत्रक्षोदविशदेन भस्मना कृतललाटपट्टिकाम्, शिखरशिलाश्लिष्टशशाङ्ककलामिव शैलराजमेखलाम्, अतुलभक्तिप्रसाधितया लक्ष्यीकृतलिङ्गयापरयेव पुण्डरीकमालया दृष्ट्या संभावयन्ती भूतनाथम्, अनवरतगीतपरिस्फुरिताधरपुटवशादतिशुचिभिः शुद्धहृदयमयूखैरिव गीतगुणैरिव स्वरैरिव स्तुतिवणैरिव मूर्तिमद्भिर्मुखानिष्पतद्भिर्दशनांशुभिः पुनरपि स्नपयन्तीं गौरीनाथम्, अतिविमलैश्च वेदाथैरिव साक्षात्पितामहमुखादाकृष्टैर्गायत्रीवर्गरिव ग्रंथनस्फीततामुपगतैर्नारायणनाभिपुण्डरीकबीजैरिवोद्धृतैः सप्तर्षिभिरिव करस्पर्शपूतमात्मान - *********** नावस्थिता अभ्यन्तरे लग्ना ये विरलाः स्तोका वारिकणा जलविद्युषस्तेषां भावस्तत्ता तया । वारिकणानां श्वेतत्वादाह - प्रणामेति । प्रणामो नमस्कारस्तत्र लग्नं पशुपतेरीश्वरस्य चरणभस्म पादविभूतिक्षोदो यास्वेवंभूताभिरिव । जटापाशे जटाजूटे ग्रथितं गुम्फितम् । मणीति । भक्तिविशेषप्रकटनार्थं मणिनिर्मितं रत्नघटितं नाम्नो मूलबीजस्याङ्कश्चिह्न यस्मिन्नेवंभूतमीश्वरचरणद्वयं शंभुपादयुगलमुत्तमाङ्गेन शिरसोद्वहन्तीं धारयन्तीम् । रविरिति । रविरथस्य सूर्यस्यन्दनस्य ये तुरङ्गा अश्वास्तेषां खुराः शफास्तैः क्षुण्णानि चूर्णितानि यानि नक्षत्राणि भानि तेषां क्षोदचूर्णं तद्वद्विशदेन निर्मलेन भस्मना विभूत्या कृता विहिता ललाटपट्टिका पुण्ड्रविशेषो यया सा ताम् । ललाटस्य दृढत्वेन शिलारूपत्वाल्ललाटपट्टिकायाश्च त्रिपुण्ड्ररूपत्वेनार्धचन्द्राकारत्वादाह - शिखरेति । शिखरशिलायां सानुशिलायां श्लिष्टा लग्ना शशाङ्ककला यस्यामेवंभूतां शैलराजमेखलामिव हिमाचलमध्यभागमिव । किं कुर्वतीम् । संभावयन्ती संभावनाविषयीकुर्वतीम् । कम् । भूतनाथ महादेवम् । कया । दृष्ट्या । श्वेतत्वसाम्यादाह - अपरया भिन्नया पुण्डरीकमालयेव सिताम्भोजपङ्क्त्येव । अथदृष्टिं विशेषयन्नाह - अतुलेति । अतुला निरुपमा या भक्तिराराध्यत्वेन ज्ञानं तया प्रसाधितया प्रसन्नया । लक्ष्यीति । लक्ष्यीकृतं ध्यानावलम्बनीकृत लिङ्ग स्थावरं यया सा तया । पुनस्तामेव विशेषयन्नाह - अनवेति । अनवरतं निरन्तरं यद्गीतं गानं तेन परिस्फुरितः प्रचलितो योऽधरपुट ओष्ठपुटस्तद्वशान्मुखादास्यानिष्पतद्भिः क्षरद्भिर्दशनांशुभिर्दन्तदीप्तिभिः । पुनरपि पूजाप्रारम्भे स्नपितत्वाद् द्वितीयवारमपि गौरीनाथ महादेव स्नपयन्ती स्नपनं कुर्वतीम् । अथ दशनाशन्विशिनष्टि - अतीति । अतिशयेन सर्वाधिक्येन शचिभिः पवित्रैः । अतिनैर्मल्यादाह . शुद्धेति । शुद्धं निर्मलं यहृदयं चेतस्तस्य मयूखाः किरणास्तैरिव । गीतेति । गीतानां गुणा मधुरत्वादयस्तैरिव । स्वरेति । स्वराः षड्जादयस्तैरिव । स्तुतीति । स्तुतिर्नुतिस्तस्या वर्णैरिवाक्षरैरिव । वर्णानां तावत्कालं स्थातुमशक्यत्वात्तदभावादाह - मूर्तिरिति । पुनस्ता विशेषयितुमक्षवलयगतमुक्ताफलान्यादौ विशेषयन्नाह - अतीति । अतिविमलैरतिनिर्मलैर्वेदा ऋक्प्रभृतयस्तेषाम!रिवाभिधेयैरिव । तस्या तदसंभवमाशङ्क्याह - साक्षादिति । पितामहमुखात्प्रजापतिवदनात्साक्षादव्यवधानादाकृष्टैरिवाकर्षितैरिव । गायत्रीति । गायत्री मन्त्रविशेषस्तस्या वगैरक्षरैरिव । वर्णानाममूर्तत्वात्तदसंभवादाह - ग्रथनेति । ग्रथनेन रचनाविशेषण स्फीततां पुष्टतामुपगतैः प्राप्तैः । अतिश्चेतत्वसाम्यादाह - नारा इति । नारायणस्य जनार्दनस्य नाभिपुण्डरीकं नाभिकमलं तस्य बीजैरिवोत्पत्तिनिदानैरिव उद्धृतैः । सप्तर्षीति । करस्पर्शेन हस्तसंश्लेषेण पतं पवित्रमात्मानमिच्छद्भिर्वाञ्छद्भिस्तारकारूपेण नक्षत्रस्वरूपेणाग - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 न किल चन्दनचर्चा ललाटपट्टिका इति प्रसिद्धा । अतः केषाञ्चन मते 'भस्मनालंकृतललाटपट्टिकाम्' इत्यपि पाठः । भस्मना अलंकृतो ललाटपट्टो भालस्थलं यस्याः तामिति तदर्थः । 2 सभक्तिदर्शनेन आद्रियमाणाम् । 3 अलंकृतरूपेण सज्जितया । 4 'कमलगट्टा' इति भाषाख्यातैः । - - - - - - - - - - पाठा० - १ तुरग. २ खुरमुख. ३ अलंकृतं. ४ लक्ष्मीकृत. ५ द्वितीययेव. ६ गीतस्फुरित. ७ गुणैरिव; स्तुतिवणैरिव. ८ गौरीपतिम्. ९ विमलैः. १० ग्रथनताम्; ग्रथनाम्; ग्रथिताम्; ग्रन्थिताम्. ११ करतल. महाश्वेता पूर्वभागः । 281) Page #295 -------------------------------------------------------------------------- ________________ मिच्छद्भिस्तारकारूपेणागतैरामलकीफलस्थूलैर्मुक्ताफलैरुपरचितेनाक्षवलयेनाधिष्ठितकण्ठभागाम्, परिवेषपरिगतचन्द्रमण्डलामिव पौर्णमासीनिशाम्, अधोमुखहरशिरःकपालमण्डलाकारेण मोक्षद्वारनियुक्तकलशकान्तिना स्तनयुगलेनैकहंसमिथुनसनाथामिव गङ्गाम्, गौरीसिंहसटामयेनेव चामररुचिराकृतिना स्तनयुगलमध्यनिबद्धग्रन्थिना कल्पतरुलतावल्कलेन कृतोत्तरीयकृत्याम्, अयुग्मलोचनसकाशात्प्रसादलब्धेन चूडामणिचन्द्रमयूखजालेनेव मण्डलीकृतेन ब्रह्मसूत्रेण पवित्रीकृतकायाम्, आप्रपदीनेन च स्वभावसितेनापि ब्रह्मासनबन्धोत्तानचरणतलप्रभापरिष्वङ्गाल्लोहितायमानेन दुकूलपटेन प्रावृतनितम्बाम्, यौवनेनापि - *********** तैः प्राप्तैः सप्तर्षिभिरिव । एतेन मुक्ताफलानां नक्षत्रसाम्यम् । परिमाणविशेषं प्रदर्शयन्नाह - आमेति । आमलकी शिवा तस्याः फलानि तद्वत्स्थूलैः स्थविष्ठेरेवंविधैर्मुक्ताफलै रसोद्भवैरुपरचितेन निर्मितेनाक्षवलयेन जपमालिकयाधिष्ठित आश्रितः कण्ठभागो निगरणप्रदेशो यस्याः सा ताम् । परीति । परिवेषः परिधिस्तेन परिगतं सहितं चन्द्रमण्डलं शशिबिम्बं यस्यामेतादृशीं पौर्णमासीनिशामिव राकारात्रिमिव । मण्डलाकारत्वेनात्र वलयस्य परिवेषसाम्यम्, तस्या मुखस्य च चन्द्रसाम्यम्, तस्याश्च पौर्णमासीसाम्यम् । अथपुनस्तत्कुचयुगलं तच्छ्यामत्वपीनत्ववर्णनद्वारा तामेव वर्णयन्नाह - अध इति । ऊर्ध्वमुखे कपाले श्यामता नास्तीत्यतोऽधोमुखं यद्धरशिरःकपालं तद्वन्मण्डलाकारेण वर्तुलाकृतिना । हरपददानेन स्तने धवलत्वं द्योत्यते । ईश्वरस्य धवलत्वात् । मोक्ष इति । मोक्षो महानन्दस्तस्य द्वारे नियुक्तौ स्थापितौ यौ कलशौ निपौ तद्वत्कान्तिः शोभा यस्य स तेन । एवंविधेन स्तनयुगलेनोपलक्षिताम् । कामिव । एक यद्धंसमिथुन चक्राङ्गयुग्मं तेन सनाथां सहितां गङ्गामिव जाह्नवीमिव । पुनः किंविशिष्टाम् । कल्पतरवो मन्दारास्तेषां सरलत्वेन लतोपमानं, तस्या वल्कलेन चोचेन कृतमृत्तरीयमुपसव्यानं तस्य कृत्यं कार्यं यस्याः सा ताम् । अथ वल्कलं विशेषयन्नाह-चामरेति । चामरं वालव्यजनं तद्रुचिरा मनोहराकृतिराकारो यस्य स तेन । प्रलम्बत्वेन श्वेतत्वेन च तत्साम्यमिति भावः । स्तनेति । स्तनयुगलस्य मध्ये निबद्धो ग्रन्थियः स तेन । उज्ज्वलत्वसाम्यादुप्रेक्षते - गौरीति । गौरी पार्वती तस्याः सिंहो मनस्तालस्तस्य या सटा जटा तन्मयेनेव तद्विकारेणेव । पुनः किंविशिष्टाम् । मण्डलीकृतेन वर्तुलीकृतेन ब्रह्मसूत्रेण यज्ञोपवीतेन पवित्रीकृतः पावनीकृतः कायो देहो यस्याः सा ताम् । अथ ब्रह्मसूत्रं विशिनष्टि - अयुग्मेति । अयुग्मलोचन ईश्वरस्तस्य सकाशात्समीपात्प्रसादः प्रसन्नता तेन लब्धेन प्राप्तेन । चूडेति । चूडामणीभूतो यश्चन्द्रस्तस्य मयूखाः किरणास्तेषां जालेनेव समूहेनेव । प्रकारान्तरेण तामेव विशेषयन्नाह - दुकूलेति । दुकूलपटेन क्षौमवस्त्रेण प्रावृतावाच्छादितौ नितम्बावारोही यस्याः सा ताम् । अथ दुकूलपटं विशेषयन्नाह - आप्रपदीनेति । आपदव्यापकेन । 'तत्तु स्यादाप्रपदीनं व्याप्नोत्याप्रपद हि यत्' इति कोशः । तेन स्वभावतः प्रकृत्या सितेनापि शुभ्रेणापि ब्रह्मासनं ध्यानासनं तस्य बन्धो रचनाविशेषस्तेनोत्तानमूर्ध्वमुखं यच्चरणयोः पादयोस्तलं तस्य प्रभा कान्तिस्तस्याः परिष्वङ्गात्संश्लेषाल्लोहितायमानेनारुणायमानेन । एतेन चरणतलयोरारुण्यातिशयो व्यजितः । पुनः कीदृशीम् । यौवनेनापि तारुण्येनाप्युपास्यमानां सेव्यमानाम् । केनेव । - - - - - - - टिप्प० - 1 हरशिरसि यत् कपालम् (नरकपालम्) तत्तु स्वभावतः श्वेतमेव भवति । 2 यस्येत्युचितम् । 3 'स्यात् त्रिष्वाप्रपदीनं तत्' इत्यमरकोशपाटः । - - - - - - - - - - - - - - - - - - - - - पाठा० - १ पौर्णमासीम्. २ मोक्षद्वारकलशं; मोक्षपुरद्वारकलश. ३ एकगतहंस. ४ श्वेतगङ्गाम्. ५ चीराकृतिना. ६ पवित्रतरीकृत. ७ यौवनेनादिष्टेनोपसर्पिणा. (282 कादम्बरी। कथायाम् Page #296 -------------------------------------------------------------------------- ________________ स्वकालोपसर्पिणा निर्विकारेण विनीतेन शिष्येणेवोपास्यमानाम्, लावण्येनापि कृतपुण्येनेव स्वच्छात्मना परिगृहीताम्, रुपेणापि रुचिरलोचनेन विगतचापलेनायतनमृगेणेव सेविताम्, उत्सङ्गगतां च स्वसुतामिव सूक्ष्मदन्तखण्डिकाङ्गुलीयकापूरिताङ्गुलिना त्रिपुण्ड्रकावशिष्टभस्मपाण्डुरेण प्रकोष्ठबद्धशङ्खखण्डकेन नखमयूखदन्तुरतया गृहीतदन्तकोणेनेव दन्तमयीं दक्षिणकरेण वीणामास्फालयन्तीम्, प्रत्यक्षामिव गन्धर्वविद्याम्, मणिमण्डपिकास्तम्भलग्नाभिरात्मानुरुपाभिः सहचरीभिरिव संवीणाभिर्विलासवतीभिः प्रतिमाभिरुपेताम्, स्नपनालिङ्गसंक्रान्तप्रतिबिम्बतयातिप्रबलभक्त्याराधितस्य हृदयमिव प्रविष्टां हरस्य, हारलतयेव प्राप्तकण्ठयो - *********** स्वकालोपसर्पिणा निजसमयप्राप्तेन निर्विकारेण विकृतिवर्जितेन विनीतेन प्रसूतेनैवंभूतेन शिष्येणेव विनेयेनेव । यौवनस्यापि स्वकालोपसपित्वादिगुणविशिष्टत्वेन तत्साम्यमिति भावः । लावण्येति । लावण्यं चातुर्यं तेन परिगृहीता स्वीकृताम् । केनेव । स्वच्छात्मना निर्मलचित्तेन कृतपुण्येनेव सुकृतिनेव । अत्र स्वच्छात्मत्वमेवोभयसाम्यम् । रुपेति । रुपं सौन्दर्यं तेनापि सेवितामाश्रिताम् । केनेव । रुचिरलोचनेन मनोहरनेत्रेण विगतं चापलं यस्मादेवंभूतेनायतनमृगेणेव गृहसारङ्गेणेव । अत्र चारुलोचनत्वं विगतचापलत्वं चोभयोः साम्यम् । पुनः किं कुर्वतीम् । दक्षिणकरेणापसव्यपाणिना दन्तमयीं गजदन्तप्रचुरां वीणां वल्लकीमास्फालयन्ती वादयन्तीम् अथ वीणां विशिनष्टि - उत्सङ्गेति । उत्सङ्गगतां क्रोडप्राप्तां स्वसुतामिव निजात्मजामिव । अथ दक्षिणकरं विशेषयन्नाह - सूक्ष्मेति । सूक्ष्मा स्निग्धा या दन्तखण्डिक नागदन्तशकलं तस्य यान्यङ्गुलीयकान्यङ्गुलीभूषणानि तैरापूरिता आकीर्णा व्याप्ता अङ्गुलयो यस्य स तेन । त्रिपुण्ड्रमिति । त्रिपुण्ड्रकात्तिलकविशेषादवशिष्टमुर्वरितं यद्भस्म तेन पाण्डुरेण श्वेतेन । प्रकोष्ठेति । प्रकोष्ठः कलाचिका तत्र बद्धो यः शङ्खस्तस्य खण्ड एव खण्डकः । स्वार्थे कः । जलजशकलं यस्मिन्स तेन । श्वेतत्वसाम्यादाह - नखेति । नखाः पुनर्भवास्तेषां मयूखाः किरणास्ते दन्तुरा उन्नता यस्मिंस्तस्य भावस्तत्ता तया गृहीत आत्तो दन्तस्य कोणो वीणादिवादनं येन स तेनव । 'कोणो वीणादिवादनम्' इति कोशः । प्रत्यक्षेति । प्रत्यक्षामिन्द्रियगोचरां गन्धर्वविद्यामिव देवगायनविद्यामिव । मणिमण्डपिकानां स्वच्छतया तेषु प्रतिबिम्बवशादाह - मणीति । मणिमण्डपिका रत्ननिर्मिता चतुष्किका तस्याः स्तम्भलग्नाभिरात्मानुरुपाभिरात्मसदृशीभिः । 'यादृशं रुपे तादृशं प्रतिबिम्बे' इत्युक्तेः । सवीणाभिः सवल्लकीभिः प्रतिमाभिरात्मच्छायाभिः सहचरीभिरिव सपकारिणीभिरिवोपेतां सहिताम् । स्नपनेति । स्नपनेन प्रक्षालनेन । एतेनागन्तुकमलनिवृत्तिः सूचिता । तेनार्दै यल्लिङ्गं तत्र संक्रान्तं प्रविष्टं यत्प्रतिबिम्ब तस्य भावस्तत्ता तया । अतीति । अतिप्रबलात्युत्कृष्टा या भक्तिराराध्यत्वेन ज्ञानं तयाराधितस्य सेवितस्य हरस्येश्वरस्य हृदयमिव चित्तमिव प्रविष्टां प्रवेशं कृतवतीम् । पुनः किं कुर्वतीम् । विरुपाक्षं देवं गीत्या गानेनोपवीणयन्तीं स्तुवन्तीम् । अथ गीतिं विशेषयन्नाह - हार इति । प्राप्तः कण्ठयोगो निगरणसंबन्धो रागाणामवस्थाविशेषो गीतशास्त्रप्र - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 शिक्षाजनितविनम्रतावाहिना । 2 सूक्ष्माः (अस्थूलाः) दन्तखण्डकाङ्गुलीयकापूरिताः (हस्तिदन्तखण्डनिर्मितानि यान्यङ्गुलीयकानि तैरापूरिताः) अङ्गुलयो यस्य तेनेति स्पष्टोऽर्थः । 3 नखमयूखानां दन्तुरतया उन्नततया (अर्थात् प्रसारिनखमयूखतया)। 4 स्तम्भेषु प्रतिबिम्बताभिरित्यर्थः । पाठा०-१ स्वकालोपसर्पिनिर्विकारविनीतेन; स्वकालोपसर्पिणा निर्विकारविनीतेन. २ निषेविताम्. ३ शङ्खखण्डिका; शङ्खघटित. ४ पूरित; पूत. ५ अवशेष ६ कोशेनेव. ७ सवीणाभिः प्रतिमाभिः. ८ हारलेखया. महाश्वेता पूर्वभागः । (283) Page #297 -------------------------------------------------------------------------- ________________ गया ग्रहपङ्क्त्येव ध्रुवप्रतिबद्धया क्रुद्धयेव रागरक्तमुखवर्णया मत्तयेव धूर्णितमैन्द्रतारयोन्मत्तयेवानेककृततालया मीमांसयेवानेकभावनानुविद्धया गीत्या देवं विरुपाक्षर्मुपवीणयन्तीम्, अतिमधुरगीतावकृष्टैर्ध्यानमिवाभ्यस्यद्भिर्निश्चलकर्णपुटैर्मृगवराहवानरवारणशरभसिंहप्रभृतिभिर्वनचरैराबद्धमण्डलैराकर्ण्यमानगीतानुविद्धविपञ्चीनिर्घोषाम्, नभसोऽवतीर्णाम्, दीक्षितवाचमिवाप्राकृताम्, त्रिपुरारिशरशलाकामिव तपोमयीम्, पीतामृतामिव वि - अमरापगामिव सिद्धश्च यया सा तया । कयेव । हारलतयेव मुक्तासजेव । ग्रहेति । ग्रहाणां नक्षत्राणां पङ्क्तिः श्रेणिस्तयेव । उभयोः साम्यमाह - ध्रुवे । ध्रुव गीतशास्त्रे प्रसिद्धस्तेन प्रतिबद्धया रचितया । पक्षे ध्रुव औत्तानपादिः । क्रुद्धयेव कुपितयेव । उभयोः साम्यार्थमाह - रागरक्तेति । रागाः श्रीरागादयस्तै रक्ता मिश्रिता मुखे प्रारम्भे वर्णा अक्षराणि यस्यां सा तया । पक्षे रक्तो लोहितो मुख आस्ये वर्णो यस्याः सा तया । मत्तयेव क्षीबयेव । एतयोस्तुल्यतां प्रदर्शयन्नाह - धूर्णितेति । धूर्णिता धोलनां प्राप्ता मन्द्रा उरः प्रदेशोद्भवास्ताराः शिरःसमुद्भवाः खरा यस्यां सा तया । पक्षे धूर्णिताः प्रचलायिता मन्द्रा अलसास्तारा यस्यामिति विग्रहः । उन्मत्तेति । उन्मत्तयेवोन्मादवायुग्रस्तयेव । उभयोः शब्दसादृश्यमाह - अनेकेति । अनेके बहवः कृता विहितास्तालाः कालक्रियामानरूपा यस्यां सा तया । पक्षे ताला हस्तसंयोगाः । मीमांसेति । मीमांसा विचारणा तयेव । 'मीमांसा तु विचारणा' इति कोशः । उभयोः सादृश्यमाह - अनेके विविधप्रकारा या भावनी धोलनाविशेषास्तैरनुविद्धया स्यूतया । पक्षे भावना शब्दनिष्ठा, अर्थनिष्ठा यागादिप्रवृत्त्यनुकूलाख्यातार्थरुपा । पुनः प्रकारान्तरेण तामेव विशेषयन्नाह - आकर्ष्णेति । आकर्ण्यमानः श्रूयमाणो गीतानुविद्धो गानसंयुक्तो विपञ्च्या वल्लक्या निर्घोष निनादो यस्याः सा ताम् । कैः । वनचरैररण्यचारिभिः । अथ वनचरान्विशेषयन्नाह - आबद्धेति । आबद्धं रचितं मण्डलं वलयाकारेणावस्थितिर्यैः । अतीति । अतिमधुरं कर्णसुखदं यद्गीतं गानं तेनावकृष्टैराकृष्टैः । निश्चलेति । निश्चलानि स्तिमितानि कर्णपुटानि येषां तैरत एव ध्यानं चित्तवृतिनिरोधमभ्यस्यद्भिरिवाभ्यासं कुर्वद्भिरिव । मृगेति । मृगाः कुरङ्गाः, वराहाः, क्रोडाः, वानरा गोलाङ्गूलाः, वारणा हस्तिनः, शरभा अष्टपदाः, सिंहा हर्यक्षाः, एते प्रभृतय आद्या येषां तैः । तदाश्रितगीतस्य प्रवाहरूपत्वेनाह - अमरेति । अमरापगा गङ्गा तामिव । अत्र कथं तस्याः संभव इत्याशङ्क्याह - नभस इति । नभस आकाशादवतीर्णामागताम् । दीक्षितः सोमयाजी तस्य वाग् भारती तामिव । उभयोः साम्यमाह अप्राकृतेति । अप्राकृताममानुषधर्मिणीम्, उत्तमकुलोत्पन्नां वा । पक्षेऽप्राकृतां साधुशब्दमयीम् । दीक्षितस्य प्राकृतवाग्निषेधादिति भावः । कान्त्याधिक्यमाशङ्क्याह - त्रिपुरारीति । त्रिपुरारिर्महादेवस्तस्य शरः शिलीमुखस्तस्य शलाकेषिका तामिव । उभयोस्तुल्यतामाह - तप इति । तपोमयीं तपसस्तेजोरूपत्वात् । पक्षे तेजोमयीं प्रकाशरुपाम् । ईश्वरबाणस्य लोहमयत्वादिति भावः । आन्तरगुणवर्णनद्वारा तामेव विशेषयन्नाह - पीतेति । पीतमास्वादितममृतं पीयूष यया सैवंभूतामिव । एतयोः साम्यमाविष्कुर्व - 1 - 284 *** टिप्प० - 1 ‘उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चमः स्मृतः । कनिष्ठश्च चतुर्भिः स्याद् ध्रुवकोयं मयोदितः ॥' संगीतदामोदरम् । 2 मण्डपिकायां परितो विसृताः । 3 धूर्णिते मदोद्रेकाञ्चले मन्दे अलसे तारे ( कनीनिके) यस्यास्ताम् । इत्यर्थ उचितः । 4 मूर्च्छनाः । 5 'भावना नाम भवितुर्भवनानुकूलो भावयितुर्व्यापारविशेषः सा च द्विविधा ।' लौगाक्षिभास्करः । 6 'कन्यकायाः चैत्यनिर्मलत्वाभ्यामुत्प्रेक्षामाह-' इत्युचितम् । 7 नारायणरूपेति यावत् । पाठा० - १ रक्तमुख. २ पूर्णित ३ मन्द ४ उन्मत्तयानेक. ५ उपवर्णयन्तीम्. ६ घोषाम् ७ तेजोमयीम्. कादम्बरी ! कथायाम् Page #298 -------------------------------------------------------------------------- ________________ गततृष्णाम्, ईशानशिरःशशिकलामिवानुपजातरागाम्, अमथितोदधिजलसंपदमिवान्तः प्रसन्नाम्, असमस्तपदवृत्तिमिवाद्वंद्वाम्, बौद्धबुद्धिमिव निरालम्बनाम्, वैदेहीमिव प्राप्तज्योतिः प्रवेशाम्, द्यूतकलाकुशलामिव वशीकृताक्षहृदयाम्, महीमिव जलभृतदेहाम्, हिमसमयदिनंमुखलक्ष्मीमिव पैरिगृहीतभास्करातपाम्, आर्यामिवोपात्तयतिगणोचितमात्राम्, आलिखितामिवाचलावस्थानाम्, अंशुमयीमिव तनुच्छायानुलिप्तभूतलाम्, निर्ममाम्, निरहंका - *** I न्नाह - विगतेति । विगता तृष्णा लोभो यस्याः सा ताम् । पक्षे तृष्णा तृषा । ईशानेति । ईशान ईश्वरः । 'शंभुः शर्वः स्थाणुरी शान ईशः' इत्यभिधानचिन्तामणिः । तस्य शिर उत्तमाङ्गं तत्र या शशिकला चन्द्रकला तामिव । उभयोः सादृश्यमाह - अन्विति । अनुपजातोऽसमुत्पन्नो रागो. यस्याः सा ताम् । विरक्तामित्यर्थः । पक्षे राग औरक्तता । आरक्तामित्यर्थः । अमथीति । अमथितोऽविलोडितो य उदधिः समुद्रस्तस्य जलं पानीयं तस्य संपत्संपत्तिस्तामिव । उभयोः सदृशत्वमाह - अन्तरिति । अन्तर्मध्ये प्रसन्नां हृष्टचित्ताम् पक्षेऽन्तःप्रसन्नामकलुषिताम् । असमस्तेति । असमस्ताऽसमासगा या पदवृत्तिः कैशिक्यादिस्तामिव । ' कैशिक्याद्याः पदवृत्तयः ' इत्यलंकारे प्रसिद्धम् । उभयोः साधर्म्यमाह - अद्वंद्वेति । द्वंद्वो युद्धं तद्रहिताम् । 'द्वंद्वः समाघातः' इति कोशः । पक्षे द्वंद्वः समासः । बौद्ध इति । बौद्धः सुगतस्तस्य बुद्धिर्धिषणा तामिव । एतयोस्तुल्यतामाह - निरेति । आलम्बनमाश्रयस्तद्रहिताम् । स्वतन्त्रामित्यर्थः । पक्षे निरालम्बनामर्थशून्याम् । तन्मतेऽर्थानां घटपटादीनामभावात् । शून्यवादित्वादित्यर्थः । वैदेहीति । वैदेही जानकी । 'वैदेही मैथिली सीता' इत्यभिधानचिन्तामणिः । तामिव । उभयोस्तुल्यत्वं निरूपयन्नाह - प्राप्तेति । प्राप्त आसादितो ज्योतिषि परमात्मनि प्रवेशो यस्याः `ंसा ताम् । पक्षे प्राप्तो ज्योतिषि वह्नौ प्रवेशो ययेति बहुव्रीहिः । द्यूतेति । द्यूतं दुरोदरं तस्य कला विज्ञानं तत्र कुशला प्रवीणा तामिव । उभयोः समानतां प्रदर्शयन्नाह - वशीति । वशीकृतान्यक्षाणीन्द्रियाणि हृदयं चित्तं च यया सा ताम् । पक्षे वशीकृतमक्षैः पाशकैर्हृदयं यस्या इति बहुव्रीहिः । महीति । मही वसुंधरा तामिव । उभयोः शब्दसाम्यमाह - जलेति । जलेन नीरेण भृतो धृतो देहो यया सा ताम् । निराहारामित्यर्थः । पक्षे जलेन भृताः पोषिता देहा यस्याम् । तदुक्तम् 'वृष्टेरोषधयः । ओषधीभ्योऽन्नम् । तद्रसरूपेण शुक्रत्वमधिगच्छति । शुकाद्वै जरायुजा देहाः' इति । हिमेति । हिमसमयः शीतकालस्तस्य दिनमुखं प्रत्यूषस्तस्य लक्ष्मीः श्रीस्तामिव । उभयोः साम्यं प्रदर्शयन्नाह - परीति । परि सामस्त्येन गृहीतो भास्करस्य सूर्यस्यातप आलोको यया सा ताम् । 'तपस्विनां सूर्यातपग्रहणं महाफलाय' इति श्रुतेः । पक्षे परिगृहीतो मुषितो भास्करस्यातपः कान्तिप्रकाशो ययेति बहुव्रीहिः । आर्येति । आर्या छन्दोविशेषस्तामिव । उभयोः साधर्म्यमाह - उपात्तेति । उपात्ता स्वीकृता यतिगणानां मुनिजनानां उचिता योग्या मात्रोपव (क) रणं ययेति सा । क्ष उपात्ता यतयो विश्रामा गणा मगणादयस्तेषामुचिता मात्रा त्रुटिर्ययेति बहुव्रीहिः । आलिखितेति । आलिखिता चित्रिता तामिव । अत एवाचलं निश्चलमवस्थानं यस्याः सा ताम् । अंशुमयीति । अंशुमयीं तेजोमयीमिव । तन्विति । तनुच्छाया देहकान्तिस्तयानुलिप्तं व्याप्तं भूतलं यया सा ताम् । अन्याप्यंशुमयींभवति । सापि कान्त्याच्छादितभूतला स्यादित्येतयोः साम्यम् । निर्ममामिति । निर्गतो ममत्वभावो यस्याः सा ताम् । निरिति । निर्गतोऽहंकारोऽभिमानो यस्यां सा ताम् । निरिति । निर्गतो मत्सरो गुणेष्वसूया - महाश्वेता **** टिप्प० - 1 शिरः शशिकलाया उदयास्तमनयोरभावादारुण्यं न जायत इत्याशयः । 2 विलोडने सति तस्मिन्नाविलता जायते । 3 शीतोष्ण-सुख - दुःखादिद्वन्द्वानुभवरहितामित्यर्थः । 4 आसक्तिस्तद्रहिताम् । बौद्धबुद्धिस्तु - निर्विषया । तेषां मते ज्ञानमेव घटादिरूपेण भासते । भेदस्तु भ्रान्तिवशादिति । पाठा० - १ उदधिसंपदम् २ दिवस. ३ परिपीत ४ समुपात्त. ५ निर्मलां; निर्ममाम्. पूर्वभागः । - 285 Page #299 -------------------------------------------------------------------------- ________________ राम्, निर्मत्सराम्, अमानुषाकृतिम्, दिव्यत्वादपरिज्ञायमानवयःपरिमाणामप्यष्टादशवर्षदेशीयामिवोपलक्ष्यमाणाम्, प्रतिपन्नपाशुपतव्रता कन्यकां ददर्श । ततोऽवतीर्य तरुशाखायां बद्ध्वा तुरङ्गममुपसृत्य भगवते भक्त्या प्रणम्य त्रिलोचनाय तामेव दिव्ययोषितमनिमिषपक्ष्मणा निश्चलनिबद्धलक्ष्येण चक्षुषा पुनर्निरूपयामास । उदपादि चास्य रूपसंपदा कान्त्या प्रशान्त्या चाविर्भूतविस्मयस्य मनसि- “अहो जगति जन्तूनामसमर्थितोपनतान्यापतन्ति वृत्तान्तान्तराणि । तथाहि । मया मृगयाया यदृच्छया निरर्थकमनुबध्नता तुरङ्गमुखमिथुनमयमतिमनोहरो मानवानामगम्यो दिव्यजनसंचरणोचितः प्रदेशो वीक्षितः । अत्र च सलिलमन्वेषमाणेन हृदयहारि सिद्धजनोपसृष्टजलं सरो दृष्टम् । तत्तीरलेखाविश्रान्तेन चामानुषं गीतमाकर्णितम् । तच्चानुसरता मानुषदुर्लभदर्शना दिव्यकन्यकेयमालोकिता । न हि मे संशीतिरस्या दिव्यता प्रति । आकृतिरेवानुमापयत्यमानुषताम् । कुतश्च मर्त्यलोके संभूति - *********** यस्याः सा ताम् । निर्गतेामित्यर्थः । अमेति । न विद्यते मानुषस्य मनुष्यस्याकृतिराकारो यस्याः सा ताम् । दिव्याकारामित्यर्थः । दिव्यत्वादिति । दिव्यत्वाद्गान्धर्वपुत्रीत्वादपरिज्ञायमानमनिश्चीयमान वयोऽवस्थाविशेषस्तस्य परिमाण मानं यस्यामित्थंभूतामप्यष्टादशवर्षदेशीयामिव किंचिन्यूनाष्टादशवर्षीयामिवोपलक्ष्यमाणां दृश्यमानाम् । अन्वयस्तु प्रागेवोक्तः । । तत इति । कन्यकादर्शनानन्तरं तुरङ्गमादचादवतीर्यावरोहणं कृत्वा तरुशाखाया तुरङ्गममिन्द्रायुधं बद्ध्वोपसृत्य समीपे गत्वा भक्त्या श्रद्धया भगवते त्रिलोचनाय शंभवे प्रणम्य नमस्कृत्य तामेव पूर्वव्यावर्णितस्वरूपामेव दिव्ययोषितममानुषी स्त्रियम् । अनीति । अनिमिष निमेषोन्मेषरहितं पक्ष्म नेत्ररोम यस्मिंस्तत्तेन । निश्चलेति । निश्चलं यथा स्यात्तथा निबद्धं लक्ष्यं वेध्यं येनैवंभूतेन चक्षुषा नेत्रेण । पुनरिति । मण्डपिकाप्रवेशानन्तरं निरूपयामास । साकल्येन ददर्शेत्यर्थः । चकारः पुनरर्थकः । अस्येति । चन्द्रापीडस्य मनस्येवमुदपायुत्पन्नं बभूव । किंविशिष्टस्य तस्य । आविर्भूतः प्रकटीभूतो विस्मय आश्चर्यं यस्य स तथा तस्य । कया । तस्या रूपसंपदा सौन्दर्यसमृख्या । कान्त्या देहदीप्त्या । प्रशान्त्या प्रशमेन वा । एतदेव विस्मयजनक प्रदर्शयन्नाह - अहो इति । अहो इत्याश्चर्ये । जगति विश्वस्मिन् जन्तूनां प्राणिनामसमर्थितोपनतान्यतर्कितप्राप्तानि वृत्तान्तान्तराण्युदन्तान्तराण्यापतन्त्यागच्छन्ति । तदेव दर्शयति - तथाहीति । मया मृगयायामाखेटकवृत्तौ यदृच्छया स्वेच्छया तुरङ्गमुखमिथुनं किंनरयुग्ममनुबध्नतानुव्रजता । अयं प्रत्यक्षगतोऽतिमनोहरोऽतिरुचिरो मानवाना मनुष्याणामगम्योऽगोचरो दिव्यजनानां विद्याधरप्रभृतीनां संचरणं भ्रमणं तत्रोचितो योग्यः प्रदेशो भूभागो वीक्षितोऽवलोकितः । अत्रेति । अस्मिन्देशे सलिलं पानीयमन्वेषमाणेन शोध्यमानेन सरस्तटाकं दृष्टं वीक्षितम् । एतदेव विशिनष्टि - हृदयेति । हृदयहारि मनोहत्सिद्धजनैरुपसृष्टं सेवितमेतादृशं जलं पानीयं यस्मिन् । तत्पार्थात्तस्य सरसस्तीरं प्रतीरं तस्य लेखा प्रान्तवीथी तस्यां विश्रान्तेन संस्थितेन । चकारः समुच्चयार्थः । अमानुषं दिव्यं गीतं गानमाकर्णितं श्रुतम् । तच्चेति । तद्गीतमनुसरताम(अ)नुगच्छता(ता)मानुषाणां भूस्पृशां दुर्लभ दुःप्रापं दर्शनमवलोकनं यस्या एवं विधेयं दिव्यकन्यकालोकिता दृग्विषयीकृता । न हीति । हि निश्चितम् । अस्याः कन्यकाया दिव्यता प्रति मे मम संशीतिर्नास्ति सदेहो नास्ति । अस्मिन्नर्थे हेतुमाह - आकृतिरिति । आकृतिराकार एवामानुषता देवरूपतामनुमापयति । अमानुषताविषयकानुमितिं जनयतीत्यर्थः । अन्यदपि कारणान्तरमाह - कुत इति । एवंविधानामेतादृशानां गन्धर्वा देवगायनास्तेषा ध्वनेर्नादस्य विशे - - - - - - - - - - - टिप्प० - 1 उपस्पृष्टमित्येव सहृदयानुमोदितः पाठः । पाठा० - १ प्रमाणाम्. २ व्रता च. ३ तुरङ्गम् तुरगम्. ४ महाभक्त्या. ५ पार्वतीपतये. ६ अनिमेष. ७ विस्मयमनसि. ८ मनसि वितर्कः. ९ तुरग. १० वीक्षितः क्षितेः. ११ उपस्पृष्ट. 286 कादम्बरी। कथायाम् Page #300 -------------------------------------------------------------------------- ________________ रेवंविधानां गान्धर्वध्वनिविशेषाणाम् । तद्यदि मे सहसा दर्शनपथानापयाति, नारोहति वा कैलासशिखरम्, नोत्पतति वा गगनतलम्, ततः 'का त्वम्, किमभिधाना वा किमर्थं वा प्रथमे वयसि प्रतिपन्ना व्रतम्' इति सर्वमेवैतदेनामुपसृत्य पृच्छामि । अतिमहानयमवकाश आश्चर्याणाम्" इत्यवधार्य तस्यामेव स्फटिकमण्डपिकायामन्यतमं स्तम्भमाश्रित्य समुपविष्टो गीतसमाप्त्यवसरं प्रतीक्षमाणस्तस्थौ । अथ गीतावसाने मूकीभूतवीणा प्रशान्तमधुकरमधुररुतेव कुमुदिनी सा कन्यका समुत्थाय प्रदक्षिणीकृत्य कृतहरप्रणामा परिवृत्य स्वभावधवलया तपःप्रभावप्रगल्भया दृष्ट्या समाधासयन्तीव, पुण्यैरिव स्पृशन्ती, तीर्थजलैरिव प्रक्षालयन्ती, तपोभिरिव पावयन्ती, शुद्धिमिव कुर्वाणा, वरप्रदानमिवोपपादयन्ती, पवित्रतामि नयन्ती, चन्द्रापीडमाबभाषे - ‘स्वागतमतिथये । कथमिमा भूमिमनुप्राप्तो महाभाग । तदुत्तिष्ठ । आगम्यताम् । अनुभूय - *********** षाणां मन्द्रादीनां मर्त्यलोके मनुष्यक्षेत्रे कुतः संभूतिरुत्पत्तिः स्यात् । तदिति हेत्वर्थे । यदि यावत् । मे मम सहसाकस्माद् दर्शनपथाद्विलोकनमार्गान्नापयाति नापसरति । वेति विकल्पार्थः । तथा कैलासशिखरं रजताद्रिश्रृङ्ग नारोहति नारोहणं करोति । गगनतलं व्योमतलं नोत्पतति नीचं गच्छति । तत इति । तावत्का त्वम्, किमभिधाना किंनाम्नी, किमर्थं किंप्रयोजनं प्रथमे वयसि बाल्यावस्थायां पाशुपतं व्रत प्रतिपन्ना स्वीकृतवती । सर्वत्र वाशब्दो विकल्पार्थः । इत्येतत्सर्वमेनां कन्यकामुपसृत्यं समीपे गत्वा पृच्छामि प्रश्न करोमि । अतीति । आश्चर्याणां कौतुकानामयमतिमहानवकाशोऽसंकीर्ण स्थलम् । इति पूर्वोक्तमवधार्य निर्णयं कृत्वा तस्यां पूर्वोक्तायामेव स्फटिकमण्डपिकायामन्यतममन्यतरं स्तम्भं स्थूणामाश्रित्याश्रयणीकृत्य समुपविष्टो निषण्णः । गीतेति । गीतं गानं तस्य समाप्तिः पर्याप्तिस्तस्या अवसरः समयस्तं प्रतीक्षमाणः प्रतीक्षां कुर्वाणस्तस्थौ स्थितवान् । अथेत्यानन्तर्ये । गीतावसाने गीतपर्यन्ते मूकीभूता मौनमाश्रिता वीणा वल्लकी यस्याः सा तथा । श्वेतत्वसादृश्यादाह - प्रशान्तेति । प्रशान्तः शान्ति प्राप्तो मधुकराणां भ्रमराणां मधुरं मिष्टं रुतं शब्दो यस्मामेवभूता कुमुदिनीव । ततस्तस्मात्स्थलात्सा कन्यका समुत्थायोत्थान कृत्वा प्रदक्षिणीकृत्य प्रदक्षिणां दत्वा । कृतेति । कृतो विहितो हराय प्रणामो नमस्कारो यया सा । परिवृत्येति । परावर्तनं कृत्वा स्वभावेन न चोपाधिना धवलया शुक्लत्वेन निर्विकारत्वात् । तप इति । तपःप्रभावस्तपोमाहात्म्यं तेन, प्रगल्भया प्रौढया दृष्ट्या लोचनेन समाश्वासयन्तीवाश्वासनां कुर्वन्तीव । पुण्यैरिति । पुण्यैर्धर्मः स्पृशन्तीव स्पर्श कुर्वन्तीव । तीर्थानि मागधप्रभृतीनि तेषां जलैः पानीयैः प्रक्षालयन्तीव क्षालनां कुर्वन्तीव । तपोभिस्तपस्याभिः पावयन्तीव पवित्रीकुर्वन्तीव । शुद्धिं नैर्मल्यं कुर्वाणेव । वरप्रदानं वाञ्छितदानमुपपादयन्तीव जनयन्तीव । पवित्रतां पावित्र्यं नयन्तीव प्रापयन्तीव । चन्द्रापीडमाबभाषे आभाषितवती । किं तदित्याह - स्वागतमिति । अतिथये प्राघूर्णकाय स्वागतं सुखेनागतम् । महेति । हे महाभाग हे महानुभाव, इमां भूमिं कथमनुप्राप्त आगतः । तदिति । तस्मात्त्वमुत्तिष्टोत्थानं कुरु । आगम्यताम् । माश्व इति शेषः । अतिथिसत्कार आतिथ्यमनुभूयतामनुभवविषयीक्रियताम् । इति परिसमाप्तौ । एवं पूर्वोक्तप्रकारेण तया कन्यकयोक्तो - - - - - - - टिप्प० -1न मागधनामा देशोऽत्र वक्तव्यः किन्तु लवणसमुद्रस्थ मागधनामा तीर्थोऽत्र व्यङ्ग्यः । - - - - - - - - - - - - - - - - - - - - - - - पाटा० - १ विद्यानां गान्धर्वध्वनिविशेषाणां च. २ पाशुपतव्रतम्. ३ सर्वमेतत्. ४ परिसमाप्ति. ५ दान. ६ एव. ७ पवित्रिताम्. ८ अवनयन्ती. ९ महाभागः, १० अनुगम्यताम्. (महाश्वेताकृतमातिथ्यम् । ( पूर्वभागः । 287 Page #301 -------------------------------------------------------------------------- ________________ तामतिथिसत्कारः' इति । एवमुक्तस्तु तया संभाषणमात्रेणैवानुगृहीतमात्मानं मन्यमान उत्थाय भक्त्या कृतप्रणामः ‘भगवति, यथाज्ञापयसि' इत्यभिधाय दर्शितविनयः शिष्य इव तां व्रजन्तीमनुवव्राज । व्रजंश्च समर्थयामास - 'हन्त, तावन्नेयं मां दृष्ट्वा तिरोभूता । कृतं हि मे कुतूहलेन प्रश्नाशया हृदि पदम् । यथा चेयमस्यास्तपस्विजनदुर्लभदिव्यरूपाया अपि दाक्षिण्यातिशया प्रतिपत्तिरभिजाता विभाव्यते, तथा संभावयामि नियतमियैमखिलमात्मोदन्तमभ्यर्थ्यमाना मया कथयिष्यति' इत्येवं च कृतमतिः पदशतमात्रमिव गत्वा निरन्तरैर्दिवापि रजनीसमयमिव दर्शयद्भिस्तमालतरुभिरन्धकारितपुरोभागाम्, उत्फुल्लकुसुमेषु लतानिकुञ्जेषु गुञ्जतां मन्द मंदमत्तमधुलिहां विरुतिभिर्मुखरीकृतपर्यन्ताम्, अतिदूरपातिनीनां च धवलशिलातलप्रतिघातोत्पतनफेनिलानामपां प्रसवणैरुत्कोटिग्रावविटङ्कविपा - भाषितः संभाषणमात्रेणैवानुगृहीतं प्रसादपात्रीकृतमात्मानं मन्यमानो ज्ञायमानस्ततस्तस्मात्प्रदेशादुत्थाय भक्त्यान्तरप्रीत्या कृतो विहितः प्रणामो नतिर्येन स हे भगवति हे स्वामिनि, यथा येन प्रकारेणाज्ञापयस्याज्ञां करोषि तत्तथेत्यभिधायेत्युक्त्वा दर्शितः प्रकाशितो विनयो नम्रता येन स शिष्य इव विनेय इव तां कन्यकां व्रजन्तीं गच्छन्तीमनुवव्राज पश्चाज्जगाम । व्रजंश्चेति । व्रजन्गच्छन् । समर्थेति । प्रस्तुत समर्थयामास । उद्देशस्य निश्चयं चकारेत्यर्थः । हन्तेति । हन्तेत्याश्चर्ये । तावदादौ इयं मां दृष्ट्वा निरीक्ष्य न तिरोभूता नादृश्यतां गता । हीति निश्चितम् । कुतूहलेन करणभूतेन प्रश्नाशया पृच्छाभिलाषया हृदि चित्ते परं स्थानं विहितम् । यथा चेति । यथा येन प्रकारेणास्याः प्रत्यक्षगतायाः । तपस्वीति । तपस्विजनेषु दुर्लभं दुष्प्रापं दिव्यं मनोहरं रूपं यस्या एवंभूतायाः कन्याया अपि । दाक्षिण्येति । दाक्षिण्यमनुकूलता तस्या अतिशय आधिक्यं तेन प्रतिपत्तिर्मद्विषयिण्युत्कण्ठा विशेषरूपेणेयमभिजातोत्पन्ना विभाव्यते लक्ष्यते । यत्तदोर्नित्याभिसंबन्धादाह - तथेति । तथा तेन प्रकारेण संभावयामि संभावनां करोमि । नियतं निश्चितम् । इयं कन्यका मया चन्द्रापीडेनाभ्यर्थ्यमाना प्रार्थ्यमानाखिलं समग्रमात्मनः स्वकीयस्योदन्तं वृत्तान्तं कथयिष्यति प्रतिपादयिष्यति । इत्येवंप्रकारेण कृता मतिर्येनैवं भूतश्चन्द्रापीडः पदशतमात्रमिव गत्वा किंचिदध्वानमतिक्रम्य गुहां दरीमद्राक्षीदपश्यत् । इतो गुहां विशेषयन्नाह - निरन्तरेति । निरन्तरैर्निबिडैर्दिवापि दिवसेऽपि रजनीसमयमिव रात्रिकालमिव दर्शयद्भिः प्रकाशयद्भिरेतादृशैस्तमालतरुभिस्तापिच्छवृक्षैरन्धकारितोऽन्धकारवदाचरितः पुरोभागोऽग्रप्रदेशो यस्यास्ताम् । उत्फुल्लेति । उत्फुल्लानि विकसितानि कुसुमानि पुष्पाणि येष्वेवंभूतेषु लतानिकुञ्जेषु वल्लीकुटकेषु मन्द्रं गुञ्जा शब्दं कुर्वतां मदेन मत्ताः क्षीबा ये मधुलिहो भ्रमरास्तेषां विरुतिभिः शब्दैर्मुखरीकृतो वाचालीकृतः पर्यन्तः प्रान्तो यस्याः सा ताम् अतीति । अतिदूरं दविष्ठं पतन्ति एवंशीला अतिदूरपातिन्यस्तासां च । धवलेति । धवलं शुभ्रं यच्छिलातलं प्रस्तरतलं तेन यः प्रतिघातः प्रतिस्खलनं तस्माद्यदुत्पतनं तेन फेनिलानां संजातडिण्डीराणामीदृशीनामपामम्भसां प्रसवणैर्निर्झरै राबध्यमान आबन्धविष नीहारो हिमं यस्यां सा तीम् । अथ प्रसवणं विशेषयन्नाह - उदिति । उदूर्ध्वं कोटयः कोणा येषामेवंभूता ये ग्रावाणः प्रस्तरास्तेषां विटङ्का उन्नतप्रदेशा ** टिप्प० - 1 दाक्षिण्यस्य अतिशयो यस्याम् ईदृशी प्रतिपत्तिः 'स्वागतमतिथये' इत्यादिर्व्यवहारः, इत्यर्थ उचितः । 2 हिमवर्णवत् आवध्यमानाः ( उत्पाद्यमानाः) नीहाराः जलबिन्दवो यस्याम् । प्रस्नवणजलक्षोदवाहिनीमित्यर्थः । पाटा० - १ सत्कार एवमुक्तस्तया २ संभाषित. ३ समुत्थाय ४ अद्भुताकृतिस्तिरोभूता. ५ अतिशय ६ आत्मोदन्तम्. ७ रजनीमयम्. ८ कूजताम् ९ मन्दं मन्दम्. १० मधुमत्त. ११ पातिनाम्. 288 कादम्बरी । कथायाम् Page #302 -------------------------------------------------------------------------- ________________ ट्यमानैरुच्चरध्वनिभिरवशीयमाणतुषारशिशिरशीकरासारैराबध्यमाननीहाराम्, हिमहारहरहासधवलैश्चोभयतः क्षरद्भिर्निइर्झरैर्द्वारावलम्बितचलच्चामरकलापामिवोपलक्ष्यमाणाम्, अन्तःस्थापितमणिकमण्डलुमण्डलाम्, एकान्तावलम्बितयोगपट्टिकाम्, विशाखिकानिबैद्धनालिकेरीफलवल्कलमयधौतोपानद्युगोपेताम्, अवशीर्णाङ्गभस्मधूसरवल्कलशयनीयसनाथैकदेशाम्, इन्दुमण्डलेनेव टकोत्कीर्णेन शङ्खमयेन भिक्षाकपालेनाधिष्ठिताम्, संनिहित भस्मालाबुकां गुहामद्राक्षीत् । तस्याश्च द्वारि शिलातले समुपविष्टो वल्कलशयनशिरोभागविन्यस्तवीणां ततः पर्णपुटेन निर्झरादागृहीतमर्धजलमादाय तां कन्यकां समुपस्थिताम् ‘अलमतियन्त्रणया । कृतमतिप्रसादेन । भगवति, प्रसीद । विमुच्यतामयमत्यादरः । त्वदीयमालोकनर्मपि सर्वपापप्रशमनमघमर्षणमिव पवित्रीकरणायालम् । आस्यताम्' इत्यब्रवीत् । अनुबध्यमानश्च तया - *********** स्तैर्विपाट्यमानानि विदार्यमाणानि तैः । उच्चरदिति । उच्चरशब्दं कुर्वन्ध्वनिः शब्दो येषां तैः । अवेति । अवशीर्यमाण प्राप्यमाणो यस्तुषारो नीहारस्तस्य शिशिराः शीतलाः शीकरा वातास्तज्जलविप्रुषस्तेषामासारो वेगवान्वर्षो येषु तैः । हिमेति । ि तुहिनम्, हारो मुक्ताकलापः, हर ईश्वरस्तस्य हासो हास्यं तद्वद्धवलैः श्वेतैः । उभयतः पार्श्वद्वये क्षरद्भिः सवद्भिर्निइरैिः प्रसवणैः । द्वारेति । द्वारे प्रतीहारेऽवलम्बितो यश्चलच्चामरकलापः प्रोच्छलद्वालव्यजनसमूहो यस्यामेवंविधामिवोपलक्ष्यमाणां वीक्ष्यमाणाम् । अन्तरिति । अन्तर्मध्ये स्थापितं न्यस्तं मणिनिर्मितं कमण्डलुमण्डलं कुण्डिकावलयं यस्यां सा ताम् । एकान्तेति । एकान्ते रहस्यवलम्बिता `स्थापिता योगपट्टिका योगसाधनोपकरणं यस्यां सा ताम् । विशेति । विशाखिका भूमिशुध्यर्थमाद्रियमाणां लोहयष्टिरूपा तस्यां निबद्ध संदानितं यन्नालिकेरी लागली तस्याः फलं तस्य वल्कलैस्त्वग्भिर्निष्पन्नं धौतं क्षालितमुपानद्युगं पादुकायुगलं तेनोपेतां सहिताम् । अवेति । अवशीर्णं च्युतं यदङ्गभस्म देहविभूतिस्तेन धूसरं मलिनं यद्वल्कलशयनीयं चोचशय्या तेन सनाथः सहित एकदेशो यस्याः सा ताम् । टङ्क इति । टङ्क पाषाणदारणस्तेनोत्कीर्णेनोत्कारितेन शङ्खमयेन कम्बुदलनिर्मितेन भिक्षाकपालेन भिक्षाकर्परेणाधिष्ठितामाश्रिताम् ।‘श्वेतत्वसाम्यादाह - इन्दुरिति । इन्दुश्चन्द्रस्तस्य मण्डलेनेव । संनिहितेति । संनिहितं समीपवर्ति भस्मालाबुकं विभूतितुम्बकं यस्यां ताम् । अन्वयस्तु प्रागेवोक्तः । I तस्याश्चेति । तस्य गुहाया द्वारि प्रतीहारप्रदेशे यच्छिलातलं तस्मिन्नुपविष्ट आसीनश्चन्द्रापीडो वल्कलशयनं तस्य शिरोभागस्तत्र विन्यस्ता स्थापिता वीणा वल्लकीं यया सा ताम् । तत इति । वल्लकीस्थापनानन्तरं पर्णपुटेन निर्झरात्प्रसवणादागृहीतं यदर्घजलं तदादाय समुपस्थितां समागतां तां प्रति चन्द्रापीड इत्यब्रवीदित्युवाच । इतिशब्दार्थमाह - अलमिति । अतियन्त्रणैयात्यनुरोधेनालं कृतम् । कृतमिति । अतिप्रसादेनातिप्रसन्नतया कृतं सृतम् । हे भगवति हे स्वामिनि, प्रसीद प्रसन्ना भव । अयमत्यादरोऽत्याग्रहो विमुच्यतां त्यज्यताम् । त्वदीयमालोकनमपि दर्शनमपि सर्वपापप्रशमनं सर्वेनसां प्रशमनकृत् । अघेति । सर्वैनोध्वंसि जाप्येऽघमर्षणं तद्वदिव पवित्री - करणाय पावनीकरणायालं समर्थम् । अत आस्यतामुपविश्यताम् । भवत्या दर्शनेनैव मम कार्तार्थ्यमभूत् । ततः किमातिथ्येनेति भावः । अन्विति । तया कन्यकयानुबैध्यमानो - टिप्प० - 1 शिक्या, ‘छींका' इति भाषा ख्याता । 2 मत्कृते अत्यन्तं क्लेशानुभवेनेत्यर्थ उचितः । 3 'अनुरुध्यमानः कृतानुरोधः इति पाठान्तरो बहुजनप्रसिद्धः । पाठा० - १ धारा. २ चारुचलत्. ३ शिखरनिबद्ध ४ नारिकेल. ५ आगृहीतार्ध्यसलिलम्. ६ अलमलम्. ७ तदीयम्. ८ अप्यत्र खलु. ९ अनुरुध्यमानः. (महाश्वेताकृतमातिथ्यम् पूर्वभागः । 289 Page #303 -------------------------------------------------------------------------- ________________ तां सर्वामतिथिसपर्यामतिदूरावनतेन शिरसा सप्रश्रयं प्रतिजग्राह । कृतातिथ्यया च तया द्वितीयशिलातलोपविष्टया क्षणमिव तूष्णीं स्थित्वा क्रमेण परिपृष्ठो दिग्विजयादारभ्य किंनरमिथुनानुसरणप्रसङ्गेनागमनमात्मनः सर्वमाचचक्षे । विदितसकलवृत्तान्ता चोत्थाय सा कन्यका भिक्षाकपालमादाय तेषामायातनतरूणां तलेषु विचचार । अचिरेण च तस्यां स्वयंपतितैः फलैरपूर्यत भिक्षाभाजनम् । आगत्य च तेषां फलानामुपयोगाय नियुक्तवती चन्द्रापीडम् । आसीच्च तस्य चेतसि - 'नास्ति खल्वसाध्यं नाम तपसाम् । किमतःपरमाश्चर्यं यत्र व्यपगतचेतना अपि सचेतना इवास्यै भगवत्यै समतिसृजन्तः फलान्यात्मानुग्रहमुपपादयन्ति वनस्पतयः । चित्रमिदमालोकितमस्माभिरदृष्टपूर्वम् इत्यधिकतरोपजातविस्मयश्चोत्थाय तमेव प्रदेशमिन्द्रायुधमानीय व्यपनीतपर्याणं नातिदूरं संयम्य निर्झरजलनिवर्तितस्नानविधिस्तान्यमृतस्वादून्युपभुज्य फलानि पीत्वा च तुषारशिशिरं प्रसवणजलमुपस्पृश्य चैकान्ते तावदेवतस्थे यावत्तयापि कन्यकया कृतो जलफलमूलमयेष्वाहारेषु प्रणयः । इति परिसमापिताहारां निर्वर्तितसंध्योचिताचारां शिलातले विश्रब्धमुपविष्टां निभृतमुपसृत्य - *********** ऽनुरुध्यमानः । चकारः पुनरर्थकः । तां सर्वां समग्रातिथिसपर्यामभ्यागतपूजामतिदूराद्दविष्ठादवनतेन नमितेन शिरसोत्तमोङ्गेन सप्रश्रय सविनयं प्रतिजग्राह गृहीतवान् । कृतेति । कृतं विहितमातिथ्यं यया सा तया । द्वितीयेति । द्वितीयं भिन्नं यच्छिलातलं तत्रोपविष्टयासीनया क्षणमिव तूष्णीं स्थित्वा मौनं कृत्वा क्रमेण परिपाट्या परिपृष्टोऽनुयुक्तो दिग्विजयादारभ्य किंनरमिथुनस्य यदनुसरणं यदनुगमन तत्प्रसङ्गेन तद्वशेनात्मनः स्वकीयस्य सर्वमागमनमाचचक्षेऽकथयत् । विदितेति । विदितो ज्ञातः सकलः समग्रो वृत्तान्त उदन्तो यया सा चकारः पूर्ववत् । उत्थाय सा कन्यका भिक्षाकपालं भिक्षाभाजनमादाय गृहीत्वा तेषामायतनतरूणां गुहासमीपवर्तिवृक्षाणां तलेष्वधोभागे विचचार पर्यटनं चकार । अचिरेणेति । अचिरेण स्वल्पकालेन स्वयंपतितैः स्वभावतश्च्युतैः फलैस्तस्या भिक्षाभाजनमपूर्यत परिपूरितमभूतू । आगत्येति । आगत्यैत्य तेषां फलानामुपयोगायोपभोगार्थं चन्द्रापीडं नियुक्तवती प्रेरितवती । तस्येति । तस्य चन्द्रापीडस्य चेतसि मनसीत्यासीदित्यभत । इतिशब्दद्योत्यं प्रदर्शयन्नाह - खल्विति । खलु निश्चयेन । नामेति कोमलामन्त्रणे । तपसामसाध्यमशक्य नास्ति तथाप्यतःपरमेतदन्यत्किमाश्चर्यं चोयं भवेत्तदेवाह - यत्रेति । यस्मिन्प्रदेशेऽपगता दूरीभूता चेतना चैतन्यं येषामेवंभूता अपि वनस्पतयो वृक्षाः सचेतना इव सचैतन्या इवास्यै भगवत्यै फलानि समतिशयेन सृजन्तो ददत आत्मानुग्रहं निजसाफल्यमुपपादयन्ति निष्पादयन्ति । चित्रमिति । अदृष्टपूर्वमवीक्षितपूर्वमिदं चित्रमाश्चर्यमालोकितं वीक्षितम् । अधीति । अधिकतरोऽतिभूयानुपजातः समुत्पन्नो विस्मयो यस्य स उत्थाय तमेव प्रदेशमिन्द्रायुधमानीय व्यपनीतपर्याणं दूरीकृतपल्ययनं नातिदूरे समीपे संयम्य निबध्य । निर्झरति । निरिजलेन प्रसवणपानीयेन निर्वर्तितो निष्पादितः स्नानविधिराप्लावविधिर्येन स तान्यमृतवत्स्वादूनि मिष्टानि फलान्युपभुज्यास्वाद्य च तुषारस्य नीहारस्य शिशिरं शीतलं प्रसवणजलं निर्झराम्भः पीत्वा चोपस्पृश्याचमनं कृत्वैकान्ते रहसि तावदवतस्थे तावत्कालमासेदिवान्यावत्तयापि कन्यकया जलफलमूलमयेष्वाहारेषु प्रणयः स्नेहः कृतः ।। इतीति । इति पूर्वोक्तप्रकारेण परिसमापितः पर्याप्तिं नीत आहारो भोजनं यया सा ताम् । निर्वेति । निर्वर्तितो विहितः संध्योचिताचारः सायंकालयोग्यो विधिर्यया सा तां शिलातले विश्रब्धं सविश्वासं यथा - पाठा० - १ अचिरेण तस्याः. २ यदत्र; यत्र च. ३ विगत. ४ पर्याणे च. ५ निवर्तित. ६ अमृतरस. ७ उपयुज्य. ८ उपस्पृश्यकान्ते. ९ उपतस्थे. १० कन्यया. 290 कादम्बरी। कथायाम् Page #304 -------------------------------------------------------------------------- ________________ नातिदूरे समुपविश्य मुहूर्तमिव स्थित्वा चन्द्रापीडः सविनयमवादीत् - 'भगवती, त्वत्प्रसादप्राप्तिप्रोत्साहितेन कुतूहले - नाकुलीक्रियमाणो मानुषतासुलभो लघिमा बलादनिच्छन्तमपि मां प्रश्नकर्मणि नियोजयति । उपजनयति हिं प्रभुप्रसादलवोऽपि प्रागल्भ्यमधीरप्रकृतेः । स्वल्पाप्येकावस्थाने कालकला परिचयमुत्पादयती । अणुरप्युपचारपरिग्रहः प्रणयमारोपयति । तद्यदि नातिखेदकरमिव ततः कथनेनात्मानमनुग्राह्यमिच्छामि । अतिमहत्खलु भवद्दर्शनात्प्रभृति मे कौतुकमस्मिन्विषये । कतरन्मरुतामृषीणां गन्धर्वाणां गुह्यकानामप्सरसां वा कुलमनुगृहीतं भगवत्या जन्मना । किमर्थं वास्मिन्कुसुमकुमारे नवे वयसि व्रतग्रहणम् । क्वेदं वयः, क्वेयमाकृतिः, क्व चायं लावण्यातिशयः, क्वेयमि न्द्रियाणामुपशान्तिः । तैदद्भुतमिव मे प्रतिभाति । किं वानेकसिद्धसाध्यसंबंद्धानि सुरलोकर्सुलभान्यपहाय दिव्याश्रमपदान्येकाकिनी वनमिदममानुषमधिवससि । कैश्चायं प्रकारो यत्तैरेव पञ्चभिर्महाभूतैरारब्धमीदृशं - *********** स्यात्त्थोपविष्टामासीनाम् । निभृतं निश्चलं यथा स्यात्तथोपसृत्य समीपे गत्वा नातिदूरे समुपविश्यास्थाय मुहूर्तमिव क्षणमात्रमिव स्थित्वा विलम्ब्य चन्द्रापीडः सविनयं विनयसंयुक्तं यथा स्यात्तथावादीदवोचत् । हे भगवति हे स्वामिनि । त्वदिति । तव प्रसादस्य प्राप्तिर्लब्धिस्तया प्रोत्साहितेन प्रगुणीकृतेन कुतूहलेन कौतुकेनाकुलीक्रियमाणो व्याकुलतां नीयमान एवंविधो यो लघिमा तुच्छस्वभावः । कीदृशः । मानुषता मानवता तत्र सुलभः सुप्रापो मां बलाद्धटादनिच्छन्तमवाञ्छन्तमपि प्रश्नकर्मणि पृच्छाक्रियायां नियोजयति व्यापारयति । उपजनेति । हीति निश्चितम् । प्रभोः स्वामिनः प्रसादलवोऽपि प्रसन्नतालेशोऽप्यधीरप्रकृतेश्चञ्चलस्वभावस्य प्रागल्भ्यं धार्यमुपजनयत्युपपादयति । स्वल्पेति । एकावस्थान एकावस्थितौ स्वल्पापि स्तोकापि कालकला पञ्चदशलवात्मिका परिचयं संस्तवमुत्पादयति जनयति । अणुरपि परमाणुरप्युपचारपरिग्रहः पूजास्वीकारः प्रणयं स्नेहमारोपयत्यारोपविषयीकरोति । तदिति । तद्यदि नातिखेदकरमिव नातिप्रयासजनकसदृशमिव ततः कथनेन निवेदनेनात्मानमनुग्राह्यमभ्युपपत्तिविषयमिच्छामि समीहे । अतीति । खलु निश्चये । भवद्दर्शनात्प्रभृतितवालोकनादारभ्य मे ममास्मिन्विषये प्रश्नविषयेऽतिमहत्कौतुकमत्याश्चर्यम् । कतरदिति । मरुतां देवानाम्, ऋषीणां मुनीनाम्, गन्धर्वाणां देवगायनानाम्, गुह्यकानां यक्षाणाम्, अप्सरसां तिलोत्तमादीनां मध्ये । निर्धारणे षष्ठी । जन्मना प्रादुर्भाविन भगवत्या स्वामिन्या कतरत्कतमत्कुलमन्वयोऽनुगृहीतमनुग्रहविषयीकृतम् । किमिति । किमर्थम् । किं प्रयोजनमिति यावत् । वेति विकल्पार्थः । अस्मिन्नवे नूतने वयस्यवस्थायां कुसुमं पुष्पं तद्वत्सुकुमारे कोमले व्रतग्रहणं नियमस्वीकारः । क्वेति महदन्तरे । इदं प्रत्यक्षोपलभ्यमानं वयः क्व । अथ चेयमाकृतिराकारविशेषः क्व । तथा लावण्यं चातुर्यं तस्यातिशय आधिक्यं क्व । तथेन्द्रियाणां करणानामियमुपशान्तिर्विषयोपरमः क्व । तदिति । मे मम तत्सर्वं पूर्वोक्तमद्भुतमिवाश्चर्यमिव प्रतिभाति प्रतिभासते । अन्यच्च । किमिति पूर्ववत् । अनेकेति । अनेके ब ये सिद्धा महायोगिनस्तैः । साध्या निष्पाद्याः क्रिया इत्यर्थः । ताभिः संबद्धानि संकीर्णानि सुरलोका देवसमूहास्तेषां सुलभानि सुप्रापाण्येवंविधानि दिव्याश्रमपदानि महामुनीनां निवासस्थानान्यपहाय विमुच्यैकाकिन्यसहायामानुषं मनुष्यवर्जितमिदं वनमरण्यं कथं त्वं भवत्यधिवससि । ‘उपान्वध्याङ्ग्वसः' इति वनमित्यस्याधिकरणस्य कर्मसंज्ञायां द्वितीया । कश्चेति । कश्चानिर्दिष्टस्वरूपोऽयं प्रकारः प्रभेदो यत्तैरेव सर्वप्रसिद्धैरेव पञ्चभिर्महाभूतैः पृथि - टिप्प० - 1 सौन्दर्यम् । 2 ' अनेकसिद्ध-साध्यसंबाधानि' इत्यपि पाठः, संबाधानि संकुलानीति तदर्थः । 3 विशेषः । पाटा० - १ जनयति. २ हि न. ३ एकदेशावस्थाने; एकदेशावस्थान. ४ अनुगृह्यमाणम्. ५ वयः, क्वेदं तपः. ६ अद्भुतम् ७ किं निमित्तम्. ८ संबन्धानि; संबाधानि. ९ सुभगानि. १० कश्चायं प्रजापतेः प्रकारो यत्तैरेव महाभूतैः पञ्चभिः. ११ ईदृशीम्. महाश्वेतां प्रति प्रश्नः पूर्वभागः । 291 Page #305 -------------------------------------------------------------------------- ________________ धवलतां धत्ते शरीरम् । नेदमस्माभिरन्यत्र दृष्टश्रुतपूर्वं वा । अपनयतु नः कौतुकम् । आवेदयतु भवती सर्वमिदम् इत्येवमभिहिता सा किमप्यन्तायन्ती तूष्णीं मुहूर्तमिव स्थित्वा निःश्वस्य स्थूलस्थूलैरन्तर्गता हृदयशुद्धिमिवादाय निर्गच्छद्भिः, इन्द्रियप्रसादमिव वर्षद्भिः, तपोरसनिःस्यन्दमिव सवद्भिः, लोचनविषयं धवलिमानमिव द्रवीकृत्य पातयद्भिः, अच्छाच्छैः अमलकपोलस्थलस्खलितैः, अवशीर्णहारमुक्ताफलतरलपातैः अनुबद्धबिन्दुभिः वल्कलावृतकुचशिखरजर्जरितसीकरैरश्रुभिरामीलितलोचना निःशब्दं रोदितुमारेभे । तां च प्ररुदितां दृष्टवा चन्द्रापीडस्तत्क्षणमचिन्तयत् - 'अहो दुर्निवारता व्यसनोपनिपातानाम्, यदीदृशीमप्याकृतिमनभिभवनीयामात्मीयां कुर्वन्ति । सर्वथा न न कंचन स्पृशन्ति शरीरधर्माणमुप - *********** व्यप्तेजोवाय्वाकाशरूपैरारब्धं रचितमीदृशं शरीरं देहः । धवेति । धवलिमानं धत्ते दधाति । नेति । इदमेतादृशमस्माभिरैदंयुगीनैरन्यस्मिन्देशान्तरे पूर्वं न दृष्टं न वीक्षितम् । नापि पूर्वं कस्यचिन्मुखाछुतमाकर्णितम् । अपेति । नोऽस्माकं कौतुकं महदाश्चर्यमपनयतु दूरीकरोतु । आवेति । भवती स्वामिनी सर्वमिदं पूर्वोक्तमावेदयतु निवेदयतु । इतीति । इत्येवंप्रकारेणाभिहिता प्रतिपादिता सा किमप्यनिर्वचनीयमन्तश्चित्ते ध्यायन्ती चिन्तयती तूष्णीं जोषं मुहूर्तसदृशम् । अत्र सदृशार्थ इवप्रयोगः । निःश्वस्य निश्वास मुक्त्वा । पूर्वानुभूतस्य दुःखस्य स्मरणादिति भावः । अश्रुभिर्नेत्रजलैरामीलिते संकुचिते लोचने नेत्रे यस्याः सा तादृशी निःशब्द ध्वनिवर्जितं यथा स्यात्तथा रोदितुं रोदन कर्तुमारेभ आरम्भं चकार । अथाश्रु विशेषयन्नाह - स्थूलेति । स्थूलानि च स्थूलानि च स्थूलस्थूलानि तैः । अतिश्चेतत्वसाम्यादाह - अन्तरिति । अन्तर्गतां मध्यप्राप्तां हृदयशुद्धिं चित्तनैर्मल्यमिवादाय गृहीत्वा निर्गच्छद्भिर्बहिरागच्छद्भिः । इन्द्रियेति । इन्द्रियाणामक्षाणा प्रसादं प्रसन्नतामिव वर्षद्भिर्वर्षणं कुर्वद्भिः । तप इति । तपसां चान्द्रायणादीनां रसनिःस्यन्दमिव द्रवरहस्यमिव सवद्भिः । लोचनेति । लोचनविषयं नेत्रसंबन्धिनं धवलिमानं वेतिमानमिव द्रवीकृत्य रसीकृत्य पातयद्भिः । अच्छेति । अच्छानि चाच्छानि चाच्छाच्छानि तैः । अतिस्वच्छरित्यर्थः । अमलेति । अमलं निर्मलं यत्कपोलस्थलं तत्र स्खलितैः स्खलनां प्राप्तैः । अवशीर्णेति । अवशीर्णस्त्रुटितो यो हारो मुक्ताप्रालम्बस्तस्य मुक्ताफलानि रसोद्भवानि तद्वत्तरलः कम्पनः पातो येषां तैः । एतेनोज्ज्वलत्वसाम्यात्क्षरन्मुक्ताफलसाम्यमश्रूणा ध्वनितम् । अनुबद्धाः परस्परानुविद्धा बिन्दवो विप्रुषो येषां तैः । वल्कलेति । वल्कलावृतौ चोचाच्छादितौ यो कुचौ पयोधरौ तयोः शिखरमग्रं तेन जर्जरिताः शिथिलता प्राप्ताः सीकराः कणा येषां तैः । एतेन कुचयोरतिकाठिन्यं व्यञ्जितम् । अन्वयस्तु प्रागेवोक्तः । तामिति । ता कन्यकाम् । चकारः पुनरर्थकः । प्ररुदितां कृताश्रुपातां दृष्ट्वा विलोक्य चन्द्रापीडस्तत्क्षणं तस्मिन्नवसरेऽचिन्तयच्चिन्तितवान् । चिन्ताविषयमाह - अहो इति । अहो इत्याश्चर्ये । व्यसनानि मद्यपानादीनि तत्रोपनिपाता अत्यासक्तिरूपास्तेषां दुर्निवारता दुहेयता । अनल्पायासेन निवारयितुं शक्यते, न तु स्वल्पप्रयासेनेति भावः । यदिति हेत्वर्थे । अनभिभवनीयां न परैरभिभवितुं योग्यामेतादृशीमलौकिकीमप्याकृतिमाकारमात्मीयां स्वायत्तां कुर्वन्ति प्रणयन्ति । सर्वथेति । सर्वथा सर्वप्रकारेणोपतापाः कामाभिलाषाः - - - - - टिप्प० - 1 'रारब्धमीदृशीं धवलतां धत्ते शरीरम्' इत्यपि मधुरः पाठः । अर्थः स्फुटः । 2 वैलक्षण्यमित्यर्थः । 3 तपास्येव रसाः (द्रवाः) तेषा निस्यन्द धारां क्षरद्भिरिव, इत्यर्थो योग्यः । 4 व्यसनोपनिपातानां दुःखोपस्थितीनाम् अहो दुर्निवारता अभिभवितुमशक्यता ? अर्थात् दैवोपस्थापितानि दुःखानि न केनचिद्वारयितुं शक्यानीति भावः । पाठा० - १ पूर्वम्. २ आवेदयतु सर्वम्. ३ हारमुक्तमुक्ता. 292 कादम्बरी । कथायाम् Page #306 -------------------------------------------------------------------------- ________________ तापाः । बलवती हि द्वन्द्वानां प्रवृत्तिः । इदमपरमधिकतर जनितमतिमहन्मनसि मे कौतुकमस्या बाष्पसलिलपातेन । न ह्यल्पीयसा शोककारणेन क्षेत्रीक्रियन्त एवंविधा मूर्तयः । न हि क्षुद्रनिर्घातपाताभिहता चलति वसुधा' इति । संवर्धितकुतूहलश्च शोकस्मरणहेतुतामुपगतमपराधिनमिवात्मानमवगच्छत्रुत्थाय प्रसवणादञ्जलिना मुखप्रक्षालनोदकमुपनिन्ये । सा तु तदनुरोधादेविच्छिन्नबाष्पजलधारासंतानापि किंचित्कषायितोदरे प्रक्षाल्य लोचने वल्कलोपान्तेन वदनमपमृज्य दीर्घमुष्णं च निःश्वस्य शनैः शनैः प्रत्यवादीत् - _ 'राजपुत्र, किमनेनातिनिघृणहृदयाया मम मन्दभाग्यायाः पापाया जन्मनः प्रभृति वैराग्यवृत्तान्तेनाश्रवणीयेन श्रुतेन । तथापि यदि महत्कुतूहलं तत्कथयामि । श्रूयताम् - एतत्प्रायेण कल्याणाभिनिवेशिनः श्रुतिविषयमापतितमेव यथा विबुधसमन्यप्सरसेना नाम - *********** कंचन शरीरधर्माणं न न स्पृशन्ति न नाश्लिषन्ति । 'दौ नौ प्रकृतमर्थं सूचयतः' इति न्यायाद् द्विनकारप्रयोगः । बलेति । हि नि तम् । द्वंद्वानां सुखदुःखानां प्रवृत्तिः प्रवर्तनं बलवती बलिष्ठा । इदमिति । मे मम मनसि चित्त इदमपरमन्यदधिकतरं महत्कौतुकमाश्चर्य जनितमुत्पादितमस्याः कन्यकाया बाष्पसलिलमश्रुजलं तस्य पातेन पतनेन । जितेन्द्रियग्रामाया अस्या अश्रुपतनमेव महदाश्चर्यमिति भावः । ननु स्वल्पमेव शोककारणमित्याह - न हीति । हीति निश्चितम् । अल्पीयसा कनीयसा शोककारणेन खेदनिमित्तेनैवंविधा अनिर्वचनीयस्वरूपा मूर्तयः शरीराणि न क्षेत्रीक्रियन्ते नाश्रयीक्रियन्ते । अत्रैव हेतुमाह - न हीति । क्षुद्रस्तुच्छो यो निर्घातः प्रहारस्तस्य पातः पातनं तेनाभिहता ताडिता वसुधा पृथ्वी । हीति निश्चितम् । न चलति न कम्पते । संवर्धितमिति । संवर्धितं वृद्धि प्राप्तं कुतूहलं कौतुक यस्यैवंभूतोऽहं शोकस्य खेदस्य स्मरणं स्मृतिस्तस्य हेतुतां निमित्ततामुपगतं प्राप्तमत एवापराधिनं सागसमात्मानमवगच्छन्निव जानन्निवोत्थाय प्रसवणान्निर्झरान्मुखप्रक्षालनाय वदनशुद्ध्यर्थमुदकं पानीयमञ्जलिना पाणिपुटेनोपनिन्य आनीतवान् । सा त्विति । सा कन्यका । तु पुनरर्थकः । तस्य चन्द्रापीडस्यानुरोधादाग्रहात् । अविच्छिन्नेति । अविच्छिन्नमत्रुटितं बाष्पजलधारासंतानमश्रुपानीयधारासमूहं यस्या एवंविधापि किंचित्कंषायितं कषायगुणयुक्तमुदरं मध्यं ययोरेवंभूते लोचने नेत्रे प्रक्षाल्य धावनं कृत्वा वल्कलोपान्तेन चोचाञ्चलेन वदनं मुखमपमृज्य मार्जनं कृत्वा दीर्घमायतमुष्णं तप्तं च निःश्वस्य शनैः शनैर्मन्दं मन्दं प्रत्यवादीत्प्रत्यवोचत् । राजेति । हे राजपुत्र, अतिनिघृणं निर्दयं हृदयं स्वान्तं यस्या एवंविधाया मन्दभाग्यायाः क्षीणभागधेयायाः पापायाः पापिष्ठाया जन्मनः प्रभृत्युत्पत्तेरारभ्याश्रवणीयेनाकर्णनानर्हेण वैराग्यवृत्तान्तेन विरक्ततोदन्तेन किमनेन श्रुतेनाकर्णितेन । तथापीति । एवंसत्यपि फलाभावे विद्यमानेऽपि यदि महत्कुतूहलं महदाश्चर्यं तत्तर्हि कथयामि ब्रुवे । प्राणेन बाहुल्येन कल्याणो श्रेयस्यभिनिविशत इत्येवंशीलं नोऽस्माक श्रुतिविषयं कर्णगोचरमापतितमागतम् । कुलपरम्परया श्रुतमित्यर्थः । एतदेव श्रूयतामाकर्ण्यताम् । यथेति । विबुधसद्मनि किंनरगृहेऽप्सरसेनाः । नामेति कोमलामन्त्रणे । कन्यकाः पुत्र्यः सन्ति । तासां - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 संवर्धितकौतूहलः स इत्यर्थः । 2 अश्रुवर्षणात् किञ्चित् रक्तम् आविलं वा मध्यं ययोस्ते इत्यर्थ उचितः । 3 कल्याणे अभिनिवेशः (आग्रहो) यस्य, ईदृशस्य भवतः श्रुतिविषयं कर्णगोचरमागतमेव यद् विबुधसद्मनि स्वर्गे 'अप्सरसो' नाम कन्यकाः (अविवाहितत्वात्) सन्तीति । पाठा० - १ महन्मम मनसि कौतुकम्; उपजनितमतिमहन्मनसि मे कौतुकम्. २ कुतूहलश्चास्याः. ३ अवच्छिन्न. ४ शनैः. ५ निष्ठुर. ६ जन्मतः. ७ अप्सरसो. (महाश्वेताया वृत्तान्तः) पूर्वभागः । Page #307 -------------------------------------------------------------------------- ________________ कन्यकाः सन्तीति । तासां चतुर्दश कुलानि - एक भगवतः कमलयोनेर्मनसः समुत्पन्नम्, अन्यढेदेभ्यः संभूतम्, अन्यदग्नेरुद्भूतम्, अन्यत्पवनात्प्रसूतम्, अन्यदमृतान्मथ्यमानादुत्थितम्, अन्यज्जलाज्जातम्, अन्यदर्ककिरणेभ्यो निर्गतम्, अन्यत्सोमरश्मिभ्यो निपतितम्, अन्यद्भूमेरुद्भूतम्, अन्यसौदामिनीभ्यः प्रवृत्तम्, अन्यन्मृत्युना निर्मितम्, अपर मकरकेतुना समुत्पादितम्, अन्यत्तु दक्षस्य प्रजापतेरतिप्रभूतानां कन्यकानां मध्ये द्वै सुते मुनिररिष्टा च बभूवतुस्ताभ्यां गन्धर्वैः सह कुलद्वयं जातम्, एवमेतान्येकत्र चतुर्दश कुलानि । गन्धर्वाणां तु दक्षात्मजाद्वितयसंभवं तदेव कुलद्वयं जातम् । अत्र मुनेस्तनयानां सेनादीनां पञ्चदशानां भ्रातृणामधिको गुणैः षोडशश्चित्ररथो नाम समुत्पन्नः । स किल त्रिभुवनप्रख्यातपराक्रमो भगवता समस्तसुरमौलिमालालालितचरणनलिनेनाखण्डलेन सुहृच्छब्देनोपबंहितप्रभावः सर्वेषां गन्धर्वाणामाधिपत्यमसिलतामरीचिनिचयमेचकितेन बाहुना समुपार्जितं शैशव एवाप्तवान् । इतश्च नातिदूरे तस्यास्माद्भारतवर्षादुत्तरेणानन्तरे किंपुरुष - *********** कन्यकानां चतुदर्श कुलानि । तत्रैकं कमलयोनेर्भगवतो विधातुर्ब्रह्मणो मनसः स्वान्तात्समुत्पन्नं संजातम् । अन्यद् द्वितीय वेदेभ्यः श्रुतिभ्यः संभूतमुत्पन्नम् । अन्यत्तृतीयमग्नेर्विभावसोरुद्भूतं प्रकटितम् । अन्यच्चतुर्थं पवनाद्वायोः प्रसूतं जनितम् । अन्यत्पञ्चमममृताज्जलान्मथ्यमानाद्विलोड्यमानादुत्थितं प्रादुर्भूतम् । अन्यत्षष्ठं जलाज्जातम् । अन्यत्सप्तमं कुलमर्ककिरणेभ्यः सूर्यदीधितिभ्यो निर्गतं बहिरागतम् । अन्यदष्टमं सोमः कुमुदबान्धवस्तस्य रश्मिभ्यः किरणेभ्यो निपतितं च्युतम् । अन्यन्नवमं कुलं पृथिव्या वसुंधराया उद्भूतं प्रकटितम् । अन्यदशम सौदामिनीभ्यो हलादिनीभ्यः प्रवृत्तं प्रवर्तितम् । अन्यदेकादशं कुलं मृत्युना यमेन निर्मितं रचितम् । अपरमन्यद् द्वादशं मकरकेतुना मनोभवेन समुत्पादितम् । अन्यत्त्विति । दक्षस्य प्रजापतेरतिप्रभूतानामतिबह्वीनां कन्यकानामात्मजानां मध्ये द्वे सुते द्वे कन्यकं मुनिरष्टिा च बभूवतुर्जज्ञाते । ताभ्यां कन्यकाभ्यां गन्धर्वैर्देवगायनैः सह कुलद्वयं जातम् । एवमिति पूर्वोक्तप्रकारेण । एकत्रेति । एकस्मिन्प्रदेश एतानि चतुर्दश कुलानि । गन्धर्वाणां तु दक्षात्मजाद्वितयसंभवं तदेव पूर्वोक्तमेव कुलद्वयम् । नाधिकमित्यर्थः । अत्रेति । अस्मिन्नेव प्रदेशे मुनेर्दक्षजात्मजायाः सेनादीनां पञ्चदशानां भ्रातृणां मध्ये गुणैः शौर्यादिभिरधिकः षोडशश्चित्ररथो नाम तनयः समुत्पन्नः । स इति । किलेति सत्ये । स चित्ररथस्त्रिभुवने त्रिविष्टपे प्रख्यातः प्रसिद्धः पराक्रमः शौर्यवृत्तिर्यस्य सः । भगवतेति । भगवता माहात्म्यवता । समस्तेति । समस्ताः समग्रा ये सुरा देवास्तेषां मौलिमालाः किरीटपङ्क्तयस्ताभिलितं पालितं चरणनलिन पादपद्मं यस्य स तेन एवंविधेनाखण्डलेनेन्द्रेण सुहृच्छब्देन मित्रशब्देनोपबृंहितः श्लाघाविषयीकृतः प्रभावः कोशदण्डजं तेजो यस्य स तथा । सर्वेषामिति । सर्वेषां समग्राणां गन्धर्वाणां देहगायनानां शैशवे बाल्य एवाधिपत्यं प्रभुत्वमाप्तवान्प्राप्तवान् । कीदृशमाधिपत्यम् । समुपार्जितमर्जितम् । केन । बाहुना भुजेन । अथ बाहुं विशेषयन्नाह - असीति । असिलता खगलता तस्या मरीचिनिचयः कान्तिसमूहस्तेन मेचकितेन श्यामलितेन । इतश्चेति । अर्थान्तरे । अस्मात्स्थानान्नातिदूरे नातिदविष्ठे तस्य राज्ञोऽस्माद्भारतवर्षाद्भरतक्षेत्रादुत्तरेणानन्तरेऽत्यासन्ने किंपुरुषनाम्नि किंपु - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 मध्यमानावस्थायाममृताज्जातमित्यर्थः । जलादित्युक्तेः पौनरुक्त्यम् । 2 चित्रसेनादीनामित्यपि पाठः । 3 सादरं परामृष्टमित्यर्थः । - - - - - - - - - - - पाठा० - १ सन्ति. २ वढेः ३ निष्पतितम्. ४ सुतानाम्. ५ द्वौ सुतौ. ६ तत्र. ७ चित्रसेनादीनाम्. ८ सकलत्रिभुवन. ९ अरविन्दजेन. IIIIII 294 AAAAAAAN कादम्बरी । LC कथायाम् Page #308 -------------------------------------------------------------------------- ________________ नाम्नि वर्षे वर्षपर्वतो हेमकूटो नाम निवासः । तत्र च तद्भुजयुगपरिपालितान्यनेकानि गन्धर्वशतसहस्राणि प्रतिवसन्ति । तेनैवे चेदं चैत्ररथं नामातिमनोहरं काननं निर्मितम्, इदं चाच्छोदाभिधानमतिमहत्सरः खानितम्, अयं च भवानीपतिरुपरचितो भगवान् । अरिष्टायास्तु पुत्रस्तस्मिन्द्वितीये गन्धर्वकुले गन्धर्वराजेन चित्ररथेनैवाभिषिक्तो बाल एव राज्यपदमासादितवान् । अपरिमितगन्धर्वबलपरिवारस्य तस्यापि स एव गिरिरधिवासः । यत्तु तत्सोमपीयूषसंभूतानामप्सरसा कुलम्, तस्मात्किरणजलानुसारगलितेन सकलेनेव रजनिकरकलाकलापलावण्येन निर्मिता त्रिभुवननयनाभिरामा भगवती द्वितीयेव गौरी गौरीति नाम्ना हिमकिरणकिरणावदातवर्णा कन्यका प्रसूता । तां च द्वितीयकुलाधिपतिहँसो मन्दाकिनीमिव क्षीरसागरः प्रणयिनीमकरोत् । सा तु भगवता मकरकेतनेनेव रतिः, शरत्समयेनेव कमलिनी, हंसेन संयोजिता सदृशसमागमोपजनितामतिमहतीं मुदमुपगतवती - *********** रुषाभिधाने वर्षे क्षेत्रे वर्षपर्वतः क्षेत्रसीमाकृन्नगो हेमकूटो नाम हेमकूटाभिधानो निवासो वसतिस्थलं वर्तते । तत्र चेति । तस्मिन्पर्वते । तदिति । तस्य चित्ररथस्य भुजयुगं बाहुयुगं तेन परिपालितानि रक्षितान्यनेकानि गन्धर्वशतसहसाण्यनेकलक्षाणि प्रतिवसन्ति । तस्योत्कर्षमाह - तेनैवेति । तेनैव राज्ञा चित्ररथेनेदं चैत्ररथं नामातिमनोहरमतिरमणीयं काननं वनं निर्मितं निष्पादितम् । इदमच्छोदाभिधानमतिमहत्सरः खानितं निर्मापितम् । स्थावराभिप्रायेणाह - अयं चेति । अयं प्रत्यक्षो भगवान्भवानीपतिरीश्वर उपरचितो निर्मितः । अथ चारिष्टायाः पुत्रः सुतः । तु पुनरर्थकः । तस्मिन्द्वितीये गन्धर्वकुले गन्धर्वराजेनैव चित्ररथेनैवाभिषिक्तो राज्याभिषेकविषयीकृतः । अत एव बाल एव शिशुरेव राज्यपदमाधिपत्यस्थलमासादितवान्प्राप्तवान् । अपेति । अपरिमितमसंख्यं यद्गन्धर्वकुलं तदेव परिवारः परिच्छदो यस्य स तथा तस्यापि स एव हेमकूटाभिधानो गिरिः पर्वतोऽधिवासो निवासस्थलम् । यत्त्विति । तस्मिन्पर्वते सोमपीयूषसंभूतानामप्सरसां कुलं तस्मात्कुलात् । किरणेति । किरणजलममृतं तस्यानुसारोऽनुसरणं तेन गलितेनं विलीनेन सकलेन समग्रेण । रजनीति । रजनिकरस्य चन्द्रस्य कलाकलापस्तस्य लावण्येनेवान्तर्गतसारेणेव निर्मिता रचिता । त्रिभुवनेति । त्रिभुवनस्य त्रिविष्टपस्य नयनानि लोचनानि तेषामभिरामा मनोहरा भगवती माहात्म्यवती द्वितीयेव गौरी गौरीति नाम्ना । हिमेति । हिमकिरणस्य किरणा रश्मयस्तद्वदवदातो निर्मलो वर्णो देहच्छविर्यस्याः सैवंविधा कन्यका प्रसूता जनिता । तां चेति । तां गौरी द्वितीयकुलाधिपतिहँसो मन्दाकिनी स्वर्धनी क्षीरसागर इव प्रणयिनी वल्लभामकरोत् । सा त्विति । सा गौरी भगवता मकरकेतनेन कंदर्पण रतिरिख । शरत्समयेन घनात्ययकालेन कमलिनीव । एवं हंसेन गन्धर्वाधिपतिना संयोजिता संबन्धं प्रापिता । सदृशेति । सदृश उचितो यः समागमः संबन्ध उपजनिता - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अत एव 'अरिष्टायास्तु पुत्रस्तुम्बुरुप्रभृतीनां सोदर्याणा'मित्यादि पाठं नीचैधृतं संयोज्य ग्रन्थः पूरणीयः पाठकैः । 2 सोममयूख (किरण)संभूतानामित्यपि पाठः । 3 'किरणजालस्य (समूहस्य) अनुसारेण इत्यपि पाठः । 4 निर्झरितेन (निष्पतितेन)। 5 'हिमकरकिरणावदातवर्णा इत्येव ग्रन्थोचितान्यक्षराणि । 6 अत्र हंसेन सह संयोजिता (विधात्रा) सती सदृशसमागमोपजनितां मुदमुपगतवतीत्यादिः एको वाक्यार्थः । प्रमाणं चात्र सहृदयहृदयम् । 7 तेन उपजनिताम् । पाठा० - १ युगल. २ इदम्. ३ निखानितम्. ४ पुत्रस्तुम्बुरुप्रभृतीनां सोदर्याणां षण्णा ज्येष्ठो (शेषो; श्रेष्ठो; हंसोनाम जगद्विदितो गन्धर्वस्तस्मिन्). ५ कुले द्वीतीयेऽस्मिन्. ६ परिचारकस्यास्यापि. ७ सोममयूखसंभवमप्सरसाम्. ८ जाल. ९ अनुकरण. १० गौरीपति. ११ हिमकर; रजनिकर. १२ द्वितीयगन्धर्व. १३ केतुनेव. महाश्वेताजन्म पूर्वभागः । 295) Page #309 -------------------------------------------------------------------------- ________________ निखिलान्तःपुरस्वामिनी च तस्याभवत् । तयोश्च तादृशयोर्महात्मनोरहमीदृशी विगतलक्षणा शोकाय केवलमनेकदुःखसहसभाजनमेकैवात्मजा समुत्पन्ना । तातस्त्वनपत्यतया सुतजन्मातिरिक्तेन महोत्सवेन मम जन्माभिनन्दितवान् । अवाप्ते च दशमेऽहनि कृतयथोचितसमाचारो महाश्वेतेति यथार्थमेव नाम कृतवान् । साहं पितृभवने बालतया कलमधुरप्रलापिनी वीणेव गन्धर्वाणामङ्कादक संचरन्त्यविदितस्नेहशोकायासं शैशवमतिनीतवती । क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लव इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन नवयौवनेन पदम् । अथ विजृम्भमाणनवनलिनवनेषु, अंकठोरचूतकलिकाकलापकृतकामुकोत्कलिकेषु, कोमलमलयमारुतावतारतरङ्गितानङ्गध्वजांशुकेषु, मदकलितकामिनीगण्डूषसीधुसेकपुलकितबकु - *********** विहितामतिमहतीं गरीयसी मुदं हर्षमुपगतवती प्राप्तवती तस्य राज्ञो निखिलं समग्रं यदन्तःपुरमवरोधस्तत्र स्वामिनी मुख्या चाभवत् । तयोश्चेति । तयोहँसगौर्योर्महात्मनोरहमीदृश्येकात्मजैका पुत्री केवलं शोकाय समुत्पन्ना । कीदृशी । विगतानि दूरीभूतानि लक्षणानि श्रेयोजनकानि मषीतिलकादीनि यस्याः सा तथा । पुनस्तामेव विशेषयन्नाह - अनेकेति । अनेकानि विविधानि यानि दुःखानि कष्टानि तेषां सहसाणि तेषां भाजनं पात्रम् । आविष्टलिङ्गत्वात् 'वेदाः प्रमाणाम्' इतिवन्नपुंसकत्वम् । तातस्त्विति । तातः पितानपत्यतयाऽसंतानत्वेन सुतजन्मातिरिक्तेन पुत्रजन्माधिकेन महोत्सवेन महामहेन मम जन्म मज्जन्माभिनन्दितवानतिस्तुतवान् । अवाप्तेति । अवाप्ते प्राप्ते दशमेऽहनि दिने । कृत इति । कृतो विहितो यथोचितो यथायोग्यः समाचारो वेदोक्तक्रियाकलापो येन सः । महाश्वेतवर्णत्वान्महा तेति यथार्थमेव नाम कृतवान् । सेति । साहं पितृभवने जनकसद्मनि बालतया शिशुत्वेन कलमधुरप्रलापिनी कलं मनोज्ञ मधुरं मिष्टं प्रलपतीत्येवंशीला सा तथा केवलं वीणेव वल्लकीव गन्धर्वाणां देवगायनानामङ्कादक क्रोडात्कोडं संचरन्ती गच्छन्ती । अवीति । अविदितोऽज्ञातः स्नेहः प्रीतिः, शोकः शुक्, तयोरायासः प्रयासो येनैवंविधं शैशवं बाल्यमतिनीतवत्यतिक्रान्तवती । तदनन्तरं मे मम वपुषि शरीरे नवयौवनेन प्रत्यग्रतारुण्येन पदं स्थानं कृतं विहितम् । कस्मिन्क इव । वसन्ते पुष्पकाले मधुमासेनेव चैत्रेणेव । तथा मधुमासे नवपल्लवेनेव प्रत्यग्रकिसलयेनेव । तथा नवपल्लवे कुसुमेनेव प्रसूनेनेव । तथा कुसुमे मधुकरेणेव भ्रमरेणेव । तथा मधुकरे मदेनेव । अथेत्यानन्तर्ये । एकदेति । एकस्मिन्समयेऽहं मधुमासदिवसेषु वसन्तवासरेष्वम्बया मात्रा सहेदमच्छोदं सरः स्नातुमभ्यपतमगच्छमिति दूरेणान्वयः । अथ मधुमासदिवसान्विशेषयन्नाह - विजृम्भेति । विजृम्भमाणानि विकासमानानि नवनलिनवनानि प्रत्यग्रपद्मखण्डानि येषु । अकठोरेति । अकठोरा सुकुमारा याश्तकलिका आम्रकोरकास्तासां कलापः समूहस्तेन कृता विहिता कामुकानां कामिजनानामुत्कलिकोत्कण्ठा येषु । उद्दीपकत्वादिति भावः । कोमलेति । कोमलो मूदुर्यो मलयमारुतो मलयानिलस्तस्यावतार इतस्ततः प्रसरण तेन तरङ्गितानि भङ्गितान्यनङ्गध्वजांशुकानि मदनवैजयन्तीवसनानि येषु । मलयमारुतस्योद्दीपकत्वात् अनङ्गध्वजकम्पनेनानङ्गस्य प्रोत्साहन सूचितम् । मदेति । मदेनाहंकारेण - टिप्प० - 1 'वीणेव कलमधुरपलापिनी अकादक संचरन्ती' इति उभयत्र युज्यते । कलमस्फुटं मधुरं च आलपति वीणेति वीणापक्षे । 2 'अविदितस्नेहशोकायासमनोहरम्' इत्यपि पाठः । अविदितैः स्नेहशोकायासैः मनोहरमिति तदर्थः । एतज्जनितव्याकुलताभावात्सुन्दरमित्याशयः । 3 मालोपमैकावल्योः संयोगेन नवीन इवालंकारः । सरस्वतीकण्ठाभरणमते तु रशनोपमा । 4 तरङ्गवत्प्रस्फुरितानि 'फहराना। पाठा० . १ महात्मनोर्महता क्लेशेनाभिलाषेण कालेन च केवलम्. २ विगलल्लक्ष. ३ एकैव; अहमेकैव. ४ मज्जन्म. ५ शोकायासमनोहरम्. ६ अतीतवती. ७ जृम्भमाण. ८ अनेकचूत. ९ काम्युत्कलिकेषु. - - - - - - - - - - - - - - - - - - - - - - - - - - - - - हररररररररररररररल 1296ररररर MAY कादम्बरी । कथायाम Page #310 -------------------------------------------------------------------------- ________________ लेषु, मधुकरकुलकलङ्ककालीकृतकालेयककुसुमकुड्मलेषु, अशोकतरुताडनरणितरमणीयमणिनूपुरझंकारसहसमुखरेषु, विकसन्मुकुलपरिमलपुज्जितालिजालमञ्जसिञ्जितसुभगसहकारेषु, अविरलकुसुमधूलिवालुकापुलिनथवलितधरातलेषु, मधुमदविडम्बितमधुकैरकदम्बकसंवाह्यमानलतादोलेषु, उत्फुल्लपल्लवर्लंवलीलीयमानमत्तकोकिलोल्लासितमधुशीकरोद्दाँ मदुर्दिनेषु, प्रोषितजनजायाजीवोपहारर्हृष्टमन्मथास्फालितचापरवभयस्फुटितपथिकहृदयर्रुधिरार्द्रीकृतमार्गेषु, अविरतपतत्कुसुमशरपतत्रिपंत्रसूत्कारबधिरीकृतदिङ्मुखेषु, दिवापि प्रवृत्तमदनरागान्धाभिसारिकासार्थसंकुलेषु, उद्वेलरतिरससागरपूरप्लावितेषु, सकलजीवलोकहृदयनन्ददायकेषु मधु - कलिता व्याप्ता याः कामिन्यः स्त्रियस्तासां गण्डूषसीधुश्चुलुकमद्यं तेन सेकः सिञ्चनं तेन पुलकिता रोमाञ्चिता बकुलाः केसरा येषु । इदं च बकुलतरुच्छायायां कामिनीनां मधुपार्नवर्णनम् । मधुकरेति । मधुकरस्य भ्रमरस्य कुलानि सजातीयवृन्दानि तान्येव कलङ्कोऽभिज्ञानं तेन कालीकृतानि श्यामीकृतानि कालेयकानां जापकानां कुसुमानि पुष्पाणि कुड्मलानि मुकुलानि च येषु । अशोकेति । अशोकः कङ्केलिर्यस्तरुर्वृक्षस्तस्य ताडनेनाघातेन रणितानि शब्दितानि रमणीनां कामिनीनां मणिनूपुराणि रत्नपादकटकानि तेषां झङ्कारा अव्यक्तशब्दास्तेषां सहस्रेण मुखरौ वाचाला येषु । विकसदिति । विकसन्ति स्मेरतां प्राप्नुवन्ति यानि मुकुलानि गुच्छाः । पुष्पाणामिति शेषः । तेषां यः परिमल आमोदस्तेन पुञ्जिताः समूहिता येऽलयो भ्रमरास्तेषां जालं समूहस्तस्य मञ्जु मनोहरं यत्सिञ्जितं शब्दितं तेन सुभगाः सुन्दरा एतादृशाः सहकारा आम्रा येषु । अविरलेति । अविरलानि निबिडानि यानि कुसुमानि प्रसूनानि तेषां धूलिः परागः । श्वेतत्वसाम्यात् । सैव बालुकापुलिनं सिकतातटं तेन धवलितं श्रेतीकृतं धरातलं पृथ्वीतलं येषु । मध्विति । मधु रसंस्तस्य मदेन विडम्बिता विह्वलीकृता ये मधुकरा भ्रमरास्तेषां कदम्बकं समूहस्तेन संवाह्यमाना इतस्ततो विक्षिप्यमाणा या लता वल्लयस्ता एव दोलाः प्रेखा येषु । उत्फुल्लेति । उत्फुल्ला विजृम्भिताः पल्लवाः किसलयानि यासामेवंविधा लवल्यो लताविशेषास्तासु लीयमाना अन्तर्धानतां प्राप्यमाणा या मत्तकोकिलाः पिकस्त्रियस्ताभिरुल्लासितं बहिरानीतं यन्मधु रसस्तस्य शीकराः कणास्तैरुद्दामदुर्दिनमत्युग्रवार्दलं येषु । प्रोषितेति । प्रोषिता अन्यदेशें गता ये जना लोकास्तेषां जायाः स्त्रियस्तासां जीवा असुमन्तस्तेषामुपहार उपहरणं तेन हृष्टः प्रमुदितो यो मन्मथः कंदर्पस्तेनास्फालितमास्फोटितं यच्चापं धनुस्तस्य यो रवः शब्दस्तस्माद्यद्भयं भीतिस्तेन स्फुटितानि विभिन्नानि यानि पथिकहृदयानि पान्थजनचित्तानि तेषां रुधिरेण रक्तेनार्द्रीकृतो मार्गः पन्था येषु । अविरतेति । अविरतं निरन्तरं पतन्त उपविशन्तः कुसुमशरेषु पुष्पकण्डेषु । ‘शरः काण्डतेजनयो,' इत्यनेकार्थः । एतादृशा ये पतत्रयः पक्षिणस्तेषां पत्रसूत्कारेण पक्षाव्यक्तशब्देन बधिरीकृतमेडीकृतं दिङ्मुखं येषु । दिवापीति । दिवसेऽपि प्रवृत्तः प्रसृतो यो मर्दनः कंदर्पस्तस्य रागेण तदासक्त्यान्था उत्पश्या अभिसारिका नायिकाविशेषास्तासां सार्थः समूहस्तेन संकुलेष्वाकीर्णेषु । उद्वेलेति । उद्वेलैः प्रवर्धितजलो यो रतिरसः शृङ्गारोऽगाधत्वसाम्यात्स एव सागरः समुद्रस्तस्य पूरः पल्लवस्तेन प्लावितेष्वाच्छादितेषु । सकलेति । सकलानां समग्राणां जीवलोकानां हृदयानि चित्तानि तेषामानन्ददा I - टिप्प० - 1 ‘पादाघातादशोको विलसति०' इत्यादिः कविसमयः । 2 दारुहरिद्रावृक्षाणामित्यर्थः । 3 झंकारसहस्रेण मुखरेषु शब्दायमानेष्वित्यर्थः कर्तव्यः । 4 पुष्परसः । 5 जीवितानि । 6 अविरतं ( कामिलक्ष्येषु) पततां कुसुमशरपत्रिणां कामदेवबाणानां यानि पत्राणि पक्षाः (पुंखाः) तेषां सूत्कारेण इत्यर्थो बोध्यः । 7 दिवसेपि प्रवृत्तो यो मदनराग इत्युचितम् । 8 वेलामुल्लङ्घ्य गच्छन् (उन्मर्यादः) । पाठा० - १ कालेयककुड्मलेषु. २ ताडनारणित. ३ रमणीमणि. ४ असकृन्मधु. ५ मधुकरी. ६ वल्ली. ७ उद्गम. ८ हृष्टमन्मथेषु मन्मथा. ९ रुधिरार्द्रमार्गेषु किंशुकसमाकीर्णेषु; रुधिरार्द्रमार्गेष्विव किंशुकसमाकीर्णमार्गेषु. १० पत्रबधिरी; पत्रफूत्कारबधिरी ११ प्रवृत्तान्तः १२ आनन्दकेषु. पूर्वभागः । महाश्वेतास्नानागमनवृत्तान्तः 297 Page #311 -------------------------------------------------------------------------- ________________ मासदिवसेष्वेकदाहमम्बया सह मधुमासविस्तारितशोभं प्रोत्फुल्लनवनलिनकुमुदकुवलयकह्लारमिदमच्छोदं सरः स्नातुमभ्यपतम् । अत्र च स्नानार्थमागतया भगवत्या पार्वत्या तटशिलातलेषु विलिखितानि सभृङ्गिरिटीनि पासुनिमग्नकृशपदमण्डलानुमितमुनिजनप्रणामप्रदक्षिणानि त्र्यम्बकप्रतिबिम्बकानि वन्दमाना, भ्रमरभर ग्नगर्भकेसरजर्जरकुसुमोपहाररम्योऽयं लतामण्डपः, परभृतनखकोटिपाटितकुड्मलनालविवरविगलितमधुनिकरधारः सुपुष्पितोऽयं सहकारतरुः, उन्मदमयूरकुलकलकलभीतभुजङ्गमुक्ततला शिशिरेयं चन्दनवीथिका, विकचकुसुमपुञ्जपातसूचितवनदेवताप्रेखोलनशोभनेयं लतादोला, बहलकुसुमरजःपटलमग्नकलहंसपदलेखमतिरमणीयमिदं तीरतरुतलमिति स्निग्धमनोहरतरोद्देशदर्शनलोभाक्षिप्तहृदया सह सखीजनेन व्यचरम् । *********** यकेषु प्रमोदजनकेषु । अन्वयस्तु प्रागेवोक्तः । अथाच्छोदं सरो विशेषयन्नाह - मध्विति । मधुमासेन विस्तारिता विस्तारता नीता शोभा कान्तिर्यस्मिंस्तत् । प्रोत्फुल्लेति । प्रोत्फुल्लानि विकसितानि नवानि प्रत्यग्राणि यानि नलिनानि कमलानि, कुमुदानि कैरवाणि, कुवलयान्युत्पलानि, कलारं सौगन्धिकम्, एतानि विद्यन्ते यस्मिंस्तत् । अत्रेति । अस्मिन्स्थले स्नानार्थमाप्लवार्थमागतया प्राप्तया भगवत्या माहात्म्यवत्या पार्वत्या गौर्या । तटेति । तटं तीरं तस्मिन् यानि शिलातलानि तेषु विलिखितान्यलेखितानि यानि त्र्यम्बकस्य महादेवस्य प्रतिबिम्बकानि प्रतिच्छायानि तानि वन्दमाना नमस्कुर्वाणा । कीदृशानि । भृङ्गिरिटिर्गणविशेषस्तेन सहितानि तत्सहवर्तमानानि । पास्विति । पांसौ सिकतासमूहे निमग्नानि बुडितानि कृशपदमण्डलान्यस्थूलचरणप्रतिबिम्बानि तैरनुमितेऽनुमानविषयीकृते मुनिजनानामृषिवर्गाणां प्रणामप्रदक्षिणे नमस्कृतिपरिभ्रमणक्रिये येषु तानि । इतीति । स्निग्धः सघनोऽतएव सच्छायो मनोहरतरोऽतिशयेन चित्तहारी य उद्देशो वनैकप्रदेशस्तस्य दर्शनमवलोकनं तस्य लोभस्तृष्णा तेनाक्षिप्तं हृदयं स्वान्तं यस्याः सैवंविधाहं सह सखीजनेन वयस्याभिः सम व्यचरमभ्रमम् । इतिशब्दार्थं व्याख्यानयन्नाह - भ्रमरेति । भ्रमरभरेण मधुकरसमुदायेन भुग्नो भगुरो गर्भो मध्यभागो यस्यैवंभूतः । तथा केसरैः किञल्कैर्जर्जरः कुसुमानां पुष्पाणामुपहारः समूहस्तेन रम्यो मनोहरः । अयमित्यस्य प्रत्येकमभिसंबन्धः लतेति । लता व्रततिस्तस्या मण्डपो जनाश्रयः । परेति । परभृताः कोकिलास्तेषां नखकोट्या नखराग्रेण पाटितानि विदारितानि कुड्मलानां मुकुलाना नालानि काण्डास्तेषां विवराणि छिद्राणि तेभ्यो विगलिता विद्रुता मधुनिकरधारा रससमूहलेखा यस्मिन्नेवंभूतः सुपुष्पितोऽयं सहकारतरुराम्रवृक्षः । उन्मदेति । उन्मदा मदोन्मत्ता ये मयूराः केकिनस्तेषां कुलानि सजातीयसमूहास्तेषां कलकलः कोलाहलस्तेन भीतास्त्रस्ता ये भुजङ्गा भोगिनस्तैर्मुक्तं त्यक्तं तलं यस्या एतादृशी शिशिरा शीतलेयं चन्दनवीथिका मलयजखण्डश्रेणी । विकचेति । विकचो विकस्वरो यः कुसुमानां पुष्पाणां पुञ्जः समूहस्तेन सूचितं ज्ञापितं यद्वनदेवतारण्याधिष्ठात्री देवी तस्याः प्रेखोलनमान्दोलनं तेन शोभना मनोज्ञा इयं लतादोला वल्लीप्रेखा । बहलेति । बहलानि बहूनि यानि कुसुमरजांसि तेषां पटलं वृन्दं तस्मिन्मग्नानि यानि कलहंसपदानि कादम्बचरणानि तेषां लेखा वीथी यस्मिन्नेवंभूतमतिरमणीयमतिमनोहरमिदं तीरतरुतलं तटवृक्षाधोभागः । - - - - - - - - -- टिप्प० -1 प्रतिमूर्तीः इत्युचितम् । 2 कुसुमपुञ्जस्य यः पातस्तेन सूचितं यत् वनदेवतानां प्रेखोलनम्, इत्यन्वयो योग्यः । - - - - - - - - पाठा० -१ अभ्युपगमम्; अभ्यागमम्. २ पात्रमय. ३ भग्न. ४ जर्जरकुसुमोपहार; शाखान्तरनर्तकजर्जरकुसुमोपहार. ५ कुड्मलविवर. ६ मधुधारः. ७ मयूरकलकल; सकलमयूरकलकलः. ८ चन्द्रनवनवीथिका. (298 IN कादम्बरी। शायाम.) ammmmmmway कथायाम-) Page #312 -------------------------------------------------------------------------- ________________ एकस्मिंश्च प्रदेशे झटिति वनानिलेनोपनीतम् निर्भरविकसितेऽपि काननेऽभिभूतान्यकुसुमपरिमलं विसर्पन्तम्, अतिसुरभितयानुलिम्पन्तमिव तर्पयन्तमिव पूरयन्तमिव घ्राणेन्द्रियम्, अहमहमिकया मधुकरकुलैरनुबध्यमानम्, अनाघ्रातपूर्वम्, अमानुषलोकोचितं कुसुमगन्धमभ्यजिघ्रम् । कुतोऽयमित्युपारूढकुतूहला चाहं मुकुलितलोचना तेन कुसुमगन्धेन मधुकरीवावकृष्यमाणा कौतुकतरलाभ्यधिकतरोपजातमणिनूपुरझङ्काराकृष्टसरःकलहंसानि कतिचित्पदानि गत्वा हरहुताशनेन्धनीकृतमदनशोकविधुरं वसन्तमिव तपस्यन्तम्, अखिलमण्डलप्राप्त्यर्थमीशानशिरःशशाङ्कमिव धृतव्रतम्, अयुग्मलोचनं वशीकर्तुकामं काममिव सनियमम्, अतितेजस्वितया प्रचलतडिल्लतापञ्जरमध्यगतमिव ग्रीष्मदिवसदिवसकरमण्ड - *********** . एकस्मिश्चेति । एकस्मिन्प्रदेशे कुसुमगन्धं पुष्पजनमनोहारिणमभ्यजिघ्रं घ्राणविषयतामनयम् । अथ च गन्धं विशेषयन्नाह - झटिति शीघ्र वनानिलेनारण्यपवनेनोपनीतमानीतम्, निर्भर नितान्तं विकसिते विकस्वरे कानने वनेऽपि सति । अभीति । अभिभूत आत्तगन्धोऽन्यकुसुमानां विजातीयसजातीयप्रसूनानां परिमलो येन स तम् । अस्मिन्नर्थे हेतु प्रदर्शयन्नाह - अतीति । अतिसुरभेर्भावस्तत्ता तया । एतस्मादुत्कृष्टः कोऽपि परिमलो नास्तीति भावः । पुनः किं कुर्वन्तम् । विसर्पन्तम् प्रसरन्तम् । अथ गन्धाधिक्यं प्रदर्शयन्नाह - व्राणेति । ध्राणेन्द्रियं विकूणिकाकरणमनुलिम्पन्तमिव दृढसंबन्धं कुर्वन्तमिव । तर्पयन्तमिव तृप्तिं जनयन्तमिव । पूरयन्तमिव परिपूर्णीकुर्वन्तमिव । अहमिति । मिथो यो गर्वः साहमहमिका तया मधुकरकुलैर्धमरसमूहैरनुबध्यमानमनुरुध्यमानम् । अनाध्रातपूर्वमनाजिध्रितपूर्वम् । अमानुष इति । अमानुषलोको देवलोकस्तस्योचितं योग्यम् । अन्वयस्तु प्रागेवोक्तः । कुत इति । कस्मात्प्रदेशादयं गन्ध इत्युपारूढं प्रादुर्भूत कुतूहलं कौतुकं यस्याः सैवंविधाहं स्नानार्थमागतं मुनिकुमारकं तापसपुत्रमपश्यमद्राक्षमित्यन्वयः । अथैतस्या विशेषणानि - मुकुलितेति । मुकुलिते कुड्मलिते लोचने नेत्रे यस्याः सा । तेनेति । तेन पूर्वोक्तेन कुसुमगन्धेन पुष्पामोदेन मधुकरीवदनवकृष्यमाणा बलात्कारेण नीयमाना । कौतुकेति । कौतुकेन कुतूहलेन तरला कम्पा । किं कृत्वा । कतिचित्कियन्ति पदानि गत्वा । अथ पदानि विशेषयन्नाह - अभ्यधिकेति । त्वरितगमनादभ्यधिकतरः पूर्वस्मादतिशायी य उपजात उत्पन्नो मणिनपुराणां रत्नखचिततुलाकोटीना झङ्कारः शब्दविशेषस्तेनाकृष्टा आकर्षिताः सरःकलहंसाः कासारकादम्बा यैस्तानि । इतो मुनिकुमारं विशेषयन्नाह - हरेति । हरेणेश्वरेण हुताशने नेत्रसमुत्थिते वह्नाविन्धनीकृतो यो मदनः कामस्तस्य शोकः खेदस्तेन विधुरं व्याकुलमतएव तपस्यन्तं तपस्यां कुर्वन्तं वसन्तमिव सुरभिमासमिव । इयं च सुरभिगन्धसाम्यादुत्प्रेक्षा । अखिलमिति । अखिलं समग्रं यन्मण्डलं भूमण्डलं षोडशकलात्मकं च तस्य प्राप्तिरुपलब्धिस्तदर्थं धृतं व्रतं नियमो येनैवंभूतमीशानशिरःशशाङ्कमिवेश्वरोत्तमाङ्गचन्द्रमिव । रूपातिशयसाम्येनाह - अयुग्मलोचनमीश्वर वशीकर्तुकाम सनियम काममिव । अतीति । अतितेजो विद्यते यस्यासावतितेजस्वी तस्या भावस्तत्ता तया प्रचला चञ्चला तडिल्लता विद्युल्लता तस्याः पञ्जरं पक्षिरक्षणस्थलं तस्य मध्यगतमिव । ग्रीष्मेति । ग्रीष्म - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पुष्पगन्धं जनमनोहारिणमित्यर्थः । 2 अभिभूताः अन्येषां कुसुमानां परिमलाः (अतिशोभना गन्धाः) येन तमित्यर्थः । 3 द्रवपदार्थवत् सर्वावयवेषु व्याप्नुवन्तमिवेत्याशयः। 4 अनुगम्यमानमित्यर्थः । 5 केषाञ्चनाऽर्धदग्धानां मते न पत्र श्लेषो येनार्थद्वयम् । शिरःशशाङ्कः कलामात्रः, अत एव स पूर्णमण्डलप्राप्त्यर्थं तपस्यतीवेत्युत्प्रेक्षा । एतन्मते मण्डलस्य एक एवार्थः प्रकृतः । पाठा० - १ अथैकस्मिन्. २ मधुकरावकृष्यमाणा; मधुकरीवाकृष्यमाणा. ३ नूपुरमणि. ४ हरनयनहुताशन. ५ विधुर. ६ प्रचलिततडिल्लतापञ्जरगतमिव. ७ दिवस. ८ दिनकर. (पुण्डरीकः पूर्वभागः । 299 Page #313 -------------------------------------------------------------------------- ________________ लोदरप्रविष्टमिव ज्र्ज्वलनज्वालाकलापमध्यस्थितमिव विभाव्यमानम्, उन्मिषन्त्या बहुलबहुललया दीपिकालोकपिङ्गलया देहप्रभया कपिलीकृतकाननं कनकमयमिव तं प्रदेशं कुर्वाणम्, रोचनारसलुलितप्रतिसरसमानसुंकुमारपिङ्गलजटम्, पुण्यपताकायमानया सरस्वतीसमागमोत्कण्ठाकृतचन्दनरेखयेव भस्मललाटिकया बालपुलिनरेखयेव गङ्गाप्रवाहमुद्धासमानम्, अनेकशापभृकुटिभवनतोरणेन भ्रूलताद्वयेन विराजितम्, अत्यायततया लोचनमयीं मालामिव ग्रथितामुद्धहन्तम्, सर्वहरिणैरिव दत्तलोचनशोभासंविभागम्, आयतोत्तुङ्गघ्राणवंशम्, अप्राप्तहृदयप्रवेशेन नवयौवनरागेणेव सर्वात्मना पाटलीकृताधररुचकम्, अनुद्भिन्नश्मेश्रुत्वादनासादितमधुकरावलीवलयपरिक्षेपविलासमिव बालकमलमाननं दधानम्, अनङ्गका ***** I दिवसस्य निदाघवासरस्य यो दिवसकरः सूर्यस्तस्य मण्डलं बिम्बं तस्योदरं मध्यभागस्तत्र प्रविष्टमिव । ज्वलनेति । ज्वलनस्य वह्नेर्यो ज्वालाकलापोऽर्चिषां समूहस्तस्य मध्यस्थितमिवान्तर्गतमिव विभाव्यमानं ज्ञायमानम् । देहेति । देहप्रभया शरीरकान्त्या कपिलीकृतं पिङ्गलीकृतं काननं वनं येन स तम् । अथ देहप्रभां विशेषयन्नाह - उन्मिषेति । उन्मिषन्त्या विकसन्त्या । बहुला च बहुला च बहुलबहुला तया । दीपिकेति । दीपिकायाः प्रसिद्धाया य आलोकः प्रकाशस्तद्वत्पिङ्गलया पिञ्जरया । पुनर्मुनिकुमारं विशेषयन्नाह - कनकेति । कनकमयमिव सुवर्णमयमिव तं प्रदेशं कुर्वाणां विदधानम् । रोचनेति । रोचना गोरोचना तस्या रसो द्रवस्तेन लुलित एकीभूतो यः प्रतिसरो हस्तसूत्रं तत्समना सदृशी सुकुमारा सुकोमला पिङ्गला पिञ्जरा च जटा सटा यस्य स तम् । भस्मेति । भस्म विभूतिस्तस्य ललाटिका पुण्ड्रविशेषस्तयोद्धासमानमुट्याबल्येन दीप्यमानम् । अतिश्वेतत्वसाम्येनाह - पुण्येति । पुण्यस्य धर्मस्य पताकायमानया वैजयन्तीवदाचरमाणया । रेखामधिकृत्याह - सरेति । सरस्वत्या भारत्या यः समागमः संगमस्तज्जनिता या उत्कण्टोत्कलिकाता कृ विहिता चन्दनरेखा मलयजरेखा तयेव । अन्यस्यागमने गृहधवलीकरणं सरस्वत्यास्तु मुखमेव निवासो निलयोऽतस्तदुपरि चन्दनलेखाकरणमिति भावः । कयेव कमित्याकाङ्क्षायामाह - बालेति । बालं सूक्ष्मं यत्पुलिनं जलोज्झितं तीरं तस्य रेखा लेखा तयेवोद्भाव्यमानं ज्ञाप्यमानं गङ्गाप्रवाहमिव स्वर्धुनीवेणीमिव । अनेकेति । अनेकानामसंख्यानां शापभृकुटीनां यद्भवनं गृहं तस्य तोरणेन बहिद्वरिणैवंविधेन भ्रूलताद्वयेन । विराजितं शोभितम् । एतेन सर्वेषां शापप्रदाने क्षम इति ध्वनितम् । अतीति । अत्यायततयातिविस्तीर्णतया लोचनमयीं नेत्रमयी ग्रथितां गुम्फितां मालामिव जपमालिकामिवोद्वहन्तम् । सर्वेति । सर्वहरिणैः समग्रमृगैरिव दत्तो लोचनशोभायाः संविभागो यस्मै तम् । आयत इति । आयतो विस्तीर्ण उत्तुङ्ग उच्चैस्तरो प्राणवंशो यस्य स तम् । अप्राप्त इति । अप्राप्तोऽनुपलब्धो हृदये चित् प्रवेशो येनैवंविधेन नवं प्रत्यग्रं यद्यौवनं तारुण्यं तस्य रागेणेव सर्वात्मना सर्वप्रकारेण पाटलीकृतः श्वेतरक्तीकृतोऽधर एव रुचकं बीजपूरो यस्य स तम) 'रुचकंतु बीज निष्के मोर्चले' इत्येनेकार्थ) यह अध एवं चक्रं ग्रत) 'उच स्वस्तिकद्रव्ये' इति विश्वः । पुनः किं कुर्वाणम् । दधानम् । किम् । आननं मुखम् । अन्विति । अनुद्भिन्नान्यप्रकटितानि यस्य तस्य भावस्तत्त्वं तस्मात् । अनासादीति । अनासादितोऽप्राप्तो मधुकरावल्या भृङ्गपङ्क्त्या वलयाकारेण यः परिक्षेपः परिवेष्टनं तल्लक्षणो विलासो येनैवंभूतं बालकमलमिव नवीननलिनमिव । अनङ्गेति । अनङ्गस्य कंदर्पस्य यत्कार्मुकं - 300 **** टिप्पo - 1 रक्त इत्यर्थः । 2 जटासु बहुत्वमुचितम् । 3 बहुमानसूचनाय गृहे चतुष्क ('चौक') रङ्गवल्लीत्यादिकरणं भवतीत्यर्थो बोध्यः । 4 धिक् । अनेके ये शापाः तेषां कृते भ्रुकुटि: भ्रूसंकोच एव भवनं तस्य तोरणेन ( द्वारवर्तिधनुराकारकाष्ठविशेषरूपेण) । 5 विसारित्वात् सजमिव । पाठा० - १ ज्वलनम्; ज्वलदनल; ज्वलज्ज्वलन. २ सुकुमारजटम्. ३ उद्भाव्यमानम्. ४ अनुद्भूत. ५ श्मश्रुराजित्वात्. ६ कार्मुकगुणेन. कादम्बरी | कथायाम् Page #314 -------------------------------------------------------------------------- ________________ मुकस्य गुणेनेव कुण्डलीकृतेन तपस्तटाककमलिनीमृणालेनेव यज्ञोपवीतेनालंकृतम्, एकेन सनालबकुलफलाकारं कमण्डलुमपरेण मकरकेतुविनाशशोकरुदिताया रतेरिव बाष्पजलबिन्दुभिरारचितां स्फटिकाक्षमालिकां करेण कलयन्तम्, अनेकविद्यापगासंगमावर्तनिभया नाभिमुद्रयोपशोभमानम्, अन्तर्ज्ञाननिराकृतस्य मोहान्धकारस्यापयानपदवीमिवाञ्जनरजोलेखाश्यामलां रोमराजिमुदरेण तनीयसीं बिभ्राणम्, आत्मतेजसा विजित्य सवितारं परिगृहीतेन परिवेषमण्डलेनेव मौजमेखलागुणेन परिक्षिप्तजघनभागम्, अभ्रगङ्गासोतोजलप्रक्षालितेन जरच्चकोरलोचनपुटपाटलकान्तिना मन्दारवल्कलेनोपपादिताम्बरप्रयोजनम्, अलंकारमिव ब्रह्मचर्यस्य, यौवनमिव धर्मस्य, विलासमिव सरस्वत्याः, स्वयंवरपतिमिव सर्वविद्यानाम्, संकेतस्थानमिव सर्वश्रुतीनाम्, निदाघकालमिव साषाढम्, हिमसमयकाननमिव स्फुटितप्रियङ्गु - *********** धनुस्तस्य कुण्डलीकृतेन गुणेनेव ज्ययेव । तप इति । तप एव तटाकः कासारस्तस्य कमलिनी मृणालिनी तस्या मृणालेनेव बिसेनैवभूतेन यज्ञोपवीतेन यज्ञसूत्रेणालंकृतं विभूषितम् । एकेनेति । एकेन करेण हस्तेन । सनालेति । सनालं यद्वकुलफलं केसरफलं तद्वदाकारो यस्यैवंभूतं कमण्डलुम् । अपरेण तदितरेण करेण । मकरेति । मकरकेतुः कंदर्पस्तस्य विनाशो नाशस्तस्माद्यः शोकस्तेन रुदितायाः कृताश्रुपाताया रतेर्मदनस्त्रियो बाष्पजलबिन्दुभिर्नेत्रवारिपृषद्भिरारचितामिव निर्मितामिव । स्फटिकाक्षमालिकां श्वेतजपमालिकां कलयन्तं दधानम् । अनेकेति । अनेकाश्च ता विद्याश्चानेकविद्याः । प्रसरणसाम्यात्ता एवापगा नद्यस्तासां संगमः संश्लेषस्तत्र य आवर्तः पयसा भ्रमस्तन्निभया तत्सदृशया नाभिमुद्रया तुन्दकूपिकयोपशोभमानं विराजमानम् । अन्तरिति । अन्तर्ज्ञानेन तत्त्वज्ञानेन निराकृतस्य दूरीकृतस्य मोहान्धकारस्याज्ञानतिमिरस्यापयानपदवीमिव निःसरणमार्गमिव । अञ्जनमिति । अञ्जनं कज्जलं तस्य रजः कणस्तस्य लेखा राजिस्तद्वच्छ्यामलां कृष्णामेतादृशीं तनीयसीमतितुच्छामुदरेण जठरेण रोमराजिं तनूरुहश्रेणिं बिभ्राणं दधानम् । आत्मेति । आत्मतेजसा स्वकीयकान्त्या सवितारं सूर्यं विजित्य पराभूय परिगृहीतेनात्तेन परिवेषमण्डलेनेव परिधिवलयेनेव । मौजेति । मुजस्तेजनस्तत्संबन्धिनी मौजी या मेखला रशना तस्या गुणेन दवरकेण परिक्षिप्तो वलयितो जघनभागोऽग्रप्रदेशो यस्य स तम् । अभ्रेति । अभ्रगङ्गा व्योमनदी तस्याः सोतः प्रवाहस्तस्य जलमम्भस्तेन प्रक्षालितेन धौतेन । जरदिति । जरञ्ज्यायान्यचकोरो विषसूचकस्तस्य लोचने नेत्रे तयोः पुटं तद्वत्पाटला चेतरक्ता कान्तिर्युतिर्यस्य स तेनैवंभूतेन मन्दारवल्कलेन देवतरुवल्केनोपपादितं विहितमम्बरप्रयोजनं वस्त्रकृत्यं येन स तम् । अलमिति । ब्रह्मचर्यस्य सर्वथा स्त्रीपरित्यागलक्षणस्यालंकारमिव भूषणमिव । धर्मेति । धर्मस्य सुकृतस्य यौवनमिव तारुण्यमिव । सर इति । सरस्वत्या भारत्या विलासमिव विभ्रममिव । स्वयमिति । सर्वविद्यानां समग्रकलानां स्वयंवरपतिर्भर्ता तमिव । एतेन सर्वाभिर्विद्याभिरयमागत्य वृतः, न त्वनेन विद्यार्थ प्रयत्नः कृतः इत्यावेदितम् । संकेतेति । सर्वश्रुतिनां समग्रशास्त्राणां संकेतस्य स्थान पदं तद्वदिव । अन्योऽपि जनः संकेतितं स्थानं गच्छति तद्वत्सर्वं श्रुतमेतस्मिन्समागतमिति भावः । निदाघेति । निदाघो ग्रीष्मकालस्तमिव । उभयोः सादृश्यं प्रदर्शयन्नाह - सेति । सहाषाढेन पलाशदण्डेन वर्तमानम् । 'पालाशो दण्ड आषाढः' इति कोशः । पक्ष आषाढः शुचिमासः । हिमेति । हिमसमयः शीतकालस्तस्मिन्काननं वनं तद्वदिव । उभयोः सादृश्यार्थमाह - स्फुटितेति । स्फुटिता प्रफुल्ला - टिप्प० - 1 वृद्धः, नेत्रारुण्यातिशयार्थम् । - - -- - - - - - - - - - - - - - - - - - - - - - -- - - - पाठा० - १ स्फटिफगुलिकाक्ष. २ अपनयन. ३ तनीयसी; तनीयसीम्. ४ आगृहीतेन. ५ सर्वश्रुतानाम्. (पुण्डरीकः । पूर्वभागः । 1301 Page #315 -------------------------------------------------------------------------- ________________ मञ्जरीगौरम्, मधुमासमिव कुसुमधवलतिलकभूतिविभूषितमुखम्, आत्मानुरूपेण सवयसापरेण देवतार्चनकुसुमान्युच्चिन्वता तापसकुमारेणानुगतम्, अतिमनोहरम्, स्नानार्थमागतं मुनिकुमारकमपश्यम् । तेन च कर्णावतंसीकृतां वसन्तदर्शनानन्दितायाः स्मितप्रभामिव वनश्रियः, मलयमारुंतागमनार्थलाजाञ्जलिमिव मधुमासस्य, यौवनलीलामिव कुसुमलक्ष्म्याः , सुरतपरिश्रमस्वेदजलकणजालकावलीमिव रतेः, ध्वजचिह्नचामरपिच्छिकामिव मनोभवगजस्य, मधुकरकामुकाभिसारिकाम्, कृत्तिकातारास्तबकानुकारिणीम्, अमृतबिन्दुनिस्यन्दिनीम्, अदृष्टपूर्वां कुसुममञ्जरीमद्राक्षम् । 'अस्याः परिभूतान्यकुसुमामोदो नन्वयं परिमलः' इति मनसा निश्चित्य तं तपोधनयुवानमीक्षमाणाहमचिन्तयम् - 'अहो रूपातिशयनिष्पादनोपकरणकोशस्याक्षीणता विधातुः, यत्त्रिं - *********** या प्रियङ्गमञ्जरी फलिनीवल्लरी तद्वद्गौरं शुभ्रवर्णम् । पक्षे प्रियङ्गमञ्जर्या गौरम् । मध्विति । मधुमासो वसन्तमासस्तमिव । उभयोः साम्यमाह - कुसुमेति । कुसुमं पुष्पं तद्वद्धवला शुभ्रा या तिलकार्थं भूतिभस्म तया विभूषितमलंकृतं मुखमाननं यस्य स तम् । पक्षे कुसुमैर्धवला शुभ्रा ये तिलका वृक्षविशेषास्तेषां भूत्या समृद्ध्या विभूषितं मुखमग्रभागो यस्येति बहुव्रीहिः । वसन्तप्रारम्भ एव तिलकवृक्षाणां पुष्पोद्गमसंभवादिति भावः । अन्वयस्तु प्रागेवोक्तः । अथ प्रकारान्तरेण तमेव मुनिकुमारकं विशेषयन्नाह - आत्मेति । आत्मरूपेणात्मसदृशेन सवयसा मित्रेण परेण भिनेन देवतानामर्चनं पूजनं तदर्थं कुसुमानि पुष्पाण्युच्चिन्वतावचयं कुर्वता एवंविधेन तापसकुमारेण परिणाजकबालकेनानुगतं सहितम् । अतीति । अतिमनोहरमतिरुचिरम् । स्नानेनेति । स्नानार्थमाप्लवनार्थमागतं प्राप्तम् । तेनेति । चकारः पुनरर्थकः । तेन कुमारेण कर्णावतंसीकृतां श्रवणशेखरीकृतां कुसुममञ्जरीमद्राक्षमपश्यमित्यन्वयः । कामिव । वसन्तस्य दर्शनेनावलोकनेनानन्दितायाः प्रमुदिताया वनश्रियः काननलक्ष्म्याः स्मितं हास्यं तस्य प्रभामिव । मलयेति । मधुमासस्य वसन्तमासस्य मलयमारुतो मलयानिलस्तस्य आगमनार्थमागमनिमित्तं लाजाञ्जलिमिवाक्षताञ्जलिमिव । यौवनेति । कुसुमलक्ष्म्याः पुष्पश्रियो यौवनलीलामिव तारुण्यक्रीडामिव । सुरतेति । रतेः कामस्त्रियः सुरतं मैथुनं तस्य परिश्रमः खेदस्तस्माद्यत्स्वेदजलं तस्य कणाः पृषतास्तेषां जालक समूहस्तस्यावलीमिव पङ्क्तिमिव । ध्वजेति । मनोभवगजस्य मदनहस्तिनो ध्वजो वैजयन्ती तस्य चिह्नभूता चामरपिच्छिका तामिव । मधुकरेति । मधुकरा भ्रमरास्त एव कामुकाः कामाभिलाषिणस्तेषामभिसारिकां कामिजनानयनकर्तीम्, संकेतितस्थलगामिनी वा । कृत्तिकेति । कृत्तिकाग्निदेवता तस्यास्ताराणां स्तबको गुच्छकस्तस्यानुकारिणीम् । तत्सदृशीमित्यर्थः । अत्र केशानामतिकृष्णत्वेन मञ्जाश्च शुक्लत्वेनैतदुपमानद्वयमिति भावः । अमृतेति । अमृतं पीयूषं तस्य बिन्दवः कणास्तेषां निस्यन्दिनी साविणीम् । अदृष्टेति । अदृष्टपूर्वामनवलोकितपूर्वाम् । अन्वयस्तु प्रागेवोक्तः । । अस्याः परीति । ननु वितर्के । अस्या मञ्जर्या अयं परिमलः । परीति । परिभूतोऽभिभूतोऽन्यकुसुमानां स्वेतरपुष्पाणामामोदः परिमलो येन सः इति मनसा स्वान्तेन निश्चित्य निर्णीय तं तपोधनयुवानमृषिकुमारकमीक्षमाणा वीक्षमाणाहमचिन्तयमध्यायम् । अहो इति । अहो इत्याश्चर्ये । विधातुब्रह्मणो रूपातिशयस्य सौन्दर्यातिशयस्य निष्पादने निर्माणे य उपकरणकोश उपस्करभाण्डागारस्तस्याक्षीणताऽक्षयत्वम् । 'कौशलम्' इति पाठे तु निष्पादने यदुपकरणं व्यापारविशेषस्तत्र कौशलं दक्षता तस्याक्षीणतातादवस्थ्यमिति भावः । अतिशयपदव्यङ्ग्यमाह - यत्रिभुवनेति । यदिति हेत्वर्थे । पाठा० - १ कुपित. २ आगमनार्थम्. ३ कौशलस्य. ४ यदत्रिभुवना. (302 कादम्बरी। कथायाम् Page #316 -------------------------------------------------------------------------- ________________ भुवनाद्भुतरूपसंभारं भगवन्तं कुसुमायुधमुत्पाद्य तदाकारातिरिक्तरूपातिशयराशिरयमपरो मुनिर्मायामयो मकरकेतुरुत्पादितः । मन्ये च सकलजगन्नयनान्दकरं शशिबिम्ब विरचयता लक्ष्मीलीलावासभवनानि कमलानि सृजता ब्रह्मणैतदाननाकारकरणकौशल्याभ्यास एव कृतः, अन्यथा किमिव हि सदृशवस्तुविरचनायां कारणम् । अलीकं चेदं यथा किल सकलाः कलाः कलावतो बहुलपक्षे क्षीयमाणस्य सुषुम्नानाम्ना रश्मिना रविरापिबतीति, ताः खल्वस्य गभस्तयः समस्ता वपुरिदमाविशन्तीति । कुतोऽन्यथा रूपापहारिणि क्लेशबहुले तपसि वर्तमानस्येदं लावण्यम्' इति चिन्तयन्तीमेव मामविचारितगुणदोषविशेषो रूपैकपक्षपाती नवयौवन - *********** त्रिभुवनात्त्रिविष्टपादद्भुतोऽतिशायी रूपसंभारः सौन्दर्यसमूहो यस्मिन्नेवंभूतं भगवन्तं कुसुमायुधं कंदर्पमुत्पाद्य निर्माय तदाकारात्कुसुमायुधाकृतेरतिरिक्तोऽधिको रूपाशितयः सौन्दर्योत्कर्षस्तस्य राशिः समूहो मायामयो मोहरूपो मकरकेतुरयमपरो मुनिरुत्पादितः । उत्तरोत्तरमतिशयवत्त्वादयं मकरकेतुस्तदपेक्षयाप्युत्कृष्ट इति भावः । उत्तरोत्तरमतिशयमेव भङ्ग्यन्तरेण निरूपयन्नाह - मन्ये इति । अहमिति मन्ये जाने । इतिशब्दार्थमाह - सकलेति । सकलं समग्रं यज्जगत्तस्य नयनानन्दकरं प्रमोदजनकमेतादृशं शशिबिम्बं चन्द्रमण्डलं विरचयता रचनां कुर्वता । लक्ष्म्याः पद्माया लीलावासभवनानि क्रीडानिवासस्थानान्येवंभूतानि कमलानि सरोजानि सृजता कुर्वता ब्रह्मणा हिरण्यगर्भेणैतस्य मुनिकुमारकस्याननं मुखं तस्याकार आकृतिस्तस्य करणं निर्माणं तत्र कौशलं चातुर्यं तदर्थमभ्यासः पौनःपुन्येन प्रवृत्तिरेव कृतो विहितः । एतत्समर्थयन्नाह - अन्यथेति । अन्यथोक्तवैपरीत्ये, सदृशवस्तुविरचनायां तुल्यपदार्थोत्पादने किमिव कारणं नियामकम् । न किमपीत्यर्थः । अतो ज्ञायतेऽभ्यासार्थमेतन्निर्माणमिति भावः । अलीकं चेति । अग्रे इति वक्ष्यमाणमिदमलीकं मिथ्या । इतिशब्दार्थमाह - यथेति । किलेत्याप्तवाक्ये । बहुलपक्षे कृष्णपक्षे क्षीयमाणस्य कृशतां प्राप्यमाणस्य कलावतश्चन्द्रस्य सकलाः समग्राः कलाः षोडशांशा रविः सूर्यः सुषुम्नानाम्ना रश्मिना नाडीविशेषेणापिबति पानं करोति । तर्हि किं सत्यमित्याशयेनाह - इतीति । ताः समग्रा गभस्तयः कान्तयोऽस्य मुनेरिदं वपुः शरीरमाविशन्ति प्रविशन्ति । तथा च 'यदेकस्मानिर्गमं तत्स्वाश्रयसदृशमुपयाति' इति न्यायेन बहुलपक्षेणोपक्षीयसाणाश्चन्द्रमसो निर्गता गभस्तयस्तपःक्लेशातिशयक्षीणे मुनौ संक्रान्ता इत्यर्थः । उक्तवैपरीत्ये दूषणमाह - कुत इति । अन्यथोक्तान्यथात्वे रूपं.सौन्दर्यं तस्यापहारिणि निराकारिणि । क्लेशः परिश्रमस्तेन बहुले दृढे । एवंविधे तपसि तपस्यायां वर्तमानस्य स्थितस्येदं लावण्यं सर्वोत्कृष्टं सौन्दर्यं कुतः स्यात् । कारणव्यतिरेकेण कार्यानुदयादिति भावः । इति चिन्तयन्तीमेवेति । ध्यायन्तीमेव मां कुसुमायुधोऽनङ्गो मधुकरी भ्रमरी कुसुमसमयमद इव वसन्तकालमद इवोच्छसितैनिःश्वसितैः सह परवशां अथ च कुसुमायुधं विशेषयन्नाह - अवीति । अविचारितोऽनालोचितो गुणदोषयोर्विशेषो बलाबलं येन स तथा । रूपेति । रूपस्य सौन्दर्यस्यैकोऽद्वितीयः पक्षपाती तत्पुष्टिकारी । नवेति । नवं प्रत्यग्रं यद्यौवनं तत्र सुलभः सुप्रापः । तारुण्य एव तदुत्पत्तिसंभवात् । पुनः किं कुर्वन्ती । दक्षिणेनापसव्येन चक्षुषा नेत्रेण - ------ टिप्प० - 1 पूर्वत्र अलीकत्वाऽसंबन्धेऽपि तत्संबन्धवर्णनात्, इह प्रवेशस्याऽसंबन्धेति च संबन्धवर्णनादतिशयोक्तिः । 2 कुसुमासवमद इवेत्यपि पाठः । कुसुमासवमदः पुष्पमधुपानजनिता मत्तता इति तदर्थः । 3 उच्छ्वसितैः सह परवशामकरोदिति योजनायाम् उच्छ्रसितानामपि परवशत्वं प्रतीयते, न च तथा । तस्मात् 'परवशामकरोत् अत्रैव वाक्यसमाप्तिः । 'उच्छ्रसितैः सह विस्मृतनिमेषेण इत्यादि पृथग् वाक्यम् । उच्छसितैः सह अर्थात् यथा निःश्वासाः प्रवृत्ताः तैः सह निमेषोऽपि नेत्रयोनिमीलनमपि मया विस्मृतं तदवस्थया पश्यन्तीति तदर्थः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाटा० - १ रूपराशिः. २ मुनिमायामयः. ३ प्रजापतिना प्रथममेतत्. ४ विरचनायाः. ५ अमुष्य. ६ बिचिन्तयन्तीम्. तददर्शने महाश्वेताया अवस्था - पूर्वभागः। 303 Page #317 -------------------------------------------------------------------------- ________________ सुलभः कुसुनायुधः कुसुमसमयमद इव मधुकरी परवशामकरोदुच्छसितैः सह । विस्मृतनिमेषेण किंचिदामुकुलितपक्ष्मणा जिगिततरलतरतारशारोदरेण दक्षिणेन चक्षुषा सस्पृहमापिबन्तीव, किमपि याचमानेव, ‘त्वदायत्तास्मि' इति वदन्तीव, अभिमुखं हृदयमर्पयन्तीव, सर्वात्मनानुप्रविशन्तीव, तन्मयतामिव गन्तुमीहमाना, 'मनोभवाभिभूतां त्रायस्व' इति शरणमिवोपयान्ती, 'देही हृदयेऽवकाशम्' इत्यर्थितामिव दर्शयन्ती, 'हाहा, किमिदमसांप्रतमतिहेपणमकुलकुमारीजनोचितमिदं मया प्रस्तुतम्' इति जानानाप्यप्रभवन्ती करणानाम्, स्तम्भितेव, लिखितेव, उत्कीर्णेव, संयतेव, मूर्छितेव, केनापि विधृतेव, निस्पन्दसकलावयवा तत्कालाविभूतेनावष्टम्भेन, अकथितशिक्षितेनानाख्येयेन, स्वसवेद्येन केवलम्, न विभाव्यते किं तद्रूपसंपदा, किं मनसा, किं मनसिजेन, किमभिनवयौवनेन, किमनुरागेणेवोपदिश्यमानं, *********** सस्पृहं साभिलाषं यथा स्यात्तथापिबन्त्यत्यादरेण विलोकयन्तीव । अत्यादरेण विलोकनं पानमुच्यते । अथ चक्षुर्विलोकयन्नाह - विस्मृतेति । विस्मृतो विस्मृति प्राप्तो निमेषो निमीलनं यस्य तत्तथा तेन । किंचिदिति । किंचिदीषदामुकुलितमाकुड्मलितं पक्ष्म नेत्ररोम यस्मिंस्तत्तथा तेन । जिाितेति । जिहिता कुटिलिता । तरलतरातिचञ्चला तारा कनीनिका यस्मिन्नेवभूतं शारं कल्मषमुदरं मध्यभागो यस्येति चेति द्वन्द्वः । अथ च प्रकारान्तरेण तामेव विशेषयन्नाह - किमपीति । किमप्यनिर्वचनीयस्वरूपं याचमानेव प्रार्थ्यमानेव । याचनाकरितादृशाकारवत्त्वात्तदुपमानम् । त्वदिति । त्वदायत्ता त्वदधीनाहमस्मीति वदन्तीव ब्रुवन्तीव । एतेनावलोकने सातिशयत्वं सूचितम् । अभीति । अभिमुखं संमुखं हृदयं स्वान्तमर्पयन्तीव वितरणं कुर्वन्तीव । मुनीनां व्यामोहजननादिति भावः । सर्वेति । सर्वात्मना सर्वप्रकारेणानुप्रविशन्तीवानुप्रवेशं कुर्वन्तीव । तन्मयेति । तन्मयतां तद्रूपतां गन्तुं प्राप्तुमीहमानेव स्पृहमानेव । मनोभवेनेति । मनोभवेन कंदर्पणाभिभूतां पराभूतां त्रायस्व पाहीति हेतोः शरणं त्राणमुपयान्तीव गच्छन्तीव । देहीति । हृदये चित्तेऽवकाशं प्रवेशं देहीत्यथितां याचकता दर्शयन्तीवावलोकनं कारयन्तीव । विरोधिना विवेकेनाप्यभिवय॑मानाह - हाहेति । हाहा इति खेदे । किमिदमसांप्रतमयुक्तमतिहेपणमतिलज्जाकरमकुलोद्भवो यो कुमारीजनस्तस्योचितं योग्यम् । कुलवत्यास्तु सर्वथा नोचितमिति भावः । इदमेतादृशं कर्म मया प्रस्तुतं प्रारब्धमिति जानानाप्येतादृशज्ञानवत्यपि करणानामिन्द्रियाणामवरोधनेऽप्रभवन्त्यसमर्था । व्यामोहं प्रतिपादयन्नाह - स्तम्भितेव जडीकृतेव, लिखितेव चित्रितेव, उत्कीर्णेवोत्कोरितेव, संयतेव संदानितेव, मूर्छितेव मूर्छा प्राप्तेव, केनाप्यनिर्वचनीयस्वरूपेण विधृतेव गृहीतेव तत्कालाविर्भूतेन तदात्वप्रादुर्भूतेनावष्टम्भेन व्यामोहातिशयेन निस्पन्दा निश्चेष्टाः सकलावयवा यस्याः सैवंभूता सती कथंकथमिति महता कष्टेन तं मुनिकुमारकमतिचिरं बहुकालं व्यालोकयमद्राक्षमिति दूरेणान्वयः । प्रस्तुतस्य दोषरूपतया तन्निदानं दुर्जेयमिति निरूपयन्नाह - अकथितेति । यदनुचितं प्रस्तुतं कर्म तत्केन निमित्तेनोपदिश्यमानमुपदेशविषयीक्रियमाणमिति न विभाव्यते न निश्चीयत इत्यन्वयः । अनिश्चयं प्रदर्शयबाह - किं तद्रूपेति । किमिति वितर्के । तस्य मुनिकुमारस्य रूपसंपदा सौन्दर्यसमृध्या । किं मनसा चित्तेन । किं वा मनसिजेन कंदर्पण । किं वाभिनवयौवनेन प्रत्यग्रतारुण्येन । किं वानुरागेणान्तर्गतप्रीत्या । किमन्येनैव पूर्वोक्तभिन्नेनैव केनापि प्रकारेण । किमिति सर्वत्र वितर्कार्थः । तर्हि स्वसंवेद्येन स्वमात्रसाक्षिणा अनुभवेनैव विभाव्यतामित्यत आह - स्वसंवेद्येनेति । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 प्रकाशयन्तीव । 2 तत्कालाविभूतेन अकथितशिक्षितेन अनाख्येयेन (आकस्मिकतया किंस्वरूप इति निर्वक्तुमशक्येन) अत एव स्वसंवेद्येन अवष्टम्भेन सात्त्विकविकारविशेषेण केवलं तममचिरं व्यलोकयमिति योजना । एवं 'किमनुरागेणेवोपदिश्यमानम्' इति टीकाकारधृतः पाठोपि एतत्पक्षे परिवर्तते । किन्तु - 'उपदिश्यमाना' इति पाठान्तरः स्वीक्रियते । 'न विभाव्यते वक्ष्यमाणानां मध्ये केन उपदिश्यमाना अहं तमतिचिरं व्यलोकयम् इति तद्योजना। पाठा० - १ कुसुमासवगदः. २ किमयम्. ३ विधृतेव. ४ कान्त्या. ५ उपदिश्यमाना. lllllllll 304 कादम्बरी। - कथायाम्-) Page #318 -------------------------------------------------------------------------- ________________ किमन्येनैव वा केनापि प्रकारेण, अहं न जानामि कथंकथमिति तमतिचिरं व्यलोकयम् । उत्क्षिप्य नीयमानेव तत्समीपमिन्द्रियैः, पुरस्तादाकृष्यमाणेव हृदयेन, पृष्ठतः प्रेर्यमाणेव पुष्पधन्वना कथमपि मुक्तप्रयत्नमात्मानमधारयम् । अनन्तरं च मेऽन्तर्मदनेनावकाशमिव दातुमाहितसंताना निरीयुः श्वासमरुतः । साभिलाष हृदयमाख्यातुकाममिव स्फुरितमुखमभूत्कुचयुगलम् । स्वेदैलवलेखाक्षालितेवागलल्लज्जा । मकरध्वजनिशितशरनिपातत्रस्तेवाकम्पत गात्रयष्टिः । तद्रूपातिशयं द्रष्टुमिव कुतूहलादालिङ्गनलालसेभ्योऽङ्गेभ्यो निरगाद्रोमाञ्चजालकम् । अशेषतः स्वेदाम्भसा धौतश्चरणयुगलादिव हृदयमविशद्रागः । आसीच्च मम मनसि - *********** स्वानुभवेत्यर्थः । तस्मिन्ननुभवेऽप्रमाणत्वं निराकरोति - अकथितेति । न कथितं शिक्षितं वा यस्मिन्नेवंभूतेन । कथिते शिक्षिते ह्यर्थेऽसंभावना विपरीतभावना चोत्पद्यते । तर्हि स्वसंवेद्येन स्वमात्रसाक्षिणा शब्दजन्य एवानुभवो भवतु, तथा संभावनात्मकेन तेन कथं निर्णय इत्यत आह - अनाख्यायेति । स्वमात्रसाक्षिणा तेनाप्यहं न जानामीति संबन्धः । अन्वयस्तु प्रागेवोक्तः । मुनिकुमारदर्शनानन्तरमुत्कण्ठाधृत्यादीनि वक्तुं प्रथममुत्कण्ठातिशयमाह - उत्क्षिप्येति । तदुक्तम् - 'दर्शनस्पर्शनालापैर्व्यक्तास्ते सहकारिणः' इति । इन्द्रियैः करणैरुत्क्षिप्योत्पाट्य तत्समीपं मुनिसविधं नीयमाना प्राप्यमाणेव । हृदयेन स्वान्तेन पुरस्तादग्र आकृष्यमाणेव । पुष्पधन्वना मकरध्वजेन पृष्ठतः प्रेर्यमाणा नोद्यमानेव । धृतिमाह - कथमपीति । एतादृश्यहं कथमपि महता क्लेशेन मुक्तप्रयत्न यथा स्यात्तथात्मानमपि प्राणिनमप्यधारयं धारितवती । निरोधश्च धृतिकार्यम् । चिन्तामाह - अनन्तरमिति । चिन्तावशात्कुत्रचिदेकान्ते सचिन्तस्तिष्ठति । एवं सति मे ममान्तरभ्यन्तरे मदनेनावकाशं दातुमाहितसंतानरचितपरम्परा श्वासमरुतः श्वसितवायवो निरीयुनिष्कासिताः । तथा च श्वासावष्टम्भेन संकोचात्तन्निर्गमे सावकाशमिति भावः । अभिलाषमाह - सेति । साभिलाषमभिलाषायुक्तं हृदयं मन आख्यातुकाममिव वक्तुकाममिव कुचयुगलं स्तनयुग्मं स्फुरितमुखं स्यन्दिताननमभूद्धभूव । स्वेदेति । स्वेदः श्रमोत्थं वारि तस्य लवलेखाभिः क्षालितेव धौतेव लज्जा त्रपागलदसवत् । अत्र मुखस्फुरणमभिलाषकार्य स्वेदः श्रमकार्यं लज्जाच्युतिश्चोन्मादकार्यमिति यथाक्रम ज्ञेयम् । त्रासमाह - मकरेति । मकरध्वजस्य कंदर्पस्य ये निशितास्तीक्ष्णाः शरा बाणास्तेषां निकरः समूहस्तस्य निपातः पतनं तेन त्रस्तेव भीतेव गात्रयष्टिदेहयष्टिरकम्पत चकम्पे । कम्पस्त्रासकार्यम् । एवमग्रेऽपि रोमाञ्चनिर्गमसात्त्विकभावं प्रतिपादयन्नाह - तद्रूपेति । तस्य मुने रूपातिशयं सौन्दर्योत्कर्षं द्रष्टुमिव वीक्षितुमिव कुतूहलात्कौतुकादालिङ्गनमुपगृहनं तत्र लालसेभ्यः सस्पृहेभ्योऽङ्गेभ्यो हस्तपादादिभ्यो रोमाञ्चजालकं रोमहर्षणसमूहो निरगानिर्गतं बभूव । स्थायिभावं प्रदर्शयन्नाह - अशेषत इति । स्वेदाम्भसा श्रमोत्थवारिणा चरणयुगलादमियुग्मादशेषतः सामस्त्येन धौतः क्षालितो रागो रतिरारुण्यं च हृदयमिवाविशत्प्रवेशमकरोत् । आसीच्चेति । मे मम - टिप्प० - 1 मे अन्तः (अभ्यन्तरे) अवकाशं दातुम् (तस्य मुनिकुमारस्य निवासस्थानं संपादयितु) मदनेन आहितसंतानाः कृतविस्ताराः श्वासमारुता निर्जग्मुः । एकस्य निर्गमे अन्यस्यावकाशम् । - - - - - - - - - पाठा० - १ अप्यात्मानम् आत्मानमपि. २ तन्मदनेन; ह्यन्तर्मदनेन. ३ स्वेदसलिललव. तदर्शने महाश्वेताया अवस्था पूर्वभागः । 305 Page #319 -------------------------------------------------------------------------- ________________ शान्तात्मनि दूरीकृतसुरतव्यतिकरेऽस्मिञ्जने मां निक्षिपता किमिदमनार्येणासदृशमारब्धं मनसिजेन । एवं च नामातिमूढ़ हृदयमङ्गनाजनस्य, यदनुरागविषययोग्यतामपि विचारयितुं नालम् । क्वेदमतिभास्वर धाम तेजसा च, क्व च प्राकृतजनाभिनन्दितानि मन्मथपरस्पन्दितानि । नियतमयं मामेवं मकरलाञ्छनेन विडम्ब्यमानामुपहसति मनसा । चित्रं चेदं यदहमेवभवगच्छन्त्यपि न शक्नोम्यात्मनो विकारमुपसंहर्तुम् । अन्या अपि कन्यकास्त्रपां विहाय स्वयमुपयाताः पतीन्, अन्या अप्यनेन दुर्विनीतेन मन्मथेनोन्मत्तता नीता नार्यः, न पुनरहमेका यथा । कथमनेन क्षणेनाकारमात्रालोकनाकुलीभूतमेवमस्वतन्त्रतामुपैत्यन्तःकरणम् । कालो गुणाश्च दुर्निवारतामारोपयन्ति मदनस्य सर्वथा । यावदेव सचेतनास्मि, यावदेव च न परिस्फुटमनेन विभाव्यते मे मदनदुश्चेष्टितलाघवमेतत्, तावदेवास्मात्प्रदेशा - *********** मनसि मच्चित्त इदमासीद्धभूव । तदेव प्रकटयन्नाह -शान्तात्मनीति । अनार्येण दुष्टेन मनसिजेन कंदर्पण शान्तात्मनि दूरीकृतो दूरोज्झितः सुरतव्यतिकरो मैथुनवृत्तान्तो येनैवंभूते जनेऽस्मिन्मां निक्षिपता निक्षेपं कुर्वतासदृशमसाधुजनोचितमारब्धं प्रारब्धं पूर्वोक्तप्रकारेण । नामेति कोमलामन्त्रणे । अङ्गनाजनस्य स्त्रीजनस्यातिमूढमतिमुग्धं हृदयं चित्तम् । यदिति । हेत्वर्थे । अनुरागविषययोग्यतामप्यस्मिन्स्थलेऽनुरागो युक्तः, अस्मिन्स्थले न युक्तः, इति विषयविभागमपि विचारयितुं नालं समर्थम् । वैराग्यतपःसिद्धियुक्ते मुनिजने प्रमदाजनानुस्मरणप्रयासो वृथेत्यर्थः । अतो हेतोरस्मात्प्रदेशादपसर्पणं दूरीभवनं श्रेय इति प्रत्येकवाक्यपरिसमाप्तौ बोद्धव्यम् । क्वेति महदन्तरे । तेजसां तपसा चातिभास्वरमतिशोभनं क्वेदं धाम गृहम् । प्राकृतेति । प्राकृतजनैर्नीचजनैरभिनन्दितान्यनुमोदितानि मन्मथपराणि मनोभवप्रतिपाद्यानि स्पन्दितानि चेष्टितानि क्व । नियतमिति । नियतं निश्चितं मकरलाञ्छनेन कंदर्पणैवं पूर्वोक्तप्रकारेण विडम्बमानां कदर्यमानां मामयं मुनिर्मनसा चित्तेनोपहसत्युपहासं करोति । चित्रमिति । इदमग्रे वक्ष्यमाणं चित्रमाश्चर्यम् । तदेव प्रदर्शयन्नाह - यदिति । यद्यस्मात्कारणादहमेवं पूर्वोक्तप्रकारेणावगच्छन्त्यपि जानन्त्यप्यात्मनः स्वस्य विकारं विकृतिमुपसंहर्तुं दूरीकर्तुं न शक्नोमि न समर्था भवामि । पुनर्विचारणान्तरमाह - अन्या इति । मत्सहचरीषु मध्ये याः काश्चनातिकामुकास्त्रपां लज्जां विहाय त्यक्त्वा स्वयमात्मनान्यान्पतीनुपयाताः स्वयमेवोपगताः । यास्त नोपयातास्तासां मध्येऽन्या मव्यतिरिक्ता नार्योऽनेन दर्विनीतेन शकलेन मन्मथेन कंदर्पणोन्मत्तता सविकारता तथा न नीता यथाहमेका । अनेनेति । अनेन क्षणेन मुनिकुमारदर्शनाविर्भूतमदनावेशलक्षणेनोन्मत्तता प्रापिता । तदेव स्पष्टीकुर्वन्नाह - आकारेति । आकारमात्रस्याकृतिमात्रस्यालोकनं वीक्षणं तेनाकुलीभूतं व्याकुलीकृतमन्तःकरणमन्तरिन्द्रियमेवं पूर्वोक्तप्रकारेणास्वतन्त्रता पराधीनतामुपैति प्राप्नोति । काल इति । कालो विवेककालो गुणाः कुलीनत्वादयश्च मदनस्य सर्वथा सर्वप्रकारेण दुःखेन निवारयितुं शक्यो दुर्निवारस्तस्य भावस्तत्ता तामारोपयन्ति व्यवस्थापयन्ति । अतो हेतोरपीति पूर्ववत् । पुनर्विचारणान्तरमाह - यावदिति । यावदेव यावत्कालमहं सचेतना चैतन्ययुक्तास्मि । यावदेवेति पूर्ववत् । मे ममैतन्मददुश्चेष्टितलाघवमनेन मुनिना विभाव्यते न निश्चीयते । तावदेवेति । तावत्कालमस्मात्प्रदेशादपस - - - - - - - - - - - - - - - टिप्प० - 1 'मन्मथपरिस्पन्दितानि इत्यपि पाठः । कामचेष्टितानि इति तदर्थः । 2 एतत्सर्वं प्रत्यक्षतो वर्तमानमित्यर्थ उचितः । 3 कथंपदं सर्वथा परित्यजति टीकाकृत् । तस्मात् - "अनेन क्षणेन आकारमात्रालोकनव्याकुलीभूतम् (अर्थात् क्षणमात्रं दर्शनमात्रेण विह्वलीभूतम्) अन्तःकरणं कथं पराधीनतामुपैति इति चित्रम्" इति पूर्वानुषङ्गेण व्याख्यातव्यम् । 4 वसन्तादिः, गुणाः सौन्दर्यादयश्चमदनस्य अप्रतीकार्यतामारोपयन्ति इति व्याख्यानमुचितम् । - - - - - - - - - - - - पाठा० -१ परिस्पन्दितानि. २ अपहाय. (306 कादम्बरी। कथायाम Page #320 -------------------------------------------------------------------------- ________________ दपसर्पणं श्रेयः । कदाचिदनभिमतस्मरविकारदर्शनकुपितोऽयं शापाभिज्ञां करोति माम् । 'अदूरकोपा हि मुनिजनप्रकृतिः' इत्यवधार्यापसर्पणाभिलाषिण्यहमभवम् । अशेषजनपूजनीया चेयं जातिरितिकृत्वा तद्वदनाकृष्टदृष्टिप्रसरम्, अचलितपक्ष्ममालम्, अदृष्टभूतलम्, उल्लसितकर्णपल्लवोन्मुक्तकपोलमण्डलम्, आलोलालकलतालसत्कुसुमावतंसम्, अंसदेशदोलायितमणिकुण्डलमस्मै प्रणाममकरवम् । अथ कृतप्रणामायामैपि दुर्लङ्घ्यशासनतया मैनोभुवः, मदजननतया च मधुमासस्य, अतिरमणीयतया च तस्य प्रदेशस्य, अविनयबहुलतया चाभिनवयौवनस्य, चञ्चलप्रकृतितया चेन्द्रियाणाम्, दुर्निवारतया च विषयाभिलाषाणाम्, चपलतया च मनोवृत्तेः, तथा - *********** र्पणं दूरीभवनं श्रेयः कल्याणकृदिति भावः । अन्यथा बाधकमाह - कदाचिदिति । संभावनायामनभिमतोऽनभीष्टो यः स्मरविकारो मनोभवविकृतिस्तस्य दर्शनेनावलोकनेन कुपितः कोपं प्राप्तो मां शापस्याभिज्ञामाद्यज्ञानविषयम् । 'अभिज्ञा ज्ञानमाद्यं स्यात्' इति कोशः । करोति प्रणयति मुनीनां कोपः कुत इत्याशयेनाह - अदूरेति । हि निश्चितम् । मुनिजनप्रकृतिस्तापसलोकस्वभावोऽदूरे समीपे कोपो यस्या एवंविधा स्यादित्यवधार्य निश्चित्याहमपसर्पणेऽभिलाषः स्पृहा यस्या एवंभूताभवं जज्ञे । अशेषेति । अशेषैः समग्रैर्जनैः पूजनीयार्च - नीयेयं जातिः । न तु कोपनीयेति भावः । इतिकृत्वास्मै प्रणामं नमस्कारमकरवमसृजम् । अथ नमस्कारं विशेषयन्नाह - तद्वदति । तद्वदनान्मुनिमुखादाकृष्ट आकर्षितो दृष्टिप्रसरो यस्मिंस्तत् । क्रियाविशेषणं वा । अनेन भावातिशयो द्योतितः । एवमग्रेऽपि ज्ञेयम् । अचलितेति । अचलिताऽकम्पिता पक्ष्मणां नेत्ररोम्णां माला पङ्क्तिर्यस्मिन् । अदृष्टेति । अदृष्टमवीक्षितं भूतलं पृथ्वीतलं यस्मिन् । उल्लसितेति । उल्लेसिता उल्लासं प्राप्ताः कर्णपल्लवाः श्रवणकिसलयानि तैरुन्मुक्तं त्यक्तं कपोलमण्डलं यस्मिन् । आलोलेति । आलोला चपलालकलता केशराजिस्तस्यां लसत्कुसुमावतंसो यस्मिन् । अंसेति । अंसदेशे स्कन्धप्रदेशे दोलायितं मणिकुण्डलं यस्मिन् । अन्वयस्तु प्रागेवोक्तः । अथेति । मद्विकारेणापहृतं दूरीकृतं धैर्यं यस्यैवंभूतं मुनिकुमारकं कृतप्रणामायामपि तस्यां तमपि पवनः प्रदीपमिवानङ्गः कंदर्पस्तरलतां चञ्चलतामनयत् । तत्र हेतुमाह - दुर्लङ्घ्येति । मनोभुवो मदनस्य दुर्लङ्घयं दुर्लङ्घनीयं शासनमाज्ञा यस्य तस्य भावस्तत्ता तया । मधुमासस्य वसन्तमासस्य मदजननतया मदोत्पादकत्वेन च । तस्य पूर्वोक्तस्य प्रदेशस्यातिरमणीयतयातिमनोहरतया । अभीति । अभिनवं नूतनं ययौवनं तारुण्यं तस्याविनयः शठता तद्बहुलतया तद्बाहुल्यतया । इन्द्रियेति । इन्द्रियाणां करणानां चञ्चलप्रकृतितया लोलस्वभावतया । विषयेति । विषया इन्द्रियार्थास्तेषामभिलाषा अध्यवसायास्तेषां दुर्निवारतया दुःखेन दूरीकर्तुं शक्यतया । मनोवृत्तेश्चित्तवृत्तेश्चपलतया चञ्चलतया । तस्य तस्य वस्तुनस्तत्तत्पदार्थस्य तथा भवति भ - टिप्प० - 1 शापस्य परिचितां अर्थात् अभिसंपातदुःखभोगिनीं मां करोति । यद्ययं कुपितः स्यात्तर्हिशापः कीदृशो भवति इति मां स्फुटमनुभावयेदित्याशयः । 2 ‘ईषदुल्लसित' इत्येव ग्रन्थशय्यानुकूलः पाठः । 3 'कृतप्रणामायां मयि' इति पाठं विना ग्रन्थ एव न संगच्छते । मयि कृतप्रणामायां सत्यां कामस्य दुर्लङ्मयशासनत्वादिभिर्हेतुभिः पवनः प्रदीपमिव अनङ्गः तमपि ( मुनिकुमारमपि ) तरलतामनयत् । इति च तद्योजना । 4 इदमप्यसंगतत्वादधिकमेव । पाटा० - १ ईषदुल्लसित २ मयि ३ भगवतो मनोभुवः. ( महाश्वेतादर्शने पुण्डरीकावस्था पूर्वभागः । 307 Page #321 -------------------------------------------------------------------------- ________________ भवितव्यतया च तस्य तस्य वस्तुनः, किं बहुना मम मन्दभाग्यदौरात्म्यादस्य चेदृशस्य क्लेशस्य विहितत्वात्तमपि मद्विकारापहृतधैर्यं प्रदीपमिव पवनस्तरलतामनयदनङ्गः । तदा तस्याप्यभिनवगतमदनं प्रत्युद्गच्छन्निव रोमोद्गमः प्रादुरभवत् । मत्सकाशमभिप्रस्थितस्य मनसो मार्गमिवोपदिशद्भिः पुरः प्रवृत्तं श्वासैः । वेर्षैथुगृहीता व्रतभङ्गभीतेवार्कम्पत करतलगताक्षमाली । द्वितीयेव कर्णावसक्तकुसुममञ्जरी कपोलतलासङ्गिनी समदृश्यत स्वेदसलिलसीकरजालिका । मँद्दर्शनप्रीतिविस्तारितस्य चोत्तानतारकस्य पुण्डरीकमयमिव तमुद्देशमुपदर्शयतो लोचनयुगलस्य विसर्पिभिरंशुसंतानैर्यदृच्छयाच्छोदसलिलमपहाय विकचकुवलयवनैरिव गगनतलसमुत्पतितैररुध्यन्त दश दिशः । तया तु तस्यातिप्रकटया विकृत्या द्विगुणीकृतमदनावेशा तत्क्षणमहमवर्णनयोग्यां कामप्यवस्थामन्वभवम् । इदं च मनस्यकरवम् - ‘अनेकसुरतसमागमलास्यलीलोपदेशोपाध्यायो मकरकेतुरेव - *********** वितव्यतया तथाभाव्यतया । चकारः सर्वत्र समुच्चयार्थः । किमिति । किं बहूक्तेन । मम मन्दभाग्यं क्षीणभागधेयं तस्य दौरात्म्यादृष्टत्वेनास्य॑ मुनेरीदृशस्य क्लेशस्य विहितत्वात्कृतत्वात् । अन्वयस्तु प्रागेवोक्तः । तदेति । तस्मिन्काले तस्यापि मुनिकुमारस्याप्यभिनवो नूतन आगतो यो मदनः कंदर्पस्तं प्रत्युद्गच्छन्निव संमुखं व्रजन्निव रोमोद्गमो रोमाञ्चः प्रादुरभवत्प्रकटीबभूव । मदिति । मत्सकाशं मत्समीपमभिप्रस्थितस्य संमुखं चलितस्य मनसो हृदयस्य मार्गं पन्थानमुपदिशद्भिरिवोपदर्शयद्भिरिव श्वासैः श्वसितैः पुरोऽग्रे प्रवृत्तमग्रे प्रस्थितम् । वेपथुरिति । व्रतस्य नियमस्य भङ्गः खण्डनं तेन भीतेव त्रस्तैव वेपथुः कम्पस्तेन गृहीता करतलगता हस्तगताक्षमाला जपमालाकम्पताचलत । द्वितीयेति । कपोलतलासगिनी गल्लात्परप्रदेशाश्लेषिणी स्वेदसलिलस्य श्रमजलस्य सीकराः कणास्तेषां जालिका समदृश्यत समालोक्यत । द्वितीयान्या कर्णावक्तकुसुममञ्जरीव श्रवणसंलग्नपुष्पवल्लरीव । एते सात्त्विका भावाः प्रदर्शिताः । मद्दर्शनेति । मद्दर्शनमालोकनं तस्माट्प्रीतिः स्नेहस्तेन विस्तारितस्य प्रसारितस्य । उत्तानेति । उत्तानोर्ध्वमुखा तारका कनीनिका यस्य स तथा तस्य तमुद्देशं तं प्रदेशं पुण्डरीकमयं सिताम्भोजनिर्मितमिवोपदर्शयतोऽन्येभ्यो ज्ञापयतो लोचनयुगलस्य नेत्रयुग्मस्य विसर्पिभिः प्रसरणशीलैरंशुसंतानैः किरणसमूहैर्दश दिशोऽरुध्यन्त रुद्धाः । कमलसादृश्यादाह - यदृच्छयेति । यदृच्छया स्वेच्छयाच्छोदनाम्नः सरसः सलिलं पानीयमपहाय त्यक्त्वा गगनतलसमुत्पतितैराकाशतलोत्पातिभिर्विकचकुवलयवनैरिव विकस्वरोत्पलखण्डैरिव । एतेन नयनयोश्चाञ्चल्यमितस्ततोऽवलोकनं च ध्वनितम् । तु पुनरर्थकः । तस्य मुनिकुमारस्यातिप्रकटयातिस्पष्टया तया विकृत्या द्विगुणीकृतो द्विगुणतां नीतो मदनस्यावेशो यस्या एवंभूताहं तत्क्षणं तत्कालमवर्णनयोग्यामकथनीयां कामप्यवस्थां दशामन्वभवमनुभूतवती । इदमिति । मनसि चित्त इदं चाकरवमप्रैणयम् । अचिन्तयमित्यर्थः । अनेकेति । अनेकेऽसंख्याः सुरतं मैथुनं तस्य समागमः संबन्धः स एव लास्यलीला नृत्यक्रीडा तस्यामुपदेशाः शिक्षारूपास्तत्रोपाध्यायः पाठक एवंविधो मकरकेतुरेव कंदर्प एव विलासान्नेत्रविकारानुपदिशत्युपदेशं करोति । उक्तवैपरीत्ये बाधक - टिप्प० -1 मुनिर्हि तत्पदेन निर्दिश्यते न इदंपदेन । तस्मात् - अस्य ईदृशस्य मम तपश्चरणात्मकवलेशस्य विधिविहितत्वात् इत्यर्थः । 2 एका पारिजातमञ्जरी कर्णे कृतैव । अत एव सेयं स्वेदसीकरजालिकारूपा द्वितीया इति उठप्रेक्षाशयः । 3 प्राणयमिति स्यात् । पाठा० - १ दर्शनापहृत. २ आगतं. ३ प्रत्युद्गतवान्. ४ वेपथुना. ५ अकम्पत गात्रयष्टिः. ६ माला च. ७ मदनप्रीति. 308 कादम्बरी | कथायाम् Page #322 -------------------------------------------------------------------------- ________________ विलासानुपदिशति, अन्यथा विविधरसासङ्गललितेष्वीदृशेषु व्यतिकरेष्वप्रविष्टबुद्धेरस्य जनस्य कुत इयमेन भ्यस्ताकृती रतिरसनिःस्यन्दमिव क्षरन्ती, अमृतमिव वर्षन्ती, मदमुकुलितेव, खेदालसेव, निद्राजडेव, आनन्दभरमन्थरतरैत्तारसंचारिणी, अनिभृतभ्रूलतोल्लासिनी दृष्टिः । कुतश्चेदमतिनैपुण्यम्, यच्चक्षुषैवानक्षरमेवमन्तर्गतो हृदयाभिलाषः कथ्यते' । प्राप्तप्रसरा चोपसृत्य तं द्वितीयमस्य सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छम् - 'भगवान्किमभिधानः । कस्य वायं तपोधनस्य युवा । किंनाम्नश्च तरोरियमवतंसीकृता कुसुममञ्जरी । जनयति हि मे मनसि महत्कौतुकमस्याः समुत्सर्पन्नसाधारणसौरभोऽयमनाघ्रातपूर्वो गन्धः' इति । स तु मामीषद्विहस्याब्रवीत् - 'बाले, किमनेन पृष्टेन प्रयोजनम् । अथ कौतुकमावेदयामि । श्रूयताम् - अस्ति त्रिभुवनप्रख्यातकीर्तिरत्युदारतया सुरासुरसिद्धवृन्दवन्दितचरणयुगलो महा - माह - अन्यथेति । विविधा अनेके ये रसाः शृङ्गारादयस्तेषामासङ्गः संश्लेषस्तेन ललितेषु मनोहरेष्वीदृशेषु व्यतिकरेषु संबन्धेष्व प्रविष्टा प्रवेशमप्राप्ता बुद्धिः प्रतिभा यस्य स तथा तस्यैवंभूतस्यास्य मुनिजनस्येयं दृष्टिः कुतः स्यात् । अथ च दृष्टिं विशिनष्टि - अनेति । अनभ्यस्तापरिचिताकृतिराकारो यया सा तथा । रतिरसः शृङ्गाररसस्तस्य निःस्यन्दं सारं क्षरन्तीव सवन्तीव । अमृतं पीयूषं वर्षन्तीव वृष्टिं कुर्वन्तीव । मदो मुन्मोहसंभेदस्तेन मुकुलितेव कुड्मलितेव । खेदः श्रमस्तेनालसेव मन्थरेव । निद्रा प्रमीला तया जडेव स्तम्भिते । आनन्देति । आनन्दस्य प्रमोदस्य यो भरस्तेन मन्थरालसा, एवंविधा तरन्ती तारा कनीनिका यस्मिन्नेतादृशः संचारो विद्यते यस्याः सा तथा । अनीति । अनिभृता चञ्चला या भ्रूलता तस्या उल्लासो विद्यते यस्याः सा तथा । कुत इति । इदमतिनैपुण्यमतिशयेन दक्षत्वं कुतः स्यात् । तदेव व्यनक्ति - यदिति । यद्यस्मात्कारणादन्तर्गतो हृदयाभिलाषश्चित्ताभिप्रायोऽनक्षरं यथा स्यात्तथा चक्षुषैव नेत्रेणैव कथ्यत उच्यते । प्राप्त इति । तादृशविचारणया कुमारस्य सविकारं हृदयमिति निश्चित्य प्राप्तः प्रसरोऽवकाशो यया सैवं विधेवोपसृत्य समीपं समागत्यास्य मुनिकुमारस्य तं द्वितीयं सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छमवोचम् । किं तदित्याह - भगवानिति । किमभिधान भगवान् । कस्य तपोधनस्यायं युवा । इयं किंनाम्नः किमभिधानस्य तरोर्वृक्षस्य कुसुममञ्जर्यवतंसीकृतोत्तंसीकृता । अस्या मञ्जर्याः समुत्सर्पन्प्रसरन्नसाधारणं सौरभं यस्मिन्नेवंविधोऽनाघ्रातपूर्वो नासिकयाऽगृहीतपूर्वोऽयं गन्धो मे मम मनसि चित्ते महत्कौतुकं महदाश्चर्यं जनयति निष्पादयति । स त्विति । स मां प्रतीषद्विहस्य किंचित्स्मितं कृत्वाब्रवीदवोचत् । बाले इति । हे बाले हे कुमारिके, अनेन पृष्टेन किं प्रयोजनं कोऽर्थः । अथेति । चेद्यद्यर्थे । कौतुकमाश्चर्यं तदावेदयामि कथयामि श्रूयतामाकर्ण्यताम् । *********** अस्तीति । नामेति कोमलामन्त्रणे । दिव्यलोकनिवासी स्वर्गलोकवसनशीलः श्वेतकेतुर्महामुनिरस्ति । त्रिभुवनेति । त्रिभुवने त्रिविष्टपे प्रख्याता विख्याता कीर्तिर्यशो यस्य स तथा । अत्युदारेति । अत्युदारतयात्युकृष्टतया । सुरेति । सुरा देवाः, असुराः दैत्याः, सिद्धा योगमन्त्रादिसामर्थ्ययुक्तास्तेषां वृन्दं - (पुण्डरीकजन्मवृत्तान्तः) टिप्प० - 1 आनन्दभरमन्थरतरत्तारं यथा स्यात्तथा संचरति इति आनन्द सञ्चारिणी, इति स्पष्टोर्थः । 2 'भगवन् !' इति संबोधनमेवात्र मधुरमिति विदन्तु विदः । 3 अत्रापि (कस्य चाऽयं तपोधनश्युवा) इति पाठो रमणीयः । अयं तपोधनयुवा कस्य पुत्र इति तदर्थः । पाठा० - १ कुत इवेयम्. २ अनभ्यस्ता जाता. ३ तरलतर. ४ लतालासिनी. ५ वा. ६ तपोधनयुवा. ७ अनेनावतंसी. ८ खलु सकलत्रिभुवनप्रख्यात. पूर्वभागः । 309 Page #323 -------------------------------------------------------------------------- ________________ मुनिर्दिव्यलोकनिवासी घेतकेतु म । तस्य च भगवतः सुरलोकसुन्दरीहृदयानन्दकरम्, अशेषत्रिभुवनसुन्दरम्, अतिशयितनलकूबरं रूपमासीत् । स कदाचिद्देवतार्चनकमलान्युद्धर्तुमैरावतमदजलबिन्दुबद्धचन्द्रकशतखचितजलां हरहसितसितसोतसं मन्दाकिनीमवततार । अवतरन्तं च तं तदा कमलवनेषु संततसंनिहिता विकचसहसपत्रपुण्डरीकोपविष्टा देवी लक्ष्मीर्ददर्श । तस्यास्तु तमवलोकयन्त्याः प्रेममदैमुकुलितेनानन्दबाष्पभरतरङ्गतरलतारेण लोचनयुगलेन रूपमास्वादयन्त्या जृम्भिकारम्भमन्थरमुखविन्यस्तहस्तपल्लवाया मन्मथविकृतं मन आसीत् । आलोकनमात्रेण च समासादितसुरतसमागमसुखायास्तस्मिन्नेवासनीकृते पुण्डरीके कृतार्थतासीत् । तस्माच्च कुमारः समुदपादि । ततस्तमुत्सङ्ग आदाय सा 'भगवन् गृहाण तवायमात्मजः' इत्युक्त्वा तस्मै श्वेतकेतवे ददौ । असावपि बालजनो - *********** समूहस्तेन वन्दितं नमस्कृतं चरणयुगलं पादयुग्मं यस्य स तथा । तस्येति । तस्य चेतकेतोर्भगवतः । सुरेति । सुरलोकस्य याः सुन्दर्यः स्त्रियस्तासां हृदयानि चित्तानि तेषामानन्दकर प्रमोदोत्पादकम् । अशेषेति । अशेष यत्रिभुवनं त्रिविष्टपं तस्मात्सुन्दरं हृद्यम् । अतीति । नलकूबरात्कुबेरपुत्रादतिशयितमतिशयितनलकूबरम् । 'सुतोऽस्य नलकूबरः' इति कोशः । 'क्वचिदमाद्यन्तस्य परत्वम् इति नलकूबरस्य परप्रयोगः । अतिशयितोऽतिक्रान्तो नलकूबरो येनेति बहुव्रीहिर्वा । नलकूबररूपापेक्षयात्युत्कृष्टरूपमित्यर्थः । एवंविधं रूपं सौन्दर्यमासीदभूत् । स इति । कदाचित्कस्मिंश्चित्समये स श्वेतकेतुर्देवतानामर्चनं पूजनं तदर्थं कमलानि नलिनान्युद्धर्तुमुत्पाटयितुं मन्दाकिनी स्वधुनीमवततारावतीर्णवान् । अथ मन्दाकिनी विशेषयन्नाह - ऐरावतेति । ऐरावतो हस्तिमल्लस्तस्य मदजलं दानवारि तस्य बिन्दवः पृषतास्तैर्बद्धं यच्चन्द्रकशतं मेचकशतं तेन खचितं व्याप्तं जलं यस्यां सा तथा ताम् । हरेति । हरः शंभुस्तस्य हसितं स्मितं तद्वत्सितं शुभ्रं सोतः हो यस्याः सा ताम । अवेति । तदा तस्मिन्कालेऽवतरन्तमम्बरादागच्छन्तं श्वेतकेतं मनिं कमलवनेष नलिनखण्डेष संततं निरन्तर संनिहिता समीपवर्तिनी विकचानि विकस्वराणि सहसपत्राणि यस्मिन्नेवभतं पण्डरीक सिताम्भोज तत्रोपविष्टासीना लक्ष्मीर्देवी ददर्श दृष्टवती । तस्या इति । तस्या लक्ष्म्यास्तं मुनिमवलोकयन्त्या ईक्षणं कुर्वन्त्याः । तु पुनरर्थकः । मन्मथेन कंदर्पण विकृतं सविकारं मन मासीदभत । अथ लक्ष्मी विशेषयन्नाह - प्रेमेति । प्रेममदः प्रीतिमदस्तेन मकलितेन कड़मलितेन । आनन्देति । आनन्देन प्रमोदेन यो बाष्पभरो हर्षनेत्राम्बसमहः स एव तरङगः कल्लोलस्तेन तरला कम्पमाना तारा कनीनिका यस्मिन्नेवंविधेन लोचनयगलेन नेत्रयग्मेन रूपं सौन्दर्यमास्वादयन्त्याः पिबन्त्याः । जम्भिकेति । जम्भिका जम्भणं तस्या आरम्भ आरम्भणं तेन यन्मन्थरं मुखं तस्मिन्विन्यस्तः स्थापितो हस्तपल्लवो यया सा तस्याः । आलोकनेति । आलोकनमात्रेण केवलं निरीक्षणेनैव समासादितं प्राप्तं सुरतसमागमसुखं मैथुनसंगमसातं यया सा तस्याः । तस्मिन्नेवासनीकृते विष्टरतां नीते पुण्डरीके कृतार्थता सफलतासीत् । तस्मात्पुण्डरीकात्कुमारः समुदपाद्युत्पन्नः । तत इति । ततः कुमारोत्पत्तेरनन्तरं तं कुमारकमुत्सङ्गे क्रोड आदाय गृहीत्वा सा लक्ष्मीः हे भगवन् हे स्वामिन्, गृहाणायं तवात्मजस्त्वदङ्गज इत्युक्त्वा प्रतिपाद्य तस्मै श्वेतकेतवे तं कुमारकं ददौ दत्तवती । असावपि श्वेतकेतुरपि बालजनोचिताः शिशुजनयोग्याः सर्वाः क्रियाः प्रसवनादिकाः - टिप्प० - 1 विविधवर्णं जाज्वल्यमानं वर्तुलाकारं चिह्नवृन्दम् (तैलादिबिन्दोः पतने यद्धि जलस्तरोपरि भवति) 1 2 रमणस्य सफलता बीजपातो जात इत्याशयः । 3 सप्तमीपाठे श्रवणयोर्विसन्धिता प्रतीयत इति 'उत्सङ्गेनादाय' इति गन्थोचितः । 4 तत्तुं जातमेव, अत एव नामकर्मादिका इत्युचितम् । पाठा०.१ सुरासुरलोक. २ संनिहिता. ३ प्रेमममन्द. ४ उत्सङ्गे. (310 कादम्बरी । कथायाम् Page #324 -------------------------------------------------------------------------- ________________ चिताः सर्वाः क्रियाः कृत्वा तस्य पुण्डरीकसंभवतया तदेव पुण्डरीक इति नाम चक्रे । प्रतिपादितव्रतं च तमागृहीतसकलविद्याकलापमकार्षीत् । सोऽयम् । इयं च सुरासुरैर्मथ्यमानात्क्षीरसागरादुद्गतः पारिजातनामा पादपस्तस्य मञ्जरी । यथा चैषा व्रतविरुद्धमस्य श्रवणसंसर्गमासादितवती तदपि कथयामि । अद्य चतुर्दशीति भगवन्तमम्बिकापतिं कैलासगत मुपासितुममरलोकान्मया सह नन्दनवनसमीपेनायमनुसरनिर्गत्य साक्षान्मधुमासलक्ष्मीदत्तललितहस्तावलम्बया बकुलमालिकामेखलया कुसुमपल्लवग्रथिताभिराजानुलम्बिनीभिः कण्ठमालिकाभिर्निरन्तराच्छादितविग्रहया नवचूताङ्कुरकर्णपूरया पुष्पासवपानमत्तया वनदेवतया पारिजातकुसुममञ्जरीमिमामादाय प्रणम्याभिहितः - ‘भगवन्, सकलत्रिभुवनदर्शनाभिरामायास्तवाकृतेरस्याः सदृशोऽयमलंकारः क्रियताम् । इयमवतंसविलासदुर्ललितारोप्यतां श्रवणशिखरम् । व्रजतु सफलतां जन्म पारिजातस्य' इत्येवमभिदधानां चायमात्मरूपस्तुतिवादत्रपावनमितलोचनस्तामनादृत्यैव गन्तुं प्रवृत्तः । मया तु तामनुयान्तीमालोक्य 'को - *********** कृत्वा विधाय । तस्येति । तस्य कुमारस्य पुण्डरीकं सिताम्भोजं तस्मात्संभव उत्पत्तिस्तस्य भावस्तत्ता तया तस्माद्धेतोरेव निश्चयेन पुण्डरीक इति नाम चक्रेऽभिधानं विदधे । कियत्कालानन्तरं स एव श्वेतकेतुः प्रतिपादितव्रतं दत्तदीक्षमागृहीतसकलविद्याकलापं च तं कुमारमकार्षीत्कृतवान् । स कुमारोऽयं पुरोवर्ती दृश्यमानः । इयं चेति । सुरासुरैर्मथ्यमानाद्विलोड्यमानाक्षीरसागराहुग्धाम्बुधेः पारिजातनामा पादपो वृक्ष उद्गतो निर्गतस्तस्येयं कर्णावतंसीकृता मञ्जरी । यथेति । येन प्रकारेणैषा मञ्जरी व्रतविरुद्ध नियमविरोध्यस्य श्रवणसंसर्ग कर्णसंबन्धमासादितवती प्राप्तवती तदपि वृत्तं कथयामि निवेदयामि । अयेति । चतुर्दशी शिवतिथिरिति हेतोरमरलोकात्स्वर्गलोकात्कैलासगतं रजताद्रिस्थितं भगवन्तं माहात्म्यवन्तमम्बिकापतिं गौरीनाथमुपासितुं सेवितुं मया सह मत्सार्धम् । प्राप्तौ द्योत्यायां 'क्रोशेन क्रोशं वानुवाकोऽधीतः' इतिवत् । नन्दनवनस्य समीपं समीपेन वानुसरन्गच्छनिर्गत्य स्वस्थानादहिरागत्य साक्षाद्वनदेवतयारण्याधिष्ठात्र्येमां मञ्जरीमादायगृहीत्वा प्रणम्य नमस्कृत्याभिहित उक्तः । अथ वनदेवतां विशिनष्टि - मध्विति । मधुमासो वसन्तमासस्तस्य लक्ष्मीः श्रीस्तया दत्तो ललितो मनोहरो हस्तस्तस्यावलम्बो यस्याः सा तया । बकुलेति । बकुलः केसरस्तस्य मालिका सक्सैव मेखला रशना यस्याः सा तया । कुसुमेति । कुसुमैश्च पल्लवैश्च ग्रथिताभिर्गुम्फिताभिराजानु आनलकीलं यावल्लम्बिनीभिः कण्ठमालिकाभिर्निगरणसग्भिनिरन्तरमाच्छादित आवृतो विग्रहो यस्याः सा तया । नवेति । नवः प्रत्यग्रो यश्चताङ्कुर आम्राङ्कुरस्तस्य कर्णपूरो यस्याः सा तया । पुष्पेति । पुष्पाणां कुसुमानां य आसवो माधवकस्तस्य पानं तेन मत्तया क्षीबया । किमभिहित इत्याशयेनाह - भगवन्निति । हे भगवन् स्वामिन, प्रसीद प्रसनो भव । सकलेति । सकलं समग्रं यत्रिभुवनं तस्य दर्शनेऽवलोकनेऽभिरामाया बन्धुराया अस्यास्तवाकृतेराकारस्य सदृशोऽनुरूपोऽलंकारः क्रियतां विधीयताम् । इयमिति । इयमवतंसविलास एव दुरधिगम दुर्ललितं क्रीडितं यस्याः सैवंविधा मञ्जरी श्रवणशिखरं कर्णप्रान्तमारोप्यतां स्थाप्यताम् । पारिजातस्य जन्मोत्पत्तिः सफलतां सार्थकतां व्रजतु गच्छतु । इत्येवं पूर्वोक्तप्रकारेणाभिदधानां कथयन्तीम् । अयमिति । पुण्डरीकः । आत्मेति । आत्मनो यद्रूपं सौन्दर्यं तस्य स्तुतिवादः प्रशंसनं तस्माद्या त्रपा लज्जा तयावनमिते नम्रीकृते लोचने नेत्रे येनैवंभूतस्तामनादृत्यैवानादरं कृत्वैव गन्तुं प्रवृत्तो गमनायोयतोऽभूत् । मयेति । तां वनदेवतामनुयान्तीमनुव्रजन्तीमालोक्य निरीक्ष्य हे सखे हे मित्र, अस्या - टिप्प० - 1 आगृहीतः शिक्षितः सकलविद्याकलापो येन तमित्यर्थः । 2 नित्यैव 'अपवर्गे तृतीया । 3 अवतंसविलासेन दुर्ललिता (धृष्टा, "सिर चढी' इति भाषा)। - - - - - - - - - - - - पाठा० -१ पारिजातकुसुम. २ नन्दनवन. ३ सुसदृशः, तु सदृशः. ४ प्रसादीक्रियताम्. ५ शिखरे. ६ विलोचन. (पुण्डरीकजन्मवृत्तान्तः) पूर्वभागः। Page #325 -------------------------------------------------------------------------- ________________ दोषः सखे, क्रियतामस्याः प्रणयपरिग्रहः' इत्यभिधाय बलादियमनिच्छतोऽप्यस्य कर्णपूरीकृता । तदेतत्कात्स्येन योऽयम्, यस्य चायम्, या चेयम्, यथा चास्य श्रवणशिखरं समारूढा तत्सर्वमावेदितम् । इत्युक्तवति तस्मिन्स तपोधनयुवा किंचिदुपदर्शितस्मितो मामवादीत् - 'अयि कुतूहलिनि, किमनेन प्रश्नायासेन । यदि रुचितसुरभिपरिमला गृह्यतामियम्' इत्युक्त्वा समुपसृत्यात्मीयाच्छ्रवणादपनीय कलैरलिकुलक्वणितैः प्रारब्धरतिसमागमप्रार्थनामिव मदीये श्रवणपुटे तामकरोत् । मम तु तत्करतलस्पर्शलोभेन तत्क्षणमपरमिव पारिजातकुसुममवतंसस्थाने पुलकमासीत् । स च मत्कपोलस्पर्शसुखेन तरलीकृताङ्गुलिजालकात्करतलादक्षमाला लज्जया सह गलितामपि नाज्ञासीत् । अथाह तामसंप्राप्तामेव भूतलमक्षमालां गृहीत्वा सलीलं तद्भुजपाशसंदानितकण्ठग्रहसुखमिवानुभवन्ती दर्शितापूर्वहारलतालीला कण्ठाभरणतामनयम् । इत्थंभूते च व्यतिकरे छत्रग्राहिणी मामवोचत् - 'भर्तृदारिके, स्नाता देवी । प्रत्यासीदति - *********** मञ्जाः को दोषः । प्रणयेन स्नेहेन परिग्रहः स्वीकारः क्रियतां विधीयतामिति मयाभिधायोक्त्वानिच्छतोऽप्यवाञ्छतोऽपीयं अस्य कर्णपूरीकृता श्रवणाभरणीकृता । तदिति । तस्माद्धेतोस्तदेतत्पृच्छाविषयीकृतं कात्स्न्येन साकल्येन मया सर्वमावेदितं कथितम् । तदेतत्किमित्यभिप्रायेणाह - योऽयमित्यादि । योऽयं कुमारः, येयं मञ्जरी, यथा येन प्रकारेणास्य श्रवणशिखरं कर्णप्रान्तं समारूढा प्राप्ता । इतीति । तस्मिन्मुनावित्युक्तवति कथितवति सति । स इति । स पुण्डरीकस्तपोधनयुवा किंचिदीषदुपदर्शितं स्मितमदृष्टरदं हास्यं येनैवंभूतो मामवादीप्रत्यवोचत् । अयीति संबोधने । अयि कुतूहलिनि, अनेन प्रश्नायासेन पृच्छापरिश्रमेण किम् । यदीति । यदि रुचितो रुचिविषयीभूतः सुरभिपरिमलो यस्या एवंविधेयं तदा गृह्यतां ग्रहणविषयीक्रियताम् । इति पूर्वोक्तमुक्त्वा समुपसृत्य समीपमागत्यात्मीयात्स्वकीयाच्छ्रवणात्कर्णादपनीय दूरीकृत्य मदीये श्रवणपुटे तां मञ्जरीमकरोदघटयत् । कलैरिति । कलैर्मनोज्ञैरलिकुलक्वणितैर्मधुकरकुलशब्दितैः । प्रारब्धेति । प्रारब्धा प्रस्तुता रतिसमागमस्य संभोगसमागमस्य प्रार्थना याचना ययैवंभूतामिव । एतेन स्वानुरक्तिः प्रदर्शिता । मम त्विति । मम तु । तु पुनरर्थकः । तस्य यत्करतलं तत्स्पर्शलोभेन तत्तृष्णयातत्क्षणमवतंसंस्थाने पुलकं अपरं पारिजातकुसुममिवासीत् । एतेन द्वितीयकर्णेऽपि तच्छोभा सूचिता । स चेति । स पुण्डरीको मत्कपोलस्पर्शसुखेन गल्लात्परप्रदेशाश्लेषसातेन तरलीकृतं कम्पनीकृतमगुलिजालकं यस्यैवंभूतात्करतलाद्धस्ततलालज्जया त्रपया सह गलितां च्युतामप्यक्षमालां जपमालां नाज्ञासीन्न ज्ञातवान् । तदनुरक्तं ज्ञात्वा तस्य पुण्डरीकस्य यो भुजपाशो बाहुपाशस्तेन संदानितः संयतो यः कण्ठग्रहः कण्ठालिङ्गनं तजनितं यत्सुखं तत्सदृशमिव । अत्रेवशब्दः सादृश्यार्थः । तदुक्तमलंकारशेखरे - 'भवन्तीवादिशब्दाश्च सादृश्यप्रतिपत्तये । अनुभवन्त्यनुभवविषयीकुर्वन्ती कण्ठाभरणतां निगरणभूषणतामनयमानीतवती । कीदृशीम् । दर्शिता प्रकटीकृतापूर्वहारलताया लीला यस्यां सा ताम् । इत्थमिति । इत्थंभूत एतादृशे व्यतिकरे परस्परानुरागातिशये छत्रग्राहिण्यातपत्रधारिणी मामवोचदब्रवीत् । किमुवाचेत्याह - भर्चिति । हे भर्तृदारिके हे राजपुत्री, स्नाता कृतस्नाना देवी त्वन्माता वर्तते । । टिप्प० -1 न खलु मजर्या दोषः प्रसक्तो यदेवमुच्येत । तस्मात् - 'को दोषः अर्थात् वनदेवताया अनुरोधस्वीकारे (मञ्जरीग्रहणे) को दोषः' इत्यर्थः । 2 अर्थात् कर्णे । 3 इयमप्यव्युत्पत्तिः । बाहुपाशेन संदानितो यः कण्ठस्तस्य ग्रहणसुखम् (तदालिङ्गनसुखम्) अनुभवन्तीव इत्यर्थ उचितः । - - - - - - - - - - - - - - - - पाठा०.१ योऽयं या चेयम्. २ श्रवणशिखरे. ३ प्रश्नाशयेन. ४ गृह्यताम्. ५ हृदयम्. 1312 कादम्बरी। कथायाम् Page #326 -------------------------------------------------------------------------- ________________ गृहगमनकालः । तत्क्रियतां मज्जनविधिः । इति । अहं तु तेन तस्या वचनेन नवग्रहा करिणीव प्रथमाङ्कुशपातेनानिच्छया कथंकथमपि समाकृष्यमाणा तन्मुखालावण्यामृतपङ्कमग्नामिव कपोलपुलककण्टकजालकलग्नामिव मदनशरशलाकाकीलितामिव सौभाग्यगुणस्यूतामिव अतिकृच्छ्रेण दृष्टिं समाकृष्य स्नातुमुदचलम् । उच्चलितायां य मयि द्वितीयो मुनिदारकस्तथाविधस्तस्य धैर्यस्खलितमालोक्य किंचित्प्रकटितप्रणयकोप इवावादीत् - 'सखे पुण्डरीक, नैतदनुरूपं भवतः । क्षुद्रजनक्षुण्ण एष मार्गः । धैर्यधना हि साधवः । किं यः कश्चन प्राकृत इव विक्लवीभवन्तमात्मानं न रुणसि । कुतस्तवापूर्वोऽयमायेन्द्रियोपप्लवः, येनास्येवं कृतः । क्व ते तधैर्यम्, क्वासाविन्द्रियजयः, क्व तद्वशित्वम्, चेतसः क्व सा प्रशान्तिः, क्व तत्कुलक्रमागतं ब्रह्मचर्यम्, क्व सा सर्वविषयनिरुत्सुकता, क्व ते गुरूपदेशाः, क्व तानि श्रुतानि, क्व ता वैराग्यबुद्धयः, क्व तदुपभोगविद्वेषित्वम्, क्व सा सुखपराङ्मुखता, - *********** अथ च गृहगमनकालः सद्मव्रजनसमयः प्रत्यासीदति विघ्नितो भवति । अतो मज्जनविधिः स्नानविधिः क्रियतां विधीयताम् । अहं त्विति । अहं तस्याश्छत्रधारिण्यास्तेन वचनेन प्रथमाङ्कुशपातेनायसृणिप्रहारेण नवः प्रत्यग्रो यस्या एवंविधा करिणी हस्तिनी तद्वदिव कथंकथमपि महता कष्टेनानिच्छयानीहया समाकृष्यमाणा दृष्टिं चक्षुरतिकृच्छ्रेणातिकष्टेन समाकृष्य स्नातुमुदचलमुव्रजम् । कीदृशीमिव । लावण्यामृतमेव पङ्कः कर्दमस्तत्र मग्नामिव । कपोलेति । कपोलयोः पुलकलक्षणा ये कण्टकास्तेषां जालकं तत्र लग्नामिव । मदनेति। मदनस्य कंदर्पस्य शरा बाणास्तेषां शलाका ईषिकास्ताभिः कीलितामिव यन्त्रितामिव । सौभाग्येति । सुभगस्य भावः सौभाग्यं तल्लक्षणो यो गुणस्तेन स्यूतामिवान्योन्यश्लिष्टामिव । उच्चलितायामिति । मय्युच्चलितायां प्रचलितायां सत्याम् । चकारः समुच्चयार्थः । द्वितीयः कपिजलो मुनिदारकस्तथाविधस्तादृशस्तस्य पुण्डरीकस्य धैर्यस्खलितं सत्त्वस्खलनामालोक्य वीक्ष्य किंचिदीषत्प्रकटित आविष्कृतः प्रणयकोपः स्नेहकोपो येन तत्सदृश इवावादीदवोचत् । रोषोक्तावतीव वैरस्यं स्यादिति भावः । किं तदित्याह - सखे इति । हे सखे पुण्डरीक, भवतस्तव नैतदनुरूपं योग्यम् । क्षुद्रजना नीचलोकास्तैः क्षुण्ण आचीर्ण एष मार्गः पन्थाः । भवत इत्यत्रापि संबध्यते । हि यस्मात्कारणात्साधवो मुनयो धैर्यमेव धनं द्रव्यं येषामेवंविधा भवन्ति । यः कश्चनानिर्दिष्टाभिधानः प्राकृतः पामरस्तद्वदिव विक्लवीभवन्तं विह्वलीभवन्तमात्मानं क्षेत्रज्ञं किं न रुणत्सि किं न निरोधं करोषि । अपूर्वोऽननुभूत आधः प्रथम इन्द्रियोपप्लवः करणोपद्रवोऽयं प्रत्यक्षोपलभ्यमानस्तव भवतः कुतः । किंनिमित्तक इत्यर्थः । येनेति । येनेन्द्रियोपप्लवेनैवं कृतः शिथिलतां नीतोऽसि । त्वमिति शेषः । तदेव दर्शयत्राह - क्वेत्यादि । ते तव तद्धैर्यं क्व । तथेन्द्रियाणां करणानामसौ जयो निरोधः क्व । तथा तदनिर्वचनीयस्वरूपं वशित्वं स्वतन्त्रत्वं क्व । तथा चेतसश्चित्तस्य सा प्रशान्तिः क्व । तथा तत्कुलक्रमागतं कुलपरिपाट्यागतं ब्रह्मचर्यं कामविरतिः क्व । तथा सा सर्वविषयेषु समग्रेन्द्रियार्थेषु निरुत्सुकता निरुत्साहता क्व । तथा गुरूणां हिताहितोपदेशदेष्ट्रणामुपदेशा हितशिक्षाः क्व । तथा तानि पूर्वोक्तानि श्रुतानि ज्ञानानि क्व । तथा ताः सर्वाधिका वैराग्यं विरक्तता तस्या बुद्धयः प्रतिभाः क्व । तथा तासामङ्गनानां स्त्रीणामुपभोगः पुनःपुनरासेवनं तस्मिन्विद्वेषित्वं वैरित्वं क्व । तथा सखात्सौख्यात्पराङमखता पराचीनता क्व । तथा तपसि व्रतविशेषेऽसावभि - -- - - - - - - - - टिप्प०-1 प्रत्यासनः निकटगतः अर्थात् उपस्थित इत्याशयः । 2 अक्षराणि च्युतानीति प्रतीयते । नवः ग्रहः ग्रहणं (बन्धने आनयनम्) यस्याः सा इत्यर्थः । 3 'तथाविधम्' इति पाटेन 'तादृशं धैर्यस्खलितम्' इति योजनमेव ग्रन्थानुकूलम् । 4 'अय' इत्येवोचितम्, अपूर्वपदेन पौनरुक्त्यात् । पाठा० -१ आकृष्य. २ तथाविधम्. ३ अय. ४ केन. पुण्डरीकाय कपिञ्जलोपदेशः पूर्वभागः । 313 Page #327 -------------------------------------------------------------------------- ________________ क्वासौ तपस्यभिनिवेशः, क्व सा भोगोनामुपर्यरुचिः, क्व तद्यौवनानुशासनम्, सर्वथा निष्फला प्रज्ञा, निर्गुणो धर्मशास्त्राभ्यासः, निरर्थकः संस्कारः, निरुपकारको गुरूपदेशविवेकः, निष्प्रयोजना प्रबुद्धता, निःकारणं ज्ञानम् यदत्र भवादृशा अपि रागाभिषङ्गैः कलुषीक्रियन्ते । प्रमादैश्चाभिभूयन्ते । कथं करतलाद्गलितामपहृतामक्षमालामपि न लक्षयसि । अहो विगतचेतनत्वमपंहतानामेवम् । इदमपि तावप्रियमाणमनयानार्यया निवार्यतां हृदयम्' इत्येवमभिधीयमानश्च तेन किंचिदुपजातलज्ज इव प्रत्यवादीत् - 'सखे कपिञ्जल, किं मामन्यथा संभावयसि । नाहमेवमस्या दुर्विनीतकन्यकाया मर्षयाम्यक्षमालाग्रहणापराधमिमम्' इत्यभिधायालीककोपकान्तेन प्रयत्नविरचितभीषणभ्रुकुटिभूषणेन चुम्बनाभिलाषस्फुरिताधरेण मुखेन्दुना मामवदत्- 'चञ्चले, प्रदेशादस्मादिमामक्षमालामदत्त्वा पदात्पदमपि न गन्तव्यम्' *********** निवेश आग्रहः क्व । तथा भोगानां विषयाणामुपरि साऽरुचिरस्पृहा क्व । तथा तदनिर्वचनीयस्वरूपं यौवनस्य तारुण्यस्यानुशासनं नियन्त्रणं क्व । सर्वथेति । सर्वथा सर्वप्रकारेण प्रज्ञा प्रतिभा निष्फला निष्प्रयोजना । निर्गुण इति । धर्मशास्त्राणां स्मृत्यादीनामभ्यासो भूयोभूयस्तदभ्यसनं स एव निर्गुणः । जाड्यापहारलक्षणगुणरहितइत्यर्थः । निरर्थकेति । संस्कारो ब्राहाण्यापादनविधिः स एव निरर्थकः । यदुद्दिश्य क्रियते तदनाप्तेः । निरुपेति । गुरूपदेशायो विवेकः पृथगात्मता स निरुपकारकः । निरर्थक इत्यर्थः । निरिति । प्रबुद्धता प्रेक्षावत्ता निःप्रयोजना निर्हेतुका । निरिति । ज्ञानं श्रुतादि निःकारणं निर्निमित्तकम् । यदत्रेति । यदिति हेत्वर्थे । अत्रेति । अस्मिन्नवसरे रागाभिषङ्गैरिच्छाभिष्वङ्गर्भवादृशा अपि त्वत्सदृशा अपि कलुषीक्रियन्ते मलिनीक्रियन्ते । प्रमादैश्चेति । प्रमादैर्विषयादिभिरभिभूयन्ते पराभूयन्ते । चकारः समुच्चयार्थः । तदेव दर्शयति - कथमिति । करतलाद्धस्ततलाद्गलितां च्युतां तथा तयापहृतां गृहीतामक्षमालामपि कथं लक्षयसि कथं न जानासि । अहो इत्याश्चर्ये । अपहतानां कामपिडितानामेवं पूर्वोक्तप्रदर्शितरीत्या विगतचेतनत्वं नष्टचेतनत्वम् । इदमिति । तावदादाविदमपि हृदयं चित्तमनयानार्यया ह्रियमाणमाकृष्यमाणं निवार्यता दूरीक्रियतामित्येवं तेन कपिञ्जलेनाभिंधीयमानः कथ्यमानः किंचिदीषदुपजाता प्रादुर्भूता लज्जा त्रपा यस्य स इव प्रत्यवादीत्प्रत्यवोचत् । सखे इति । हे सखे कपिञ्जल, किमिति प्रश्ने । मामन्यथा तन्मनस्कत्वेन संभावयसि संभावनाविषयीकरोषि परमेतस्यां मन्मनोविकृति स्ति, तथाक्षमालाग्रहणनिमित्तकरोषोऽप्यन्यथा मुनीनां समदर्शित्वं, न स्यादिति भावः । अथ चेत्कपिञ्जल, तव शङ्कितं मनस्तदेतस्या दुर्विनीतकन्यकाया इममक्षमालाग्रहणापराधं जपमालास्वीकरणागसं नाहं मर्षयामि सहिष्ये । इति पूर्वोक्तमभिधायोक्त्वा मुखेन्दुना वक्त्रलक्षणचन्द्रेण मामिति प्रत्यवोचत्प्रत्यब्रवीत् । अथ मुखेन्दुं विशेषयन्नाह - अलीकेति । अलीको मिथ्या न तु वास्तवः एवंविधो यः कोपः क्रोधस्तेन कान्तेन मनोहरेण । प्रयत्नेति । प्रयत्नेन बलात्कारेण । कोपाभावादिति भावः । विरचिता निर्मिता भीषणा भैरवा भ्रकुटिः सकोपभ्रूविकृतिः सैव भूषणं यस्मिन् । तेन । चुम्बनेति । चुम्बनं संबन्धविशेषस्तस्याभिलाष इच्छाविशेषस्तेन स्फुरितः कम्पितोऽधर ओष्ठो यस्मिन् । किमुवाचेत्याह - चञ्चलेति । हे चञ्चले, अस्मात्प्र- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० . 1 उचितानुचितपरिज्ञानरूपो यो गुणस्तेन रहित इत्यर्थ उचितः । एतत्पूर्वम् ‘एव' निवेशस्तु अनुचितः विपरीतार्थबोधकत्वात् । एवमग्रेपि । 2 स्वकर्तव्यात् स्खलनरूपैः । 3 'अहो विगतचेतनत्वम्, अपहृता नामेयम्' इत्यपि पाठः । इयं अक्षमाला तु अनया (कन्यया) अपहृता नाम बलाल्लुण्ठिता नाम, इदानीम्, अनार्ययाऽनया अपह्रियमाणं हृदयमपि निवारय । इति व्याख्या । एकस्य अपहरणे जाते संप्रति अपह्रियमाणस्य रक्षणावश्यकत्वात् । पाठा० - १ क्वा सा संयमिता क्व. २ सङ्गानाम्. ३ यत्र. ४ प्रमोदैः. ५ अपहृता नामेयम्. ६ अपहियमाण. ७ चपले. (314 कादम्बरी। कथायाम् Page #328 -------------------------------------------------------------------------- ________________ इति । तच्च श्रुत्वार्हमात्मकण्ठादुन्मुच्य मकरध्वजलास्यारम्भलीलापुष्पाञ्जलिमेकावलीम् 'भगवन्, गृह्यतामक्षमाला' इति मन्मुखासक्तदृष्टेः शून्यहृदयस्यास्य प्रसारिते पाणौ निधाय स्वेदसलिलस्नातापि पुनः स्नातुमवातरम् । उत्थाय च कथमपि प्रयत्नेन निम्नगेव प्रतीपं नीयमाना सखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनमयासिषम् । गत्वा च प्रविश्य कन्यान्तःपुरं ततः प्रभृति तद्विरहविधुरा किमागतास्मि, किं तत्रैव स्थितास्मि, किमेकाकिन्यस्मि, किं परिवृतास्मि, किं तूष्णीमस्मि, किं प्रस्तुतालापास्मि, किं जागर्मि, किं सुप्तास्मि, किं रोदिमि, किं न रोदिमि, किं दुःखमिदम्, किं सातमिदम्, किमुत्कण्ठेयम्, किं व्याधिरयम्, किं व्यसनमिदम्, किमुत्सवोऽयम्, किं दिवस एषः, किं निशेयम्, कानि रम्याणि, कान्यरम्याणीति सर्वं नावागच्छम् । अविज्ञातमदनवृत्तान्ता च क्व गच्छामि, किं करोमि, किं शृणोमि, किं पश्यामि, किमालपामि, कस्य कथयामि, कोऽस्य - देशादिमामक्षमालामदत्त्वासमर्प्य पदात्पदमपि न गन्तव्यम् । तच्चेति । तत्पूर्वोक्तं श्रुत्वाकर्ण्यात्मकण्ठात्स्वकीयनिगरणादहं मकरध्वजस्य कंदर्पस्य लास्यारम्भलीला नाट्यप्रारम्भक्रीडा तस्यां पुष्पाञ्जलिरेवंभूतामेकावलीं मुक्ताप्रालम्बमक्षमालेति कृत्वा हे भगवन्, गृह्यतामुपादीयतां इति अस्य मुनेः प्रसारिते विस्तारिते पाणौ तां निधाय (स) स्थाप्य स्वेदसलिलेन श्रमवारिणा स्नातापि कृतस्नानापि पुनः पुनः स्नातुमवातरमवतीर्णवती । अथ मुनिं विशेषयन्नाह - शून्येति । शून्यं हृदयं चेतो यस्य स तथा तस्य । तत्र हेतुमाह - मन्मुखेति । मदानने आसक्ता लग्ना दृष्टिर्यस्य स तथा तस्य । उत्थायेति । उत्थानं कृत्वा कथमपि महता प्रयत्नेन सखीजनेन वयस्याजनेन बलाद्धाप्रतीपं पश्चान्नीयमाना प्राप्यमाणा । तत्र दृष्टान्तमाह - निम्नगेति । यथा निम्नगा नदी महाप्रयत्नेनैव पश्चान्नीयते, एवंविधाहमम्बया जनन्या सह सार्धं तमेव मुनिकुमारकं चिन्तयन्ती ध्यायती । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः । तदुक्तम् - 'अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः' इति । स्वभवनं निजसद्मायासिषमागतवती । *********** गत्वेति । गत्यैत्य । स्वभवनमिति शेषः । कन्यान्तःपुरं कन्यावरोधं प्रविश्य प्रवेशं कृत्वा । चकारः पुनरर्थकः । ततः प्रभृति तद्दिना - दारभ्य तस्य पुण्डरीकस्य विरहेण वियोगेन विधुरा व्याकुला सत्यहमिति सर्वं नावागच्छं नावागममिति दूरेणान्वयः । इतिशब्दार्थमाह - किमागतेति । किमिति सर्वत्र वितर्कार्थे । अहमागतास्मि गृहं समायातास्मि किमिति पूर्ववत् । तत्रैवाच्छोदसरस्तीरे स्थितास्मि । किमेकाकिन्यसहायास्मि । किं परिवृता परिवारान्वितास्मि । किं तूष्णीमस्मि । किं प्रस्तुतः आलापः संलापो ययैवंविधास्मि । किं जागर्मि निद्राक्ष - ययुक्तास्मि । किं सुप्तास्मि कृतनिद्रास्मि । किं रोदिमि । किं न रोदिमि । किं दुःखमिदम् । किं सातमिदं सौख्यमिदम् । किमुत्कण्ठेयम् । किमयं व्याधिरामयः । किमिदं व्यसर्नमस्यासक्तिः । किमयमुत्सवो महः । किमेष दिवसो दिनम् । किमियं निशा रात्रिः । कानि वस्तू रम्याणि शोभनानि । कानि च तद्विपरीतानि । अरम्याणीत्यर्थः । अवीति । अविज्ञातोऽनाकलितो मदनस्य कंदर्पस्य वृत्तान्त उदन्तो यया सैवंभूताहमिति सर्वं नाज्ञासिषं न ज्ञानवती । इतिशब्दार्थमाह- क्वेति । क्व गच्छामि व्रजामि । किं करोम्यनुतिष्ठामि । किं श्रृणोम्याकर्णयामि । किं पश्यामि विलोकयामि । किमालपामि किं वदामि । कस्य कथयामि निवेदयामि । कोऽस्य टिप्प०- 1 टीकाकारेण स्वाभ्यस्तमुपात्तम् । वास्तवे तु 'सुखमिदम्' इत्येव पदशय्यानुकूलः पाठः । 2 व्यसनं विपत् इत्येव व्याख्योचिता । पाठा० - १ आत्मकण्ठान्मकर. २ प्रस्नत ३ सुखम् ( विरहातुरा महाश्वेता पूर्वभागः । - 315 Page #329 -------------------------------------------------------------------------- ________________ प्रतीकार इति सर्वं नाज्ञासिषम् । केवलमारुह्य कुमारीपुरप्रासादं विसय॑ च सखीजनं द्वारि निवारिताशेषपरिजनप्रवेशा, सर्वव्यापारानुत्सृज्यैकाकिनी मणिजालगवाक्षनिक्षिप्तमुखी, तामेव दिशं तत्सनाथतया प्रसाधितामिवं महारत्ननिधानाधिष्ठितामिव अमृतरससारसागरपूरप्लावितामिव पूर्णचन्द्रोदयालंकृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्तमनिलमपि वनकुसुमपरिमलमपि शकुनिध्वनिमपि तद्वार्ता प्रष्टुमीहमाना, तबल्लभतया तपःक्लेशायापि स्पृह्यन्ती, तत्प्रीत्येव गृहीतमौनव्रता, स्मरजनितपक्षपाता च तत्परिग्रहान्मुनिवेषस्याग्राम्यतां तदास्पदतया यौवनस्य चारुतां तच्छ्रवणसंपर्कात्पारिजातकुसुमस्य मनोहरतां तनिवासात्सुरलोकस्य रम्यतां तद्रूपसंपदा कुसुमायुधस्य दुर्जयतामध्यारोपयन्ती, दूरस्थस्यापि कमलिनीव - *********** प्रतीकारः प्रतिक्रिया । अथ विरहेण विप्रलम्भपुष्टिं प्रदर्शयन्नाह - केवलेति । केवलमन्यनिरपेक्षम् । कुमारीणां पुर इति । पदैकदेशे पदसमुदायोपचारादन्तःपुरप्रासादमवरोधगृहमारुह्यारोहणं कृत्वा सखीजनं आलीजनं विसM दूरीकृत्य द्वारि प्रतोल्यां निवारितो निषिद्धोऽशेषः समग्रः परिजनस्य परिच्छदस्य प्रवेश आगमनं यया सा । तथा सर्वव्यापारान्समग्रकृत्यान्युत्सृज्य विमुच्यैकाकिन्यद्वितीया मणिनिर्मितानि जालानि यस्मिनेवभूतो यो गवाक्षो वातायनस्तत्र निक्षिप्तं स्थापितं मुखमाननं यया सैवंभूता । तामेव मुनिकुमारकाधिष्ठितां दिशं ककुभमीक्षमाणा विलोकमाना । अथ तद्वस्तुजन्यसंतोषजनकत्वसाम्येन तामेव दिशमुत्प्रेक्षते - तत्सनाथेति । तत्सहिततयेत्यर्थः । प्रसाधितामिव । भूषितामिव । महान्ति रत्नानि यस्मिन्नेवंभूतं यन्निधानं कुनाभिस्तेनाधिष्ठितामाश्रितामिव अमृतरसेन पीयूषरसेन सारः प्रधानो यः सागरः समुद्रस्तस्य पूरः प्लवस्तेन प्लावितामिवाकीर्णामिव । पूर्णः समग्रो यश्चन्द्रः शशाङ्कस्तस्योदय उद्गमस्तेनालंकृतामिव भूषितामिव । दर्शनेऽवलोकने सुभगां मनोहराम् । कामाभिभूतस्य चेतनाचेतनसाधारण्यं प्रदर्शयन्नाह - तस्मादिति । तस्मान्मुनिकुमारकाधिष्ठिताद्दिगन्तरादागच्छन्तमायान्तमनिलमपि, तथा वनकुसुमपरिमलमप्यरण्यपुष्पगन्धमपि, तथा शकुनिध्वनिमपि पतत्रिरुतमपि तस्य पुण्डरीकस्य वार्ता प्रवृत्तिं प्रष्टुं प्रश्नविषयीकर्तुमीहमाना वाञ्छमाना तस्य मुनेर्वल्लभतया तपःक्लेशायापि स्पृहयन्ती वाञ्छन्ती । अपिशब्दः प्रातिकूल्यं निराकरोति । तदायत्ततया प्रतिकूलमप्यनुकूलम्, अनुकूलमपि न स्वतः, किंतु तदायत्तत्वादित्याह - स्मरेणेति । मुनित्वेन ज्ञातेऽपि स्मरेण कंदर्पण जनितो विहितः पक्षपातोऽङ्गीकारो यस्यां सा तथा तस्य मुनेः प्रीत्या स्नेहेन गृहीतमात्तं मौनव्रतं यया सा, तेन मुनिना परिग्रहः स्वीकारस्तस्मान्मुनिवेषस्य तापसनेपथ्यस्याग्राम्यतां साधुताम् । स एवास्पदं यस्य तस्य भावस्तत्ता तया यौवनस्य तारुण्यस्य चारुतां मनोहरताम् । तस्य मुनेर्यः श्रवणसंपर्कः कर्णसंबन्धस्तस्मात्पारिजातकुसुमस्य कल्पतरुपुष्पस्य मनोहरतां मञ्जुलताम् । तस्य मुनेर्निवासस्तस्मात्सुरलोकस्य देवलोकस्य रम्यतां चारुताम् । तस्य मुनेर्या रूपसंपत्सौन्दर्यसमृद्धिस्तया कुसुमायुधस्य दुर्जयतां दुर्जेयतामध्यारोपयन्त्यध्यारोप कुर्वती । दूरस्थस्यापि दविष्ठस्यापि तस्यैव मुनिकुमारस्याभिमुखी संमुखी । कस्य केव । सवितुः सूर्यस्य कमलिनीव नलिनीव । तथा चन्द्रमसः कुमुदबान्धवस्य सागरवेलेव समुद्रस्याम्भसो वृद्धिरिव । तथा - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 निधिः । 2 वास्तवे तु 'अमृतरससागरपूर' इत्येव पाठः । सारपदस्याऽर्थापोषकत्वात् । 3 वाञ्छन्तीत्यर्थः । 4 तस्मात् - तस्य प्रीत्येव गृहीतमौनव्रता अर्थात्तूष्णीमवस्थिता, इति पृथग्विशेषणम् । स्मरजनितपक्षपाता चेति हेतुग विशेषणम् । अर्थात् स्मरेण तत्संबन्धिषु वस्तुषु पक्षपातो जनितः, अत एव तस्य (पुण्डरीकस्य) परिग्रहणात् (हतोः) मुनिवेषस्य अन्येषां दृष्टौ ग्राम्यत्वेपि अग्राम्यताम् (अध्यारोपयन्ती), एवं यौवनस्य चारुतामित्यादि । पाठा० - १ इव कुसुमितामिव महारत्न. २ अमृतरससागरप्लाविताम्. ३ दूरतः स्थितस्य; दूरस्था. 316 कादम्बरी। कथायाम् Page #330 -------------------------------------------------------------------------- ________________ सवितुः सागरवेलेव चन्द्रमसः मयूरीव जलधरस्य तस्यैवाभिमुखी, तथैव तां तद्विरहातुरजीवितोद्गमरक्षावलीमिवाक्षावली कण्ठेनोद्वहन्ती, तथैव च तया प्रस्तुततद्रहस्यालापयेव कर्णलग्नया पारिजातमञ्जा तथैव च तेन तत्करतलस्पर्शसुखजन्मना कदम्बमुकुलकर्णपूरायमाणेन रोमाञ्चजालेन कण्टकितैककपोलफलका निष्पन्दमतिष्ठम् । अथ ताम्बूलकरकवाहिनी मदीया तरलिका नाम मयैव सहागता स्नातमासीत् । सा च पश्चाच्चिरादिवागत्य तथावस्थितां शनैःशनैर्मामवादीत् - 'भर्तृदारिके, यौ तौ तापसकुमारको दिव्याकारावस्माभिरच्छोदसरस्तीरे दृष्टौ, तयोरेको येन भर्तृदुहितुरियं कर्णावतंसीकृता सुरतरुमञ्जरी स तस्माद्वितीयादात्मनो रक्षन्दर्शनमतिनिभृतपदः कुसुमितलतासंतानगहनान्तरेणोपसृत्य मामागच्छन्तीं पृष्ठतो भर्तृदारिकामुद्दिश्याप्राक्षीत् - 'बालिके, केयं कन्यका, कस्य वापत्यम्, किमभिधाना, क्व वा गच्छति' इति । मयोक्तम् - 'एषा खलु भगवतः श्वेतभानोरंशुसंभूतायामप्सरसि गौर्यां समुत्पन्ना देवस्य सकलगन्धर्वमुकुटमणिशलाकाशिखरो - *********** जलधरस्य मेघस्य मयूरीव नीलकण्ठपत्नीव । तथैवेति । यथा तेन कुमारेण कण्ठे न्यस्ता तथैव, तस्य विरहेण वियोगेनातुरं पीडित यज्जीवितं प्राणितं तस्योद्गमो निर्गमस्तस्य रक्षावलीमिवाक्षावली जपमालां कण्ठेन निगरणेनोद्वहन्ती धारयन्ती । तथैवेति । तथैव पूर्वोक्तप्रकारेण तया कर्णलग्नया श्रवणप्राप्तया प्रस्तुतः प्रारब्धस्तस्या(स्य)रहस्यलापो ययैवंविधयैव पारिजातमञ्जर्या । तथैव च तेन पूर्वोक्तप्रकारेण तस्य यत्करतलस्पर्शस्तस्माद्यत्सुखं सातं तेन जन्मोत्पत्तिर्यस्यैवंभूतेन कदम्बस्य नीपस्य मुकुलं कुड्मलं तस्य कर्णपूरायमाणेन कर्णपूरवदाचरमाणेन रोमाञ्चजालेन रोमहर्षणसमूहेन कण्टकितं कण्टकवदाचरितमेकमद्वितीयं कपोलफलकं यस्याः सा तथा निष्पन्दं निश्चलमतिष्ठं स्थितवती । अथेत्यानन्तर्ये । मदीया तरलिका । नामेति कोमलामन्त्रणे । ताम्बूलकरङ्कवाहिनी मयैव सह स्नातुमाप्लवं कर्तुमागता समायातासीत् । सा चेति । सा ताम्बूलकरङ्कवाहिनी पश्चान्मद्गृहागमनानन्तरं चिरादिव चिरसदृशादिवागत्यैत्य तथावस्थिताम् । विरहातुरामित्यर्थः । मां शनैः शनैर्मन्दं मन्दमवादीदवोचत् । किमुवाचेत्याह - भत्रिति । हे भर्तृदारिके हे राजपुत्रि । ताविति । एकः पुण्डरीकस्तत्सहानुगतश्च कपिजल इमौ द्वौ तापसकुमारको दिव्याकारौ मनोहराकृती अस्माभिरच्छोदसरस्तीरे यौ दृष्टाववलोकिती, तयोर्मध्य एकः । कपिञ्जलं निराकुर्वन्नाह - येनेति । येन कुमारकेण भर्तृदुहितुर्भवत्या इयं सुरतरुमञ्जरी पारिजातवल्लरी कर्णावतंसीकृता श्रवणोत्तंसीकृता । स इति । स मुनिः पुण्डरीकस्तस्मात्कपिञ्जलादात्मनः स्वस्य दर्शनं वीक्षणं रक्षन्गोपयन्नतिनिभृतान्यतिनिश्चलानि पदानि यस्यैवंभूतः । कुसुमिताः पुष्पिता या लता वल्लयस्तासां संतानं परम्परा तेन गहनं निबिडं यदन्तरं विचालं तेन मामागच्छन्तीं पृष्ठतः पश्चाद्भाग उपसृत्य समीपमागत्य भर्तृदारिकामुदिश्याश्रित्येत्यप्राक्षीप्रश्नमकार्षीत् किं प्रश्नं कृतवानित्याह - बालिके इति । हे बालिके हे कन्यके, केयं कन्यका । कस्या वापत्यं प्रजा । किमभिधाना किंनाम्नी । क्व वा गच्छति व्रजति । त्वया किमुक्तमित्याह - मयेति । मयेत्युक्तं कथितम् । इतिवक्तव्यमाह - एषेति । एषा खलु निश्चयेन भगवतः श्वेतभानोर्गन्धर्वाधिपतेरंशुसंभूतायां सोममयूखसंभूतायामप्सरसि गौर्यां समुत्पन्ना संजाता गन्धर्वाधिपतेर्हसस्य दुहितात्मजा । अथ हंस विशिनष्टि - सकलेति । सकलाः समग्रा ये गन्धर्वा देवगायनास्तेषां मुकुटेषु मणिदृढबन्धार्थं शलाकाः स्वर्ण - टिप्प० - 1 निर्गच्छतो जीवस्य रक्षणार्थम् अभिमन्त्रितां मालामिव । 2 चन्द्रस्य । पाठा० - १ सुरतरुकुसुममञ्जरी. २ अंशुभूतायाम्; अंशभूतायाम्. (पुण्डरीकस्य प्रवृत्तिनिवेदनम् । पूर्वभागः । Page #331 -------------------------------------------------------------------------- ________________ लेखमसृणितंचरणनखचक्रस्य प्रणयप्रसुप्तगन्धर्वकामिनीकपोलपत्रलतालाञ्छितभुजतरुशिखरस्य पादपीठीकृतलक्ष्मीकरकमलस्य गन्धर्वाधिपतेर्हंसस्य दुहिता महाश्वेता नाम गन्धर्वाधिवासं हेमकूटाचलमभिप्रस्थिता' इति, कथिते च मया किमपि चिन्तयन्मुहूर्तमिव तूष्णीं स्थित्वा विगतनिमेषेण चक्षुषा चिरमभिवीक्षमाणो मां सानुनयमर्थितामिव दर्शयन्पुनराह - 'बालिके, कल्याणिनी तवाविसंवादिन्यचपला बालभावेऽप्याकृतिरियम् । तत्करोषि मे वचनमेकमभ्यर्थ्यमाना' इति । ततो मया सविनयमुपरचिताञ्जलिपुटया दर्शितादरमभिहितः - 'भगवन्, कस्मादेवमभिधत्से । काहम् । महात्मानः सकलत्रिभुवनपूजनीयास्त्वादृशाः पुण्यैर्विना निखिलकल्मषापहारिणीमस्मद्विधेषु दृष्टिमपि न पातयन्ति, किं पुनराज्ञाम् । तद्विश्रब्धमादिश्यतां कर्तव्यम् । अनुगृह्यतामयं जनः' इति । एवमुक्तश्च मया सस्नेहया सखीमिवोपकारिणीमिव प्राणप्रदामिव दृष्ट्या मामभिनन्द्य निकटवर्तिनस्तमालपादपात्पल्लवमादाय निष्पीड्य · - *********** मय्यस्तासां शिखराण्यग्राणि तेभ्यो य उल्लेखः संघर्षस्तेन मसृणितं श्लक्ष्णीकृतं चरणयोर्नखचक्रं पुनर्भवसमूहो यस्य स तथा तस्य । प्रणयेति । प्रणयेन स्नेहेन प्रसुप्ताः कृतनिद्रा या गन्धर्वकामिन्यस्तासां कपोलपत्रलताभिर्लाञ्छितं चिह्नितं भुजा एव तरवो वृक्षास्तेषां शिखरमग्रं यस्य स तथा तस्य । अनेन सुरतविशेषो द्योतितः । पादेति । पादपीठीकृतं पदासनीकृतं लक्ष्म्याः श्रियः करकमलं यस्य स तथा तस्य । एतेन दानशौण्डत्वं सूचितम् । तस्या यथार्थमभिधानमाह नामेति कोमलामन्त्रणे । महाश्वेता इति । सांप्रतं क्व गतेति तदाशयमभिप्रेत्याह - गन्धर्वेति । गन्धर्वाणामधिवासो यस्मिन्नेवंभूतं हेमकूटाचलमभिप्रस्थिता । तदभिमुखं चलितेत्यर्थः । इति मया कथित उक्ते सति किमप्यनाकलनीयं चिन्तयन्ध्यायन्मुहूर्तमिव घटिकाद्वयसदृशमिव । अत्रापीवशब्दः सदृशार्थः । तूष्णीं जोषं स्थित्वा विगतनिमेषेण मेषोन्मेषरहितेन चक्षुषा नेत्रेण चिरं चिरकालं यावदभिसंमुखं वीक्षमाणो मां प्रति सानुनयं सस्नेहमर्थितामिव मार्गणसदृशतामिव दर्शयन्पुनर्द्वितीयवारमित्याह । उवाचेत्यर्थः । इतिवाच्यमाह - बालिके इति । हे बालिके, कल्याणिनी कल्याणं श्रेयो विद्यते यस्याः यस्यां वा सैवंभूताविसंवादिन्यव्यभिचारिणी । 'यत्राकृतिस्तत्र गुणा भवन्ति' इत्युक्तेः । बालभावेऽपि बालस्वभावेऽप्यचपला स्थिरा तवेयमाकृतिराकारः । तदिति हेत्वर्थे । अभ्यर्थ्यमाना प्रार्थ्यमानैकं मे मम वचनं करोषि प्रणयसि । तत इति । ततोऽनन्तरं सविनयं सप्रश्रयमुपरचितं बद्धमज्ञ्जलिपुटं ययैवंभूतया मया दर्शितादरं यथा स्यात्तथेत्यभिहित उक्तः । इतिशब्दवाच्यमाह - भगवन्निति । हे भगवन् हे स्वामिन्, कस्मात्केन हेतुनैवं पूर्वोक्तप्रकारेणाभिधत्से कथयसि । काहं बालव्यजनधारिणी । सकलत्रिभुवनपूजनीयाः समग्रविश्वार्चनीया महात्मानस्त्वादृशा भवादृशाः क्व । पुण्यैर्विना धर्मव्यतिरेकेणास्मद्विधेष्वस्मादृशेषु निखिलकल्मषापहारिणीं दृष्टिं न पातयन्ति चक्षुषा नावलोकयन्ति । किं पुनराज्ञामादेशप्रदानम् । दूरापास्तमिति भावः । तत्तस्माद्धेतोर्विश्रब्धं सविश्वासं कर्तव्यं कृत्यमादिश्यतामादेशं दीयताम् । अथ चायं मल्लक्षणो जनोऽनुगृह्यतामनुग्रहविषयीक्रियताम् । एवं पूर्वोक्तप्रकारेण सस्नेहया सप्रेमयाँ मयोक्तश्च स मुनिः सखीमिव वयस्यामिवोपकारिणीमिवोपकृतिकर्त्रीमिव प्राणप्रदामिव जीवितदानीमिव मां दृशा चक्षुषाभिनन्द्य प्रमोदं जनयित्वैव निकटवर्तिनः समीपस्थात्तमालपादपात्तापिच्छवृक्षात्पल्लवं किसलयमादाय गृहीत्वा तटशिलातले तीरप्रस्तरे निष्पीड्य संमर्द्य तेन निष्पीडनोद्भूतेन गन्धगजा गन्धेभास्तेषां मदो - टिप्पo - 1 भुजौ एवेति द्विवचनं योग्यम् । 2 पूर्वार्जितसुकृतैर्विना इति व्याख्योचिता । 3 'सस्नेहया दृष्ट्या मामभिनन्य' इति योजना । अपरिचितायाः स्नेहप्रकाशनं त्वस्वाभाविकमेव । पाठा० - १ नखचरण. २ हेमकूटमचलम् ३ निपातयन्ति. 318 - कादम्बरी | कथायाम् Page #332 -------------------------------------------------------------------------- ________________ तटशिलातले तेन गन्धगजमदसुरभिपरिमलेन रसेनोत्तरीयवल्कलैकदेशाधिपाट्य पट्टिकां स्वहस्तकमलकनिष्ठिकानखशिखरेणाभिलिख्य ‘इयं पत्रिका त्वया तस्यै कन्यकायै प्रच्छन्नमेकाकिन्यै देया' इत्यभिधायार्पितवान् । इत्युक्त्वा च सा ताम्बूलभाजनादाकृष्य तामदर्शयत् । अहं तु तेन तत्संबन्धिनालापेन शब्दमयेनापि स्पर्शसुखमिवान्तर्जनयता श्रोत्रविषयेणापि रोमोद्गमानुमितसर्वाङ्गानुप्रवेशेन मदनावेशमन्त्रेणेवावेश्यमाना तस्याः करतलादादाय तां वल्कलपत्रिका तस्यामिमामभिलिखितामार्यामपश्यम् - 'दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे । हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥' अनया च मे दृष्टया दिङ्मोहभ्रान्त्येव प्रणष्टवर्त्मनः, बहुलनिशयेवान्धस्य, जिह्वोच्छित्त्येव मूकस्य, इन्द्रजालिकपिच्छिकयेवातत्त्वदर्शिनः, ज्वरप्रलापप्रवृत्त्येवासंबद्धभाषिणः, दुष्टनि - *********** दानं तद्वत्सुरभिः सुगन्धः परिमलो यस्यैवंविधेन रसेनोत्तरीयं यद्वल्कलं तस्यैकदेशादेकप्रदेशात्पट्टिका प्रसिद्धां विपाट्य द्वैधीकृत्य स्वकीय आत्मीयो यो हस्तः पाणिः स एव कमलं नलिनं तस्य कनिष्ठिका कनीनिका तस्या नखशिखरेण नखराग्रेणेयं पत्रिकाभिलिख्य लिपीकृत्येत्यभिधाययेत्युक्त्वार्पितवान्दत्तवान् । इतिशब्दाभिधेयमाह - त्वयेति । त्वया भवत्या तस्यै कन्यकायै महाचेतायै एकाकिन्यै अद्वितीयायै प्रच्छन्नं गुप्तं देयार्पणीया । अथ सा च ताम्बूलकरङ्कवाहिनी तरलिका ताम्बूलभाजनात् तां पत्रिकामाकृष्य निष्कास्यादर्शयत् दर्शितवती । अहं त्विति । तु पुनरर्थकः । अहमित्यात्मनिर्देशः । तस्यास्तरलिकायाः करतलाद्धस्ततलात्तां वल्कलपत्रिकामादाय गृहीत्वा तस्यामिमामभिलिखितामार्यामपश्यमद्राक्षमित्यन्वयः । कीदृश्यहम् । आवेश्यमानावेशविषयीक्रियमाणा । केन । तस्य पुण्डरीकस्य संबन्धिना संबद्धेनालापेन । संलापेन । किं कुर्वता । शब्दमयेन शब्दात्मकेनापि स्पर्शसुखमिव संश्लेषसातसदृशमिवान्तर्मध्ये जनयता उत्पादयता । अत्रापिशब्दो विरोधयोतनार्थः । श्रोत्रविषयेणापि कर्णगोचरेणापि रोमोद्गमेन पुलकेनानुमितोऽनुमितिविषयीकृतः सर्वाङ्गेष्वनुप्रवेशो यस्य स तेन । अत्रापिशब्दः पूर्ववत् । वैक्लव्यसादृश्यादाह - मदनावेशमन्त्रेणेव मदनस्य कंदर्पस्यावेशः प्रवेशस्तदुत्पादकमन्त्रेणेव । अथ तामार्यामाह - दूरमिति । मानसे मनसि जन्म यस्यैवंभूतो मनोरथोऽभिलाषो मुक्तालतयैकावल्या विप्रलोभ्यमानो लोभं प्राप्यमाणो दर्शिताशा फलप्राप्तिर्यस्यैवंभूतस्त्वया नीतः तवैव समीपे तिष्ठति । त्वामेव विषयीकरोतीति भावः । मानसजन्मत्वसाम्यादुत्प्रेक्षते - हंस इवेति । यथा मानसजन्मा हंसो मुक्तावन्निर्मला या लता व्रतत्यस्ताभिः प्रकर्षेण लोभ्यमानो दर्शिताशा गमनार्थं दिग्यस्यैवंभूतोऽन्यत्र नीयते । अथ लतां विशेषयन्नाह - बिसेति । बिसं मृणालं तद्वच्छुभ्रया धवलयेत्युभयोर्विशेषणम् । अनयेति । अनया पत्रिकया मे मम दृष्टया विलोकितया सत्या स्मरातुरस्य मदनातुरस्य मे मम मनसो दोषविकारस्योपचयः पुष्टिः सुतरामत्यर्थमक्रियत व्यधीयतेत्यन्वयः । अत्रार्थ उपमानान्तराणि प्रदर्शयन्नाह - दिगिति । दिङ्मोहभ्रान्त्या करणभूतया प्रणष्टवर्मन उत्पथगामिन इव । बहुलेति । बहुलनिशया कृष्णपक्षरात्र्यान्धस्येव गताक्षस्येव । जिह्वेति । जिह्वोच्छित्त्या रसनाकर्तनया मूकस्येव । इन्द्रेति । इन्द्रजालिकस्य मायिकस्य या पिच्छिका यया लोकानां दृग्बन्धः क्रियते, तया अतत्त्वदर्शिन - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 इदमप्यप्रसिद्धत्वाद् नावीन्यवद् । 2 अत एव-बिसवत् सितया मुक्तामालया विशेषरूपेण लोभ प्रापितः, दर्शिता आशा (मनोरथपूर्तेः आशंसा) यस्मै सः ईदृशो मानसजन्मा कामदेवः, हंस इव त्वया दूरं नीतः । हंसोऽपि-बिसवत् श्वेतया मुक्तानां लतया लतावल्लम्बाकारया पङ्क्त्या विशेषेण भक्षणलोभ प्रापितः दर्शिता स्वेन सह नयनार्थमभीष्टा दिक् (दिशा) यस्मै सः, मानसे (तदाख्यसरोवरे) जन्म यस्य सः दूरे स्वनिवासाद्विप्रकर्षं प्रापित इति सारार्थः । (पुण्डरीकस्य प्रवृत्तिनिवेदनम् पूर्वभागः ।) 1319) Page #333 -------------------------------------------------------------------------- ________________ द्रयेव विषविह्वलस्य, लोकायतिकविद्ययेवाधर्मरुचेः, मदिरयेवोन्मत्तस्य, दुष्टावेशक्रिययेव पिशाचग्रहस्य, दोषविकारोपचयः सुतरामक्रियत स्मरातुरस्य मे मनसः, येनाकुलीक्रियमाणा सरिदिव पूरेण विह्वलतामभ्यंगमम् । तां च द्वितीयदर्शनेन कृतमहापुण्यामिवानुभूतसुरलोकवासामिव, देवताधिष्ठितामिव, लब्धवरामिव, पीतामृतामिव, समासादितत्रैलोक्यराज्याभिषेकामिव मन्यमाना, सततसंनिहितामपि दुर्लभदर्शनामिवातिपरिचितामप्यपूर्वामिव सादरमाभाषमाणा पाविस्थितामपि सर्वलोकस्योपर्यवस्थितामिव पश्यन्ती, कपोलयोरेलकलताभगेषु च सोपग्रहं स्पृशन्ती, विपरीतमिव परिजनस्वामिसंबन्धमुपदर्शयन्ती, 'तरलिके, कथय कथं स त्वया दृष्टः, किमभिहितासि तेन, कियन्तं कालमवस्थितासि तत्र, कियदनुसरन - *********** इव यथाजातस्येव । ज्वरेण तापेन यः प्रलापोऽसद्भाषणं तस्य प्रवृत्तिः प्रवर्तनं तस्या(या)संबद्धभाषिण इव कद्वदंस्येव । दुष्टेति । दुष्टनिद्रयानुचितप्रमीलया विषविह्वलस्येव विषार्तस्येव । निद्राया दुष्टत्वं च दोषजनकत्वादिति भावः । लोकेति । लोकायतिका नास्तिकास्तेषां विद्याया शास्त्रेणाधर्मरुचेरिव पापस्येव । मदिरेति । मदिरया गन्धोत्तमयोन्मत्तस्येव क्षीबस्येव । दुष्टेति । दुष्टो य आवेशोऽभिनिवेशस्तस्य क्रिया कर्म तया पिशाचग्रहस्येव ग्रथिलस्येव । येनेति । येन दोषोपचयेन आकुलीक्रियमाणा पूरेण जलवृद्ध्या सरिदिव तटिनीवाह विह्ललतां व्याकुलतामभ्यगममप्रापम् । तां चेति । तां तरलिकां पुनः पुनर्भूयोभूयोऽहमिति पर्यपृच्छमित्यप्राक्षमिति दूरेणान्वयः । इतिशब्दद्योत्यमाह - तरलिकेति । हे तरलिके, कथय निवेदय । स पुण्डरीकः कथं केन प्रकारेण त्वया दृष्टोऽवलोकितः किमभिहितासि कथितासि तेन पुण्डरीकेण । कियन्तं कालमवस्थितासि विलम्बितासि । तत्र तस्मिन्वने अस्माननुसरन्पृष्ठेऽनुव्रजन्कियत्पन्थानमसौ पुण्डरीक आगतः । कीदृश्यहम् । द्वितीयवारं मुनेर्दर्शनेनावलोकन कृतं महत्पुण्यं ययैतादृशीमिव । 'आन्महतः समानाधिकरणजातीययोः' इति महच्छब्दस्यात्वम् । अनुभूत इति । अनुभूतोऽनुभवविषयीकृतः सुरलोकवासः स्वर्गे निवासो यया तादृशीमिव । देवतयाधिष्ठिताश्रिता तादृशीमिव । लब्धेति । लब्धो वरो देवप्रसादो ययैतादृशीमिव । पीतमिति । पीतमास्वादितममृतं पीयूषं ययैवंभूतामिव । समेति । समासादितः प्राप्तस्त्रैलोक्यस्य राज्यमाधिपत्यं तस्याभिषेकोऽभिषिञ्चनं ययैवंविधामिव तां मन्यमाना चेतसि ज्ञायमाना । पुनरहं किं कुर्वाणा । सततमिति । सततं निरन्तरं संनिहितामपि पार्थवर्तिनीमपि दुर्लभं दुःप्रापं दर्शनमवलोकनं यस्या एवंविधामिवातिपरिचितामप्यतिसंस्तवगोचरीकृतामप्यपूर्वामिवाभिनवामिव सादरमाभाषमाणा जल्पमाना । पुनः किं कुर्वन्त्यहम् । पार्थे समीपेऽवस्थितामप्यासीनामपि सर्वलोकस्य समग्रविश्वस्योपर्यवस्थितामिव पश्यन्त्यवलोकयन्ती । कपोलयोर्गल्लात्परप्रदेशयोरलकलताभङ्गेषु सोपग्रहं सानुकूलं यथा स्यात्तथा स्पृशन्ती स्पर्श कुर्वन्ती । विपरीतमिति । मत्समीहितकरणात्त्वं तु स्वामिनी, अहं तु तव परिजनः, इति विपरीतः संबन्धः । तमिवोपदर्शयन्ती बहिर्वृत्त्या - - टिप्प० - 1 दुष्टा या आवेशक्रिया (जन्मसंबन्धिनाडीनक्षत्रेषु पापग्रहाणां प्रवेशकार्यम्) तया पिशाचग्रहस्येव (पिशाचेन ग्रहः ग्रहणं यस्य, पिशाचग्रस्तस्येव) । अयं भावः - पूर्वमेव पिशाचेन ग्रहणं तदुपरि यदि जन्मज्ञेषु पापग्रहाणां प्रवेशः स्यात्तर्हि भूयान् दोषोपचयः स्यात् । प्रोक्तं हि - 'ईहा देहार्थहानिः स्याज्जन्मक्ष उपतापिते । कर्मः कर्मणां हानिः पीडा मनसि मानसे ॥ इति । 2 'प्रापम्' इति बोध्यम् । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ दूरावेशक्रियया. २ अगमम्. ३ अलकताभङ्गेषु; अलकलतासङ्गेषु. 320 कादम्बरी। कथायाम् Page #334 -------------------------------------------------------------------------- ________________ स्मानसावागतः' इति पुनः पुनः पर्यपृच्छम् । अनयैव च कथया तया सह तस्मिन्नेव प्रासादे तथैव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवसमत्यवाहयम् । अथ मदीयेनेव हृदयेन कृतरागसंविभागे लोहितायति गगनतेलावलम्बिनि रविबिम्बे, सरागदिवसकरदर्शनानुरक्तायां कृतकमलशयनायामनङ्गातुरायामिव पाण्डुतां व्रजन्त्यामातपलक्ष्म्याम्, गैरिकगिरिसलिलप्रपातपाटलेषु कमलवनेभ्य उत्थाय वनगजयूथेष्विव पुञ्जीभवत्सु भास्करकिरणेषु, गगनावतारविश्रामलालसानां रविरथवाजिनां हर्षहेषारवप्रतिशब्दकेन सह विशति मेरुगिरिगह्वरं वासरे, मुकुलितरक्तपङ्कजपुटप्रविष्टमैधुकर्यावलीषु विरहम् - *********** प्रकाशयन्ती । अन्वयस्तु प्रागेवोक्तः । अनयैवेति । अनयैव पूर्वोक्तयैव कथया वार्तया तया सह तरलिकया समं तस्मिन्नेव प्रासादे सौधे प्रतिषिद्धो निवारितोऽशेषपरिजनस्य प्रवेश आगमनं ययैवंभूता दिवसं दिनमत्येवायमत्यक्रामम् । अथेत्यानन्तर्ये । सा छत्रग्राहिण्यागत्याकथयदित्यग्रिमग्रन्थसंबन्धः । तत्र 'मदीय' इत्यारभ्य 'युगलेषु' इतिपर्यन्तं सत्यन्तैः सायंसमयवर्णनमाह - मदीयेति । मदीयेनेव हृदयेन कृतो रागस्य संविभागो यस्यैवंभूते लोहितायति लोहितवदाचरति गगनतलं व्योमतलं तत्रावलम्बिनि लम्बायमाने रविबिम्बे सूर्यर्बिम्बे सति । पुनः कस्याम् । आतपलक्ष्म्याम् । किंविशिष्टायाम् । सरागेति । राग आरुण्यं रतिश्च तेन सहवर्तमानो यो दिवसकरः सूर्यस्तस्य दर्शनेनावलोकनेन तस्मिन्वानुरक्ता तस्यामत एव कृतं कमलानां शयनं कमलेषु शयनं वा यया सा तस्याम् । आरुण्यवशादाह - अनङ्गेति । अनङ्गेन कंदर्पेणातुरायामिव पीडितायामिव पाण्डुतां श्वेततां व्रजन्त्यामिव । पुनः केषु । भास्करकिरणेषु रविभानुषु सत्सु । तानेव विशेषयन्नाह - गैरिको धातुमयो गिरिः पर्वतस्तस्य सलिलमम्भस्तस्मिनन्प्रपातः पतनं तेन पाटलेषु श्वेतरक्तेषु | कमलवनेभ्यो नलिनखण्डेभ्य उत्थायोत्थानं कृत्वा वनगजयूथेष्विवारण्यहस्तिसमूहेष्विव पुञ्जीभवत्स्वेकीभवत्सु । पुनः कस्मिन्सति । वासरे दिवसे मेरुगिरिगह्वरं निकुञ्जं विशति प्रविशति सति । कथं सह केनेत्यभिप्रायेणाह - गगनेति । गगन आकाशेऽवतारः परिभ्रमणं तस्माद्यो विश्रामो विश्रान्तिस्तस्मिल्लालसानां सस्पृहाणां रविरथवाजिनां सूर्यस्यन्दनाश्वानां हर्षः प्रमोदस्तेन हेषारवस्तस्य प्रतिशब्दकः प्रतिच्छन्दस्तेन सह । सार्धमित्यर्थः । तथा च रविकिरणानामधः स्थलं परित्यज्योर्ध्वगमनान्मध्यावस्थाचरणमाह - पद्मिनीष्विति । मुकुलितानि कुड्मलितानि यानि रक्तपङ्कजानि कोकनदानि तेषां पुटानि तत्र प्रविष्टाः कृतप्रवेशा मधुकरीणां भ्रमरीणामावल्यः श्रेण्यो यास्वेवंविधासु पद्मिनीषु नलिनीषु सत्सु । कृष्णत्वसाम्यादाह - विरहेति । विरहो वियोगः । रवेरिति शेषः । तेन या मूर्च्छा तयान्धकारितं संजातान्धकारं हृदयं यासामेवंविधास्विव । अत एव प्रारब्धं निमीलनं याभिस्तासु । पुनः केषु । रथाङ्गनाम्नां चक्रवाकानां युगलेषु घटमानेषु भिन्नतां प्राप्यमाणेषु । किं कृत्वा । परस्परहृदयान्यन्योन्यानुरागलक्षणान्या टिप्प० - 1 अगमयमित्यर्थः णेरावश्यकत्वात् । 2 सूर्यबिम्बे कृतरागसंविभागे लोहितायति सति, गगनतलावलम्बिनि च सति इत्यर्थो योग्यः । एवमग्रिमवाक्येष्वपि । 3 वस्तुतस्तु 'सरागदिवसकरानुरक्तायाम्' इत्येव पाठः । 4 गैरिकाख्यो यो धातुविशेषस्तस्य गिरिर्गैरिकगिरिः । 5 वनगजा अपि गैरकसलिलप्रपातेन पाटलाः सन्तः सायमेकत्र पुञ्जीभवन्ति, सूर्यकिरणा अपि पाटलाः सन्तः सायं संकुचितावस्थतया पुञ्जीभवन्तीति द्वयोः साम्यादुपमा । 6 स्त्रीत्वं स्यात् । पाठा० - १ तलोपान्ताव. २ समुत्थाय ३ मधुकरावलीषु. ४ रविविरह. महाश्वेताया विह्वलता पूर्वभागः । 321 Page #335 -------------------------------------------------------------------------- ________________ छान्धकारितहृदयास्विव प्रारब्धनिमीलनासु पद्मिनीषु, ग्रासीकृतसामान्यभृणाललताविवरसंक्रामितानीव परस्परहृदयान्यादाय विघटमानेषु रथाङ्गनाम्नां युगलेषु सा छत्रग्राहिण्यागत्याकथयत्- ‘भर्तृदारिके, तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति । कथयति चाक्षमालामुपयाचितुमागतोऽस्मि' इति । अहं तु मुनिकुमारनामग्रहणादेव स्थानस्थितापि गतेव द्वारदेशं समुपजाततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनम् ‘गच्छ । प्रवेश्यताम्' इत्यादिश्य प्राहिणवम् । अथ मुहूर्तादिव तं तस्य रूपस्येव यौवनम्, यौवनस्येव मकरकेतनम्, मकरकेतनस्येव वसन्तसमयम्, वसन्तसमयस्येव दक्षिणानिलमनुरूपं सखायं मुनिकुमारक कपिञ्जलनामानं जराधलितस्य कञ्चुकिनोऽनुमार्गेण चन्द्रातपस्येव बालातपमँनुयायिनमपश्यम् । अन्तिकमुपागतस्य चास्य पर्याकुलमिव सविषादमिव शून्यमिवार्थिनर्मिवानुपरताभिप्रेतमाकारमलक्षयम् । उत्थाय च कृतप्रणामा सादरं स्वयमासनमुपाहरम् । उपविष्टस्य च बलादनिच्छतोऽपि - *********** दाय गृहीत्वेत्यर्थः । रक्तत्वसाम्यादुप्रेक्षामाह - ग्रासीति । ग्रासीकृतार्धजग्धा याः सामान्यमृणाललता बिसलतास्तासा विवराणि छिद्राणि तेषु संक्रामितानीव क्षिप्तानीव । किं कथितवतीत्याशयेनाह - भर्तृ इति । हे भर्तृदारिके हे राजसुते, तयोर्मुनिकुमारयोरिति निर्धारणे षष्ठी । अन्यतर एकः कश्चिद्वारि प्रतोल्यां तिष्ठति स्थितोऽस्तीति । कथयति वक्ति च । तदेवाह - अक्षनालेति । अक्षमाला जपमालामुपयाचितुं प्रार्थितुमागतः प्राप्तोस्मि । अहं त्विति । मुनिकुमारस्य नामग्रहणादेवाभिधानमात्रश्रवणादेव । उत्कण्ठातिशयमाह - स्थानेति । स्थानस्थितापि स्वस्थानस्थापि द्वारदेशं गतेव प्रतोलीप्रदेशं प्राप्तेव, समुपजाता समुत्पन्ना तस्य पुण्डरीकस्यागमने आशङ्कारेका यस्या एवंभूता सत्यन्यतमं कञ्चुकिनं सौविदल्लं समाहूयाह्वानं कृत्वा गच्छ व्रज, सः प्रवेश्यता मध्ये प्रवेश कार्यतामिति शेषः । इति पूर्वोक्तमादिश्य कथयिस्वा-प्राहिणवं प्रेषितवती । अथेति । तत्प्रेषणानन्तरं मुहूर्तामिव । अत्रेवशब्दः सदृशार्थः । मुहूर्तसदृशादित्यर्थः । तदुक्तमलंकारशेखरे - 'इवाद्यैः प्रतिमानायैः समानार्थेनिभादिभिः । बन्धबोरांदिवंशायः(?) सादृश्यप्रतिपत्तयः' इति । तमिति । तस्य पुण्डरीकस्यानुरूपं सखायं मित्रम् । अनुरूपमित्रसंबन्धप्रदर्शनार्थमुपमानान्तराण्याह - रूपस्येति । रूपस्य सौन्दर्यस्य यौवनमिव तारुण्यमिव । यौवनस्य तारुण्यस्य मकरकेतनमिव कंदर्पमिव । मकरकेतनस्य वसन्तसमयमिव सुरभिकालमिव । वसन्तसमयस्य दक्षिणानिलमिवापाचीपवनमिव मुनिकुमारकं तापसबालकं कपिजलनामानं जरा विससा तया धवलितस्य शुभ्रीकृतस्य कञ्चुकिनः सौविदल्लस्यानुमार्गेण पश्चाद्भागेन चन्द्रातपस्य शीतांशुप्रकाशस्यानुयायिनं पश्चाद्गामिन बालातपमिव तमपश्यमवालोकयम् । एतेन कञ्चुकिकपिञ्जलयोस्तत्समीपावधि सहागमनेऽपि वैलक्षण्यं योतितम् । अन्तिकमिति । अन्तिक समीपमुपागतस्य प्राप्तस्य चास्य कपिजलस्य पर्याकुलमिवात्यन्तव्याकुलमिव सविषादमिव सखेदमिव शून्यमिव नष्टचैतन्यमिवार्थिनमिव मार्गणमिवानुपैरतमपरिपूर्णमभिप्रेतं वाञ्छितं यस्मिन्नेतादृशमाकारमाकृतिमलक्षयमाकलयम् । उत्थाय च कृतः प्रणामो नमस्कारो ययैवंभूताह - -- - - - - - - - - टिप्प० - 1 ग्रासीकृतया सामान्यया एकया (अर्थात् एकैव मृणाललता द्वाभ्यामपि चञ्चुपुटेन उभयप्रान्ते धृता) मृणाललतया (का) विवरेण निजछिद्गपथेन (करणेन) संक्रामितानीव । इत्यर्थः । 2 'बन्धु-चोरादवंश्याद्यैः' इति पाठः स्यात् संभवितः । 3 वास्तेव तु - ‘अन्तर्गताकूलम्' अन्तर्गतम् आकृतम् अभिप्रायविशेषो यस्य तम् अर्थात् तस्याकार ईदृशो दृश्यते स्म यथा कश्चिदभिप्रायोऽस्य प्रकटनीयो वर्तते परं न तं स बहिः प्रकाशयतीति । - - - - - - - - - - - - - - - - - - - - - - - - पाठा० -१ समागत्य. २ ऋषिकुमारकम्. ३ धवलस्य. ४ आगच्छन्तम्. ५ उपगतस्य. ६ अन्तर्गताकृतम्. 322 कादम्बरी । कथायामू Page #336 -------------------------------------------------------------------------- ________________ प्रक्षाल्य चरणावुपज्य चोत्तरीयांशुकपल्लवेनाव्यवधानायां भूमावेव तस्यान्तिके समुपाविशम् । अथ मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव स तस्यां समीपोपविष्टायां तरलिकायां चक्षुरपातयत् । अहं तु विदिताभिप्राया दृष्ट्यैव ‘भगवन्, अव्यतिरिक्तेयमस्मच्छरीरात् । अशङ्कितमभिधीयताम्' इत्यवोचम् । एवमुक्तश्च मया कपिञ्जलः प्रत्यवादीत् - 'राजपुत्रि, किं ब्रवीमि । वागेव मे नाभिधेयविषयमवतरति त्रपया । क्व कन्दमूलाशी शान्तो वननिरतो मुनिजनः, क्व वायमनुपशान्तजनोचितो विषयोपभोगाभिलाषकलुषो मन्मथविविधविलाससंकटो रागप्रायः प्रपञ्चः । सर्वमेवानुपपनमालोकय, किमारब्धं दैवेन । अयत्नेनैव खलूपहासास्पदतामीश्वरो नयति जनम् । न जाने किमिदं वल्कलानां सदृशम्, उताहो जटानां समुचितम्, किं तपसोऽनुरूपम्, आहोस्विद्धर्मोपदेशाङ्गमिदम् । अपूर्वेयं विडम्बना केवलम् । अवश्यकथनीयमिदम् । अपर - *********** सादरं सबहुमानं स्वयमात्मनाऽऽसनं विष्टरमुपाहरमनयम् । तत्रोपविष्टस्यासीनस्य च बलाद्धठादनिच्छतोऽप्यवाञ्छतोऽपि चरणौ पादौ प्रक्षाल्य धावनं कृत्वोत्तरीयांशुकमुपसंव्यानांशुकं तस्य पल्लवेनांशुकेनोपमृज्य मार्जनं कृत्वा तस्यान्तिके तत्समीपेऽव्यवधानायां केवलायां भूमावेव समुपाविशमतिष्ठम् । अथेत्यानन्तर्ये । मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव वक्तुमिच्छुरिव स कपिजलस्तस्यां समीपोपविष्टायां तरलिकायां चक्षुर्नेत्रमपातयत्पातितवान् । अहं त्विति । तु पुनरर्थकः । दृष्ट्यैव दृशैव विदितो ज्ञातोऽभिप्राय आशयो यया सैवंभूताहमित्यवोचमित्यकथयम् । इतिवाच्यमाह - भगवनिति । हे भगवन्, हे स्वामिन्, अस्मच्छरीरादियं तरलिकाऽव्यतिरिक्ता अभिन्ना, अतोऽशङ्कितं शङ्कारहितं यथा स्यात्तथाभिधीयतां कथ्यताम् । एवं पूर्वोक्तप्रकारेण मयोक्तश्च कपिञ्जलः प्रत्यवादीप्रत्यवोचत् । किमुवाचेत्याह - राजपुत्रीति । हे राजपुत्रि, किं ब्रवीमि किं कथयामि । वागेव वचन्मेव त्रपया लज्जयाभिधेयं विषयं वाच्यगोचरं नावतरति नायाति । क्वेति । कन्दमूलाशी शान्तो वननिरतोऽरण्यासक्तो मुनिजनः क्व । अथ च रागप्रायो रागबहुलः प्रपञ्चो मायाविस्तारः क्व । प्रपञ्चं विशेषयन्नाह - अनुपशान्तेति । अनुपान्तो रोषाधुपयुक्तो यो जनो मनुष्यस्तस्योचितो योग्यः, विषयः सक्चन्दनादिस्तस्योपभोगः पुनःपुनस्तदासेवनं तस्याभिलाषः स्पृहा तेन कलुषो मलिनः, मन्मथस्य कंदर्पस्य ये विविधा अनेकप्रकारा विलासा विभ्रमास्तैः संकटः संकीर्णः । सर्वमेवं समग्रमेव अनुपपन्नमयुक्तमालोकय पश्य । देवेनादृष्टेन किमकथ्यस्वरूपमारब्धं प्रारब्धम् । खलु निश्चयेन । अयत्ननैव प्रयासं विनैवेश्वरो भगवाजनमुपहासास्पदतां परिहासधामता नयति प्रापयति । न जाने इति । नाहं जानामि इदं किं वल्कलानां सदृशं योग्यम् । उताहो अथवा जटानां सटानां समुचितं योग्यम् । किं तपसो नियमविशेषस्यानुरूपं सदृशम् । आहोस्विद्धितर्के । इदं धर्मोपदेशस्याङ्गं कारणम् । केवलमपूर्वाभिनवा विडम्बना कदर्थना । अवश्यं निश्चयेनेदं कथनीयं प्रतिपादनीयम् । एतस्मिन्नर्थे हेतुमाह - अपर इति । अपर एतद्व्यतिरिक्त उपायः कारणं न दृश्यते नेक्ष्यते। - - - - - - - - - - - - - - - - - - - टिप्प० - 1 रागः ऐहिकसुखलालसैव प्रायेण बाहुल्येन यस्मिन् सः । अयं प्रपञ्चः संसारः क्व । 2 'अशान्तजनोचितः' इत्यपि पाठः । अशान्तः शमेन इन्द्रियजयेन रहितो यो जनस्तस्य उचित इति तदर्थः । 3 दैवेन किम् अनुपपन्नं सर्वमारब्धमिति त्वामालोकय इति योजना । पाठा० - १ मत्समीप. २ कन्दमूलफलाशी. ३ शान्तोपवनरतः; शान्तो वनवासनिरतः. कपिजलस्यागमनम् ( पूर्वभागः । 323 Page #337 -------------------------------------------------------------------------- ________________ उपायो न दृश्यते । अन्या प्रतिक्रिया नोपलभ्यते । अन्यच्छरणं नालोक्यते । अन्या गतिर्नास्ति । अकथ्यमाने च महाननर्थोपनिपातो जायते । प्राणपरित्यागेनापि रक्षणीयाः सुहृदसव इति कथयामि । 'अस्ति भवत्याः समक्षमेव स मया तथा निष्ठुरमुपदर्शितकोपेनाभिहितः । तथा चाभिधाय परित्यज्य तं तस्मात्प्रदेशादुपजातमन्युरुत्सृष्टकुसुमावचयोऽन्यप्रदेशमगमम् । अपयातायं च भवत्या मुहूर्तमिव स्थित्वैकाकी किमयमिदानीमाचरतीति संजातवितर्कः प्रतिनिवृत्त्य विटपान्तरितविग्रहस्तं प्रदेशं व्यलोकयम् । यावत्तत्र तं नाद्राक्षम् । आसीच्च मे मनस्येवम् - 'किं नु मदनपरायत्तचित्तवृत्तिस्तामेवानुसरन्गतो भवेत् । गतायां च तस्यां लैब्धचेतनो लज्जमानो न शक्नोति मे दर्शनपथमुपगन्तुम् । आहोस्वित्कुपितः परित्यज्य मां गतः । उतान्वेषमाणो मामेव प्रदेशमन्यमितः समाश्रितः स्यात्' इत्येवं विकल्पयन्कंचित्कालमतिष्ठम् । तेन तु जन्मनः प्रभृत्यनभ्यस्तेन तस्य क्षणमप्यदर्शनेन दूय - *********** अन्या प्रतिक्रिया चिकित्सा नोपलभ्यते न प्राप्यते । अन्यदेतद्व्यतिरिक्तं शरणमाश्रयणस्थलं नालोक्यते न विलोक्यते । अन्यैतद्भिन्ना गतिः प्रकारान्तरं नास्तीत्यर्थः । उक्तवैपरीत्यदूषणमाह - अकथ्येति । तस्मिन्नप्रतिपाद्यमाने महाननर्थस्योपनिपातोऽकस्मात्पतनं जायते निष्पद्यते । भवतु, का नः क्षतिरित्याशयेनाह - प्राणेति । प्राणपरित्यागेनापि जीवितव्यवरोपणेनापि सुहृदां मित्राणामसवः प्राणा रक्षणीया रक्ष्या इति हेतोः कथयामि ब्रवीमि । अस्तीति । भवत्यास्तव समक्षमेव प्रत्यक्षमेव । यदा कुमारेण पारिजातमञ्जरी तव कर्णावतंसीकृता तदा त्वदायत्तत्वात्पतितामक्षमालामपि नाज्ञासीत् । तस्मिन्व्यामोहावसरे स पुण्डरीक उपदर्शितः कोपो येनैवंभूतेन मया तथा निष्ठुरं रूक्षमभिहितः कथितोऽस्ति । तथा च तेन प्रकारेण चाभिधाय कथयित्वा तं पुण्डरीकं परित्यज्य तस्मात्प्रदेशात् । उपेति । उपजात उत्पन्नो मन्युः कोपो यस्य सः । उत्सृष्टेति । उत्सृष्टस्त्यक्तः कुसुमानां पुष्पाणामवचयो ग्रहणं येन सः । समित्कुशकुसुमावचयनिमित्तमागतं तदपि प्रयोजनं कोपेन परित्यक्तमिति भावः । एवंविधोऽहमन्यप्रदेशं तदितरवनविभागमगममव्रजम् । अथ च भवत्यामपयातायां गतायां मुहूर्तमिव स्थित्वकाक्यद्वितीयोऽयं पुण्डरीक इदानीं सांप्रतं किमाचरति किमाचरणं करोतीति संजातो वितर्को विकल्पो यस्य सोऽहं प्रतिनिवृत्त्य व्याघट्य विटपैर्वक्षरन्तरितस्तिरोहितो विग्रहो यस्यैवंभूतस्तं प्रदेशं व्यलोकयमपश्यम् । यावत्कालं तत्र तस्मिन्प्रदेशे त कपिज्जलं नाद्राक्षं न व्यलोकिषम्, तदा मे मम मनसि चित्त एवमग्रे प्रतिपाद्यमानमासीदभूत् । किं तदित्याह - किं त्विति । अव्ययानामनेकार्थत्वात्किं नु कदाचिन्मदनेनानङ्गेन परायत्ता पराधीना चित्तवृत्तिर्यस्यैवंभूतस्तामेव गन्धर्वकन्यकामेवानुसरन्ननुव्रजन्गतो भवेत् । तस्यां गतायां च सत्यां लब्धा चेतना चैतन्यं येन सः । विशेषेण लज्जमानस्त्रपां कुर्वाणो मे मम दर्शनपथमालोकनमार्गमुपगन्तुं प्राप्तुं न शक्नोति न समर्थो भवति । आहोस्विदिति । आहोस्विद्वितर्के । कुपितः कोपं प्राप्तः सन्मां परित्यज्य विहाय गतः प्रस्थितः । उतेति । उताथवा मामेवान्वेषमाणो वीक्षमाण इतोऽन्यं प्रदेशं समाश्रितः स्यात् । इत्येवं विकल्पयन्विकल्पनां कुर्वन्कंचित्कालमतिष्ठं स्थितवान् । तेन त्विति । जन्मनः प्रभृति जन्म मर्यादीकृत्यानभ्यस्तेनापरिचितेन तस्य पुण्डरीकस्य क्षणमप्यदर्शनेनानवलोकनेन दूयमानो दुःखं कुर्वाणः । पुनरहमचिन्तयं चिन्तितवान् । क्षणमपीत्यनेन कदाचि - टिप्प० - 1 पुण्डरीकम् । नामादिविस्मृतिः क्षम्या भवति । - - - - - - - - - - - - - - - - - - - - - - - - ----- पाठा० - १ समस्तम्. २ लज्जया. 324 कादम्बरी । कथायाम Page #338 -------------------------------------------------------------------------- ________________ मानः पुनरचिन्तयम् - ‘स कदाचिद्वैर्यस्खलनविलक्षः किंचिदनिष्टमपि समाचरेत् । न हि किंचिन्न क्रियते हिया । तन्न युक्तमेनमेकाकिनं कर्तुम्' इत्यवधार्यान्वेष्टुमादरमकरवम् । अन्वेषमाणश्च यथायथा नापश्यं तं तथातथा सुहृत्स्नेहकातरेण मनसा तत्तदशोभनमाशङ्कमानस्तरुलतागहनानि चन्दनवीथिकालतामण्डपान्सरःकूलानि च वीक्षमाणो निपुणमितस्ततो दत्तदृष्टिः सुचिरं व्यचरम् ।। अथैकस्मिन्सरःसमीपवर्तिनि निरन्तरतया कुसुममय इव, मधुकरमय इव, परभृतमय इव, मयूरमय इवातिमनोहरे वसन्तजन्मभूमिभूते लतागहने कृतावस्थानम्, उत्सृष्टसकल व्यापारतया लिखितमिवोत्कीर्णमिव स्तम्भितमिवोपरतमिव प्रसुप्तमिव योगसमाधिस्थमिव निश्चलमपि स्ववृत्ताच्चलितम्, एकाकिनमपि मन्मथाधिष्ठितम्, सानुरागमपि पाण्डुता मावह - *********** दपि तेन सह नाहं वियुक्तः इदानीं भूयान्कालमादाय विलम्बित इति खेदातिशयप्रदर्शनमिति भावः । कदाचिदिति । कदाचित्संभावनामात्रमेतत् । धैर्यस्य स्खलन भ्रंशस्तेन विलक्षो वीक्षापन्नः किंचिदनिर्दिष्टनामकमनिष्टमप्यसमीहितमपि समाचरेत्समाचरणं कुर्यात् । हि निश्चितम् । हिया लज्जया किंचिन्न न क्रियते । अपि तु क्रियत एवेत्यर्थः । 'दौ नौ प्रकृतमर्थं सूचयतः' इति न्यायात् । तत्तस्माद्धेतोरेकाकिनमद्वितीयं कर्तुं विधातुं न युक्तं नोचितमिति पूर्वोक्तप्रकारेणावधार्य निश्चित्यान्चेष्टुमन्वेषणां कर्तुमादरमुयोगमकरवमघटयम् । अहमन्वेषमाणो यथायथा तं पुण्डरीकं नापश्यं न व्योलोकयं तथातथा सुहृन्मित्रं तस्य स्नेहः प्रीतिस्तेन कातरेण भीरुणा मनसा तत्तदशोभनममङ्गलमाशङ्कमान आरेक्यविषयीक्रियमाणस्तरुषु वृक्षेषु यानि लतागहनानि गह्वराणि, चन्दनवीथिकासु ये लतामण्डपा जनाश्रयास्तान्सरःकूलानि च कासारतीराणि च निपुणमेकतानं वीक्षमाणो विलोक्य(क)मान इतस्ततो दत्ता दृष्टिर्येन सोऽहं सुचिरं चिरकालं व्यचरमभ्रमम् । अथेति । इतस्ततो विचरणानन्तरमेकस्मिन्वसन्तजन्मभूमिभूते लतागहने कृतावस्थानं तं कुमारं पुण्डरीकमद्राक्षमपश्यमित्यन्वयः । लतागहनं विशेषयन्नाह - सर इति । सरसः कासारस्य समीपवर्तिनि पार्थस्थायिनि निरन्तरतया निबिडतया कुसुममय इव पुष्पमय इव, मधुकरमय इव भ्रमरमय इव । एतेन पुष्पाणामति सुरभित्वं सूचितम् । तेन भ्रमराणां बाहुल्यमिति भावः । परेति । परभृताः कोकिलास्तन्मय इव । एतेन सहकारोदेकः सूचितः । त्वतलादीनां योगे पूर्वस्य पुंवद्भावः । यद्वा अत्र पुरुषस्यैव ग्रहणम् । मयूराः कलापिनस्तन्मय इव । एतेनातिरमणीयत्वं सूचितम् । अत एवातिमनोहरेऽत्यभिरामे । अथ पुण्डरीकं विशेषयन्नाह - उत्सृष्ट इति । तदायत्तत्वादुत्सृष्टस्त्यक्तः सकलव्यापारो येन तस्य भावस्तत्ता तया लिखितमिव चित्रितमिव, उत्कीर्णमिवोत्कोरितमिव, स्तम्भितमिव कीलितमिव, उपरतमिव मृतमिव, प्रसुप्तमिव शयितमिव । योगेति । योगस्य चित्तवृत्तिनिरोधस्य यः समाधिरर्थमात्रावभासनरूपस्तत्रस्थमिव । अत्र विरोधालंकाखदर्शनपर्वकं तमेव विशेषयन्नाह - निश्चलमिति । निश्चलं निःप्रकम्पमपि स्ववत्तात्स्वाचाराच्चलितमिति विरोधः । तत्परिहारपक्षे चलितं भ्रष्टमित्यर्थः । एवमग्रेऽपि स्वबुद्ध्या ज्ञेयम् । एकाकिनमप्यद्वितीयमपि मन्मथेन मनोभवेनाधिष्ठितमाश्रितमिति विरोधः । द्वितीयाधिष्ठितत्वेनैकाकित्वाभावात् । सानुरागमिति । अत्रानुरागो रक्तिमा रक्तत्वं तेन सहितमपि पाण्डुतां वेततामावहन्तमादधानमिति विरोधः । रक्तश्चेतयोः स्वारसिकविरोधात् । टिप्प०.1 लज्जितः । 2 उद्घन्धनादिकमवाञ्छितममङ्गलम् । 3 'चन्दनवीथिकाः' इति पृथगेव ग्रन्थानुकूलम्, सुचिरान्वेषणार्थं बहुत्वयानुगुणत्वात् । 4 मन्मथो न शरीरी, अत एवायमेकाक्येवेति समाधानम् । 5 सानुरागं प्रियतमायामासक्तमिति परिहारः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० -१ सुवृत्तात्. (मदनार्तपुण्डरीकस्य दशा । पूर्वभागः । 325 Page #339 -------------------------------------------------------------------------- ________________ न्तम्, शून्यान्तःकरणमपि हृदयनिवासिदयितम् तूष्णीकमपि कथितमदनवेदनातिशयम्, शिलातलोपविष्टमपि मरणे व्यवस्थितम्, शापप्रदानभयादिवादत्तदर्शनेन कुसुमायुधेन संताप्यमानम्, अतिनिःस्पन्दतया हृदयनिवासिनीं प्रियां द्रष्टुमन्तःप्रविष्टैरिवासह्यसंतापसंत्रासप्रलीनैरिव मनःक्षोभप्रकुपितैरिवोन्मुच्य गतैरिन्द्रियैः शून्यीकृतशरीरम्, निःस्पन्दनिमीलितेनान्तर्घलन्मदनदहनधूमाकुलिताभ्यन्तरेणेवाक्षिपक्ष्मान्तरविवरवान्तानेकधारमनवरतमीक्षणयुगलेन बाष्पजलदुर्दिनमुत्सृजन्तम्, आलोहिनीमधरप्रभामनङ्गाग्नेः प्रदहतो हृदयादूर्ध्वसंसर्पिणीं शिखामिवादाय निष्पतद्भिरुच्छ्रासैस्तरलीकृतासन्नलताकुसुमकेशरम्, वामकपोलशयनीकृतकरतलतया समुत्सर्पद्भिरमलैर्नखांशुभिर्विमलीकृतमच्छाच्छचन्दनरसरचितललाटिकमिव ललाटदेशमुद्रहन्तम्, अचिरापनीतपारिजातकुसुमकर्णपूरतया सशेषपरिमलामोदलोभोपसर्पिणा - *********** शून्येति । शून्यमन्यकर्तव्यतेच्छारहितमन्तःकरणं यस्यैवंविधमपि हृदये निवासिनी निवसनशीला दयिता यस्येति विरोधः । कस्यचित्सद्भावे शून्यत्वाभावात् । तत्परिहारस्तु शून्यं ध्यानान्तरवर्जितं केवलं तदासक्तचित्तत्वादिति भावः । तूष्णीकमिति । तूष्णीकमपि मौनावलम्बिनमपि कथितो निवेदितो मदनवेदनाया अतिशय उत्कर्षो येनेति विरोधः । मौनकथनत्वयोर्विरुद्धधर्मत्वात् । शिलेति । शिलातल उपविष्टमासीनमपि मरणे व्यवस्थितं चलितमिति विरोधः । आसीनचलितत्वयोर्विरोधात् । शापेति । शापप्रदानस्य यद्भयं भीतिस्तस्मादिवादत्तं स्वस्य दर्शनं येनैवंभूतेन कुसुमायुधेन कंदर्पण संताप्यमानं पीड्यमानम् । अतीति । अतिशयेन यो निःस्पन्दो निःक्रियत्वं तस्य भावस्तत्ता तया हृदयनिवासिनीं प्रियां द्रष्टुं विलोकयितुमन्तःप्रविष्टैरिवान्तर्गतैरिव । असह्येति । असह्यः सोढुमशक्यो यः संतापः संज्वरस्तस्य संत्रासाद्भयाालीनैरिव नष्टैरिव । मनस इति । मनसो हृदयस्य क्षोभोऽन्यथाप्रवर्तनं तेन प्रकुपितैरिव कोपं प्राप्तैरिव । अत एवोन्मुच्य त्यक्त्वा गतैरेवंभूतैरिन्द्रियैः करणैः शून्यीकृतं शरीरं यस्य स तम् । इन्द्रियाणां तत्कार्यकारित्वादेवेन्द्रियवत्ता तदभावाच्छ्न्यीकृतमित्यर्थः । पुनः किं कुर्वन्तम् । अनवरतं निरन्तरमीक्षणयुगलेन नेत्रयुग्मेन बाष्पजलदुर्दिनमुत्सृजन्तं त्यजन्तम् । नेत्रयुग्मं विशेषयन्नाह - अन्तरिति । अन्तर्मध्ये ज्वलन्प्रज्वलन्यो मदनदहनः कामाग्निस्तस्य धूमो दहनकेतनं तेनाकुलितं व्याप्तमभ्यन्तरं मध्यं यस्यैवंभूतेनेव । अत एव निःस्पन्दं यथा स्यात्तथा निमीलितेन मुद्रितेन । अथ बाष्पजलदुर्दिनं विशेषयन्नाह - अक्षीति । अक्षिपक्ष्मणां नेत्ररोग्णां यानि विवराणि छिद्राणि तेभ्यो वान्ता उद्गीर्णा अनेकधारा यस्मिन् । आलोहिनीति । हृदयं प्रदहतोऽनङ्गाग्नेरूद्मसंसर्पिणीमुपरिगामिनी शिखामिव ज्वालामिवालोहिनी रक्तामधरप्रभा दन्तच्छदरुचमादाय गृहीत्वा निष्पतद्भिर्निर्गच्छद्भिरूच्छासैराहरैस्तरलीकृतानि कम्पनीकृतान्यासन्नलताकुसुमकेसराणि समीपवल्लीपुष्पकिजल्कानि येन स तथा तम् । वामेति । वामकपोलस्य शयनीकृतं तल्पीकृतं यत्करतलं हस्ततलं तस्य भावस्तत्ता तया समुत्सर्पद्भिर्ध्वं प्रसरद्भिर्नखांशुभिर्नखमयूखैर्विमलीकृतं श्वेतीकृतमत एव । अच्छाच्छेति । निर्मलो यश्चन्दनरसस्तेन रचिता निर्मिता ललाटिका तिलकविशेषो यस्मिन्नेवभूतमिव ललाटदेशमलिकप्रदेशमुदहन्तं धारयन्तम् । अचिरेति । अचिरापनीतं सयोनीतं यत्पारिजातकुसुमं मन्दारपुष्पं तस्य यत्कर्णपूरं तस्य भावस्तत्ता तया मधुकरकुलेन भ्रमरसमूहेन सनीलोत्पलमिव सेन्दीवरमिव, सतमालपल्लवमिव सतापिच्छकिसलयमिव, श्रवणदेशं कर्णप्रदेशं दधानं धारयन्तम् । अथ मधुकरकुलं विशेषयन्नाह - सशेषेति । सशेषौ समग्रौ यावामोदपरिमलौ तत्र विदूरगः सुरभिरामोदो - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अन्यकर्तव्यानि अनिच्छत एव हृदये प्रिया निवसतीति को विरोधः ? तस्मात् हृदये दयितानिवासेऽपि तस्य शून्यवतं विरुद्धम् । विषयान्तरविचारराहित्याच्च परिहारः । 2 कथितो गात्रस्तम्भादिना सूचित इति तत्परिहारः । 3 यः शिलातले उपविष्टः सः मरणे कथं व्यवस्थितः, एकस्य युगपदधिष्ठानदयवृत्तित्वे विरोधः, व्यवस्थितं कृतनिश्चयमिति तत्परिहारः 14 वामकपोलस्य शयनीकृतं हस्ततलं यस्य स वामकपोल शयनीकृतहस्ततलः, तद्भावस्तत्ता, तयेत्युचितम् । 5 सशेषः तदानीमप्यवशिष्टो यः परिमलस्तस्य य आमोदः (अनुभवजनित आनन्दः) तस्य लोभात् हितोः) उपसर्पिणा, इत्यर्थो बोध्यः । 326 कादम्बरी। कथायाम् Page #340 -------------------------------------------------------------------------- ________________ कलविरुतच्छलेन मदनसंमोहनमन्त्रमिव जपता मधुकरकुलेन सनीलोत्पलमिव सतमालपल्लवमिव श्रवणदेशं दधानम्, उत्कण्ठाञ्चररोमाञ्चव्याजेन प्रतिरोमकूपनिपतितानां मदनशराणां कुसुमशरशल्यशकलनिकरमिवाङ्गलग्नं बिभ्रामण्, दक्षिणकरेण च स्फुरितनखकिरणनिकरां करतलस्पर्शसुखकण्टकितामिव मुक्तावलीमविनयपताकामुरसि धारयन्तम्, मदनवशीकरणचूर्णेनेव कुसुमरेणुना तरुभिराहन्यमानम्, आत्मरागमिव संक्रमयद्भिरासत्रैरनिलचलितैरशोकपल्लवैः स्पृश्यमानम्, सुरताभिषेकसलिलैरिवाभिनवपुष्पस्तबकमधुशीकरैर्वनश्रियाभिषिच्यमानम्, अलिनिवहनिपीयमानपरिमलैरुपरिपतद्भिश्चम्पककुड्मलैस्तप्तशेरशल्यकैरिव सधूमैः कुसुमशरेण ताड्यमानम्, अतिबहलवनामोदमत्तमधुकरनिकरझंकारनिःस्वनैहुंकारैरिव - *********** विमर्दोत्थः पुनः सुरभिः परिमलः । ‘स आमोदो विदूरगः । विमर्दोत्थः परिमलः' इति कोशः । तयोर्यो लोभस्तृष्णा तेनोपसर्पिणा समीपागमनशीलेन । किं कुर्वता तेन । कलं मधुरं यद्विरुतं कारस्तस्य छलेन मिषेण मदनस्य संमोहनमन्त्रं वशीकरणमन्त्र जपतेव जापं कुर्वतेव । पुनः किं कुर्वन्तम् । उत्कण्ठेति । उत्कण्ठोत्कलिका तया यो ज्वरस्तापस्तेन यो रोमाञ्चो रोमोद्गमस्तस्य व्याजेनापदेशेन प्रतिरोमकूपं निपतितानां लग्नानां मदनशराणां कामबाणानां मध्ये कुसुमलक्षणा ये शरा बाणास्तेषां शल्यशकलानि त्रुटितबाणखण्डानि मध्ये प्रविष्टानि किंचिद् बहिर्दृश्यमानानि तेषां निकर समूहमिवाङ्गलग्नं बिभ्राणं । पुनः किं कुर्वाणम् । दक्षिणकरेणेतस्ततः पर्यस्ता मुक्तावलीमेकावलीमुरसि हृदये धारयन्तं बिभ्राणम् । कीदृशीम् । स्फूरितः प्रयुतितो नखकिरणानां निकरः समूहो यस्याः सा ताम् । नखकिरणानां दीर्घतीक्ष्णत्वरूपकण्टकसाम्यादुत्प्रेक्षते - करतलेति । करतलस्य यत्स्पर्शसुखं तेन कण्टकितामिव । श्वेतत्वसाम्यादाह - अविनयेति । अविनयः पूज्यपूजाव्यतिक्रमस्तस्य पताकां ध्वजामिव । पुनः प्रकारान्तरेण तमेव विशिनष्टि - मदनेति । कुसुमरेणुना पुष्पधूल्या तरुभिर्वृक्षराहन्यमानं ताड्यमानम् । शुक्लत्वसाम्यादाह-मदनस्य यद्वशीकरणचूर्णं तेनेव । आत्मेति । आत्मनो राग आरुण्यमनुरागरूपा रतिश्च तं संक्रामयद्भिरिव संक्रमणं कारयद्भिरिवासनः समीपस्थैरनिलचलितैर्वायुना कम्पितैरेवंविधैरशोकपल्लवैः स्पृश्यमानं संघट्यमानम् । वत्तश्रिया काननलक्ष्म्या अभिनवो नूतनो यः पुष्पाणां कुसुमानां स्तबको गुच्छकस्तस्य मधुरसस्तस्य शीकरैः कणैरभिषिच्यमानमभिषेकविषयीक्रियमाणम् । तत्रोद्दीपकत्वसाम्येनाह - सुरतेति । सुरतलक्षणं यद्राज्यं तदर्थमभिषेकसलिलैरिव । अत्राभिषेकपदसामदेिव सुरते राज्यत्वं द्योत्यते । अलीति । अलिनिवहैर्धमरसमूहैर्निपीयमान आस्वाद्यमानः परिमलो येषां तैः । उपरिपतद्भिपरिष्टाक्षरद्धिरेवंभूतैश्चम्पका हेमपुष्पकास्तेषां च कृष्णत्वादुत्प्रेक्षामाह-सधूमैस्तप्तशरशल्यकैरिव । अत्र शल्यकानि शरप्रान्तवर्तिलोहरूपाणीत्यर्थः अतीति । अतिबहलोऽतिनिबिडो यो वनामोदो वनपरिमलस्तेनो - - - - - - - - - - - - - - - - - - - - - - -- टिप्प० -1 मदनशराणां (संबन्धिनः) ये कुसुमरूपाः शराः (फलकरहिताः काण्डाः) तेषां शल्यशकलनिकर (अग्रस्थलोहफलकखण्डसमूहम्) बिभ्राणमित्यर्थः । रोमाञ्चो नास्ति मन्ये प्रतिरोमकूपं निपतिताः बाणास्ते निर्गताः किन्तु निमग्नः अग्रखण्डस्तु रोमकूपेषु लग्न इत्याशयः । 2 इतस्ततः पर्यस्तामिति मूलेऽप्यस्त्येव । दक्षिणकरेण इतस्ततः पर्यस्तामिति योजनेन टीकाकारस्य काऽभिहिता तात्पर्यचर्येत्यन्वेषणीयम् । दक्षिणकरेण उरसि मुक्तावली धारयन्तम् (अर्थात्स्वजीवनरक्षणाय प्रियां मुक्तासज हस्तेनोरसि दधाति') अन्यत्तु स्पष्टम् । 3 आत्मनो रागः (आरुण्यम्) एव रागः अनुरागस्तं संक्रामयद्भिः । रक्तवर्णो न संक्रामितो मन्ये अनुराग एव संचारित इत्याशयः । आरुण्यानुरागयोर्भदेप्यभेदाध्यवसायादतिशयोक्तिः । संक्रामयद्भिरिव, इत्यतिशयोक्तिरिति द्वयोरङ्गाङ्गितया संकरः । पाठा० - १ स्फुरितकिरण. २ निकरम्. ३ शल्यकैः. Insill (मदनार्तपुण्डरीकस्याऽवस्था) पूर्वभागः । 327 Page #341 -------------------------------------------------------------------------- ________________ दक्षिणानिलेन निर्भय॑मानम्, मदकलकोकिलकुलकोलाहलैर्वसन्तजयशब्दकलकलैरिव मधुमासेनाकुलीक्रियमाणम्, प्रभातचन्द्रमिव पाण्डुतया परिगृहीतम्, निदाघगङ्गाप्रवाहमिव क्रेशिमानमागतम्, अन्तर्गतानलं चन्दनविटपमिव म्लायन्तम्, अन्यमिव, अदृष्टपूर्वमिव, अपरिचितमिव, जन्मान्तरमिवोपनतम्, रूपान्तरेणेव परिणतम्, आविष्टमिव, महाभूताधिष्ठितमिव, ग्रहगृहीतमिवोन्मत्तमिव, छलितमिवान्धमिव, बधिरमिव, मूकमिव, विलासमयमिव, मदनमयमिव, परायत्तचित्तवृत्तिं परां कोटिमधिरूढं मैदनावेशस्य, अनभिज्ञेयपूर्वाकारं तमहमद्राक्षम् । अपगतनिमेषेण चक्षुषा तदवस्थं चिरमुवीक्ष्य समुपजातविषादो वेपमानेन हृदयेनाचिन्तयम् - ‘एवं नामायमतिदुर्विषहवेगो मकरकेतुः, येनानेन क्षणेनायमीदृशमवस्थान्तरप्र - *********** न्मत्ता ये मधुकरा भ्रमरास्तेषां निकरः समूहस्तस्य झंकारलक्षणा निस्वनाः शब्दास्तैः कृत्वा दक्षिणानिलेन निर्भय॑मानं तिरस्क्रियमाणम् । शब्दत्वसाम्यादाह-हुंकारैरिव । मादृश उद्दीपके विद्यमानेऽपि तव किं सुरतप्रारम्भो न भविष्यत्येवेति साभिमानैरित्यर्थः । मदेति । मदेन हर्षेण कला मनोहरा ये कोकिलाः पिकास्तेषां कुलं तस्य कोलाहलैः कलकलैः कृत्वा मधुमासेन चैत्रमासेनाकुलीक्रियमाणं व्याकुलीक्रियमाणम् । कोलाहलस्योद्दीपकत्वाप्रोत्साहकत्वसाम्येनाह - वसन्तेति । वसन्तस्य पुष्पकालस्य जयशब्दास्तेषां कलकलैरिव । प्रभातेति । प्रभातस्य प्रत्यूषस्य यश्चन्द्रः कुमुदबान्धवस्तमिव । उभयोः साम्यमाह - पाण्डुतेति । पाण्डुतया पाण्डुरत्वेन परिगृहीतं स्वीकृतम् । निदाघेति । निदाघो ग्रीष्मकालस्तस्मिन्यो गङ्गाप्रवाहः स्वधुनीरयस्तद्वदिव क्रशिमानं कृशत्वमागतं प्राप्तम् । अन्तरिति । अन्तर्गतो मध्यगतोऽनलो वह्निर्यस्मिन्नेवंभूतश्चन्दनविटपो मलयजतरुस्तद्वदिव म्लायन्तं म्लानतां गच्छन्तम् । पूर्वदृष्टावस्थाशून्यत्वादाह - अन्येति । अन्यमिव पूर्वस्माद्भिन्नमिव । असंभावितविकारवत्त्वादाह - अदृष्टेति । अदृष्टपूर्वमिवानवलोकितपूर्वमिव । अपेति । अपरिचितमिवासंस्तवमिव । जन्मेति । जन्मान्तरं भवान्तरमुपगतमिव प्राप्तमिव । रूपेति । प्रशमलक्षणं परित्यज्य सानुरागलक्षणेन रूपान्तरेण परिणतमिव तन्मयता गतमिव आविष्टमिव भूतोन्मादवातरोगाभिभूतमिव । महेति । महाभूतानि वेतालास्तैरधिष्ठितमिवाश्रितमिव । ग्रहेति । ग्रहाः पिशाचादयस्तैर्गृहीतमिवाधिष्ठितमिव, उन्मत्तमिव क्षीबमिव, छलितमिव छलनां प्राप्तमिव, अन्धमिव गताक्षमिव, बधिरमिवाकर्णमिव, मूकमिवास्फुटवाचमिव, विलासमयमिवानन्दमयमिव, मदनमयमिव कंदर्पमयमिव । परेति । परस्यां महाश्वेतायामायत्ता लग्ना चित्तवृत्तिर्यस्यैवंभूतम् । मदनः कंदर्पस्तस्यावेशोऽध्यासस्तस्य परामुत्कृष्टां कोटिमवस्थामधिरूढमारूढम् । अनेति । अनभिज्ञेयोऽनवसेयः पूर्वाकार आद्याकृतिर्यस्य स तम् । अन्वयस्तु प्रागेवोक्तः । अपेति । अपगतो निमेषो निमीलनं यस्यैवंभूतेन चक्षुषा नेत्रेण तदवस्थं पूर्वावस्थं चिरं चिरकालमुवीक्ष्य विलोक्य समुपजातः समुत्पन्नो विषादः खेदो यस्य सः । वेपेति । वेपमानेन कम्पमानेन हृदयेन चित्तेन अचिन्तयमध्यायम् । एवमिति । एवममुना प्रकारेण । नामेति कोमलामन्त्रणे । अयमतिशयेन दुर्विषहो दुःसहो वेगो यस्यैतादृशो मकरकेतुः कंदर्पो येन कारणेनानेनानङ्गेन क्षणेनायमीदृशमप्रतीकारमप्रतिक्रियमवस्थान्तरप्रकार - - टिप्प० -1 तिरस्कारपूर्वक भीष्यमाणमित्यर्थ उचितः । 2 मदकलाः मदोन्मत्ता इत्यर्थो वाच्यः । 3 चन्दनविटपो मलयजशाखेत्यर्थो वाच्यः, विटपपदस्य शाखावाचकत्वात् । 4 पूतनादय इत्यर्थो योग्यः, पौनरुक्त्यप्रसक्तेः । 5 अवस्थान्तरम् प्रकारश्चेत्येक एवार्थ इति नैवंविधमुदीरितं बाणस्य । अत एव - 'ईदृशमवस्थान्तर मप्रतीकारमुपनीतः' इत्येव पाठः एवं अर्वाचीनानामभिप्रायः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -- पाठा० - १ शिमागतम्. २ मन्मथा. 328 कादम्बरी। कथायाम्-) Page #342 -------------------------------------------------------------------------- ________________ कारमप्रतीकारमुपनीतः कथमेवमेकपदे व्यर्थीभवेदेवंविधो ज्ञानराशिः । अहो बत महच्चित्रम्, तथा नामायमाशैशवाखीरप्रकृतिरस्खलितवृत्तिर्मम चान्येषां च मुनिकुमारकाणां स्पृहणीयचरित आसीत् । अत्र त्वितर इव परिभूय ज्ञानमवगणय्य तपःप्रभावमुन्मूल्य गाम्भीर्यं मन्मथेन जडीकृतः । सर्वथा दुर्लभं यौवनमस्खलितम्' इति । उपसृत्य च तस्मिन्नेव शिलातलैकपाधै समुपविश्यांसावसक्तपाणिस्तमनुन्मीलितलोचनमेव 'सखे पुण्डरीक, कथय किमिदम्' इत्यपृच्छम् । अथ सुचिरसंमीलनालग्नमिव कथमपि प्रयत्नेनानवरतरोदनवशात्समुपजातारुणभावमश्रुजलपटेलपूरप्लावितमुत्कम्पितमिव सवेदनमिव स्वच्छांशुकान्तरितरक्तकमलवनच्छायं चक्षुरुन्मील्य मन्थरमन्थरया दृष्ट्या सुचिरं विलोक्य मामायततरं निःश्वस्य लज्जाविशीर्यमाणाक्षरम् ‘सखे कपिञ्जल, विदितवृत्तान्तोऽपि किं मां पृच्छसि' इति कृच्छ्रेण शनैः शनैरवदत् । *********** दशान्तरप्रकारमुपनीतः प्रापितः । उक्तविपर्यये दूषणमाह - कथमिति । एवंविधो ज्ञानराशिरेतादृशज्ञानसमूह एकपदे युगपत्कथमेवं व्यर्थीभवेत् । अत्र वितर्के प्रार्थनायां लिङ् । अहो इत्याश्चर्ये । बतेति खेदे । इदं महच्चित्रं महदाश्चर्यम् । तथा नाम तेन प्रकारेणायमा शैशवादाबाल्यान्मम चान्येषां च मुनिकुमारकाणां स्पृहणीयमभिलषणीयं चरितं यस्यैवविध आसीदभूत् । अथैनं विशिनष्टि - धीरेति । धीरा स्थिरा प्रकृतिः स्वभावो यस्य स तम् । अस्खलितेति । अस्खलिता अखण्डिता वृत्तिर्यस्य स तम् । अत्रं त्विति । अस्मिन्प्रदेश इतर इवान्य इवं ज्ञानं परिभूय तिरस्कृत्य तपःप्रभावं तपोमाहात्म्यमवगणय्यावगणनां कृत्वा गाम्भीर्यं गम्भीरतामुन्मूल्योच्छेद्य मन्मथेन कंदर्पण जडीकृतो जडतां नीतः । सर्वथेति । सर्वप्रकारेणास्खलितखण्डितं यौवनं तारुण्यं दुर्लभं दुःप्रापम् । उपेति । उपसृत्य समीपमागत्य तस्मिन्नेव शिलातलैकपाधै समुपविश्यांसे स्कन्धेऽवसक्तः स्थापितः पाणिः करो येन स तमनुन्मीलितलोचनमेव मुद्रितनेत्रमेवेत्यपृच्छं इत्यवोचम् । इतियोत्यमाह - सखे इति । हे सखे पुण्डरीक, कथय निवेदय किमिदम् । अथेति प्रश्नानन्तरम् । मन्थरमन्थरयालसालसया दृष्टया सुचिरं चिरकालं यावत् मां विलोक्य निरीक्ष्यायततरं दीर्घतरं निःश्वस्य चक्षुरुन्मील्य विमुग्र कथमपि महता कष्टेन । लज्जेति । लज्जया त्रपया विशीर्यमाणानि विदीर्यमाणान्यक्षराणि यस्मिन्निति क्रियाविशेषणम् । इति शनैः शनैर्मन्दं मन्दमवददवोचदित्यन्वयः। अथ चक्षुर्विशेषयन्नाह - सुचिरेति । सुचिरं चिरकालं यत्संमीलनं निमीलनं तेनालग्नमिवान्योन्यासंपृक्तमिव । प्रयत्नेन बलात्कारेणानवरतं निरन्तरं यद्रोदनमश्रुपातस्तद्वशात्समुपजातः समुत्पन्नोऽरुणभावो रक्तता यस्मिन् । अश्विति । अश्रुजलस्य नेत्राम्भसो यत्पटलं वृन्दं तस्य पूरो वृद्धिस्तेन प्लावितं व्याप्तमुत्कम्पितमिवोद्भूतमिव सवेदनमिव सव्यथमिव । अश्रूणां श्वेतत्वसाम्येनाह - स्वच्छेति । स्वच्छमतिनिर्मलं यदंशुकं वस्त्रं तेनान्तरितं व्यवहितं यद्रक्तकमलवनं तद्वच्छाया शोभा यस्मिन् । इतिवाच्यमाह - सखे इति । हे सखे कपिञ्जल, विदितवृत्तान्तोऽपि ज्ञातोदन्तोऽपि । विकारदर्शनादिति भावः । किं मां पृच्छसि किं प्रश्न करोषि । - - - - - - - - - - - - - - - - टिप्प० -1 वितर्कस्य न प्रार्थनमर्थः । न चात्र प्रार्थना, न किल कपिञ्जलेन प्रार्थते व्यर्थीभवेदिति । तस्मात् संभावनायां लिङ् । कथमिदं संभाव्यते इति तदाशयः । 2 'अय तु' इति पाठेऽधिकं स्वारस्यम्, प्रमाणमत्र सहृदयहृदयम् । 3 नास्ति स्खलितं सत्पथाद् भंशो यत्र तदस्खलितम् । 4 'संमीलनाल्लग्नमिव' इत्यपि पाठः । चिरकालपर्यन्तं मुद्रणवशात् लग्नमिव परस्परं संसक्तावरणद्वयमिव इति तदर्थः । 5 प्रयत्नेन उन्मील्य इत्यन्वयः । पाठा० - १ अद्य. २ उन्मील्य. ३ अनुन्मीलित; अहमसमुन्मीलित. ४ सन्मीलनालग्नम्. ५ उपजात. ६ वर्ष. ७ उत्कुपितम्. ८ मन्थरया. ९ विरलाक्षरम्. (मदनार्तपुण्डरीकस्याऽवस्था पूर्वभागः । 329 Page #343 -------------------------------------------------------------------------- ________________ अहं तु तदाकर्ण्य तदवस्थयैवाप्रतीकारविकारोऽयं तथापि सुहृदा सुहृदसन्मार्गप्रवृत्तो यावच्छक्तितः सर्वात्मना निवारणीय इति मनसावधार्याब्रवम् - ‘सखे पुण्डरीक, सुविदितमेतन्मम । केवलमिदमेव पृच्छामि, यदेतदारब्धं भवता किमिदं गुरुभिरुपदिष्टम्, उत धर्मशास्त्रेषु पठितम्, उत धर्मार्जनोपायोऽयम्, उतापरस्तपसां प्रकारः, उत स्वर्गगमनमार्गोऽयम्, उत व्रतरहस्यमिदम्, उत मोक्षप्राप्तियुक्तिरियम्, आहोस्विदन्यो नियमप्रकारः । कथमेतद्युक्तं भवतो मनसापि चिन्तयितुम्, किं पुनराख्यातुमीक्षितुं वा । अप्रबुद्ध इवानेन मन्मथहतकेनोपहासास्पदतां नीयमानमात्मानं नावबुध्यसे । मूढो हि मदनेनायास्यते । का वा सुखाशा साधुजननिन्दितेष्वेवंविधेषु प्राकृतजनबहुमतेषु विषयेषु भवतः । स खलु धर्मबुद्ध्या विषलेता सिञ्चति, कुवलयमालेति निस्त्रिंशलतामालिङ्गति, कृष्णागुरुधूमलेखेति कृष्णसर्पमवगृहति, रत्नमिति ज्वलन्तमङ्गारमभिस्पृशति, मृणालमिति दुष्टवारणदन्तमुसलमुन्मूलयति, मूढो विषयोपभोगेष्वनिष्टानुबन्धिषु यः सुखबुद्धिमारोपयति । अधिगतविषयत - *********** अहं तु तदाकर्ण्य निशम्य तदवस्थयैव पूर्वोक्तरीत्यैवायं पुण्डरीकोऽप्रतीकारविकारोऽप्रतिक्रियविकृतिस्तथापि सुहृदा मित्रेणासन्मार्गप्रवृत्तोऽसाधुपथानुगः सुहृयावच्छक्तितो यावद्बलतः सर्वात्मना सर्वप्रकारेण निवारणीयो वर्जनीय इति मनसा चित्तेनावधार्य निश्चित्याब्रवमयोचम् । हे सखे पुण्डरीक, एतन्मम सुविदितं सुज्ञातम् । तथापि केवलमिदमेव पृच्छामि प्रश्नविषयीकरोमि । तदेवाह - यदिति । भवता त्वया यदेतदारब्धं प्रस्तुतं तत्किमिदं गुरुभिर्हिताहितप्राप्तिपरिहारोपदेशकैरुपदिष्टं कथितम्, उत धर्मशास्त्रेषु स्मृत्यादिषु पठितं भणितम्, उताथवायं धर्मार्जनोपायः सुकृतोपार्जनप्रकारः, उत तपसामपरो भिन्नः प्रकारो भेदः, उत स्वर्गगमनस्यायं मार्गः पन्थाः, उतेदं व्रतस्य दीक्षाया रहस्यमुपनिषत्, उत मोक्षस्य महानन्दस्येयं प्राप्तियुक्तिरधिगमसमर्थनम् । आहो इति । आहोस्विद्धितर्के । अन्यो विलक्षणो नियमप्रकारोऽभिग्रहविशेषः । भवतस्तव कथमेतद्युक्तमुचितं मनसापि चित्तेनापि चिन्तयितुं विचारयितुम् । किं पुनरिति । आख्यातुं कथयितुमीक्षितुं विलोकयितुं वा किं पुनर्भण्यते । सर्वथा न युक्तमिति भावः । अप्रेति । अप्रबुद्ध इवाज्ञानीवानेन मन्मथहतकेन पापकारिणा कंदर्पणात्मानं स्वमुपहासास्पदतां परिहासधामता नीयमानं प्राप्यमाणं नावबुध्यसे न जानासि । हीति निश्चितम् । मूढो मन्दो मदनेन कंदर्पणायास्यते पीड्यते । साध्विति । साधुजनाः सज्जनास्तैर्निन्दितेषु गर्हितेषु प्राकृताः पामरा ये जना लोकास्तैर्बहुमतेषु संमतेष्वेवंविधेष्वेतादृशेषु विषयेष्विन्द्रियार्थेषु भवतस्तव का सुखाशा वाञ्छा । स इति । स मूढो धर्मबुध्या पुण्यमिति कृत्वा विषलतां विषवल्ली सिञ्चति सेकं करोति । कुवलेति । कुवलयमालोत्पलसगिति कृत्वा निस्त्रिंशलतां खङ्गलतामालिङ्गत्याश्लिषति । कृष्णेति । कृष्णागुरुः काकतुण्डस्तस्य धूमलेखा दहनकेतनपङ्क्तिरिति कृत्वा कृष्णसर्पमवगृहति परिष्वजते । रत्नेति । रत्नमिति मणिरिति कृत्वा ज्वलन्तमङ्गारं प्रसिद्धमभिस्पृशति स्पर्श करोति । मृणालेति । मृणालमिति तन्तुलमिति कृत्वा दुष्टो यो वारणो गजस्तस्य दन्तमुसलं दशनायोग्रमुन्मूलयत्युच्छिनत्ति । तच्छब्दस्य यच्छब्दसापेक्षत्वादाह - य इति । यः पुमाननिष्टानां दुःखानामनुबन्धः परम्परा विद्यते येष्वेवंविधेषु विषयोपभोगेष्विन्द्रियार्थोपभोगेषु सुखबुद्धिमिदं सुखजनकमिति धियमारोपयति स्थापयति । एतेन सर्वथा सुखजनकत्वं नास्तीति ध्वनितम् । अधीति । अधिगतं ज्ञातं विषयाणां तत्त्वं स्वरूपं येनैवंविधोऽपि कस्मात्केन हेतुना खद्योत इव ज्योतिरिङ्गन - टिप्प० - 1 व्रतानुष्ठानभेदः । 2 मनसापि चिन्तयितुं भवतः कथं युक्तमित्यन्वयो बोध्यः । 3 साधारणाः । 4 कमलकन्दम् । - - - - - - - - - - - - - -- - - - - - -- - पाठा० - १ युक्तिः . २ कथय किमप्रबुद्ध. ३ लतावनम्. ४ अवगृहते. ५ महारत्नम्. ६ अनुबन्धेषु. ७ यः परिणतिविरसेषु. 330 कादम्बरी। कथायाम् Page #344 -------------------------------------------------------------------------- ________________ त्त्वोऽपि कस्मात्खद्योत इव ज्योतिर्निवार्यमिदं ज्ञानमुद्रहसि, यतो न निवारयसि प्रबलरजःप्रसरकलुषितानि सोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न नियमयसि वा क्षुभितं मनः । कोऽयमनङ्गो नाम । धैर्यमवलम्ब्य निर्भयंतामयं दुराचारः' इत्येवं वदत एव मे वचनमाक्षिप्य प्रतिपक्ष्मान्तरालप्रवृत्तबाष्पवेणिकं प्रभृज्य चक्षुः करतलेन मामवलम्ब्यावोचत् - 'सखे, किं बेहूक्तेन । सर्वथा स्वस्थोऽसि । आशीविषविषवेगविषमाणामेतेषां कुसुमचापसायकानां पतितोऽसि न गोचरे, सुखमुपदिश्यते परस्य । परस्य यस्य चेन्द्रियाणि सन्ति, मनो वा वर्तते, यः पश्यति वा, श्रृणोति वा, श्रृतमवधारयति वा, यो वा शुभमिदं न शुभमिदमिति विवेक्तुमलं स खलूपदेशमर्हति । मम तु सर्वमेवेदमतिदूरापेतम् । अवष्टम्भो ज्ञानं धैर्य प्रतिसंख्यानमित्यस्तमितैषा कथा । कथमप्येव मेऽयत्नविधृतास्तिष्ठन्त्यसवः । दूरा - *********** इव ज्योतिस्तत्त्वज्ञानं प्रकाशश्च तेन निवार्य दूरीकरणाहँ ज्ञानमुद्रहसि धारयसि । अस्य दिवाप्रणष्टचैतन्यत्वेन तादृशधर्मवत्त्वसाधात्खद्योतस्योपमानमिति भावः । एतस्मिन्नर्थे हेतुमाह - यत इति । यस्माद्धेतोः प्रबलो यो रजःप्रसरः पापकर्मविस्तारो धूलिश्च तेन कलुषितानि मलिनीकृतानि स्वतोऽम्भःप्रसरणानि सोतांसि तानीवोन्मार्गप्रस्थितान्युत्पथप्रवृत्तानीन्द्रियाणि करणानि न निवारयसि न निवारणं करोषि । क्षुभितं क्षोभं प्राप्तं मनश्चित्तं न नियमयसि न नियन्त्रयसि । नामेति कोमलामन्त्रणे । कोऽयमनङ्गः कामः । धैर्यं धीरिमामवलम्ब्याश्रित्यायं दुराचारो दुष्टाचरणो निर्भर्त्यतां तिरस्क्रियताम् । इत्येवं पूर्वोक्तप्रकारेण वदत एव कथयत एव मम वचनं वच आक्षिप्यावगणय्य । प्रतीति । प्रति प्रत्येकं यत्पक्ष्मणोऽन्तरालं विचालं तत्र प्रवृत्ता बाष्पवेणिका यस्मिन्नेवंभूतं चक्षुः । अत्र वेणी प्रवाहः । 'वेणी धारा रयश्च सः' इति कोशः । स्वार्थे कप्रत्यये 'केऽणः' इति हस्वत्वम् । प्रमृज्येति । प्रमार्जनां कृत्वा करतलेन हस्ततलेन मामवलम्ब्यालम्बनीकृत्यावोचदब्रवीत् । किं तदित्याह - सख इति । __ हे सखे, बहूक्तेन बहुभाषितेन किम् । सर्वथा त्वं स्वस्थो निरुपद्रवोऽसि । तत्र हेतुमाह - आशीति । आशीविषाः सस्तेिषां विष वेगो गरलप्रसरस्तद्विषमाणां कठिनानामेतेषां कुसुमचापसायकानां मन्मथवाणानां गोचरे विषये न पतितोऽसि, तेन त्वया परस्य सुखमुपदिश्यत उपदेशः क्रियते । स्वस्योपदेशानर्हत्वं प्रतिपादयन्नाह - परेति । परस्य मद्व्यतिरिक्तस्य यस्य पुंस इन्द्रियाणि करणानि सन्ति । वेति सर्वत्र विकल्पार्थः । यस्य मनो वर्तते । यः पुमान्पश्यतीक्षते श्रृणोत्याकर्णयति वा । श्रुतमाकर्णितं चावधारयति जानाति । तदभिप्रायावधारणं करोतीत्यर्थः । यः पुमानिदं शुभमिदमशुभमिति विवेक्तुं विवेचनां कर्तुमलं समर्थः । यत्तदोर्नित्याभिसंबन्धात्स पुमानुपदेशं हितशिक्षामर्हति योग्यो भवति । मम तु सर्वमेवेदं पूर्वोक्तं दूरापेतं दुरापास्तम् । इत्येषा कथा वास्तिमितास्तं प्राप्ता । इतिशब्दद्योत्यमाह - अवेति । अवष्टम्भश्चित्तवृत्तिनिरोधः, ज्ञानं विवेकः, धैर्य बाह्येन्द्रियनिरोधः, प्रतिसंख्यानमध्यात्मज्ञानम् । कथमिति । मे ममासवः प्राणा अयत्नेनाप्रयासेन - टिप्प०-1 अस्मिन्पाठे-खयोतो ज्योतिषा निवार्यं किमुबहतीति कर्मणोऽपेक्षा । तस्मात्-'ज्योतिर्निर्वीर्यमिदम् इत्येव पाठः । खयोतो यथा निर्वीर्य ज्योतिस्तथा त्वं निर्वीर्यम् (अहितनिवारणाभावादसमर्थम्) ज्ञानमुबहसीति तदर्थः । 2 प्रबलो यो रजसः रजोगुणसंभूतस्य कामस्य प्रसरः वेगस्तेन कलुषितानि । उक्तं गीतायाम्-'काम एष क्रोध एष रजोगुणसमुद्भवः' पक्षान्तरे स्पष्टोऽर्थः । 3 समाप्तेः पूर्वमेव स्ववचनेन विच्छिद्य । 4 यस्येति यत्पदेनापि स एव गृह्यते यस्येन्द्रियाणि सन्तीति इन्द्रियशून्यात्पुण्डरीकात्पर एव स्वतो ग्रहीष्यते । प्रत्युत पौनरुक्त्येन वैरूप्यम् । पाठा० - १ च. २ पाणौ माम्. ३ बहुनोक्तेन. ४ सुस्थोऽसि. ५ वियते. - - - - - - - - - - - - - - - - - - - - - - - - - - - - कपिजलकृत उपदेशः पूर्वभागः । Page #345 -------------------------------------------------------------------------- ________________ तीतः खलूपदेशकालः । समतिक्रान्तो धैर्यावसरः । गता प्रतिसंख्यानवेला । अतीतो ज्ञानावष्टम्भसमयः । केन वान्येनास्मिन्समये भवन्तमपहायोपदेष्टव्यम्, उन्मार्गप्रवृत्तिनिवारणं वा करणीयम् । कस्यान्यस्य वा वचसि मया स्थातव्यम् । को वापरस्त्वत्समो मे जगति बन्धुः । किं करोमि, यन्न शक्नोमि निवारयितुमात्मानम् । इयमनेनैव क्षणेन भवता दृष्टा दुष्टावस्था । तद्गत इदानीमुपदेशकालः । यावत्प्राणिमि तावदस्य कल्पान्तोदितद्वादशदिनकरकिरणातपतीव्रस्य मदनसंतापस्य प्रतिक्रियां क्रियमाणामिच्छामि । पच्यन्त इव मेऽङ्गानि, उत्क्वथ्यत इव हृदयम्, प्लुष्यत इव दृष्टिः, ज्वलतीव शरीरम् । अत्र यत्प्राप्तकालं तत्करोतु भवान्' इत्यभिधाय तूष्णीमभवत् । एवमुक्तेऽप्यहमेनं प्राबोधयम् । यदा पुनःपुनः शास्त्रोपदेशविशदैः सनिदर्शनः सेतिहासैश्च वचोभिःसानुनयं सोपग्रह चाभिधीयमानोऽपि नाकरोत्कर्णे, तदाहमचिन्तयम् - *********** विधृता कथमप्येव तिष्ठन्ति । यतो दुःसहमदनबाणैराक्रान्तस्य मम प्राणेष्वप्युपेक्षेति भावः । अत उपदेशो हितशिक्षाप्रदानसमयः खलु निश्चयेन दूरातीतो दूरेऽतिक्रान्तः । तथा धैर्यस्य धीरिमाया अवसरः समयः समतिक्रान्तो व्यतीतः । प्रतिसंख्यानवेलाध्यात्मक्षणो गता दूरीभूता । ज्ञानेन कृत्वा योऽवष्टम्भश्चित्तवृत्तिनिरोधस्तस्य समयोऽवसरः दूरं अतीतो व्यतिक्रान्तः । केनेति । अस्मिन्समये भवन्तमपहायान्येन केन वोपदेष्टव्यमुपदेशो दातव्यः । उन्मार्गेति । वाथवोन्मार्गेऽसाधुमार्गे या प्रवृत्तिः प्रवर्तनं तस्या निवारणं करणीयं कर्तव्यम् । कस्येति । अन्यस्य त्वद्व्यतिरिक्तस्य कस्य वा वचसि वचने मया स्थातव्यम् । न कस्यापीत्यर्थः । को वेति । अपरोऽन्यः को वा त्वत्समो मे मम जगति विश्वे बन्धुर्धाता । आविष्कृतं भावमुपसंहरति - किमिति । किं करोमि किं कुर्वे । यदिति हेतौ । आत्मानं स्वं निवारयितुं दुष्टप्रवृत्तेर्दूरीकर्तुं न शक्नोमि न समर्थो भवामि । अनेनेति । अनेनैव क्षणेन समयेनेयं दुष्टा दुःखदायिन्यवस्था दशा भवता त्वया दृष्टावलोकिता । तदिति । तस्माद्धेतोरिदानी सांप्रतमुपदेशकालः शिक्षाप्रदानसमयो गतो व्यतिक्रान्तः । अन्यस्मिञ्शमदमादिरूपनिवृत्तिकरणाभावे हेतुमाह - यावदिति । यावत्कालमहं प्राणिमि जीवामि तावत्पर्यन्तम् । कल्पेति । कल्पान्तो युगान्तस्तत्रोदिता उदयं प्राप्ता ये द्वादशदिनकरकिरणास्तेषां य आतपः प्रकाशस्तद्वत्तीव्रस्य कठिनस्य । दुःसहस्येति यावत् । एवंविधस्य मदनसंतापस्य कंदर्पज्वरस्य प्रतिक्रिया चिकित्सा तल्लक्षणां क्रियां क्रियमाणां विधीयमानामिच्छामि समीहे । विवेकादिप्रतिक्रियाया अभावे प्राकृतप्रतिक्रिया तया सह संगमरूपैवेति भावः । संतापमेव प्रकटयन्नाह - पच्यन्त इति । मे ममाङ्गानि हस्तपादादीनि पच्यन्त इव पाकविषयीक्रियन्त इव । हृदयं स्वान्तमुत्क्वथ्यत इवोत्क्वाथ्यत इव । दृष्टिर्लोचनं प्लुष्यत इव दह्यत इव । शरीरं देहं ज्वलतीव भस्मीभवतीव । अत्र यत्प्राप्तकालं यदेतत्समयोचितम् । तया सह संगमरूपमित्यर्थः । भवांस्तत्करोत्विति पूर्वोक्तमभिधायोक्त्वा तूष्णीमभवन्मौनमकरोत् । एवमिति । एवममुना प्रकारेणोक्तेऽपि कथितेऽप्यहमेनं पुण्डरीकं प्राबोधयं प्रबोधं कृतवान् । यदेति । यदा पुनःपुनर्भूयोभूयः शास्त्रस्य धर्मप्रतिपादकस्य ग्रन्थस्योपदेशः शिक्षा तेन विशदैर्निर्मलैः सनिदर्शनैः सोदाहरणैः सेतिहासैरितिहासः पुरावृत्तं तेन सहितैर्वचोभिः सानुनयं सप्रणयम् । 'प्रणतिः प्रणिपातेऽनुनये' इति कोशः । सोपग्रहं सानुकूलनम् । 'उपग्रहोऽनुकूलने' इति विश्वः । यथा स्यात्तथाभिधीयमान उपदिश्यमानोऽपि कर्णे श्रवणे नाकरोत् । अश्रुतमिव मदुक्तमकार्षीदित्यर्थः । तदेति । तदा तस्मिन्कालेऽहमचिन्तयमध्या - - - - - - - - - - - - टिप्प० - 1 नात्र इमनिच् स्यात् । सत्त्वेपि पुंस्त्वमेव स्यान स्त्रीत्वमिति छात्रैर्न भ्रमितव्यम् । 2 'प्र-णी धातोरर्थं विवृण्वन् 'प्र-णम्' धातोः प्रमाणमाह । पाठा० -१ दृष्टावस्था; अवस्था दृष्टा. 332 कादम्बरी। कथायाम Page #346 -------------------------------------------------------------------------- ________________ 'अतिभूमिमयं गतः, न शक्यते निवर्तयितुम् । इदानीं निरर्थकाः खलूपदेशाः । तत्प्राणपरिरक्षणेऽपि तावदस्य यत्नमाचरामि' इति कृतमतिरुत्थाय गत्वा तस्मात्सरसः सरसा मृणालिकाः समुद्धृत्य कमलिनीपलाशानि जललवलाञ्छितान्यादाय गर्भधूलिकषायपरिमलमनोहराणि च कुमुदकुवलयकमलानि गृहीत्वागत्य तस्मिन्नेव लतागृहशिलातले शयनमस्याकल्पयम् । तत्र च सुखनिषण्णस्य प्रत्यासन्नवर्तिनां चन्दनविटपादीनां मृदूनि किसलयानि निष्पीड्य तेन स्वभावसुरभिणा तुषारशिशिरेण रसेन ललाटिकामकल्पयम्, आ चरणतलादङ्गचर्चा चारचयम् । अभ्यर्णपादपप्रस्फुटितवल्कलविवरशीर्णेन च करसंचूर्णितेन कर्पूररेणुना स्वेदप्रतिक्रियामकरवम् । उरोनिहितचन्दनद्रवावल्कलस्य स्वच्छसलिलसीकरनिकरसाविणा कदलीदलेन व्यजनक्रियामन्वतिष्ठम् । एवं च मुहुर्मुहुरन्यदन्यनलिनीदलशयनमुपकल्पयतः, - *********** यम् । इतिशब्दवाच्यमाह - अतीति । अयमतिभूमिमतिदूरं गतः प्राप्तः । कामस्य दशमीमवस्था प्राप्त इत्यर्थः । निवर्तयितुं ततो व्यावर्तयितुं न शक्यते न पार्यते । तेनेदानी सांप्रतम् । खलु निश्चयेन । उपदेशा निरर्थका निःप्रयोजनाः । तदिति हेत्वर्थे । तावदादावस्य पुण्डरीकस्य प्राणपरिरक्षणेऽपि जीवितपरित्राणेऽपि यत्नमुद्योगमाचरामि करोमीति कृता मतिर्येन स उत्थाय गत्वा च । अच्छोदाभिघं सर इति शेषः । तस्मात्सरसः कासारात्सरसा रसयुक्ता मृणालिकाः कमलिन्यः समुद्धृत्योत्पाट्य ताभ्यो जललवेनाम्भोलेशेन लाञ्छितानि सहितानि कमलिनीपलाशानि नलिनीपत्राण्यादाय गृहीत्वा । गर्भेति । गर्भधूलिमध्यपरागस्तस्य यः कषायस्तुवरः परिमलस्तेन मनोहराणि शोभनान्येवंविधानि कुमुदानि श्वेतकमलानि कुवलयान्युत्पलानि कमलान्येभ्यो व्यतिरिक्तानि, कुमुदकुवलयानां कमलानि पुष्पाणि वा गृहीत्वादायागत्य च तस्मिन्नेव लतागृहशिलातलेऽस्य पुण्डरीकस्य शयनं शय्यामकल्पयमकरवम् । तत्र चेति । तस्मिन्नेव स्थले सुखेन निषण्णस्योपविष्टस्य प्रत्यासन्नवर्तिनां समीपस्थानां चन्दनविटपादीनां मलयजवृक्षप्रभृतीनां मृदूनि सुकुमाराणि किसलयानि किसलानि निष्पीड्य संमद्य तेनानिर्वचनीयेन स्वभावसुरभिणा स्वारसिकसुगन्धेन तुषारो हिमं तद्वच्छिशिरेण शीतलेनैवंविधेन रसेन द्रवेण ललाटिका लोके 'आडी' इति प्रसिद्धामकल्पयमकरवम् । चरणतलं मर्यादीकृत्याचरणतलं तस्मात् । आडादियोगे पञ्चमी । अङ्गचर्चा शरीरभूषा चाऽऽरचयं रचितवान् । अभ्यर्णेति । अभ्यर्णा आसना ये पादपा वृक्षास्तेषां स्फुटितानि स्फोट प्राप्तानि यानि वल्कलानि चोचानि तेषां विवराणि छिद्राणि तेभ्यः शीर्णेन गलितेन च तथा करेण कृत्वा संचूर्णितेन क्षोदिकृतेन कर्पूररेणुना हिमवालुकाधूल्या स्वेदस्य धर्मजलस्य प्रतिक्रियां चिकित्सामकरवमकल्पयम् । उर इति । उरसि वक्षस्थले निहितं स्थापितं चन्दनद्रवेण मलयजरसेनार्दै क्लिन्नं वल्कलं यस्य स तथा तस्य । स्वच्छेति । स्वच्छा निर्मलाः सलिलसीकरा वातास्तवारिकणास्तेषां निकरः समूहस्तस्य साविणा स्यन्दिनैतादृशेन कदलीदलेन रम्भापत्रेण व्यजनक्रियां तालवृन्तकृत्यम् । 'व्यजनं तालवृन्तं तत्' इति कोशः । अन्वतिष्ठमकरवम् । एवं चेति । एवममुना प्रकारेण मुहुर्मुहुरिवारमन्यदन्यदन्यतरदन्यतरनलिनीदलशयनं कमलिनीपत्रशय्यामुपकल्पयतः कुर्वतः मुहुर्मुहुर्भूयोभूयश्चन्दनचर्चा मलयजमण्डनमारचयतो विदधतः, मुहुर्मुहुश्च वारंवारं स्वेदप्र - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 कमलिनीः इत्याशयः । 2 नीलोत्पलानीति वक्तव्यम् । 3 सामान्यतः पद्मानि । 4 'चन्दनविटपिनाम्' इत्यपि पाठः । 'वृक्षप्रभृतीनां किसलयानि इति लोकोत्तरो लेखः, वृक्षादन्येषामपि किसलयानि भवन्ति ? । 5 जलबिन्दुवर्षकेणेत्यर्थः । पाठा० - १ निवर्तयितुमिति. २ लाञ्छितानि चादाय. ३ विटपिनाम्. ४ प्रतीकारम्. ५ शीकरसाविणा. ६ नलिनदल. (पुण्डरीकोपचारः पूर्वभागः। 333 Page #347 -------------------------------------------------------------------------- ________________ मुंहुर्मुहुश्चन्दनचर्चामारचयतः, मुहुर्मुहुश्च स्वेदप्रतिक्रियां कुर्वतः, केदलीदलेन चानवरतं वीजयतःसमुदभून्मे मनसि चिन्ता - 'नास्ति खल्वसाध्यं नाम भगवतो मनोभुवः । क्वायं हरिण इव वनवासनिरतः स्वभावमुग्धो जनः, क्व च विविधविलासरसराशिर्गन्धर्वराजपुत्री महाश्वेता । सर्वथा नहि किंचिदस्य दुर्घटं दुष्करमनायत्तमकर्तव्यं वा जगति । दुरुपपादेष्वर्थेष्वप्ययमवज्ञया विचरति । ने चायं प्रतिकूलयितुं शक्यते । का वा गणना सचेतनेषु, अपगतचेतनान्यपि संघट्टयितुमलम्, यद्यस्मै रोचते । कुमुदिन्यपि दिनकरकरानुरागिणी भवति, कमलिन्यपि शशिकरद्वेषमुज्झति, निशापि वासरेण सह मिश्रतामेति, ज्योत्स्नाप्यन्धकारमनुवर्तते, छायापि प्रदीपाभिमुखमवतिष्ठते, तडिदपि जलदे स्थिरता व्रजति, जरापि यौवनेन संचारिणी भवति । *********** तिक्रियां धर्मजलप्रतीकारं कुर्वतः प्रणयतः, कदलीदलेन चानवरतं निरन्तरं वीजयतः पवनं प्रक्षिपतो मे मम मनसि चिन्ता समुदभूत्प्रादुरभूत् । यतः - नास्तीति । नामेति कोमलामन्त्रणे । खलु निश्चये । भगवतो मनोभुवः कंदर्पस्य किमप्यसाध्यमनिष्पायं नास्ति न विद्यते । एतदर्थं स्पष्टीकुर्वनाह - क्वति महदन्तरे । अयं पुण्डरीको हरिण इव मृग इव वनवासेऽरण्यावस्थाने निरतस्तत्परः स्वभावेन प्रकृत्या मुग्धोऽविदग्धो जनः क्व । तथा विविधानां नानाप्रकाराणां विलासानां विभ्रमादीनां यो रसस्तात्पर्यं तस्य राशिः समूह एतादृशी गन्धर्वराजपुत्री महाश्वेता क्व । विदग्धाविदग्धयोः संगमः कथं भविष्यतीत्याशयेनाह - सर्वथेति । सर्वप्रकारेणास्य कंदर्पस्य जगति लोके दुर्घटं दुःसाध्यं तथा दुष्करं दुःखेन कर्तुं शक्यमनायत्तमनधीनमकर्तव्यं कर्तव्यविरोधि वा नहि किंचिदस्ति । अस्य सर्वं सुसाध्यमित्यर्थः । दुरुपपादेष्वयोग्येष्वर्थेषु कार्येष्वप्ययं कामोऽवज्ञया बलात्कारेण विचरति प्रवर्तते । न चायं केनापि पुंसा प्रतिकूलयितुं प्रतिरोढुं शक्यते पार्यते । का वेति । यद्यस्मै कंदर्पाय रोचते रुचिर्भवति तदापगतचेतनानि मन्दान्तःकरणान्यपि परस्परविरुद्धान्यपि संघट्टयितुं संयोजयितुमलं समर्थः, तस्य सचेतनेषु दशदशावर्तिषु संबन्धं कर्तुं का गणना । एतदेव स्पष्टयन्नाह - कुमुदिनीति । कुमुदिन्यपि कैरविण्यपि । दिनकरेति । दिनकरस्य सूर्यस्य कराः किरणाः । तत्कार्यकारित्वादीनकरत्वं चन्द्रस्य । तस्मिन्ननुरागो विद्यते यस्या एवंविधा भवति । तदुक्तम् - 'चन्द्रश्चण्डकरायते मलयजालेपः स्फुलिङ्गायत्ते माल्यं सूचिकरायते मृदुगतिर्वातोऽपि वज्रायते' इति । कमलिनीति । कमलिन्यपि पद्मिन्यपि । शशिकरकार्यकारित्वात्सूर्यकिरणानां शशिकरत्वम् । तेषु यो द्वेषस्तमुज्झति त्यजति । तदुक्तम् - 'आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम्' इति । निशेति । निशापि रात्रिरपि दिवसकार्यकारित्वादासरेण मिश्रतामैक्यतामेति गच्छति । यथा - 'चित्रन्यस्तादपि विषधरागीतिभाजो निशायां किं तद् ब्रूमस्त्वदभिसरणे साहसं नाथ तस्याः' इति । ज्योत्स्नेति । ज्योत्स्नापि कौमुद्यप्यन्धकारकार्यकारित्वात्तमनुवर्तते । तद्रूपतां भजतीत्यर्थः । यथा-'ज्योत्स्नाश्यामलतामुपैत्ययम्' इति । छायेति । छायापि प्रदीपस्य गृहमणेरभिमुखमवतिष्ठते संतिष्ठति । अत्र प्रदीपाधोभागे छायायाः सत्त्वान चित्रमित्यभिमुखग्रहणम् । तदुक्तम् - 'आलोकस्तिमिरायते विधिवशात्प्राणोऽपि भारायते हा हन्त प्रमदावियोगसमये किं किं न दुःखायते । तडिदिति । तडिदपि विद्युदपि जलदे स्थिरतां स्थैर्य व्रजति गच्छति । अत्र तडित उद्दीपकत्वाद्विरहदुःखितस्य तस्य निमेषावस्थानमपि कल्पकल्पमित्यभिसंधिः । जरेति । जरापि विस्त्र - टिप्प० -1 अनुभवजनित आनन्दविशेष इत्युचितम् । 2 विषयेष्वित्यर्थ उचितः । 3 अचेतनान्यपीति सरलोर्थः । 4 न किल चन्द्रो दिनकरो भवतीत्युच्यते ग्रन्थकृता । अपि तु विरुद्धमपि कामो मिथः संघट्टयतीति प्रतिज्ञाय रात्रिविकासिन्याः कुमुदिन्याः सूर्यानुकूल्यं द्योत्यते । एवमग्रेपि । पाठा० - १ मुहुचन्दन. २ दलेनानवरतम्. ३ स्वभावविषयविमुखः, ४ दुरुपपादेष्वप्यर्थेषु. ५ नायम्. ६ तत्कुमुदिन्यपि; यत्तत्कुमुदिन्यपि. 334 कादम्बरी । कथायाम Page #348 -------------------------------------------------------------------------- ________________ किं वा तस्य दुःसाध्यमपरम्, एवंविधो येनायमगाधगाम्भीर्यसागरस्तृणवल्लघुतामुपनीतः । क्व तत्तपः, क्वेयमवस्था । सर्वथा निष्प्रतीकारेयमापदुपस्थिता । किमिदानीं कर्तव्यम्, किं वा चेष्टितव्यम्, कैं देशं गन्तव्यम्, किं शरणम्, को वोर्षीयः, कः सहायः, कः प्रकारः का युक्तिः, कः समाश्रयो येनास्यासवो धार्यन्ते । केन वा कौशलेन, कतमया वा युक्त्या, कतरेण वा प्रकारेण, केन वावष्टम्भेन, कया वा प्रज्ञया, कतमेन वा समाश्वासनेनायं जीवेत्' इत्येते चान्ये च मे विषण्णहृदयस्य संकल्पाः प्रादुरासन् । पुनश्चाचिन्तयम् - 'किर्मनया ध्यातया निष्प्रयोजनया चिन्तया । प्राणास्तावदस्य येनकेनचिदुपायेन शुभेनाशुभेन वा रक्षणीयाः । तेषां च तैंत्समागममेकमपहाय नास्त्यपरः संरक्षणोपायः । बालभावादप्रगल्भतया च तपोविरुद्धमँनुचितमुपहासमिवात्मनो मदनव्यतिकरं मन्यमानो नियतमेकोच्छासावशेषजीवितोऽपि नायं तस्याः स्वयमभिगमनेन पूरयति मनोरथम् । अकालान्तरक्षमश्चायमस्य मदनविकारः । सततमतिगर्हितेन कृत्येनापि रक्षणीयान्मन्यन्ते - *********** 1 सापि यौवनेन तारुण्येन सह संचारिणी सार्धं संचरणशीला स्यात् । जराया अपि तत्कार्यकारित्वात्तदनुगामित्वमित्यर्थः । अत्रापिशब्दः सर्वत्र विरोधद्योतकः । किं वेति । वेति विकल्पार्थ; तस्य कंदर्पस्य । किमिति प्रश्ने । अपरं किं दुःसाध्यं दुष्करम् । एवमिति । येन कंदर्पेण एवंविधस्तपस्व्ययं पुण्डरीकः । अगाधेति । अगाधमलब्धतलं गाम्भीर्यं गम्भीरता तस्य सागरः समुद्रस्तृणवल्लघुतां लघीयस्त्वमुपनीतः प्रापितः । क्वेति । तदनिर्वचनीयस्वरूपं तपः क्व । तया चेयं परिदृश्यमानावस्था क्व । सर्वथेति । सर्वप्रकारेण निष्प्रतीकारासाध्येयमापद्विपदुपस्थिता प्राप्ता । किमिति । इदानीं सांप्रतं किं कर्तव्यम् । किं वा चेष्टितव्यमाचरितव्यम् । कं देशं कं स्थानं प्रति गन्तव्यं गमनीयम् । किं वा शरणं त्राणम् । को वोपायः कः प्रतीकारः । कः सहायः साहय्यकृत् । कः प्रकारस्तदुपशामकविधिः । का युक्तिस्तव्प्रतिक्रियाबुद्धिः । कः समाश्रयः को निवासो येन कृत्वास्य मुनेरसवः प्राणा गच्छन्तो धार्यन्ते रक्ष्यन्ते । केन वा कौशलेन चातुर्येण, कतमया वा युक्त्या कतरेण वा प्रकारेण, केन वावष्टम्भेनालम्बनेन, कया वा प्रज्ञया प्रतिभया, कतमेन वा समाश्वासनेन सान्त्वनेन वायं जीवेदिति । एते चेति । विषण्णहृदयस्य खिन्नचित्तस्य मे ममैते चान्ये च संकल्पा विकल्पाः प्रादुरासन्प्रकटीबभूवुः । पुनश्चेति । पुनस्तदनन्तरमहमचिन्तयं चिन्तितवान् । किं तदित्याह - किमनयेति । अनया निष्प्रयोजनया निरर्थकया चिन्तया ध्याता किम् । तावदादौ अस्य पुण्डरीकस्य शुभेनाशुभेन वा येन केनचिदुपायेन प्राणा असवो रक्षणीयाः । तेषां चेति । तेषां प्राणानामेकं तस्याः समागममपहाय विहायापरो भिन्नः संरक्षणोपायो नास्ति । बालभावाच्छिशुस्वभावादप्रगल्भतयाप्रतिभान्विततया च तपोविरुद्धं व्रतविरोध्यनुचितमन्योन्यमात्मनः स्वस्योपहासमिव मदनव्यतिकरं कंदर्पवृत्तान्तं मन्यमानो ज्ञायमानो नियतं निश्चितमेक एवोच्छ्रासः श्वासोऽवशेषोऽवशिष्टो यस्मिन्नेवं तादृशं जीवितं प्राणितं यस्यैवंभूतोऽप्ययं पूर्वोक्तानौचित्यवशात्तस्या महाश्वेतायाः स्वयमभिगमनेनात्मनागमनेन मनोरथं चित्ताभिलाषं न पूरयति न पूरयिष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमाना । यथाश्रुतमेव वा किं त्वन्यस्य गमनेन तस्याः संगमो भविष्यति, तथाप्यन्यस्याप्यभिगमनेन का त्वरेत्यत आह- अकालेति । तस्य पुण्डरीकस्यायं मदनविकारो न कालान्तरं क्षमते । चिरकालं न तिष्ठतीत्यर्थः । अन्यस्य तदभिगमनप्रयासेन न प्रयोजनमित्यत आह सततमिति । सततं निरन्तरमतिगर्हितेन निन्दितेन कृत्येनापि कार्येणापि साधवः सन्तः सुहृ टिप्प० 1 साधनाय उपपत्तिः पाठा० - १ तृणलबलघुताम् २ किमाचेष्टितव्यम्. ३ कां दिशम् ४ च. ५ अनयात्यायतया; अनयात्यन्तायतया ६ त्वत्समाग. ७ अनुचितमुपनतम् ८ अकृत्येन. ( पुण्डरीककृते कपिञ्जलस्य चिन्ता - पूर्वभागः । 335 Page #349 -------------------------------------------------------------------------- ________________ सुहृदसून्साधवः । तदतिहेपणमकर्तव्यमप्येतदस्माकमवश्यकर्तव्यतामापतितम् । किं चान्यत्क्रियते । का चौन्या गतिः । सर्वथा प्रयामि तस्याः सकाशम् । आवेदयाम्येतामवस्थाम्' इति चिन्तयित्वा कदाचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय संजातलज्जो निवारयेदित्यनिवेद्यैव तस्मै तत्प्रदेशात्सव्याजमुत्थायागतोऽहम् । तदेवमवस्थिते यदत्रावसप्राप्तम्, ईदृशस्य चानुरागस्य सदृशम्, अस्मदागमनस्य चानुरूपम्, आत्मनो वा समुचितं तत्रभवती प्रभवति इत्यभिधाय किमियं वक्ष्यतीति मन्मुखासक्तदृष्टिस्तूष्णीमासीत् । अहं तु तदाकर्ण्य सुखामृतमये ह्रद इव निमग्ना, रतिरसमयमुदधिमिवावतीर्णा, सर्वानन्दानामुपरि वर्तमाना, सर्वमनोरथानामग्रमिवाधिरूढा, सर्वोत्सवानामतिभूमिमिवाधिशयाना, तत्कालोपजातया लज्जया किंचिदवनम्यमानवदनत्वादस्पृष्टकपोलोदरैः ग्रथितैरिवोपर्युपरिपतनानुबन्धदर्शितमालाक्रमैः, अप्राप्तपक्ष्मसंश्लेषतयोपजातप्रथिमभरैरमलैरानन्दबाष्पजलबिन्दुभिः सवद्भिरावेद्यमानप्रहर्षप्रेसरा तत्क्षणमचिन्तयम् । दिष्ट्या तावदयमनङ्गो - *********** दसन्मित्रप्राणान्रक्षणीयान्मन्यन्ते जानन्ति । तदतीति । तदेतदतिहेपणमप्यतिलज्जावहमप्यकर्तव्यमप्यनाचरणीयमप्यस्माकं पुण्डरीकमार्गानुवर्तिनामवश्यकर्तव्यतां नियतविधेयतामापतितमुपस्थितम् । चिन्तितमुपसंहरन्नाह - किंचेति । एतद्व्यतिरिक्तमन्यत्किं क्रियत इत्यर्थः । अन्या एतद्व्यतिरिक्ता का गतिः । न कापीत्यर्थः । अतः - सर्वथैव । सर्वप्रकारेण तस्या महाश्वेतायाः सकाशं समीपं प्रयामि गच्छामि । एतां प्रत्यक्षामवस्थां दशामावेदयामि कथयामि । इति चिन्तयित्वेति विचिन्त्य । इतिशब्दद्योत्यमाह - कदाचिदिति । अनुचितोऽयोग्यो यो व्यापारो व्यापृतिस्तत्र प्रवृत्तं विज्ञाय संजातलज्जः समुत्पन्नत्रपः कदाचिज्जातुचिन्मां निवारयेत्प्रतिषेधयेत्तस्मै पुण्डरीकायेति पूर्वोक्तमनिवेद्यैवाकथयित्वैव तत्प्रदेशात्तत्स्थानात्सव्याज समिषमुत्थायाहमागतः तत्तस्मात्कारणादेवममुना प्रकारेणावस्थिते सति यदत्रावसरप्राप्तं प्रस्तावागतम्, ईदृशस्य अनुरागस्य स्नेहस्य च सदृशं तुल्यम्, अस्मदागमनस्य च मदीयागमनस्य चानुरूपमनुकूलम्, आत्मनो भवत्याः समुचितं योग्यं तत्र भवती प्रभवति समर्था भवतीत्यभिधायोक्त्वेयं किं वक्ष्यति किं कथयिष्यतीति कृत्वा मन्मुख आसक्ता दृष्टिर्यस्य स तूष्णीमासीत् । ___ अहं तु तत्पूर्वोक्तमाकर्ण्य श्रुत्वा सुखमेवामृतं पीयूषं तन्मये हदे डोहे निमग्ना बुडितेव रतिरसः श्रृङ्गाररसस्तन्मयमुदधिं समुद्रमवतीर्णेव मध्यप्रविष्टेव सर्वानन्दानां समग्रप्रमोदानामुपरि वर्तमाना सर्वमनोरथानां सकलचिन्तितानामग्रप्रान्तमधिरूढेवोपर्याश्रितेव, सर्वोत्सवानां समग्रक्षणानामतिभूमिमधित्यकामधिशयानेव प्रसुप्तेव, तत्कालोपजातया तत्समयोत्पन्नया लज्जया त्रपया किंचिदीषदवनम्यमानं प्रह्वीभूयमानं यद्वदनमाननं तस्य भावस्तत्त्वं तस्मात् । अत एवास्पृष्टः कपोलयोर्गलात्परप्रदेशयोरुदरं यैरेवंविधैः आनन्दबाष्पजलबिन्दुभिः अश्रुभिः सवद्भिः क्षरद्भिरावेद्यमानो निवेद्यमानः प्रहर्षस्य प्रमोदस्य प्रसरः प्रसङ्गो यस्यां सैवंविधाहं तत्क्षणं तत्कालमचिन्तयमध्यायमित्यन्वयः । अथाश्रु विशेषयन्नाह - अमलैरिति । अमलैर्निर्मलैरञ्जनाभावात् । ग्रथितैरिव गुम्फितैरिव । अविच्छिन्नपतनादिति भावः । उपर्युपरि यत्पतनं तस्य योऽनुबन्धः परम्परा तेन दर्शितः प्रकाशितो मालाक्रमः सक्परिपाटी यैः । अप्राप्तेति । अप्राप्तोऽमिलितो यः पक्ष्मसंश्लेषो नेत्ररोमसंबन्धस्तस्य भावस्तत्ता तयोपजातः समुत्पन्नः प्रथिमभरः पृत्वभरो येषु तैः । दिष्ट्या भाग्येन तावदादावयमनङ्गो मामिव - टिप्प० -1 यस्या इत्युचितम् । 2 अधोमुखतया नेत्रजलं सरलमध एव पतति, नोभयभागयोः पक्ष्मसु जलसंबन्धो भवति । अत एव निष्पतज्जलमितस्ततोऽसंबन्धादेकपूरवाहित्वाद् गुरु इत्याशयः । पाठा० - १ वा. २ वा. ३ प्रसङ्गा. - - - - - - - - - - - - - - - - - - - - - - - 336 कादम्बरी । कथायाम् Page #350 -------------------------------------------------------------------------- ________________ मामिव तमप्यनुबध्नाति, यत्सत्यमेतेन मे संतापयतोप्यंशेन दर्शितानुकूलतां । यदि च सत्यमेव तस्येदृशी देशा वर्तते, ततः किमिव नोपकृतमनेन, किंवा नोपपादितम्, को वानेनापरः समानो बन्धुः, कथं वा कपिजलस्य स्वप्नेऽपि वितथा भारती प्रशान्ताकृतेरस्माद्वदनानिष्कामति । इत्थंभूते किं मयापि प्रतिपत्तव्यम्, तस्य वा पुरः किमभिधातव्यम्' इत्येवं विचारयन्त्येव प्रविश्य ससंभ्रमा प्रतीहारी मामकथयत् - 'भर्तृदारिके, त्वमेस्वस्थशरीरेति परिजनादुपलभ्य महादेवी प्राप्ता' इति । तच्च श्रुत्वा कपिजलो महाजनसंमर्दभीरुः सत्वरमुत्थाय 'राजपुत्रि, महानयमुपस्थितः कालातिपातः । भगवांश्च भुवनत्रयचूडामणिरस्तमुपगच्छति दिवसकरः । तद्गच्छामि । सर्वथाभिमतसुहृत्प्राणरक्षादक्षिणार्थमयमुपरचितोऽञ्जलिः । एष मे परमो विभवः' इत्यभिधाय प्रतिवचनकालमप्रतीक्ष्यैव पुरोयायिनाम्बायाः प्रविशता कनकवेत्रलताकरेण प्रतीहारिजनेन कञ्चुकिलोकेनागृहीतताम्बूलकुसुमपटवासाङ्गरागेण चा - *********** तमपि पुण्डरीकमप्यनुबंध्नाति पीडयति । यत्सत्यमिति । तदेतेन मदनेन मां संतापयतापि अंशेन तत्संतापेन मे मम सत्यमनुकूलता दर्शिता । एवं सति मदनेन ममार्थ कुमारस्य संतापः क्रियत इत्यर्थः । कुमारस्यानुकूलत्वं विशदयन्नाह - यदि चेति । यदि सत्यमेव तस्येदृशी दशा वर्तते, ततोऽनेन मदनेन किमिव नोपकृतं किमुपकारो न कृतः । किं वा नोपपादितं किं वा न निष्पादितम् । को वेति । अनेन समानोऽपरः को वा बन्धुः । कपिञ्जलवचसि सत्यतां दृढीकुर्वन्नाह - कथं वेति । प्रशान्ताकृतेः कपिजलस्यास्माद्वदनात्कथं वितथाऽसत्या भारती स्वप्नेऽपि निष्कामति । इत्थंभूते सति किं मयापि प्रतिपत्तव्यं किमङ्गीकर्तव्यम् । तस्य कपिजलस्य वा पुरोऽग्रे किमभिधातव्यं किमु कथनीयम् । एवं विचारयन्त्येवं ससंभ्रमा प्रतीहारी प्रविश्य प्रवेशं कृत्वा । गृहमिति शेषः । ममेत्यकथयदवोचत् । किं तदित्याह - भत्रिति । हे भर्तृदारिके, त्वमस्वस्थमपाटवं शरीरं यस्याः सेति परिजनात्परिच्छदलोकादुपलभ्य प्राप्य महादेवी गौर्यभिधाना त्वदम्बा प्राप्तागता । तच्चेति । तत्पूर्वोक्तं श्रुत्वाकर्ण्य कपिजलो महानत्युत्कृष्टो यो जनानां संमर्दोऽन्योन्यसंघट्टस्तस्माद्भीरुः सत्वरं शीघ्रमुत्थाय । हे राजपुत्रि, अयं कालातिपातः कालविलम्बो महान्भूयानुपस्थितः प्राप्तः । भगवाश्चेति । भुवनत्रयस्य विष्टपत्रयस्य चूडामणिरिव चूडामणिः शोभाकारित्वाद्भगवान्दिवसकरः श्रीसूर्योऽस्तमुपगच्छत्यस्तमनं प्रयाति । तदिति । तत्तस्मात्कारणाद्गच्छामि व्रजामि । सर्वथेति । सर्वप्रकारेणाभिमतो वाञ्छितो यः सुहृन्मित्रं तस्य प्राणा असवस्तेषां रक्षा त्राणं सैव दक्षिणा मदागमनपूजा तदर्थमयमञ्जलिः पाणिसंयोजनरूप उपरचितो निबद्धः । एष इति । एष सुहृयाणरक्षात्मको मम मे परम उत्कृष्टो विभव ऐश्चर्यमित्यभिधाय प्रतिवचनकालं प्रत्युत्तरसमयमप्रतीक्ष्यैव प्रतीक्षामकृत्वैवाम्बाया गौर्यभिधानायाः पुरोयायिनाग्रगामिना प्रविशता प्रवेशं कुर्वता परिजनेन परिच्छदेन सर्वतः समन्तात्संरुद्ध आवृते द्वारदेशे प्रतोलीदेशे कथमपि महता कष्टेनावाप्तनिर्गमः प्राप्तबहिर्गमनः प्रययावित्यन्वयः । अथ परिजनं विशिनष्टि - प्रतीति । प्रतीहारिणी द्वारनियुक्तस्त्रीणां जनो लोको यस्मिन्स तेन । कनकेति । कनकस्य सुवर्णस्य वेत्रलता यष्टिविशेषः सा करे पाणौ यस्य स तेन । पद्मपाणिरित्यादिप्रयोगदर्शनात् 'न बहुव्रीहौ' इत्यनेन सप्तम्यन्तस्य पूर्वनिपातः । कञ्चुकीति । कञ्चुकिनां सौविदल्लानां लोको जनो यस्मिन्स तेन । 'लोको विश्वजनः' इत्यनेकार्थः । टिप्प० - 1 अनुगच्छति, तदुपर्यपि स्वाऽऽवेशं स्थापयतीत्याशयः । 2 नेदं प्रतिहारी विचारयति । अतः 'विचारयन्त्यामेव इति पाठः । 'मयि इति शेषः । 3 अप्रकृतिस्थमित्युचितम् । 4 एष प्रणामाञ्जलिरेव मे परमो विभवः, नेतःपरं मे ऐश्वर्यं यत्समर्प्य त्वां प्रसादयेयमित्यर्थः । 5 पूर्वं स्त्रीलिङ्ग उपक्रान्तः - ('ससंभ्रमा प्रतीहारी इति), अत एव अत्रापि 'प्रतीहारीजनेन' इत्येव पाठः। 6 पाणिनीये तु-'सप्तमीविशेषणे बहुव्रीहौ इति पूर्वनिपातः । - - - - - - - - - - - पाठा० - १ अनेन. २ कियताप्यंशेन, अपि कियताप्यंशेन. ३ दशा, ततः. ४ प्रतिकर्तव्यम्. ५ असुस्व. ६ गृहीत. महाश्वेताया स्वकर्तव्यविचारः पूर्वभागः ।। 1337) Page #351 -------------------------------------------------------------------------- ________________ मरव्यग्रपाणिना कुब्जकिरातबैधिरवामनवर्षवरकलमूकानुवीतेन परिजनेन सर्वतः संरुद्धे द्वारदेशे कथमप्यवाप्तनिर्गमः प्रययौ । अम्बा तु मत्समीपमागत्य सुचिरं स्थित्वा स्वभवनमयासीत् । तया तु तत्रागत्य किं कृतं किमभिहितं किमा - चेष्टितमिति शून्यहृदया सर्वं नालक्षयम् । गतायां च सैत्यामस्तमुपगते भगवति हारीतहरितवाजिनि सरोजिनीजीवितेश्वरे चक्रवाकसुहृदि सवितरि लोहितायमाने पश्चिमाशामुखे, हरितायमानेषु कमलवनेषु, नीलायमाने पूर्वदिग्भागे, पातालपङ्ककलुषेण महाप्रलयजलधिपयःपूरेणेव तिमिरेणावष्टभ्यमाने जीवलोके किंकर्तव्यतामूढा तामेव तरलिकामपृच्छम् - 'अयि तैरलिके, कथं न पश्यसि दृढमाकुलं मे हृदयम् । अप्रतिपत्तिविह्वलानि चेन्द्रियाणि । न स्वयमण्वपि कर्तव्यमलमैस्मिञ्ज्ञातुम् । उपदिशतु मे भवती यत्र सांप्रतम् । अयमेवं त्वत्समक्षमेवाभिधाय गतः 1 *********** - आगृहीतेति । आ समन्ताद्गृहीता आत्तास्ताम्बूलकुसुमपटवासाङ्गरागा येन स तेन । तत्र ताम्बूलं नागवल्ली, कुसुमानि पुष्पाणि, पटवासः पिष्टातः, अङ्गरागो विलेपनम् । चामर इति । चामरैर्वालव्यजनैर्व्यग्र आकुलः पाणिर्हस्तो यस्य स तेन । कुब्ज इति । कुब्जः खर्वः, किरातः स्वल्पतनुः, बधिरोऽकर्णः, वामनः प्रसिद्धः, वर्षवरः षण्ढः । 'कलंमूकोऽवाक्श्रुतिः' इति हलायुधः । एतैरनुवीतेनावृतेन । ‘संवीते रुद्धमावृते' इति कोशः, क्वचित् 'अनुमत' इति पाठः । तत्रानुमतेनेत्यभिमतेनेत्यर्थः । अम्बा त्विति । अम्बा तु जननी तु मत्समीपं मदन्तिकमागत्यैत्य सुचिरं चिरकालं स्थित्वा स्वभवनं निजगृहमयासीदगात् । तया तु मज्जनन्या तु तत्र मद्गृह आगत्य किं कृतं विहितम्, किमभिहितं किं कथितम्, किमाचेष्टितं किमाचरितम्, इति सर्वमहं शून्यहृदयोद्विग्नचित्ता नालक्षयं न ज्ञातवती । 1 तस्यामम्बायां गतायां च सत्यां भगवति माहात्म्यवति सवितरि सूर्येऽस्तमुपगते प्राप्ते सति किंकर्तव्यतामूढाहं तामेव तरलिकामपृच्छं पृष्टवतीत्यन्वयः । अथ सूर्यं विशेषयन्नाह - हारीतेति । हारीतो मृदङ्कुरः ' हारिल' इति लोकप्रसिद्धः तद्वद्धरिता नीला वाजिनोऽश्वा यस्य स तस्मिन् । सर इति । सरोजिनी कमलिनी तस्या जीवितेश्वरः प्राणनाथस्तस्मिन् । चक्रेति । चक्रवाकस्य द्वन्द्वचरस्य सुहृदि । पुनः कस्मिन्सति । पश्चिमाशामुखे लोहितायमाने रक्तायमाने सति । पुनः केषु सत्सु । कमलवनेषु नलिनकाननेषु हरितायमानेषु नीलायमानेषु सत्सु । पुनः कस्मिन् । पूर्वदिग्भागे नीलायमाने सति । पुनः कस्मिन् । तिमिरेणान्धकारेण जीवलोकेऽवष्टभ्यमान आश्लिष्यमाने । केनेव । महाप्रलयस्य यो जलधिः समुद्रस्तस्य पयःपूरेणेव । पयःपूरस्य श्वेतत्वादुत्प्रेक्षा न संभवतीत्याह - पातालेति । पातालं वडवामुख तस्य पङ्कः कर्दमस्तेन कलुषेण मलिनीकृतेन । अन्वयस्तु प्रागेवोक्तः । अयीति कोमलामन्त्रणे । हे तरलिके, मे मम हृदयं कथं न पश्यसि नावलोकयसि । कीदृशम् । दृढमत्यर्थमाकुलं व्याकुलम् । तथाप्रतिपत्तिः सर्वस्मिन्विषयेऽरुचिरनिश्चयो वा तेन बिह्वलानि व्याकुलानि चेन्द्रियाणि करणानि । अतोऽस्मिन्विषये पुण्डरीकविषयेऽण्वपि कर्तव्यं कृत्यं स्वयं ज्ञातुमहं नालं न समर्था । यतोऽयं कपिञ्जलस्त्वत्समक्ष - मेव त्वत्प्रत्यक्षमेवैवममुना प्रकारेणाभिधाय कथयित्वा गतः । अतोऽस्मिन्नर्थे यत्सांप्रतं योग्यं तद्भवत्युपदिशतु कथयतु । अथोपदेशप्रकार माह - टिप्प० 1 वस्तुतस्तु 'विकल- मूक' इति पाठः । 2 'अनुगतेन' इत्येव पाटो मनोहरः, प्रमाणं च हृदयम् । 3 'अस्मिन्' इति केवलेन न बुध्यते प्रकृतो विषयः, न चानुकूलानि ग्रन्थबन्धाक्षराणि । अतः 'नालमस्मि' इत्येव पाठः । ज्ञातुं न समर्थाऽस्मि इति तदर्थः । पाठा० - १ बर्बरकलमूक; बर्बरविकलमूक. २ अनुगतेन. ३ तस्याम् ४ तरलिके न पश्यसि ५ शून्यानि ६ अस्मि 338 कादम्बरी । कथायाम् Page #352 -------------------------------------------------------------------------- ________________ कपिञ्जलः । यदि तावदितरकन्यकेव विहाय लज्जाम्, उत्सृज्य धैर्यम्, अवमुच्य विनयम्, अचिन्तयित्वा जनापवादम्, अतिक्रम्य सदाचारम्, उल्लङ्घय शीलम्, अवगणय्य कुलम्, अङ्गीकृत्यायशः, रागान्धवृत्तिः, अननुज्ञाता पित्रा, अननुमोदिता मात्रा, स्वयमुपगम्य ग्राहयामि पाणिम्, एवं गुरुजनातिक्रमादधर्मो महान् । अथ धर्मानुरोधादितरपक्षावलम्बनद्वारेण मृत्युमङ्गीकरोम्येवमपि प्रथमं तावत्स्वयमार्गतस्य प्रथमप्रणयिनस्तत्रभवतः कपिञ्जलस्य प्रणयप्रसरभङ्गः । पुनरपरं यदि कदाचित्तस्य जनस्य मत्कृतादाशाभङ्गात्प्राणविपत्तिरुपजायते, तदपि मुनिजनवधजनितं महदेनो भवेत्, इत्येवमुच्चारयन्त्यामेव मैयि चन्द्रोदयजन्मना विरलविरलेनालोकेन वसन्तवनराजिरिव कुसुमरजसा घूसरतां वासवी दिगयासीत् । ततः शशिकेर्सेरिविदार्यमाणतमः करिकुम्भसंभवेन मुक्ताफलक्षोदेनेव धवलतामुपनीयमा - ***** ****** यदीति । यदि तावत्स्वयमेव । कुमारानुसरणमननुसरणं चेति कोटिद्वयम्, तृतीयं पुनरपरमिति किंचिद्वारमाश्रित्य गूढाभिसंधिः । आद्येत्वाह - इतरेति । इतरकन्यकेव नीचकुलोत्पन्नकन्येव लज्जां त्रपां विहाय, धैर्यं साहसमुत्सृज्य दूरीकृत्य, विनयं यथोचितव्यापारमवमुच्य त्यक्त्वा, जनापवादं कौलीनमचिन्तयित्वाऽध्यात्वा सदाचारं शोभनानुष्ठानमतिक्रम्योल्लङ्घय, शीलं परपुरुषेष्वनभिरतिस्वभावम् । 'शीलं साधुवृत्तस्वभावयोः' इत्यनेकार्थः । तदुल्लङ्घयातिक्रम्य, कुलमभिजनस्तदवगणय्यावगणनां कृत्वा, अयशोऽकीर्तिमङ्गीकृत्य स्वीकृत्य, रागेण कामरागेणान्धा वृत्तिर्वर्तनं यस्याः सैवंविधाहं पित्रा जनकेनाननुज्ञाताऽदत्तानुशासना, मात्रा चाननुमोदिताऽश्लाघिता स्वयमात्मनोपगम्य समीपे गत्वा पाणि ग्राहयामि हस्तग्रहणं करोमि । एवममुना प्रकारेण गुरुजनाः पूज्यजना मातृपित्रादयस्तेषामतिक्रमादुल्लङ्घनान्महानधर्मः स्यात् । स त्वनुचित इति शेषः । अननुसरणमभिप्रेत्याह - अथेति । अथ धर्मानुरोधादितरः पक्षोऽननुसरणात्मकस्तस्यावलम्बनमाश्रयणं तद्वारेण प्रथमं मृत्युं व्यवरोपणमङ्गीकरोमि स्वीकरोमि । एवमपि प्राणविमोचनेऽपि तावदादौ स्वयमागतस्य प्रथमप्रणयिन आद्यस्नेहवतस्तत्रभवतः पूज्यस्य कपिञ्जलस्य प्रणयप्रसरस्य स्नेहवृद्धेर्भङ्गो नाशः स्यात् । पुनरपरमपि दूषणं वक्तुमाह यदीति । यदि कदाचित्तस्य जनस्य पुण्डरीकस्य मत्कृतादाशाभङ्गात्प्राणविपत्तिर्जीवितनाश उपजायते भवेत्, मुनिजनवधजनितं तद महदेनः पातकं भवेदित्येवमुच्चारयन्त्यां वदन्त्यामेव मयि चन्द्रस्य शशाङ्कस्योदय उद्गमस्तस्माज्जन्मोत्पत्तिर्यस्य स तेन । विरलं च विरलं च विरलविरलं तेन । तुच्छतुच्छेनेत्यर्थः । एवंविधेनालोकेन प्रकाशेन । केन केव । कुसुमेति । कुसुमरजसा पुष्परागेण वसन्तवनराजिरिव काननलेखेव वासवी दिक्प्राक्ककुब्धूसरतामीषत्पाण्डुताम् । 'ईषत्पाण्डुस्तु धूसरः' इति कोशः । अयासीर्दप्रापत् । तत इति । ततो दिङ्मुखधूसरणानन्तरमिन्दुधाम्ना शशाङ्कतेजसा पाण्डुतां श्वेततामापाद्यमानं विधीयमानं पश्चिमेतैरं दिगन्तरं पौर्व दिग्विभागमदृश्यतालोक्यत । जनैरिति शेषः । पाण्डुत्वसाम्येनाह - शशीति । शश्येव विदारणकर्तृत्वात्केसरीं तेन विदार्यमाणो भिद्यमानो यः कृष्णत्वसाम्यात्तम एव करी तस्य कुम्भौ शिरसः पिण्डौ तयोः संभव उत्पत्तिर्यस्यैवंभूतेन मुक्ताफलानां मौक्तिकानां क्षोदेनेव चूर्णेनेव धवलतां शुभ्रतामुपनीयमानं प्राप्यमाणम् । उदयगिरिसंबन्धिनो ये सिद्धा गन्धर्वविशेषा विद्यासिद्धा वा तेषां याः सुन्दर्यः - टिप्प० - 1 लोककृतां निन्दामिति सरलोऽर्थः । 2 पुनः सैव आपत् ! प्रापत् इत्येवोचितम् । 3 अव्युत्पन्नोचितमिदम् । 'इतरत्' इत्येव पाठः । 4 वास्तवे तु - 'केसरिकरनखरविदार्यमाण' इत्येव पाठः । पाठा० - १ उन्मुच्य २ आगत्य ३ मय्यासन्न. ४ केसरिकर. चन्द्रोदयः - पूर्वभागः । 339 Page #353 -------------------------------------------------------------------------- ________________ नम्, उदयगिरिसिद्धसुन्दरीकुचच्युतेन चन्दनचूर्णराशिनेव पाण्डुरीक्रियमाणम्, चलितजलधिजलकल्लोलानिलोल्लासितेन वेलापुलिनसिकतोद्गमेनेव पाण्डुतामापाद्यमानं पश्चिमेतरमिन्दुधाम्ना दिगन्तरमदृश्यत । शनैः शनैश्चन्द्रदर्शनान्मन्दमन्दस्मिताया दशनप्रभेव ज्योत्स्ना निःपतन्ती निशाया मुखशोभामकरोत् । तदनु रसातलादवनीमेवदीर्योद्गच्छता शेषफणीमण्डलेनेव रैंजनीकरबिम्बेनाराजत रजनी । क्रमेण च सकलजीवलोकानन्दकेन कामिनीजनवल्लभेन किंचिदुन्मुक्तबालभावेन मकरध्वजबन्धुभूतेन समुपारूढरागेण सुरतोत्सवोपभोगेकयोग्येनामृतमयेन यौवनेनेवारोहता शशिना रमणीय - तामनीयत यामिनी । अथ तं प्रत्यासन्नसमुद्रविद्रुमप्रभापाटलितमिव, उदयगिरिसिंहकरतलाहतहरिणशोणितशो - *********** स्त्रियस्तासां कुचाः पयोधरास्तेभ्यश्च्युतेन गलितेन चन्दनचूर्णराशिनेव मलयजक्षोदसमूहेनेव पाण्डुरीक्रियमाणं शुभ्रतामापाद्यमानम् । चलितेति । चलितं कम्पितं यज्जलधिजलं समुद्राम्भस्तस्य कल्लोलानिलैस्तरङ्गवायुभिरुल्लासितेनोल्लासं प्रापितेन वेलाम्भसो वृद्धिस्तस्याः पुलिनं जलोज्झितं तटं तस्य सिकता वालुका तस्या उद्गमेनेव प्रकटनेनेव । शनैःशनैर्मन्दमन्दं ज्योत्स्ना निःपतन्ती निशाया मुखशोभामकरोत् । विशदत्वसाम्येनाह - दशनेति । चन्द्रदर्शनात्स्वकीयनाथनिरीक्षणान्मन्दं मन्दं स्मिताया दशनप्रभेव दन्तकान्तिरिव । तदन्विति । तदनु पश्चाद्रसातलान्नागलोकादवनीं पृथ्वीमवदीर्य विदारणं कृत्वोद्गच्छता प्रादुर्भवता । श्वेतत्ववर्तुलत्वसाम्येनाह - शेषेति । शेषस्य नागाधिपतेः फणामण्डलेनेव फणासमूहेनेव रजनीकरबिम्बेन रजनी त्रियामाऽराजताशोभत । अत्र रजनीकरबिम्बमात्रग्रहणेन चन्द्रस्य बालभावप्रकटीकरणात्समुपारूढातिरागेणेति पूरणीयम् । ततश्च चन्द्रोदयकालेऽतीवारुण्यं बालत्वात् । तदनन्तरं च तरुणावस्थायामारुण्यमात्रम् । अत एव समुपारूढरागेणेत्येवाग्रे विशेषणम् । तथा शेषफणेत्यत्रानवरतकमलाकरकमलतललालितहरिपदाम्बुजप्रभारुणाभेति पूरणीयम् । तेन सर्वं साम्यमुपपद्यते । ततः क्रमेण परिपाट्या शशिना चन्द्रेण यामिनी रात्री रमणीयतां शोभनीयतामनीयत प्रापिताभूत् । 'नी प्रापणे' धातुः । अथच शशिनं विशेषयन्नाह - सकलेति । सकलः समग्रो यो जीवलोको मनुष्यलोकस्तस्यानन्दकेन प्रमोदोत्पादकेन कामिनीजनः स्त्रीलोकस्तस्य वल्लभेन प्रियेण । किंचिदिति । किंचिदीषदुन्मुक्तस्त्यक्तो बालभावः शिशुत्वं येन स तेन । मकरेति । मकरध्वजस्य कंदर्पस्य बन्धुभूतेन स्वजनभूतेन । समिति । समुपारूढोऽध्यासितो रागो रक्तता येन स तेन । सुरतेति । सुरतोत्सवे निधुवनक्षणे य उपभोगस्तत्रैकयोग्येन । सर्वथोचितेनेत्यर्थः । अमृतमयेन पीयूषात्मकेन । किं कुर्वता । आरोहतारोहणं कुर्वता । गगनमिति शेषः । सकलानन्दकारित्वादिसाधर्म्यादुत्प्रेक्षते - यौवनेनेव तारुण्येनेव । अथ चन्द्रस्य तरुणभावं वर्णयन्नाह - अथेति । आरोहणानन्तरं तं रजनीकरं चन्द्रमुदितं विलोक्य निरीक्ष्याहं तत्क्षणं तत्कालमचिन्तयं चिन्तितवतीत्यन्वयः । अथ रजनीकरं विशिनष्टि अभीति । अभिनवः प्रत्यग्रो य उदयरागस्तेन लोहितं रक्तम् । अत एव कीदृशमिव । प्रत्यासन्नः समीपवर्ती यः समुद्रः पयोधिस्तस्मिन्विद्रुमा रक्तकन्दास्तेषां प्रभाः कान्तयस्ताभिः पाटलितमिव श्वेतरक्तीकृतमिव । उदयेति । उदयगिरेः पूर्वाद्रः - 340 - टिप्प० - 1 तरङ्गवायुभिः पुलिनस्थः सिकतासमूह एवं उड्डीय उपरिगतो भवेत्तेनेव इन्दुधाम्ना इत्युप्रेक्षा । 2 मन्दमन्दं स्मितं यस्यास्तस्या इत्यर्थ उचितः । 3 'अवदार्य' इत्युचितः । 4 'अत्र रजनिकरबिम्बमात्रग्रहणेन ०' इत्यादि निरर्थकं, आवश्यकं द्वयोः साधर्म्यं चापलपनमयत्यनेन । सकलजीवलोकानन्दजनकत्वादिविशेषणकृतं साधर्म्यं प्रायः उभयत्र साम्येन । यौवने बालभावस्य उन्मोको जायत एव । एकत्र रागः आरुण्यम्, यौवनपक्षे अनुरागः । अमृतं प्रमोदः ( यौवनपक्षे ), आरोहता ( शरीरे विजृंभमाणेन, इति यौवनपक्षे ) । पाठा० - १ पश्चिमेतरत्. २ अवदार्य. ३ फण. ४ रजनिकर. ५ निजहरिण. कादम्बरी । कथायाम् Page #354 -------------------------------------------------------------------------- ________________ णीकृतमिव, रतिकलहकुपितरोहिणीचरणालक्तरसलाञ्छितमिवाभिनवोदयरागलोहितं रजनीकरमुदितं विलोक्यान्तर्ध्वलितमदनानलाप्यन्धकारितहृदया तरलिकोत्सङ्गविधृतशरीरापि मन्मथहस्तवर्तिनी चन्द्रगतनयनापि मृत्युमालोकयन्ती तत्क्षणमचिन्तयम्, - 'एकत्र खलु मेधुमासमलयमारुतप्रभृतयः समस्ताः, एकत्र चौयं पापकारी चन्द्रहतको न शक्यते सोढुम् । इदमतिदुर्विषहं मे हृदयम् । अस्य चोद्गमनमिदं सदाहज्वरग्रस्तस्याङ्गारवर्षः, शीतार्तस्य तुषारपातः, विविस्फोटमूर्छितस्य कृष्णसर्पदंशः, इत्येवं चिन्तयन्तीमेव चन्द्रोदयोपनीता कमलवनम्लानिनिदेव मूर्छा मां निमीलितलोचनामकार्षीत, । अचिरेण च संभ्रान्ततरलिकोपनीताभिश्चन्दनचर्चाभिस्तालवृन्तानिलैचोपलब्धसंज्ञा तामेवाकुलाकुला मूर्तेनेवाधिष्ठितां विषादेन मल्ललाटविधृतसवच्चन्द्रकान्तमणिशलाकामविच्छिन्नबाष्पजलधारान्धकारितमुखीं रुदन्ती तर - *********** सिंहो हर्यक्षस्तस्य करतलेन चपेटयाहतस्ताडितो यो हरिणः तस्य शोणितं रुधिरं तेन शोणीकृतमिव रक्तीकृतमिव । रतिकलहेन कामकलहेन कुपिता कोपं प्राप्ता या रोहिणी चन्द्रस्त्री तस्याश्चरणौ पादौ तयोरलक्तरसो यावकद्रवस्तेन लाञ्छितमिव चिह्नितमिव । अथ महाश्वेतां विशेषयन्नाह - अन्तरिति । अन्तर्मध्ये ज्वलितो मदनानलः कामवह्निर्यस्यामेवंविधाप्यन्धकारितं हृदयं यस्या इति । अन्धकारप्रज्वलनयोमिथो विरोधात् । तरलिकेति । तरलिकाया उत्सङ्गः क्रोडस्तत्र विधृतं स्थापितं शरीरं देहो यया एवंविधापि मन्मथहस्तवर्तिनी कंदर्पकरगतेति विरोधः । चन्द्रेति । चन्द्रे शशाङ्के गते प्राप्ते नयने लोचने यस्याः एवंविधापि मृत्यु मरणमालोकयन्तीति विरोधः । अत्र सर्वत्रापिशब्दो विरोधालंकारद्योतकः । एतत्परिहारश्चार्थभेदेन स्वयमूह्यः । स्वस्य संकटप्रविष्टतामावेदयन्त्याह - एकत्रेति । खलु निश्चयेन । एकत्रैकस्मिन्स्थलेमधुमासमलयमारुतप्रभृतयः समस्ताः । एतेषामुद्दीपकत्वादेवोपादानम् । एकत्रेति । एकस्मिन्स्थले पापकारी पापिष्ठश्चन्द्र एव हतको हत्याकृत्सोढुं न शक्यते न पार्यते । विरहिणीहृदयस्य दुःखासहिष्णुत्वमाविःकुर्वनाह - इदमिति । अतिदुःखेन विप॑हत इति दुर्विषहं हृदयं तथा । अस्य चन्द्रस्येदमुद्गमनं सदाहेन वर्तमानो ज्वरस्तापस्तेन ग्रस्तस्य । अङ्गारेति । अङ्गारवर्ष उल्मुकवृष्टिः । अङ्गारः साग्निर्निरग्निश्च द्विविधो वर्ण्यते । साग्नौ यथा - 'अङ्गारचुम्बितमिव व्यथमानमास्ते'; निरग्नौ यथा - 'कलङ्कस्तत्रत्यो व्रजति मलिनाङ्गारतुलनाम्' इत्यादि प्रयोगः । शीतेति । शीतार्तस्य शीतपीडितस्य तुषारो हिमं तस्य पातः पतनम् । विषेति । विषं गरलं तस्य विस्फोटकेन मूर्छितस्य मूर्छा प्राप्तस्य कृष्णसर्पस्य दंशो दशनम् । एतादृशमुद्गमनम् । इत्येवं चिन्तयन्तीं ध्यायन्तीमेव मूर्छा मा निमीलिते लोचने नेत्रे यस्या एवंविधामकार्षीत् । केव । चन्द्रोदयेन शशाङ्कोद्गमनेनोपनीता प्रापिता कमलवनस्य म्लानिः संकोचस्तस्मिन्या निद्रा सेव । अचिरेणेति । अल्पकालेन संभ्रान्ता व्यामोहं प्राप्ता या तरलिका तयोपनीताभिरानीताभिश्चन्दनचर्चाभिर्मलयजसमालम्वनैस्तालवृन्तानिलैश्च व्यजनवातैश्चोपलब्धा संज्ञा चैतन्यं यया सा तामेव तरलिकामाकुलाकुलामुत्पिञ्जलां मूर्तेनेव विषादेनाधिष्ठितामाश्रिताम् । मदिति । मम ललाटे मदलीके विधृता स्थापिता सवन्ती जलं क्षरन्ती चन्द्रकान्तमणिशलाका यया सा ताम् । अस्या जलस्यातिशीतलत्वात्तत्स्थापनमुचितमेवेति भावः । अवीति । अविच्छिन्नात्रुटिता बाष्पजलधारा नेत्रवारिसंततिस्त - - - - - - - - टिप्प० - 1 अन्धकारो विरहेण प्रमोदराहित्यमिति समाधानम् । 2 मन्मथवशीभूतेति समाधानम् । 3 प्रियसमागमाभावे स्मरतापात्संमुखस्थं मरणं संभावयन्तीति समाधानम् । 4 उद्दीपनकार्ये मलयमारुतादीनां बहूनां प्रातिद्वन्द्वये अयमेक एव चन्द्रस्तुल्य इति ‘एकत्रायम्' इत्यादेस्तात्पर्यम् । 5 अत एव 'इदमतिदुर्विषहमदनवेदनातुरं च' इत्येव पाठः । अतिदुःसहया मदनवेदनया आतुरं विह्वलमिति । तदर्थः । 6 विषवज्ज्वालाजनकेन व्रणविशेषेण । इत्यर्थो बोध्यः । 7 म्लानिरेव निद्रा। पाठा० - १ लोहितं. २ मदनमधु. ३ चापकारी. ४ दुर्विषमदनवेदनातुरं च; दुर्विषहहृदयम्. ५ विषस्फोट. ६ विचिन्तयन्तीम्. ७ ग्लानि. महाश्वेताया अभिसारः पूर्वभागः । Page #355 -------------------------------------------------------------------------- ________________ लिकामपश्यम् । उन्मीलितलोचनां च मां सा कृतपादप्रणामा चन्दनपङ्काइँण करयुगलेन बद्धाञ्जलिरवादीत् - 'भर्तृदारिके, किं लज्जया गुरुजनापेक्षया वा । प्रसीद । प्रेषय माम् । आनयामि ते हृदयदयितं जनम् । उत्तिष्ठ । स्वयं वा तत्र गम्यताम् । अतः परमसमर्थासि सोढुमिमं प्रबलचन्द्रोदयविजृम्भमाणोत्कलिकाशतमुदधिमिव मकरचिह्नम् इत्येवंवादिनी तामवोचम् - 'उन्मत्ते, किं मन्मथेन । नन्वयं सर्वविकल्पानपाहरन्, सर्वोपायदर्शनान्युत्सारयन्, अन्तरायानन्तरयन्, सर्वसंदेहानपनयन्, सर्वशङ्कास्तिरस्कुर्वन्, लज्जामुन्मूलयन्, स्वयमभिगमनलाघवदोषमावृण्वन्, कालातिपातं परिहरन्, आगत एव मृत्योस्तस्यैव वा सकाशं नेता कुमुदबान्धवः । तदुत्तिष्ठ । यथाकथंचिनुगमनेन जीविता संभावयामि हृदय - *********** यान्धकारितं विच्छायितं मुखं यस्याः सा तां रुदन्तीं रोदनं कुर्वन्तीं तामेव तरलिकामपश्यमव(वा)लोकयम् । उन्मीलितेति । उन्मीलिते विकसिते लोचने नेत्रे यस्याः सा ताम् । एवंविधां मां सा तरलिका । कृतेति । कृतो विहितः पादयोश्चरणयोः प्रणामो नतिर्यया सा । चन्दनेति । चन्दनस्य मलयजस्य पङ्कः कर्दमस्तेनाइँण क्लिन्नेन करयुगलेन हस्तयुग्मेन बद्धोऽञ्जलिर्यया सैवंविधावादीदवोचत् । किं तदित्याह - भत्रिति । हे भर्तृदारिके, किं लज्जया त्रपया । गुरुजनानां मातृपित्रादीनामपेक्षया वा किम् । प्रसीद प्रसन्ना भव । मां तत्र प्रेषय प्रेषणं कुरु । ते तव हृदयदयितं प्राणाप्रियमेतादृशं जनमानयाम्यानयनं करोमि । वेति पक्षान्तरे । उत्तिष्ठोत्थानं कुरु । तत्र तस्मिन्स्थले गम्यतां गमनं क्रियताम् । इतः परं मकरचिह्न मन्मथं सोढुमसमक्षमासि । कमिव । उदधिमिव समुद्रमिव । तत्र मकरा मत्स्याश्चिह्नानि यस्य । एतादृशसाम्येऽपि साम्यान्तरमाह - प्रबलेति । प्रबलः प्रकृष्टो यश्चन्द्रोदयस्तेन विजृम्भमाणा वृद्धि प्राप्ता उत्कलिका उत्कण्ठास्तासां शतं यस्मात् । अथतरङ्गाणामुत्कलिका आरोहावरोहरूपास्तासां शतं यस्मिन्नित्येवंवादिनीं तां तरलिकामवोचमवदम् । किं तदित्याह - उन्मत्ते इति । हे उन्मत्ते परवेदनायाः स्वानुभववदनभिज्ञे तरलिके, मन्मथेन कंदर्पणैकेन किं स्यात् । नन्वाक्षेपे । अयं मृत्योर्मरणस्य तस्यैव वा कुमारस्य सकाशं समीपं नेता प्रापकः कुमुदबान्धवश्चन्द्र आगत एव प्राप्त एव । एतेन चन्द्रस्योद्दीपकत्वाद्विरहवेदनायास्तीव्रत्वात्कुमारनिकटेऽपि समागमनमशक्यमित्युत्कण्ठातिशयो दर्शितः । किं कुर्वन् । सर्वेति । सर्वविकल्पान्समग्रचिन्तितानपाहरअपहरणं कुर्वन् । सर्वेति । सर्वे समग्रा ये उपायाश्चन्दनवासप्रक्षेपादयस्तेषां दर्शनौनि विलोकनान्युत्सारयन्दूरीकुर्वन् । अन्तरायेति । अन्तराया अयं मुनिकुमारोऽहं च राजकुलोत्पन्नेत्युभयोर्विलक्षणकुलशीलस्वभावलोकगर्हारूपास्तानन्तरयन्व्यवधानं कुर्वन् । सर्वति । एतदनुसरणे किंचिदनिष्टं स्यादित्येवंरूपाः सर्वे ये संदेहा द्वापरास्तानपनयन्दूरीकुर्वन् । सर्वेति । सर्वाश्च ताः शङ्का मातृपितृवर्गात्समुद्भूता आरेकास्तास्तिरस्कुर्वन्यक्कुर्वन् । लज्जेति । लज्जां त्रपामुन्मूलयन्न (न् छि) च्छिन्दन् । स्वयमिति । स्वयमात्मनाभिगमने तदनुसरणे लाघवदोषं लघुतादूषणमावृण्वन्नाच्छादयन् । कालेति । कालस्य समयस्यातिपातमविलम्ब परिहरन्परित्यजन् । तत्तस्मात्कारणादुत्तिष्ठोत्थानं कुरु । अतित्वरयेति शेषः । एतेनानुसरणे आदरातिशयः सूचितः । अनुगमनेन यथाकथंचिद्यदि जीविता श्वसिता सदा यनिमित्तमायासोऽनभयते तमायासकारिणं हृदयदयितं जनं संभावयामि । अनुसरणफलीभतेन सह - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 विजृम्भमाणम् तरङ्गशतं यस्मिन् इत्यर्थः । 2 'इदं वा कर्तव्यम्, इदं वा' इत्यादिवितर्कान् । 3 दृश्यते अयमुपायो जीवरक्षणाय, इति दर्शनानि ज्ञानानि । 4 'सर्वानन्तरायान्' इत्येव प्रक्रमानुकूलः पाठः । 5 विलम्बमित्युचितम् । पाठा० - १ तामहमवोचम्. २ उन्मत्तिके. ३ अपहरम्. ४ सर्वानन्तरायान्. ५ अनुगमनजीवना; अनुद्गतजीविता. (342 कादम्बरी । कथायाम् Page #356 -------------------------------------------------------------------------- ________________ दयितमायासकारिणं जनम्' इत्यभिदधाना मदनमूर्च्छास्वेदेविह्वलैरङ्गैः कथंचिदवलम्ब्य तामेवोदतिष्ठम् । उच्चलितायाश्च मे दुर्निमित्तनिवेदकमस्पन्दत दक्षिणं लोचनम् । उपजातशङ्का चाचिन्तयम् - 'इदमपरं किमप्युपक्षिप्तं दैवेन' इति । अथ नातिदूरोद्गतेन त्रिभुवनप्रसादमहाप्रणालानुकारिणा सुधासलिलप्लवनिव वहता चन्दनरसनिर्झरनिकरानिव क्षरतामृतसागरपूरानिवोद्गिरता श्वेतगङ्गाप्रवाहसहस्राणीव वमता चन्द्रमण्डलेन प्लाव्यमाने ज्योत्स्नया भुवनान्तराले, श्वेतद्वीपनिवासमिव सोमलोकदर्शनसुखमिवानुभवति जने, महावराहदंष्ट्रामण्डलनिभेन शशिना क्षीरसागरोदरादिवो - द्विध्रयमाणे महीमण्डले, प्रतिभवनमङ्गनाजनेन विकचकुमुदगन्धैश्चन्दनोदकैरुपह्रियमाणेषु चन्द्रोदयार्घेषु, कामिनीप्रहितसुरतदूतीसहस्रसंकुलेषु राजमार्गेषु नीलांशुकरचितावगुण्ठनासु चन्द्रालोकभ - *********** संगमरूपेण समाधानं करिष्यामीत्याशयः । इत्यभिदधानेतिब्रुवाणा । मदनेति । मदनमूर्च्छया जनितो यः स्वेदस्तेन विह्वलैर्व्याकुलैरङ्गैर्हस्तपादादिभिः । कथंचिन्महता कष्टेन तामेव तरलिकामवलम्ब्यालम्बनीकृत्योदतिष्ठमुत्थितवती । उच्चेति । उच्चलिताया उत्प्राबल्येन प्रस्थिताया मे मम दुर्निमित्तं कुमारस्य विगतजीवितत्वादिकं तस्य निवेदकं ज्ञापकं दक्षिणं सव्येतरं लोचनं नयनमस्पन्दतास्फुरत् । उपेति । उपजाता समुत्पन्ना शङ्कानिष्टोत्प्रेक्षणं यस्या एवंविधा चाहमित्यचिन्तयमित्यध्यायम् । इतिप्रतिपाद्यमाह - इदमिति । दैवेन विधिना परमिदं किमुपक्षिप्तं निक्षिप्तम् । 1 अथेति । दुर्निमित्तोपागमानन्तरं प्रदोषसमय एव यामिनीमुख एव तस्मात्प्रासादशिखरात्पूर्वोक्तसौधप्रान्तादवातरमुत्तीर्णा । उत्तीर्य च प्रमदवनपक्षद्वारेण पक्षकेण निर्गत्य निर्गमनं कृत्वाहं महाश्वेता एव तत्समीपं पुण्डरीकाभ्यर्णमुदचलमुदगच्छमिति दूरेणान्वयः । कस्मिन्सति । चन्द्रमण्डलेन शशिबिम्बेन ज्योत्स्नया कौमुद्या भुवनान्तराले विष्टपविशाले प्लाव्यमाने पूर्यमाणे सतीत्यर्थः । कीदृशेन चन्द्रमण्डलेन । नातिदूरोद्गतेनातिविप्रकृष्टोदितेन । अत्र च ज्योत्स्नायाः श्वेतत्वसंतोषजनकत्वस्वभावतया सुधासाम्येन तां वर्णयितुं चन्द्रमण्डलविशेषणमाह - सुधेति । सुधा पीयूषं तृषोपशामकत्वात् तदेव सलिलं तस्य प्लवाः पूरास्तानिव वहता दधता । सलिलं गेहप्रणालेन गच्छतीत्याशयेनाह . त्रिभुवनेति । त्रिभुवनमेव प्रासादो देवगृहं तस्य महाप्रणालानुकारिणा जलमार्गसादृश्यधारिणा । पुनस्तेनैव साम्येन द्विधा वर्णयन्नाह चन्दनेति । चन्दनरसस्य मलयजद्रवस्य यो निर्झरो झरस्तस्य निकरानिव समूहानिव क्षरता क्षरणं कुर्वता । अमृतेति । अमृतस्य यः सागरः समुद्रस्तस्य पूरानिव प्लवानिवोद्गिरता वमता । श्वेतेति । श्वेतगङ्गायाः श्वेतजाह्नव्याः प्रवाहाणामोघानां सहस्राणीव वमतोद्गिरता । श्वेतेति । श्वेतद्वीपे यो निवासस्तमिव सोमलोकस्य यद्दर्शनसुखं तदिव जनेऽनुभवति साक्षात्कुर्वति सति । महेति । महावराहस्यादिवराहस्य यद्दष्ट्रामण्डलं तस्य निभेन सदृशेन शशिना चन्द्रेण । इदं च शशिनः किंचित्कलाहीनत्वमादायेत्युक्तम् । अन्यथा दंष्ट्राया वक्रत्वेन चन्द्रमण्डलस्य वर्तुलत्वेन साम्यं न स्यात् । क्षीरेति । क्षीरसागरोदराद् दुग्धोदधिमध्यान्महीमण्डल उध्रियमाण इव बहिर्निष्काश्यमान इव । परमेश्वरेण महावराहरूपं धृत्वा मही समुद्रे मज्जन्ती दंष्ट्रायां धृतेति पुराणप्रसिद्धिः । प्रतीति । प्रतिभवनं प्रतिगृहमङ्गनाजनेन स्त्रीजनेन विकचकुमुदानां विकस्वरकैरवाणां गन्धो येष्वेवंविधैश्चन्दनोदकैश्चन्द्रोदयार्घेषु शशाकोद्गमनपूजासूपह्रियमाणेषु क्रियमाणेषु सत्सु । कामिनीति । कामिनीभिः स्त्रीभिः प्रहिताः प्रेषिता याः सुरतार्थं दूत्यः संचारिकास्तासां सहस्रं तेन संकुलेषु व्याप्तेषु राजमार्गेषु श्रीपथेषु टिप्पo - 1 मदनस्य मूर्च्छया वृद्ध्या । वस्तुतस्तु मदनेन, मूर्च्छया (या हि वर्णिता कविना), स्वेदेन एतैस्त्रिभिः (हेतुभिः) विह्वलैः आतुरैः, इत्यर्थः । 2 विष्टपमध्ये इत्यर्थ उचितः । पाठा० - १ खेद. २ पूरान्. ३ आप्लाव्यमाने. महाश्वेताया अभिसारः पूर्वभागः । 343 Page #357 -------------------------------------------------------------------------- ________________ यचकितासु कमलवनलक्ष्मीष्विव नीलोत्पलप्रभापिहितास्वितस्ततः पलायमानास्वभिसारिकासु, प्रतिकुमुदमावद्धमधुकरमण्डलासु प्रबुध्यमानासु भवनदीर्घिकाकुमुदिनीषु, स्फुटितकुमुदवनबहलधूलिधवलितोदरे निशानदीपुलिनायमानेऽन्तरिक्षे, चन्द्रोदयानन्दनिर्भर महोदधाविव रतिरसमय इव उत्सवमय इव विलासमय इव प्रीतिमय इव जीवलोके, शशिमणिप्रणालनिर्झरे प्रमोदमुखरमयूररवरम्ये प्रदोषसमये, गृहीतविविधकुसुमताम्बूलाङ्गरागपटवासचूर्णया तरलिकयानुगम्यमाना, तेनैव मूर्छानिहितेन किंचिदाश्यानचन्दनललाटिकालग्नधूसराकुलालकेन चन्दनरसचर्चाङ्गरागवेषेणाट्टैण तथैव च तया कण्ठस्थितयाक्षमालया - *********** संत्सु । पुनः कासु । अभिसारिकासु सत्सु । संकेतितं स्थानं या अभिगच्छन्ति ता अभिसारिकाः स्त्रियः कथ्यन्ते । अथ चाभिसारिकां विशेषयन्नाह - नीलेति । नीलांशुकेन श्यामवस्त्रेण रचितं निर्मितमवगुण्ठनं शिरोंशुकं यासां तासु । नीलवस्त्रावृतत्वेन कैश्चिज्ज्ञातुं न शक्यन्त इति भावः । चन्द्रेति । चन्द्रस्य शशिनो य आलोकः प्रकाशस्तस्माद्यद्भयं तेन चकितासु त्रस्तासु । नीलावगुण्ठनविशिष्टाभिसारिकोपमानमाह - कमलेति । कमलवनानां नलिनखण्डानां लक्ष्म्यः श्रियस्तास्विव । कीदृशीषु । नीलेति । नीलोत्पलानामिन्दीवराणां प्रभाः कान्तयस्ताभिः पिहितासु स्थगितासु । भयचकितत्वादाह - इतेति । इतस्ततः समन्तात्पलायमानासु धावमानासु । प्रबुध्येति । प्रबुध्यमानासु प्रबोधं प्राप्यमाणासु । पुनः कस्मिन्सति । अन्तरिक्ष आकाशे सति । अथाकाशं विशिनष्टि - स्फुटितेति । स्फुटितं विकसितं यत्कमदवनं कैरवखण्डं तस्य बहला निबिडा या धुलिः परागस्तया धवलितं शभ्रितमदरं मध्यं यस्य स तथा तस्मिन् । अन्तरिक्षस्य धवलितत्वसाम्येनाह - निशा रात्रिरेव नदी तटिनी तस्याः पुलिनायमाने जलोज्झिातप्रतीरायमाणे । पुनः कस्मिन्सति । जीवलोके सति विश्वे सति । कीदृशे । चन्द्रोदयलक्षणो य आनन्दः प्रमोदस्तस्य निर्भरोऽतिशयो यस्मिन् । तस्य निरवधित्वादुप्रेक्षते - महोदधाविव महाम्भोधाविव । रसादीनां चतुर्णां जनकत्वाच्चतुर्भिरुत्प्रेक्षते - रतीति । रतिरसः श्रृङ्गारस्तन्मय इव । उत्सवो महस्तन्मय इव, विलासो लीला तन्मय इव, प्रीतिः स्नेहस्तन्मय इव । सर्वत्र यकारलोपः । समयाद्यनुसरणमाह - प्रदोषेति । प्रदोषो यामिनीमुखं स एव समयः क्षणस्तस्मिन् । प्रदोषलक्षणं विशेषयन्नाह - शशीति । शशिमणयश्चन्द्रकान्तास्तैर्निबद्धाः प्रणाला जलमार्गास्तेषां निर्झरा घनगर्जनानुकारिणस्तेभ्यो यः प्रमोदस्तेन मुखरा वाचाला ये मयूरा बहिणस्तेषां स्वः शब्दस्तेन रम्ये मनोहरे । गृहीतेति । गृहीतान्यात्तानि विविधकुसुमताम्बूलाङ्गरागपटवासचूर्णानि ययैवंविधया तरलिकया पूर्वोक्तयानुगम्यमानानुव्रज्यमाना । पुनः कीदृशी । तेनैवेति । तेनैव मूर्छाकालनिहितेन स्थापितेन चन्दनरसेन चर्चा मण्डनमङ्गरागो विलेपनं यस्मिन्नेवंविधो यो वेषो नेपथ्यं तेन । कीदृशेन । किंचिदाश्यानाशुष्का चन्दनललाटिका तिलकविशेषस्तस्यां लग्ना धूसराः किंचित्पाण्डुरा आकुला विकीर्णा अलकाः केशा यस्मिंस्तेन । पुनः कीदृशेन । आर्टेण । अशुष्केणेत्यर्थः । तथेति । तथैव पूर्वोक्तप्रकारेणैव कण्ठस्थितया निगरण - -- - - - - - - - - - - - - -- - - - - - टिप्प० - 1 'पूर्वं क्रियमाणेषु सत्सु' इति स्वयं व्याख्यायाऽपि, अत्र ‘राजमार्गेषु सत्सु' इत्युच्यते । ‘राजमार्गेषु दूतीसहससंकुलेषु सत्सु' इत्युचितम् । एवमग्रेपि । 2 अतः भवनस्य या दीर्घिकाः वाप्यस्तत्संबन्धिनीषु कुमुदिनीषु प्रबुध्यमानासु सतीषु । कीदृशीषु । प्रतिकुमुदं प्रत्येककुमुदपुष्पेषु आबद्धं धृतं मधुकरमण्डलं याभिस्तासु । 3 चन्द्रकरस्पर्शेन द्रवन्तः शशिमणय एव प्रणालाः जलनिर्गमनालानि तेषां निर्झरो यस्मिन्, अतएव वर्षाभ्रमेण प्रमोदमुखरा ये मयूरास्तेषां रवेण रम्ये । प्रदोषसमये । - - - - - - - - - - - - - - - - पाठा० - १ सनीलोत्पलप्रभासु. २ प्रीतिमय इव मदनमय इव विलासमय इव. - - - - - - - - - - - - - - - - - - - - - - - - - - 344 कादम्बरी । कथायाम्-) Page #358 -------------------------------------------------------------------------- ________________ श्रवणशिखरचुम्बिन्या च पारिजातमञ्जर्या पद्मरागरत्नरश्मिविनिर्मितेनेव रक्तांशुकेन कृतशिरोवगुण्ठना केनचिदात्मीयेनापि परिजनेनानुपलक्ष्यमाणा तस्मात्प्रासादशिखरादवातरम् । अवतीर्य च पारिजातकुसुममञ्जरीपरिमलाकृष्टेन रिक्तीकृतोपवनेन कुमुदवनान्यपहाय धावता मधुकरजालेन नीलपटावगुण्ठनविभ्रममिव संपादयतानुबध्यमाना प्रमदवनपक्षद्वारेण निर्गत्य तत्समीपमुदचलम् । प्रयान्ती च तरलिकाद्वितीयपरिजनमात्मानमवलोक्याचिन्तयम् - 'प्रियतमाभिसरणप्रवृत्तस्य जनस्य किमिव कृत्यं बाह्येन परिजनेन । नन्वेत एव परिजनलीलामुपदर्शयन्ति । तथा हि - समारोपितशरासनासक्तसायकोऽनुसरति कुसुमायुधः । दूरप्रसारितकरः करमिव कर्षति शशी । प्रस्खलनभयात्पदे पदेऽवलम्बते रागः । लज्जा पृष्ठतः कृत्वा पुरः सहेन्द्रियैर्धावति हृदयम् । निश्चयमारोप्य नयत्युत्कण्ठा' इति । प्रकाशं चावदम् - 'अयि तरलिके, - *********** स्थापितयाक्षमालया जपमालया तथा पारिजातमञ्जर्या च । कीदृश्या श्रवणयोः कर्णयोः शिखरमग्रं चुम्बतीत्येवंशीला सा तया । एतेन विरहव्याकुलतया नवीनं किंचिन्न कृतमिति सूचितम् । पुनः कीदृशी । रक्तेति । रक्तांशुकेन लोहितवस्त्रेण कृतं शिरोवगुण्ठनं यया सा । रक्तत्वसाम्यादाह - पद्मेति । पद्मरागो लोहितकरत्नं तस्य रश्मिभिः कान्तिभिर्विनिर्मितेनेव रचितेनेव । केनेति । केनचिदात्मीयेनापि स्वकीयेनापि परिजनेन परिच्छदेनानुपलक्ष्यमाणाज्ञायमाना । प्रकारान्तरेण तामेव विशेषयन्नाह - मध्विति । मधुकरा भ्रमरास्तेषां जालेन समूहेनानुबध्यमाना निरुध्यमाना । अथ मधुकरसमूहं वर्णयन्नाह - पारीति । पारिजातस्य मन्दारस्य या कुसुममञ्जरी तस्याः परिमलस्तेनाकृष्टेनाकर्षितेन । अतएव रिक्तीकृतोपवनेन । सर्वस्य मधुकरस्य तत्रैव गमनादुपवनं रिक्तीभूतमिति भावः । किं कुर्वता मधुकरकुलेन । कुमुदवनानि कैरवखण्डान्यपहाय त्यक्त्वा धावता त्वरया गच्छता । पुनः किं कुर्वता । नीलेति । नीलपटः कृष्णांशुक तस्यावगुण्ठनविभ्रममिव शिरोवेष्टनविलासमिव संपादयता निष्पादयता । अन्वयस्तु प्रागेवोक्तः । प्रयान्तीति । प्रयान्ती गच्छन्ती । तर इति । तरलिकैव द्वितीयः परिजनो यस्यैवंभूतमात्मानमवलोक्य निरीक्ष्याहं महाश्वेताचिन्तयमध्यायम् । किं तदित्याह - प्रियेति । अतिशयेन प्रियः प्रियतमस्तस्याभिसरणमनुगमनं तत्र प्रवृत्तस्योद्युक्तस्य जनस्य बाह्येन बहिर्भूतेन परिजनेन किमिव कृत्यम् । न किमपीत्यर्थः । प्रस्तुतस्य कुमारेण सह संगमरूपस्य कार्यस्य स्वनिकटवर्तिपरिचारिकास्वप्यन्तरङ्गत्वात्तरलिकायास्ततोऽपि संगोप्यमानत्वादिति भावः । परिजनराहित्येऽपि तद्युक्ततां प्रदर्शयन्नाह - नन्विति । ननु निश्चयेन । एते एवाग्रे वक्ष्यमाणां परिजनलीलामुपदर्शयन्ति । तत्कृत्यतां प्रकटीकुर्वन्तीत्यर्थः । तदेव प्रकटयन्नाह - तथा हीति । समारोपितमधिज्यीकृतं यच्छरासनं धनुस्तत्रासक्त आयुक्तः सायको बाणो येनैवंभूतः कुसुमायुधो मदनोऽनुसरत्यनुगच्छति । उद्दीपकत्वात् । दूरं प्रसारिता विस्तारिताः करा हस्ता येनैवंविधः शशी चन्द्रः करमिव हस्तमिव मां कर्षत्याकर्षणं करोति । प्रस्खलनेति । प्रस्खलनभयात्पतनभीतेः पदे पदे रागोऽवलम्बतेऽवलम्बनं करोति । अथ चान्योऽपि सेवकः प्रस्खलनभयात्स्वामिनोऽवलम्बनं करोति । लज्जामिति । लज्जा त्रपां पृष्ठतः पश्चाद्धागे कृत्वेन्द्रियैः करणैः सह हृदयं चेतः पुरोऽग्रे धावति त्वरया व्रजति । निश्चयमिति । कुमारविषयिण्युत्कठोत्कलिका निश्चयमारोप्यायं निश्चयेन प्रियसंगमो भविष्यतीति कृत्वा मां नयति प्रापयति । अन्योऽपि सेवको निश्चयमध्यवसायमारोप्यायं मदीयस्वामीति निश्चित्य नयति । अभिलषितस्थलमिति शेषः । प्रकाशं प्रकटं यथा स्यात्तथाहमित्यवदमवोचम् । किं तदित्याह - अयीति । अयि कोमलामन्त्रणे । हे तरलिके, अपिनाम प्रश्ने । -- - टिप्प० - 1 प्रियसंबन्धि तदिदं मण्डनमिति शरीरात्पृथक्कर्तुं नाशाकि इति तु स्मरणीयमत्र । 2 ममेत्युचितम् । पाठा० - १ निर्मितेन. २ विभ्रमाम्. ३ द्वितीयमपरिजनम्. ४ आलोक्य. ५ दूरम्. ६ करः कर्षति. - - - - - - - - - - - महाचेताया अभिसारः । पूर्वभागः । 345 Page #359 -------------------------------------------------------------------------- ________________ अपि नाम मामिर्वायमिन्दुहतकस्तमपि किरैणकचग्रहाकृष्टमभिमुखमानयेत्' इत्येवंवादिनीं च मामैसौ विहस्याब्रवीत् ‘भर्तेदारिके, मुग्धासि । किमस्य तेन जनेन । अयमात्मनैव तावन्मदनातुर इव भर्तुदारिकायास्तास्ताश्चेष्टाः करोति । तथा हि - प्रतिबिम्बच्छलेन स्वेदसलिलॅकणिकाञ्चितं चुम्बति कपोलयुगलम् । लावण्यवति पयोधरभारे निपतति प्रस्फुरितकरः । स्पृशति रशनामणीन् । निर्मलनखलग्नमूर्तिः पादयोः पतति । किं चास्य मदनातुरस्येव वपुस्तापाच्छुष्कचर्दनानुलेपपाण्डुतां वहँति । मृणालवलयधवलान्करान्धत्ते । प्रतिमाव्याजेन स्फटिकमणिकुट्टिमेषु निपतति । केर्तकीगर्भकेसरधूलिधूसरपादः कुमुदसरांस्यवगाहते । सलिलसीकरार्द्राञ्शशिमणीन्करैरामृशति । द्वेष्टि विघटितचक्रवाकमिथुनानि कमलवनानि । एतैश्चान्यैश्च तत्कालोचितैरालापैस्तया सह तमुद्देशमभ्युपागमम् । तत्र च मार्गलताकुसुमरजो 1 **: ** अयमिन्दुहतको मामिव तमपि पुण्डरीकमप्यभिमुखं संमुखमानयेत्प्रापयेत् । कीदृशम् । किरणैः पादैर्यः कचग्रहः केशग्रहस्तेनाकृष्टमाकर्षितम् । एवंवादिनीमेवंब्रुवाणां च मामसौ तरलिका विहस्य हास्यं कृत्वाब्रवीदवोचत् । हे भर्तृदारिके, त्वं मुग्धासि । अस्य चन्द्र तेन जनेन पुण्डरीकाख्येन किम् । कृत्यमिति शेषः । अयं चन्द्रहतक आत्मनैव स्वयमेव मदनातुर इव कंदर्पपीडित इव भर्तृदारिकाया भवत्यास्तास्ताश्चेष्टाः कायव्यापारान्करोति विदधाति । एतदेव दर्शयति - तथा हीति । प्रतीति । प्रतिबिम्बच्छलेन प्रतिच्छायामिषेण कपोलयुगलं चुम्बति चुम्बनं करोति । तदेव विशिनष्टि - स्वेदेति । स्वेदसलिलस्य धर्मजलस्य कणिका विप्रुषस्ताभिरञ्चितं व्याप्तम् । एतेन कपोलयोः स्वच्छता विरहतप्तिश्च व्यज्यते । लावण्येति । लावण्यं लवणिमा विद्यते यस्मिन्नेवंभूते पयोधरभारे प्रस्फुरितः प्रकम्पितः करो येनैवंविधो निपतति । एतेन पयोधरयोर्जडत्वं परिणाहविशेषश्च द्योत्यते । स्पृशतीति । रशना कटिमेखला तस्या मणीरत्नानि स्पृशत्याश्लिषति । निर्मलेति । निर्मलाः स्वच्छा ये नखास्तत्र लग्ना मूर्तिर्यस्यैवंभूतः सन् पादयोः पतति । चन्द्रस्य कामुकत्वाभिव्यञ्जकत्वमाह - किं चेति । अस्य चन्द्रस्य मदनातुरस्येव वपुः शरीरं तापाच्छुष्को यश्चन्दनानुलेपस्तद्वत्पाण्डुतां शुभ्रतां वहति । मृणालेति । मृणालानि बिसानि तेषां वलयानि तद्वद्वबलान्करौन्हस्तान्धत्ते धारयति । प्रतिभेति । प्रतिमाव्याजेन प्रतिबिम्बच्छलेन स्फटिकमणीनां कुट्टिमानि तेषु निपतति । केतकीति । केतक्याः प्रसिद्धाया या गर्भकेसरधूलिस्तद्वद्धूसरो पादौ यस्यैवंभूतः कुमुदसरांसि कैरवोपलक्षिततडागान्यवगाहते । सलिलेति । सलिलस्य जलस्य सीकरा वाताहतकणास्तैरार्द्राञ्शशिमणींश्चन्द्रकान्तान्करैर्हस्तैर्मृशति परामृशति । विघटितेति । विघटितानि भिन्नीभूतानि चक्रवाकमिथुनानि येभ्य एतादृशानि कमलवनानि द्वेष्टिं द्वेषं करोति । तयेति । तया तर सहैतैः पूर्वोक्तैरन्यैश्चैतद्भिन्नैस्तत्कालोचितैस्तत्समययोग्यैरालापैः संभाषणैः करणभूतैस्तमुद्देशं पूर्वोक्तभूविभागमभ्युपागमं समागमम् । तत्र चेति । तत्र तस्मिन् प्रदेशे कैलासतटाद्रजताद्रिशिखराच्चन्द्रोदयेन शशिप्रकाशेन प्रसृतं च्युतं यच्चन्द्रकान्तमणिप्रसवणं चन्द्राश्मनिर्झरणं तस्मिन् । मार्गेति । मार्ग I टिप्प० - 1 ‘करेण कचग्रहाकृष्टम्' इत्येव सुपाटः । करेण (किरणेन) तद्रूपेण पाणिना, केशेषु यो ग्रहः तेनाकृष्टं सक्तं ममाभिमुखमानयेत् । इति तदर्थः । 2 चुम्बतीव इत्यर्थेन प्रतीयमानोठप्रेक्षा । एवमग्रेऽपि कामुकसंबन्धिकार्यद्वारा कामुकव्यवहारसमारोपात्समासोक्तिस्तु न शकया, अप्रस्तुतेन प्रस्तुतपरिस्फूर्ती तत्स्वीकृतेः । अत्र तु - ‘अयमात्मनैव तावत् ० ' इत्यादिना चन्द्रस्यापि प्रस्तुतत्ववर्णनात् । 3 किरणानित्यर्थ उचितः । 4 तया धूसरः पादः ( किरणः) एव पादः (चरणः) यस्य सः, इत्यर्थ उचितः । 5 कमलवनस्यान्तरायेण चक्रद्वन्द्वं विघटितं भवतीति दम्पत्योर्वियोगसंपादकं कमलवनं वियोगतप्तश्चन्द्रो न सहत इत्यर्थः । पाटा० - १ इन्दुः २ करेण. ३ सा. ४ भर्तुदारिकायाम्. ५ कणिकाचितम् ६ चन्दनालेप. ७ उद्वहति. ८ केतकि. 346 कादम्बरी | कथायाम् Page #360 -------------------------------------------------------------------------- ________________ धूसरं चरणयुगलं कैलासतटाच्चन्द्रोदयप्रेसृतचन्द्रकान्तमणिप्रेसवणे क्षालयन्ती यस्मिन्प्रदेशे स आस्ते तस्मिन्नेव चास्य सरसः पश्चिमे तटे पुरुषस्येव रुदितध्वनिं विप्रकर्षान्नातिव्यक्तमुपालक्षयम् । दक्षिणेक्षणस्फुरणेन च प्रथममेव मनस्या - हितशङ्का तेन सुतरां विदीर्णहृदयेव किमप्यनिष्टमन्तः कथयतेव विषण्णेनान्तरात्मना 'तरलिके, किमिदम्' इति सभयमभिदधाना वेपमानगात्रयष्टिरंभिमुखमतित्वरितमगच्छम् । 1 अथ निशीथप्रभावाद्दूरादेव विभाव्यमानस्वरमुन्मुक्तार्तनादम् ' हा हतोऽस्मि । हा दग्धोऽस्मि । हा वञ्चितोऽस्मि । हा किमिदमापतितम् । किं वृत्तम् । उत्सन्नोऽस्मि । दुरात्मन् मदनपिशाच पाप निर्घृण, किमिदमकृत्यमनुष्ठितम् । आः पापे दुष्कृतकारिणी दुर्विनीते महाश्वेते, किमनेन तेऽपकृतम् । आः पाप दुश्चरित चन्द्र चाण्डाल, कृतार्थोऽसि । इदानीमपगतदाक्षिण्य दक्षिणानिलहतक, पूर्णास्ते मनोरथाः । कृंतं यत्कर्तव्यम् । वहेदानीं यथेष्टम् | हा भगवन् श्वेतकेतो पुत्रवत्सल, न वेत्सि मुषितमात्मानम् | हा धर्म, निष्परिग्रहो - *********** लतानामध्ववल्लीनां कुसुमरजोभिः पुष्परागैर्धूसरमीषत्पाण्डुरं चरणयुगलं पादयुग्मं क्षालयन्ती धावनं कुर्वन्ती यस्मिन्प्रदेशे स कपिञ्जल आस्ते तिष्ठति तस्मिन्नेव स्थलेऽस्याच्छोदाभिधानस्य सरसः पश्चिमे तटे पश्चिमदिग्वर्तितीरे पुरुषस्येव पुरुषसदृशस्य विप्रकर्षाद्दूरान्नातिव्यक्तं नातिस्पष्टं रुदितध्वनिं क्रन्दितशब्दमुपालक्षयमुपलक्षितवती । दक्षिणेति । दक्षिणमपसव्यमीक्षणं लोचनं तस्य स्फुरणं स्पन्दनं तेन च प्रथममेवादावेव मनसि चित्त आहिता स्थापिता शङ्कारेका यया सैवंविधाहं तदुपलक्षणानन्तरं तेन रुदितेन सुतरामतिशयेन विदीर्णहृदयेव विशीर्णस्वान्तेव किमप्यनिष्टमशुभमन्तर्मध्ये कथयतेव ब्रुवतेव विषण्णेन विषादवतान्तरात्मना सेता हे तरलिके, सभयं यथा स्यात्तथा किमिदमित्यभिदधाना ब्रुवाणा वेपमाना गात्रयष्टिः शरीरयष्टिः (यस्याः ) सैवंविधातित्वरितमतिशीघ्रमभिमुखं संमुखमगच्छमव्रजम् । I अथेति । आगमनानन्तरमित्येतान्यन्यानि वाक्यानि च विलपन्तं विलापं कुर्वन्तं कपिञ्जलमश्रौषमाकर्णयं तादृशविलापवाक्येनायं कपिञ्जल एवेति निश्चितवती । इतिशब्दार्थमाह - निशीथेति । निशीथोऽर्धरात्रं तस्य प्रभावान्माहात्म्यद्दूरादेव विप्रकृष्टादेव विभाव्यमानो ज्ञायमानः स्वरो यस्य स तम् । दिवा कोलाहलेन शब्दाः श्रोतुं न शक्यन्त इति भावः । पुनः कीदृशम् । उन्मुक्तेति । उन्मुक्त आर्तनादो येन स तम् । अथार्तस्वरान्विविच्य प्रदर्शयन्नाह - हा हत इति । हा इति खेदे । अहं हतस्ताडितोऽस्मि । हेति पूर्ववत् । दग्धो ज्वलितोऽस्मि । हा वञ्चितो विप्रतारितोऽस्मि । हेति । किमिदमतर्कितमापतितम् । मच्छिरसीति शेषः । किमिदं वृत्तं निष्पन्नम् । उत्सन्न मूलादुत्पाटितोऽस्मि । अहमिति शेषः । हे दुरात्मन् हे मदनपिशाच, हे पाप हे पापिनु, हे निर्घृण हे निर्दय, किमिदमकृत्यमनुष्ठितमाचरितम् । आः पापें दुष्कृतकारिणि, दुर्विनीते शूलके हे महाश्वेते, ते तवानेन पुण्डरीकेण किमपकृतम् । कोऽयमनुपकारः कृतः । आः आक्रोशे । हे पाप पाप्मन्, हे दुश्चरित दुराचार, हे चन्द्र चाण्डाल, त्वं कृतार्थः कृतकृत्योऽसि । इदानीं सांप्रतं हे अपगतदाक्षिण्य दूरीभूतानुकूल्य, हे दक्षिणानिलहतक, ते तव मनोरथाः पूर्णाः परिपूर्णीभूताः । हतक इति हीनोक्तिः । यदिति । यत्कर्तव्यं तत्कृतम् । इदानीं सांप्रतं यथेष्टं यथेच्छया वह संचर । हा भगवन् हा स्वामिन् श्वेतकेतो, पुत्रवत्सल सुतहितकारक, आत्मानं स्वं मुषितमपहृतसर्वस्वं न वेत्सि न जानासि । हेति पूर्ववत् । हे धर्म हे वृष, त्वं - टिप्पo - 1 अत्राऽन्तरात्मना ( करणेन ) इदमभिदधानाऽगच्छम्, इत्युचितम् । ० - १प्रस्तुत; स्नु. २ प्रसवणेन. ३ प्रक्षालयन्ती. ४ अवदीर्ण. ५ तदभिमुखम्. ६ अति. ७ उच्छिन्नोऽस्मि ८ चण्डाल. ९ कृतं कर्तव्यम्. महाश्वेताया अभिसारः पूर्वभागः । 347 Page #361 -------------------------------------------------------------------------- ________________ ऽसि । हा तपः, निराश्रयमसि । हा सरस्वति, विधवासि । हा सैत्य, अनाथमसि हा सुरलोक, शून्योऽसि । सखे, प्रतिपालय माम् । अहमपि भवन्तमनुयास्यामि । न शक्नोमि भवन्तं विना क्षणमप्यवस्थातुमेकाकी । कथमपरिचित इवादृष्टपूर्व इवाद्य मामेकपदे उत्सृज्य प्रयासि । कुतस्तवेयमतिनिष्ठुरता । कथय त्वदृते क्व गच्छामि । कं याचे | कंशरणमुपैमि । अन्धोऽस्मि संवृत्तः । शून्या मे दिशो जाताः निरर्थकं जीवितम्, अप्रयोजनं तपः, निःसुखाश्च लोकाः । केन सह परिभ्रमामि । कैमालपामि । केन वार्तां करोमि । उत्तिष्ठ त्वम् । देहि मे प्रतिवचनम् । क्व तन्ममोपरि सुहृत्प्रेम । क्व सा स्मितपूर्वाभिभाषिता च' इत्येतानि चान्यानि य विलपन्तं कपिञ्जलमश्रौषम् । 1 तच्च श्रुत्वा पतितैरिव प्राणैर्दूरादेव मुक्तैकताराक्रन्दा, संरस्तीरलतासक्तित्रुट्यमानांशुकोत्तरीया, यथाशक्ति त्वरितैरज्ञातसमविषमभूमिभागविन्यस्तैः पादप्रक्षेपैः प्रस्खलन्ती पदे पदे, ** निर्गतः परिग्रहः स्वीकारो यस्यैवंभूतोऽसि । अस्य कामविह्वलत्वे तव स्वीकारो नास्तीत्यर्थः । यद्वायमेव तव स्थानपरिग्रहस्तस्य कार्मव्याकुलत्वे तव स्थानं नास्तीत्यर्थः । हा तपः, त्वं निराश्रयं निर्गतस्थानमसि । हा सरस्वति हा भारति, त्वं विधवा मृतभर्तृकासि | हा तथ्य, त्वमनाथं स्वामिरहितमसि । हा सुरलोक हा सुरालय, त्वं शून्य उद्वसोऽसि । तेन विनेत्यर्थः । हे सखे पुण्डरीक, मां कपिञ्जलं प्रतिपालय प्रतिपालनां कुरु । अहमिति । अहमपि भवन्तं त्वामनुयास्याम्यनुगमिष्यामि । न शक्नोमि न समर्थो भवामि भवन्तं त्वां विनैकाक्यसहायः क्षणमपि क्षणमात्रमप्यवस्थातुम् । अपरिचित इवासंजातसंस्तव इव, अदृष्टपूर्व इवानवलोकितपूर्व इव, अद्य मां कपिञ्जलमेकपदे सहसोत्सृज्य त्यक्त्वा कथं प्रयासि गच्छसि । तवेयमतिनिष्ठुरतातिकठिनता कुतः । त्वं कथय प्रतिपादय । त्वदृते त्वद्व्यतिरेकेण क्व गच्छामि क्व व्रजामि । कं याचे कं प्रार्थये । कं शरणं त्राणमुपैमि गच्छामि । अहमन्धः संवृत्तोऽस्मि चक्षुर्विकलो जातोऽस्मि । मे मम दिशः ककुभः शून्या उद्धसिता जाताः । त्वां विनेति शेषः । निरिति । निरर्थकं निष्फलं जीवितं प्राणधारणम् । तपोऽप्रयोजनं कृत्यरहितम् । लोका इति । लोका भुवनानि निःसुखाः सातवर्जिताः । केनेति । केन सह परिभ्रमामि परिभ्रमणं करोमि । कमिति । कं पुमांसमनिर्दिष्टनामकमालपाम्यालापं करोमि । केनेति । केन सह वार्तां प्रवृत्तिं करोमि । त्वमिति । त्वं भवानुत्तिष्ठोत्थानं कुरु । मे मम प्रतिवचनं प्रत्युत्तरं देहि । हे सुहृत् हे मित्र, ममोपरि तत्पूर्वसंबन्धि प्रेम स्नेहः क्व । स्मितपूर्वा हास्यपूर्विकाभिभाषितार्भिवादिता सा क्व । अन्वयस्तु प्रागेवोक्तः । 1 - तच्चेति । तत्पूर्वोक्तं विलपितं श्रुत्वाकर्ण्य तं प्रदेशं गत्वाहं पापकारिणी मन्दभाग्या तं पुण्डरीकं महाभागमद्राक्षमपश्यमिति दूरेणान्वयः। अथ तां विशेषयन्नाह - दूरेति । दूरादेव दविष्ठादेव मुक्त एकतारोऽत्युच्च आक्रन्दः पूत्कारो यया सा । सर इति । सरसोऽच्छोदनाम्नो यास्तीरलताः प्रतीरवल्लयस्तासु सक्तिः संबन्धस्तया त्रुट्यमानमंशुकेषूत्तरीयं निवसनं यस्याः सा तथा । पुनः किं कुर्वन्ती । पदे पदे पादप्रक्षेपैरङिघ्रन्यासैः करणभूतैः प्रस्खलन्ती स्खलनां प्राप्नुवन्ती । कैरिव । पतितैः प्राणैरिव । कीदृशैः । शक्तिमनतिक्रम्य यथाशक्ति । तेन त्वरितैस्त्वरायुक्तैः । अज्ञेति । अज्ञातोऽविदितो यः समविषमभूमिभागो भूप्रदेशस्तत्र विन्यस्तैः स्थापितैः । टिप्पo - 1 तस्य प्राणशून्यत्वे इति व्याख्यातव्यम् । 2 स्मितपूर्वम् अभिभाषते तच्छीलः स्मितपूर्वाभिभाषी तद्भावः स्मितपूर्वाभिभाषिता, इति व्याख्यानमुचितम् । 3 त्रुट्यमानम् अंशुकं परिधानवस्त्रम्, उत्तरीयम् उपर्यावरणवस्त्रं च यस्याः सा । पाठा० - १ सत्यत्वम्. २ भवता. ३ कमालपामि । उत्तिष्ठ देहि . ४ मे विलपतः ५ पूर्वाभिभाषिता. ६ तं च ७ सरस्तीरलतानुषज्यमान. ८ विषमभागः 348 कादम्बरी | कथायाम् Page #362 -------------------------------------------------------------------------- ________________ केनाप्युत्क्षिप्य नीयमानेव तं प्रदेशं गत्वा सरस्तीरसमीपवर्तिनि शिशिरशीकरांसारसाविणि शशिमणिशिलातले विरचितं कुमुदर्कुवलयकमलविविधवनकुसुमसुकुमारमालामयमिव मृणालमयम्, कुसुमशरसायकमयमिव शयनमधिशयानम्, अतिनिष्पन्दतया मत्पदशब्दमिवाकर्णयन्तम्, अन्तः क्रोधशमितमदनसंतापतया तत्क्षणलब्धसुखप्रसुप्तमिव, निक्षोभप्रायश्चित्तप्राणायामावस्थितमिव, अतिप्रस्फुरितप्रभेण त्वत्कृते ममेयमवस्थेति कथयन्तमिवाधरेण, इन्दुद्वेषपरिवर्तितदेहतया पृष्ठभागनिपतितैर्मदनदहनविह्वलहृदयन्यस्तहस्तनखमयूखच्छलेन छिद्रितमिव शशिकिरणैः, उच्छुष्कपाण्डुरया स्वविनाशोत्पातोत्पन्नया मदनचन्द्रकलयेव - *********** तानेव विशेषयन्नाह - केनेति । केनाप्यनिर्दिष्टनाम्नोत्क्षिप्योत्पाट्य नीयमानेव प्राप्यमाणेव सरसोऽच्छोदनाम्नस्तीरं प्रतीरं तस्य समीपवर्तिनि निकटस्थायिनि । शिशिरेति । शिशिराः शीतला ये शीकरास्तेषामासारो वेगवान्वृष्टिस्तस्य साविणी प्रक्षारिणी । एवंविधे शशिमणिशिलातले चन्द्रकान्तप्रस्तरे विरचितं निर्मितम् । कुमुदेति । कुमुदानि श्वेतकमलानि, कुवलयान्युत्पलानि, कमलानि नलिनानि, विविधान्यनेकप्रकाराणिं वनकुसुमान्यरण्यपुष्पाणि तेषां या सुकुमारा माला सक्तन्मयमिव मृणालमयं बिसनिष्पन्नम् । उद्दीपकत्वादाह - कुसुमेति । कुसुमशरः कंदर्पस्तस्य सायका बाणा स्तन्मयमिव । एवंविधं शयनं शयनीयमधिशयानं शयनं कुर्वाणम् । मम पदे मत्पदे तयोः शब्दमा - कर्णयन्तमिव श्रृण्वन्तमिव । यतः स मद्विषय उत्कण्ठितस्तत्र हेतुमाह - अतीति । अतिनिष्पन्दतयातिनिश्चलतया । इयं नागि ममोपर्यन्तःक्रोधस्तेन शमितो मदनसंतापो यस्य तस्य भावस्तत्ता तया तत्क्षणं लब्धं यत्सुखं तेन प्रसुप्तमिव । ममोपरि क्रोधकरणात् · मदनेन संतापो दूरीकृत इति भावः । मुनेर्ममै क्षोभस्त्वनुचित इत्यतस्तव्प्रायश्चित्तरूपो यः प्राणायामः प्राणयमस्तत्रावस्थितमिव कृतावस्थानमिव । स चातिनिःस्पन्दतया क्रियत इति भावः । अतीति । अतिप्रस्फुरिता दीप्ता प्रभा कान्तिर्यस्यैवंविधेनाधरेण रदनच्छदेन त्वत्कृते त्वन्निमित्तं ममेयं प्रत्यक्षोपलभ्यमानावस्था दशा जाता इति कथयन्तमिव प्रतिपादयन्तमिव । इन्द्विति । इन्दुद्वेषेण चन्द्रद्विषा परिवर्तितः प्रत्यङ्मुखीकृतो यो देहस्तस्य भावस्तत्तां तया पृष्ठभागे पश्चाद्भागे निपतितैः शशिकिरणैश्चन्द्रालोकैः पृष्ठं भित्त्वा हृदयभागे गमनाभावेऽपि मदनलक्षणो यो दहनो वह्निस्तेन विह्वलं यद्धृदयं स्वान्तं तत्र न्यस्तः स्थापितो यो हस्तः पाणिस्तस्य नखमयूखाः पुनर्भवकिरणास्तेषां छलेन मिषेण छिद्रितमिव संजातविवरमिव । अनेन देहस्य स्वच्छत्वं नखकिरणानामुदितारुणचन्द्रकिरणसादृश्यं व्यज्यते । मुनिकुमारं विशेषयन्नाह - उच्छुष्केति । चन्दनलेखिकया मलयजलेखया रचिता निर्मिता ललाटिका यस्य स तम् । कीदृशया । उच्छुष्का चासौ पाण्डुरा चोच्छुष्कपाण्डुरा तया । अतएव शुष्कत्ववक्रत्वसाम्यादाह - मदनेति । मदनो मन्मथः स एव चन्द्रस्तस्य कलयेव । कीदृश्या । स्वस्य यो - टिप्पo - 1 मनसि यदा क्रोधोदयस्तदा मदनकृत उत्तापः शिथिलीभूतः, कामो हि मनोभूः । अत एव मनसि स्वस्थ एव तस्योदयः । 2 'मनःक्षोभ' इत्युचितः पाठः । मनःक्षोभस्य मदनवेगोत्पन्नचित्तोद्वेलनस्य (तठप्रयुक्तपापस्येत्याशयः) प्रायश्चित्तरूपो यः प्राणायाम इति तदर्थः । 3 वक्षसि स्थापितस्य करस्य नखकिरणास्तथा प्रसरन्ति यथा चन्द्रं प्रति पृष्ठं कृत्वा शयानस्यास्य पृष्ठं भित्त्वा चन्द्रकिरणा एव वक्षस्थलाद्बहिर्निःसृताः स्युरित्युव्प्रेक्षाशयः । 4 चन्द्रकलाकारा चन्दनरेखा तथा प्रतीयते यथा स्वस्य (पुण्डरीकस्य ) विनाशकारकोत्पाताय मदनसम्बन्धिनी चन्द्रकलैव उदिता भवेत् । असमये ग्रहादीनामुदय उत्पाताय भवतीत्याशयः । पदानामर्थबोधष्टीकातो निर्वाह्यः । पाटा० - १ शीकरसाविणि. २ कुवलयविविध. ३ सुकुमारम्; मालामयम्. ४ अन्तः कृतान्तोपशमित; अन्तःकोपशमित; अन्तः क्षोभशमित. ५ क्षण. ६ मनः क्षोभ. ७ पाण्डुतया. ८ स्वविनाशोत्पन्नया; स्वदेहविनाशोत्पन्नया. उपरतः पुण्डरीकः पूर्वभागः । 349 Page #363 -------------------------------------------------------------------------- ________________ चन्दनलेखिकया रचितललाटिकम्, ईषदालक्ष्यपरिवृत्ततारकेणानवरतरोदनताम्रेण प्राणोत्सर्गोपजाताश्रुक्षयतया रुधिरमिव क्षरता मदनशरशल्यवेदनाकूणितत्रिभागेन नातिनिमीलितेन लोचैनयुगलेन 'मैत्तो ऽतिप्रियतरस्तवापरो जनो जातः '. इति कुपितेनेव जीवितेन परित्यक्तम्, मन्मथव्यवया सहैतानसून्स्वयमिवोत्सृज्य निश्चेतनासुखमनुभवन्तम्, अनङ्गयो - गविद्यामिव ध्यायन्तम्, अपूर्वप्राणायाममिवाभ्यस्यन्तम्, उपपादितास्मदागमनेन प्रणयादिवापहृतप्राणपूर्णपात्रमनङ्गेन, रैंचितचन्दनललाटिकात्रिपुण्ड्रकम्, धृतसरसबिससूत्रयज्ञोपवीतम्, अंसावसक्तकदलीगर्भपत्रचारुचीरम्, एकावलीविशालाक्षमालम्, अविर - ****: **** विनाशस्तल्लक्षण उत्पातस्तेनोत्पन्नया प्रकटीभूतया । पुनः कीदृशम् । एवंविधेन लोचनयुगलेन नेत्रयुग्मेन । उपलक्षितमिति शेषः । अथ च लोचनयुगलं विशेषयन्नाह - ईषदिति । ईषत्किंचिदालक्ष्या दृश्याः परिवृता भ्रमन्त्यस्तारकाः कनीनिका यस्मिन् । अनवरतं निरन्तरं रोदनमश्रुपातस्तेनाताम्रेणेषत्ताम्रवर्णेन । प्राणेति । प्राणस्य य उत्सर्गः परित्यागस्तत्रोपजातः समुत्पन्नो योऽश्रुक्षयस्तस्य भावस्तत्ता तया रुधिरमिव रक्तमिव क्षरता प्रस्त्रवता । मदनेति । मदनशराणां कंदर्पबाणानां शल्यमन्तः स्थितशराग्रभागस्तस्य या वेदना पीडा तया कूणित ईषद्वक्रीकृतस्त्रिभागो यस्मिन् । नेत्रस्येति शेषः । नेति । नातिनिमीलितेन नातिमुद्रितेन । मत्त इति । मदिति मत्तः । सार्वविभक्तिकस्तस् । जीवितादपि तव कुमारस्यापरो जनो महाश्वेतारूपोऽतिप्रियतरोऽतिवल्लभो जात इति हेतोः कुपितेन कोपं प्राप्तेन जीवितेन प्राणितेन परित्यक्तमुज्झितम् । मन्मथेति । मन्मथस्य कंदर्पस्य या व्यथा पीडा तया सह स्वयमिवाकस्मादिवैतानसून्प्राणानुत्सृज्य त्यक्त्वा निश्चेर्तना सुखं सातं तदनुभवन्तमनुभवविषयीकुर्वन्तम् । अनङ्गेति । अनङ्गस्य मनोभुवो जयार्थं या योगविद्या तां ध्यायन्तमिव ध्यानविषयीकुर्वन्तमिव । अपूँर्वेति । पूरकाभावादिति भावः । एवंविधं प्राणायामं प्राणनियमनमभ्यस्यन्तमिवाभ्यासं कुर्वन्तमिव । पूर्वं निःशब्दतया प्राणायामावस्थितत्वम्, इदानीं तु पूरकाभावादिति भेदः । उपेति । उपपादितं निष्पादितमस्मदागमनं येनैवंभूतेनानङ्गेन प्रणयादिव स्नेहादिवापहृतमाकर्षितं प्राणलक्षणं पूर्णपात्रं यस्मात्स तम् । 'उत्सवेषु सुहृद्भिर्यद्धलादाकृष्य गृह्यते । तत्पूर्णपात्रम्' इति वृद्धाः । रचितेति । रचितं निर्मितं चन्दनेन ललाटिकासु त्रिपुण्ड्रकं येन तम् । पूर्वमर्धचन्द्राकारललाटिकावर्णनम्, इदानीमर्धचन्द्रोपरि त्रिपुण्ड्रवर्णनमिति भेदः । धृतेति । धृतं धारितं सरसबिससूत्ररूपं यज्ञोपवीतं यज्ञसूत्रं येन स तम् | अंसेति । असे स्कन्धेऽवसक्तं स्थापितं कदलीगर्भपत्रवच्चारु मनोहरं चीरं येन स तम् । विशालेति । एकावल्येव विशाला विस्तीर्णाक्षमाला जपमाला यस्य स तम् । अविरलेति । अविरलो घनोऽमलो निर्मल - टिप्पo - 1 पुण्डरीकस्य द्वे विशेषणे एकीकृत्य पिण्डीकृतोऽयं पाठः । अत एव 'लोचनयुगलेन' इत्यतोऽग्रे 'मामसूययेव विलोकयन्तम्' इति पाठ संयोज्य एकं पुण्डरीकविशेषणं पूरणीयम् । अर्थस्त्वस्य स्पष्टः । 'मत्तोऽतिप्रियतर०' इत्यादिविशेषणं तु पृथक् स्पष्टं च । 2 'निश्चेतनतासुखम्' इत्येव पाठः । चेतनायां जातायां नानाविधानि दुःखान्युपतिष्ठन्त इति तदाशयः । उपरिधृतः पाठस्तु टीकानुकूलः । 3 पूरणरेचनयोरभावः केवं कुम्भकमेवेति प्रचलितप्राणायामापेक्षयाऽपूर्वत्वम् । 4 मदनेन मम (महाश्वेतायाः ) आगमनरूपं प्रियकार्यं संपाद्य प्राणरूपं पूर्णपात्रं पुण्डरीकेण सह स्नेहवशादपहृतम् । मदनपुण्डरीकयोः स्नेहस्तु समानलावण्येन । इत्याशयो बोध्यः । 5 गर्भपत्रमेव चीरमिति समासो योग्यः, पूर्वापरयोस्तथैव वेषवर्णनात् । पाठा० - १ क्षरता नाति. २ लोचनयुगलेन मामसूययेव विलोकयन्तं ३ मत्तः प्रियतरः ४ मन्मथव्यथासहानसून. ५ निश्चेतनतासुखम् ६ रचितललाटिका. ७ विलास. 350 कादम्बरी | कथायाम् Page #364 -------------------------------------------------------------------------- ________________ लामलकर्पूरक्षोदभस्मधवलम्, आबद्धमृणालरक्षाप्रतिसरमनोहरम्, मनोभवव्रतवेषमास्थाय मत्समागममन्त्रमिव साधयन्तम्, 'भोः कठिनहृदये, दर्शनमात्रकेणापि न पुनरनुगृहीतोऽयमनुगतो जनः' इति सप्रणयं मामुपलभमानमिव चक्षुषा, किंचिद्विवृताधरतया जीवितमपहर्तुमन्तःप्रविष्टैरिवेन्दुकिरणैर्निर्गच्छद्भिर्दशनांशुभिर्धवलितपुरोभागम्, मन्मथव्यथाविघटमानहृदयनिहितेन वामेन पाणिना ‘प्रसीद । प्राणैः समं प्राणसमे, न गन्तव्यम्' इति हृदयस्थिता मामिव धारयन्तम्, इतरेण च नखमयूखदन्तुरतया चन्दनमिव सवतोत्तानीकृतेन चन्द्रातपमिव निवारयन्तम्, अन्तिकस्थितेन चाचिरोद्गतजीवितमार्गमिवोद्ग्रीवेण विलोकयता तपःसुहृदा कमण्डलुना समुपेतम्, कण्ठाभरणीकृतेन च मृणालवलयेन रजनीकरकिरणपाशेनेव संयम्य लोकान्तरं नीयमानम्, कपिञ्जलेन मद्दर्शनात् 'अब्रह्मण्यम्' इत्यूर्ध्वहस्तेन द्विगुणीभूतबाष्पोद्गमेनाक्रोशता कण्ठे परिष्वक्तम्, तत्क्षणविगतजीवितं तमहं पापकारिणी मन्दभाग्या महाभागम द्राक्षम् । *********** एवंविधो यः कर्पूरक्षोदो घनसारचूर्णं तदेव भस्म विभूतिस्तेन धवलं शुभ्रम् । आबद्धेति । आबद्धो मृणालस्य तन्तुलस्य रक्षार्थ प्रतिसरो हस्तसूत्रं तेन मनोहरं शोभनम् । मनो इति । मनोभवव्रतवेषमास्थाय परिगृह्य मदीयो यः समागमस्तत्साधको मन्त्रस्तं साधयन्तमिवाराधयन्तमिव । इति मां सप्रणयं सस्नेहम् । चक्षुषा इति । उपलभमानमिवोपालम्भं ददानमिव । इतिशब्दद्योत्यमाह - भो इति । भोः कठिनहृदये, दर्शनमात्रकेणाप्ययमनुगतोऽनुरक्तो जनो न पुनरनुगृहीतो न स्वीकृतः । किंचिदिति । किंचिद्विवृतो योऽधर ओष्ठस्तस्य भावस्तत्ता तया जीवितमपहर्तुं दूरीकर्तुमन्तःप्रविष्टैरिन्दुकिरणैश्चन्द्रकरैरिव निर्गच्छद्भिर्बहिरागच्छद्भिर्दशनांशुभिर्दन्तकिरणैर्धवलितपुरोभाग शुभ्रीकृताग्रप्रदेशम् । मन्मथेति । मन्मथस्य कंदर्पस्य व्यथा पीडा तया विघटमानं भिद्यमानं यद्धृदयं तत्र निहितेन स्थापितेन वामेन सव्येन पाणिना हस्तेन कृत्वा इति हृदयस्थितां मामिव धारयन्तं रक्षन्तम् । इतिवाच्यमाह - प्रसीदेति । हे प्राणसमे, त्वं प्रसीद प्रसन्ना भव । अथ च प्राणैः समं न गन्तव्यम् । प्राणा गच्छन्तु, परं त्वया न गन्तव्यमिति भावः । एतेन प्राणेभ्योऽप्यतिवल्लभा त्वमसीति ध्वनितम् । इतरेणेति । इतरेण दक्षिणपाणिनोत्तानीकृतेनोर्वीकृतेन चन्द्रातपं कौमुदी निवारयन्तमिव निषेधयन्तमिव । किं कुर्वता । चन्दनं मलयज सवतेव क्षरतेव । कया । नखानां मयूखाः किरणास्तैर्दन्तुरतया विषमोन्नततया । अन्तिकेति । अन्तिकस्थितेन समीपवर्तिनोद्ग्रीवेणाचिरोद्गतमचिरं तत्कालं गतं यज्जीवितं तस्य मार्ग पन्थानं विलोकयतेव पश्यतेव एवंविधेन तपःसुहृदा तपस्यामित्रेण कमण्डलुना कुण्डिकया समुपेतं सहितम् । कण्ठे आभरणीकृतेन च विभूषणीभूतेन च मृणालवलयेन बिसकटकेन । श्वेतत्वसाम्यादाह - रजनीति । रजनीकरश्चन्द्रस्तस्य किरणास्तल्लक्षणः पाशो बन्धनग्रन्थिस्तेनेव संयम्य बद्ध्या लोकान्तरमन्यलोकं नीयमानं प्राप्यमाणम् । अत्रान्यः प्राकृतो जनो यमेन पाशेन बद्ध्या लोकान्तरं नीयते । अयं मुनिकुमार इति तदसंभवात्कण्ठेत्युक्तमिति भावः । मदिति । तदानीं मद्दर्शनादब्रहाण्यमनुचितमित्यूर्ध्वहस्तेन कपिञ्जलेनाक्रोशता पूत्कुर्वता कण्ठे परिष्वक्तमालिङ्गितम् । कीदृशेन कपिञ्जलेन । द्विगुणीभूतः पूर्वस्मादधिकीभूतो बाष्पस्य रोदनस्योद्गमः प्रादुर्भावो यस्मिन्स तेन । पुनः कीदृशम् । तत्क्षणे तत्काले विगतं प्रनष्टं जीवितं प्राणितं यस्य स तम् । अन्वयस्तु प्रागेवोक्तः । - - - - - - टिप्प० - 1 किञ्चिद्विवृतः अधरो यस्य तद्भावस्तत्तया, इति व्याख्यानमुचितम् । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ रक्षापरिसरमनोहरम्; रक्षाप्रतिसरतयातिमनोहरम्. २ साधयन्तं मदनशरशल्यवेदनाकूणितत्रिभागेन कठिन. ३ विघटमान. ४ रजनिकर. ५ उपनीयमानम्. ६ व्यस्तहस्तेन. ७ अपक्रान्त. (उपरतः पुण्डरीकः । पूर्वभागः । 351 Page #365 -------------------------------------------------------------------------- ________________ उद्भूतमून्धकारा च पातालतलमिवावतीर्णा तदा क्वाहमगमम्, किमकरवम्, किं व्यलपम्, इति सर्वमेव नाज्ञासिषम् । असवश्च मे तस्मिन्क्षणे किमतिकठिनतयास्य मूढहृदयस्य, किमनेकदुःखसहससहिष्णुतया हतशरीरकस्य, किं विहिततया दीर्घशोकस्य, किं भाजनतया जन्मान्तरोपात्तस्य दुष्कृतस्य, किं दुःखदाननिपुणतया दग्धदेवस्य, किमेकान्तवामतया दुरात्मनो मन्मथहतकस्य, केन हेतुना नोद्गच्छन्ति स्म तदपि न ज्ञातवती । केवलमतिचिराल्लब्धचेतना दुःखभागिनी वह्नाविव पतितमसह्यशोकदह्यमानमात्मानमवनौ विचेष्टमानमपश्यम् । अश्रद्दधानं चासंभावनीयं तत्तस्य मरणमात्मनश्च जीवितमुत्थाय, 'हा, किमिदमुपनतम्' इति मुक्तार्तनादा, 'हो अम्ब, हा तात, हा सख्यः' इति व्याहरन्ती 'हा,नाथ जीवितनिबन्धन, आचक्ष्व । क्व मामेकाकिनीमशरणामकरुणं विमुच्य यासि । पृच्छ तरलिकां त्वत्कृते मया यानुभूतावस्था । युगसहसायमाणः कृच्छ्रेण नीतो दिवसः । प्रसीद । सकृदयालप । दर्शय भक्तवत्सलताम् । ईषदपि विलोकय । पूरय मे मनोरथम् । आर्तास्मि । भक्तास्मि । अनुरक्तास्मि । अनाथास्मि । बालास्मि । अगतिकास्मि । दुःखितास्मि । *********** तदेति । तदा तस्मिन्क्षणे सर्वेमेवेति नाज्ञासिषं नाबोधिषम् । इतिद्योत्यमाह - उद्भूतेति । क्वाहमगममव्रजम्, किमकरवमघटयम्, किं व्यलपं किमवोचम् । कीदृश्यहम् । उद्भूतं प्रकटीभूतं मूर्छा एवान्धकारं यस्यां सा तथा पातालतलं रसातलमवतीर्णेव । असवश्चेति । तस्मिन्क्षणे मे ममासवः प्राणा अस्य मूढहृदयस्य किमतिकठिनतयातिकाठिन्यतया । किं हतशरीरकस्य निःप्रयोजनदेहस्यानेकानां दुःखसहसाणां सहिष्णुतया सहनतया । किं दीर्घशोकस्य चिरकालीनशुचो विहिततयावश्यभोक्तव्यतया । किं जन्मान्तरोपात्तस्यान्यभवार्जितस्य दुष्कृतस्य पापस्य भाजनतया पात्रतया । किं दग्धदैवस्य ज्वलितभाग्यस्य दुःखदाने कृच्छ्रप्रदाने निपुणतया दक्षतया । किं दुरात्मनः पापिष्ठस्य मन्मथहतकस्यैकान्तवामतयात्यन्तप्रतिकूलतया । एतेषां मध्ये केन हेतुना नोद्गच्छन्ति स्म न बहिः प्रयान्ति स्म तदपि न ज्ञातवती । केवलमतिचिराच्चिरकालेन लब्धा प्राप्ता चेतना चैतन्यं यया सैवंविधा दुःखभागिनी वह्नाविवाग्नाविव पतितमसह्यो यः शोकः शुक् तेन दह्यमानं ज्वलन्तमवनौ पृथिव्यां विचेष्टमानं लुठमानमात्मानमपश्यमवालोकयम् । तस्य मुनिकुमारस्य तन्मरणमात्मनश्च स्वकीयस्य च जीवितमसंभावनीयमश्रद्दधानमश्रद्धाविषयीकुर्वाणमुत्थाय । हेति खेदे । किमिदमुपनतमागतमिति मुक्त आर्तनाद आक्रन्दशब्दो यया सा तथा । हा अम्ब मातः, हा तात हा पितः, हा सख्यः हा आल्यः, इति पूर्वोक्तं व्याहरन्ती कथयन्ती । हा नाथ हा स्वामिन्, जीवितनिबन्धनं जीवितकारणमाचक्ष्व कथय । मामेकाकिनीमसहायामशरणामत्राणामकरुणं निर्दयं यथा स्यात्तथा विमुच्य त्यक्त्वा क्य यासि क्व व्रजसि । तरलिकां पृच्छ प्रश्नं कुरु, त्वत्कृते त्वदर्थं मया महाश्वेताभिधानया यानिर्वचनीयावस्था दशानुभूतानुभवविषयीकृता । युगसहसवदाचरमाणो दिवसो वासरः कृच्छ्रेण कष्टेन नीतः प्रापितः । प्रसीद प्रसन्नो भव । सकृदप्येकवारमप्यालप ब्रूहि । भक्तवत्सलतां हितकारितां दर्शय प्रकाशय । ईषदपि किंचिदपि विलोकय निरीक्षणं - टिप्प० -1 काठिन्यमिति भावप्रत्ययान्तान पुनर्भावार्थकप्रत्ययः । नानुक्रियतां विद्यार्थिभिः । 2 अभिन्नहृदया महातैव पुण्डरीकेण सह आत्मनो मरणं च जीवितं च वक्तुं शक्ता । अतएव 'अश्रद्दधाना' इति स्त्रीलिङ्गपाठ एवोचितः । 'अयं मृतः स्यात् अहं च जीवेयम्' इत्येव न विश्वसनीयमिति तदाकृतम् । 3 'जीवितनिबन्धनमाचक्ष्व' इति पाठो विवक्षितष्टीकाकारस्य । किन्तु मूले शोषितः पाठो दृश्यते । नाहमिमं लेखन्या चिच्छित्सामि । पाठा०-१ पातालमिव. २ अश्रद्दधानाम् अश्रद्दधाना. ३ मरणकारणम्. ४ हा हा. ५ अम्ब हा मातः. ६ निबन्धनमाचक्ष्व. ७ अकरुण. 352 कादम्बरी । कथायाम् ܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠ Page #366 -------------------------------------------------------------------------- ________________ अनन्यशरणास्मि । मदनपरिभूतास्मि । किमिति न करोषि दयाम् । कथय किमपराद्धम्, किं वा नानुष्ठितं मया, कस्यां वा नाज्ञायामादृतम्, कस्मिन्वा त्वदनुकूले नाभिरतम्, येन कुपितोऽसि, दोसजनमकारणात्परित्यज्य व्रजन्न बिभेषी कौलीनात् । अलीकानुरागविप्रतारणकुशलया किं वा मया वामया पापया । आः, अहेमद्यापि प्राणिमि । हा, हतास्मि मन्दभागिनी । कथं न त्वं जातः, न विनयः, न बन्धुवर्गः न परलोकः । धिङ् मां दुष्कृतकारिणीम्, यस्याः कृते तवेयमीदृशी दशा वर्तते । नास्ति मत्सदृशी नृशंसहृदया, याहमेवंविधं भवन्तमुत्सृज्य गृहं गतवती । किं मे गृहेण, किमम्बया, किं वा तातेन, किं बन्धुभिः, किं परिजनेन । हा, कमुपयामि शरणम् । मयि दैव, दर्शय दयाम् । विज्ञापयामि त्वाम् । देहि दयितदक्षिणां भगवति भवितव्यते । कुरु कृपाम् । पाहि वनितामनाथाम् । भगवत्यो वनदेवताः, प्रसीदत । प्रयच्छतास्य प्राणान् । अव वसुंधरे, सकललोकानुग्रहजननि । रजनि, नानुकम्पसे । तात कैलास, शरणागतास्मि ते । दर्शय दयालुताम्' इत्येतानि चा - *********** कुरु । मे मम मनोरथं चिन्तितं पूरय पूर्णीकुरु । अहमार्तास्मि दुःखितास्मीति स्पष्टम् । अनन्येति । न विद्यतेऽन्यं शरणं त्राणं यस्याः सैवंविधास्मि । मदनेन कन्दर्पण परिभूता पराजितास्मि । किमिति हेतोः । त्वं दयां कृपां न करोषि न प्रणयसि । कथय ब्रूहि । किमपराद्धं कोऽयमपराधः कृतः मयेति । शेषः । किं मया नानुष्ठितं नाचरितं वा । कस्यां वाज्ञायां निर्देशे नादृतं नादरः कृतः । त्वदनुकूले कस्मिन्वा मया नाभिरतं रागो न कृतः, येन कारणेन कुपितः कोपं प्राप्तः । अकारणानिमित्तमन्तरेण दासजनं भृत्यलोकं परित्यज्य विहाय व्रजन्गच्छन्कौलीनाजनापवादान्न बिभेषी भयं प्राप्नोति । अलीकेति । अलीको मिथ्या योऽनुरागस्तेन यद्विप्रतारणं वञ्चनं तत्र कुशलया दक्षया वामया प्रतिकूलया पापया दुष्टकर्मकारिण्या मया किं वा स्यात् । आः इति ज्ञातम् । अहमद्याप्येतावत्कालमपि प्राणिमि जीवामि । हा हतास्मि । दैवेन ताडितास्मीति भावः । अतएव मन्दभागिनी । तदेव दर्शयति - कथमिति । न त्वं भवान् जातः । पतिरिति शेषः । अतश्च न विनयो न मर्यादा, न वा बन्धुवर्गो न स्वजनलोकः, न परलोको न प्रेत्यभावः । मां धिगस्तु धिक्कारोऽस्तु । मां कीदृशीम् । दुष्कृतकारिणीं दुष्कर्मकरणशीलाम् । यस्याः पापकारिण्याः कृते तव भवति इयं परित्यक्तजीवितरूपा दशावस्था वर्तते । मत्सदृशी मत्समा नृशंसह्यदया क्रूरचित्ता नास्ति न विद्यते, याहमेवंविधं भवन्तमुत्सृज्य त्यक्त्वा गृहं धाम गतवती । मे मम किं गृहेण सदनेन, किमम्बया मात्रा, किं वा तातेन पित्रा, किं वा बन्धुभिः स्वजनैः, किं परिजनेन परिच्छदेन । हेति खेदे । कं शरणमुपयामि गच्छामि । हे दैव हे भाग्य, मयि विषये दयां कृपां दर्शय । त्वां प्रति विज्ञापयामि विज्ञप्तिं करोमि । हे भवितव्यते भगवति, दयितदक्षिणां देहि । कृपा दयां कुरु । अनाथां वनितां स्त्रियं पाहि रक्ष । हे भगवत्यो वनदेवताः, यूयं प्रसीदत प्रसन्ना भवत । अस्य मुनिकुमारस्य प्राणान्प्रयच्छत ददत । हे सकललोकानुग्रहजननि वसुंधरे, अव रक्ष । हे रजनि हे रात्रि, नानुकम्पसे नानुकम्पां करोषि । हे तात कैलास, ते तव शरणागतास्मि । दयालुतां कृपालुतां दर्शय - टिप्प० - 1 अन्यदित्युचितम् । 2 'कथं मे न त्वम्, न तातः' इत्येव पाठः । त्वं मे मम (संबन्धी) न जातः, कुतः ? मरणात् । तातोपि न, अर्थात् पितापि मे पक्षपोषको न स्यात् अभिसरणेन कुलमर्यादोल्लङ्घनात् । विनय-बन्धुवर्ग-परलोका अपि मम न भवेयुः । अभिसरणेन तत्प्रतीपाचरणात्, इति तदाशयः । पाठा० - १ किमपराद्धम्. २ कुपितः. ३ दासीजनम्. ४ प्रतारण. ५ याहम्. ६ कथं मे त्वं, न तातः. ७ अयि. ८ दक्षिणाम्. ९ अम्ब. १० किमर्थं नानु. ११ अस्मि. (महाश्वेताविलापः । पूर्वभागः ।। 353) Page #367 -------------------------------------------------------------------------- ________________ न्यानि च व्याक्रोशन्ती, कियद्वा स्मरामि, ग्रहगृहीतेवाविष्टेनोन्मत्तेव भूतोपहते वव्यलपम् । उपर्युपरिपतिर्तनयनजलधारानिकरच्छलेन विलीयमानेव, द्रवतामिव नीयमाना, जलाकारेणेवात्मीक्रियमाणा, प्रलापाक्षरैरपि दर्शनमयूखशिखानुगततया साश्रुधारैरिव निष्पतद्भिः शिरोरुहैरप्यविरलविगलत्कुसुमतया मुक्तबाष्पजलबिन्दुभिरिवाभरणैरपि प्रसूतविमलमणिकिरणाश्रुतया प्ररूदितैरिवोपेता, तेज्जीवितायेवात्ममरणाय स्पृहयन्ती, मृतस्यापि सर्वात्मना हृदयं प्रवेष्टुमिवेच्छन्ती, करतलेन कपोलयोराश्यानचन्दन श्वेतजटामूले च ललाटे निहितसरसबिसयोश्चांसयोर्मलयजरसलवलुलितकमलिनीपलाशावगुण्ठिते च हृदये स्पृशन्ती, 'पुण्डरीक, निष्ठुरोऽसि । एवमप्यार्तां न गणयसि माम्' इत्युपालभमाना मुहुरेनमन्वनयम्, र्मुहुः पर्यचुम्बम्, मुहुर्मुहुः कण्ठे गृहीत्वा व्याक्रोशम् । 'आः पापे, त्वयापि मत्प्रत्यागमनकालं यावदस्यासवो न रक्षिताः' इति तामेकावलीमगर्हयम्, 'अयि भगवन्, प्रसीद । प्रत्युज्जीवयैनम्' - **** ***** - प्रकटय । इत्येतानि च ग्रन्थकर्त्रा प्रदर्शितान्यन्यानि चाप्रदर्शितानि च वचनानि व्याक्रोशन्ती पूत्कुर्वन्ती । कियद्वेति । कियन्मात्रं परिदेवनं स्मरामि स्मरणविषयीकुर्वे । ग्रहगृहीतेव ग्रथिलेव, आविष्टेवावेशविषयीकृतेव, उन्मत्तेवोन्मत्तवायुव्यथितेव, भूतेन व्यन्तरेणोपहतेव व्यलपं विलापमकरवम् । अथ नयनाश्रुधाराणां सान्द्रातिशयं वर्णयितुं त्रिभिरुत्प्रेक्षते - उपरीति । उपर्युपरि पतिता या नयनजलधारा अश्रुश्रेण्यस्तासां निकरच्छलेन समूहव्याजेन विलीयमानेव द्रुततामापद्यमानेव । द्रवतां द्रवगुणोपयुक्ततां नीयमानेव प्राप्यमाणेव । द्रवत्ववत्त्वादेवाह जलाकारेणेति । जलाकारेण जलस्वभावेनात्मीक्रियमाणेव । अथ च रोदनाश्रुमुखेन शोकातिशयं व्यञ्जयितुमश्रुवर्णनं त्रिभिरुत्प्रेक्षाभिराह - प्रेति । दशना दन्तास्तेषां मयूखाः किरणास्तेषां शिखा प्रान्तभागस्तत्रानुगततया प्राप्ततया प्रलापाक्षरैरपि परिदेवनवर्णैरपि साश्रुधारैर्नि - . ष्पतद्भिरिव सवद्भिरिव । अत्र श्वेतत्वसाम्याद्दशनमयूखनेत्रजलयोरुपमानोपमेयभावः । अविरलेति । अविरलानि धनानि विगलन्ति क्षरन्ति कुसुमानि पुष्पाणि येषु तेषां भावस्तत्ता तया शिरोरुहैरपि केशैरपि । मुक्तेति । मुक्ता बाष्पजलबिन्दवो यैरेवंविधैरिव । अत्रापि पुष्पनेत्रजलयोः श्वेतत्वसाम्यादुपमानोपमेयभावः । प्रस्विति । प्रसूतानि जनितानि विमलानि निर्मलानि मणिकिरणान्येवाश्रूणि येषु तेषां भावस्तत्ता तया आभरणैरपि विभूषणैरपि प्ररुदितैरिव कृताश्रुपातैरिव । उपेतेति । तत्त्रिभिरन्विता । तज्जीवितेति । तस्य मुनिकुमारस्य जीवितं तद्वदिवात्ममरणाय स्वनिधनाय स्पृहयन्ती वाञ्छां कुर्वन्ती । मृतस्यापि गतप्राणस्यापि सर्वात्मना सर्वप्रकारेण हृदयं प्रवेष्टुं प्रवेशं कर्तुमि - च्छन्तीव । करतलेन पाणितलेन स्वेन मुनिकपोलयोर्गल्लात्परप्रदेशयोर्ललाटे च कीदृशे । आश्यानं शुष्कं चन्दनं मलयजं तेन श्वेतं शुभ्रं जटामूलं सटापीठं यस्मिन् । अंसयोश्च स्कन्धयोश्च कीदृशयोः । निहितेति । निहितानि स्थापितानि सरसानि रसो जलं तद्युक्तानि बिसानि तन्तुलानि ययोः । अथ हृदयं विशेषयन्नाह - मलयेति । मलयजस्य चन्दनस्य रसो द्रवस्तस्य लवो लेशस्तेन लुलितानि मिलितानि यानि कमलिनीपलाशानि पत्राणि तैरवगुण्ठिते व्याप्ते स्पृशन्ती स्पर्शं कुर्वन्ती । पुण्डरीकेति । हे पुण्डरीक, त्वं निष्ठुरः क्रूरोऽसि । एवमपि पूर्वोक्तप्रकारेणापि मामार्तां न गणयसि न गणनां करोषि । इत्युपालभमानोपालम्भं ददाना मुहुर्वारंवारमेनमन्वनयमनु मुहुर्वारंवारं पर्यचुम्बं चुम्बितवती । मुहुर्वारंवारं कण्ठे गृहीत्वा व्याक्रोशमाक्रोशितवती । आः पापे त्वयापि भवत्यापि मम प्रत्यागमनकाल मदीयागमनसमयं यावत् । अस्य पुण्डरीकस्यासवः प्राणा न रक्षिता न त्राताः । इति तामेकावलीमगर्हयं गर्हितवती । अयीति । अयि कोमलामन्त्रणे । हे भगवन्, प्रसीद प्रसन्नो । टिप्प० - 1 तिसृभिरित्युचितम् । 2 अत्र नोपमा । अपि तु उत्प्रेक्षा । 3 विद्यार्थिभिस्तु किरणस्य पुंस्त्वमेव बोध्यम् । पाटा० - १ निपतित. २ दशनशिखा. ३ विगलित. ४ प्रसृत. ५ तज्जीवितायैव, तज्जीविताय च ६ परामृशन्ती. ७ मुहुर्मुहुः. ८ मुहुर्मुहुः. ९ मुहुः. 354 - कादम्बरी । कथायाम् - Page #368 -------------------------------------------------------------------------- ________________ इति मुहुः कपिञ्जलस्य पादयोरपतम्, मुहुश्च तरलिकां कण्ठे गृहीत्वा प्रारुदम् । अद्यापि चिन्तयन्ती न जानामि तस्मिन्काले कुतस्तान्यचिन्तितान्यशिक्षितान्यनुपदिष्टान्यदृष्टपूर्वाणि मे हतपुण्यायाः कृपणानि चाटुसहस्राणि प्रादुरभवन्, कुतस्ते संलापाः, कुतस्तान्यतिकरुणानि वैक्लव्यरुदितानि । अन्य एव स प्रकारः । प्रलयोर्मय इवोदतिष्ठन्नन्तर्बाष्पवेगानाम्, जलयन्त्राणीवामुच्यन्ताश्रुप्रवाहाणाम्, प्ररोहा इव निरगच्छन्प्रलापानाम्, शिखरशतानीवावर्धन्त दुःखानाम्, प्रसूतय इवोदपाद्यन्त मूर्च्छानाम्' । इत्येवमात्मवृत्तान्तं निवेर्देयन्त्या एव तस्याः समतिक्रान्तं कथमप्यतिकष्टमवस्थान्तरमनुभवन्त्या इव चेतनां जहार मूर्च्छा । मूर्च्छावेगान्निष्पतन्तीं च शिलातले तां ससंभ्रमं प्रसारितकरः परिजन इव जातपीडश्चन्द्रापीडो विधृतवान् । अश्रुजलार्द्रेण च तदीयेनैवोत्तरीयवल्कलप्रान्तेन शनैः शनैर्वीजयन्संज्ञां ग्राहितवान् । उपजातकारुण्यश्च बाष्पसलिलोत्पीडनेन प्रक्षाल्यमानर्कपोलो लब्धचेतनामवादीत् - 'भगवति, मया पापेन तवायं पुनरभिनवतां नीतः शोकः, येनेदृशीं दशामुपनीतासि । तदलमनया कथया । संहियतामियम् । अहमप्य *** ***** भव । एनं पुण्डरीकं प्रत्युज्जीवय सजीवितं कुरु । इति मुहुर्वारंवारं कपिञ्जलस्य मुनेः पादयोश्चरणयोरपतं पतितवती । मुहुश्चेति । वारंवारं तरलिकां कण्ठे गृहीत्वा प्रारूदं रुदनमकार्षम् । तस्मिन्निति । तस्मिन्काले रोदनदशायां यान्यचिन्तितान्यतर्कितानी, अशिक्षितान्यपठितानि, अनुपदिष्टानि केनापि नोपदेशीकृतानि, अदृष्टपूर्वाण्यनवलोकितपूर्वाणि, हतपुण्यायाः मे मम कृपणानि दीनानि चाटुसहसाणि 'प्रियप्रायवचनसहसाणि कुतः प्रादुरभवन्कुतः प्रकटीबभूवुरित्यद्याप्येतद्दिनपर्यन्तं चिन्तयन्ती न जानामि न सम्यक्तयावकलयामि । कु पूर्वोक्ताः संलापाः । कुतस्तानि हृदिस्थान्यतिकरुणान्यतिदीनानि विक्लवो विह्वलस्तस्य भावो वैक्लव्यं तस्य रुदितानि क्रन्दितानि । अन्य एव भिन्न एव स प्रकारो भेदः । तान्युप्रेक्षते चतुर्भिः - प्रलयेति । अन्तर्बाष्पस्य मध्यनेत्राम्बुनो वेगानां रंहसा प्रलयोर्मय इव कल्पान्ततरंगा इवोदतिष्ठन्नुत्थिता बभूवुः । अश्रुप्रवाहाणां नेत्राम्बुधाराणां जलयन्त्राणीवामुच्यन्त मुक्ताः । नेत्रैरिति शेषः । प्रलापानां विलापानां प्ररोहा इवाङ्कुरा इव निरगच्छन्निर्गता बभूवुः । दुःखानां कृच्छ्राणां शिखरशतानीव श्रृङ्गशतानीवावर्धन्तैधन्त । मूर्च्छानां मोहानां प्रसूतय इवानवरतसंतानानीवोदपाद्यन्ताक्रियन्त । - इत्येवं पूर्वोक्तप्रकारेणात्मवृत्तान्तं स्वकीयोदन्तं निवेदयन्त्या एव कथयन्त्या एव तस्या महाश्वेतायाः । अतिक्रान्तारिष्टहेतोस्तथा वेदना नास्तीत्यत आह - समतीति । कथमपि महता कष्टेन समतिक्रान्तं व्यतीतमतिकष्टं यस्मिन्नेवंभूतमवस्थान्तरं मुनिकुमारमृत्युलक्षणमनुभवन्त्या इवानुभवविषयीकुर्वन्त्या इव तस्या महाश्वेताया मूर्च्छा मोहश्चेतनां चैतन्यं जहाराहरत् । मूच्छविगान्मोहरंहसः शिलातले निष्पतन्तीमधःसंयोगफलिकां क्रियां कुर्वन्तीं तां महाश्वेतां ससंभ्रमं प्रसारितो विस्तारितः करो येनैवंभूतो जातपीडश्चन्द्रापीडः परिजन इव परिच्छद झ्व विधृतवान्धारितवान् । अश्रुजलार्द्रेण नेत्रवारिक्लिन्नेन च तदीयेनैव महाश्वेतास्वीकृतेनैवेत्यर्थः । उत्तरीयं यद्वल्कलं तस्य प्रान्तेन शनैःशनैर्मन्दमन्दं वीजयन्वातं कुर्वन्संज्ञां चेतनां ग्राहितवान् । आनीतवानित्यर्थः । उपेति । उपजातं समुत्पन्नं कारुण्यं यस्य सः बाष्पसलिलस्योत्पीडनं प्रवाहस्तेन प्रक्षाल्यमानौ कपोलौ यस्य स लब्धचेतनां प्राप्तचैतन्यामवादीदवोचत् । हे भगवति महाश्वेते, मया पापेन पापात्मना तवायं शोकः पुनर्द्वितीयवारमभिनवतां प्रत्यग्रतां नीतः प्रापितः येन कारणेनेदृशीं दशामवस्थामुपनीतासि प्रापितासि । तदिति । तस्माद्धेतोरनया कथयालं कृतम् । इयं कथा संहियतां संक्षिप्यताम् । हि यस्मादतिक्रान्तान्यपि व्यतीतान्यपि संकीर्त्यमानानि पाटा० - १ मुहुर्मुहुः. २ आवेदयन्त्यः ३ एव च तस्याः ४ ससंभ्रमप्रसारित ५ उत्पीडेन. ६ कपोलयुगलः; कपोलयुगलाम्. ७ पुनरपि नवताम्. ८ उपनीतः. महाश्वेताया विलापः पूर्वभागः । - 355 Page #369 -------------------------------------------------------------------------- ________________ समर्थः श्रोतुम् । अतिक्रान्तान्यपि हि संकीर्त्यमानानि प्रियजनविश्वासवचनान्येनुभवसमां वेदनामुपजनयन्ति सुहृज्जनस्य दुःखानि । तन्नार्हसि कथंकथमपि विधृतानिमानसुलभानसून्पुनः शोकानल इन्धनतामुपनेतुम्' इत्येवमुक्ता दीर्घमुष्णं च निःश्वस्य बाष्पायमाणलोचना सनिर्वेदमवादीत् - 'राजपुत्र, या तदा तस्यामैतिदारुणायां हतनिशायामेभिरतिनृशंसैरसुभिर्न पॅरित्यक्ता ते मामिदानीं परित्यजन्तीति दूरापेतम् । नूनमपुण्योपहतायाः पापाया मम भगवानन्तकोऽपि परिहरति दर्शनम् । कुतश्च मे कठिनहृदयायाः शोकः । सर्वमिदमलीकमस्य शठहृदयस्य । सर्वथाहमनेन त्यक्तत्रपेण निरपत्रपाणामग्रेसरीकृता । यया चाविष्कृतमदनया वज्रमय्येवेदमनुभूतम्, का वा गणना कथनं प्रति । किं वा परमतः कष्टतरमाख्येयमन्यद्भविष्यति यन्न शक्यते श्रोतुमाख्यातुं वा । केवलमस्य वज्रपातस्यानन्तरमाश्चर्यं यदभूत्तदावेदयामि । आत्मनश्च प्राणधारणकारणलव इवाव्यक्तो यः समुत्पन्नः, तं च कथयामि । *********** वाच्यमानानि प्रियजनस्येष्टलोकस्य विश्वासवचनानि विश्रम्भभाषितान्यर्हमपि श्रोतुमसमर्थोऽक्षमः । तत्र हेतुमाह - अनुभवेति । सुहृज्ञ्जनस्य मित्रलोकस्य दुःखान्यनुभवसमां विपाकतुल्यां वेदनां व्यथामुपजनयन्ति निष्पादयन्ति । तदिति हेत्वर्थे । कथंकथमपि महता कष्टेन विधृतानिमानसुलभान्दुःप्रापानसून्प्राणान्पुनः शोकानले शुग्वह्नाविन्धनतामिध्मतामुपनेतुं प्रापयितुं त्वं नार्हसि न योग्या भवसि । इत्येवं पूवोक्तप्रकारेणोक्ता दीर्घमायतमुष्णं च निःश्वस्य निःश्वासं मुक्त्वा बाष्पायमाणे लोचने नेत्रे यस्याः सैवंविधा निर्वेदः स्वावमाननं तत्सहितं यथा स्यात्तथावादीदवोचत् । किं तदित्याह - हे राजेति । हे राजपुत्र हे नृपसूनो, याहं तदा तस्मिन्काले तस्यामतिदारुणायामतिभीषणायां हतनिशायामशुभरजन्यामेभिरतिनृशंसैरतिक्रूरैरसुभिः प्राणैर्न परित्यक्ता नोज्झिता तेऽसव इदानीं सांप्रतं मा परित्यजन्ति मुञ्चन्तीति दूरापेतं दूरे स्थितम् । नूनं निश्चितमपुण्योपहताया अधर्मोपहतायाः पापायाः पापिष्ठाया मम दर्शनं निरीक्षणं भगवानन्तकोऽपि यमोऽपि परिहरति परित्यजति । कुतश्चेति । मे मम कठिनहृदयायाः शोकः शुक् कुतः स्यात् । अस्य शठहृदयस्य सर्वं पूर्वोक्तमिदमलीकं मिथ्या । सर्वथेति । सर्वप्रकारेणाहमनेन हृदयेन त्यक्तत्रपेणोज्झितलज्जागुणेन निरपत्रपाणां निर्लज्जानामग्रेसरी पुरोगामिनी कृता विहिता । यया चेति । यया मयाविष्कृतैमदनया प्रकटितकंदर्पया वज्रमय्येव शतकोटिमय्येवेदं पूर्वोक्तमनुभूतमनुभवविषयीकृतम् । का गणना कथनं प्रति, चेदनुभूतं वर्तते तर्हि कथने किं काठिन्यमिति भावः । वेति पक्षान्तरे । अतः परमस्मादन्यत्कष्टतरमतिकृच्छ्रमाख्येयं कथनीयम् । अन्यत्किं भविष्यति यच्छ्रोतुमाकर्णयितुमाख्यातुं कथयितुं वा न शक्यते न पार्यते । केवलेति । केवलमसहायमेकमस्य वज्रपातसदृशदुःखस्यानन्तरं पश्चात् यत् आश्चर्यं चित्रमभूत्तदावेदयामि कथयामि । आत्मनश्चेति । आत्मनः स्वस्य च प्राणधारणं तत्र कारणलव इव हेतुलेशसदृशमव्यक्तोऽस्फुटो यः समुत्पन्नः प्रादुर्भूतस्तं च कथ - टिप्पo - 1 एवंविधो पाठश्चायं टीकाकारमहोदयसंमतः । वस्तुतस्तु 'प्रियजनविश्वासवचनानि' इति वाक्ये नास्त्येव । तदभावे - 'अतिक्रान्तान्यपि दुःखानि संकीर्त्यमानानि (सन्ति) सुहृज्जनस्य अनुभवसमां वेदनां जनयन्ति ' इत्यन्वयः । 2 'स्मरणशोकानलेन्धनताम्' इति समस्तमेव मनोरमम् । 3 'अधिगतमदनवेदनया' इत्येव पाठः । अधिगता साक्षादनुभूता मदनवेदना यया तादृश्या, इति तदर्थः । मदनाविष्करणे त्वनौचित्यम् | पाठा० - १ अनुभवसमयवेदनाम्; अनुभवसमवेदनाम् २ पुनः पुनः स्मरणशोकानलेन्धनताम् ३ या तस्याम् ४ परित्यक्तास्मि तदिदानीं परित्यजन्ति दूरापेतम्; परित्यक्ता सेदानीं परित्यजत इति दूरापेतमेतत्. ५ दुरात्मनः शठहृदयस्य ६ आविष्कृतमन्दवेदनया; अधिगतमदनवेदनया. ७ तस्याः ८ का दुःखगणना, कथं प्रीतिः. 356 कादम्बरी | कथायाम् Page #370 -------------------------------------------------------------------------- ________________ यया दुराशामृगतृष्णिकया गृहीताहमिदमुपरतकल्पं परकीयमिव भारभूतमप्रयोजनमकृतज्ञं च हतशरीरं वहामि, तदलं श्रूयताम् । ततश्च तथाभूते तस्मिन्नवस्थान्ते मरणैकनिश्चयात्तत्तद्बहु विलप्य तरलिकामब्रवम् - 'अयि उत्तिष्ठ निष्ठुरहृदये, कियेंद्रोदिषि । काष्ठान्याहृत्य विरचय चिताम् । अनुसरामि जीवितेश्वरम्' इति । अत्रान्तरे झटिति चन्द्रमण्डलनिर्गतो गगनादर्वतीर्य केयूरकोटिलग्नममृतफेनपिण्डपाण्डुरं पवनतरलमंशुकोत्तरीयमाकर्षन्, उभयकर्णान्दोलितकुण्डलमणिप्रभानुरक्तगण्डस्थलः, स्थूलमुक्ताफलतया तारागणमिव ग्रथितमतितारं हारमुरसा दधानः, धवलदुकूलपल्लवकॅल्पितोष्णीषग्रन्थिः, अलिकुलनीलकुटिलकुन्तलनिकरविर्कटमौलिः, उत्फुल्लकुमुदकर्णपूरः, कामिनीकुचकुङ्कुमपत्रलतालाञ्छितांसदेशः, कुमुदधवलदेहः, महाप्रमाणः पुरुषः महापुरुषलक्षणोपेतः, - *********** यामि ब्रवीमि । ययेति । यया दुराशैव मृगतृष्णिका मरुमरीचिका गृहीता स्वीकृताऽहं महाश्वेता इदमुपरतकल्पमवस्तुप्रायम् । अवस्तुत्वादेव न स्वसत्ताकमित्याह - परेति । परकीयमिवान्यदीयमिवात एव भारभूतमप्रयोजनं निरर्थकं न कृतं जानातीत्यकृतज्ञं हतशरीरं दुःशरीरं वहामि धारयामि । तत्पूर्वोक्तमलं कृतमेतद्व्यतिरिक्तं श्रूयतामाकर्ण्यताम् । ततश्चेति । तदनन्तरं तथाभूते तादृशे तस्मिन्पूर्वप्रतिपादितेऽवस्थान्ते दशान्तरे मरणस्य निमीलनस्यैकनिश्चयादद्वितीयनिर्णयात्तत्तत्पूर्वोक्तं बहु प्रचुरं विलप्य विलप्य बहुविलापान्कृत्वा तरलिकामित्यब्रवमकथयम् । इतिशब्दद्योत्यमाह - अयीति । अयि कोमलामन्त्रणे । निष्ठुरहृदये कठिनचित्ते, उत्तिष्ठोत्थानं कुरु । कियद्रोदिषि कियदपरिमितं रोदनं लोकप्रसिद्धं करोषि प्रणयसि । काष्ठान्येधास्याहृत्यानीय चितां चित्यां विरचय निष्पादय । जीवितेश्वरं प्राणनाथमनुसराम्यनुगच्छामि । अत्रान्तरेऽस्मिन्समये झटिति शीघ्रं चन्द्रमण्डलाच्छशिबिम्बाद्विनिर्गतो निःसृतो गगनादाकाशादवतीर्योत्तीर्य केयूरकोटिलग्नं किरीटाश्रिविलग्नममृतस्य पीयूषस्य फेनपिण्डो डिण्डीरचयस्तद्वत्पाण्डुरं घेतम् । पवनेन वायुना तरलं कम्पमानमुत्तरीयं च तदंशुकं चांशुकोत्तरीयम् । राजदन्तादिषु पाठात्पूर्वप्रयोगः । आकर्षनाकर्षणं कुर्वन् । इतो द्विजमण्डलविनिर्गतनरविशेषणानि । उभयेति । उभौ च तौ कर्णो चेति कर्मधारयः । वृत्तिविशेष उभशब्दस्योभयादेशः । तयोरान्दोलिते वेल्लिते कुण्डले कर्णभूषणे तयोर्मणिप्रभा रत्नकान्तिस्तयानुक्त गण्डस्थल यस्य सः । स्थूलेति । स्थूलानि मुक्ताफलानि यत्र तस्य भावस्तत्ता तया । श्वेतत्ववर्तुलत्वसाम्यादाह - तारेति । ग्रथितं गुम्फितं तारागणमिव नक्षत्रवृन्दमिवातितारमतिमनोहरं हारं मुक्ताप्रालम्बमुरसा वक्षःस्थलेन दधानो बिभ्राणः । धवलेति । धवलं वेतं यहुकूलं दुगूलं तस्य पल्लवेन प्रान्तदेशेन कल्पितो विहित उष्णीषग्रन्थिमूर्धवेष्टनग्रन्थिर्येन सः । अलीति । अलिकुलवद् भ्रमरसमूहवन्नीलाः श्यामाः कुटिला वक्राः कुन्तलाः केशास्तेषां निकरः समहस्तेन विकटो विपलो मौलिर्यस्य सः । उत्फल्लेति । उत्फलं विकसितं यत्कमदं कैरवं तस्य कर्णपूरं कर्णाभरणं यस्य सः । कामिनीति । कामिन्या योषितः कुचयोः स्तनयोः कुङ्कुमपत्रलता केसरपत्रभङ्गिस्तया लाञ्छितश्चिह्नितोऽसंदेशः स्कन्धप्रदेशो यस्य सः । कुमुदेति । कुमुदवच्छेतकमलवद्धवलः शुभ्रो देहः शरीरं यस्य सः । महाप्रमाणोऽतिदीर्घ एवंविधः पुरुषो नरः । महेति । टिप्प० - 1 मृतप्रायम् । 2 गाढालिङ्गनपूर्वकं पार्श्वशयनावस्थायामसे कुङ्कुमसंक्रान्तिरित्याशयः । - - - - - - पाठा० - १ हतशरीरकम्. २ अवस्थान्तरे. ३ निश्चया. ४ तत्. ५ रोदिमि. ६ अवतीर्य च. ७ अतितारहारम्. ८ कम्पित. ९ निचित. पy (पुण्डरीकशरीरस्य गगने नयनम् ( पूर्वभागः ।। 357 Page #371 -------------------------------------------------------------------------- ________________ दिव्याकृतिः, स्वच्छवारिधवलेन देहप्रभावितानेन क्षालयन्निव दिगन्तराणि, आमोदिना च शरीरतः क्षरता शिशिरेण शीतज्वरमिव जनयतामृतशीकरवर्षेण तुषारपटलेनेवानुलिम्पन्, गोशीर्षचन्दनरसच्छटाभिरिवासिञ्चन्, एरावतकरपीवराभ्यां बाहुभ्यां मृणालधवलाङ्गुलिभ्यां शीतैलस्पर्शाभ्यां तमुपरर्तमुत्क्षिपन्, दुन्दुभिगम्भीरेण स्वरेण 'वत्से महाश्वेते, न त्याज्यास्त्वया प्राणाः । पुनरपि तवानेन सह भविष्यति समागमः' इत्येवं पितेवाभिधाय सहैवानेन गगनतलमुदपतत् । अहं तु तेन व्यतिकरेण सभया सविस्मया सकौतुका चोन्मुखी किमिदमिति कपिञ्जलमपृच्छम् । असौ तु ससंभ्रममदत्त्वैवोत्तरमुदतिष्ठत् । ' दुरात्मन्, क्व मे वयस्यमपहृत्य गच्छसि' इत्यभिधायोन्मुखः संजातकोपो बध्न - न्सावेगमुत्तरीयवल्कलेन परिकरेंम्, उत्पत्योत्पतन्तं तमेवानुसरन्नन्तरिक्षमुदगात् । पश्यन्त्या एव च मे सर्व एव ते तारागण-मध्यमविशन् । मम तु तेन द्वितीयेन प्रियतममरणेन कपिञ्जलगमनेन द्विगुणीकृतशोकायाः सुतरामदी - *********** महापुरुषा उत्तमपुमांसस्तेषां लक्षणैः सामुद्रिकशास्त्रोक्तैर्ध्वजादिभिश्चिलैरुपेतः सहितः । दिव्येति । दिव्या मनोहराकृतिराकारो यस्य सः | स्वच्छेति । स्वच्छं निर्मलं यद्वारि जलं तद्वद्धवलेन शुभ्रेण । देहेति । देहप्रभायाः शरीरद्युतेर्वितानेन समूहेन दिगन्तराणि दिग्विवराणि क्षालयन्निव निर्मलानि कुर्वन्निव । आमोदीति । आमोदिना परिमलवता तस्य देवस्यामृतमयत्वात् शरीरतो देहतः क्षरता प्रसवता । शिशिरेति । शिशिरेण शीतलेन शीतज्वरमिव जनयतोत्पादयता एवंविधेनामृतशीकरवर्षेण पीयूषशीकरवृष्टया तुषारपटलेनेव हिमसमूहेनेवानुलिम्पन्विलेपयन् । दिगन्तराणीति शेषः । गोशीर्षेति । गोशीर्षाभिधानं यच्चन्दनं तस्य रसो द्रवस्तस्य छटाभिरिवासिञ्चन्नासेकं कुर्वन् । ऐरावतेति । ऐरावतो हस्तिमल्लस्तस्य करः शुण्डादण्डस्तद्वत्पीवराभ्यां पुष्टाभ्यां बाहुभ्यां भुजाभ्याम् । मृणालेति । मृणालं बिसं तद्वद्धवलाः श्वेता अङ्गुल्यः करशाखा ययोः । शीतलेति । शीतलः शिशिरः स्पर्शो ययोस्ताभ्यां बाहुभ्यां तमुपरतं मृतमुत्क्षिपन्नुत्पाटयन् । इत्येवं प्रकारेण पितेव जनक इवाभिधायेत्युक्त्वानेन मृतकेन सहैव गगनतलमाकाशतलमुदपतदुत्पपात । इतिद्योत्यमाह - दुन्दुभीति । दुन्दुभिः पटहस्तद्वद् गम्भीरेण स्वरेण शब्देन । हे वत्से महाश्वेते, त्वया प्राणा असवो न त्याज्या न हेयाः । अनेन पुण्डरीकेण सह पुनरपि तव समागमो भविष्यति । अहं त्विति । अहं तु तेन व्यतिकरेण तेन वृत्तान्तेन सभया सातङ्का, सविस्मया साश्चर्या, सकौतुका सकुतूहला चोन्मुख्यूर्ध्ववदना किमिदमिति कपिञ्जलमपृच्छमप्राक्षम् । असौ कपिञ्जलोऽदत्त्वैवानुक्त्वैवोत्तरं प्रतिवचः ससंभ्रमं सत्वरम् । 'संभ्रमस्त्वरिते भये' इति कोशः । उदतिष्ठदुत्थितो बभूव । हे दुरात्मन् मे मम वयस्यं मित्रमपहृत्यापहरणं कृत्वा क्व गच्छसीत्यभिधायोक्त्वोन्मुख ऊर्ध्ववदनः संजातकोपः समुत्पन्नरोषः सवेगमुत्तरीयवल्कलेन परिकरं कटिभागं बध्नन्बन्धनं कुर्वन् । उत्पत्योत्पतनं कृत्वा तमेवोत्पतन्तं शशिमण्डलविनिर्गतपुरुषमेवानुसरन्ननुगच्छन्नन्तरिक्षमाकाशमुदगादूर्ध्वमगात् । मे मम पश्यन्त्या विलोकयन्त्या एव च सर्व एव तारागणमध्यं नक्षत्रवृन्दमध्यमविशन्प्रवेशं चक्रुः । मम त्विति । तेन कपिञ्जलगमनेन द्वितीयेन द्वितीयप्रियतममरणेनेव द्विगुणीकृतः शोको यस्या एवंविधाया मम सुतरामत्यर्थं हृदयमदीर्यत विदीर्णं बभूव । किंकर्तव्यतामूढाहं महाश्वेता तरलिकामब्रवम् । किं - टिप्प० - 1 गोशीर्षाकारे मलयपर्वतैकदेशे जातश्चन्दनोपि तन्नाम्ना व्यपदिश्यते । अतितमां सुरभिः शीतलश्चायम् । पाटा० - १ शीकरनिकर. २ गोशीर्षक ३ अतिशीतल. ४ उत्क्षिप्य ५ दुन्दुभिनाद. ६ परित्याज्याः ७ इत्येवमादृतः पितेव ८ दुरात्मन्नन्तक ९ सवेगम्. १० उपेत्य. 358 कादम्बरी | कथायाम् Page #372 -------------------------------------------------------------------------- ________________ र्यत हृदयम् । किंकर्तव्यतामूढा च तरलिकामब्रवम् - 'अयि, न जानासि । कथय किमेतत्' इति । सा तु तदवलोक्य स्त्रीस्वभावकातरा तस्मिन्क्षणे शोकाभिभाविना भयेनाभिभूता वेपमानाङ्गयष्टिर्मम मरणशङ्कया च वराकी विषण्णहृदया सकरुणमवादीत् - 'भर्तृदारिके, न जानामि पापकारिणी । किंतु महदिदमाश्चर्यम् । अमानुषाकृतिरेष पुरुषः । समाचासिता चानेन गच्छता सानुकम्प पित्रेव भर्तीदारिका । प्रायेण चैवंविधा दिव्योः स्वप्नेऽप्यविसंवादिन्यो भवन्त्याकृतयः, किमुत साक्षात् । न चाल्पमपि विचारयन्ती कारणमस्य मिथ्याभिधाने पश्यामि । अतो युक्तं विचार्यात्मानमस्मात्प्राणपरित्यागव्यवसायान्निवर्तयितुम् । अतिमहत्खल्विदमाश्वासस्थानमस्यामवस्थायाम् । अपि च तमनुसरन्गत एव कपिञ्जलः । तेस्माच्च 'कुतोऽयम्, को वायम्, किमर्थं वानेनायमपगतासुरुत्क्षिप्य नीतः, क्व वा नीतः, कस्माच्चासंभावनीयेनामुना पुनः समागमाशाप्रदानेन भर्तृदारिका समाश्वासिता' इति सर्वमुपलभ्य जीवितं वा मरणं वा समाचरिष्यसि । अदुर्लभं हि मरणमध्यासितम् । पश्चादप्येतद्भविष्यति । नच जीवन्कपिञ्जलो भर्तृदारिकामदृष्ट्वा स्थास्यति, तेन तत्प्रत्यागमनकालावधयोऽपि - *********** तदित्याह - अयीति । अयि कोमलामन्त्रणे । न जानासि नावबुध्यसे । एतत्पूर्वोक्तं किमिति कथय निवेदय । ममेति शेषः । सा त्विति । सा तरलिका तत् पूर्वोक्तमवलोक्य निरीक्ष्य स्त्रीस्वभावेन कातरा भीरुस्तस्मिन्क्षणे शोकाभिभाविना शुङ्नाशिना । शोकमभिभवतीत्येवंशीलेनेति भयविशेषणं वा । भयेन भीत्याभिभता पराभता वेपमाना कम्पमानाङगयष्टिर्यस्याः सैवंविधा मम मरणशङकया च विषण्णहृदया खेदखिन्नचित्ता वराकी दीना सकरुणं सदयमित्यवादीदवोचत् । इतिशब्दाभिधेयमाह - भत्रिति । हे भर्तुदारिके, अहं पापकारिणी न जानामि । अपि तु जानामि । किं त्विदं महदाश्चर्यं महत्कौतुकम् । एष पुरुषोऽमानुषाकृतिर्दिव्याकृतिः । अनेन पुरुषेण गच्छता व्रजता पित्रेव जनकेनेव सानुकम्प सदयं भर्तृदारिका राजदुहिता समाश्वासिता स्वस्थीकृता । प्रायेण बाहुल्येनैवंविधा दिव्या आकृतयः स्वप्नेऽप्यविसंवादिन्योऽव्यभिचारिण्यो भवन्ति । साक्षात्प्रत्यक्षेण किमुत भण्यते । अस्य पुरुषस्य मिथ्याभिधानेऽसत्यभाषणे विचारयन्ती विमर्श कुर्वन्त्यल्पमपि स्तोकमपि कारणं निदानमहं न च पश्यामि नावलोकयामि । अतो हेतोर्विचार्य विमृश्यात्मानमस्माप्राणपरित्यागलक्षणो यो व्यवसायो व्यापारस्तस्मानिवर्तयितुं युक्तं न्याय्यम् । अतीति । खलु निश्चयेन । अतिमहदिदं पूर्वोक्तमाश्चासस्थानामाश्वासनस्थलमस्यामवस्थायाम् । अपि च तं पुण्डरीकमनुसरन्ननुगच्छन्गत एव कपिञ्जलः । तस्माच्चेति । तस्माद्धेतोः कुतः स्थानादयं समागतः, को वायम्, किमर्थमनेन पुंसायमपगतासुर्गतप्राण उत्क्षिप्योत्पाट्य नीतः, क्व वा कस्मिन्स्थाने वा नीतः प्रापितः, कस्माच्चासंभावनीयेनाचिन्तनीयेन समागमस्याशा तस्याः प्रदानेन पुनरमुना पुरुषेण भर्तृदारिका समाचासिता । इति समुपलभ्य प्राप्य जीवितं मरणं वा समाचरिष्यसि विधास्यसि । हीति निश्चये । अध्यासितं चिन्तितं मरणमदुर्लभं सुलभम् । स्वायत्तत्वादिति भावः । पश्चादपि वृत्तान्तोपलब्ध्यनन्तरमप्येतन्मरणं भविष्यति । न चेति । जीवञ्छसन्कपिञ्जलो भर्तृदारिकामदृष्ट्वा न वीक्ष्य न च स्थास्यति, तेन कारणेन तस्य कपिञ्जलस्य यावात्प्रत्यागमनकालस्यावधयो मर्यादास्तावदमी प्राणा ध्रि - टिप्प० - 1 'अयि जानासि इत्यपि पाठः । नकारपाठे योजनाक्लेशः प्रकृताऽपरिपोषश्च । 'अयि जानासि' अत्र तु काकुः । अर्थात् जानासि किमित्याशयः । 2 अहं न जानामीति निषेध एव विवक्षितः । 3 अध्यवसितमित्येव मनोरमम् । अध्यवसितं कर्तुमभिप्रेतमिति तदर्थः । 4 प्रत्यागमनकालः अवधिर्येयां ते इति व्याख्योचिता। पाठा० - १ न जानासि किमेतत्. २ दिव्या भारत्यः. ३ साक्षात्कृत्वाः. ४ युक्तमिवात्मानम्. ५ आश्वासनस्थानम्. ६ तस्मात्. ७ च. ८ सर्वमिदमुपलभ्य. ९ न दुर्लभम्. १० अध्यवसितम्. - - - - - - - - - - - - - - - - - - - पुण्डरीकशरीरस्य गगने नयनम् पूर्वभागः । 359) Page #373 -------------------------------------------------------------------------- ________________ तावद्ध्रियन्ताममी प्राणाः' इत्यभिदधाना पादयोर्मे न्यपतत् । अहं तु सकललोकदुर्लङ्घ्यतया जीविततृष्णायाः, क्षुद्रतया च स्त्रीस्वभावस्य, तया च तद्वचनोपनीतया दुराशामृगतृष्णिकया, कपिञ्जलस्य प्रत्यागमनकाङ्क्षया च, तस्मिन्काले तदेव युक्तं मन्यमाना नोत्सृष्टवती जीवितम् । आशया हि किमिव न क्रियते । तां च पापकारिणी कालारात्रिप्रतिमां वर्षसहस्रायमाणां यातनामयीमिव दुःखमयीमिव नकरकमयीमिवाग्निमयीमिवोत्सैन्ननिद्रा तथैव क्षितितले विचेष्टमाना रेणुकणधूसरैरश्रुजलार्द्रकपोलसंदानितैर्विमुक्तव्याकुलैः शिरोरुहैरुपरुद्धमुखी निर्दयाक्रन्दजर्जरस्वरक्षयक्षामेण कण्ठेन तस्मिन्नेव सरस्तीरे तरलिकाद्वितीया क्षपां क्षपितवती । प्रत्युषसि तूत्थाय तस्मिन्नेव सरसि स्नात्वा कृतनिश्चया, तत्प्रीत्या तमेव कमण्डलुमादाय, तान्येव च वल्कलानि तामेवाक्षमालां गृहीत्वा, बुद्ध्वा निःसारतां संसारस्य, ज्ञात्वा च मन्दपुण्यतामात्मनः, निरूप्य चाप्रतीकारदारुणतां व्यंसनोपनिपातानाम्, आकलय्य दुर्निवारता - *****: ***** यन्तां धार्यन्ताम् । तत्प्रत्यागमनकाल एवावधिर्येषामिति प्राणविशेषणं वा । इत्यभिदधानेतिब्रुवाणा मे मम पादयोश्चरणयोर्न्यपतत्पपात । अहं त्विति । तस्मिन्काले तदेव तरलिकोक्तमेव युक्तं न्याय्यं मन्यमाना ज्ञायमाना जीवितं प्राणितं नोत्सृष्टवती न त्यक्तवती । हेतुचतुष्टयं प्रदर्शयन्नाह - सकलेति । जीविततृष्णायाः प्राणधारणगर्धायाः सकललोकैः समग्रजनैर्दुर्लङ्घ्यतया दुरतिक्रम्यतया । स्त्रीस्वभावस्य प्रमदानिसर्गस्य क्षुद्रतया तुच्छतया च । तया चेति । तया पूर्वोक्तया तस्य महापुरुषस्य वचनेनोपनीतया प्राप्तया दुराशा दुष्टा स्पृहा सैव मृगतृष्णिका मरीचिका तया । तथा कपिञ्जलस्य प्रत्यागमनं पश्चादागमनं तस्य काङ्क्षा वाञ्छा तया । आशाया बलीयस्त्वं प्रदर्शयन्नाह - आशा हीति । हि निश्चितम् । आशया स्पृहया किमिव न क्रियते किं न विधीयते । ततश्च तस्मिन्नेव सरस्तीरे तरलिका द्वितीया यस्या एवंविधा पापकारिण्यहं तां क्षपां रजनीं क्षपितवती क्षयं नीतवती । इतो रात्रेर्विशेषणानि प्रतिकूलकारित्वात्कालरात्रिस्तत्प्रतिमां तत्सदृशीम् । दुःखस्य दुःसहत्वाद्वर्षाणां सहस्रं तद्वदाचरमाणामित्यर्थः । यातनेति । यातना तीव्रवेदना तन्मयीमिव अत्यन्तदुःखजनकत्वात् । दुःखेति । दुःखं कृच्छ्रं तन्मयीमिव । स्वजनविरहेण शरीदुःखस्यैवानुभूयमानत्वात् । नरकेति । नरकं दुर्गतिस्तन्मयीमिव । निन्दितात्यन्तदुःखोत्पादकत्वात् । अग्नीति । अग्निर्वह्निस्तन्मयीमिव । तीव्रदीर्घज्वराक्रान्तत्वात् । पुनः कीदृशी । उत्सन्नेति । उत्सन्ना मूलत उच्छिन्ना निद्रा प्रमीला यस्याः सा । तथैवेति । तथैव पूर्वोक्तप्रकारेणैव क्षितितले पृथ्वीतले विचेष्टमाना विलुटमाना । रेण्विति । रेणूनां रजसां कणास्तैर्धूसरैरीषत्पाण्डुरैरश्रुजलैर्नेत्रवारिभिरार्द्रा स्विन्नौ कपोलौ तत्र संदानितैः संयतैः विरहवशात् । विमुक्तत्वेनानियन्त्रितत्वेन व्याकुलैर्विसंस्थुलैः शिरोरुहैः केशैरुपरुद्धमाच्छादितं मुखमास्यं यस्याः सा । निर्दयमिति । निर्दयं निःकरुणं य आक्रन्दः पूत्कारस्तेन जर्जरः शिथिलो यः स्वरो ध्वनिस्तस्य क्षयो विनाशस्तेन क्षामेण कृशेनैवंविधेन कण्ठेन करणभूतेन निर्दयक्रन्देनैव क्षपां क्षपितवतीति भावः । प्रत्युषसीति । प्रत्युषसि प्रभात उत्थाय तस्मिन्नेव सरसि कासारे स्नात्वाप्लवं विधाय कृतो विहितो निश्चयो यया सा । तत्प्रीत्या तत्स्नेहेन तमेव कमण्डलुं तत्करकुण्डिकामादाय गृहीत्वा तान्येव तद्देहलग्नान्येव वल्कलानि चोचानि, तामेव तदीयामेवाक्षमालां जपमालां गृहीत्वा । संसारस्य संसृतेर्निःसारतामसारतां बुद्ध्वावगम्य । आत्मनः स्वस्य मन्दपुण्यतां ज्ञात्वा च । व्यसनोपनिपातानां कष्टोपनिपातानामप्रतीकारं च तद्दारुणं चाप्रतीकारदारुणं तस्य भावस्तत्ता तां निरूप्य च कैथयित्वा । शोकस्य शुचो दुर्निवारतामाकलय्याकलनां कृत्वा । दैवस्य टिप्पo - 1 अश्रुजलार्द्रयोः कपोलयोः संदानितैः संलग्नैरित्यर्थः । 2 नास्ति प्रतीकारः प्रतिविधानं येषां ते च दारुणाश्चेति सरलोऽर्थः । 3 दृष्ट्वा, निर्णीय वा, इत्यर्थ उचितः । पाठा० - १ पादयोरपतत्. २ स्त्रीस्वभावतायाः ३ दुराशया. ४ पापकारिणीम्. ५ उत्पन्ननिशाम्. ६ विमुक्तैरव्याकुलैः ७ मुखा ८ क्षयितवती. ९ अस्मिन्. १० उपतापानाम्. 360 - कादम्बरी । कथायाम् Page #374 -------------------------------------------------------------------------- ________________ शोकस्य, दृष्ट्वा च निष्ठुरतां दैवस्य, चिन्तयित्वा चातिबहुलदुःखता स्नेहस्य, भावयित्वा चानित्यतां सर्वभावानाम्, अवधार्य चाकाण्डभङ्गुरतां सर्वसुखानाम्, अविगणय्य तातमम्बां च, परित्यज्य सह परिजनेन सकलबन्धुवर्गम्, निवर्त्य विषयसुखेभ्यो मनः, संयम्येन्द्रियाणि गृहीतब्रह्मचर्या देवं त्रैलोक्यनाथमनाथशरणमिमं शरणार्थिनी स्थाणुमाश्रिता । अपरेयुश्च कुतोऽपि समुपलब्धवृत्तान्तस्तातः सहाम्बया सह बन्धुवर्गेणागत्य सुचिरं कृताक्रन्दस्तैस्तैरुपायैः, अभ्यर्थनाभिश्च बह्वीभिः, उपदेशैश्चानेकप्रकारैः, सान्त्वनैश्च नानाविधैः, गुहागमनाय मे महान्तं यत्नमकरोत् । यदा च नेयमस्माद्व्यवसायात्कथंचिदपि शक्यते व्यावर्तयितुमिति निश्चयमधिगतवान् तदा निराशोऽपि दुस्त्यजतया दुहितृस्नेहस्य पुनःपुनर्मया विसृज्यमानोऽपि बहून्दिवसान्स्थित्वा सशोक एवान्तर्दह्यमानहृदयो गृहानयासीत् । गते च ताते ततःप्रभृति तस्य जनस्याश्रुमोक्षमात्रेण कृतज्ञतां दर्शयन्ती, तदनुरागकृशमिदमपुण्यबहुलमस्तमितलज्जममङ्गलभूतमनेकक्लेशायाससहसनिवासं दग्धशरीरकं बहुविधैर्नियमशतैः शोषयन्ती - *********** भाग्यस्य निष्ठुरतां कर्कशतां दृष्ट्वा विलोक्य । स्नेहस्य प्रेम्णोऽतिबहुलमतिदृढं दुःखं यस्मिंस्तस्य भावस्तत्ता तां चिन्तयित्वा विचार्य । सर्वभावानां समग्रपदार्थानामनित्यतां विनाशितां भावयित्वा भावनाविषयीकृत्य च । सर्वसुखानां समग्रसौख्यानामकाण्डेऽनवसरे भङ्गुरता भङ्गशीलतामवधार्य निश्चित्य । तातं पितरमविगणय्यानादृत्य । परिजनेन परिवारेण सह सकलं समग्रं बन्धुवर्गं स्वजनलोकं परित्यज्य दूरीकृत्य । विषयसुखेभ्य इन्द्रियसातेभ्यो मनश्चित्तं निवर्त्य पराङ्मुखीकृत्य । इन्द्रियाणि करणानि संयम्य नियन्त्र्य । गृहीतं स्वीकृतं ब्रहाचर्यं यया सा देवं त्रैलोक्यनाथमिममनाथानां शरणं स्थाणुमीश्वरं शरणार्थिनी त्राणाभिलाषिण्यहमाश्रिताश्रयणं कृतवती । ___ अपरेधुरिति । अपरेयुरन्येयुः कुतोऽपि कस्मादपि समुपलब्धः प्राप्तो वृत्तान्त उदन्तो येनैवंभूतस्तातः पिताम्बया मात्रा च सह तथा बन्धुवर्गेण सहागत्यैत्य सुचिरं चिरकालं यावत्कृतो विहित आक्रन्दो येन स तैस्तैरुपायैः प्रपञ्चैः, ताभिर्बह्वीभिरभ्यर्थनाभिः प्रार्थनाभिः, अनेकैरुपदेशैर्हितवाक्यैः, नानाविधैः सान्त्वनैः सामभिः, एभि कृत्वा मे मम गृहागमनाय महान्तं यत्नमुद्योगमकरोदसृजत् । यदा चेति । यदा यस्मिन्काल इयं महाश्वेतास्माद् व्ययवसायाद् व्यापृतेः कथंचिदपि कष्टेनापि व्यावर्तयितुं निवर्तयितुं न शक्यते न पार्यत इति निश्चयं निर्णयमधिगतवाञातवान् । तदेति । तस्मिन्काले निराशोऽपि निर्गतसमीहितोऽपि गृहं न गत इति । अत्र हेतुमाह - दुहित्रिति । दुहिता पुत्री तस्याः स्नेहस्य प्रेम्णो दुस्त्यजतया दुर्निवारतया । स्नेहाधिक्यं प्रदर्शयन्नाह - पुनरिति । पुनःपुनरिंवारं मया विसृज्यमानोऽपि गृहे गम्यतामिति कथ्यमानोऽपि बहूननेकान्दिवसान्दिनान्स्थित्वा सशोकः शुचा सह वर्तमानोऽन्तर्मध्ये दह्यमानं प्रज्वलमानं हृदयं चेतो यस्यैवंविध एव गृहानयासीदगमत् । 'गृहाः पुंसि' इति पुंस्त्वम् । गते चेति । ताते पितरि गते च सति ततःप्रभृति तद्दिनादारभ्य तस्य जनस्य पुण्डरीकस्याश्रुमोक्षमात्रेण नेत्रवारिमोचनेनैव कृतं जानातीति कृतज्ञस्तस्य भावस्तत्ता तां दर्शयन्ती प्रकाशयन्ती । पुनः किं कुर्वन्ती । दग्धशरीरमेव दग्धशरीरकम् । स्वार्थे कः । तच्छोषयन्ती कृशतां प्रापयन्ती । अथ शरीरकं विशेषयन्नाह - तदिति । तस्मिन्कुमारे पुण्डरीके योऽनुरागः स्नेहस्तेन कृशं सूक्ष्ममपुण्यबहुलं पापदृढम् । अस्तेति । अस्तमितास्तं प्राप्ता लज्जा त्रपा यस्मिंस्तदमङ्गलभूतमशिवरूपम् । अनेकेति । अनेकेऽसंख्या ये क्लेशा दुःखानि तेषामायासाः परिश्रमास्तेषां सहसं तस्य निवासो गृहस्तम् । कैः। - - - - - - - - - - - - - - - - - - - टिप्प० - 1 गृहगमनाय इत्यपि पाठान्तरो मनोरमः । 2 अपुण्यानि (पापानि) बहुलानि यस्मिंस्तत्, इति व्याख्यानमुचितम् । पाठा० - १ दुःखबहुलताम्. २ परिजनेन मनसा सकल. ३ निगृह्य गृहीत. ४ त्रैलोक्यनाथशरणम्. ५ आश्रितवत्यस्मि. ६ बहुभिः. ७ परिसान्त्वनैः. ८ गृहगमनाय. ९ यदा तु न कथंचिदप्यस्मादध्यवसायाद् व्यावर्तयितुं शक्यत इति. १० दुश्छेदतया. ११ गृहम्. १२ जनास्याश्रुमोक्षमात्रेण किल; देवस्य कृतेऽश्रुमोक्षमात्रेण. १३ बहुलमपि. १४ क्षपयन्ती. (महाश्वेतावृत्तान्तोपसंहारः पूर्वभागः । 361 Page #375 -------------------------------------------------------------------------- ________________ 1 वन्यैश्च फेलमूलवारिभिर्वर्तमाना जपव्याजेन तद्गुणगणानिव गणयन्ती, त्रिसंध्यमत्र सरसि स्नानमुपस्पृशन्ती, प्रतिदिनमर्चयन्ती देवं त्र्यम्बकम्, अस्यामेव गुहायां तैरलिकया सह दीर्घं शोकमनुभवन्त्यवसैम् । साहमेवंविधा पापकारिणी निर्लक्षणा निर्लज्जा क्रूरा निःस्नेहा नृशंसा गर्हणीया निःप्रयोजनोत्पन्ना निःफलजीविता निर्रवलम्बना निःसुखा च । किं 'मँयादृष्टया पृष्टया वा कृतब्राह्मणवधमहापातकया करोति महाभागः ' इत्युक्त्वा पाण्डुना वल्कलोपान्तेन शशिनमिव शरन्मेघशकलेनाच्छाद्य वदनं दुर्निवारबाष्पवेगमपारयन्ती निवारयितु मुन्मुक्तकण्ठमतिचिरमुच्चैः प्रारोदीत् । चन्द्रापीडस्तु प्रथममेव तस्या रूपेण विनयेन दाक्षिण्येन मधुरालापतया निःसङ्गतया तपस्वितया च प्रशान्तत्वेन च निरभिमानतया च महानुभावत्वेन च शुचितया चोपारूढ - **** ****** बहुविधैः नानाप्रकारैर्नियमशतैर्व्रतशतैः । वन्यैश्चेति । वनसंबन्धिभिः । फलेति । फलानि सस्यानि, मूलानि बुध्नाः, वारिणि जलानि, तैः कृ वर्तमाना प्रवर्तमाना । कृतप्राणधारणेत्यर्थः । जप इति । जपो जापस्तस्य व्याजेन मिषेण तस्य पुण्डरीकस्य गुणाः शौर्यादर्यस्तेषां गणाः समूहास्तानिव गणयन्ती गणानां कुर्वन्ती त्रिसंध्यं त्रिसायम् । अत्र सरस्यच्छोदनाम्नि तटाके स्नानमाप्लवमुपस्पृशन्ती कुर्वन्ती । प्रतीति । प्रतिदिनं प्रतिवासरं त्र्यम्बकं देवमीश्वरमर्चयन्ती पूजयन्ती । अस्यामिति । अस्यां प्रत्यक्षगतायामेव गुहायां कंदरायां तरलिकया सह दीर्घं शोकमनुभवन्ती साक्षात्कुर्वन्त्यवसं निवासमकरवम् । यत्तदोर्नित्याभिसंबन्धाद्या पूर्वोकक्ता सैवंविधाहं नान्या । इतस्तस्याः कियन्ति विशेषणानि प्रदर्शयन्नाह - पापेति । पापं कलुषं करोतीत्येवंशीला सा, निर्लक्षणा पाण्डुरपृष्ठा, निर्लज्जा निस्त्रपा, क्रूरा दुष्टा, निःस्नेहा निःप्रेमा, नृशंसा निस्त्रिंशा, गर्हणीया निन्दनीया, निःप्रयोजनं निरर्थकमुत्पन्ना प्रादुर्भूता, निःफलमवकेंशि जीवितं प्राणितं यस्याः सा तथा, निर्गतमवलम्बनमाश्रयो यस्याः सा तथा, निर्गतं सुखं सातं यस्याः सा तथा । चकारः समुच्चयार्थः । स्वस्य निन्दां कुर्वन्त्याह - किमिति । हे महाभाग हे सत्पुरुष, कृतं ब्राह्मणवधलक्षणं महापातकं ययैवंविधया दृष्टयावलोकितया पृष्टया पृच्छाविषयीकृतया वा मया किं करोति किं करिष्यति । अत्र भविष्यत्यर्थे वर्तमाना । इति पूर्वोक्तमुक्त्वा कथयित्वा पाण्डुना शुभ्रेण वल्कलोपान्तेन चोचाञ्चलेन वदनं मुखमाच्छाद्य । अत्र शुक्लत्वसाधर्म्यादुत्प्रेक्षते - शरदिति । शरद्धनात्ययस्तस्या मेघशकलेन जख शशिनमिव चन्द्रमिव । अत्र वदनस्य चन्द्रसादृश्यम्, वल्कलोपान्तस्य च शरन्मेघशकलसादृश्यमिति भावः । दुरिति । दुर्निवारो वाष्पो नेत्राम्बु तस्य वेगं रहो निवारयितुं दूरीकर्तुमपारयन्त्यशक्नुवत्युन्मुक्तकण्ठं यथा स्यात्तथातिचिरं चिरकालमुच्चैस्तारस्वरेण प्ररोदीद्रुदनमकार्षीत् । चन्द्रापीडस्त्विति । प्रथममेवादावेव तस्या महाश्वेताया रूपेण सौन्दर्येण, विनयेन प्रणिपातादिना, दाक्षिण्येनानुकूल्येन, मधुरो मिष्टो य आलापः संलापस्तस्य भावस्तत्ता तया, तथा निर्गतो यः सङ्गोऽभिष्वङ्गस्तस्य भावस्तत्ता तया । तपेति । तपस्विन्याभावस्तत्ता तया । तथा प्रशान्तत्वेन सौम्यप्रकृतित्वेन च । तथा निरभिमानतया निरहंकारतया च । तथा महानुभावत्वेन महाप्रभावत्वेन । तथा शुचितया पवित्रतया चोपारूढमा - टिप्पo - 1 वृत्तिं कुर्वाणा, इत्यर्थ उचितः । 2 स्नेह-सौन्दर्यादय इत्युचितम् । 3 लक्षणैः शुभलक्षणैः रहिता, इत्यर्थो योग्यः । पाठा० - १ कन्द. २ स्नात्वा ३ तया तरलिकया. ४ दीर्घशोकम्. ५ चिरमवसम् ६ क्रूरा च. ७ निःस्नेहा च ८ नृशंसा च; अतिनृशंसा च कृतज्ञा च ९ निरर्था निरवलम्बना. १० मया तथाभूतया ११ अतिकण्ठम् १२ चातितपस्वितया. Page #376 -------------------------------------------------------------------------- ________________ गौरवोऽभूतू, तदानीं तु तेनापरेण दर्शितसद्भावेन स्ववृत्तान्तकथनेन तया च कृतज्ञतया हृतहृदयः सुतरामारोपितप्रीतिरभवत् । आर्टीकृतहृदयश्च शनैःशनैरेनामभाषत - 'भगवति, क्लेशभीरुरकृतज्ञः सुखासङ्गलुब्धो लोकः स्नेहसदृशं कर्मानुष्ठातुमशक्तो निष्फलेनाश्रुपातमात्रेण स्नेहमुपदर्शयन्रोदिति । त्वया तु कर्मणैव सर्वमाचरन्त्या किमिव न प्रेमोचितमाचेष्टितम्, येन रोदिषि । तदर्थमाजन्मतः प्रभृति समुचितपरिचयः प्रेयानसंस्तुत इव परित्यक्तो बान्धवजनः । संनिहिता अपि तणावज्ञयावधीरिता विषयाः । मुक्तान्यतिशयितशुनासीरसमृद्धीन्यैश्वर्यसुखानि । मृणालिनीवातितनीयस्यपि नितरां तनिमानमनुचितैः संक्लेशैरुपनीता तनुः । गृहीतं ब्रह्मचर्यम् । आयोजितस्तपसि महत्यात्मा । वनिताजनदुष्करमपि कृतमरण्यावस्थानम् । अपि चानायासेनैवात्मा दुःखाभिभूतैः परित्यज्यते । महीयसा न तु यत्नेन गरी *********** श्रितं गौरवं यस्मिन्नेवंविधश्चन्द्रापीडोऽभूत् । तदानीं त्विति । तदानीं तस्मिन्कालेऽपरेण दर्शितः प्रकटितः सद्भावः स्वभावो येनैवविधेन स्ववृत्तान्तकथनेन निजोदन्तनिवेदनेन तया च कृतज्ञतया कृतवेत्तृतया च हृतं हृदयं चित्तं यस्य स सुतरामत्यर्थमारोपिता स्थापिता प्रीतिर्यस्यामेवंविधश्चन्द्रापीडोऽभवदासीत् । आद्रीति । आर्टीकृतं हृदयं यस्य स शनैःशनैर्मन्दमन्दमेना महाश्वेतामभाषतावोचत । तदेवाह - भगवतीति । हे भगवति ! हे स्वामिनि, अन्यो लोकः क्लेशभीरुरकृतज्ञः सुखार्थं य आसङ्गः स्त्र्यादीनामभिषगस्तत्र लुब्धो लिप्सुः स्नेहसदृशं प्रीतियोग्यं कर्म तत्सुखेन सुखं तद्दुःखेन दुःखमनुष्ठातुं विधातुमशक्तोऽसमर्थो निष्फलेन निष्प्रयोजनेनाश्रुपातमात्रेण स्नेह प्रीतिमुपदर्शयन्बाह्यवृत्त्या प्रकाशयन्रोदिति रोदनं करोति । लोकेभ्यस्तस्या वैपरीत्यं प्रदर्शयन्नाह - त्वया त्विति । त्वया भवत्या कर्मणैव कर्तव्यरूपेणैव सर्वं समग्रमाचरन्त्या कुर्वन्त्या प्रेमोचितं स्नेहयोग्यं किमिव नाचेष्टितम् । अपि तु सर्वमेव विहितमिति भावः । येन कारणेन त्वं रोदिष्यश्रुपातं करोषि । तदर्थं पुण्डरीकार्थमाजन्मतः प्रभृति जन्म मर्यादीकृत्य समुचितो योग्यः परिचयः संगतिर्यस्यैवंविधः प्रेयानतिप्रियोऽसंस्तुत इवासंस्तुतोऽपरिचितस्तद्वदिव बान्धवजनः स्वजनवर्गः परित्यक्त उज्झितः । संनिहितेति । संनिहिता अपि समीपवर्तिनोऽपि तृणवद्यावज्ञावगणना तया विषया इन्द्रियार्था अवधीरिता अवगणिताः । अतीति । अतिशयिता तिरस्कृता शुनासीरस्येन्द्रस्य समृद्धिः संपद्यैरेवंविधान्यैश्वर्यसुखानि विभवसौख्यानि मुक्तानि त्यक्तानि । मृणालिनीति । अतितनीयस्यप्यतिकृशापि तनुः शरीरमनुचितैरयोग्यैः संक्लेशैतग्रहणरूपैर्नितरामत्यर्थं तनिमानं कृशत्वमुपनीता प्रापिता । केव । मृणालिनीव कमलिनीव । गृहीतेति । गृहीतं स्वीकृतं ब्रह्मचर्य ब्राव्रतम् । आयोजितेति । महति गरिष्ठे तपस्यात्मा आयोजितः स्थापितः । वनितेति । अत्रापिशब्दो भिन्नक्रमः । तेन वनिताजनस्य स्त्रीजनस्य दुष्करमपि दुःसाध्यमप्यरण्यावस्थानं कृतं विहितम् । अनेति । दुःखाभिभूतैरनायासेनैव परिश्रममन्तरेणैवात्मा परित्यज्यते । शरीरत्यागः क्रियत इति भावः । नत्विति । तु पुनरर्थकः । न केवलं परं महियसा गरिष्ठेन यत्नेन प्रयासेन गरीयसि महीयसि क्लेशे पूर्वोक्तस्वरूपे - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'समुपचितपरिचयः' इत्यपि पाठः । समुपचितो वृद्धि प्राप्त इति तदर्थः । 2 'वनिताजनदुष्करमप्यङ्गीकृतम्' इमान्येवाक्षराणि पदशय्यानुकूलानि । 3 दुःखितैः अनायासेन आत्मघातः क्रियते, महीयसा (अतिमहता) यत्नेन गरीयसि (अति, गुरुतमे) क्लेशे (तपस्यादौ) आत्मा न निक्षिप्यते । इति व्याख्यातव्यम् । 'महीयसा तु' इति नविरहित एव पाठः । दुःखितैः आत्मा अनायासेन त्यक्तुं शक्यते (वधोद्वन्धनोपायानां स्वाधीनत्वात्), गरीयसि क्लेशे (तपस्यादौ) तु महीयसा यत्नेन आत्मा निक्षिप्यते इति तदर्थः । पाटा० - १ आसीत्. २ तेनानेनापरेण. ३ सुतरामतिदूरम्. ४ जन्मन. ५ विमुक्तानि. ६ उचितैः. ७ दुष्करमप्यङ्गीकृतम्; दुष्करमतिकष्टमङ्गीकृतम्. ८ दुःखाभिहतः परित्यज्यते लघीयसा; दुःखाभिहतैः परित्यज्यन्ते महीयसा. चन्द्रापीडस्य महाश्वेतासान्त्वनम् - पूर्वभागः । 363 Page #377 -------------------------------------------------------------------------- ________________ यसि क्लेशे निक्षिप्यते केवलम् । यदेतदनुमरणं नाम तदतिनिष्फलम् । अविद्वज्जनाचरित एष मार्गः । मोहविलसितमेतत्, अज्ञानपद्धतिरयम्, रभसाचरितमिदम्, क्षुद्रदृष्टिरेषा, अतिप्रमादोऽयम्, मौर्यस्खलितमिदम्, यदुपरते पितरि भ्रातरि सुहृदि भर्तरि वा प्राणाः परित्यज्यन्ते । स्वयं चेन्न जहति न परित्याज्याः । अत्र हि विचार्यमाणे स्वार्थ एव प्राणपरित्यागोऽयम् असह्यशोकवेदनाप्रतीकारत्वादात्मनः । उपरतस्य तु कमपि गुणमावहति । न तावत्तस्यायं प्रत्युज्जीवनोपायः, ने धर्मोपचयकारणम्, न शुभलोकोपार्जनहेतुः, न निरयपातप्रतीकारः, न दर्शनोपायः, न परस्परसमागमनिमित्तम् । अन्यामेव स्वकर्मफलपाकोपचितामसाववशो नीयते भूमिम् । असावप्यात्मघातिनः केवलमेनसा संयुज्यते । जीवंस्तु जला - *********** निक्षिप्यते । एतेन प्राणप्रियवियोग आत्मपरित्यागात्तस्यात्मनो गरिष्ठक्लेशे परिक्षेपो महीयानिति ध्वनितम् । यदेतदिति । नामेति कोमलामन्त्रणे । यदेतदनुमरणमन्वारोहणं तदतिनिष्फलं निरर्थकम् । यतः कुमारः प्रियः न तु विहितः पतिर्येनान्वारोहणं किं तु मृतानुमरणमात्रं तदतिनिष्प्रयोजनमिति भावः । अथ च निष्फलत्वं प्रदर्शयन्नाह - अविद्वज्जनेति । एषोऽन्वारोहणलक्षणो मार्गः पन्था अविद्वज्जना अपण्डितलोकास्तैराचरितः सेवितः । एतदिति । पूवोक्तं मोहविलसितमज्ञानविजृम्भितम् । अज्ञानेति । इयमन्चारोहणे प्रवृत्तिरज्ञानपद्धतिरज्ञानमार्गः । रभसेति । इदमन्वारोहणं रभसाचरितमविचारपूर्वकमाचरितम् । क्षुद्रेति । एषान्वारोहणलक्षणा प्रवृत्तिः क्षुद्रास्तुच्छबुद्धयस्तेषां दृष्टिर्ज्ञानम् । अतीति । अयमनुमरणलक्षणोऽतिप्रमादोऽतिशयेनानवधानता । मौर्यमिति । इदं पूर्वोक्तं मौर्यस्खलितं विहितच्युतिः । यत्तदोर्नित्याभिसंबन्धादाह - यदिति । यत्पितरि ताते, भ्रातरि सहोदरे, सुहृदि मित्रे, भर्तरि प्राणनाथे वोपरते मृते सति प्राणा परित्यज्यन्ते परिमुच्यन्त इति कर्मकर्चुक्तिः । तस्या लक्षणम् - 'यत्र कर्मैव कर्तुत्वं याति कर्ता तु नोच्यते । सुकरैः स्वैर्गुणैर्योगात्कर्मकर्तेति तद्विदुः इति । स्वयमिति । चेद्यदि स्वयं न जहति न परित्यजन्ति तदा प्राणा न परित्याज्या । बलान निष्कासनीया इत्यर्थः । किमर्थं तर्हि लोकानां मरणे प्रवृत्तिरित्यत आह - अत्र हीति । हीति निश्चये । अस्मिन्ननुमरणे विचार्यमाणे विचारणाविषयीक्रियमाणेऽयं प्राणपरित्यागः स्वार्थ एवात्मीयकृत्यमेव । तत्र हेतुमाह - असह्येति । आत्मनो जीवस्य न सोढुमशक्यासह्या या शोकवेदना शुग्व्यथा तस्याः प्रतीकारो निवृत्त्यपायस्तस्य भावस्तत्त्वं तस्मात् । उपेति । उपरतस्य मृतस्य तु न कमपि गुणं हितमावहत्यादधाति । एतदर्थं स्पष्टयन्नाह - न तावदिति । तावदादौ तस्योपरतस्य प्रत्युज्जीवनोपायः पुनः प्राणधारणप्रतिक्रिया न भवति । नेति । धर्मस्य पुण्यस्योपचयः पुष्टिस्तस्य कारणं निमित्तं न भवति । नेति । शुभलोकस्य स्वर्गलोकस्योपार्जनमर्जनं तस्य हेतुर्निदानम् । निरयेति । निरये दुर्गतौ पातः पतनं तस्य प्रतीकारः प्रतिक्रिया न । नेति । दर्शनस्यावलोकनस्याप्युपायो न । नेति । परस्परमन्योन्यं यः समागमः संबन्धस्तस्य निमित्तं कारणं न भवति । तत्र हेतुमाह - अन्यामिति । असौ मृतोऽवशः पराधीनः स्वस्य कर्मणोः स्वकृत पापपुण्ययोर्यः फलपाकस्तेनोपचितां पुष्टामन्यामेव कर्मभूमि नीयते प्राप्यते । अन्यदप्यनुमरणेनानिष्टमाह - असाविति । असौ पूर्वं मृत आत्मघातिनोऽनुमृतस्यैनसा पापेन केवलं संयुज्यते संयुक्तो भवति । अनुमरणाभावे गुणानाह - जीवंस्त्विति । जीवश्वसन्नुपरतस्य मृतस्यात्मनो जीवस्य जलाञ्जलिदानादिना बहूपकरो - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'अनायासेन परित्यज्यते इत्यादिना दुःखिजनकर्तृकस्त्याग एवोपक्रान्तः । तथा च कर्मणि प्रत्यये एवोचिता संगतिः न तु कर्मकर्तरि, तत्र प्राणानां स्वयं कर्तृत्वात् । 2 स्वार्थः स्वनिमित्त एव, इति व्याख्योचिता । पाठा० - १ अपि निष्फलम्. २ कुदृष्टिः. ३ प्रेम. ४ ते. ५ असह्यवेदना. ६ आपतितः. ७ न तस्यायम्. ८ योगः. ९ न च. १० नरकपतन. ११. फलपरिपाकोपचिताम्; फलपाकोपनीताम्. १२ कर्मभूमिम्. १३ आत्मघाती. 364 कादम्बरी । कथायाम् Page #378 -------------------------------------------------------------------------- ________________ ञ्जलिदानादिना बहूपकरोत्युपरतस्यात्मनश्च, मृतस्तु नोभयस्यापि । स्मर तावत्प्रियामेकपत्नी रतिं भगवति भर्तरि मकरकेतौ सकलाबलाजनहृदयहारिणि हैरहुतभुग्दग्धेऽप्यविरहितामसुभिः । पृथां च वार्ष्णेयीं शूरसेनसुतामभिरूपे सावज्ञविजितसकलराजकमौलिकुसुमवासिताशेषपादपीठे पत्यावखिलभुवनबलिभागभुजि पाण्डौ किंदममुनिशापानलेन्धनतामुपगतेऽप्यपरित्यक्तजीविताम् । उत्तरां च विराटदुहितरं बालां बालशशिनीव नयनानन्दहेतौ विनयवति विक्रान्ते च पञ्तत्वमभिमन्यावागतेऽपि धृतदेहाम् । दुःशलां च धृतराष्ट्रदुहितरं भ्रातृशतोत्सङ्गलालितामतिमनोहरे हरवरप्रदानवर्धितमहिम्नि सिन्धुराजे जयद्रथेऽर्जुनेन लोकान्तरमुपनीतेऽप्यकृतप्राणपरित्यागाम् । अन्याश्च रक्षःसुरासुरमुनिमनुजसिद्धगन्धर्वकन्यका भर्तृरहिताः श्रूयन्ते सहस्त्रशो विधृतजीविताः । प्रोन्मुच्येतापि जीवितं संदिग्धोऽप्यस्य समागमो यदि स्यात् । *********** त्यनेकामुपकृतिं कुरुते । मृतस्तूभयस्यापि स्वस्य परस्य च न किमप्युपकरोति । दृष्टान्तद्वारा एनमर्थं दृढीकुर्वन्नाह - स्मरेति । तावदादौ सकलः समग्रो योऽबलाजनः स्त्रीलोकस्तस्य हृदयहारिणि चित्तापहारिणि भगवति माहात्म्यवति भर्तरि प्राणवल्लभे मकरकेतौ श्रीमदने हरस्य महादेवस्य यो हुतभुग्नेनाग्निस्तेन दग्धे भस्मीभूते सत्यपि, एक एव पतिर्यस्यास्तामेकपत्नी प्रियां वल्लभां रतिमसुभिः प्राणैरविरहितां संयुक्तां स्मर स्मृतिगोचरीकुरु । यथा तया प्राणा नोज्झिताः, स्वभर्तुः कृत्यं च कृतम्, तथा त्वयापि विधेयमिति भावः । अन्यासामपि निदर्शनद्वारा पूर्वोक्तमर्थं दृढीकुर्वन्नाह - पृथामिति । पाण्डौ भर्तरि किंदम इत्यभिधया प्रसिद्धो यो मुनिस्तस्य शाप एवानलो वह्निस्तस्मिन्निन्धनतामिमतामुपगतेऽपि प्राप्तेऽप्यपरित्यक्तजीवितामनुज्झितप्राणां वार्ष्णेयीमन्धकवृष्णिकुलोत्पन्नां शूरसेनस्य राज्ञः सुतां पुत्री पृथा कुन्तीम् । स्मरेत्यस्य सर्वत्रापि संबन्धः । अथ भर्तारं विशेषयन्नाह - सावज्ञयेति । सावज्ञयैवानिच्छयैव विजितं स्वायत्तीकृतं यत्सकलं समग्रं राज्ञां समूहो राजकं तस्य मौलयः शिरांसि तेषां कुसुमानि पुष्पाणि तैर्वासितं भावितमशेषं पादपीठं समग्रपदासनं यस्य स तस्मिन् । अखिलेति । अखिलं समग्रं यद्भुवनं विश्वं तस्य यो बलिभागोभागधेयस्तं भुनक्तीति स तस्मिन् । अभिरूपे पण्डिते । तथा बालशशिनीव नवोदितचन्द्र इव नयनानन्दहेतौ नेत्रालादनिमित्ते विनयवति मर्यादावति विक्रान्ते शूरेऽभिमन्यावर्जुनसुते पञ्चत्वमागतेऽपि प्राप्तेऽपि धृतो देहो ययैवंभूतां बालामप्राप्तयौवनां विराटराज्ञो दुहितरं पुत्रीमुत्तरामुत्तरानाम्नीं स्मरेति संबन्धः । तथातिमनोहरेत्यभिरामे । हरेणेश्वरेण वरप्रदानेन वर्धितो वृद्धिं नीतो महिमा माहात्म्यं यस्य स तस्मिन् । सिन्धुराजे सिन्धुदेशनाथे जयद्रथाभिधानेऽर्जुनेन पार्थेन लोकान्तरं भवान्तरमुपनीते प्रापितेऽपि धृतराष्ट्रस्य राज्ञो दुहितरं सुतां भ्रातृणां यच्छतं तस्योत्सङ्गः क्रोडस्तेन लालितां पालितामकृतप्राणपरित्यागामेवंविधां दुःशलां स्मरेति संबन्धः । अमुमेवार्थं पुनढयन्नाह - अन्याश्चेति । रक्षांसि राक्षसाः, सुरा देवाः, असुरा दैत्याः, मुनयस्तापसाः, मनुजा मनुष्याः, सिद्धा विद्यासिद्धाः, गन्धर्वा देवगायनाः, एतेषां कन्यकाः पुत्र्यो भर्तृरहिताः सत्यो विधृतजीविता अकृतप्राणपरित्यागा अन्याः पूर्वोक्तव्यतिरिक्ताः सहस्त्रशः श्रूयन्त आकर्ण्यन्ते । यदनुमरणेनापि न प्राप्यते तदपीष्टं त्वया प्राप्तव्यमेवेत्याह - प्रोन्मुच्येतापीति । तदा जीवितं प्रोन्मुच्येत त्यज्येत यद्यस्य मृतस्य संदिग्धोऽपि समागमः स्यात् । तच्च - - - - - - - - टिप्प० - 1 मृगरूपं धृत्वा मृगीभिर्विपिने रममाणः किंदमो नाम मुनि{गयार्थिना पाण्डुना मृगबुद्ध्या निहतः शशाप - 'रममाणं मां संहृतवांस्त्वमपि रममाण एव मरिष्यसि । ततः कदाचिद्वसन्तप्रभावादुद्दीप्तमदनः पाण्डुर्माद्री रमयन्ममार । मायामनुमृतायामपि जीवन्ती कुन्ती युधिष्ठिरादीन् जनयामासेति महाभारतम् । (आ. प.) 2 सावज्ञम् (अवज्ञया सहितम्, सहेलमित्यर्थः) जितमित्यर्थ उचितः 1 3 'वासितपादपीठे' इत्यपि पाठः । 4 सुन्दरे इत्यर्थ उचितः । - - - - - - - - - - - - - - - - - - पाटा० . १ मकरध्वजे. २ हरनयनहुतभुजा दग्धे; हरहुंकारहुतभुजा दग्धे. ३ तथा. ४ सावज्ञावजित. ५ वासितपाप. ६ वलयभुजि. ७ उपागते. ८ अपरियुक्त. ९ जननयना. १० उपगते. ११ दुःशीलाम्. १२ बह्वयः. १३ विधुर. १४ संदिग्धो यदि समागमः स्यात. चन्द्रापीडस्य महाश्वेतासान्त्वनम् पूर्वभागः । 365 Page #379 -------------------------------------------------------------------------- ________________ भगवत्या तु ततः पुनः स्वयमेव समागमसरस्वती समाकर्णिता । अनुभवे च को विकल्पः, कथं च तादृशानामप्राकृताकृतीनां महात्मनामवितथगिरां गरीयसापि कारणेन गिरि वैतथ्यमास्पदं कुर्यात् । उपरतेन च सह जीवन्त्याः कीदृशी समागतिः । अतो निःसंशयमसावुपजातकारुण्यो महात्मा पुनः प्रत्युज्जीवनार्थमेवैनमुत्क्षिप्य सुरलोक नीतवान् । अचिन्त्यो हि महात्मनां प्रभावः । बहुप्रकाराश्च संसारवृत्तयः । चित्रं च दैवम् । आश्चर्यातिशययुक्ताश्च तपःसिद्धयः । अनेकविधाश्च कर्मणां शक्तयः । अपि च सुनिपुणमपि विमृशद्भिः किमिवान्यत्तदपहरणे कारणमाशङ्क्येत जीवितंप्रदानादृते । न चासंभाव्यमिदमवगन्तव्यं भगवत्या । चिरप्रवृत्त एष पन्थाः । तथा हि । विश्वावसुना गन्धर्वराजेन मेनकायामुत्पन्नां प्रमद्वरां नाम कन्याकामाशीविषविलुप्तजीवितां स्थूलकेशाश्रमे भार्गवस्य च्यवनस्य नप्ता प्रमतितनयो मुनिकुमारको रुरुर्नाम स्वायुषोऽर्धन योजि - *********** नास्त्येवेति भावः । प्राप्तव्यमिष्टं कथं स्यादित्याह - भगवत्येति । भगवत्या त्वया ततस्तस्मान्महापुरुषात्पुनः स्वयमेवात्मनैव समागमः कुमारेण सह संगतिस्तत्प्रतिपादिका सरस्वती वाणी समाकर्णिता श्रुता । तथापि तदर्थं न निश्चिनोमीत्यत आह - अन्विति । अनुभवेऽनुभूते वस्तुनि को विकल्पः कः सदेहः । अत्रोपपादकमाह - कथं चेति । तादृशानां न विद्यते प्राकृता इतरजनसाधारणाकृतिराकारो येषामेवंविधानामवितथगिरां यथार्थवचसां महात्मनां महापुरुषाणां गरीयसापि कारणेनोत्कृष्टेनापि हेतुना गिरि वाण्या कथं वैतथ्यमनृतत्वमास्पदं स्थानं कुर्यात् । नन्वियं सरस्वती वितथैव, मृतकुमारेण सह समागमस्य बाधितत्वादित्यत आह - उपरतेति । उपरतेन मृतेन सह जीवन्तयाः कीदृशी समागतिः संगतिः । तर्हि सरस्वती वितथैवेत्यत आह - अत इति । अतः कारणात् । निःसंशयं निश्चितमुपजातं समुत्पन्नं कारुण्यं घृणा यस्मिन्नेवंविधो महात्मासौ पुरुषः पुनः प्रत्युज्जीवनार्थं पुनःसज्जीकरणार्थमेवैनं पुण्डरीकमुक्षिप्योत्पाट्य सुरलोकं देवलोकं नीतवान्प्रापितवान् । अत्रानुकूलमाह - अचिन्त्य इति । हीति निश्चितम् । महात्मनां महानुभावाना प्रभावो महिमाचिन्त्योऽनाकलनीयः । नन्वश्रुतपूर्वमिदं कथं स्यादित्यत आह - बह्विति । संसारवृत्तयः संसृतेः प्रवृत्तयो बहुप्रकारा अनेकभेदभिन्नाश्चेत्यर्थः । एतादृशं मम भाग्यं क्व स्यादित्याह - चित्रं चेति । दैवं भाग्यं चित्रं विविधप्रकारम् । ननु सर्वेषामेकविधम् । ननु तस्य कुमारप्रत्युज्जीवने कुतः सामर्थ्यमित्यत आह - आश्चर्येति । आश्चर्यमद्भुतं तस्यातिशय आधिक्यं - तेन युक्ताः सहितास्तपःसिद्धयो भवन्ति । ननु पुण्डरीकस्यैतादृशं कर्म कथं स्यात्, येन प्रत्युज्जीवनं स्यादित्याह - अनेकेति । कर्मणां पूर्वोपार्जितशुभाशुभानां शक्तयः सामर्थ्यान्यनेकविधा असंख्यप्रकाराः । युक्त्यन्तरं प्रदर्शयन्नाह - अपि चेति । अपि च युक्त्यन्तरे । सुनिपुणं सुदक्षं यथा स्यात्तथा विमृशद्भिर्विचारयद्भिस्तदपहरणे मृतकुमारापहरणे जीवितप्रदानादृतेऽन्यत्किमिव कारणं निमित्तमाशङ्कयत आशङ्काविषयीक्रियते । न च सर्वथा मृतस्य पुनर्जीवनं क्वापि दृष्टमित्यत आह - नचेति । भगवत्या त्वयेदं प्रत्युज्जीवनमसंभाव्यमघटमानमिति न चावगन्तव्यं न ज्ञातव्यम् । अस्य प्राचीनत्वं प्रदर्शयन्नाह - चिरमिति । एष प्रत्युज्जीवनलक्षणः पन्था मार्गश्चिरप्रवृत्तो बहुकालीनः । तदेव दर्शयति - तथा हीति । विश्वावसुनाम्ना गन्धर्वराजेन करणभूतेन मेनकायामुत्पन्नां प्रादुर्भूतां प्रमद्वरेति नाम्नी कन्यकामाशीविषेण सर्पण विलुप्तं ध्वस्तं जीवितं श्वसितं यस्या एवंविधां स्थूलकेशमुनेराश्रमे मटे भार्गवस्य भृगुवंशोत्पन्नस्य च्यवननाम्नो मुनेर्नप्ता प्रपौत्रः प्रमतेस्तनयः पुत्रो मुनिकुमारको रुरुः स्वायुषः स्वजीवितस्यार्धेन योजितवान्संबन्धितवान् । - - - - - - - - - - -- - - - - - टिप्प० - 1 पुनः प्राणाऽऽधानार्थमिति व्याख्यानमुचितम् । 2 'न' 'नतु वा इति स्यात् । 3 पौत्र इत्येवावगन्तव्यम् । पाठा० - १ स्वयमेव तत्पुनः समागमवचः श्रुतम्. २ तम्. ३ प्रवृत्तयः, प्रकृतयः. ४ तज्जीवित. ५ सर्वथा चिर. ६ भार्गवस्य नप्ता. (366 कादम्बरी। कथायाम् Page #380 -------------------------------------------------------------------------- ________________ तवान् । अर्जुनं चाश्वमेघतुरगानुगामिनम् आत्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृतप्राणम्, उलूपी नागकन्यका सोच्छासमकरोत् । अभिमन्युतनयं च परीक्षितमश्वत्थामास्त्रपावकपरिप्लुष्टम्, उदरादुपरतमेव विनिर्गतम्, उत्तराप्रलापोपजनितकृपो भगवान्चासुदेवो दुर्लभानसून्प्रापितवान् । उज्जयिन्यां च संदीपंनिद्विजतनयमन्तकपुरादपहृत्य त्रिभुवनवन्दितचरणः स एवानीतवान् । अत्रापि कथंचिदेवमेव भविष्यति । तथापि कि क्रियते । किं वा लभ्यते । प्रभवति हि भगवान्विधिः । बलवती च नियतिः । आत्मेच्छया न शक्यमुच्छसितुमपि । अतिपिशुनानि चास्यैकान्तनिष्ठुरस्य दैवहतकस्य विलसितानि । न क्षमते दीर्घकालमव्याजरमणीयं प्रेम । प्रायेण च निसर्गत एवानायतस्वभावभङ्गुराणि सुखानि, आयतस्वभावानि च - *********** अर्जुनं चेति । अश्वमेधस्य यस्तुरगोऽश्वस्तदनुगामिनं तत्पृष्ठयायिनं बभ्रुवाहननाम्नात्मजेन सुतेन समरशिरसि सङ्ग्रामशिरसि शरेण बाणेनापहृता आकर्षिताः प्राणा यस्यैवंविधमर्जुन पार्थम् । नामेति कोमलामन्त्रणे । उलूपीनाम्नी नागकन्यका सोच्छासं सजीवितमकरोदसृजत् । अभीति । अश्वत्थाम्नो द्रोणाचार्यसुतस्य योऽस्त्रपावकः शस्त्राग्निस्तेन परिप्लुष्टं दग्धम् । उदरेति । उदराद्गर्भाशयादुपरतमेव मृतमेव विनिर्गतं निःसृतम् । ईदृशमभिमन्युतनयमर्जुनपौत्र परीक्षिताभिधानमुत्तरायाः प्रलापेन विलापेनोपजनितोत्पादिता कृपा करुणा यस्यैवंविधों भगवान्वासुदेवो नारायणो दुर्लभान्दुष्प्रापानसून्प्राणान्प्रापितवान्प्रदत्तवान् । उज्जयिन्या चेति । उज्जयिन्यां विशालायां संदीपनिनाम्नो द्विजस्य तनयं सुतमन्तकपुरात्संयमिन्या अपहृत्यापहरणं कृत्वा त्रिभुवनेन वन्दितौ नमस्कृतौ चरणौ यस्यैवंभूतः स एव भगवान्यासुदेव आनीतवानानयनं कृतवान् । अत्रापीति । कथंचित्प्रकारेणैवमेव पुनर्जीवनवज्जीवनं भविष्यति । अनेनोत्कटकोटिः प्रदर्शिता, संभावनारूपत्वात् । अनुत्कटकोटावप्रतिकार्यत्वं स्वस्याह - तथापीति । अपि अनास्थायाम् । तथापि तव शोकमात्रेण किं जीवितं क्रियते, किमथवा लभ्यते प्राप्यते । तत्र हेतुमाह - प्रभवतीति । भगवान्विधिः प्रभवति समर्थो भवति । नियतिर्भाव्यर्थः, अदृष्टविशेषो ब्रालिखितपद्धतिर्वा, बलवती वीर्यवती । उपसंहरति - आत्मेच्छेति । आत्मेच्छया स्वेच्छयोच्छ्रसितुमपि न शक्यम् । उच्छ्रासः स्वायत्तः सोऽपि स्वेच्छया कर्तुं न शक्यते । किमुतान्यदित्यर्थः । एवं सति सर्वं दैवाधीन प्रेममैत्र्यादिकम् । तद्विहीनस्य तन्नास्त्येवेत्याह - अतीति । अस्यैकान्तनिष्ठुरस्यात्यन्तनिर्दयस्य दैवहतकस्य विलसितानि चेष्टितान्यतिपिशुनान्यतिदुःखकारीणि भवन्ति । अव्याजेति । अव्याज निष्कपटं तेन रमणीयं मनोहरं प्रेम दीर्घकालं चिरकालं न क्षमते न सहते । भवतु । तर्हि दैववशादेवानवरतं जन्मान्तरपर्यन्तं क्षेमं कुतो न निर्वहतीत्यत आह - प्रायेणेति । प्रायेण बाहुल्येन निसर्गत एव स्वभावत एवानायतस्वभावभङ्गुराणि सुखानि, आयतस्वभावानि च दुःखानि । अत्रायं भावः - कार्येण कारणानुमानम्, कार्यं च दैवादैवयोः सुखदुःखे । तत्र सुखस्यानायतस्वभावो विसृतिस्वभावः क्षणभङ्गुरत्वं च, दुःखस्य त्वायतस्वभावो विस्तरणप्रकृतिः । तद्विपर्ययादभङ्गुरत्वमपि । तत्कारणयोरप्येवमेवेति । यावत्पर्यन्तं दैवं तावत्पर्यन्तमेव येनकेनचिद्वस्तुना प्रीतिरुपभोगो मैत्री तस्माद्विषयलाभस्तदनुबन्धादयः । एतद्विपर्यये प्रीत्यायभावः । - - - - टिप्प० -1 अधिगतविद्ययो राम-कृष्णयोरनुरोधेन गुरुः सान्दीपनिः पञ्चजनापहृतं निजपुत्रं गुरुदक्षिणारूपेणेयेष । भगवान्यासुदेवस्तु समुद्राभ्यन्तरे पञ्चजनविनाशोत्तरमप्यलब्धं गुरुतनयं यमपुरादाहृत्य गुरुदक्षिणीचकारेति पुराणकथा । 2 अव्याजम् अत एव रमणीयमित्यर्थ उचितः । 3 अनायतस्वभावानि (अदीर्घाणि, संक्षिप्तानीत्यर्थः) च तानि भङ्गुराणि नश्वराणि । - - - - - पाटा० - १ अनुसारिणम्. २ उलूपी. ३ परिक्षितम्. ४ निर्गतम्. ५ भगवांश्चराचरगुरुर्वासुदेवो दुर्लभैरसुभिर्योजितवान्. ६ सांदीपनि. ७ पुरात्रिभुवनवन्दितचरणः स एवापहृतवान्. ८ कवंचिदेवमेवेद तवापि भविष्यति. ९ किमुपालभ्यते. १० क्षमन्ते. महाश्वेतायाः सान्त्वनम् । पूर्वभागः । 367 Page #381 -------------------------------------------------------------------------- ________________ दुःखानि । तथा हि । कथमप्येकस्मिजन्मनि समागमः, जन्मान्तरसहसाणि च विरहः प्राणिनाम् । अतो नार्हस्यनिन्द्यमात्मानं निन्दितुम् । आपतन्ति हि संसारपथमतिगहनमवतीर्णानामेते वृत्तान्ताः । धीरा हि तरन्त्यापदम्' इत्येवंविधैरन्यैश्च मूदुभिरुपसान्त्वनैः संस्थाप्य तां पुनरपि निर्झरजलेनाञ्जलिपुटोपनीतेनानिच्छन्तीमपि बलात्प्रक्षालितमुखीमकारयत् । अत्रान्तरे च श्रुतमहाचेतावृत्तान्तोपजातशोक इव समुत्सृष्टदिवसव्यापारो रविरपि भगवानधोमुखतामयासीत् । अथ क्षीणे दिवसे, परिणतप्रियङ्गमञ्जरीरजोनिभे पिञ्जरिम्णा रज्यमाने विलम्बिनि बध्नमण्डले, अविरलकुसुम्भकुसुमरसरक्तदुकूलकोमलेन चास्तातपेन मुच्यमानेषु दिङ्मुखेषु, चकोरनयनतारकाकान्तिना च पिङ्गलिम्ना विलिप्यमाने तिरोहितनीलिम्नि व्योम्नि, - *********** एतदेव विवृणोति - तथा हीति । प्राणिनां संसारवर्तिनां कथमपि महता कष्टेनैकस्मिञ्जन्मनि समागमः संबन्धः । जन्मान्तरसहसाणि च यावद्विरहो वियोगः । प्रकृतमुपसंहरति - अत इति । अतो हेतोरनिन्यं ब्रहारूपमात्मानं क्षेत्रज्ञं निन्दितुं गर्हितुं नार्हसि न योग्या भवसि । यतो धीराः सर्वमेवेदं दैवकृतं मन्यन्ते, न स्वात्मकृतम्, एवं च धीरत्वेऽवलम्बिते नात्मानं निन्दन्तीत्यर्थः । अधीरत्वेऽनिष्ठतामाह - आपतन्तीति । अतिगहनमतिधोरं संसारपथं संसृतिमार्गमवतीर्णानां गृहीतावताराणामेते वृत्तान्ता उदन्ता आपद्रूपा आपतन्त्यापद्यन्ते । लग्ना भवन्तीत्यर्थः । धीरत्वे इष्टमाह - धीरा इति । धीराः सात्त्विकाः पुरुषाः । हीति निश्चितम् । आपदं कष्टं तरन्ति तत्पारं प्राप्नुवन्ति । इत्येवमिति । इति पूर्वोक्तप्रकारेणैवंविधैरपूर्वप्रतिपादितैरन्यैश्चमृदुभिः सुकुमारैरुपसान्त्वनैर्दृष्टान्तोपदर्शनैस्ता संस्थाप्य स्वस्थीकृत्य पनरपि द्वितीयवारमप्यञ्जलिपटोपनीतेन निर्झरजलेनानिच्छन्तीमस्पहयन्तीमपि बलाद्धठाप्रक्षालितमखीं धौतवक्रामकारयद व्यधापयत । अत्रान्तरे चेति । अस्मिन्नवसरे । श्रुतेति । श्रुत आकर्णितो यो महाचेताया वृत्तान्त उदन्तस्तेनोपजातः समुत्पन्नः शोको यस्यैतादृश इव समुत्सृष्ट उज्झितो दिवसव्यापारो येनैवंविधो भगवान्रविरपि सहसांशुरप्यधोमुखतामवाङ्मुखतामयासीदगात् । अथेति । त्रियामामुखे सा महाश्वेता मन्दमन्दं शनैःशनैरुत्थाय पश्चिमां भगवती संध्यामुपास्योपासनां कृत्वा कमण्डलुजलेन कृत्वा कुण्डिकानीरेण प्रक्षालितचरणा धौता िवल्कलशयनीये वल्कलशय्यायां सखेदमुष्णं च निःश्वस्य निःश्वास मुक्त्वा निषसाद तस्थाविति दूरेणान्वयः । कस्मिन्सति । दिवसे वासरे क्षीणे सति । पुनः कस्मिन् । दिक्प्रान्ते विलम्बिनि विलम्बायमाने ब्रध्नमण्डले सूर्यबिम्बे सति । कीदृशे परिणतेति । परिणता पक्वा या प्रियङ्गमञ्जरी फलिनीवल्लरी तस्या रजः परागस्तेन निभे सदृशे । पिञ्जरिम्णेति । पीतरक्तस्तु पिञ्जरस्तस्य भावः पिञ्जरिमा तेन रज्यमाने पिञ्जरतां नीयमाने । पुनः केषु सत्सु । अस्तातपेन दिङ्मुखेषु मुच्यमानेषु सत्सु । अस्तातपं विशेषयन्नाह - अविरलेति । अविरलानि निबिडानि कुसुम्भानां कमलोत्तराणां कुसुमानि तेषां रसस्तेन रक्तं यहुकूलं तद्वत्कोमलेन मृदुना । पुनः कस्मिन्सति । व्योम्न्याकाशे सति । अथ व्योम विशेषयन्नाह - विलिप्येति । पिङ्गलिम्ना पिञ्जरिम्णा विलिप्यमाने विलेपनविषयीक्रियमाणे । कीदृशेन पिङ्गलिम्ना । चकोरो विषसूचकस्तस्य नयनयोस्तारका तद्वत्कान्तिर्यस्मिन्स तेन । तिरोहितेति । तिरोहित आच्छादितो नीलिमा यस्मिन्निति व्योमविशेषणम् । पुनः कस्मिन्सति सांध्ये सायंकालसंबन्धिन्यर्चिषि दीधितौ भुवनं विष्टपमरुणयति रक्ततां नयति सति । आर्चिषं विशेषयन्नाह - टिप्प० -1 आत्मानं स्वम् इति सरलोऽर्थः । 2 सांसारिकजनानाम् । 3 सर्वतः प्रकाशकरणरूपः । 4 सूर्यबिम्बे विलम्बिनि सति, इत्येवान्वयः प्रसिद्धः समुचितश्च । 5 सूर्यस्य न रज उपमानम्, अपि तु 'रजोनिभेन' इति पाठः, ततश्च प्रियङ्गुरजःसदृशेन पिञ्जरिम्णा (अर्थात् पीतेन वर्णेन) सूर्यमण्डले रज्यमाने सतीत्यर्थः । 6 अस्तकालिकसूर्यातपेन । पाठा० - १ एकजन्मसमागमो बहूनि जन्मान्तरसहसाणि तु विग्रहः. २ अत्रान्तरे महा. ३ निभेन. ४ विरज्यमानेऽपि. ५ अविरलकुसुम. ६ विमुच्यमानेषु. ७ चकोरतारकाकारकान्तिना. - - - - - - - - - - - 368 ( कादम्बरी। कथायाम् Page #382 -------------------------------------------------------------------------- ________________ कोकिलविलोचनच्छविबभ्रूणि चारुणयति सांध्ये भुवनमर्चिषि, यथाप्रधानमुन्मिषत्सु ग्रहग्रामेषु, वनमहिषमलीमसवपुषि चे मुषिततारकापथप्रथिम्नि कालिमानमातन्वति शार्वरे तमसि, अतनुतिमिरतिरोहितहरिततासु गहनता यान्तीषु वनराजिषु, रजनिजलजालबिन्दुजनितजडिम्नि बहलवनकुसुमपरिमलानुमितगमने चलितलताविटपगहेने प्रवृत्ते च पवने, निद्रानिभृतपतत्रिणि त्रियामामुखे महाश्वेता मन्दमन्दमुत्थाय भगवतीमुपास्य पश्चिमा संध्यां कमण्डलुजलेन प्रक्षालितचरणा वल्कलशयनीये सखेदमुष्णं च निःश्वस्य निषसाद । चन्द्रापीडोऽप्युत्थाय सकुसुमं प्रसवणजलाञ्जलिमवकीर्य कृतसंध्याप्रणामस्तस्मिन्द्वितीये शिलातले मूदुभिलतापल्लवैः शय्यामकल्पयत् । उपविष्टश्च तस्यां पुनस्तमेव मनसा महाश्वेतावृत्तान्तमन्वभावयत् । आसीच्चास्य मनस्येवम् - 'अंयमप्रतीकारदारुणो दुर्विषहवेगः कष्टः - *********** कोकिलेति । कोकिला वनप्रियास्तेषां विलोचनानि नेत्राणि तेषां छविः कान्तिस्तद्वद्धभूणि पिङ्गलानि । पुनः केषु । ग्रहग्रामेषडुसमूहेषु यथाप्रधानं यथामुख्यमुन्मिषत्सु विकसत्सु । पुनः कस्मिन् । शावरे शर्वरीसंबन्धिनि तमस्यन्धकारे कालिमानं श्यामलिमानमातन्वति विस्तारयति सति । अथ तमो विशिनष्टि - वनेति । वनस्यारण्यस्य यो महिषो रक्ताक्षस्तद्वन्मलीमसं वपुर्यस्य तत्तस्मिन् । अत एव मुषितस्तारकापथस्याकाशमार्गस्य प्रथिमा विस्तारो येन तत्तस्मिन् । पुनः कासु । वनराजिष्वरण्यश्रेणिसु गहनतामकलनीयतां यान्तीषु गच्छन्तीषु सत्सु । अतनु यत्तिमिरं तमस्तेन तिरोहिताच्छादिता हरितता नीलिमा यासु । पुनः कस्मिन् । पवने वायौ प्रवृत्ते वहमाने च सति । अथ पवनस्य शीतत्वमन्दत्वसुगन्धित्वानि वर्णयितुमाह - रजनीति । रजन्येवानवरतप्रचलनरूपप्रवाहवत्त्वाज्जलजालं समूहस्तस्य बिन्दुभिः पृषतैरित्यर्थो वा जनितो जडिमा यस्य स तस्मिन् । बहलेति । बहलान्यविरलानि यानि वनकुसुमानि तेषां परिमलेनानुमितमनुमानविषयीकृतं गमनं यस्य स तस्मिन् । चलितेति । चलितं कम्पितं लतोपयुक्ता विटपा वृक्षास्तेषां गहनं येन स तस्मिन् । अथ त्रियामामुखं विशेषयन्नाह - निद्रेति । निद्रा प्रमीला तया निभृता निश्चलाः पतत्रिणः पक्षिणो यस्मिन् । तदनन्तरं चन्द्रापीडोऽप्युत्थाय सकुसुमं कुसुमैः सह वर्तमान प्रसंवणस्य निर्झरस्य जलाञ्जलिमवकीर्य विक्षिप्य । कृतेति । कृतो विहितः संध्याप्रणामो येन स तस्मिन्मण्डपिकास्थले द्वितीये तदङ्गीकृतादन्यस्मिशिलातले मूदुभिः सुकुमारैलतापल्लवैर्वल्लीप्रवालैः शय्यां शयनीयमकल्पयदकरोत् । उपविष्टश्चेति । तस्या शिलायामुपविष्ट आसेदिवान्पुनस्तमेव पूर्वोक्तमेव महाचेतावृत्तान्तं मनसा चित्तेनान्वभावयत्पुनरचिन्तयत् । आसीच्चेति । अस्य चन्द्रापीडस्य मनसि चित्त एवमासित् । एवंपदार्थमाह - अयमिति । अयं कुसुमायुधः कंदर्पः कष्टोऽनर्थकृत् । अथ कुसुमायुधं विशिनष्टि - अप्रतीति । अप्रतीकारेणाप्रतिक्रियया दारुणो भीषणः । दुरिति । दुःखेन विषहः सोढुं शक्यो वेगो यस्य सः । यदिति हेत्वर्थे । अनेन कंदर्पणाभिभूतोऽन्यानपेक्षितः कालक्रमो - - - - - टिप्प० -1 'अर्चिषं विशेषयन्नाह' इति लिखनपि सप्तम्यन्तरस्य अर्चिषो विशेषणं बभ्रूणीत्याह । अत एव 'बभ्रुणि' इति परसंमतः पाठः । कोकिललोचनछविवि बभ्रु पिङ्गलं तस्मिन् सान्ध्ये अर्चिषि भुवनमरुणयति सतीति तदर्थः । 2 निबिडतामिति सरलोर्थः । 3 सतीषु इत्युचितम् । 4 'रजनिजलबिन्दुजालजनितजडिम्नि' इत्यन्यः पाठः । रजनिजलबिन्दुजालं तुषारकणसमूहस्तेन शीतले इति तदर्थः । 5 चलितं कम्पितं लताविटपानां वल्लरीपल्लवानां गहनं समूहो येन तस्मिन्नित्यर्थ उचितः। 6 अनेन (कुसुमायुधेन) अभिभूताः आक्रान्ताः महान्तोपि जनाः, अनपेक्षितकालक्रमाः असोढसमयक्षेपाः इत्याद्यर्थ उचितः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाटा० - १ ग्रहग्रामणीषु. २ च लोचनमुषि. ३ तिरोहितहरितासु; हरितभासु. ४ तरुराजिषुः तारवीषु राजिषु. ५ बने प्रवृत्ते निद्रा. ६ अवकीर्य संध्यां प्रणनाम । कृत. ७ पुनः पुनः. ८ नामायम्. महाता-चन्द्रापीडयोः सान्ध्यविधिः पूर्वभागः । 369 Page #383 -------------------------------------------------------------------------- ________________ कुसुमायुधः, यदनेनाभिभूता महान्तोप्येवमनपेक्षितकालक्रमाः समुत्सारितधैर्याः सद्यो जीवितं जहेति । सर्वथा नमो भगवते त्रिभुवनाभ्यर्चितशासनाय मकरकेतनाय' इति । पुनः पप्रच्छ चैनाम् - 'भगवति, सा तव परिचारिका वनवासव्यसनमित्रं दुःखसब्रह्मचारिणी तरलिका क्व गता' इति । अथ साकथयत् - 'महाभाग, यत्तन्मया कथितममृतसंभवमप्सरसां कुलं तस्मान्मदिरेति नाम्ना मदिरायत्तेक्षणा कन्यकाभूत् । तस्याश्चासौ सकलगन्धर्वकुलमुकुटकुड्मलपीठप्रतिष्ठितचरणो देवश्चित्ररथः पाणिमग्रहीत् । अपरिमितगुणाकृष्टहृदयश्च वनितादुर्लभेनाधःकृताशेषान्तःपुरेण हेमपट्टलाञ्छनेन छत्रवेत्रचामरचिढेन महादेवीशब्देन परं प्रीतः प्रसादमकरोत् । अन्योन्यप्रेमसंवर्धनपरयोश्च तयोर्यौवनसुखानि सेवमानयोः कालेनाश्चर्यभूतमेकजीवितमिव पित्रोः, अथवा सर्वस्यैव गन्धर्वकुलस्य वा जीवलोकस्य, दुहितृरत्नमुदपादि कादम्बरीति नाम्ना । *********** देहविसर्जनक्रमो यैस्ते, तथा समुत्सारितं धैर्यं येषामेवंविधा महान्तोऽपि पुण्डरीकप्रभृतयः सद्यस्तत्कालं जीवितं जहति त्यजन्ति । अतः सर्वथा सर्वप्रकारेण भगवते त्रिभुवनेनाभ्यर्चितं पूजितं शासनमाज्ञा यस्य स तस्मै मकरकेतनायानङ्गाय नमोऽस्तु । एनामिति । एना महाश्वेतामिति पुनः पप्रच्छ प्रश्नमकार्षीत् । इति वाच्यमाह - हे भगवति, सा तव परिचारिका सपर्याकारिणि । कीदृशी । वनवासलक्षणं यत् व्यसनं कष्टं तत्र मित्रं सुहृत् । आविष्टलिङ्गत्वानपुंसकत्वम् । दुःखेति । दुःखे कृच्छ्रे सब्रह्मचारिणी । 'एकब्राव्रताचारा मिथः सब्रह्मचारिणः' इति कोषः । एवंविधा सा तरलिका क्व गता। अथेति । तत्पश्नानन्तरं सा महाश्वेताकथयदवोचत् । किं तदित्याह - महाभागेति । हे सत्पुरुष, अमृतसंभवमप्सरसा कुलं यच्च मया पूर्वमुक्तम्, तस्मात्कुलात् । मदिरेति । मदिरा इति नाम्ना कन्यकाभूत् । तां विशिनष्टि - मदिरेति । मदिरायत्ते घूर्णिते लोचने यस्याः सा तथा । मदिरया नयनयोः कश्चन विस्तारो जायत इति । विस्तीर्णनयनेति यावत् । तस्याश्चेति । तस्या मदिराया देवोऽसौ चित्ररथः पाणिं हस्तमग्रहीत् । पाणिपीडनमकरोदित्यर्थः । चित्ररथं विशेषयन्नाह - सकलेति । सकलं समग्रं यद् गन्धर्वकुलं देवगायनवंशस्तस्य मुकुटानि किरीटानि तान्येव कुड्मलाकारं पीठं पदासनं तत्र प्रतिष्ठितौ स्थापितौ चरणौ येन सः । अपरीति । अपरिमिता असंख्या ये गुणा लज्जादयस्तैराकृष्टमाकर्षितं हृदयं चेतो यस्य स प्रीतः संतुष्टो महादेवीशब्देन परमुत्कृष्टं प्रसादमनुग्रहमकरोदन्वतिष्ठत् । अथ च महादेवीशब्दं विशेषयन्नाह - वनितेति । वनितायाः स्त्रियो दुर्लभेन दुष्प्रापेण । अध इति । अधःकृतमधरीकृतमशेष समग्रमन्तःपुरं येन स तेन । हेमेति । हेमपट्टस्य सुवर्णपट्टस्य लाञ्छनं चिह्न यस्मिन्स तेन । छत्रेति । छत्रमातपत्रम्, वेत्रं यष्टिः, चामरं वालव्यजनम्, एतानि चिह्नानि यस्मिन् । अन्योन्येति । अन्योन्यं मिथो यत्प्रेमसंवर्धनं स्नेहोत्पादकं तत्र परयोः सप्रयत्नयोश्च तयोर्योवनसुखानि तारुण्यसातानि सेवमानयो(ञानयोः कालेनानुक्रमेणाश्चर्यभूतं चित्रभूतं पित्रोर्मातृजनकयोरेकजीवितमद्वितीयप्राणितमिव । अथवा सर्वस्यैव गन्धर्वकुलस्य जीवलोकस्य वैकजीवितं कादम्बरीनाम्ना दुहितरत्नमुदपा - टिप्प० - 1 समानदुःखभोगिनीत्यर्थः । 2 'मदिरायतेक्षणा' इत्येव पाटः । मदिरे मादनानुकूलदर्शनप्रकारशालिनी, आयते च ईक्षणे यस्यास्तत्संबुद्धौ । "मदिरावत् मत्तखजनवत् आयते दीर्घ चक्षुषी यस्याः सा । 'मदिरा (स्त्री) मत्तखञ्जनः,...मद्यम् - " इति हरिदासटीका । 3 अन्योन्यं यत् प्रेम्णः संवर्धन मिथः आनुकूल्याचरणं तत्र तत्परयोरित्यर्थः ।। पाठा० - १ समवधीरित. २ जहाति. ३ सकलत्रिभुवन. ४ त्वत्परिचारिका. ५ मदिरायतेक्षणा. ६ गुणगणाकृष्ट. ७ अन्यवनिता. ८ अनुभवतोः. ९ संकलस्यैव. - - - - - - - - - - - - - - - - - - - - (370 कादम्बरी। कथायाम् ܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠ Page #384 -------------------------------------------------------------------------- ________________ सा च मे जन्मनः प्रभृत्येकाशनशयनपानासना परं प्रेमस्थानमखिलविस्त्रम्भधाम द्वितीयमिव हृदयं बालमित्रम् । एकत्र तया मया च गीतैनृत्यकलासु कृताः परिचयाः । शिशुजनोचिताभिश्च क्रीडाभिरनियन्त्रणनिर्भरमपनीतो बालभावः । सा चामुनैव मदीयेन हतवृत्तान्तेन समुपजातशोका निश्चयमकार्षीत् - 'नाहं कथंचिदपि सशोकायां महाश्वेतायामात्मनः पाणि ग्रहिष्यामि' इति । सखीजनस्य पुरतः सशपथमभिहितवती च - 'यदि कथमपि मामनिच्छन्तीमपि बलात्तातः कदाचित्कस्मैचिद्दातुमिच्छेति तदाहमनशनेन वा हुताशनेन वा रज्ज्चा वा विषेण वा नियतमात्मानमुत्स्त्रक्ष्यामि' इति । सर्वं च तदात्मदुहितुः कृतनिश्चलभाषितं कर्णपरम्परया परिजनसकाशाद्गन्धर्वराजश्चित्ररथः स्वयमशृणोत् । गच्छति काले समुपारुढनिर्भरयौवनामालोक्य से तां बलवदुपतापपरवशः क्षणमपि न धृतिमलभत । एकापत्यतया चातिप्रियतया च न शंक्तः किंचदपि तामभिधातुमित्यपश्यंश्चान्यदुपायान्तरम्, इदमत्र प्राप्तकालमिति मत्वा तया - *** *** द्युत्पन्नमभूत् । सा चेति । सा कादम्बरी मे मम जन्मनः प्रभृत्युत्पत्तिदिनादारभ्यैकान्यभिन्नान्यशनशयनपानासनानि यस्याः सा । तत्रानं भोजनम्, शयन शय्या, पानं मद्यादि, आसनं चतुष्किकादि । एतेन प्रीत्युत्कर्षः सूचितः । परमुत्कृष्टं प्रेमस्थानं स्नेहस्थानमखिलानां समग्राणां विस्त्रम्भाणां विश्वासानां धाम द्वितीयमपरं हृदयमिव स्वान्तमिव बालमित्रम् । एकत्रेति । एकस्मिन्स्थले तया मया च गीतनृत्यकलासु कृताः परिचया अभ्यासाः । शिश्विति । शिशुजनोचिताभिर्बालजनयोग्याभिः क्रीडाभिरनियन्त्रणं स्वेच्छाविचरणं तेन निर्भरं यथा स्यात्तथा बालभावः शिशुभावोऽपनीतो दूरीकृतः । सा चेति । सा कादम्बर्यमुनैव मदीयेन हतवृत्तान्तेन समुपजातः शोको यस्याः सा तथा । इति निश्चयं निर्णयमकार्षीत् । सखीजनस्यालीजनस्य पुरतोऽग्रतः सशपथं शपथपूर्वकमित्यभिहितवती कथितवती च । इतिद्योत्यमाह - नाहमिति । कथंचिदपि केनचित्प्रकारेणापि सशोकायां महाश्वेतायामात्मनः स्वस्य पाणि नाहं ग्रहयिष्यामि । उद्वाहं न करिष्यामीत्यर्थः । यदीति । यदि कथमपि महता कष्टेन मामनिच्छन्तीमप्यवाञ्छन्तीमपि बलाद्धठात्तातः पिता कदाचित्कस्मैचित्पुरुषाय दातुमिच्छति वाञ्छति तदाहमनशनेन॑ प्रायसा वा, हुताशनेन वह्निना वा, रज्ज्वा रश्मिना वा, विषेण गरलेन वा । सर्वत्र वाशब्दो विकल्पार्थः । नियतं निश्चितमात्मानमुत्स्त्रक्ष्यामि त्यजिष्यामि । इति तदात्मदुहितुर्निजसुतायाः सर्वं समग्रं कृतो निश्चयो यस्मिन्नेतादृशं निश्चलभाषितं स्थिरजल्पितं परिजनसकाशात्परिच्छदसमीपात्कर्णपरम्परया श्रोत्रप्रणालिकया गन्धर्वराजचित्ररथः स्वयमश्रुणोदाकर्णयत् । गच्छति व्रजति काले समये सति स चित्ररथः समुपारूढं प्राप्तं निर्भरमतिशायि यौवनं तारुण्यं यस्यामेतादृशीं तां कादम्बरीमालोक्य निरीक्ष्य बलवानुपतापः संतापस्तेन परवशः परायत्तः क्षणमपि धृतिं संतोषं नालभत नाप्तवान् । एकेति । एकापत्यतयैकसंततितयातिप्रियतया च किंचिदपि तां कादम्बरीमभिधातुं कथयितुं न शक्तो न समर्थ इति हेतोरन्यदुपायान्तरं कार्यसाधकप्रकारान्तरमपश्यन्ननवलोकयंश्च । इदं कुमारीलक्षणमत्र प्राप्तकालं प्राप्तसमयमिति मत्वा ज्ञात्वा तया मदिरया महादेव्या सहावधार्य निश्चित्य क्षीरोदनामानं कञ्चुकिनं सौविदल्लमिति संदिश्येत्युक्त्वा मत्समीपं मदु - टिप्प० - 1 भोजनपरित्यागेन । 2 त्यक्ष्यामि इत्येव विवेकिभिर्वाच्यम् । 3 वस्तुतस्तु '... तामभिधातुम् । अपश्यंश्चान्यदुपायान्तरम्' इत्येव पाठः । कादम्बरीजन्मादिकथा पाठा० - १ मज्जन्मनः. २ एकासनशयनपानाशना; एकासनपानाशना. ३ नृत्यगीतादिकलासुः गीतनृत्यादिकासु कलासु. ४ समुत्पन्न. ५ इच्छेत्. ६ ततः. ७ कृतनिश्चयं निश्चलं भाषितम्; कृतनिश्चयनिश्चलभाषितम् ८ अतिप्रेमतया गच्छति ९ सुताम् स संतापेन बलवद्द्यत न क्षणमपि धृतिमलभत. १० शक्नोति. पूर्वभागः । 371 Page #385 -------------------------------------------------------------------------- ________________ महादेव्या मदिरया सहावधार्य क्षीरोदनामानं कञ्चुकिनम् ‘वत्से महाश्वेते, त्वद्व्यतिरेकेणैव दग्धहृदयाणामिदमपरमस्माकमुपस्थितम्, ‘इदानीं तु कादम्बरीमनुनेतुं त्वं शरणम्' इति संदिश्य मत्समीपं प्रत्युषसि प्रेषितवान् । ततो मया गुरुवचनगौरवेण सखीप्रेम्णा च क्षीरोदेन सार्धं ता तरलिका ‘सखि कादम्बरि, कं दुःखितमपि जनमतितरां दुःखयसि । जीवन्तीमिच्छसि चेन्मां तत्कुरु गुरुवचनमवितथम्' इति संदिश्य विसर्जिता । नातिचिरं गतायां च तस्यामनन्तरमेवेमां भूमिमनुप्राप्तो महाभागः' इत्यभिधाय तूष्णीमभवत् । अंत्रान्तरे लाञ्छनच्छलेन विडम्बयन्निव शोकानलदग्धमध्यं महाश्वेताहृदयम्, उद्घहनिव मुनिकुमारवधमहापातकम्, दर्शयन्निव चिरकाललग्नं दक्षशापानलदाहचिह्नम्, अविरलभस्माङ्गरागधवलो {गाजिनप्रावृता| वामस्तन इवाम्बिकायाः, धूर्जटिजटामण्डलचूडामणिभगवानुदगात्तारकाराजः । क्रमेण चोद्गते गगनमहापयोधिपुलिने सप्तलोकनिद्रामङ्गल - *********** पान्तं प्रत्युषसि प्रभाते प्रेषितवान्प्राहिणोत् । इतिद्योत्यमाह - वत्से इति । हे वत्से महाश्वेते, त्वद्व्यतिरेकेणैव त्ववृत्तान्तेनैव दग्धं ज्वलितं हृदयं येषामेवंविधानामस्माकमिदं कादम्बरीसक्तमपरं दुःखमुपस्थितं प्रादुर्भूतम् । इदानीं तु सांप्रतं कादम्बरीमनुनेतुमनुनयं कर्तुं त्वं शरणं त्वमेवाश्रयः । ततो मया गुरुवचनं पूज्यवचस्तस्य गौरवेणानुल्लङ्घयतया सखी आली तस्याः प्रेम्णा स्नेहेन च क्षीरोदेन कञ्चुकिना साधू सा तरलिका इति संदिश्य कथयित्वा विसर्जिता प्रहिता । इतिद्योत्यमाह - हे सखि कादम्बरि, के दुःखितमपि पीडितमपि जनमतितरामतिशयेन दुःखयस्यतितरां पीडयसि । चेन्मां जीवन्ती श्वसन्तीमिच्छसि वाञ्छसि । तदिति हेत्वर्थे वचनम् । गुरुवचनं अवितथं सत्यं कुरु विधेहि । तस्यां नातिचिरंगतायां स्तोककालप्रस्थितायां च सत्यामनन्तरमेवेमा भूमिं महाभागः सत्पुरुषः त्वमनुप्राप्तोऽन्वागतः । इत्यभिधायेत्युक्त्वा तूष्णीं जोषमभवत् । अत्रान्तरेऽस्मिन्समये शोकानलेन शुग्वह्निना दग्धं मध्यं यस्यैतादृशं महाश्वेताहृदयं लाञ्छनच्छलेनाङ्कमिषेण विडम्बयन्निव सादृश्यं कुर्वन्निव । धर्म उज्ज्वलः, पातकं श्याममिति तेनैव साम्येनाह - उदहन्निव धारयन्निव मुनिकुमारवधलक्षणं महापातक महापापम् । दक्षेति । दक्षप्रजापतेर्यः शापानलः शापवह्निस्तेन दाहस्तस्य चिह्नं चिरकाललग्नं चिरकालीनं दर्शयनिव प्रकटयन्निव । पाण्डुरत्वकृष्णत्वसाम्येनोपमानान्तरमाह - अविरलेति । अविरलो निबिडो भस्माङ्गरागस्तेन धवलः शुभ्रः । तथा मृगस्याजिनं चर्म तेन प्रावृतमाच्छादितम) यस्यैवंविधोऽम्बिकायाः पार्वत्या वामो दक्षिणेतरः स्तनः कुच इव । धूर्जटिरिति । धूटिरीश्वरस्तस्य जटामण्डलं तस्य चूडामणिभंगवान्माहात्म्यवांस्तारकाराजश्चन्द्र उदगादुदितवान् । क्रमेण पारिपाट्या शशाङ्कमण्डल उद्गत उदिते सति चन्द्रापीडो महाश्वेतां सुप्तां शयितामालोक्य निरीक्ष्य शनैः शनैर्मन्दं मन्दं पल्लवशयने किसलयशय्यानां समुपाविशदधितस्थौ । अथ च शशाङ्कमण्डलं विशेषयन्नाह - गगनेति । गगनमपारत्वान्महापयोधिर्जलधिस्तस्य पाण्डुरत्वसाम्यात्पुलिन इव पुलिने जलोज्झिातसैकतरूपे, सप्तलोकेषु निद्रायाः प्रमी - - - - - - - - - - - टिप्प० -1 व्यतिरेकस्य विरहः कदाचिदर्थः स्यात्परं न कदाचिद्वृत्तान्त इत्यर्थः । तस्मात् 'त्वद्व्यतिकरण' इत्युचितः पाठः । 2 'किं दुःखितमपि इत्येव पाठः । सर्वबोध्यश्चार्थः । पाठा० - १ ब्रूहि गत्वा वचः वत्से. २ त्वद्व्यतिरेकेणैकेनैव. ३ इदानी कादम्बरीव्यतिकरे. ४ संदिश्य तदनुनयावं. ५ अद्यैव प्रत्युषसि. ६ अतः. ७ अस्मिंश्चान्तरे. ८ कृष्णमृगाजिन. ९ समस्त. 372 कादम्बरी। कथायाम् Page #386 -------------------------------------------------------------------------- ________________ कलशे कुमुदबान्धवे विघटितकुमुदवने धवलितदशदिशि शङ्खश्वेते चेतिमानमातन्वति मानिनीमानंदस्यौ शशाङ्कमण्डले, शशिकरकोपकलितास्वातन्वतीषु क्रशिमानमोडवीषु प्रभासु, प्रसवत्सु च कैलासशशिमणिशिलानां सर्वतः स्रोतःसाविषु प्रसवणेषु, मृणालकन्दलिनि चावस्कन्दपतितचन्द्रकर इव विलुप्तकमलवनशोभे भात्यच्छोदसरःपयसि, समुपोढमोहनिद्रे च द्राधीयोवीचिविचलितवपुषि विरुवति विरहिणि चक्रवाकचक्रवाले, निवृत्ते च चन्द्रोदये, विद्रुते हर्षनयनजलकणनीहारिणि वियद्विहारिणि मनोहारिणि विद्याधराभिसारिकाजने, चन्द्रापीडः सुप्तामालोक्य महाश्वेता पल्लवशयने शनैः शनैः समुपाविशत् । 'अस्यां वेलायां किं नु खलु मामन्तरेण चिन्तयति वैशम्पायनः, किंवा वराकी पत्रलेखा, किं वा राजपुत्रलोकः, इति चिन्तयन्नेव निद्रां ययौ । *********** लाया मङ्गलकलश इव । कुमुदस्य कैरवस्य बान्धवे बन्धुसदृशे । विघटितेति । विघटितानि विमुद्रितानि कुमुदवनानि येन स तस्मिन् । धवलितेति । धवलिताः शुभ्रीकृता दशदिशो येन स तस्मिन् । शङ्खवज्जलजवच्छेते शुभ्रे । किं कुर्वति । श्वेतिमान श्वेतातिशयमातन्वति विस्तारयति सति । अथवा शङ्खस्य श्वेतो गुणस्तस्मिञ्चेतिमानं चाकचिक्यरूपं यथादर्श विस्तारयति सति । इदं च शङ्ख चन्द्रकिरणसंपर्कवशाद्विलक्षणा पाण्डुरता दृश्यत इत्यभिप्रायेण सूर्यकरसंपर्कवशाद्विलक्षणा स्वच्छता दृश्यते तद्वदिवेति केचित् । मानिनीति । मानिन्या मानवत्यां स्त्रियो यो मानः स्मयस्तस्य दस्यौ विपक्षे । मानिनीमानापहारकत्वाद्दस्युसादृश्यमिति । पुनः कासु । शशिकराणां चन्द्रकिरणानां कलापेन समूहेन कलितासु सहितास्वौडवीषु नक्षत्रसंबन्धिनीषु प्रभाषु कान्तिषु क्रशिमानं कृशत्वमातन्वतीषु विस्तारयन्तीषु । पुनः केषु । कैलासस्य शिलामणयश्चन्द्रकान्तास्तेषां शिलास्तासां सर्वतोऽभितः स्वतोऽम्भःसरणं सौतस्तत्सवन्तीत्येवंशीलेषु प्रसवणेषूसेषु प्रसवत्सु क्षरत्सु । पुनः कस्मिन्सति । अच्छोदाभिधानस्य सरसः पयसि पानीये भाति राजमाने सति । कीदृशे । मृणालानां कन्दला विद्यन्ते यस्मिन् । विलुप्तेति । विलुप्ता विलोपं प्राप्ता कमलवनस्य पद्मखण्डस्य शोभा श्रीर्यस्मिन् । अतएव श्वेतत्वसाम्येनोप्रेक्षते - अवेति । अवस्कन्दार्थ हननार्थं पतिताः प्रविष्टाश्चन्द्रकरा यस्मिन्नेवंविध इव । पुनः । कस्मिन्सति । विरहिणि विप्रलम्भिनि चक्रवाका द्वन्द्वचरास्तेषां चक्रवाले समूहे विरुवति शब्दं कुर्वति सति । अथ चक्रवाकसमूहं विशेषयन्नाह - समुपोटेति । समुपोढा समागता विरहवशान्मोहनिद्रा यस्मिन् । द्राघीय इति । द्राघीयोभिरतिदीर्घाभिर्वीचिभिः कल्लोलैर्विचलितं कम्पितं वपुर्यस्य स तस्मिन् । पुनः कस्मिन् । चन्द्रोदये च निवृत्तै सति । विद्याधराणां व्योमचारिणामभिसारिकाजने संकेतितस्त्रीजने विद्रुतै विशकलिते जाते सति । अभिसारिकाजनं विशेषयन्नाहहर्ष इति । हर्षजनिता ये नयनजलकणा एव प्रमोदबाष्पपृषता एव नीहारं तुहिनं हिमं यस्मिन् । वियद्विहारिणि व्योमचारिणि मनोहारिण्यभिरामे । अस्यामिति । अस्यां पूर्वोक्तायां वेलायां समयविशेषे । खलु निश्चयेन । मामन्तरेण मद्व्यतिरेकेण वैशम्पायनः । अथ च वराकी पत्रलेखा । अथ च राजपुत्रलोको नृपसुतसमूहः किं चिन्तयति किं चिन्तयिष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यति वर्तमानता । इति चिन्तयन्नेवेति ध्यायन्नेव निद्रां ययौ प्रमीला प्राप्तवान् । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 शशिमणय इत्युचितम् । 2 अवस्कन्दा) कमलानामाक्रमणार्थमित्युचितोर्थः । यतो हि कराः (हस्ताः) कस्यचिनिर्दयग्रहणार्थं कुत्रचित्पतन्ति । 3 निर्वृत्ते इत्यपि पाठः । चन्द्रोदये निष्पन्ने इति तदर्थः । 4 चन्द्रोदयेन तिमिरापगमाल्लोकानां दर्शनपथादतिक्रान्ते सतीत्याशयः । पाठा० - १ शङ्खधेते चेतातपत्रायमाणे; शङ्खचेतायमाने. २ शत्रौ. ३ शुचिशोचिषि शशाङ्कमण्डले; शशाङ्के. ४ रोचिष्णुशशि. ५ कलितासु; कवलितासु. ६ व्रजन्तीषु. ७ अवश्याय. ८ पवनशात्समुपोढ. ९ निवृत्ते. १० शनैः. (केयूरकेण सह तरलिकाया आगमनम् ) पूर्वभागः ।। 373 Page #387 -------------------------------------------------------------------------- ________________ अथ क्षीणायां क्षपायामुषसि संध्यामुपास्य शिलातलोपविष्टायां पवित्राण्यघमर्षणानि जपन्त्यां महाश्वेतायां निर्वर्तितप्राभातिकविधौ चन्द्रापीडे तरलिका षोडशवर्षवयसा, सावष्टम्भाकृतिना, मदखेदालसगजगमनगुरूणि पदानि निक्षिपता, पर्युषितचन्दनाङ्गरागधूसरोरुदण्डद्वयेन, कुङ्कुमरागपिञ्जरारुणेन, चामीकरश्रृङ्खलाकलापनिबिडनियमित कक्षाबन्धातिरिक्तप्रेख़त्पल्लवमधरवास एव केवलं वसानेन, निरुदरतया विभक्तमध्येन, विपुलवक्षसा, दीर्घानुवृत्तपीनबाहुना, वामप्रकोष्ठदोलायमानमाणिक्यवलयेन, कर्णाभरणेमणेविप्रकीर्यमाणमधोमुखकिरणेन्द्रायुधजालवर्णाशुकोत्तरीयमिवैकस्कन्धक्षिप्तमुदहता, चूतपल्लवकोमलमनवरतताम्बूलबद्धरागान्धकारमधरं दधता, कर्णान्तायतस्य स्वभावधवलस्य धवलिम्ना लोचनयुगलस्य धवलयतेव दिगन्तराणि, कुमुदवनानीव वर्षता, पुण्डरीकमयमिव दिवसं कुर्वता, कनकपट्टपृथुललाटेन, - *********** अथेति । क्षीणायां क्षपायामुषसि प्रभाते संध्यामुपास्य शिलातलोपविष्टायां पवित्राणि पूतान्यघमर्षणान्यापोदेवतास्तुतिरूपाणि महाश्वेतायां जपन्त्यां स्मरन्त्यां सत्या, निर्वर्तितो विहितः प्रभातिकः प्रत्यूषसंबन्धी विधिर्येनैवंविधे चन्द्रापीडे. सा तरलिका प्रत्यूषस्येव प्रादुरासीत्प्रकटीबभूवेत्यन्वयः । कीदृशी । केयूरकनाम्ना गन्धर्वदारकेणानुगम्यमाना । अथ केयूरक विशेषयन्नाह - षोडशेति । षोडशवर्षाणि हायनानि तैः परिमितं वयो यस्य स तथा तेन । तावन्मात्रप्रमाणेनेत्यर्थः । सहावष्टम्भेनाभिमानेन वर्तमाना सावष्टम्भाकृतिराकारो यस्य स तेन । किं कुर्वता । मदखेदेनालसो मन्थरो यो गजो हस्ती तस्य गमनवद्गुरूणि पदानि चरणन्यासान् । निक्षिपता स्थापयता । पर्युषितो गतदिनसक्तो यो चन्दनाङ्गरागस्तेन धूसरमीषत्पाण्डुरमूरुदण्डद्वयं सक्थिदण्डद्वितयं यस्य स तेन । कुङ्कुमेति । कुङ्कुम केसरं तस्य रागेण पिञ्जरः पीतरक्तोऽरुणो देहस्थरागो यस्य स तेन । किं कुर्वता । केवलमधरवासोऽधोंशुकमेव वसानेन परिधानीकुर्वता । अथाधरवासो विशेषयन्नाह - चामीति । चामीकरस्य सुवर्णस्य श्रृङ्खलाकलापस्तेन निबिडं यथा स्यात्तथा नियमित बद्धम् । कक्षेति । कक्षाबन्धात्कटिबन्धादतिरिक्तस्य वस्त्रस्य प्रेछन्त उल्लसन्तः पल्लवा अञ्चला यस्य तत् । निर्गतं यदुदरं तस्य भावस्तत्ता तया विभक्तो विभागीकृतो मध्यो भागो यस्य स तेन । अनेन सामुद्रिकसुलक्षणत्वमुक्तम् । विपुलेति । विपुलं बृहद्वक्षो भुजान्तरं यस्य स तेन । दीर्घति । दीर्घावायतावनुवृत्तपीनौ परम्परया पुष्टौ बाहू भुजौ यस्य स तेन । वामेति । वामप्रकोष्ठे दक्षिणेतरकलाचिकायां दोलायमानं कम्पमानं माणिक्यवलयं रत्नकङ्कणं यस्य स तेन । कर्णेति । कर्णाभरणमणेः श्रोत्रभूषणरत्नसङ्गं विप्रकीर्यमाणं विक्षिप्यमाणमधोमुखकिरणानामिन्द्रायुधजालवर्णं शक्रचापसमूहरागं यदंशुकोत्तरीयमुत्तरासङ्गं चित्रवस्त्रमेकस्कन्धक्षिप्तमिवैकासन्यस्तमिवोद्वहता धारयता । पुनः किं कुर्वता । अधरं दन्तच्छदमोष्ठं दधता । अधरं विशेषयन्नाह - चूतेति । चूतपल्लववदाप्रकिसलयवत्कोमलं सुकुमारम् । अनवरतेति । अनवरतं निरन्तरं ताम्बूलस्य नागवल्ल्या दलस्य बद्धो रागान्धकारो यस्मिन् । कर्णेति । कर्णान्तायतस्य श्रोत्रप्रान्तप्राप्तस्य स्वभावेन धवलस्य शुभ्रस्य लोचनयुगलस्य नेत्रयुग्मस्य धवलिम्ना शुभ्रत्वेन दिगन्तराणि धवलयतेव शुभ्रीकुर्वतेव । कुमुदवनानीव कैरवखण्डानीव वर्षता वृष्टिं कुर्वता । पुण्डरीकमयमिव सिताम्भोजमयमिव दिवसं वासरं कुर्वता सृजता । कनकेति । टिप्प० - 1 सावष्टम्भा सबला आकृतिर्यस्येत्युचितोर्थः । 2 अनुदरा कन्येतिवत् ईषदर्थे निःशब्दः । 3 एकस्कन्धक्षिप्तम् उत्तरीयमिव किं वहति ? न किञ्चित्प्रतीयते । '...किरणेन्द्रायुधजालं वर्णांशुकोत्तरीयमिव' इति पाठः । कर्णाभरणरत्नस्य नीचैर्विकीर्यणाः (प्रसरन्तः) अधोमुखाः किरणां नानावर्णशालितया इन्द्रधनूंषीव तेषाम् (किरणानाम्) जालमेकस्कन्धसक्तं वर्णांशुकमिव (रक्तवर्णरंजितम् अंशुकमिव वस्त्रमिव) उद्घहता, इति तदर्थः । 4 दिगन्तरे नेत्रप्रेरणस्य कुमुदवनवर्षणत्वेन, दिवसस्य पुण्डरीकमयकरणत्वेन चोत्प्रेक्षेत्याशयः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ गजराज. २ विभक्तमध्येन. ३ मणिविप्रकीर्य. 374 कादम्बरी। कथायाम् Page #388 -------------------------------------------------------------------------- ________________ अलिकुलनीलसरलशिरसिजेन, अग्राम्याकृतिना, राजकुलसंपर्कचतुरेण, गन्धर्वदारकेण केयूरकनाम्नानुगम्यमाना प्रत्यूषस्येव प्रादुरासीत् । आगत्य च कोऽयमित्युपजातकुतूहला चन्द्रापीडं सुचिरमवलोक्य महाश्वेतायाः समीपमुपसृत्य कृतप्रणामा सविनयमुपाविशत् । अनन्तरं चातिदूरानतेनोत्तमाङ्गेन प्रणम्य केयूरकोऽपि महाश्वेतादृष्टिनिसृष्टं नातिसमीपवर्ति शिलातलं भेजे । उपविष्टश्च तमदृष्टपूर्वमधःकृतकुसुमायुधमुपहसितसुरासुरगन्धर्वविद्याधररूपं रूपातिशय चन्द्रापीडस्य दृष्ट्रा विस्मयमापेदे । परिसमाप्तजपा तु महाश्वेता पप्रच्छ तरलिकाम्, - 'किं त्वया दृष्टा प्रियसखी कादम्बरी कुशलिनी । करिष्यति वा तदस्मद्वचनम्' इति । अथ सा तरलिका विनयावनतमौलिरीषदवलम्बितकर्णपाशमतिमधुरया गिरा व्यजिज्ञपत् - 'भर्तृदारिके, दृष्टा खलु मया भर्तृदारिका कादम्बरी सर्वतः कुशलिनी । विज्ञापिता च निखिलं भर्तृदुहितुः संदेशम् । आकर्ण्य च यत्तया संततमुक्तस्थूलाश्रुबिन्दुवर्षं रुदित्वा प्रतिसंदिष्टम्, तदेष तयैव विसर्जितस्तस्या एव वीणावादकः केयूरकः कथयिष्यति' इत्युक्त्वा विरराम । विरतवचसि तस्यां केयूरकोऽब्रवीत् - ‘भर्तृदारिके महाश्वेते, देवी कादम्बरी दृढ - *********** कनकपट्टवत्सुवर्णपट्टवत्पृथु विस्तीर्णं ललाटमलिक यस्य स तेन । अलीति । अलिकुलवन्नीलाः सरला अवक्राः शिरसिजाः केशा यस्य स तेन । अग्राम्येति । अग्राम्या नागरीयाकृतिराकारो यस्य स तेन । राजेति । राजकुलेन यः संपर्कः संबन्धस्तत्र चतुरेण चातुर्ययुक्तेन । आगत्य चेति । आगत्य चैत्य च । कोऽयमित्युपजातं समुत्पन्नं कुतूहलं यस्याः सा तया । सुचिरं चिरकालं यावत् चन्द्रापीडमवलोक्य निरीक्ष्य महाश्वेतायाः समीपमुपसृत्यागत्य कृतो विहितः प्रणामो यया सा सविनयमुपाविशदुपविष्टा । अनन्तरमिति । तरलिकावस्थानन्तरमतिदूरादानतेन नम्रणोत्तमाङ्गेन शिरसा प्रणम्य नमस्कृत्य केयूरकोऽपि महाश्वेतया दृष्ट्या निसृष्टं दर्शितं नातिसमीपवर्ति नातिनिकटवर्ति शिलातलं भेजेऽधितस्थौ । उपविष्टश्चेति । तत्रोपविष्ट आसीनश्च स तमदृष्टपूर्वमनवलोकितपूर्वमधःकृतः कुसुमायुधो येन स तमुपहसितं न्यकृतं सुरासुरगन्धर्वविद्याधराणां रूपं सौन्दर्यं येन स तमेवंविधं चन्द्रापीडस्य रूपातिशयं सौन्दर्याधिक्यं दृष्ट्वा चावलोक्य च विस्मयमाश्चर्यमापेदे प्राप्तवान् - परीति । परिसमाप्तः पूर्णीभूतो जपो जापो यस्याः सैवंविधा महाश्वेता तरलिकामिति पप्रच्छेत्यप्राक्षीत् - इतिद्योत्यमाह - कादम्बरीति । कादम्बरी प्रियसखी वल्लभवयस्या कुशलिनी कल्याणवती त्वया किं दृष्टावलोकिता । वा अथवा तत्पूर्वोक्तमस्मद्वचनं करिष्यति । अथेति । तत्प्रश्नानन्तरं सा तरलिका विनयेनावनतो मौलियया सा ईषत्किंचिदवलम्बितकर्णपाशं यथा भवति तथा व्यजिज्ञपद्विज्ञापना चकार । कया । अतिमधुरयातिमिष्टया गिरा वाण्या, हे भर्तृदारिके, खलु निश्चयेन । कादम्बरी भर्तृदारिका सर्वतः सर्वप्रकारेण कुशलिनी कल्याणवती दृष्टावलोकिता । विज्ञापिता च निखिलं समग्रं भर्तृदुहितुर्भवत्याः सदेशमुदन्तम् । आकर्ण्य चेति । तच्छ्रुत्वा च यत्तया कादम्बर्या संततं निरन्तरं मुक्ताः स्थूला येऽश्रुबिन्दवस्तेषां वर्षों यस्मिन्नेतादृशं यथा स्यात्तथा रुदित्वा रुदनं कृत्वा प्रतिसंदिष्टं प्रत्युत्तरं कृतं, तदेष तयैव कादम्बर्यैव विसर्जितस्त्वनिकटे प्रेषितस्तस्या एव कादम्बर्या एव वीणावादकः केयूरकः कथयिष्यति निवेदयिष्यति । इत्युक्त्वा विरराम विरता बभूव । अथ विरतवचसि तस्यां केयूरकोऽब्रवीदवोचत् । हे भर्तृदारिके - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 संततं मुक्तावत्स्थूलानाम् अश्रुबिन्दूना वर्षः (वर्षणम्) यस्मिन्कर्मणि यथा स्यात्तथा इति स्पष्टोर्थः । 2 वीणावाहक इत्येवोचितः पाठः । पाटा० -१ कुटिल, २ आलोक्य. ३ समुपविष्टश्च. तत्र. ४ आलम्बित. ५ सतत. ६ वीणावाहकः. कादम्बर्याः प्रतिसदेशः । पूर्वभागः ।) 375 Page #389 -------------------------------------------------------------------------- ________________ दत्तकण्ठग्रहा त्वां विज्ञापयति - 'यदियमागत्य मामवदत्तरलिका तत्कथय किमयं गुरुजनानुरोधः, किमिदं मच्चित्तपरीक्षणम्, किं गृहनिवासापराधनिपुणोलम्भः, किं प्रेमविच्छेदार्भिलापः, किं भक्तजनपरित्यागोपायः, किं वा प्रकोपः । जानास्येव मे सहजप्रेमनिस्यन्दनिर्भरं हृदयम्, एवमतिनिष्ठुरं संदिशन्ती कथमसि न लज्जिता । तथा मधुरभाषिणी केनासि शिक्षिता वक्तुमप्रियं परुषमभिधातुं वा । स्वस्थोऽपि तावत्क इव सहृदयः कनीयस्यवसानविरसे कर्मणीदृशे मतिमुपसर्पयेत्, किमुतातिदुःखाभिहतहृदयोऽस्मद्विधो जनः । सुहृदुःखखेदिते हि मनसि कैव सुखाशा, कैव निर्वृतिः, कीदृशाः संभोगाः, कानि वा हसितानि । येनेदृशी दशामुपनीता प्रियसखी, कथमतिदारुणं तमहं विषमिवाप्रियकारिणं कामं सकामं कुर्याम् । दिवसकरास्तमैयविधुरासु नलिनीषु सहवासपरिचयाच्चक्रवाकयुवतिरपि पतिसमागमसुखानि त्यजति, किमुत नार्यः । यत्र भर्तृविरहविधुरा परिहतपरपुरुषदर्शना दिवानिशं निवसति प्रियसखी, कथमिव तन्मम हृदयमपरः प्रविशेज्जनः । यत्र च भर्तृविरहविधुरा - *********** महाश्वेते, देवी कादम्बरी दृढं दत्तः कण्ठग्रहो यया सा । कृतालिङ्गनेत्यर्थः । त्वां विज्ञापयति विज्ञप्तिं करोति । किं विज्ञप्तिं कृतवतीत्याह - यदियमिति । इयं तरलिका मामागत्यैत्य यदवददवोचत्तत्कथय ब्रूहि - किमयं गुरुजनानुरोधः किं गुरुजनपारवश्यम् । किमिदं मच्चित्तस्य मन्मनसः परीक्षणं परीक्षाकरणम् । किं गृहनिवासलक्षणो योऽपराध आगस्तस्य निपुणो योग्योऽयमुपालम्भः । किं प्रेमविच्छेदार्थं स्नेहनिवृत्त्यै अयमभिलापः संलापः । किं भक्तजनस्य सेवकजनस्य परित्याग उपायः प्रपञ्चः । किंवा प्रकोप प्रतिघा । सहज स्वाभाविक यत्प्रेम तस्य निस्यन्दो रसस्तेन निर्भर हृदयं मे मम जानास्येव ज्ञास्यस्येव । एवं अतिनिष्ठुरमतिपरुषं संदिशन्ती कथयन्ती कथं न लज्जितासि । तथा त्वं मधुरभाषिणी सत्यप्रियमनिष्टं वक्तुं जल्पितुं परुषं कठिनमभिधातुं कथयितुं केन पुंसा त्वं शिक्षितासि हितोपदेशविषयीकृतासि । स्वास्थ्यवशादेतादृशी मतिरुत्पद्यत इत्यभिप्रायेणाह - स्वस्थोपीति । स्वास्थ्यवानपि तावदादौ सहृदयः पण्डितः कनीयसि लघीयसीदृशेऽवसानविरसे प्रान्तदुःखदे कर्मणिक्रियायां क इव को जनो मतिं बुद्धिमुपसर्पयेत् । अस्वस्थानां तु दूरत आस्थेत्याह - किमुतेति । अतिदुःखेनाभिहतं हृदयं यस्यैवंभूतोऽस्मद्विधो जनः किमुत कथ्यते । सर्वथा तत्कर्मणि न प्रवर्तत इत्यर्थः । हीति निश्चितम् । सुहृदुःखखेदिते मित्रदुःखाभिभूते मनसि कैव सुखाशा कः सौख्याभिलाषः । कैव निर्वृतिर्मनःसंतुष्टिः । संभोगा इन्द्रियार्थाः कीदृशाः किंस्वरूपाः । हसितानि स्मितानि कानि च कीदृशानि । येन कामेन प्रियसखीदृशी दशामवस्थामुपनीता प्रापिता तं विषमिवाप्रियकारिणमनिष्टविधायिनमतिदारुणमतिभीषणं कथं कामं सकामं साभिलाषं कुर्याम् । प्रणयसखीदुःखेन स्वस्मिन्दुःखवत्त्वं निदर्शयन्नाह - दिवसेति । दिवसकरस्य सूर्यस्यास्तमयेन परद्वीपान्तरगमनेन विधुरासु दुःखितासु नलिनीषु कमलिनीषु सत्सु सहवासपरिचयाच्चक्रवाकयुवतिरपि द्वन्द्धचरवनितापि पतिसमागमसुखानि भर्तृसंयोगसौख्यानि त्यजति जहाति, तर्हि नार्योऽपि योषितोऽपि किमुत वाच्याः । न किमपि कथनीया इत्यर्थः । यत्रेति । यत्र हृदये भर्तुविरहेण विधुरा दुःखिता परिहतं परित्यक्तं परपुरुषाणामपरपुंसां दर्शनं वीक्षणं यया सैवंविधा प्रियसखी महाधेता दिवानिशमहोरात्रं निवसत्यधितिष्ठति तन्मम हृदयमपर इतरः प्राकृतो जनः कथमिव प्रविशेत्कथं प्रवेशं कुर्यात् । यत्र चेति । यत्र यस्मिन्समये भर्तुः पत्युविरहेण वियोगेन विधुरा दुःखिता व्रतेन नियमेन कर्शितं कृशता नीतमङ्गं शरीरं यया सैवंविधा प्रिय - टिप्प० - 1 कामं कथं सकामं कुर्यामित्यन्वयः । 2 सतीषु, इति तात्पर्यम्, । 3 अनधिकारो भाषायाम् । नार्यस्तु इत्युचितम् । पाठा० - १ गुरुजनवचनानुरोधः. २ अभिलाषः. ३ अस्तमन. ४ समागम. ५ परित्यजति. ६ अपि च यत्र. (376 कादम्बरी। कथायाम् Page #390 -------------------------------------------------------------------------- ________________ व्रतकर्शिताङ्गी प्रियसखी महत्कृच्छ्रमनुभवति, तत्राहमवगणय्यैतत्कथमात्मसुखार्थिनी पाणिं ग्राहयिष्यामि । कथं वा मम सुखं भविष्यति । त्वत्प्रेम्णा चास्मिन्वस्तुनि कुमारिकाजनविरुद्धं स्वातन्त्र्यमालम्ब्याङ्गीकृतमपैयशः, समवधीरितो विनयः, गुरुवचनमतिक्रामितम्, न गणितो लोकापवादः, वनिताजनस्य सहजमाभरणमुत्सृष्टा लज्जा, सा कथय कथमिव पुनरत्र प्रवर्तते । तदयमञ्जलिरुपरचितः, प्रणामोऽयम्, इदं च पादग्रहणम्, अनुगृहाण माम्, वनमितो गतासि मे जीवितेन सहेति मा कृथाः स्वप्नेऽपि पुनरिममर्थं मनसि' इत्यभिधाय तूष्णीमभूत् । महाश्वेता तु तच्छ्रुत्वा सुचिरं विचार्य, ‘गच्छ स्वयमेवाहमागत्य यथार्हमाचरिष्यामि' इत्युक्त्वा केयूरक प्राहिणोत् । गते च केयूरके चन्द्रापीडमुवाच - ‘राजपुत्र, रमणीयो हेमकूटः, चित्रा च चित्ररथराजधानी, बहुकुतूहलः किंपुरुषविषयः, पेशलो गन्धर्वलोकः, सरलहृदया महानुभावा च कादम्बरी । यदि नातिखेदकरमिव गमनं कलयसि, नावसीदति वा गुरुप्रयोजनम्, अदृ - *********** सखी महत्कृच्छ्रे कष्टमनुभवत्यनुभवविषयी करोति, तत्र तस्मिन्समयेऽहं प्रियसख्यतेढुःखमवगणय्यावगणनां कृत्वात्मसुखार्थिनी स्वस्य सुखाभिलाषिणी कथं पाणिं कर ग्राहयिष्यामि ग्रहणं कारयिष्यामि । एवं सत्यनुष्ठिते पाणिग्रहे न स्वेष्टसिद्धिरित्यत आह - कथमिति । वेति पक्षान्तरे । कथं मम सुखं भविष्यति । इष्टविरहव्याकुलचित्तत्वे न सुखमिति भावः । अथ त्वया साकं यत्प्रेम तदपि न भविष्यति । 'ईषिते ईषितं चेत्स्यात्तदा प्रेम प्रवर्तते इति न्यायात् । अतस्त्वत्प्रेरणा त्वत्स्नेहेनास्मिन्वस्तुनि पाणिग्रहणविषये मया कुमारिकाजनविरुद्धं स्वातन्त्र्यं स्वेच्छाचारित्वमालम्ब्यापयशोऽपकीर्तिरङ्गीकृतं स्वीकृतम् । पित्रादिभिः पाणिग्रहणं कार्यमाणापि पितुराज्ञाऽकरणमित्यपयशः । समवधीरितस्तिरस्कृतो विनयः । गुरुवचनं पित्रादीनां वचोऽतिक्रामितमुल्लचितम् । तथा लोकापवादो जनापवादो न गणितो न विचारितः । वनिताजनस्य स्त्रीजनस्य सहज स्वाभाविकमाभरणं भूषणं लज्जा त्रपा सा चोत्सृष्टा त्यक्ता । कथय प्रतिपादय एतादृशो जनः कथमिव पुनरत्रास्मिन्कर्मणि प्रवर्तते प्रवृत्तिं करोति । उपसंहरति - तदिति हेत्वर्थे । अयमञ्जलिरुपरचितो निबद्धः । अयं च प्रणामो नमस्कारः । इदं च पादग्रहणमभिवादनम् । इति हेतोर्मामनुगृहाणानुग्रहं कुरु । इतो मत्समीपान्मे मम जीवितेन प्राणितेन सह वनं गतासि प्राप्तासि इति स्वप्नेऽपि स्वप्नावस्थायामपि पुनर्वितीयवारमिमं पूर्वोक्तमर्थं मनसि चित्ते मा कृथा मा व्यधिष्ठाः । इत्यभिधायेत्युक्त्वा तूष्णीमभून्मौनं कृतवती । महाश्वेता तु तत्पूर्वोक्तं श्रुत्वाकर्ण्य सुचिरं चिरकालं यावत् विचार्य विमृश्य त्वं गच्छ व्रज स्वयमेवात्मनैव । अहमागत्य यथार्ह यथायोग्यमाचरिष्यामीत्युक्त्वा केयूरक प्राहिणोत्प्रेषितवती । गते केयूरके चन्द्रापीडमुवाचाब्रवीत् । किं तदित्याह - राजपुत्रेति । हे राजपुत्र नृपसूनो, अयं हेमकूटो रमणीयो मनोहरः । चित्ररथो गन्धर्वनाथस्तस्य राजधानी नृपनिवासनगरी चित्रा विविधाश्चर्ययुक्ता । बहून्यनेकानि कुतूहलान्याश्चर्याणि यस्मिन्नेवंविधः किंपुरुषाणां किनराणां विषयो देशः । गन्धर्वलोको देवगायनजनः पेशलः सुन्दरः । ‘पेशलं हृद्यसुन्दरे' इति कोषः । सरलहृदयाऽकुटिलचित्ता महानुभावा च कादम्बरी भर्तृदारिका । यदीति प्रत्येकमभिसंबध्यते । नातिखेदकरमिव नातिप्रयासजनकमिव गमनं यानं कलयसि जानासि । वेति विकल्पार्थे । गुरुप्रयोजनं महानर्थो नावसीदति न विलम्बितो भवति । वेति पूर्ववत् । - - - - - - - - - - - - - - - - - - टिप्प०- 1 अतिक्रान्तमित्यपि पाठः । 2 आवश्यक कार्यमित्याशयः । - - - - - - - - - - पाठा० - १ तीव्रत. २ वस्तुनि मया. ३ अयशः. कादम्बर्याः प्रतिसदेशः पूर्वभागः । 377 Page #391 -------------------------------------------------------------------------- ________________ एटचरविषयकुतूहलि वा चेतः, मवचनमनुरुध्यते वा भवान्, अतिसुखदायि वाश्चर्यदर्शनम्, अर्हसि वा प्रणयम्, इममप्रत्याख्यानयोग्य वा जनं मन्यसे, समारूढो वा परिचयलेशः, अनुग्राह्यो वायं जनः, ततो नार्हसि निष्फलां कर्तुमभ्यर्थनामिमाम् । इतो मयैव सह गत्वा हेमकूटमतिरमणीयतानिधानम्, तत्र दृष्ट्वा च मनिर्विशेषां कादम्बरीम्, अपनीय तस्याः कुमतिमनोमोहविलसितम् एकमहो विश्रम्य श्वोभूते प्रत्यागमिष्यसि । मम हि निष्कारणबान्धवं भवन्तमालोक्यैव दुःखान्धकारभाराक्रान्तेन महतः कालादुच्छसितमिव चेतसा । श्रावयित्वा स्ववृत्तान्तमिमं सह्यतामिव गतः शोकः । दुःखितमपि जनं रमयन्ति सज्जनसमागमाः । परसुखोपपादनपराधीनश्च भवादृशां गुणोदयः' इत्युक्तवतीं चैनां चन्द्रापीडोऽब्रवीत् - 'भगवती, दर्शनात्प्रभृति परवानयं जनः कर्तव्येषु यथेष्टमशङ्किततया नियुज्यताम्' इत्यभिधाय तया सहैवोदचलत् । *********** अदृष्टचरोऽनवलोकितपूर्वो यो विषयो देशस्तत्र कुतूहलं विद्यते यस्यैवभूतं यदि चेतः । वाथवा भवान्मद्वचनं मद्वाक्यमनुरुध्यते समीहते । अनुपूर्वको रुध् दिवादिरिच्छार्थः । वेति पक्षान्तरे । यद्यतिसुखदाय्यतिशयेन सौख्यप्रदमाश्चर्यदर्शनं कुतूहलावलोकनम् । वेति पूर्ववत् । अर्हसि वाञ्छसि यदि प्रणयं स्नेहम् । इमं मल्लक्षणं जनमप्रत्याख्यानयोग्यमनिराकरणयोग्यं वा मन्यसे जानासि । समारूढः प्राप्तो वा परिचयलेशः संस्तवलवः । अनुग्राह्यो वानुग्रहयोग्यो वायं जनः । ततस्तस्माद्धेतोर्निष्फलां रिक्तामिमामभ्यर्थना कर्तुं विधातुं नार्हसि न योग्यो भवसि । इतोऽस्मात्स्थानान्मयैव सह अतिरमणीयतानिधानं चारुताशेवधि हेमकूटं गत्वा । तत्रेति । तस्मिन्स्थले मत्तो निर्गतो विशेषो यस्याम् । मत्सदृशीमित्यर्थः, एतादृशी कादम्बरी दृष्ट्वा विलोक्य च । तस्याः कादम्बर्याः कुत्सिता मतिर्यस्मादेवंविधो यो मनोमोहश्चेतसोऽज्ञानं तस्य विलसितं चेष्टितमपनीय दूरीकृत्यैकमहर्दिनं विश्रम्य विश्राम गृहीत्वा । श्वोभूत इति । श्व आगामिदिने तस्मिन्भूते जाते सति प्रत्यागमिष्यसि पश्चादायास्यसि । ममेति । हीति निश्चितम् । मम निष्कारणबान्धवं निमित्तव्यतिरेकेण स्वजनं भ्रातरं वा भवन्तं त्वामालोक्यैव निरीक्ष्यैव दुःखमेवान्धकारं तिमिरं तस्य भारो वीवधस्तेनाक्रान्तेन व्याप्तेन चेतसा चित्तेन महतः कालाच्चिरसमयादुच्छसितमिव गृहीतश्वासमिव । इमं स्ववृत्तान्तं स्वकीयोदन्तं श्रावयित्वा कथयित्वा । सोढुं शक्यः सह्यस्तस्य भावस्तत्ता तामिव गतः प्राप्तः शोकः । श्रावणेन स शोको जीर्णतां प्राप्त इत्यर्थः । तत्रोपपादकमाह - दुःखितमपीति । सज्जनसमागमाः दुःखितमपि जनं रमयन्ति विनोदयन्ति । अत्रार्थे हेतमाह - परेति । परस्यान्यस्य यत्सखं तस्य यदपपादनं तत्र पराधीनः परायत्तः । तन्निमित्तक इति यावत । भवादश त्वत्सदृशानां गुणोदयो गुणाः शौर्यादयस्तेषामभ्युदय इति पूर्वोक्तप्रकारेणोक्तवतीं कथितवती चन्द्रापीडोऽब्रवीदवोचत् । हे भगवति, दर्शनात्प्रभृत्यवलोकनदिनादारभ्य परवान्पराधीनः । त्वदायत्त इति यावत् । अयं जनः । कर्तव्येषु कार्येषु यथेष्टमशङ्किततया शङ्काराहित्यतया भवत्या नियुज्यतां प्रेर्यतामित्यभिधायेत्युक्त्वा तया महाश्वेतया सहोदचलत्प्रस्थानमकरोत् । - - - - - - - - - - - - - - - - - - - -- - - - -- टिप्प० -1 रक्षितुमिच्छति, इत्यर्थ उचितः । 2 यदि आश्चर्यदर्शनम् अतिसुखदायि (अस्ति), इत्यन्चयो योग्यः । 2 चित्तेन गृहीतश्वासमिवेति योजयतो वरमेतादृशी योजना । चित्तेन उच्छसितमिव चित्तेन प्राणितमिव । एतावत्कालं चित्तं मृतमिवासीत्, इदानीं तेन उच्छ्रासो गृहीत इति तात्पर्यम् । चित्तमुच्छसितमिवेति प्रकारान्तरम् । 4 चन्द्रापीडस्य रूपादिगुणानालोक्य कादम्बरी मुग्धा स्यादिति तद्विवाहेन तस्याः सुखं स्यादिति निगूढसूचना । पाठा० - १ अस्मद्वचनम्. २ भवन्मतिरतिदुःखदायि; भवन्मतिः सुखदायि. ३ वास्मच्चिरदर्शनम्. ४ अर्हामि. ५ योग्यां वा मन्यसे माम्. ६ मयैव. ७ कुमतिमिमाम्. ८ च. 378 कादम्बरी। कथायाम् Page #392 -------------------------------------------------------------------------- ________________ क्रमेण च गत्वा हेमकूटमासाद्य गन्धर्वराजकुलं समतीत्य काञ्चनतोरणानि सप्तकक्षान्तराणि कन्यान्तःपुरद्वारमवाप । महाश्वेतादर्शनप्रधावितेन दूरादेव कृतप्रणामेन कनकवेत्रलताहस्तेन प्रतीहारजनेनोपदिश्यमानमार्गः प्रविश्यासख्येयनारीशतसहस्त्रसंबोध स्त्रीमयमपरमिव जीवलोकम्, इयत्तां ग्रहीतुमेकत्र त्रैलोक्यस्त्रैणमिव संहृतम्, अपुरुषमिव सर्गान्तरम्, अङ्गनाद्वीपमिवापूर्वमुत्पन्नम्, पञ्चममिव नारीयुगावतारम् अपरमिव पुरुषद्वेषिप्रजापतिनिर्माणम्, अनेककल्पकल्पनार्थमुत्पाद्य स्थापितमिवाङ्गनाकोशम्, अतिस्तारिणा युवतिजनलावण्यप्रभापूरेण प्लावितदिगन्तरेण सिञ्चतेवामृतरसविसरेण दिवसमार्दीकुर्वतेव भुवनान्तरालं बहुलप्रभावर्षिणा मरकतमणिमयेन सर्वतः परिगततया तेजोमयमिव चन्द्र *********** क्रमेण परिपाट्या गत्वा च हेमकूटं गन्धर्वराजकुलमासाद्य प्राप्य काञ्चनस्य सुवर्णस्य तोरणानि बहिाराणि येष्वेवंविधानि सप्तकक्षान्तराणि गृहान्तराणि समतीत्य व्यतिक्रम्य कन्यानां यदन्तःपुरं तस्य द्वारयाप प्राप्तवान् तदनन्तरं कुमारः कुमारीपुराभ्यन्तरं ददर्शक्षाचक्रे । किंविशिष्टः कुमारः । महाश्वेताया दर्शनार्थमवलोकनार्थं प्रधावितेनोच्चलितेन दूरादेव कृतप्रणामेन कनकवेत्रलता हस्ते यस्यैवभूतेन प्रतीहारजनेन द्वारपालकलोकेनोपदिश्यमानो वचनव्यक्त्या प्रोच्यमानो मार्गः पन्था यस्य सः । किं कृत्वा । प्रविश्य प्रवेशं कृत्वा । इतः कुमारीपुराभ्यन्तरं विशेषयनाह - असंख्येति । असंख्येयानि गणनावर्जितानि नारीणां स्त्रीणां शतसहस्त्राणि लक्षाणि तैः संबाधं संकीर्णं स्त्रीमयमपरं भिन्नं जीवलोकमिव । इयत्तेति । इयत्तामेतावत्यो नार्यः सन्तीति संख्यां ग्रहीतुं त्रैलोक्यस्त्रैणं त्रिभुवनस्त्रीवृन्दमेकस्मिन्स्थले संहृतमिव संगृहीतमिव । केवलाङ्गनानामेव सद्भावं प्रदर्शयन्नाह - अपुरुषेति । अपुरुषं पुरुषवर्जितं सर्गान्तरमिव सृष्ट्यन्तरमिव । तासामेव विपुलाश्रयत्वादाह - अङ्गनेति । अपूर्वमभिनवमुत्पन्नमङ्गनाद्वीपमिव स्त्रीणामन्तरीपमिव । पञ्चममिति । नारीप्रधानं ययुगं तस्य पञ्चममवतारमिव । अपरमिति । पुरुषे द्वेषो विद्यते यस्यैवंभूतो यः प्रजापतिर्बहाा तस्यापरमन्यनिर्माणमिव । पुरुषद्वेषिविशेषणेन केवलं स्त्रीनिर्माणकर्तृत्वमेव सूचितम् । अनेकेति । अनेके ये कल्पा युगान्तास्तत्र कल्पना रचना । स्त्रीणामिति शेषः । तदर्थमङ्गनाकोश स्त्रीभाण्डागारमुत्पाद्य विधाय स्थापितमिव रक्षितमिव । एतेन युगान्तरे स्त्रीनिर्माणप्रयासाभाव इति सूचितम् । पुनः कीदृशम् । अतिविस्तारिणा युवतिजनानां लावण्यं सौन्दर्यातिशयस्तस्य या प्रभा कान्तिस्तस्याः पूर उत्कर्षस्तेन । अथ च बहुला या प्रभा कान्तिस्तद्वर्षिणा मरकतमणिमयेनाश्मगर्भमणिप्रचुरेण अर्थान्निर्माणेन सर्वतः समन्तात्परिगततया व्याप्ततया तेजोमयमिव कान्तिसमूहमयमिव । अथ युवतिलावण्यं विशेषयन्नाह - अमृतेति । अमृतरसस्य पीयूषद्रवस्य यो विसरः समूहस्तेन दिवसं दिनं सिञ्चतेव सेकक्रियां कुर्वतेव, प्लावितं क्षालितं दिगन्तरं येन तेन । किं कुर्वता । लावण्यप्रभापूरेण भुवनान्तरालं विष्टपान्तरालमार्दीकुर्वतेवाशुष्कतां विदधतेव । अत्र च मरकतमणेः श्यामत्वे लावण्यप्रभापूरस्य च पाण्डुरत्वे क्रम विहाय यथोचितमुत्प्रेक्षते - चन्द्रेति । चन्द्रमण्डलसहसैनिर्मितं रचितं संस्थानमा - - - - - -- - टिप्प० - 1 सत्यादीनि चत्वारि युगानि तु सन्त्येव येषामवतारः (प्रवर्तनम्)सुपरिचितः, किन्तु अभिनवः सोयं पञ्चमो नारीयुगावतार इत्याशयः । 2 'युवतिजनलावण्य विशेषयन्नाह' इति प्रतिज्ञाय पुनस्तत्र 'लावण्यप्रभापूरेणे'त्यादि विशेषयन् न जायते काव्यस्पष्टीकरणम् । अतः सेयं योजना-अतिविस्तारिणा प्लावितदिगन्तरेण, (अत एव) अमृतरसविसरेण (करणेन) अर्थात् पीयूषद्रवप्रवाहद्वारा दिवसं सिञ्चतेव तथा अमृतरसप्रवाहद्वारा भुवनान्तरालमार्दीकुर्वतेव ईदृशेन युवतिजनलावण्यप्रभापूरेण (का), तथा बहुलप्रभावर्षिणा मरकतमणिमयेन (आभरणेन, कर्ना) सर्वतः परिगततया तेजोमयमिव । अयं भावः - कन्यान्तःपुरम् अतिविस्तार्यादिविशेषणविशिष्टेन युवतिजनलावण्यप्रभापूरेण व्याप्तं तथा मरकतमयभूषणेन च व्याप्तम् । अत एव तेजोमयमिवेत्युत्प्रेक्षा । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ द्वारपालप्रतीहारी. २ संबाधः. ३ संगृहीतम्. ४ बहल. ५ भूषणेनेव सर्वतः. कादम्बरीभवनप्राप्तिः पूर्वभागः । 379 Page #393 -------------------------------------------------------------------------- ________________ मण्डलसहसैरिव निर्मितसंस्थानम्, ज्योत्स्नयेव घटितसंनिवेशम्, आभरणप्रभाभिरिव निष्पादितदिगन्तरम्, विभ्रमैरिव कृतसर्वोपकरणम्, यौवनविलासैरिवोत्पादितावयवम्, रतिविलसितैरिव रचितसंचयम्, मन्मथाचरितैरिव कल्पितावकाशम्, अनुरागेणेवानुलिप्तसकलजनप्रेवेशम्, श्रृङ्गारमयमिव, सौन्दर्यमयमिव, सुरताधिदैवतमयमिव, कुसुमशरमयमिव, कुतूहलमयमिव, आश्चर्यमयमिव, सौकुमार्यमयमिव, कुमारः कुमारीपुराभ्यन्तरं ददर्श । अतिबहलतया च तस्य कन्यकाजनस्य समन्तादाननद्युतिभिरिन्दुबिम्बवृष्टिमिव पतन्तीम्, अपाङ्गविक्षेपैश्चलितकुवलयवनमयीमिव क्रियमाणामवनीम्, अतिनिभृतभ्रूलताविभ्रमैः कामकार्मुकबलानीव प्रचलितानि, शिरसिजकलापान्धकारैर्बहुलपक्षप्रदोषसार्थानिव संबध्नतः, स्मितप्रभाभिरुत्फुल्लकुसुमधवलानिव वसन्तदिवसान्संचरतः, श्वसितानिलपरिमलैर्मलयमारुतानिव परिभ्रमतः, कपोलमण्डलालोकर्माणिक्यदर्पणसहसाणीव स्फुरितानि, करतलरागेण - *********** कृतविशेषो यस्यैतादृशमिव । श्यामतासाम्यादिति भावः । पाण्डुरत्वेनाह - ज्योत्स्नयेति । ज्योत्स्नया चन्द्रिकया घटितो निर्मितः संनिवेशः संस्थानं यस्य स एतादृशमिव । अमृतरसविश्रुतेर्वा साम्यम् । आभरणेति । आभरणप्रभाभिभूषणकान्तिभिर्निष्पादितं दिगन्तरं दिगवकाश यस्मिनेतादृशमिव । एतेनाभरणानामतिशयो योतितः । विभ्रमैरिति । विभ्रमैपूँसमुद्भवैः कृतं सर्वोपकरणं सर्वा सामग्री यस्मिन्नेतादृशमिव । यौवनेति । यौवनविलासैस्तारुण्यविलसितैरुत्पादिता अवयवा यस्मिन्नेतादृशमिव । रतीति । रतिः कामयोषित्तद्विलसितै रचितः संचयः समूहो यस्मिन्नेतादृशमिव । मन्मथेति । मन्मथाचरितैः कंदर्पाचरणैः कल्पितोऽवकाशोऽवगाहो यस्मिन्नेतादृशमिव । अन्विति । अनुरागेण प्रीत्यानुलिप्तः सकलजनप्रवेशो यस्मिन्नेवभूतमिव । श्रृङ्गारमयमिव संभोगमयमिव सौन्दर्यमयमिव सुरूपतामयमिव । सुरताधिदैवतमयमिव मैथुनाधिष्ठात्रीमयमिव । कुसुमशरमयमिव कंदर्पबाणमयमिव । कुतूहलमयमिव कौतुकमयमिव । सौकुमार्यमयमिव मार्दवमयमिव । चन्द्रापीडस्तस्मिन्कुमारीपुराभ्यन्तर एतान्यद्राक्षीत् तान्येवाह - अतीति । तस्य कन्यकाजनस्यातिबहलतयातिबाहुल्यतया समन्तादाननयुतिभिर्मुखकान्तिभिः कृत्वा पतन्ती क्षरन्तीमिन्दुबिम्बवृष्टिमिव चन्द्रमण्डलवर्षणमिव । अत्र मुखे तत्तदतिशयो व्यङ्ग्यः । अपाङ्गेति । अपाङ्गविक्षेपैः कटाक्षैश्चलितं कम्पितं यत्कुवलयवनमुत्पलखण्डं तन्मयीमवनी पृथ्वी क्रियमाणामिव । प्रबलेन दुर्बलस्योच्चालनं संभवतीति कुमुदातिशयोऽपाङ्गेषु द्योत्यते । अतीति । अतिनिभृता निश्चला ये भ्रूलताविभ्रमास्तैः प्रचलितानि गन्तुं प्रवृत्तानि कामकार्मुकस्य कन्दर्पचापस्य बलानीवोत्कर्षरूपाणीव । अत्र वक्रत्वसाम्यादुपमानोपमेयभावः । शिरसीति । शिरसिजाः केशास्तेषां कलापाः समुदायास्तद्रूपाण्यन्धकाराणि तैर्बहुलपक्षाणां कृष्णपक्षाणां प्रदोषसार्थान्यामिनीमुखसमूहान्संबध्नत इव संग्रथ्नत इव । एतेन केशकलापेषु श्यामतातिशयो द्योत्यते । स्मितेति । स्मितं हास्यं तस्य प्रभाभिः कान्तिभिरुत्फुलकुसुमधवलान्वसन्तदिवसान्संचरत इव व्रजत इव । श्वसितेति । वसितानिलस्य वासवायोः परिमलैरामोदैर्मलयमारुतान्परिभ्रमत इव संचरत इव । कपोलेति । गल्लात्परप्रदेशाः कपोलास्तेषां मण्डलं समूहस्तस्यालौकेः प्रकाशैः स्फुरितानि माणिक्यदर्पणसहसाणीव रत्नादर्शदशशतानीव । एतेन कपोलयोः स्वच्छतातिशयो दर्शितः । करेति । करतलरागेण रक्तकमलवनवर्षिणं जीवलोकमिव । कररुहा नखास्तेषां स्फुरणेन - - - - - - - - - -- टिप्प० -1 विलासैः । 2 अविचारितार्थोयं पाठः । 'अनुलिप्तसकलजनप्रदेशम्' इत्येव पाठः । प्रदेशस्यैव अनुलेपार्हत्वात् । 3 बलानीति पाठो लिपिकृता भ्रान्तीकृतः । 'कामकार्मुकविलासशतानि' इत्येव पाठः । भृकुटीनामेव कार्मुकेण साकं तुलनौचित्यात् । - - - - - - - - - - - - - - - पाटा० - १ विरचित. २ प्रदेशम्. ३ प्रेममयमिव, कुमारः. ४ अनिभृत. ५ शतानि; विलासशता. ६ केशनि. 380 कादम्बरी। कथायाम Page #394 -------------------------------------------------------------------------- ________________ रक्तकमलवनवर्षिणमिव जीवलोकम् करसहस्फुरणेन कुसुमायुधशरसहसैरिव संच्छादितदिगन्तराणि, आभरणकिरणेन्द्रायुधजालकैरुड्डीयमानानीव भवनमयूरवृन्दानि, यौवनविकारैरूत्पाद्यमानानीव मन्मथसहस्त्राण्यद्राक्षीत् । उचितव्यापारव्यपदेशेन कुमारिकाणां सखी हस्तावलम्बेषु पाणिग्रहणानि, वेणुवाद्येषु चुम्बनव्यतिकरान्, वीणासु कररुहव्यापारान्, कन्दुकक्रीडासु करतलप्रहारान्, भुवनलतासेककलशकण्ठेषु भुजलतापरिष्वङ्गान्, लीलादोलाषु नितम्बस्तनप्रेलितानि, ताम्बूलवीटिकावखण्डनेषु दशनोपचारान्, बँकुलविटपेषु मधुगण्डूषप्रचारान्, अशोकतरुताउनेषु चरणाभिघातान्, उपहारकुसुमस्खलनेषु सीत्कारानतिरिक्त सुरतमिवाभ्यस्यन्तीनामपश्यत् । यत्र च कन्यकाजनस्य कपोलतलालोक एव मुखप्रक्षालनम्, लोचनान्येव कर्णोत्पलानि, हसितच्छवय एवाङ्गरागाः, निश्वासा एवाधिवासगन्धयुक्तयः, अधरद्युतिरेव कुंकुममुखानु - *********** विद्योतनेन कुसुमायुधशरसहसैः संच्छादितदिगन्तराण्याच्छादितककुबन्तराणि । आभरणेति । आभरणकिरणान्येवेन्द्रायुधजालकानि तैरुड्डीयमानानीव व्योम्नि व्रजमानानीव भवनमयूरवृन्दानि गृहकलापिमण्डलानि । यौवनेति । यौवनविकारैस्तारुण्यविकृतिभिरुत्पाद्यमानानीव विधीयमानानीव मन्मथसहसाणि मनोभवसहसाणि । उचितेति । उचितो योग्यो यो व्यापारस्तद्व्यपदेशेन तन्मिषेण कुमारिकाणामतिरिक्तमद्भुतं सुरतं मैथुनमभ्यस्यन्तीनामिवाभ्यासं कुर्वन्तीनामिव तत्तदपश्यत् । तत्र सुरतसाधर्म्यमाह - सखीति । सखीनामालीनां हस्तावलम्बेषु करावलम्बेषु पाणिग्रहणानि हस्तगूहनानि । वेणुवाद्येषु वंशातोयेषु चुम्बनव्यतिकरान्मुखस्पर्शनवृत्तान्तान् । वीणासु वल्लकीषु कररुहव्यापारानखरव्यवहारान् । कन्दुकक्रीडास्वन्दुकलीलासु करतलप्रहारान्हस्ततलप्रघातान् । भुवनेति । भुवनलतानां गृहवल्लीना सेकार्थं कलशकण्ठेषु कुम्भनिगरणेषु भुजलतापरिष्वङ्गान्बाहुवल्ल्यालिङ्गनान् । लीलादोलासु क्रीडाप्रेवासु नितम्ब आरोहः स्तनाः कुचास्तेषां प्रेङ्खितानि धुतानि । ताम्बूलेति । ताम्बूलस्य नागवल्लया वीटिकाः प्रसिद्धास्तासां अवखण्डनेषु शकलीकरणेषु दशनोपचारान्दन्तक्षतान् । बकुलेति । बकुलविटपेषु केसरवृक्षेषु मधु मयं तस्य गण्डूषप्रचारांश्चुलुकप्रवृत्तीः । अशोकेति । अशोकतरूणां कङ्केल्लिवृक्षाणां ताडनेषु चरणाभिधातान्पादप्रहारान् । उपेति । मुक्तादीनां हारः, पुष्पादीनामुपहारः, तस्मात्कुसुमादीनां स्खलनानि पतनानि तेषु सीत्कारान्सूक्ष्मध्वनिविशेषा शब्दान । दश्यते हि हारात्पष्पच्यतिसमये तथा ध्वनिः । अथवोपहारकसमानां स्खलितानि कमारीशरीरावयवेष सीत्कारो वेदनातिशयद्योतको दृढदन्तसंयोगनिमित्तो ध्वनिः । अनेन कुमारीणां कुसुमपातमात्रेण सीत्कार इति सौकुमार्यातिशयो व्यज्यते । यत्र चेति । यत्र कन्यान्तःपुरे कन्यकाजनस्य कपोलतलस्यालोक एव प्रकाश एव मुखं वक्त्रं तस्य प्रक्षालनं धावनम् । अत्र स्वच्छत्वकरणसाम्येन जलालोकयोरुपमानोपमेयभावः । कर्णान्तत्वरूपव्यङ्ग्यसाम्येनाह - लोचनेति । लोचनान्येव नेत्राण्येव कर्णोत्पलानि कर्णावतंसानि । पाण्डुरत्वसाम्येनाह - हसितेति । हसितं स्मितं तस्य छवयः कान्तय एवाङ्गरागा विलेपनानि । निश्वासेति । निश्वासाः पवनास्त एवाधिवासे वस्त्रादीनां संस्कारकरणे गन्धयक्तयः सगन्धीकरणप्रकाराः । रक्तत्वसाम्येनाह - अधरेति । - टिप्प० - 1 'संछादितानि दिगन्तराणि' इत्यपि पाठः । 2 भवनलतानामित्येव पाठ उचितः । 3 उपहाराय गृहभूतलानां शोभासंपादनाय यानि पुष्पाणि (रचनारूपेण विन्यस्तानि) तेषु स्खलनेषु, अर्थात् पुष्पमध्ये चरणस्खलनेन स्त्रियो भूतलपातभयात् 'सीत्कारन् कुर्वन्तीति तासां सौन्दर्यातिशयो द्योत्यते । - - - - - - - - - - - - पाठा० - १ कररुहकिरण. २ संच्छादितमष्टदिगन्तरम्. ३ किरणनिकर. ४ क्रीडासु. ५ भवन. ६ स्थल. ७ वीटिकाखण्डनेषु. ८ बकुलकुसुमदोहदेषु सीधुगण्डूषप्रदानानि. ९ कुकुमानुलेपनम्. (कुमारीपुरस्य वृत्तान्तः पूर्वभागः । 381 Page #395 -------------------------------------------------------------------------- ________________ लेपनम्, आलापा एव तन्त्रीनिनादाः, भुजलता एव चम्पकवैकक्ष्यमालाः, करतलान्येव लीलाकमलानि, स्तना एव दर्पणाः, निजदेहप्रभैवांशुकावगुण्ठनम् जघनस्थलान्येव विलासमणिशिलातलानि, कोमलाङ्गुलिराग एव चरणालक्तरसः, नखमणिमरीचय एव कुट्टिमोपहारकुसुमप्रकाराः । अत्र चालक्तरसोऽपि चरणातिभारः, बकुलमालिकामेखलाकलनमपि गमनविघ्नकरम्, अङ्गरागगौरवमप्यधिकश्वासनिमित्तम्, अंशुकभारोऽपि ग्लानिकारणम्, मङ्गलप्रतिसरवलयविधृतिरपि करतलविधुतिहेतुः, अवतंसकुसुमधारणमपि श्रमः, कर्णपूरकमलतरलमधुकरपक्षपवैनोऽप्यायासकरः । तथा च यत्र सखीर्देर्शनेष्वकृतहस्तावलम्बनमुत्थानमतिसाहसम्, प्रसाधनेषु हारभारसहिष्णुता स्तनकार्कश्यप्रभावः, कुसुमावचयेषु द्वितीयपुष्प - *: *** अधरो दन्तच्छदस्तस्य द्युतिरेव कुङ्कुमं तेन मुखस्य वक्रस्यानुलेपनम् । मञ्जुलत्वसाम्येनाह - आलापा इति । आलापा एव संभाषणान्येव तन्त्रीनिनादा वीणाध्वनयः । मृदुत्वसाम्येनाह - भुजेति । भुजलता एव चम्पको हेमपुष्पकस्तस्य वैकक्ष्यमाला उत्तरासङ्गसजः । करेति । करतलान्येव लीलाकमलानि क्रीडापङ्कजानि । निर्मलत्वसाम्येनाह - स्तनेति । स्तना एव दर्पणा मुकुराः । निचितत्वसा - म्येनाह - निजेति । निजदेहप्रभैव स्वशरीरदीप्तिरेवांशुकेन वस्त्रेणावगुण्ठनमाच्छादनम् । विस्तारातिशयादाह - जघनेति । जघनस्थलान्येव कट्याः पुरोभागप्रदेशा एव विलासा लीलाविशेषास्तेषां मणिशिलातलानि । कोमलेति । कोमला या अङ्गुल्यस्तासां राग एव चरणयोः पादयोरलक्तकरसो यावकरसः । नखेति । नखा एव मणयः, नखनिष्ठाभरणमणयो वा तेषां मरीचय एव दीधितय एव कुट्टिमेषु बद्धभूमिषूपहारकुसुमानां प्रकराः समूहाः । यत्र चेति । यत्र कन्यकासमुदायेऽलक्तरसोऽपि यावकरसोऽपि चरणयोः पादयोरतिभारो व्यर्थः । स्वत एव चरणयोरारुण्यादिति भावः । बकुलेति । बकुलमालिकाः केसरसजो मेखला रसना तस्या आकलनमपि धारणमपि गमनविघ्नकरं गतिप्रतिबन्धकम् । सौकुमार्यातिशयादिति भावः । अङ्गेति । अङ्गरागो विलेपनं तस्य गौरवमप्यधिकश्वासनिमित्तमतिप्रयासकारणम् । अङ्ग्ङ्गरागेभ्यैः शरीररागस्य सातिशयत्वात् । अंशुकेति । अंशुकभारोऽपि वस्त्रभारोऽपि ग्लानिकारणम् । सातिशयदेहप्रभावरणरूपत्वात् । मङ्गलेति । मङ्गलार्थं प्रतिसरवलयं हस्तसूत्रवलयं तस्य विधृतिरपि धारणमपि करतलस्य हस्ततलस्य विधुतिः कम्पनं तन्मात्रहेतुः । स्वतःसुन्दरत्वाच्छ्रेयस्करत्वाच्च मणिबन्धस्य । अवेति । अवतंसकुसुमानां धारणमपि श्रमः क्लमः । कर्णेति । कर्णपूरकमलेषु तरलाश्चञ्चला ये मधुकरा भ्रमरास्तेषां पक्षेभ्यः समुद्भवः पवनोऽपि वायुरप्यायासकरः प्रयासकरः । तथाचेति । यत्राभिनवसखीप्रत्यागमदर्शनेषु कदाचिदपि परिचारिका (याः ) अकृतं हस्तावलम्बनं यस्मिन्नेवादृशं यदुत्थानं तदप्यतिसाहसमित्यर्थः । सौभाग्यातिशयो लीलाविलासातिशयश्च द्योत्यते । प्रसाधनेष्विति । प्रसाधनेषु भूषणग्रहेषु या हारभारसहिष्णुता मुक्ताप्रालम्बवीवधसहनशीलता शरीरावयवेषु मध्ये स्तनयोः कुचयोः कार्कश्यं काठिन्यं तस्य प्रभावो माहात्म्यम् । सामर्थ्यमिति यावत् । नेतरेषामवयवानाम् । अत्र स्तनयोः काठिन्यातिशयः, अन्यत्र मृदुत्वादिकं कर्कशपददानाद्रुढं व्यज्यते । तथा कुसुमावचयेषु पुष्पचुण्टनेषु द्वितीयपुष्पग्रहणमप्ययुवतिजनोचितम् । पुरुषयोग्यमित्यर्थः । एतेनैतावत्प्रयासयोग्यः पुरुष एवेति - टिप्पo - 1 न व्यर्थः, अपि तु सौकुमार्यातिशयात्पादरागोपि भारायित इत्याशयः । 2 बकुलमालैव मेखला इत्यर्थो योग्यः । 2 शरीररागस्य सातिशयत्वे अधिकश्वासानां कोऽवसरः । अत एव अङ्गरागकृतभारबोधेन श्वासप्रवृत्तिरित्यर्थो बोध्यः । एवं सर्वत्र सौकुमार्यसूचनायोक्तिः । 4 एकपुष्पग्रहणमेव तस्याः पर्याप्तम्, द्वितीयस्य पुष्पस्य ग्रहणं तु कठिनत्वात्पुरुषस्यैव योग्यमित्यर्थः । पाटा० - १ चम्पकमालाः. २ अलक्तक. ३ वातोऽपि ४ दर्शनेऽपि ५ अभ्युत्थानम्. 382 कादम्बरी | कथायाम् Page #396 -------------------------------------------------------------------------- ________________ ग्रहणमप्ययुवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यग्रन्थनमसुकुमारजनव्यापारः, देवताप्रणामेषु मध्यभागभङ्गो नातिविस्मयकरः । तस्य चैवंविधस्य किंचिदभ्यन्तरमतिक्रम्येतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यासनस्य परिजनस्य शुश्राव तांस्तानतिमनोहरानालापान् । तथाहि - ‘लवलिके, कल्पय केतकीधूलिभिर्लवलीलतालवालमण्डलानि । सागरिके, गन्धोदकदीर्घिकासु विकिर रत्नवालुकाम् । मृणालिके, कृत्रिमकमलिनीषु कुङ्कुमरेणुमुष्टिभिश्छुरय यन्त्रचक्रवाकमिथुनानि । मकरिके, कर्पूरपल्लवरसेनाधिवासय गन्धपात्राणि । रजनिके, तमालवीथिकान्धकारेषु निधेहि मणिप्रदीपान् । कुमुदिके, स्थगय शकुनिकुलरक्षणाय मुक्ताजालैर्दाडिमीफलानि । निपुणिके, लिखमणिशोलभञ्जिकास्तनेषु कुङ्कुमरसपत्रभङ्गान् । उत्पलिके, परामृश कनकसंमार्जनीभिः कदलीगृहमरकतवेदिकाम् । केसरिके, सिञ्च मदिरारसेन बकुलकुसुममालागृहाणि । मालतिके, पाटलय सिन्दूररेणुना कामदेवगृहदन्तवलभिकाम् । नलिनिके, पायय कमलमधुरसं भवनकलहंसान् । कदलिके, नय धारागृहं गृहमयूरान् । कमलिनिके, प्रयच्छ चक्रवाकशावकेभ्यो मृणालक्षीररसम् । चूतलतिके, देहि पञ्जरपुंस्कोकिलेभ्यश्चूतकलिकाङ्कुराहारम् । पल्लविके, - *********** ध्वनितम् । पुनः सौकुमार्यातिशयमाह - कन्यकेति । कन्यकाविज्ञानेषु कुमारिकाणां कलासु माल्यग्रथनमसुकुमारजनव्यापारः । अतिककशजनविधेयमित्यर्थः । एतेन माल्यापेक्षयापि सौकुमार्य व्यज्यते । देवतेति । देवतानां प्रणामेषु नमस्क्रियासु मध्यभागस्यातिसूक्ष्मत्वात् भङ्गो द्वैधीभावो न भवति सोऽतिविस्मयकर आश्चर्यकरः । एतेन मध्यभागस्य स्वारसिकं कृशत्वं व्यज्यते । तदनन्तरं स चन्द्रापीडः किंचिदभ्यन्तरं मध्यभागमतिक्रम्येतश्चेतश्च परिभ्रमतः पर्यटत एवंविधस्य तस्य कादम्बरीप्रत्यासनस्य कुमारिकासमीपवर्तिनः परिजनस्य परिवारस्यातिमनोहरांस्तांस्तानालापान्सलापाशुश्रावाकर्णयामास । एतदेव दर्शयति - तथा हीति । हे लवलिके, केतकीधूलिभिः केतकीपरागैर्लवलीलताया आलवालमण्डलान्यावालमण्डलानि कल्पय प्रणय । हे सागरिके, गन्धोदक सुगन्धजलं तस्य दीर्घिकासु वापीषु रत्नवालुकां विकिर विक्षिप । हे मृणालिके, कृत्रिमकमलिनीषु यन्त्रचक्रवाकमिथुनानि कुङ्कुमरेणुमुष्टिभिश्छुरयाच्छोटय । हे मकरिके, कर्पूरपल्लवरसेन गन्धपात्राण्यधिवासय सुगन्धीकुरु । हे रजनिके, तमालवीथिकानामन्धकारेषु मणिप्रदीपानिधेहि स्थापय । हे कुमुदिके, शकुनिकुलरक्षणाय पक्षिसूहनिवारणाय मुक्ताजालैर्दाडिमीफलानि स्थगयाच्छादय । हे निपुणिके, मणिशालभञ्जिकास्तनेषु रत्नपुत्रिकाकुचेषु कुङ्कुमरसपत्रभङ्गांल्लिख लिपीकुरु । हे उत्पलिके, कनकसंमार्जनीभिः सुवर्णबहुरीभिः कदलीगृहमरकतवेदिकां परामृश संमार्जय । हे केसरिके, मदिरारसेन कादम्बरीद्रवेण बकुलकुसुममालागृहाणि सिञ्च सेकं कुरु । हे मालतिके, सिन्दूररेणुना नागभूषणधूल्या कामदेवगृहदन्तवलभिका पाटलय श्वेतरक्तीकुरु । हे नलिनिके, कमलमधुरसं भवनकलहसान्पायय पानं कारय । हे कदलिके, गृहमयूराभवनकलापिनो धारागृह यन्त्रगृह नय प्रापय । हे कमलिनिके, मृणालक्षीररसं चक्रवाकशावकेभ्यो रथाङ्गाह्वपाकेभ्यः प्रयच्छ प्रदेहि । चूतलतिके, पञ्जरपुंस्कोकिलेभ्यश्चतकलिकाङ्कुराहारमानकोरकप्ररोहाशनं देही प्रयच्छ । हे पल्लविके, भवनहारीतागृहमृदङ्कुरान्मरि - टिप्प० - 1 रञ्जयेति तात्पर्यम् । पाठा० - १ कुसुम. २ असुकुमार. ३ अन्तरमवक्रम्य. ४ सारसिके. ५ कनकदीर्घिकासु; नदिकासु. ६ क्षोद. ७ युगलानि. ८ मन्दारिके. ९ भवनदीर्घिकातमाल. १० रक्षणार्थम्. ११ लेखय. १२ मणिस्तम्भ. १३ समार्जनीभिः. १४ वेदिकाः. १५ कुसुमिके. १६ चक्रवाकेभ्यः. १७ चूतकलिके. कुमारीपुरकौतुकानि पूर्वभागः। 1383 Page #397 -------------------------------------------------------------------------- ________________ भोजय मरिचाग्रपल्लवदलानि भवनहारीतान् । लवङ्गिके, निचिक्षिप चकोरपञ्जरेषु पिप्पलीदेलशकलानि । मधुकरिके, विरचय कुसुमाभरणकानि । मयूरिके, संगीतशालायां विसर्जय किंनरमिथुनानि । कन्दलिके, समारोहय क्रीडापर्वतशिखरं जीवंजीवमिथुनानि । हरिणिके, देहि पञ्जरशुकसारिकाणामुपदेशम्' इत्येतान्यन्यानि च परिहासजल्पितान्यश्रौषीत् । तथाहि - ‘चामरिके, मिथ्यामुग्धतां प्रकटयन्ती कमभिसंधातुमिच्छसि । अयि यौवनविलासैरुन्मत्तीकृते; विज्ञातासि या त्वं स्तनकलशभारावनम्यमानमूर्तिर्मणिस्तम्भेमयूरानालम्बसे । परिहासकाङ्क्षिणि, रत्नभित्तिपतितमात्मँप्रतिबिम्बमालपसि । पवनहृतोत्तरीयांशुके, हारप्रभामायासितकरतलकलयसि । मणिकुट्टिमेषूपहारकमलस्खलनभीते; निजमुखप्रतिबिम्बकानि परिहरसि । जीलवातायनपतितपद्मरागांलोकं प्रति बालातपैशङ्कया करतलमातपत्रीकरोषि । चानां श्वेतशोभाञ्जनानामग्रपल्लवदलानि मुख्यकिसलयखण्डानि भोजय भोजनं कारय । हे लवङ्गिके, चकोरपञ्जरेषु विषसूचकवंशदलेषु पिप्पलीदलशकलानि मागधीपत्रखण्डानि निचिक्षिप निक्षेपं कुरु । अनेन चकोराणां पिप्पलीदलानि प्रियाणीति ध्वनितम् | हे मधुकरिके, कुसुमानामाभरणकानि विभूषणानि विरचय रचनां कुरु । हे मयूरिके, संगीतशालायां नृत्यशालायां किंनरमिथुनानि तुरगवदनद्वन्द्वानि विसर्जय प्रेषय । हे कन्दलिके, क्रीडापर्वतशिखरं लीलाशिखरिसानुं जीवजीवमिथुनानि विषदर्शर्नमृत्युकयुगलानि समारोहयारोहणं कारय । हे हारिणिके, पञ्जरशुकसारिकाणामुपदेशं हितशिक्षां देहि प्रयच्छ । इत्येतानि पूर्वोक्तान्यन्यानि चाग्रे वक्ष्यमाणानि परिहासजल्पितानि वचनान्यश्रौषीदाकर्णितवान् । एतदेव दर्शयति तथाहीति । हे चामरिके, मिथ्या वृथा मुग्धतां मुग्धभावं प्रकटयन्ती प्रकाशयन्ती कमभिसंधातुं मिलितुमिच्छसि वाञ्छसि । बाह्यमुग्धत्वप्रकटनेन स्वकीयं कार्यं कर्तुकामेत्यर्थः । अयीति कोमलामन्त्रणे । हे यौवनविलासैस्तारुण्यविभ्रमैरुन्मत्तीकृते ग्रथिलीकृते, सा त्वं विज्ञाता विदितासि या स्तनकलशभारेणावनम्यमाना मूर्तिः शरीरं यस्या एवंविधा मणिभिनिर्मिता रचिता ये स्तम्भाः स्थूणास्तेषां मयूरान्कलापिन आलम्बस आलम्बनविषयीकरोषि । परीति । हे परिहासकाङ्क्षिणि, रत्नभित्तिपतितं मणिकुड्यसंक्रान्तमात्मप्रतिबिम्बं स्वकीयं प्रतिरूपमालपसि परिभाषसे । एतेन स्वयमेव स्वस्य भाषणमुपहासहेतुरिति ध्वनितम् । पवनेति । पवनेन वायुनाहृतं गृहीतमुत्तरीयांशुकमुपरिवस्त्रं यस्यास्तस्याः संबोधनं हे पवनहृतोत्तरीयांशुके, लज्जावशादतिशुभ्रत्वसाम्याद्धारप्रभामेवाकलयस्युत्तरीयांशुकत्वेन जानासि । अतएवायासितकरतला पुनः पुनस्तद्गहणप्रयासेन परिश्रान्तहस्ततलेत्यर्थः । मणिकुट्टिमेति । मणिकुट्टिमेषूपहारार्थमुपचारार्थं कमलानि नलिनानि तेभ्यः स्खलनं चरणाभिघातस्तस्माद्भीता त्रस्ता तस्याः संबोधनं हे उपहारकमलस्खलनभीते, निजमुखप्रतिबिम्बकानि स्वाननप्रतिच्छायानि परिहरसि त्यजसि । एतेन निजात्मप्रतिबिम्बान्येव कमलभ्रान्त्या त्यजसीति ध्वनितम् । जालेति । जालरूपो यो वातायनो गवाक्षस्तत्र पतितं लग्नं पद्मरागो लोहितकमणिस्तस्यालोकं प्रकाशं प्रति बालो नवीनो य आतपः सूर्यालोकस्तस्य शङ्कया भ्रान्त्या करतलं हस्ततलमातपत्रीकरोषि छत्रीकुरुषे । एतेन पद्मरागालोके बालातपभ्रान्तिरिति ध्वनितम् । - टिप्प० - 1 ‘निक्षिप' इत्यपि पाठः । 2 पक्षिविशेषाणि । 3 प्रतारयितुमित्युचितम् । 4 स्तनकण्डूयानिवृत्तये एवं करोषीति परिहासः । 5 सर्वत्र वाक्यादौ संबोधनमिति प्रक्रमभङ्गष्टीकाकारेण न ज्ञातः । अत एव 'निजसौकुमार्यगर्वखर्वितबिसप्रसूनसौभाग्ये !' इति संबोधनमुचितम् । बिसप्रसूनादपि ते सौकुमार्यमधिकं येन हि बालातपशंकयापि आतपत्रकरणस्यापेक्षेति परिहासः । पाटा० - १ विक्षिप २ तण्डुल ३ वृथामुग्धताम् ४ ज्ञाता. ५ मयूखान् ६ अवलम्वसे. ७ प्रतिमामालपयसि. ८ संकलयसि. ९ निजसौकुमार्यगर्वखर्वितबिसप्रसूनसौभाग्ये जाल. १० अवलोकम्. ११ आशङ्किनी. १२ आतपत्रं करोषि . 384 कादम्बरी । कथायाम् Page #398 -------------------------------------------------------------------------- ________________ खेदसस्तहस्तगलितचामरा नखमणिमयूखकलापमाधुनोषि' इत्येतान्यन्यानि च श्रुण्वन्नेव कादम्बरी वनमुपययौ । पुलिनायमानमुपवनलतागलितकुसुमरेणुपटलैः, दुर्दिनायमानमनिभृतपरभृतनखक्षताङ्गणसहकारफलरसवर्षेः, नीहारायमाणमनिलविप्रकीर्णैर्बकुलसेकसीधुधाराधूलिभिः, काञ्चनद्वीपायमानं चम्पकदलोपहारैः, लीलाशोकवनायमानं कुसुमप्रकरपतितमधुकरवृन्दान्धकारैः, तथा च संचरतः स्त्रीजनस्य रागसागरायमाणं चरणालक्तकरसविसरैः, अमृतोत्पत्तिदिवसायमानमङ्गरागामोदैः, चन्द्रलोकायमानं दन्तपत्रप्रभामण्डलैः, प्रियङ्गुलतायमानं कृष्णागुरुपत्रभङ्गः, लोहितायमानं कर्णाशोकपल्लवैः, धवलायमानं चन्दनरसविलेपनैः, हरितायमानं - *********** खेदेति । खेदेन सस्तः कम्पितो यो हस्तः करस्तस्माद्गलितं च्युतं चामरं वालव्यजनं यस्या एवंविधा सती नखा एव मणयस्तेषां मयूखकलापं कान्तिसमूहमाधुनोषि कम्पयसि । एतेन नखकान्तिकलापे चामरत्वं व्यज्यते । इत्येतानि पूर्वोक्तान्यन्यानि च वाक्यानि श्रृण्वन्नाकर्णयन्कादम्बरी राजपुत्री तस्या भवनं गृहमुपययौ जगाम । अथेति । सेवार्थमागतेन सपर्यार्थं समायातेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन । ऊर्ध्वत्वसाम्येनाह - लावण्यमयेन प्राकारेणेव वप्रेणेव । उभयतः संवृतत्वसाम्येनाह - कृत इति । कृतो विहितो दीर्घाया रथ्यायाः लोके 'गल्ली' इति प्रसिद्धायाः मुखवदाकारो यस्मिन्नेतादृशं मार्गमध्वानमद्राक्षीदालोकितवान् । इतो मार्गविशेषणानि प्रदर्शयन्नाह - पुलिनेति । उपवनं गृहसमीपवर्ति काननं तस्य लता वल्यस्ताभ्यो गलितानि कुसुमानि पुष्पाणि तेषां रेणुपटलैः परागपुजैः पुलिनायमानं जलोज्झिततटायमानम् । श्वेतत्वातिशयात्परागोपेतमार्गस्य पुलिनोपमानता । अनिभृतेति । अनिभृताश्चञ्चला ये परभृताः पिकास्तेषां नखाः पुनर्भवास्तैः क्षतानि खण्डितान्यङ्गणमजिरं तत्र ये सहकारा आम्रास्तेषां फलानि सस्यानि तेषां रसवर्षेर्मधुवर्षणैर्दुर्दिनायमानं मेघजनिततमोवदाचरमाणम् । एतेन सर्वत्र तत्तदतिशयो व्यज्यते । अनिलेति । अनिलेन वायुना विप्रकीर्णेविक्षिप्तैर्बकुलाः केसरास्तेषां सेकार्थं याः सीधुधारा मद्यधारास्तासां धूलिभिः कणैः । श्वेतत्वसाम्यात् । नीहारायमाणं हिमवदाचरमाणम् । काञ्चनेति । चम्पकदलानि गन्धफलीशकलानि तेषामुपहारैरुपचारैः काञ्चनद्वीपायमानं स्वर्णान्तरीपवदाचरमाणम् । एतेन पीतत्वातिशयो व्यज्यते । कुसुमेति । कुसुमप्रकरेषु पुष्पसमूहेषु पतितमुपविष्टं यन्मधुकरवृन्दं भ्रमरसमूहस्तस्यान्धकारैश्छायारूपैर्लीलाशोकवनायमानम् । अन्धकारस्य नीलत्वादशोकवनसाम्यमित्यर्थः । तथा चेति । तेनैव प्रकारेण संचरतो गच्छतः स्त्रीजनस्य वनितालोकस्य चरणालक्तकरसः पादरञ्जनार्थयावकरसस्तस्य विसरैः समूहैः रागसागरायमाणं रागसमुद्रवदाचरमाणम् । एतेन रक्तत्वातिशयो द्योत्यते । अङ्गेति । अङ्गरागस्य विलेपनस्यामोदैः परिमलैरमृतस्य पीयूषस्य य उत्पत्तिदिवसस्तद्वदाचरमाणम् । तद्दिनेऽमृतामोदस्य प्रचुरत्वादिति भावः । श्वेतत्वसाम्येनाह - दन्तेति । दन्तपत्रैः कर्णाभरणैश्चन्द्रलोकायमानं चन्द्रलोकवदाचरमाणम् । एतेन दन्तपत्राणां भूयस्त्वं व्यज्यते । प्रियङ्गुलतेति । कृष्णागुरुः काकतुण्डस्तस्य पत्रभङ्गः पत्रलताभिः । प्रियङ्गुः फलिनीलक्षणा या लता वल्ली तद्वदाचरमाणम् । नीलत्वातिशयादिति भावः । रक्तत्वसाम्येनाह - लोहितेति । कर्णाशोकपल्लवैः श्रवणनिक्षिप्तककेल्लिकिसलयैर्लोहितायमानं रक्तवदाचरमाणम् । धवलेति । चन्दनं मलयजं तस्य रसो द्रवस्तस्य विलेपनैरङ्गरागैर्धवलायमानं चेतवदाचरमाणम् । हरितेति । शिरीषः कपीतनस्तस्य कुसुमाभरणैः पुष्पविभूषणैर्हरितायमानं पीतनीलवदाचरमाणम् । टिप्प० - 1 प्रकरणानुकूलम् 'खेदसस्तहस्तगलितचामरे ' इति संबोधनमेवोचितम् । 2 कृतो दीर्घरथ्यामुखवदाकारो यस्य, ग्राम्यदीर्घरथ्याया मुखभागे उभयतो वृतिः मध्ये च स्वल्पायामो दी? मार्गो दृश्यत इत्याशयः । पाटा० - १ ग्रस्त. २ कलित. ३ चामरैः. ४ किरण. ५ भवनसमीपमुपययौ; भवनमुपसृत्य ययौ. ६ चम्पकोपहारैः. ७ नीलाशोक. ८ संचरन्, ९ पत्रमण्डलैः. १० बनायमानं रोचनातिलकभक्तिभिर्नीलायमानम्. ११. कर्णपूराशोक. - - - - - - - - (कुमारीपुरवृत्तान्तः) पूर्वभागः । ARY 385) Page #399 -------------------------------------------------------------------------- ________________ शिरीषकुसुमाभरणैः, अथ सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन प्राकारेणेव लावण्यमयेन कृतदीर्घरथ्यामुखाकारं मार्गमद्राक्षीत् । तेन चान्तर्निपतन्तमाभरणकिरणालोकं संपिण्डितं नदीवेणिकाजलप्रवाहमिव वहन्तमपश्यत् । तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतीहारिमण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श । तत्र च मध्यभागे पर्यन्तरचितमेण्डलेनाथ उपविष्टेन चानेकसहससंख्येन परिस्फुरदाभरणसमूहेन कल्पलतानिवहेनेव कन्यकाजनेन परिवृताम्, नीलांशुकप्रच्छदपटप्रावृतस्य नौतिमहतः पर्यङ्कस्याश्रये धवलोपधानन्यस्तद्विगुणभुजलतावष्टम्भेनावस्थितां महावराहदंष्ट्रावलम्बिनीमिव महीम्, विस्तारिणि देहप्रभाजालजले भुजलताविक्षेपपरिभ्रमैः प्रतरन्तीभिरिव चामरग्राहिणीभिरुपवीज्यमानाम्, निपतितप्रतिबिम्बतयाधस्तान्मणिकुट्टिमेषु नागैरिवापहि - ****** अन्वयस्तु प्रागेवोक्तः । तेनेति । तेन मार्गेणान्तर्मध्ये निपतन्तं प्रविशन्तं संपिण्डितं नानाभूषणप्रभामिश्रितमाभरणकिरणालोकं विभूषणप्रभाप्रकाशम् । प्रसरणसाम्येनाह - नदीति । नद्याः सरितो वेणिका रेयस्तत्र यो जलप्रवाहस्तद्वदिव वहन्तं प्रसरन्तमपश्यत् । तन्मध्य इति । आभरणकिरणालोकमध्ये महाश्वेतया सह प्रतिस्रोत इव प्रतिरय इव गत्वा प्रतीहारिमण्डलेनाधिष्ठित आश्रितः पुरोभागोऽग्रभागो यस्यैवंविधं श्रीमण्डपं ददर्श दृष्टवान् । अत्रालोकस्याभ्यन्तरावधि निपतनात्, एतस्य प्रत्यभिमुखगमनात्, गमनमात्र एव दृष्टान्तस्तस्मिन्नेव दृष्टान्तस्योचितत्वात्, न तु दर्शनक्रियायामिति । तत्र श्रीमण्डपे मध्यभागे कादम्बरीं ददर्शेत्यन्वयः । इतो दूरं कादम्बरीं विशेषयन्नाह - पर्यन्तेति । मण्डपपर्यन्तं रचितं निर्मितं मण्डलं येन स तेन । अध इति । कुमारिकासनापेक्षयाध उपविष्टेन स्थितेनानेकेषां सहस्राणां संख्या गणना यस्मिन्स तेन । परीति । परिस्फुरद्देदीप्यमान आभरणानां भूषणानां समूहो यस्मिन्स तेन । मनोहरत्वसाम्येनाह - कल्पेति । कल्पलता मन्दारवल्ल्यस्तासां निवहेनेव समूहेनेर्व कन्यकाजनेन परिवृताम् । नीलेति । नीलं यदंशुकं तस्य यः प्रच्छदपट उत्तरच्छदस्तेन प्रावृतस्याच्छादितस्य नातिमहतो नातिमहीयसः । परिमाणोपेतस्येत्यर्थः । पर्यङ्कस्य पल्यङ्कस्याश्रयेऽधिकरणे धवलं शुभ्रं यदुपधानमुच्छीर्षकं तत्र न्यस्ता स्थापिता या द्विगुणा भुजलता तदवष्टम्भेन तदाश्रयेणावस्थिताम् । अत्र भुजाया वक्रीकरणत्वेन द्विगुणत्वं बोध्यम् । धवलालम्बनावस्थित्वमात्रेणोप महावराहेति । महावराह आदिक्रोडस्तस्य दंष्ट्रा दाढा तत्रावलम्बिनीमाश्रितां महीमिव वसुधामिव । विस्तारिणि प्रसरणशीले देहप्रभा - जालमेव जलं पानीयं तस्मिन्भुजलतानां बाहुवल्लीनां विक्षेपरूपा ये परिभ्रमास्तैः प्रतरन्तीभिरिव जलावगाहनं कुर्वन्तीभिरिव चामरग्राहिणीभिरुपवीज्यमानाम् । निपतितेति । मणिकुट्टिमेष्वधस्तान्निपतितं यत्प्रतिबिम्बं प्रतिच्छाया तस्या - टिप्प० - 1 वहन्तं, नद्याः वेणिकावत् केशपाशवेणीवत् (अर्थात् सरलः) यो जलप्रवाहस्तमिव तेन (मार्गेण ) निपतन्तम् (अभ्यन्तरादागच्छन्तम्) आभरणकिरणालोकमपश्यत् । 2 कल्पलता अपि अर्थिजनमनोरथपूरणाय नानाविधाभरणयुक्ता इति द्वयोः साम्यम् । 3 कफोणिमवष्टभ्य भुज ऊर्ध्वमुखीकृतः, अत एव फोण्यूर्ध्वभागे द्विगुणत्वमित्यर्थः । 4 धवलोपधानन्यस्तभुजलता कादम्बरी महीव इत्युपमा, भुजलतोपष्टम्भस्य वराहदंष्ट्रासादृश्यादिति सेयमुपमा पृथक् । परितः प्रसारिणि कादम्बर्या देहप्रभारूपे जले तरन्तीभिरिव चामरग्राहिणीभिर्वीज्यमानामिति द्वितीया उठप्रेक्षा (चामरचालनार्थं हस्तौ न कम्प्येते अपि तु जले हस्तक्षेपेण तास्तरन्ति इत्याशयः) । पाठा० - १ निपतित. २ मण्डलोपविष्टेन मण्डलेनोर्ध्वेणोपविष्टेन च. ३ अतिमहतः ४ उपाश्रये; अपाश्रये. 386 कादम्बरी | कथायाम् Page #400 -------------------------------------------------------------------------- ________________ यमाणाम्, उपान्ते च रत्नभित्तिषु दिक्पालैरिव नीयमानाम्, उपरि मणिमण्डपेष्वमरैरिवोत्क्षिप्यमाणाम्, हृदयमिव प्रवेशितां महामणिस्तम्भैः, आपीतामिव भवनदर्पणैः, अधोमुखेन श्रीमण्डपमध्योत्कीर्णेन विद्याधरलोकेन गगनतलमिवारोप्यमाणाम्, चित्रकर्मच्छलेनावलोकनकुतूहलसंपुजितेन त्रिभुवनेनेव परिवृताम्, भूषणरवप्रनृत्तशिखिशतविततचित्रचन्द्रकेण भवनेनापि कौतुकोत्पादितलोचनसहस्रेणेव दृश्यमानाम्, आत्मपरिजनेनापि दर्शनलोभादुपार्जितदिव्यचक्षुषेवानिमिषनयनेन निर्वर्ण्यमानाम्, लक्षणैरपि रागाविष्टैरिवाधिष्ठितसर्वाङ्गाम्, अकृतपुण्यमिव मुञ्चन्ती बालभावम्, अदत्तामपि मन्मथावेशपरवशेनेव गृह्यमाणां यौवनेन, अविचलितचरणरागदीधितिभिरिव निर्गताभिरलक्तकरसपाटलितलावण्यजलवेणिकाभिरिव गलिताभिर्निवसितांशुकदशाशिखाभिरिवावलम्बिताभिः पादाभरणरत्नांशुलेखासंदेहदायिनी - *********** भावस्तत्ता तया । नागैः सर्परपहियमाणामिवान्यत्र नीयमानामिव । तथोपान्ते समीपे च रत्नभित्तिषु तत एव दिक्पालैः सोमादिभिर्नीयमानामिव । प्राप्यमाणामिव । तथोपरि मणिमण्डपेषु रत्नजनाश्रयेषु तत एवामरैर्देवैरुत्क्षिप्यमाणामिवोत्पाट्यमानामिव । तत एव महामणिस्तम्भैर्हदयमिव प्रवेशितां चित्तान्तर्निहिताम् । तत एव भवनदर्पणैर्गृहादर्जेरापीतामिव पानविषयीकृतामिव । श्रीमण्डपमध्योत्कीर्णेनाधोमुखेन विद्याधरलोकेन गगनतलं व्योमतलमारोप्यमाणामिव तत्र स्थाप्यमानामिव । एतेनोल्लिखितविद्याधररूपाणामतिस्वच्छता दर्शिता । चित्रेति । चित्रकर्मालेख्यंकर्म तस्य छलेन मिषेणावलोकनलक्षणं यत्कुतूहलं कौतुकं तेन संपुजितेन पिण्डीभूतेन त्रिभुवनेन परिवृतामिव सहितामिव । भूषणरवेण प्रनृत्तं ताण्डवितं यच्छिखिशतं मयूरशतं तस्य वितता विस्तीर्णाश्चित्रा विविधवर्णाश्चन्द्रका मेचका यस्मिन् । कौतुकेन कुतूहलेनोत्पादितं विहितं लोचनसहसं येनैवंविधेन भवनेनापि दृश्यमानामिव प्रेक्ष्यमाणामिव । अन्यथा भवनस्य लोचनाभावात्कादम्बरीप्रेक्षणं न स्यादिति भावः । आत्मेति । दर्शनलोभादवलोकनतृष्णातोऽनिमिषनयनेन निर्वर्ण्यमानामालोक्यमानाम् । के (ने)व । उपार्जितमर्जितं दिव्यं चक्षुर्येनैवंविधेनेव । यौवनातिशयमाह - लक्षणैरिति । लक्षणैरपि कपोलद्युतिकुचकाठिन्यादिभिरधिष्ठितमाश्रितं सर्वाङ्गं यस्याः सा ताम् । कैरिव । रागाविष्टैरिव दृष्टिरागिभिरिव । किं कुर्वन्तीम् । बालभावं मुञ्चन्तीं त्यजन्तीम् । कमिव, अकृतपुण्यमिव निर्भाग्यमिव । अदत्तामिति । अदत्तामप्यनर्पितामपि मन्मथस्य कंदर्पस्यावेश आवेगस्तस्य परवशेन पराधीनेन यौवनेन गृह्यमाणामिव स्वीक्रियमाणामिव । पुनः कीदृशीम् । चरणाभ्यां पादाभ्यां विद्रुमरसनदीमिव हेमकन्दलरसतटिनीमिव प्रवर्तयन्ती विस्तारयन्तीम् । कीदृशाभ्यां चरणाभ्याम् । अङ्गुलीभिः करशाखाभिरुपेताभ्यां सहिताभ्याम् । कीदृशीभिरङ्गुलीभिः । अविचलितेति । अविचलितो निश्चलो यश्चरणयो रागस्तस्य दीधितिभिरिव प्रभाभिरिव निर्गताभिः प्रत्युद्गताभिः । अलक्तेति । अलक्तकरसो यावकरसस्तेन पाटलितं घेतरक्तीकृतं यल्लावण्यजलं तस्य गलिताभिः क्षरिताभिर्वेणिकाभिरिव धाराभिरिव । वस्त्रप्रान्तावलम्बनसाम्येनाह - निवसितेति । निवसितं परिधानीकृतं यदंशुकं रत्नांशुकं तस्य दशाशिखाभिरिव वस्त्रप्रान्तारिवावलम्बिताभिर्दृढधृताभिः । पादेति । अतिकोमलतयातिमृदुतया पादाभरणानां या रत्नांशुलेखा मणिकान्तिरेखास्तासां संदेहदायिनीभिः । संशयवितरणकर्तीभिः । नख - टिप्प० - 1 निपतितप्रतिबिम्बतया इत्यनुषङ्गः । एवम् उपरिमण्डपेष्वित्यत्रापि । महामणिस्तम्भदर्पणादिष्वपि निपतितप्रतिबिम्बतया इत्यस्यानुषङ्गो बोध्यः । 2 ध्वज-वज्रादिचिह्नानि यानि तस्यास्तत्तदङ्गेषु वर्तन्ते तान्यपि कादम्बर्यामासक्तिवशादाश्रितानि इत्युप्रेक्ष्यते । 3 पित्रादिभिरसमर्पिताऽपि स्मरावेशपरवशतया इव यौवनेन स्वयं गृह्यमाणां स्वीक्रियमाणाम् । कामावेशपरवशो हि पित्रादिसमर्पणस्य प्रतीक्षां न कुरुते । परमार्थतस्तु यौवनं कामावेशपरवशं भवत्येव स्वाभाव्यात्, अहो कवयितुश्चातुर्यम् । पाठा० - १ शतचित्र. २ सर्वाङ्गीम्; सर्वावयवाम्. ३ विनतचरण. ४ रक्तांशुक. कादम्बरीवर्णनम् W387 । पूर्वभागः । Page #401 -------------------------------------------------------------------------- ________________ भिरतिकोमलतया नखविवरेण वर्षन्तीभिरिव रुधिरधारावर्षमङ्गुलीभिरुपेताभ्यां क्षितितलतारागणमिव नखमणिमण्डलमुद्रहद्भ्याम् विद्रुमरसनदीमिव चरणाभ्यां प्रवर्तयन्तीम्, नूपुरमणिकिरणचक्रवालेन गुरुनितम्बभरखिन्नोरुयुगलसहायतामिव कर्तुमुद्गच्छता स्पृश्यमानजघनभागाम्, प्रजापतिदृढनिष्पीडितमध्यभागगलितं जघनशिलातलप्रतिघातालावण्यसोत इव द्विधागतमूरुद्वयं दधानाम्, सर्वतःप्रसारितदीर्घमयूखमण्डलेनेjया परपुरुषदर्शनमिव रुन्धताकुतूहलेन विस्तारमिव तन्वता स्पर्शसुखेन रोमाञ्चमिव मुञ्चता काञ्चीदाम्ना नितम्बबिम्बस्य विरचितपरिवेषाम्, निपतितसकललोकहृदयभरेणेवातिगुरुनितम्बाम्, उन्नतकुचान्तरितमुखदर्शनदुःखेनेव क्षीयमाणमध्यभागाम्, प्रजापतेः स्पृशतोऽतिसौकुमार्यादङ्गुलिमुद्रामिव निमग्नां - *********** विवरेण नखान्तरेण रुधिरधारावर्षं वर्षन्तीभिरिव । किं कुर्वद्भ्याम् पादाभ्याम् । क्षितितलतारागणमिव नखमणिमण्डलमुबहद्भ्यामुदहन कुर्वद्भ्याम् । अत्र वर्तुलत्वप्रकाशकत्वसाधानखतारागणयोः साम्यं प्रदर्शितम् । विद्रुमं हेमकन्दलस्तस्य यो रसस्तस्य नदी तटिनी चरणाभ्यां पादाभ्यां प्रवर्तयन्तीमिव विस्तारयन्तीमिव । नूपुरेति । स्पृश्यमानः स्पर्शविषयीक्रियमाणो जघनभागो यस्याः सा ताम् । केन । नूपुरमणीनां पादकटकरत्नानां किरणा दीधितयस्तेषां चक्रवालेन समूहेन गुरुर्यो नितम्ब आरोहस्तस्य भरेण भारेण खिन्नं यदूरुयुगल सक्थिद्वन्द्वं तस्य सहायं साहय्यं कर्तुमिवोद्गच्छतोय व्रजता । प्रजेति । प्रजापतिना ब्रह्मणा निर्माणव्याजेन दृढं निष्पीडितो मर्दितो मध्यभागो मध्यप्रदेशस्तस्माद् गलितं च्युतं लावण्यसोत इव जघनशिलातलप्रतिघाताद् द्विधागतमूरुद्वयं दधानां धारयन्तीम् । एतेन मध्यभागे काय शिलातलपदेन च जघने दृढत्वमगूढं व्यज्यते । पुनः कीदृशीम् । काञ्चीदाम्ना रशनादाम्ना नितम्बबिम्बस्यारोहमण्डलस्य विरचितो निर्मितः परिवेषः परिधिर्यस्याः सा ताम् । इतः काञ्चीदाम विशेषयन्नाह - सर्वत इति । सर्वतः समन्तात्प्रसारितं विस्तारितं दीर्घमायतं मयूखमण्डलं किरणसमूहो येन स तेन । ईर्ण्यया स्पर्धया परपुरुषदर्शनमन्यनरावलोकन रुन्धतेवावरोधं कुर्वतेत । अदृष्टंपूर्वत्वात् । कुतूहलेन कौतुकेन विस्तारं विस्तीर्णतां तन्वतेव विस्तारयतेव । स्पर्श इति । स्पर्शसुखेन संश्लेषसातेन रोमाञ्चमिव रोमोद्गममिव मुञ्चता त्यजता । निपतितेति । हृद्यत्वानिपतितानि सकललोकानां समग्रजनानां हृदयानि मानसानि तेषां भरेणेवातिगुरुर्गरीयानितम्बो यस्याः सा ताम् । उन्नतेति । उन्नतावुच्चौ यौ कुचौ स्तनौ ताभ्यामन्तरितं व्यवहितं यन्मुखदर्शनमाननवीक्षणं तस्य दुःखेनेव कृच्छ्रेणेव क्षीयमाणः क्षीणतां प्राप्यमाणो मध्यभागो यस्याः सा ताम् । मध्यभागस्याधस्तान्मुखस्योपरिष्टात्तन्मध्ये कुचान्तरालस्य विद्यमानत्वात्तथा दर्शन न भवति, अङ्कुरितयौवनत्वात् । पूर्णे तु यौवने सर्वथा दर्शनं न भविष्यतीत्यतो दुःखेनेवेत्युक्तमिति भावः । प्रजापतेरिति । अतिसौकुमार्यात्स्पृशतः स्पर्श कुर्वतः प्रजापतेर्ब्रहाणोऽङ्गुलिमुद्रामिवावर्तिनीं निम्नगां नामिमण्डलमु(न्तु)दकू - - - - - - - - - - - टिप्प० - 1 कोमल-रक्तयोश्चरणयोररुणा प्रभा परितः प्रसरति अत एव तत्र विद्रुमरसनदीप्रवर्तनस्योत्प्रेक्षा । चरणौ च अझलीभिर्युती, अङ्गलयश्च चरणरागदीधितय इव, लावण्यजलवेणिका इव, इत्यादिभिः । उत्प्रेक्षाभिर्वर्णिता इति 'चरणाभ्यां विद्रुमरसनदीमिव प्रवर्तयन्तीम्' इति विशेषणवाक्यस्य निर्गलितोऽर्थः । 2 काञ्चीदाम्नः परितः प्रकाशकिरणाः प्रसृताः । अत एव तत्रोत्प्रेक्षा क्रियते परपुरुषाणां दर्शनरोधार्थम् । किरणैरावरणे सति दर्शनं न भवति । 3 नाभिमण्डलीमित्यपि पाठः, आवर्तिनीमिति स्त्रीविशेषणानुरोधात् । आवर्तिनीमित्यस्य आवर्तवत् मध्यगर्तो यस्यास्तादृशीमित्यर्थः । - - - पाठा० - १ वमन्तीभिः. २ अङ्गुलिभिः. ३ सहायम्; सहायिताम्. ४ प्रजापतिकरदृढ. ५ लावण्यजलसोत. ६ निरुन्धता. 388 कादम्बरी। कथायाम् Page #402 -------------------------------------------------------------------------- ________________ नाभि॑िमण्डलमावर्तिनीमुद्वहन्तीम्, त्रिभुवनविजयप्रशस्तिवर्णावलीमिव लिखितां मन्मथेन रोमेराजिमञ्जरीं बिभ्राणाम्, अन्तःप्रविष्टकर्णपल्लवप्रतिबिम्बेनाति भरखिद्यमानहृदयकरतलप्रेर्यमाणेनेव निष्पतता मकरकेतुपादपीठेन स्तनभरेण भूषिताम्, अधोमुखकर्णाभरणमयूखाभ्यामिव प्रसृताभ्याममललावण्यचलमृणालाभ्यां बाहुभ्यां नखकिरणविसरवर्षिणा च माणिक्यवलयगौरव श्रमवशात्स्वेदजलधाराजालकमिव मुञ्चता करयुगलेन समुद्भासिताम्, स्तनभारावनम्यमानमाननमिवोन्नमयता हारेणोच्चैः करैर्गृहीतचिबुकदेशाम्, अभिनवयौवन - *********** पिकामुद्वहन्तीं धारयन्तीम् । त्रिभुवनेति । मन्मथेण कंदर्पेण लिखितां लिपीकृतां त्रिभुवनस्य यो विर्जयो जयस्तस्य प्रशस्तिवर्णाः श्लाघाक्षराणि तेषामावलीमिव रोमराजिमञ्जरीं तनूरुहसमूहवल्लरीं बिभ्राणां दधानाम् । अन्तरिति । अन्तः प्रविष्ट एवंभूतः कर्णपल्लवस्य यैः प्रतिबिम्बस्तेन तन्मिषेणातिभरेण अर्थात्कामभारेण खिद्यमानं पीड्यमानं यद्धृदयं तस्य मृदुत्वरक्तत्वसाम्यात् । अत्र च प्रतिबिम्बरूपेण करतलेनेव प्रेर्यमाणं नोदनाविषयीक्रियमाणमेवंभूतम् । अत एव निष्पतता बहिर्निःसरता दृढत्वान्मकरकेतोर्मदनस्य पादपीठेनेव पदासनेनेव स्तनभरेण भूषितां मण्डिताम् । अधोमुखेति । बाहुभ्यां भुजाभ्यां करयुगलेनेव समुद्भासितां विभ्राजिताम् । बाहुमुत्प्रेक्षयन्नाह - अधो इति । अधोमुखेऽवाङ्मुखे ये कर्णाभरणे श्रवणभूषणे तयोर्मयूखाभ्यां किरणाभ्यां प्रसृताभ्यामत्यन्तप्रवृद्धाभ्यामिव । अतिकोमलसाधर्म्यात् उपमान्तरं प्रदर्शयन्नाह - अमलेति । अमलं निर्मलं यल्लावण्यजलं पानीयं तस्य मृणालकाभ्यामिव तन्तुलाभ्यामिव । करयुगलं विशेषयन्नाह - नखेति । नखाः पुनर्भवास्तेषां किरणास्तेषां विसरः समूहस्तद्वर्षिणा तद्दृष्टिकारिणा । किरणविसरस्य श्वेतत्वसाम्यादाह माणिक्येति । माणिक्यवलयानां रत्नकटकानामप्युद्वहनगौरवेण श्रम इति सौकुमार्यं ध्वन्यते । तद्वशात्स्वेदः प्रस्वेदस्तस्य जलधाराजालकमिव मुञ्चता त्यजता । पुनः कीदृशीम् । स्तनेति । हारेण मुक्ताकलापेनोच्चैः करैः स्वकिरणैस्तैरेव वा करैर्गृहीतश्चिबुकदेशो नासिकाधःप्रदेशो यस्याः सा ताम् । किं कुर्वता हारेण । स्तनभारेणावनम्यमानं नम्रतां नीयमानमाननं मुखमुन्नमयतेवोच्चैः कुर्वतेव । अभीति । अभिनवं नूतनं यद्यौवनं तारुण्यं तदेव चञ्चलत्वात्पवनस्तेन क्षोभितस्य क्षोभं प्रापितस्य रागसागरस्य रागसमु - - टिप्पo - 1 सौन्दर्येणानया त्रिभुवनं विजितमिति कामदेवसदृशेन (निर्णायकेन) लिखितामित्याशयः । ' मन्मथेन आत्मनस्त्रिभुवनविजयस्य प्रशस्तिः स्वयं लिखितेत्यर्थस्तु' मन्ये न तथा मनोरमः स्यात्, स्वयं स्वप्रशस्तिलेखस्यानुचितत्वात् । 2 स्वच्छतया अन्तः प्रविष्टं कर्णपल्लवप्रतिबिम्बं यस्य तादृशेन अतिभरखिद्यमानेन हृदयेन (क) करतलेन (हृदयपतितमेतद्विम्बमेव हृदयस्य करतलं तेन, 'करणेन') प्रेर्यमाणेनेत्यर्थः । अयं भावः - कोमलं हृदयं कामपीटायितस्तनभारेणात्यन्तं खिन्नम् । अत एव कर्णपल्लवप्रतिबिम्बरूपेण स्वस्य (हृदयस्य) करतलेन तत् (स्तनरूपं कामपादपीठम् ) खेदभरासहनतया बहिर्निस्सार्यमाणमस्ति, अत एव तु क्रमशो निर्गच्छतीत्याशयः । 3 बाहुभ्यां तथा करयुगलेन च समुद्भासितामिति वाक्यार्थः । तत्र बाहुभ्यामित्यत्र कर्णाभरणसंबन्धिस्थूलकिरणत्वं मृणालत्वं चोत्प्रेक्ष्यते । करयुगलसंबन्धिनखकिरणप्रसरणे च स्वेदजलधारावर्षणमुत्प्रेक्ष्यते इति विवेकिभिराशयो बोध्यः । 4 हस्तैः । यथा हस्तैस्तथा किरणैश्चिबुकप्रदेशः स्पृष्टः । उन्नामयता इवेत्युप्रेक्षा, करशब्दश्लेषमूलकेन चिबुककर्मकस्पर्शग्रहणयोरभेदाध्यवसायेनातिशयोक्तिश्चेत्यनयोः संकरः । पाटा० - १ मण्डलीम्; स्थलीम्. २ रोमराजी. ३ मृणालकाण्डाभ्याम् ४ वहनश्रमात्. ५ ऊर्ध्वेः. ( कादम्बरीवर्णनम् पूर्वभागः । 389 Page #403 -------------------------------------------------------------------------- ________________ पवनक्षोभितस्य रागसागरस्य तरङ्गाभ्यामिवोद्गताभ्यां विद्रुमलतालोहिताभ्यामधराभ्यां रक्तावदातस्वच्छकान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसंपुटच्छविना कपोलयुगलेन रतिपरिवादिनीरत्नकोणचारुणा नासावंशेन च विराजमानाम्, गतिप्रसरनिरोधिश्रवणकोपादिव किंचिदारक्तापाङ्गेन निजमुखलक्ष्मीनिवासदुग्धोदधिना लोचनयुगलेन लोचनमयमिव जीवलोकं कर्तुमुद्यताम्, उन्मदयौवनकुञ्जरमदराजिभ्यां भूलताभ्यां मनःशिलापङ्कलिखितेन च रोगाविष्टेन मन्मथहृदयेनेव वदनलग्नेन तिलकबिन्दुना विद्योतितललाटपट्टाम्, उत्कृष्टहेमतालीपट्टाभरणमयमामुक्तकर्णोत्पलच्युतमधुधारासदेहकारिणं कर्णपाशं दोलायमानपत्रमरकतमाणिक्यकुण्डलं दधतीम्, पाटलीकृतललाटेन सीमन्तचुम्बिनचूडामणेः क्षरतांशुजालेन मदिरारसेनेव प्रक्षाल्यमानदीर्घकेशकलापाम्, देहार्धप्रविष्टहरगर्वितगौरीविजिगीषयेव सर्वाङ्गानुप्रवि - *********** द्रस्योद्गताभ्यां प्रादुर्भूताभ्यां तरङ्गाभ्यामिव । विद्रुमेति । विद्रुमलतावल्लोहिताभ्यां रक्ताभ्यामधराभ्यां दन्तच्छदाभ्यां तथा रक्तावदातेन स्वच्छा निर्मला कान्तिर्यस्यैवंविधेन । मदिरेति । मदिरारसः कापिशायनद्रवस्तेन पूर्णं भृतं माणिक्यशुक्तिसंपुटं तद्वच्छविः कान्तिर्यस्यैवंविधेन कपोलयुगलेन । तथा रतः परिवादिनी सप्ततन्त्रीभिर्युक्ता वीणा तस्या रत्नमयो यः कोणो वीणादिवादनं तद्वच्चारुणा मनोहरेण नासावंशेन च नासिकावेणुना च विराजमाना शोभमानाम् । गतीति । गतिर्गमनं तस्य प्रसरो विस्तारस्तस्य निरोधिप्रतिद्वन्द्वि यच्छ्रवण तस्य यः कोपस्तस्मादिव किंचिदारक्तेऽपाङ्ग निर्याणे यस्य स तेन । निजेति । निजमात्मीयं यन्मुखं तस्या या लक्ष्मीः श्रीस्तस्या निवासार्थं दुग्धोदधिना क्षीरसमुद्रेणैवंविधेन लोचनयुगलेन नेत्रयुग्मेन लोचनमयमिव जीवलोक कर्तुमुद्यताम् । कपोलावधिश्यामलेखाद्वयसाम्येनाह - उन्मदेति । उद्गतो मदो यस्मादेवभूतं यद्यौवनं स एवानिवार्यत्वात्कुञ्जरस्तस्य मदो दानं तस्य राजीव राजी ताभ्यां भ्रूलताभ्याम् । तथा रागोऽनुरागस्तेनाविष्टेन व्याप्तेन । अथ च राग आरुण्यम् । तिलकारुण्यमिति यावत् । एवंविधेन मन्मथहृदयेनेव कंदर्पस्वान्तेनेव वदनलग्नेन मनःशिलापङ्कलिखितेन तिलकबिन्दुना विद्योतितं प्रकाशित ललाटपट्ट यस्याः सा ताम् । केचित्तु : मन्मथो हृदये यस्मात्, तिलकारुण्यं दृष्ट्वा यूनां हृदये मन्मथावेश एवंविधेनेवेति व्याख्यानयन्ति । पुनः किं कुर्वन्तीम् । दधतीं धारयन्तीम् । कर्णपाशं कर्णाभरणविशेषम् । दोलायमानं पत्रं स्वर्णपत्रं यस्मिन्नेतादृशं मरकतमाणिक्यनिर्मितं कुण्डलं च । आयं विशेषयन्नाह - उत्कृष्टेति । उत्कृष्टा अत्यद्भुता या हेमताली स्वर्णताली तस्याः पट्टाभरणेन निर्मितम् । तस्य च पिङ्गवर्णत्वात्कमलमकरन्दस्याप्येवंभूतत्वात्तसाम्येनाह - आमुक्तेति । आमुक्तं परिधानीकृतं यत्कर्णोत्पलं श्रवणकुवलयं तस्माच्युता सस्ता या मधुधारा तस्याः सदेहकारिणमारेकाजनकम् । पाटलीति । पाटलीकृतं श्वेतरक्तीकृतं ललाटमलिक येनैवंविधेन सीमन्तचुम्बिनः केशवम॑चुम्बिनचूडामणेः शिरोमणेरंशुजालेन किरणसमूहेन । क्षरता सवता अनेकवर्णत्वसाम्यादाह - मदिरारसेनेव प्रक्षाल्यमानो दीर्घ आयतः केशकलापोऽलकसमूहो यस्याः सा ताम् । देहेति । देहार्धे शरीराधैं प्रविष्टो यो हर ईश्वरस्तेन गर्विता गर्वं प्राप्ता या गौरी तद्विजिगीषयेव विजेतुमिच्छयेव । सर्वाङ्गेष्वनुप्रविष्टो हरविरोधी मन्मथस्तेन दर्शितः सौभाग्यविशेषो यस्याः सा ताम् । एतेन सर्वाङ्गानङ्गप्रवेशेन गौर्याः सका - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'मिजराफ' इति प्रसिद्धः । 2 कर्णपाशनामको नाद्यावधि श्रुतो भूषणविशेषः । पाशाकारं (शष्कुल्याकार) कर्णमित्यर्थः । उत्कृष्टहेमनिर्मिततालीपत्राकार(भूषणविशेष)व्याप्तम्, दोलायमानं स्वर्णपत्रं यस्मिन्नेतादृशं मरकतमाणिक्याभ्यां निर्मितं कुण्डलं यस्मिन् (बहुविहिगर्भो बहुव्रीहिः) एवंविधं कर्णपाशम् (प्रशस्तं कर्णम्) दधतीमिति तदर्थः । कर्णे कुण्डलं कुण्डले च तदवयवभूतं स्वर्णपत्रम् ('पीपलपत्ता' इत्यादि भाषाख्यातम्) इति बहुव्रीहिद्वयार्थः । पाठा० - १ नयनमयम्. २ रागाविष्ट. ३ एकमाश्लिष्टहेमताटीपुराभरणमपरम्. ४ चुम्बितचूडामणेः. ५ रागेण. 390 कादम्बरी । कथायाम् Page #404 -------------------------------------------------------------------------- ________________ ष्टमन्मथदर्शितसौभाग्यविशेषाम्, उरः समारोपितलक्ष्मीमुदितनारायणावलेपहरणाय प्रतिबिम्बकैर्निजरूपतो लक्ष्मीशतानीव सृजन्तीम्, उत्तमाङ्गनिहितैकचन्द्रविस्मितहराभिमाननाशाय विलासस्मितैश्चन्द्रसहस्राणीव दिक्षु क्षिपन्तीम्, निर्दयदग्धैकमन्मथप्रमथनाथरोषेणेव प्रतिहृदयं मन्मथायुतान्युत्पादयन्तीम्, रजनीजागरखिन्नस्य परिचितचक्रवाकमिथुनस्य स्वप्तुं क्रीडानदिकासु कमलधूलिवालुकाभिर्बालपुलिनानि कारयन्तीम्, 'परिजननूपुररवप्रैस्थितं दुर्लभं च हंसमिथुनं मृणालनगडकेन बद्ध्वानय' इति हंसपालीमादिशन्तीम्, आभरणमरकतमयूखालिर्हेतेर्हरिणशावकाय सखीश्रवणादपनीय यवाङ्कुरप्रसवं प्रयच्छन्तीम्, आत्मवर्धिर्तलताकुसुमनिर्गमनिवेदनागतामुद्यानपालीमशेषाभरणदानेन संमानयन्तीम्, उपनीतविविधवनकुसुमफलपूर्ण - *********** 1 शादस्याः सौभाग्यातिशयो व्यज्यते । उर इति । उरः स्थले समारोपिताऽवस्थापिता या लक्ष्मीस्तया मुदितो हर्षं प्राप्तो यो नारायणस्तस्य योऽवलेपोऽहंकारो मत्सदृशः कोऽपि नास्ति, अन्येषां लक्ष्मीर्वर्तते सा बहिःसंयोग वियोगमात्रेण परं न शरीरान्तर्गतेत्येवंरूपस्तस्य हरणाय निवृत्तेर्निजरूपत आत्मीयदेहस्य । सार्वविभक्तिकस्तस् । तस्य प्रतिबिम्बकैः प्रतिच्छायैर्लक्ष्मीशतानीव सृजन्तीं कुर्वन्तीम् । उत्तमाङ्गे शिरसि निहितः स्थापितो य एकोऽद्वितीयश्चन्द्रः शशी तेन विस्मितो हर ईश्वरस्तस्याभिमानोऽहंकारः एका चन्द्रस्य कला, सापि स्वोत्तमाङ्गे एव, नान्यस्य कस्यचित्, स्वतन्ववयवे बर्हिवा, इत्येवंरूपस्तद्वैपरीत्येन तदभि (मान) नाशाय विशदाह्लादकत्वसाम्येन विलासस्मितैर्दिक्षु चन्द्रसहस्राणीवं क्षिपन्तीम् । तादृशस्मितान्येव चन्द्रसहसरूपतां प्राप्तानीत्यर्थः । निर्दयदग्धेति । निर्दयं निष्करुणं दग्धो ज्वालित एकोऽद्वितीयो मन्मथः कंदर्पो येनैवंभूतो यः प्रमथनाथ ईश्वरस्तस्मिन्यो रोषः क्रोधस्तेनेव प्रतिहृदयं मन्मथस्यायुतानि संख्याविशेषाण्युत्पादयन्तीं निर्माणं कुर्वन्तीम् । रजनीति । रजन्यां यो जागरो जागरणं तेन खिन्नस्यैवंविधस्य परिचितं स्ववशमानीतं यच्चक्रवाकमिथुनं द्वन्द्वचयुग्मं तस्य स्वप्तुं शयनं कर्तुं क्रीडानदिकासु क्रीडातटिनीषु कमलानां नलिनानां धूलयः परागास्ता एव वालुकाः सिकतास्ताभिर्बालपुंलिनानि स्वसैकतानि कारयन्तीम् । अत्र पूर्वोक्तेषु वक्ष्यमाणेषु वा यत्र यत्र द्रव्यगुणक्रियाभिः प्रस्तुतप्रशंसा तत्र सर्वत्र यथोचितं तत्तदतिशया एव व्यङ्ग्याः स्वयं बोद्धव्याः । यथा निजरूपतः प्रतिबिम्बैरित्यत्र रूपातिशयः । यथा वा रजनीत्यत्र कमलातिशयः पुलिनक्रियातिशयश्च । परिजनेति । परिजनः परिच्छदलोकस्तस्य नूपुराणि पादकटकानि तेषां रवः शब्दस्तेन प्रस्थितं चलितं दुर्लभं दुष्प्रापं च हंसमिथुनं चक्राङ्गयुग्मं मृणालं तन्तुलं तदेव निगडकमन्दुकस्तेन बद्ध्वा नियम्यानय मत्समीपं प्रापय । इति हंसपाली हंसारक्षानियुक्तामादिशन्त कथयन्तीम् । पुनः किं कुर्वन्तीम् । आभरणानां भूषणानां मरकतान्यश्मगर्भाणि तेषां मयूखान्किरणालिहत आस्वादयते हरिणशावकाय मृगशिशवे सखीश्रवणाद्वयस्याकर्णाद्यवाङ्कुरप्रसवं हयप्रियोद्गमपुष्पमपनीय दूरीकृत्य प्रयच्छन्तीं ददतीम् । आत्मेति । म स्वयं वृद्धिं प्रापिता या लता वल्ली तस्यां कुसुमनिर्गमः पुष्पप्रादुर्भावस्तस्य निवेदनाय कथनायागतां प्राप्तामुद्य नपाली वनरक्षानियुक्तामशेषाभरणदानेन समग्रभूषणप्रदानेन संमानयन्तीं संमानं कुर्वन्तीम् । उपेति । उपनीतान्यानीतानि विविधान्यनेकप्रकाराणि वनकुसुमफलानि तैः पूर्णं भृतं पत्रपुटं यया सा ताम् । अविज्ञायमानो य आलापः संलापस्तस्य भावस्तत्ता तया हासहेतुं परिहासनिमित्तं पुनः पुनर्भूयोभूयः क्रीडापर्वतस्य पत्रशर्बरी पुलिन्दपत्नीम् । टिप्पo - 1 लघुसैकतानि । 2 ' क्रीडापर्वतकपातृशबरीम्' इत्यपि पाठः । क्रीडापर्वतस्य पात्री रक्षिका या शबरीति तदर्थः । हंसपाली उद्यानपाली प्रकरणेन पर्वतपालिकायाश्च स्पष्टं प्रतिभासनात् । प्राकृतपर्वते निवसन्ती शबरी मनुष्यभाषां न जानाति । किन्तु कृत्रिमक्रीडापर्वतरक्षिकाऽपि स्वस्वामिनो भाषां न बुध्यत इति अतिशयकल्पनमेव बाणस्य । पाटा० - १ एकलक्ष्मी. २ स्विन्नस्य ३ प्रस्थितं वल्लभं च हंसमिथुनम् प्रस्थितं च वल्लभहंसमिथुनम् ४ लिहतेहरिततृणसूचीलोभेन. ५ भवनहरिण. ६ संवर्धितलताप्रथमकुसुम. ( कादम्बरीवर्णनम् पूर्वभागः । 391 Page #405 -------------------------------------------------------------------------- ________________ पत्रपुटामविज्ञायमानालापतया हासहेतुं पुनः पुनः क्रीडापर्वतपत्रशबरीमालपन्तीम्, करतलविनिहितैर्मुहुर्मुहुरूत्पतद्भिश्च मुखपरिमलान्धैर्नीलकञ्चुकैरिव मधुकरैः क्रीडन्तीम्, पञ्जरहारीतकरुतश्रवणकृतदुष्टस्मितां चामरग्राहिणी विहस्य लीलाकमलेन शिरसि विघट्टयन्तीम्, मुक्ताफलखचितचन्द्रलेखिकासंक्रान्तप्रतिमा स्वेदजलबिन्दुजालंचितनखपदाभिप्रायेण ताम्बूलकरङ्कवाहिनीं पयोधरे पटवासमुष्टिना ताडयन्तीम्, रत्नकुण्डलप्रतिबिम्बसान्द्रदत्तनवनखपदमण्डलाशङ्कया चामरग्राहिणी विहस्य कपोले प्रसादव्याजेन दत्तेनात्मकर्णपूरपल्लवेनाच्छादयन्तीम्, पृथिवीमिव समुत्सारितमहाकुलभूभृद्व्यतिकरां शेषेभोगनिषण्णाम्, मधुमासलक्ष्मीमिव षट्पदपटलापह्रियमाणकुसुमरजोधूसरपादपरागाम्, शरदमिवोत्पादितमानसजन्म - *********** 'पुलिन्दः पत्रशबरः' इति रत्नकोशः । आलपन्ती जल्पन्तीम् । करेति । करतले हस्ततले विनिहितैः स्थापितैर्मुहर्मुहुरिवारमुत्पतद्भिरुत्पतनं कुर्वद्भिर्मुखस्य यः परिमलस्तेनान्धैः । नीलत्वसाम्यादाह - नीलेति । नीलकञ्चुकैरिव मधुकरैभ्रमरैः क्रीडन्ती क्रीडां कुर्वन्तीम् । पञ्जरेति । पञ्जरे वंशदलनिर्मिते पात्रे यो हारीतको मृदङ्कुरस्तस्य रुतश्रवणेन कृतं दुष्टं गूढं स्मितं यया सा ताम् । एवंविधां चामरग्राहिणी विहस्य शिरसि मस्तके लीलाकमलेन विघट्टयन्तीं ताडयन्तीम् । मुक्तेति । मुक्ताफलानि रसोद्भवानि तैः खचिता या चन्द्रलेखिका चन्द्रलेखाकृतिराभरणविशेषस्तस्याः संक्रान्ता प्रतिबिम्बिता प्रतिमा यस्यां सैवंविधां ताम्बूलकरङ्कवाहिनीं स्वेदजलबिन्दुजालेन चितं व्याप्तं यन्नखपदं तस्याभिप्रायेण पयोधरे कुचे पटवासः पिष्टातस्तस्य मुष्टिना ताडयन्तीम् । अत्रायमभिप्रायः - मुक्ताफलानां जलबिन्द्वनुकारित्वाच्चन्द्रलेखिकायाश्च वक्रत्वेन नखक्षतानुकारित्वात्ताम्बूलकरङ्कवाहिनीवक्षसि गौररूपातिशयवति मुक्ताचन्द्रिकायाः प्रतिबिम्बसंक्रान्त्या चौर्यरतपिशुनं स्वेदबिन्दुजालचिते नखपदं कस्येदमित्यभिप्रायेण यत्र तद्दर्शनं तत्रेव चूर्णक्षेपः । एतेन रतगोपनं व्यज्यते । रत्नेति । रत्नकुण्डलस्य यः प्रतिबिम्बः प्रतिच्छायस्तेन सान्द्रं दत्तं यन्नवनखपदमण्डलं तस्याशङ्कयारेकया वा चामरग्राहिणीं वालव्यजनधारिणी विहस्य कपोले प्रसादः प्रसन्नता तद्व्याजेन तन्मिषेण दत्तेनार्पितेनात्मनः स्वकीयस्य यः कर्णपूरपल्लवस्तेनाच्छादयन्तीमाच्छादनं कुर्वन्तीम् । एतेन रत्नकुण्डलस्य वक्रलोहितातिशयवन्नखक्षतिसाम्यं प्रदर्शयन्नाह - समुत्सारितेति । समुत्सारितो दूरीकृतो महाकुलानां भूभृतां राज्ञां व्यतिकरो वृत्तान्तो यया सा ताम् । कादम्बर्याः पितुरपेक्षयान्येषां राज्ञां न्यूनत्वादिति भावः । पक्षे महाकुलभूभृतां कुलाचलाना व्यतिकरः सामर्थ्य यया सा ताम् । शेषा उर्वरिता अन्यजनैरस्पृष्टा ये भोगास्तत्र निषण्णामुपविष्टाम् । पक्षे शेषस्य नागाधिपस्य यो भोगोऽहिकायस्तत्र निषण्णां स्थिताम् । मधुमासेति । मधुमासश्चैत्रमासस्तस्य लक्ष्मीः श्रीस्तामिव । उभयोः साम्यं प्रदर्शयन्नाह - षट्पदेति । षट्पदानां भ्रमराणां पटलैरपहियमाणं यत्कुसुमरजस्तेन धूसर ईषत्पाण्डुः पादयोश्चरणयोः पराग उपरागो यस्याः । 'परागः ख्यात्युपरागयोः' इति विश्वः । पक्षे पादपानां वृक्षाणां राग आरुण्यं यस्याम् । शरदिति । शरद्धनात्ययस्तामिव । उभयोः साम्यमाह - उत्पादितेति । उत्पादितो जनितो मानसं मनस्तस्माज्जन्म यस्य स मानसजन्मा कंदर्पस्तस्य पक्षो - टिप्प० - 1 'भूभृद्व्यतिकरशेषभोगनिषण्णाम् इत्यपि पाठः । 'महाचेतायां सशोकायां नाहं पाणिं ग्राहयिष्यामि' इति प्रतिज्ञानुसारं दूरीकृतः महाकुलाना भूभृतां (राज्ञाम्) व्यतिकरः संसर्गसुखं तस्मात् शेषेषु (अवशिष्टेषु) सुखेषु सक्चन्दनसखीविनोदादिषु स्थितम् । पक्षान्तरे तु ज्ञात एवार्थः, अर्थात् समुत्सारितः स्वसमीपं प्रापितः कुलशैलानां व्यतिकरः सम्बन्धो यया तादृशी च शेषस्य शरीरे निषण्णा चेति । पाठा० . १ पर्वतकशबरीम् पर्वतकपातृशबरीम्. २ आलापयन्तीम्. ३ विनिहतैः; अभिहतैर्मुहुरपसर्पद्विरुपसर्पद्भिश्च. ४ कन्दुकैः. ५ हारीतकलरुत. ६ लेखिकाप्रतिम. ७ जालाञ्चित. ८ स्तनतटे. ९ प्रतिबिम्बमादन्तव्रणमण्डल. १० व्याज. ११ भूभृद्वरव्यतिकर. १२ शेषभोगेषु निषण्णां च. १३ सखीम्. (392 कादम्बरी। कथायाम् Page #406 -------------------------------------------------------------------------- ________________ पक्षिरवापनीतनीलकण्ठमदाम्, गौरीमिव श्वेतांशुकरचितोत्तमाङ्गाभरणाम, उदधिवेलावनलेखामिव मधुकरकुलनीलतमालकाननाम्, इन्दुमूर्तिमिवोद्दाममन्मथविलासगृहीतगुरुकलत्राम्, वनराजिमिव पाण्डुश्यामलवलीलतालंकृतमध्याम्, दिनमुखमिव भास्वन्मुक्तांशुभिन्नपद्मरागप्रसाधनाम्, आकाशकमलिनीमिव स्वच्छाम्बरदृश्यमानमृणालकोमलोरुमूलाम्, मयूरावलीमिव नितम्बचुम्बिशिखण्डभारविस्फुरच्चन्द्रकान्ताम्, कल्पतरुलतामिव कामफल - *********** विद्यते येषां मानसजन्मपक्षिणां रव उपभोगानुकूलः शब्दो यया सा । कामिनामुपभोगविषयकालाप उद्दीपकत्वात्कादम्बर्येवोत्पादित इत्यर्थः । ततोऽपनीतो दूरीकृतो नीलकण्ठो मदनदाहको महादेवस्तस्य मदः । मदनसहसोत्पादकत्वस्य पूर्वमुक्तत्वात्पश्चात्कर्मधारयः । ताम् । पक्षे मानसजन्मानो ये पक्षिणस्तेषां रवेण शब्देनापनीतो दूरीकृतो नीलकण्ठस्य मयूरस्य मदो यया सा ताम् । गौरीति । गौरी पार्वती तामिव श्वेतमंशुकं वस्त्रं यस्याः सा । विरचितान्युत्तमाङ्गावध्याभरणानि भूषणानि यया सा । पश्चात्कर्मधारयः । ताम् । पक्षे श्वेता अंशवः किरणा यस्यैवंभूतः श्वेतांशुकश्चन्द्रः स एव रचित उत्तमाङ्ग आभरणं यया । हारस्येति शेषः । उदधीति । उदधिः समुद्रस्तस्य वेलावनं समीपवर्ति काननं तस्य लेखा राजिस्तामिव । मध्विति । मधुकराणां भ्रमराणां कुलं समुदायस्तद्वन्नीलतमा अतिशयेन हरिता अलकाः केशा आनने मुखे.यस्याः सा ताम् । पक्षे मधुकरकुलयुक्तं नीलतमालकाननं यस्याम् । इन्दुमूर्तीति । इन्दुश्चन्द्रस्तस्य मूर्तिस्तामिवोद्दामा उत्कटा ये मन्मथविलासाः कंदर्पविभ्रमास्तैर्गृहीतं स्वीकृतं गुरु महत्कलत्रम् । भार्या यया सा ताम् । कामव्याकुलचेतसा चन्द्रेण बृहस्पतेस्तारापहृतेति पुराणप्रसिद्धम् । वनेति । वनस्य राजिर्लेखा तामिव । उभयोः शब्दसाम्यमाह - पाण्ड्विति । अङ्कुरितयौवनत्वाच्छ्यामलाः कृष्णा वल्ल्यस्त्रिवल्ल्यस्ता एव सरलत्वसाम्याल्लता वल्ल्यस्ताभिरलंकृतो मध्यः कटिप्रदेशो यस्याः सा ताम् । पक्षे लवली लताः ताभिरलंकृतो भूषितो मध्यो मध्यप्रदेशो यस्याः सा ताम् । दिनमिति । दिनस्य वासरस्य मुखमाननं तद्वदिव । भास्वदिति । भास्वन्त्यो दीप्यन्त्यो या मुक्ता मुक्ताफलानि तेषामंशुभिः किरणैर्भिन्नानि मिश्रितानि पद्मरागाणां प्रसाधनानि भूषणानि यस्याः सा ताम् । पक्षे भास्वता सूर्येण मुक्ता येऽशवः किरणास्तैर्भिन्नानि विकसितानि यानि पद्मानि कमलानि तेषां रागो रङ्गः स एव प्रसाधनं यस्याः सा ताम् । आकाशेति । आकाशं व्योम तस्य कमलिनी स्वर्गीयनलिनी तामिव । स्वच्छेति । स्वच्छं निर्मलं यदम्बरं तस्मिन्दृश्यमानं विलोक्यमानं मृणालवत्कोमलमूरुमूलं सक्थिमूलं यस्याः सा ताम् । पक्षे स्वच्छेऽम्बर आकाशे मृणालस्य तन्तुलस्य कोमलं सुकुमारमुरु विस्तीर्णं मूलं बुघ्नं यस्याम् । मयूरेति । मयूराणां कलापिनामावली श्रेणी तामिव । नितम्बेति । नितम्बः कटकस्तच्चुम्बिनि, अर्थाद्वस्त्रे, शिखण्डभारवत्कलापिपिच्छसमूहबच्चन्द्रकाश्चन्द्राकृतयो बिन्दवोऽन्ते प्रान्ते यस्याः सा ताम् । पक्षे नितम्बचुम्बिशिखण्डभारस्तस्मिन्विस्फुरिता देदीप्यमानाश्चन्द्रका मेचका अन्ते यस्याः सा ताम् । कल्पेति । कल्पतरुर्मन्दारः सरलत्वात्स एव लता तामिव । उभयोः सादृश्यमाह - कामेति । कामं वाञ्छितं यत्फलं तस्य प्रदामित्यभङ्ग - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 उत्पादितस्य स्व-भावविलासेन जनितस्य मानसजन्मनः (कामस्य) पक्षिणां ककपक्षयुक्तानां बाणानां रवेण अपनीतो नीलकण्ठस्य (शिवस्य) मदः (तेन कामो दग्धः, कादम्बर्या तु स्वसामर्थेनोत्पादितः) यया तामित्यर्थः । अन्योर्थः स्फुटः । 2 उपमायां लिङ्गभेदो दोषायेति 'दिनमुखलक्ष्मीमिव' इत्युचितः पाठः । प्रभातलक्ष्मीः (शोभा) इति तदर्थः । 3 नितम्बचुम्बी शिखण्डभारः (केशपाशः) यस्याः सा चासौ च विस्फुरन् (शोभमानः) चन्द्र इव कान्ता (कमनीया) चेति स्फुटोऽर्थः । 4 कादम्बरीपक्षे-कामफलं मदनविकाररूपं फलं प्रददातीत्यर्थः । पाठा० - १ विरचित. २ मुखलक्ष्मीम्. (कादम्बरीवर्णनम् । पूर्वभागः । 393 Page #407 -------------------------------------------------------------------------- ________________ प्रदाम्, पुरः समीपे संमुखोपविष्टाम् ‘कोऽसौ, कस्य वापत्यम्, किमभिधानो वा, कीदृशमस्यरूपम्, कियद्वा वयः, किमभिधत्ते, भेवता किमभिहितः, कियच्चिरं दृष्टस्त्वया, कथं चास्य महाश्वेतया सह परिचय उपजातः, किमयमत्रागमिष्यति' इति मुहुर्मुहुश्चन्द्रापीडसंबंद्धमेवालापं तद्रूपवर्णनामुखरं केयूरकं पृच्छन्ती कादम्बरी ददर्श । तस्य तु दृष्टकादम्बरीवदनचन्द्रलेखालक्ष्मीकस्य सागरस्येवामृतमुल्ललास हृदयम् । आसीच्चास्य मनसि - ‘शेषेन्द्रियाण्यपि मे वेधसा किमिति लोचनमयान्येव न कृतानि । किं वानेन कृतमवदातं कर्म चक्षुषा यदनिवारितमेना पश्यति । अहो चित्रमेतदुत्पादितं वेधसा सर्वरमणीयानामेकं धाम । कृत एते रूपातिशयपरमाणवः समासादिताः । तन्नूनमेनामुत्पादयतो विधेः करतलपरामर्शक्लेशेन ये विगलिता लोचनयुगलादश्रुजलबिन्दवस्तेभ्य एतानि जगतिकुमुदकमलकुवलयसौगन्धिकवनान्युत्पन्नानि इत्येवं चिन्तयत एवास्य तस्या नयनयुगले निपपात चक्षुः । तदा तस्या अपि नूनमयं स केयूरकेणावेदित इति चिन्तयन्त्या रूपातिशयविलो - *********** श्लेषः । पुर इति । पुरोऽग्रे समीपे सविध उपविष्टमासीनं कोऽसौ चन्द्रापीडः, कस्य च राज्ञोऽपत्यं प्रजाः, किमभिधानो वा किंनामा, कीदृशमस्य रूपं सौन्दर्यम्, कियद्वा कियप्रमाणं वयोऽवस्थाविशेषः, किमभिधत्ते किं कथयति, भवता किमभिहितः किं कथितः, त्वया कियच्चिरं कियत्कालं दृष्टः । कथं चेति । केन प्रकारेणास्य पुरोवर्तिपुरुषस्य महाश्वेतया सह परिचयः संस्तव उपजातः । किमयमत्रागमिष्यतीति मुहुर्मुहुश्चन्दापीडसंबद्धं चन्द्रापीडविषयकमेवालापं वार्ता तस्य चन्द्रापीडस्य या वर्णनाप्रशंसा तत्र मुखरं वाचालं केयूरकं पृच्छन्ती प्रश्नविषयीकुर्वन्ती कादम्बरी ददर्शेति प्रागुक्त एवान्वयः । तस्य त्विति । तस्य चन्द्रपीडस्य हृदयं चेत उल्ललासोच्छसितं बभूव । कीदृशस्य । दृष्टा वीक्षिता कादम्बरीवदनचन्द्रलेखाया लक्ष्मीर्येन स तस्य । कस्येव । सागरस्येवामृतं पानीयं यथा चन्द्रलेखादर्शनादुल्लसति । आसीदिति । अस्य चन्द्रापीडस्य मनसि चित्त एवमासीद्धभूव । वेधसा ब्रह्माणा मे मम शेषेन्द्रियाण्यपि चक्षुर्व्यतिरिक्तान्यपि करणानि किमिति हेतोर्लोचनमयान्येव न कृतानि न विहितानि । किं वेति । अनेन चक्षुषा लोचनेन किमिति प्रश्ने । अवदातं शुद्ध कर्म कृतं विहितम् । अत्रार्थे हेतुं प्रदर्शयन्नाह - यदिति । यद्यस्माद्धेतोरनिवारितं यथा स्यात्तथैतां कादम्बरी पश्यति विलोकयति अहो चित्रमाश्चर्यमेतत् । यद्वेधसा सर्वरमणीयानां समग्रमनोहराणामेकमद्वितीय धाम गृहमुत्पादितं निर्मितम् । एते इति । एते रूपातिशयपरमाणवो वेधसा कुतः समासादिताः कुतः प्राप्ताः । तन्नून निश्चितमेना कादम्बरीमुत्पादयतो विधेब्रहाणः करतलस्य हस्ततलस्य परामर्शः संबन्धस्तस्माद्यः क्लेशस्तेन ये विगलिताः सस्ता लोचनयुगलानेत्रयुग्मादश्रुजलबिन्दवस्तेभ्यः (कर्मकठिनाभ्यां करतलाभ्यां परामर्शः सर्वावयवैः संपूर्णो देहः सिद्ध इत्याशयेन सर्वाङ्गेषु स्पर्शनं तनिमित्तकः क्लेशः श्रमः अतिसौकुमार्यात् तेन ये नयनजलबिन्दवस्तेभ्यो बिन्दुभ्यो) जगति लोके कुमुदानि कैरवाणि कमलानि नलिनानि कुवलयान्युत्पलानि सौगन्धिकानि कह्लाराण्येतेषां वनान्युत्पन्नानि समुद्भूतानि । 'कारणगुणा हि कार्यगुणमारभन्ते' इत्यतिश्वेतसुकुमारावयवजनितानि कुमुदानीत्यर्थः । इत्येवं चिन्तयतो ध्यायत एवास्य चन्द्रापीडस्य तु तस्याः कादम्बर्या नयनयुगले चक्षुर्निपपात दृढसंलग्नं बभूव । तदेति । तस्मिन्काले तस्या अपि कादम्बर्या अपि नूनं निश्चितं पूर्व केयूरकेण मदनुचरेणावेदितो निवेदितः सोऽयमिति चिन्तयन्त्या ध्यायन्त्या रूपातिशयविलोकने यो विस्मयश्चित्रं तेन स्मेरं विनिद्रं निश्चलं निबद्धं लक्ष येनैवंविधं चक्षुस्तस्मिंश्चन्द्रापीडे - टिप्प० - 1 प्रकोष्टमध्यगतो भागः पुनरुक्तप्रायः । इतस्तात्पर्यमानं ग्राह्यम् । 2 लक्ष्यमित्युचितम् । पाठा० - १ पुरःशयनसमीपे. २ भवतां च. ३ अभिहितम्. ४ संबद्धालापम्; संबद्धालापरूप. ५ कादम्बरी. ६ आनने. - - - - - - - - - - - - - - - - 394 कादम्बरी । कथायाम् Page #408 -------------------------------------------------------------------------- ________________ कनविस्मयस्मेरं निश्चलनिबद्धलक्ष चक्षुस्तस्मिन्सुचिरं पपात । लोचनप्रभाधवलितस्तु कादम्बरीदर्शनविह्वलोऽचल इव तत्क्षणमराजत चन्द्रापीडः । दृष्ट्वा च प्रथमं रोमोद्गमः, ततो भूषणरवः, तदनु कादम्बरी समुत्तस्थौ । अथ तस्याः कुसुमायुध एव स्वेदमजनयत्, ससंभ्रमोत्थानश्रमो व्यपदेशोऽभवत् । ऊरुकैम्प एव गतिं रुरोध, नपुररवाकृष्टहंसमण्डलमपयशोलेभे । निःश्वासप्रवृत्तिरेवांशुकं चलं चकार, चामरानिलो निमित्ततां ययौ । अन्तःप्रविष्टचन्द्रापीडस्पर्शलोभेनैव निपपात हृदये हस्तः, स एव करः स्तनावरणव्याजो बभूव । आनन्द एवाश्रुजलमपातयत्, चलितकर्णावतंसकुसुमरजो व्याजमासीत् । लज्जैव वक्तुं न ददौ, मुखकमलपरिमलागतालिवृन्दं द्वारतामगात् । मदनशरप्रथमप्रहारवेदनैव सीत्कारमकरोत्, कुसुमप्रकरकेतकीकण्टकक्षतिः साधा - *********** सुचिरं पपात । लोचनेति । लोचनप्रभा नेत्रकान्तिः । कादम्बर्या इति शेषः । तया धवलितः शुभ्रीकृतः कादम्बर्या दर्शनं सम्यक्तया विलोकनं तत्र विह्वलो व्याकुलोऽचल इव पर्वत इव तत्क्षणं तस्मिन्समये चन्द्रापीडोऽराजताशोभत । तत्र निश्चलत्वसाम्यात्पर्वतानुमानमित्यर्थः । एवमुभयोर्लोचनविषयता प्राप्तयोर्विशेषोक्त्या विभावना वा व्यभिचारिभावा अनुभावाश्च वक्तुमुपक्रमते - दृष्ट्वेति । दृष्ट्वा विलोक्य प्रथममादौ रोमोद्गमो रोमाञ्चः समभूत् । तदुक्तमन्यत्र - 'अपूर्वप्रियदर्शने । बध्ननङ्गेषु रोमाञ्चः इति । ततो भूषणरव आभरणसिञ्जितम् । तदनु तदनन्तरं कादम्बरी समुत्तस्थावुत्थितवती । अथेति समुत्थानानन्तरं तस्याः कादम्बर्याः कुसुमायुध एव स्वेदमजनयत् । सर्वोऽप्ययं प्रपञ्चश्चन्द्रापीडविषयकः कादम्बर्या मनस्युत्कप्रठानिवृत्त्यतिशयप्रतिपादनपरश्च । एतदेव स्पष्टयन्नाह - ससंभ्रमेति । संभ्रमेण सहवर्तमानं ससंभ्रमं यदुत्थानं तस्माद्यः श्रमः खेदः स एव व्यपदेशो मिषं तत्राभवत् । ससंभ्रमोत्थानश्रमादेव मम खेदोऽभूदिति व्याजं कृतवतीत्यर्थः । ऊरुकम्प एव गतिं गमनं रुरोध रुन्धितवान् । नपुरे पादकटके तयो रवः शब्दस्तेनाकृष्टमाकर्षितं यद्धसमण्डलं तदपयशोऽपकीर्तिं लेभे प्राप । मद्गतिनिरोधकृत् हंसमण्डलमिति सखीजनेष्वपभ्राजनां कृतवतीत्यर्थः । निःश्वासेति । निःश्वासानामेतनाना प्रवृत्तिरेव प्रवर्तनमेवांशुक वस्त्रं चलं कम्यं चकार । चामरेति । चामरानिलो वालव्यजनपवनो निमित्ततां कारणतां ययौ । चामरानिलेन मदंशुकं चालितमित्युक्तवतीत्यर्थः । अन्तरिति । अन्तःप्रविष्टो यश्चन्द्रापीडस्तस्य स्पर्शलोभेनैव हृदये हस्तः करो निपपात निपतितो बभूव । स एवेति । स एव करो हस्तः स्तनावरणस्य कुचाच्छादनस्य व्याजो मिषं बभूव । स्तनावरणार्थं हस्तो दत्त इत्यन्येषां चेष्टया ज्ञापितवतीत्यर्थः । आनन्द एवेति । आनन्द एव प्रमोद एवाश्रुजलं नेत्रजलमपातयत्पातितवान् । चलितेति । चलितं कम्पितं कम्पितं यत्कर्णावतंसकुसुमं तस्य रजः परागस्तदेव व्याजो मिषमासीत् । कर्णावतंसरजःपातान्मम नेत्रयोर्जलच्युतिरभूदिति ज्ञापितवतीत्यर्थः । लज्जैवेति । लज्जैव त्रपैव वक्तुं कथयितुं न ददौ । मुखेति । मुखमेव कमलं तस्य यः परिमलस्तस्मादागतं प्राप्तं यदलिवृन्दं भ्रमरसमूहपटलं द्वारतामगादगमत् । भ्रमरैर्निरुद्धवदना मौनं कृतवतीति सख्या ज्ञातव्या । मदनेति । मदनशरस्य यः प्रथमप्रहार आयाभिघातस्तस्य वेदनैव व्यथैव सीत्कारं शब्दविशेषमकरोत् । कुसुमेति । कुसुमप्रकरेषु यः केतकीकण्टकस्तस्माद्या क्षतिः प्रघातः सा साधारणतां निमित्ततामवाप प्राप । केतकीकण्टकाभिघातेनानया सी - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 द्वितीयया तात्पर्यम् । 2 'स एव स्तनावरणव्याजः' इत्युचितः पाठः, सर्वनाम्ना परामृष्टत्वे पुनरुक्तिर्न बाणोचिता । 3 अनयोरेकतर एव प्रयोज्य आसीत् । पाटा० -१ नयनम्, २ बल. ३ क्षणम्. ४ च तं प्रथमम्. ५ व्यपदेशेन. ६ स्तम्भ. ७ अयशः. ८ निश्वास एव; निश्वासप्रवृद्धिरेव. ९ चन्द्रापीडस्य. १० स्तनावरणम. ११ व्याज आसीत्; व्यपदेशतामयासीत्. कादम्बरी-चन्द्रापीडयोमिथोभावावेशः । पूर्वभागः ।। 395) Page #409 -------------------------------------------------------------------------- ________________ रणतामवाप । वेपथुरेव करतलमकम्पयत्, निवेदनोद्यतप्रतीहारीनिवारणं कपटमभूत् । तदा च कादम्बरी विशतो मन्मथस्यापि मन्मथ इवाभूद्वितीयः, तया सह यो विवेश चन्द्रापीडहृदयम् । तथाहि, असावपि तस्या रत्नाभरणद्युतिमपि तिरोधानममस्त, हृदयप्रवेशमपि परिग्रहमगणयत्, भूषणरवमपि संभाषणममन्यत, सर्वेन्द्रियाहरणमपि प्रसादमचिन्तयत्, देहप्रभासंपर्कमपि सुरतसमागमसुखमकल्पयत् । कादम्बरी तु कृच्छ्रादिव दत्तकतिपयपदा महाश्वेतां स्नेहनिर्भरं चिरदर्शनजातोत्कण्ठा सोत्कण्ठं कण्ठे जग्राह । महाश्वेतापि दृढतरदत्तकण्ठग्रहा तामवादीत् - 'सखि कादम्बरि, भारत वर्षे राजानेकवरतुरगखुरमुखोल्लेखदत्तचतुःसमुद्रमुद्रो रक्षितप्रजापीडस्तारापीडो नाम । तस्यायं निजभुजशिलास्तम्भविश्रान्तविश्वविश्वंभरापीडश्चन्द्रापीडो नाम सूनुर्दिग्विजयप्रसङ्गेनानुगतो भूमिमिमाम् । एष च दर्शनात्प्रभृति प्रकृत्या मे निष्कारणबन्धुतां गतः । परित्यक्तसकला - *********** त्कारो विहित इति सख्यो मेनिरे । वेपथुरेव कम्प एव करतलं हस्ततलमकम्पयत् । निवेदनेति । निवेदने ज्ञापन उद्यता या प्रतीहारी तस्या निवारणं कपट कैतवमभूत् । प्रतीहारीनिवेदितवस्तुप्रतिषेधद्वारा करकम्पनमाचरितमिति सखीभिरज्ञायीति भावः । नायिकाक्रमेण तानुक्त्वा नायकक्रमेणाप्याह - तदा चेति । यदा कादम्बरी चन्द्रापीडविषयको मन्मथः प्रविष्टस्तदा तस्य चन्द्रापीडविषयकस्य कादम्बरीहृदयप्रविष्टस्य मन्मथस्यापि प्रत्यर्थीभूतो द्वितीय इव मन्मथोऽभूत् । यथा कादम्बर्यां चन्द्रापीडविषयको मन्मथः प्रविष्टस्तथैव कादम्बरीविषयकोऽपिमन्मथश्चन्द्रापीडहृदयं प्रविवेशेत्यर्थः । तदेवाह - तया सहेति । यस्तस्य कादम्बर्या सह चन्द्रापीडहृदयं विवेश प्रविष्टवान् । तदेव दर्शयति - तथा हीति । असावपि चन्द्रापीडोऽपि तस्याः कादम्बर्या रत्नाभरणानां मणिखचितभूषणानां द्युतिमपि कान्तिमपि तिरोधानमन्तर्धानं साकल्येनावलोकनप्रतिबन्धकममस्त ज्ञातवान् । अयमप्युत्कण्ठानिवृत्त्यतिशयप्रतिपादनपरः प्रपञ्चः । हृदयप्रवेशमपि परिग्रहमावासस्थानमगणयत् । तस्या भूषणरवमपि संभाषणं जल्पनममन्यत । सर्वेन्द्रियाहरणमपि समग्रकरणाकर्षणमपि प्रसादमचिन्तयत् । देहप्रभायाः शरीरकान्तेः संपर्कमपि संबन्धमपि सुरतसमागमसुखमकल्पयन्मैथुनसुखसदृशमगणयत् । कादम्बरी त्विति । कादम्बरी तु कृच्छ्रादिव कष्टादिव दत्तानि कतिपयानि कियन्ति पदानि यया सा महाश्वेतां चिरकालेन यदर्शन तेन जातोत्कण्ठा यस्याः सा ता स्नेहनिर्भर यथा स्यात्तथा सोत्कण्ठं कण्ठे जग्राह कण्ठग्राहं गृहीतवती । महाश्वेतापि दृढतरं दत्तः कण्ठग्रहो यया सैवंविधा तां कादम्बरीमवादीदवोचत् । किमुवाचेत्याह - सखीति । हे सखि कादम्बरी भारते वर्षे भरतक्षेत्रेऽनेके ये वराः श्रेष्ठास्तुरगा अवास्तेषां खुरमुखानामुल्लेखा उत्कर्षास्तैर्दत्ताश्चतुःसमुद्रावधिमुद्रा अङ्को येन सः । रक्षिता प्रजायाः पीडा बाधा येनैवंभूतस्तारापीडो नाम राजास्ति । तस्य राज्ञः । निजेति । निजावात्मीयौ यौ भुजौ तावेव दृढत्वाच्छिलास्तम्भौ तत्र विश्रान्ता सुखेन स्थिता या विश्वविश्वंभरा समग्रवसुधा सैवापीड उत्तंसो भूषणं यस्य सः । 'पीडार्तिर्मदनोत्तंसकृपासु' इत्यनेकार्थः । एतादृशश्चन्द्रापीडो नाम सूनुर्दिग्विजयप्रसङ्गेनेमा भूमिमनुगतः प्राप्तः । एष चेति । एष चन्द्रापीडो दर्शनात्प्रभृत्यवलोकनादारभ्य प्रकृत्या मे मम निष्कारणबन्धुतां गतः प्राप्तः । तनिमित्तमाह - परीति । परित्यक्त उज्झिातो यः सकलः समग्र आसङ्गः सुहृत्संबन्धस्तेन निष्ठुरामपि कठिनामपि सविशेषैविशेषसहितैः - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 कादम्बर्याः यो हृदये प्रवेशस्तमपि 'पतित्वेन ममाऽनया परिग्रहः कृतः' इति कामुकस्वभावानुकूलमकलयत् । - - - -- पाठा० - १ जातोत्कण्ठम्.२ विश्ववन्यः. ३ आगतः. 396 कादम्बरी। कथायाम्-) Page #410 -------------------------------------------------------------------------- ________________ सङ्गनिष्ठुरामपि मे सविशेषस्वभावसरलैर्गुणैरोकृष्य चित्तवृत्तिं वर्तते । दुर्लभो हि दाक्षिण्यपरवशो निर्निमित्तमित्रमकृत्रिमहृदयो विदैग्धजनः । यतो दृष्ट्वा चेममहमिव त्वमपि निर्माणकौशलं प्रजापतेः, निःसपत्नतां च रूपस्य, स्थानाभिनिवेशित्वं च लक्ष्म्याः, सद्धर्वृतासुखं च पृथिव्याः, सुरलोकातिरिक्ततां च मर्त्यलोकस्य, सफलतां च मानुषी - लोचनानाम्, एकस्थानसमागमं च सर्वकलानाम्, ऐश्वर्यं च सौभाग्यस्य, अग्राम्यतां च मनुष्याणां ज्ञास्यसीति बलादानीतोऽयम् । कथिता चास्य मया बहुवारं प्रियसखी । तदपूर्वदर्शनोऽयमिति विमुच्य लज्जाम्, अनुपजातपरिचय इत्युत्सृज्याविश्रम्भताम्, अविज्ञातशील इत्यपहाय शङ्कां यथा मयि तथात्रापि प्रवर्तितव्यम् । एष ते मित्रं च बान्धवश्च परिजनश्च' इत्यावेदिते तया चन्द्रापीडः प्रणाममकरोत् । कृतप्रणामं च तं तदा कादम्बर्यास्तिर्यग्विलोकयन्त्याः सस्नेहमतिदीर्घलोर्चेनयोरपाङ्गभागं गच्छतस्तारतारकस्य लोचनस्य श्रमसलिललवविसर इवानन्दबाष्पजलबिन्दुनिकरो निपपात । **** स्वभावसरलैः स्वारसिकऋजुभिर्गुणैर्मे मम चित्तवृत्तिमाकृष्यायं वर्तते । ततः किमित्यत आह - दुर्लभ इति । यतोऽयं जनो विदग्धजनः । हीति निश्चये । सर्वथा दुर्लभो दुःप्रापः एनं विशेषयन्नाह - दाक्षिण्येति । दाक्षिण्यमनुकूलता तेन परवशः पराधीनो निर्निमित्तं निष्कारणं मित्रं सुहृदकृत्रिमं स्वाभाविक हृदयं चेतो यस्य सः । मायानिर्मुक्त इत्यर्थः । मायया च चेतोवैपरीत्यं जायत इति भावः । इमं जनं दृष्ट्वा चाहमिव त्वमप्येतत्सर्वं ज्ञास्यसीत्यन्वयः । एतदेव प्रदर्शयन्नाह - निर्माणेति । प्रजापतेर्ब्रह्मणो निर्माणकौशलं रचनाचातुर्यम् । रूपस्य चेति । रूपस्य सौन्दर्यस्य निःसपत्नतां निर्विपक्षताम् । लक्ष्म्याः श्रियः स्थाने योग्यस्थलेऽभिनिवेशित्वं स्थायित्वम् । पृथिव्या वसुधायाः सञ्छोभनो भर्ता पतिस्तस्य भावस्तत्ता तस्याः सुखं सातम् । मर्त्यलोकस्य मनुष्यलोकस्य सुरलोकादतिरिक्ततामाधिक्यताम् । मानुषीलोचनानां स्त्रीनेत्राणां सफलतां साफल्यं च । सर्वकलानां समग्रविज्ञानानामेकस्मिन् स्थाने समागमः संबन्धश्च । सौभाग्यस्य सुभगताया ऐश्वर्यं प्रभुत्वम् । तथा मनुष्याणां मानुषाणामग्राम्यतां नागरिकतां ज्ञास्यसि इति हेतोर्मया बल्लादानीतः अयम् । कथितेति । अस्य चन्द्रापीडस्य मया बहुवारमनेकवारं प्रियसखी कथिता निवेदिता । तदिति हेत्वर्थे । अपूर्वमभिनवं दर्शनं यस्यैवंविधोऽयमितिकृत्वा लज्जां त्रपां विमुच्य विहाय । अन्विति । अनुपजातः परिचयो यस्यैवंविध इतिकृत्वाऽविश्रम्भतामविश्वासतामुत्सृज्य त्यक्त्वा । अविज्ञातमविदितं शीलं स्वभावो यस्येतिकृत्वा शङ्कामपहाय दूरीकृत्य यथा मयि तथात्राप्यस्मिन्नपि प्रवर्तितव्यम् । एष चन्द्रापीडस्ते तव मित्रं च बान्धवः परिजनश्च । तया महाश्वेतयेत्यावेदिते निवेदिते सति चन्द्रापीडः प्रणामं नमस्कारमकरोत् । तदा कृतप्रणामं विहितनमस्कारं च तं विलोकयन्त्याः पश्यन्त्याः कादम्बर्याः सस्नेहं यथा स्यात्तथातिदीर्घयोर्लोचनयोरपाङ्गभागं निर्याणदेशं गच्छतो व्रजतस्तारा मनोहरा तारका कनीनिका यस्मिन्नेतादृशस्य लोचनस्य श्रमसलिलस्य स्वेदप्रभवपानीयस्य लवास्तेषां विसर इव समूह इव । आनन्दः प्रमोदस्तस्माद्यद्वा - टिप्प० - 1 सौन्दर्ये अस्य कोपि प्रतिद्वन्द्वी नास्तीत्यर्थः । 2 अस्य लाभाद् भाग्यवत्ताया महासमृद्धिं मंस्यस इत्याशयः । 3 'सस्नेहमतिदीर्घलोचनापाङ्गभागं गच्छतस्तारकस्य श्रमसलिल०' इत्युचितः पाठः । अतिदीर्घस्य लोचनस्य अपाङ्गभागं पर्यन्तभागं गच्छतस्तारकस्य । तिर्यग्विलोकनसमये नेत्रकनीनिका दीर्घस्य लोचनस्य अपाङ्गभागं पर्यन्तभागं गच्छतस्तारकस्य । तिर्यग्विलोकनसमये नेत्रकनीनिका दीर्घस्य लोचनस्य प्रान्तभागे गता । प्रान्तभागश्च दूरवर्ती, यतो हि सुदीर्घं लोचनम् । अत एव दीर्घलोचनमध्ये दूरगमनात् तारकस्य श्रमो जातः । अत एव श्रमस्वेदबिन्दुवत् अश्रु पपातेत्याशयः । विशालनेत्रतया नायकस्य सौन्दर्यातिशयो व्यङ्ग्यः । ' कनीनिकायां नक्षत्रे तारकं तारकेति च' इति विश्वः । पाठा० - १ सविशेषः २ आक्रम्य. ३ विदग्धो जनः ४ बहुप्रकारम् ५ वर्तितव्यम्. ६ लोचनापाङ्ग; लोचनाया अपाङ्गः ७ तारकस्य श्रम. चन्द्रापीडदर्शने कादम्बर्या भावावेशः पूर्वभागः । 397 Page #411 -------------------------------------------------------------------------- ________________ त्वरितमभिप्रस्थितस्य हृदयस्य धूलिरिव सुधाधवला स्मितज्योत्स्ना विससार । संमान्यतामयं हृदयरुचिरो जनः प्रतिप्रणामेनेति शिरो वक्तुमिवैका धूलता समुन्ननाम । अङ्गुलिविवरविनिःसृतमरकताङ्गुलीयकलेखो विभ्रमगृहीतताम्बूलवीटिक इव करो जृम्भारम्भमन्थरं मुखमुत्ससर्प । सवत्स्वेदजलधौतलावण्यनिर्मलेषु चास्याः स्तम्भसंक्रान्तप्रतिबिम्बतया संचरन्मूर्तिर्मकरकेतुरिवावयवेष्वदृश्यत चन्द्रापीडः । तथा हि । सिजन्मणिनूपुरपुटेन भुवमालिखताङ्गुष्ठेनाहूत इव चरणनखेषु निपपात । दर्शनातिरभसप्रधावितेन गत्वा हृदयेनानीत इव स्तनाभ्यन्तरे समदृश्यत । विकचकुवलयदामदीर्घया च दृष्ट्या निपीत इव कपोलतले समलक्ष्यत । सर्वासामेव च तदा तासां कन्यकानां तिर्यक्पश्यन्तीनां तं कुतूहलापाङ्गचुम्बिन्या दृष्ट्या निर्गन्तुकामा इव कर्णपूरमधुकरैः समं बभ्रूमुस्तरलास्तारकाः । *********** ष्पजलं तस्य बिन्दुनिकरो निपपातापतत् । त्वरितमिति । त्वरितं शीघ्रमभिप्रस्थितस्य चलितस्य हृदयस्य धूलिरिव रेणुरिव सुधामृतं तबद्धवला शुभ्रा स्मितमीषद्धसितं तस्य ज्योत्स्ना चन्द्रिका विससार प्रसृता बभूव । अत्र शुभ्रत्वसाम्यात्स्मितस्य धूलिसाम्यमित्यर्थः । अयं हृदयरुचिरो जनः समान्यता सक्रियताम् । प्रतिप्रणामेनेति । अनुनमस्करणेन । इति शिर उत्तमाङ्गं वक्तुमिव कथयितुमिव एका भ्रूलता समुन्ननामोच्चीबभूव । अङ्गुलीति । अङ्गुल्यः करशाखास्तासां विवरेभ्यो विनिःसृतां मरकताङ्गुलीयकलेखा यस्मात्सः । नैल्यसाम्यादाह - विभ्रम इति । विभ्रमेण विलासेन गृहीता ताम्बूलवीटिका येनैवंविधः करो हस्तः । जृम्भेति । जृम्भणं तस्या आरम्भस्तेन मन्थरमलस मुखमुत्ससर्प विस्तीर्णं बभूव । अस्या इति । अस्याः कादम्बर्या अवयवेष्वपघनेषु संचरन्ती व्रजन्ती मूर्तिः शरीरं यस्यैवंभूतश्चन्द्रापीडः । क इव । मकरकेतुरिवादृश्यतावालोक्यत । जनैरिति शेषः । कीदृशेष्ववयवेषु । सवत्क्षरयत्स्वेदजलं तेन धौत क्षालितं लावण्यं लवणिमा तेन निर्मलेषु विमलेषु । कया । स्तम्भेति । स्तम्भेषु स्थूणासु संक्रान्तानि प्रतिबिम्बितानि यानि प्रतिबिम्बानि तस्य भावस्तत्ता तया । एतदेव दर्शयन्नाह - तथा हीति । सिञ्जशब्दं कुर्वन्यन्मणिनूपुरपुटं तेन भुवं पृथ्वीमालिखतालेख कुर्वताङ्गुष्ठेनाहूत इव निमन्त्रित इव चरणनखेषु निपपात । दर्शनेति । दर्शनार्थमतिरभसप्रधावितेनातिवेगोच्चलितेन हृदयेन गत्वा स्तनाभ्यन्तरे कुचयोर्मध्य आनीत इव समदृश्यत समवलोक्यत । जनैरिति शेषः । विकचेति । विकचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां दाम सक्तद्दीर्घयायतया च दृष्ट्या निपीत इव कपोलतले समलक्ष्यतादृश्यत । तत्तदवयवेषु तत्तत्प्रतिबिम्बमाश्रित्यैतदुक्तम् । तासामिति । अपाङ्गचुम्बिन्या दृष्ट्या कुतूहलात्तं तिर्यक्पश्यन्तीनां सर्वासामेव तदा तासां कन्यकानां निर्गन्तुकामा इव बहिर्गमनोत्सुका इव तरलाः कम्प्रास्तारकाः कनीनिकाः कर्णपूरमधुकरैः सम बभ्रमभ्रमण चक्रः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'विनिःसृतमरकताङ्गुलीयकमयूखलेखो' इत्युचितः पाठः । अङ्गुलिविवरेभ्यो विनिःसृता मरकताङ्गुलीयकस्य किरणराजिर्यस्य स इत्यर्थः । 2 भुवम् आलिखता (कर्षता, किञ्चित्खनता) अत एव शिजत् मणिनूपुरपुटं यत्र (भूलेखनसमये नूपुरचलनेन शब्दो जात इत्यर्थः) ईदृशेन अङ्गुष्ठेन आहूत इव नखेषु निपपात । चरणाङ्गष्ठनखेषु प्रतिबिम्बपतने सेयमुत्प्रेक्षेत्याशयः । 3 चन्द्रापीडस्य दर्शनार्थं प्रधावितेन कादम्बर्या हृदयेन आनीत इवेत्याशयः । 4 'कुतूहलादपाङ्गचुम्बिन्यो निर्गन्तुकामा इव...' इति पाठः । तम् (चन्द्रापीडम्) तिर्यक्पश्यन्तीनां कन्यकानां कुतूहलवशात् अपाङ्गचुम्बिन्यः अर्थात् अपाङ्गपर्यन्तागताः तरलाः (चञ्चलाः) तारका (नेत्रकनीनिकाः) नेत्रादहिर्निर्गन्तुकामा इव बभ्रमुः । यथा मधुकराश्चञ्चलास्तथा तारका अपि चाञ्चल्यमभजनित्यर्थः । पाठा० - १ मयूखलेखो; मयूखलेखा. २ संक्रान्त. ३ माणिक्यनूपुर. ४ मणिभुवम्. ५ चुम्बिन्यो; चुम्बिन्या. 398 कादम्बरी। कथायाम् Page #412 -------------------------------------------------------------------------- ________________ कादम्बरी तु सविभ्रमकृतप्रणामा महाश्वेतया सह पर्यङ्के निषसाद । ससंभ्रम परिजनोपनीतायां च शयनशिरोभागनिवेशितायां धवलांशुकप्रच्छदपटायां हेमपादाङ्कितायां पीठिकायां चन्द्रापीडः समुपाविशत् । महाश्वेतानुरोधेन च विदितकादम्बरीचित्ताभिप्रायाः संवृतमुखन्यस्तहस्तदत्तशब्दनिवारणसंज्ञाः प्रतीहार्यो वेणुरवान्वीणाघोषान्गीतध्वनीन्मागधीजयशब्दांश्च सर्वतो निवारयांचक्रुः । त्वरितपरिजनोपनीतेन च सलिलेन कादम्बरी स्वयमुत्थाय महाश्वेतायाश्चरणौ प्रक्षाल्योत्तरीयांशुकेनापमृज्य पुनः पर्यङ्कमारुरोह, चन्द्रापीडस्यापि कादम्बर्याः सखी रूपानुरूपा जीवितनिविशेषा सर्वविश्रम्भभूमिर्मदलेखेति नाम्ना बलादनिच्छतोऽपि प्रक्षालितवती चरणौ । महाश्वेता तु कर्णाभरणप्रभावपिण्यपाङ्गदेशे सप्रेम पाणिना स्पृशन्ती, मधुकरभरपर्यस्तं च कर्णावतंसं समुत्क्षेपयन्ती, चामरपवनविधुतिपर्यस्तालकवल्लरीमनुष्वञ्जमाना कादम्बरीमनामयं पप्रच्छ । सा तु सखीप्रेम्णा गृहनिवासेन कृतापराधेवानामयेनैव लज्जमाना कृच्छ्रादिव कुशलमाचचक्षे । तदा समुपजातशोकापि च महाश्वेतामुखनिरीक्षण - *********** कादम्बरीति । कादम्बरी तु सविभ्रमं सविलासं कृतः प्रणामो यया सैवंविधा महाश्वेतया सह पर्यङ्के पल्यङ्के निषसादोपविवेश । ससंभ्रममिति । ससंभ्रमं यथा स्यात्तथा परिजनेन परिच्छदेनोपनीतायां प्रापितायां शयनस्य पल्यकस्य शिरोभागे निवेशितायां स्थापितायां धवलांशुकस्य प्रच्छदपट उत्तरपटो यस्यामेवंविधायां हेमपादाङ्कितायां सुवर्णपादचिह्नितायां पीठिकायां चन्द्रापीडः समुपाविशदासेदिवान् । महेति । महाश्वेताया अनुरोधेन प्रतिबन्धेन । विदितेति । विदितो ज्ञातः कादम्बयश्चित्ताभिप्रायो याभिस्ताः । संवृतेति । संवृतं पिहितं यन्मुखं तत्र न्यस्तो यो हस्तस्तेन दत्ता ज्ञापिताः शब्दनिवारणसंज्ञा याभिरेवंविधाः प्रतीहार्यो द्वाररक्षाविधायिन्यो वेणुरवान्वंशशब्दावीणाघोषान्वल्लकीशब्दान्गीतध्वनीन्गेयनादान्मागधीनां मागधपत्नीनां जयशब्दांश्च जयजयेति रवांश्च सर्वतो निवारयांचक्रुर्निवारितवत्यः । त्वरितेति । त्वरितं शीघ्रं परिजनोपनीतेन सलिलेन पानीयेन कादम्बरी स्वयमात्मनोत्थायोत्थानं कृत्वा महाश्वेतायाश्चरणौ पादौ प्रक्षाल्योत्तरीयांशुकेनोपरिवस्त्रेणापमृज्य मार्जनं कृत्वा पुनः पर्यङ्क पल्यङ्कमारुरोहोपविष्टवती । चन्द्रापीड़ेति । कादम्बर्याः सखी मदलेखेति नाम्नानिच्छतोऽप्यवाञ्छतोऽपि बलाच्चन्द्रापीडस्यापि चरणौ प्रक्षालितवती । सखीं विशेषयन्नाह - रूपेति । रूपेण सौन्दर्येण चानुरूपा सदृशी । जीवितान्निर्गतो विशेषो यस्याः सा जीवितनिर्विशेषा । सर्वेषां विश्रम्भाणां विश्वासानां भूमिः स्थानम् । महेति । महाश्वेता तु कादम्बरीमनामयं कुशलं पप्रच्छ प्रश्नं कृतवती । किं कुर्वन्ती । कर्णेति । कर्णाभरणस्य श्रवणभूषणस्य प्रभा कान्तिस्तस्या वर्षिणि । एवंभूतेऽपाङ्गदेशे नेत्रप्रान्तदेशे सप्रेम प्रेमसहितं यथा स्यात्तथा पाणिना हस्तेन स्पृशन्ती स्पर्श कुर्वन्ती । मधुकरेति । मधुकरभरेण भ्रमरभरेण पर्यस्तं पतितं च कर्णावतंसं समुत्क्षेपयन्त्युच्चभागे(न)नयन्ती चामरेति । चामरं वालव्यजनं तस्य पवनेन वातेन या विधुतिः कम्पनं तेन पर्यस्ता पतिता यालकवल्लरी केशवल्लरी तामनुष्यजमाना स्थाने तां स्थापयन्ती । सा त्विति । सा तु कादम्बरी सखीप्रेम्णा महता स्नेहेन गृहनिवासेन कृतापराधेवानामयेनैव कुशलप्रश्नेनैव लज्जमाना त्रपां कुर्वाणा कृच्छ्रादिव कुशलमाचचक्ष आचख्यौ । तदेति । तस्मिन्काले महाश्वेतादुःखेन समुपजातः शोको यस्या एवंविधापि कादम्बरी महाश्वेताया मुखं तस्य निरीक्षणं तस्मिंस्त - टिप्प० -1 सखीसमागमे न सख्या अपाङ्गदेशः स्पृश्यते, न च शक्यतेऽपि । कर्णकुण्डलप्रभाभिभूषिते 'अंसदेशे (स्कन्धभागे) स्पृशन्ती इति पाठः । 2 'अनुष्वजमाना' इत्युचितः पाठः । पाठा० - १ ससंभ्रमपरि. २ अंसदेशे. ३ उत्क्षिपन्ती. ४ विधुतिपर्यस्ता च. ५ समुपजातशोकापि च तस्मिन्काले. चन्द्रापीडदर्शने कादम्बर्या भावावेशः पूर्वभागः । 399 Page #413 -------------------------------------------------------------------------- ________________ तत्परापि मुहुर्मुहुरपाङ्गविक्षेपप्रचलिततरलतरतारसारोदरं चक्षुर्मण्डलितचापेन भगवता कुसुमधन्वना बलान्नीयमानं चन्द्रापीडपीडनयेव न शशाक निवारयितुम् । तेनैव क्षणेन तेनासन्नसखीकपोलसंक्रान्तेनेग्रंया रोमाञ्चभिद्यमानकुंचतटनश्यप्रतिबिम्बेन विरहयथास्वेदावक्षःस्थलघटितशालभञ्जिकाप्रतिमेन सपत्नीरोषानिमिषता दौर्भाग्यशोकमानन्दजलतिरोहितेनान्धतादुःखमभजत सा । मुहूर्तापगमे च ताम्बूलदानोद्यतां महाश्वेता तामभाषत - 'सखि कादम्बरि, सँप्रतिपन्नमेव सर्वाभिरस्माभभिरयमभिनवागतश्चन्द्रापीड आराधनीयः । तदस्मै तावद्दीयताम्' - *********** त्परापि सोद्यमापि मुहुर्मुहुः । अपाङ्गेति । अपाङ्गस्य नेत्रप्रान्तस्य यो विक्षेपस्तेन प्रचलिता या तरलतरतारा तया सारं कश्मलमुदरं मध्यं यस्यैवंविधं चक्षुर्मण्डलितचापेनारोपितकोदण्डेन भगवता कुसुमधन्वना कंदर्पण चन्द्रापीडस्य पीडनयेव बलानीयमानं निवारयितुं न शशाक न समर्था बभूव । तेनैवेति । यस्मिन्क्षणे चक्षुर्निवारयितुं न समर्था तेनैव क्षणेन सा कादम्बरी तेन चन्द्रापीडेन कृत्वा यः सपत्नीरोषस्तस्मात्तथा निमिषता पक्ष्मपातस्तदेव दौर्भाग्यं तेन यः शोकः, अथ चानन्दजलं हर्षाश्रुजलं तेन तिरोहितेनाच्छादितेनान्धतादुःखमभजदप्रापत् । कीदृशेन तेन । आसन्नेति । आसना समीपवर्तिनी या सखी तस्याः कपोलो गल्लात्परप्रदेशस्तत्र संक्रान्तेन प्रतिबिम्बितेन । इदं च सपत्नीरोषनिमित्तम् । यद्यस्यां संक्रान्तस्तहीयमेव सपत्नीभविष्यतीति शङ्कया सपत्नीरोषः सपत्नीविषयको रोषस्तस्मात् । पुनः कीदृशेन । मय्यासक्तः क्वान्यत्र संक्रान्त इतीर्ण्यया ये रोमाञ्चास्तैर्भिद्यमानं यत्कुचतट तस्मिन्रोमाञ्चप्रतिबन्धवशादेव नश्यत्प्रतिबिम्बो यस्य स तेन इदं च शोकोत्पत्तिकारणम् । विरहेति । विरहस्य वियोगस्य या व्यथा तया यः स्वेदः श्रमजलं तेना यद्वक्षःस्थल भुजान्तर तत्र घटिता शालभचिकायाः प्रतिमा प्रतिबिम्बं यस्मिन्स तेन । इदं चानन्दाश्रुनिपाते कारणम् । सेति । सा महाश्वेता मुहूर्तापगमे घटिकाद्वयानन्तरं ताम्बूलदानोद्यतां नागवल्लीदलवितरणे विहितोद्यमा कादम्बरीमभाषतावोचत । किमुवाचेत्याह - सखीति । हे सखि कादम्बरि, सर्वाभिरेवास्माभिः संप्रतिपन्नं प्राप्तमेव । अहं तु तव सखी नापूर्वा, मह्यमदत्तमपि ताम्बूलं दत्तमेव, अयं त्वपूर्व इत्याशयेनाह - अयमिति । अयमभिनवो नूतन आगतः प्राप्तश्चन्द्रापीड आराधनीयः पूजनीयः । तस्माद्धेतोंस्तावदादावस्मै चन्द्रापीडाय दीयता वितीर्यताम् । इत्युक्ता भाषिता सती तदनन्तरं सा कादम्बरी तां महाश्वेता शनैर्मन्दम- - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'पीडनायेव' इत्युचितः पाठः । कामेन चन्द्रापीडपीडनायेव कादम्बरीचक्षुः (चन्द्रापीडाभिमुखम्) नीतम् (नायकस्य अभिलाषप्राबल्ये नायिकाकटाक्षैः पीडोद्गमात्), कादम्बरी तु न तन्निवारयितुमशकदित्यर्थः । 2 विस्तरभयाद् व्याख्याद्वारैव समुचितो ग्रन्थपाठः सूच्यते यः पाठान्तरेषु नीचैः परिधृतः । 'ईर्ष्याम् व्यथाम,.... इत्यादिद्धितीयान्तपाठो ग्रन्थगरिमानं वर्धयते । सखीकपोलसंक्रान्तेन तेन (चन्द्रापीडेन) ईर्ष्यामभजत, अन्यनायिकागामित्वात् । रोमाञ्चोद्गमेनोज्जृम्भमाणे कुचतटे नश्यन् (रोमभिरुच्चावचतया) प्रतिबिम्बो यस्य ईदृशेन तेन (चन्द्रा०) विरहव्यथामभजत, प्रतिबिम्बविरहात् । स्वेदाभ्रे वक्षःस्थले (अर्थात् चन्द्रापीडस्य) प्रतिबिम्बिता शालभजिकायाः प्रतिच्छाया यस्य ईदृशेन तेन सपत्नीरोषमभजत् । निमिषता (स्वदर्शने नेत्रयोरुन्मीलननिमीलने कुर्वता) तेन दौर्भाग्यशोकमभजत्, दर्शने औत्सुक्ये तु निमेषो नाभविष्यदित्यर्थः । नेत्रयोरानन्दाश्रुभिस्तिरोहितेन तेन अन्धतादुःखमभजत् । - - - - - - पाठा० - १ चन्द्रापीडपीडनादेव, चन्द्रापीडं प्रति. २ ईर्ष्याम्; ईर्ष्या. ३ कुचनश्यत्. ४ व्यथाम्. ५ रोषम्. ६ ता महाश्वेता समभाषत. ७ सर्वाभिरेवास्माभिरभिनव. ८ दीयता ताम्बूलमित्युक्ता. 400 कादम्बरी। कथायाम् Page #414 -------------------------------------------------------------------------- ________________ इत्युक्ता च किंचिद्विवर्तितावनमितमुखी शनैरव्यक्तमिव प्रियसखी, लज्जेऽहम् । अनुपजातपरिचयाप्रागल्भ्येनानेन, गृहाण । त्वमेवास्मै प्रयच्छ' इत्युवाच सा ताम् । पुनःपुनरभिधीयमाना च तया कथमपि ग्राम्येव चिराद् दानाभिमुखं मनश्चक्रे । महाश्वेतामुखादनाकर्षितदृष्टिरेव वेपमानाङ्गयष्टिः, आकुललोचना, स्थूलस्थूलं निःश्वसन्ती, निजशरप्रहारमूर्छिता मन्मथेन स्नपितेव स्वेदजलविसरैः, स्वेदजलविसरनिमज्जनभयेन च हस्तावलम्बनमिव याचमाना, साध्वसपरवशा, पतामीति लेगितुमिव कृतप्रयत्ना प्रसारयामास ताम्बूलगर्भ हस्तपल्लवम् । चन्द्रापीडस्तु जयकुञ्जरकुम्भस्थलास्फालनसंक्रान्तसिन्दूरमिव स्वभावपाटलम्, धनुर्गुणाकर्षणकृतकिणश्यामलं, कचग्रहाकृष्टिरुदितारिलक्ष्मीलोचनपरामर्शनलग्नाञ्जनबिन्दुमिव, विसर्पनखकिणतयातिरभसेन प्रधाविताभिरिव विवर्धिताभिरिव प्रहसिताभिरिवाङ्गुलीभिरुपेतम्, स्पर्शलोभाच्च तत्कालकृतसंनिवेशाः सरागाः पञ्चापीन्द्रियवृत्तीरंपराङ्गुलीरुद्वहन्तं - *********** व्यक्तमिवास्फुटमिवेत्युवाचावोचत् । इतिद्योत्यमाह - किंचिदिति । किंचिदीषद्विवर्तितं परिवर्तितम्, अथ चावनमितं मुखं यया सैवंविधाह हे प्रियसखि, लज्जे पे । तत्र हेतुमाह - अनुपजातेति । अनेनसममनुपजातोऽनुत्पन्नः परिचयो यस्याः सा । प्रगल्भानां तत्क्षणादेव परिचय इत्यत आह - अप्रागेति । अप्रागल्भ्येनाधायेन । गृहाण । त्वमेवास्मै प्रयच्छ देहि । पुनः पुनरिवारमभिधीयमाना कथ्यमाना तया महाधेतया । त्रासवितर्कमूर्छादिव्यभिचारिभावावस्थान्तरमाह - कथमपीति । कथमपि महता कष्टेन ग्राम्येव ग्रामीणेव चिराच्चिरकालेन दानाभिमुखं मनश्चित्तं चक्रे विदधे । महाश्वेतामुखादनाकर्षिता दृष्टिर्यया सैवंविधैव वेपमाना कम्पमानाङ्गयष्टिर्यस्याः । आकुले व्याकुले लोचने नेत्रे यस्याः सा । किं कुर्वन्ती । स्थूलस्थूलं यथा स्यात् तथा निःश्वसन्ती एतनं गृह्णन्ती । मन्मथेन कंदर्पण निजशरप्रहारेणात्मीयबाणाभिघातेन मूर्छिता मूर्छा प्रापिता । स्वेदजलविसरैर्धर्मपानीयसमूहैः स्नपितेव स्नान कारितेव । स्वेदजलविसरैर्निमज्जनभयं तेन च हस्तावलम्बनमिव याचमाना । साध्वसं भयं तेन परवशा पराधीना । पतामीति कृत्वा लगितुमिव कृतः प्रयत्नो यया । सा ताम्बूलगर्भ हस्तपल्लवं प्रसारयामास विस्तारितवती । अथ नायकानुरक्तिविशेष प्रदर्शयन्नाह - चन्द्रेति । चन्द्रापीडः । तु पुनरर्थे । पाणिं कर प्रसारितवान्विस्तारितवान् । अथ पाणिनिष्ठमारुण्यातिशयं विशेषयन्नाह - जयेति । जयार्थं यः कुञ्जरो गजस्तस्य कुम्भस्थलं तस्यास्फालनेन तादृक्संयोगविशेषेण संक्रान्तं लग्नं सिन्दूर नागजं यस्मिन्नेतादृशमिव स्वभावेन स्वारसिकेन पाटलं तरक्तम् । धनुरिति । धनुषश्चापस्य यो गुणः प्रत्यञ्चा तस्याकर्षणमाकृष्टिस्तेन कृतो विहितः किणो रूढवणपदं तेन श्यामलं कृष्णम् । कचेति । कचग्रहेणाकृष्टिस्तया रुदिता या अरिलक्ष्मीः शत्रुरमा तस्या लोचनपरामर्शनेन लग्ना अजनबिन्दवो यस्मिन्नेतादृशमिव किणस्य कृष्णत्वात्तदुपमानमित्यर्थः । विसर्पन्तः प्रसरन्तो ये नखकिरणास्तेषां भावस्तत्ता तयातिरभसेनातिवेगेन प्रधाविताभिरिवोच्चलिताभिरिव, विवर्धिताभिरिव वृद्धि प्राप्ताभिरिव, प्रहसिताभिरिव हास्यं कुर्वाणाभिरिवाङ्गुलिभिः करशाखाभिरुपेतं सहितम् । स्पर्शलोभाच्चेति । स्पर्शस्य लोभो गर्धस्तस्मात्तत्कालं तस्मिन्क्षणे कृतः संनिवेशः प्रवेशो याभिस्ताः । सरागा रागेण सहवर्तमानाः । पञ्चापीन्द्रियवृत्तीरपराङ्गुलीः पूर्वोक्तभिन्नाः करशाखा उद्वहन्तं - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'अनुपजातपरिचया प्रागल्भ्येनानेन' इति पाठः । पूर्वतः परिचयाभावेऽपि अनेन प्रागल्भ्येन ताम्बूलदानरूपधाष्टयेन लज्जे इति तदर्थः । 2 मूर्छितो हि जनः स्वीयैर्जनैरम्बुना स्नाप्यते । 3 चन्द्रापीडदेहे संसक्तुम् । 4 'अपरा इवाङ्गुलीरुद्वहन्तम्' इत्यपि पाठः । कादम्बरीस्पर्शलोभात् तत्काल कृतः संनिवेशः (उपस्थितिः) याभिः ईदृशीः पञ्चापि इन्द्रियवृत्तीः (तद्दर्शनतद्वार्ताश्रवणादिव्यापारान) अपराः अङ्गलीः इव उद्वहन्तमित्यर्थः । पाठा० - १ कादम्बरी. २ चिरेण. ३ अनाकृष्ट. ४ आकुलित; आमुकुलित. ५ निश्वसन्ती. ६ विगलितुम्; लापितुम्. ७ प्रभाविताभिः; प्रसारिताभिः. ८ अपरा इवाङ्गलीः; इवाङ्गुलीः. चन्द्रापीडदर्शने कादम्बर्या भावावेशः पूर्वभागः । 1401) Page #415 -------------------------------------------------------------------------- ________________ प्रसारितवान्पाणिम् । तत्र च सा तत्कालसुलभविलासदर्शनकुतूहलिभिरिव कुतोऽप्यागत्य सर्वरसैरधिष्ठिता, तेनानि - बद्धलक्ष्यतया शून्यप्रसारितेन चन्द्रापीडहस्तान्वेषणायेव पुरः प्रवर्तितनखांशुनिवहेन वेपथुचलितवलयावलीवाचालेन संभाषणमिव कुर्वता हस्तेन स्वेदसलिलपातपूर्वकम् 'गृह्यतामयं मन्मथेन दत्तो दासजनः' इत्यात्मानमिव प्रतिग्राहयन्ती, ‘अद्यप्रभृति भवतो हस्ते वर्तते' इति जीवितमिव स्थापयन्ती ताम्बूलमदात् । औकर्षन्ती च करकिसलयं भुजलतानुसारेण स्पर्शतृष्णागतमनङ्गशरभिन्नमध्यं हृदयमिव पतितमपि रत्नवलयं नाज्ञासीत् । गृहीत्वा चापरं ताम्बूलं महाश्वेतायै प्रायच्छत् । अथ सहसैव त्वरितगतिः त्रिवर्णरागमिन्द्रायुधमिव कुण्डलीकृतं कण्ठेन वहता विद्रुमा *********** धारयन्तम् । श्रृङ्गारं पोषयद्गान्धर्वविवाहन्यायेन पाणिग्रहणमप्याह - तत्र चेति । तस्मिन्काले सा कादम्बरी तस्मै चन्द्रापीडा हस्तेन ताम्बूलमदात् । कीदृशी । सर्वसैः श्रृङ्गारादिभिः कृतोऽप्यनिर्दिष्टस्थानादप्यागत्याधिष्ठिताश्रिता । कीदृशै रसैः । तत्कालेति । तस्मिन्काले सुलभाः सुप्रापा विलासास्तेषां दर्शनं तत्र कुतूहलिभिरिव कौतुकिभिरिव । हस्तं विशेषयन्नाह - तेनेति । हस्तेनानिबद्धं न दृग्विषयीकृतं यल्लक्ष्यं वेध्यं तेन शून्यं प्रसारितेन विस्तारितेन चन्द्रापीडस्य यो हस्तस्तस्यान्वेषणं गवेषणं तदर्थमिव पुंरोऽग्रे प्रवर्तितः प्रचलितो नखानां पुनर्भवानामंशुनिवहो यस्य तेन । वेपथुरिति । वेपथुः कम्पस्तेन चलिता कम्पिता या वलयानां पारिहार्याणामावली श्रेणी तया वाचालेन मुखरेण । शब्दसाम्यमाह - संभाषणमिव जल्पनमिव कुर्वता विदधता । स्वेदेति । स्वेदसलिलं धर्मजलं तस्य पातः पतनं तत्पूर्वकं यथा स्यात्तथेति क्रियाविशेषणम् । किं कुर्वन्ती । इत्यात्मानमिव प्रतिग्राहयन्ती ग्रहणं कारयन्ती । इतिशब्दद्योत्यमाह गृह्यतामिति । अयं मल्लक्षणो दासजनो मन्मथेण कंदर्पेण दत्तोऽर्पितो गृह्यतां स्वीक्रियताम् । पुनः किं कुर्वन्ती । इति जीवितमिव प्राणितमिव स्थापयन्ती । इतिशब्दद्योत्यमाह - अद्येति । अद्यप्रभृत्यद्यदिनादारभ्य भवतस्तव हस्ते वर्तते । त्वदधीनेत्यर्थः । अन्वस्तु प्रागेवोक्तः । पुनः किं कुर्वन्ती । ताम्बूलप्रदानान्तरं करकिसलयं हस्तपल्लवमाकर्षन्त्याकर्षणं कुर्वन्ती च पतितमपि सस्तमपि रत्नवलयं मणिकटकं नाज्ञासीन्न ज्ञातवती । एतेन तन्मयत्वं सूचितम् । वलयस्य लोहितमणिनिर्मितत्वसाम्यादाह - भुजेति । भुजलता बाहुलतातदनुसारेण तन्मार्गेण स्पर्शतृष्णा तयागतं प्राप्तमनङ्गशरेण कंदर्पबाणेन भिन्नं मध्यं यस्यैवंविधं हृदयमिव । गृहीत्वेति । अपरं तद्व्यतिरिक्तं ताम्बूलं नागवल्लीदलं महाश्वेतायै प्रायच्छददात् । अथेति । ताम्बूलप्रदानानन्तरं सहसैवागत्य सारिका पीतपादा सक्रोधं यथा स्यात्तथावादीदवोचत् । कीदृशी । त्वरिता शीघ्रा गतिर्यस्याः सा । पुनः कीदृशी । शुकेन कीरेणानुबध्यमाना निरुध्यमाना । अथ शुकं विशेषयन्नाह - वहतेति । कण्ठेन निगरेण वहता धारयता । कम् । त्रिवर्णरागम् । किमिव । इन्द्रायुधमिवाखण्डलधनुरिव कुण्डलीकृतं वर्तुलीकृतम् । जातिवर्णनमेतत् । एतदेव विवृणोति विद्रुमेति । चञ्चुपुटेन - टिप्प॰ - 1 कादम्बरीदर्शनकौतुकिभिः सर्वरसैः सर्वविधैरानन्दैराश्रितेत्यर्थः (ताम्बूलदानसमये न केवलं स्पर्शविषयक एवानन्दः, मनःप्रमदप्रसूता अन्येऽप्यानन्दा आसन्नित्याशयः) । 2 लज्जावशात् चन्द्रापीडहस्तस्य लक्ष्यमबध्वा तच्छून्ये स्थाने प्रसारितेन (हस्तेन ) । 3 त्वदधीनम् ( जीवितम् ) इत्यर्थः । 4 प्रसारितां भुजलतामनुसृत्य, तया सहेत्यर्थः । पाटा० - १ तत्कालविलास २ अधिष्ठितेनान्यनिबद्धलक्षशून्य. ३ आकर्षयन्ती. 402 - कादम्बरी | कथायाम् Page #416 -------------------------------------------------------------------------- ________________ कुरानुकारिणा चञ्चुपुटेन मरकतद्युतिपक्षतिना मन्थरगतेन शुकेनानुबध्यमाना, कुमुदकेसरपिञ्जरतया चरणयुगलस्य चम्पककलिकाकारतया च मुखस्य कुवलयदलनीलतया च पक्षातीनां कुसुममयीवागत्य सारिका सक्रोधमवादीत् - 'भर्तृदारिके कादम्बरि, कस्मान निवारयस्येनमलीकसुभगाभिमानिनं दुविनीतं मामनुबध्नन्तं विहंगापसंदम् । यदि मामनेन परिभूयमानामुपेक्षसे, ततोऽहं नियतमात्मानमुत्सृजामि । सत्यं शपामि ते पादपङ्कजस्पर्शेन' इत्येवमभिहिता च तया कादम्बरी स्मितमकरोत् । अविदितवृत्तान्ता तु महाश्वेता 'किमियं वदति इति मदलेखां पप्रच्छ । सा चाकथयत् - 'एषा भर्तृदुहितुः सखी कादम्बर्याः कालिन्दीति नाम्ना सारिका, ऐतस्य परिहासनाम्नः शुकस्य भर्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं ग्राहिता । अद्य चायमनया प्रत्यूषसि कादम्बर्यास्ताम्बूलकरङ्कवाहिनीमिमां तमालिकामेकाकिनी किमपि पाठयन्दृष्टो यतः, ततःप्रभृति संजातेा कोपपराङ्मुखी नैनमुपसर्पति, नालपति, न स्पृशति, न विलोकयति, सर्वाभिरस्माभिः प्रसाद्यमानापि न प्रसीदति' इति । एतदाकर्ण्य स्फुटस्फुरितकपोलोदरश्चन्द्रापीडो मन्दं मन्दं विहस्याब्रवीत् - 'अस्त्येषा कथा, - *********** वोटिसंपुटेनं कृत्वा विद्रुमाङ्कुर प्रवालप्ररोहमनुकरोतीत्येवंशीलः स तेन । मरकतेति । मरकतस्य द्युतिरिव द्युतिर्ययोरेवंविधे पक्षती पक्षमूले यस्य सः । तेन मन्थरं सालसं गतं यस्य स तेन । अथ सारिकां विशिनष्टि - कुमुदेति । कुमुदानां केसरं तेन पिञ्जरः पीतरक्तस्तस्य भावस्तत्तां तया चरणयुगलस्याङ्ग्युिग्मस्य । चम्पकेति । चम्पकस्य हेमपुष्पकस्य कलिका कोरकस्तस्या आकार आकृतिर्यस्य तस्य भावस्तत्ता तया मुखस्याननस्य, कुवलयदलान्युत्पलखण्डास्तद्वन्नीलस्तस्य भावस्तत्ता तया, पक्षद्युतीनां छदकिरणानाम् । अत एवाह - कुसुममयीव पुष्पमयीव । अन्वयस्तु प्रागेवोक्तः । किमुवाचेत्याह - भर्तृदेति । हे भर्तृदारिके कादम्बरि, कस्माद्धेतोरेनं शुकं न निवारयसि न निराकरोषि । अलीक मिथ्या सुभगस्य सौभाग्यस्याभिमानोऽहंकारो विद्यते यस्य स तम् । दुर्विनीतं शूकलम् । किं कुर्वन्तम् । मामनुबन्धन्तमनुरोधं कुर्वन्तम् । तथा विहंगेषु पक्षिष्वपसदमधमम् । यदीति । यदि मामनेन शुकेन परिभूयमानां पराजितामुपेक्षस उपेक्षा करोषि, ततोऽहं नियतमात्मानमुत्सृजामि । भविष्यति वर्तमाना । त्यक्ष्यामीत्यर्थः । सत्यं स्यात्तथा शपामि शपथं करोमि । केन । ते तव पादपङ्कजस्पर्शेन । तवाघ्रिस्पर्शपूर्वकमित्यर्थः तयेत्येवमभिहितोक्ता कादम्बरी स्मितमकरोत् । अविदितेति । अविदितोऽज्ञातो वृत्तान्त उदन्तो यस्याः सैवंविधा तु महाश्वेता किमियं किमियं सारिका वदतीति मदलेखां पप्रच्छ । सा चेति । सा मदलेखा इत्यकथयदित्यवोचत् । किमुवाचेत्याह - एषेति । एषा भर्तृदुहितुः कादम्बर्याः कालिन्दीति नाम्ना सखी सारिका एतस्य परिहासनाम्नः शुकस्य भर्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं ग्राहिता स्त्रीत्वं प्रापिता । अद्य चेति । अद्य दिने चानया सारिका(कया)प्रत्यूषसि प्रभाते कादम्बर्यास्ताम्बूलकरङ्कवाहिनीमेकाकिनीमिमां तमालिकां किमपि पाठयन्दृष्टः । ततःप्रभृति तद्दिनादारभ्य संजातेा यस्याः सा कोपपरामखी क्रोधावाङ्मखी नैनं शकमपसर्पति समीपे न गच्छति, नालपति न ब्रवीति, न स्पृशति न स्पर्श करोति, न विलोकयति नेक्षते, सर्वाभिरस्माभिः प्रसायमानापि प्रसन्नीक्रियमाणापि न प्रसीदति न प्रसन्नीभवति । इत्येतदाकर्ण्य श्रुत्वा । स्फुटमिति । स्फुटं स्पष्टं स्फुरितं स्पैन्दितं कपोलयोरुदरं यस्यैवंविधश्चन्द्रापीडो मन्दं मन्दं विहस्य । स्मितं कृत्वेत्यर्थः । इत्यब्रवीदित्यवोचत् । अस्तीति । एषा कथास्ति । एतद्राजकुले श्रूयते एवमाकर्ण्यते । टिप्प० -1 °नुकारिचञ्चुपुटेनइत्यपि पाठः सुन्दरः । 2 कुमुदकेसरवत् पीततया । 3 उत्पलं श्वेतवर्णं प्रसिद्धम्, अत एव नीलकमलेति वाच्यम् । 4 हास्योदयात् । पाठा० - १ अनुकारिचञ्चु. २ मन्थरगमनेन शुकेनानुगम्यमाना. ३ अतिदुर्विनीतम्. ४ विहंगमापसदम्. ५ तु. ६ इदमस्य च. ७ तरलिकाम्. - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - (शुकसारिकामुखेन कौतुकारम्भः पूर्वभागः । 403 Page #417 -------------------------------------------------------------------------- ________________ श्रूयत एवैतद्राजकुले, कर्णपरम्परया परिजनोऽप्येवमामन्त्रयते, बहिरपि जनाः कथयन्त्येवम्, दिगन्तरेष्वप्ययमालापो वर्तत ऐव, अस्माभिरप्येतदाकर्णितमेव, यथा किल देव्याः कादम्बर्यास्ताम्बूलदौयिनी तमालिकां कामयमानः परिहासनामा शुको मदनपरवशो गतान्यपि दिनानि न वेत्तीति । तदयमास्तां तावद्वामाचारः परित्यक्तनिजकलत्रो निस्त्रपोऽनया सह, देव्यास्तु कादम्बर्याः कथमेतद्युक्तं यन्न निवारयतीमा चपलां दुष्टदासीम्, अथवा देव्यापि कथितैव निःस्नेहता प्रथममेव वराकीमिमां कालिन्दीमीदृशाय दुर्विनीताय विहंगाय प्रयच्छन्त्या । किमिदानीमियं करोतु, यदेतत्सापत्न्यकरणं नारीणां प्रधानं कोपकारणम्, अग्रणीविरागहेतुः, परं परिभवस्थानम् । इयमेव केवलमतिधीरा, यदनयानेन दौर्भाग्यगरिम्णा जातवैराग्यया विषं वा नास्वादितम्, अनलो वा नासादितः, अनशनं वा नाङ्गीकृतम् । नह्येकॅमपरमस्ति योषितां लघिम्नः कारणम्, यदि चेयमीदृशेऽप्यपराधेऽनुनीयमानानेन प्रत्यासत्तिमेष्यति, तदा धिगिमाम्, अलमनया, दूरतो वर्जनीयेयमभिभवनिरस्या, क एनां पुनरालापयिष्यति, को वावलोकयिष्यति, को वास्या नाम ग्रहीष्यति' इत्येवमभिहितवति तस्मिन्सर्वास्ताः सह कादम्बर्या क्रीडालापभाषिता जहसुरङ्गनाः । परिहासस्तु तस्य नर्मभाषितमाकर्ण्य जगाद - 'धूर्त - *********** कर्णपरम्परया परिजनोऽपि सेवकजनोऽप्येवमामन्त्रयते । एवं कथयतीत्यर्थः । बहिरपि जना एवं कथयन्ति । दिगन्तरेष्वपि परदेशेष्वप्ययमालापो वर्तत एव । अस्माभिरप्येतत्पूर्वोक्तमाकर्णितमेव श्रुतमेव । तदेव दर्शयन्नाह - यथेति । किलेति सत्ये । देव्याः कादम्बर्यास्ताम्बूलदायिनी तमालिकां कामयमानः प्रार्थयमानः परिहासनामा शुको मदनपरवशो गतान्यतीतान्यपि दिनान्यहानि न वेत्ति न जानाति । तदयमिति । तदिति हेत्वर्थे । अयं वामाचारो विरुद्धाचरणः परित्यक्तनिजकलत्रो निस्त्रपो निर्लज्जस्तया सह तावदास्तां तिष्ठतु, देव्यास्तु कादम्बर्याः कथमेतद्युक्तं न्याय्यम् । इमा चपलां चञ्चला दुष्टदासी यन्न निवारयति न निषेधति । अथवेति पक्षान्तरे । देव्यापि प्रथममेव निःस्नेहता निष्प्रेमता कथितैवोक्तैव । किं कुर्वन्त्या देव्या । इमां वराकी कालिन्दीमीदृशाय दुर्विनीताय विहगाय प्रयच्छन्त्या प्रददत्या । किमिदानीमियं करोतु । न किमपि कर्तुं समर्था । यद्यस्माद्धेतोरेतत्सापल्यकरणं नारीणां स्त्रीणां प्रधान मुख्य कोपकारणम् । अग्रणीमुख्यो विरागस्य विरक्तताया हेतुः । परं परिभवस्थानं मुख्यं पराभवगृहम् । इयमेव कालिन्येव केवलमतिधीरा । अस्मिन्नर्थे हेतुमाह - यदिति । यद्यस्मात्कारणादनया कालिन्या अनेन दौर्भाग्यगरिम्णा शुकेन कृत्वा जातमुत्पन्नं वैराग्यं यस्याः सैवंविधया विषं नास्वादितं न भक्षितम् । अनलो वह्निर्वा नासादितो न गृहीतः । अनशनं प्रायो वा नाङ्गीकृतम् । योषितां लघिम्नः कारणं नह्येकमपरमस्ति । यदि चेति । इयं कालिन्दीदृशेऽपराधेऽप्यनुनीयमाना प्रसन्नीक्रियमाणा । अनेन शुकेन प्रत्यासत्तिं संबन्धमेष्यति गमिष्यति, तदेमां धिक् । अनयालं कृतम् । दूरतो वर्जनीया त्याज्येयम् । अभिभवेन निरस्या दूरीकरणीया । क एनां पुनरालापयिष्यति । को वावलोकयिष्यति । को वास्याः कालिन्या नामाभिधानं ग्रहीष्यतीत्येवं पूर्वोक्तप्रकारेणाभिहितवति कथितवति तस्मिन्राज्ञि सर्वास्ता अङ्गनाः कादम्बर्या सह जहसुर्हसितवत्यः । कीदृश्यः । क्रीडालापेन नालापेन भाषिता वासिताः । परीति । परिहासः शुकस्तु तस्य चन्द्रापीडस्य नर्मभाषितमाकर्ण्य श्रुत्वा जगादोवाच । हे धूर्त राजपुत्र, निपुणाभिज्ञेयम् । टिप्प० - 1 अनेन दौर्भाग्यस्य गरिम्णा (गुरुतया), 1 2 ‘एवंविधम्' इत्यपि पाठः । एवंविधमपरं नास्तीति तदर्थः । 3 'भाविताः' इत्येव । नालापेन भाविताः संजाततदनुगुणभावोदया इत्यर्थः । पाठा० - १ अप्येवं मन्त्रयति एवम्; अपि मन्त्रयते बहिः. २ एवम्. ३ वाहिनीं. ४ तरलिकाम्. ५ निस्त्रपया. ६ अतिनिःस्नेहता. ७ इयं तपस्विनी. ८ एवंविधम्; एवम्. ९ तेन सह. १० निरस्याम्. ११ भाविता. - - - - - - - - - - - - - - - - - - - - - - - - - 404 कादम्बरी। कथायाम् Page #418 -------------------------------------------------------------------------- ________________ राजपुत्र, निपुणेयम्, न त्वयान्येन वा लोलापि प्रतारयितुं शक्यते । एषापि बुध्यत एवैतावतीर्वक्रोक्तीः । इयमपि जानात्येव परिहासजल्पितानि । अस्या अपि राजकुलसंपर्कचतुरा मतिः । विरम्यताम् । अभूमिरेषा भुजङ्गभङ्गिभाषितानाम् । इयमेव हि वेत्ति मञ्जुभाषिणी कालं च कारणं च प्रमाणं च विषयं च प्रस्तावं च कोपप्रसादयोः' इति । अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत् - 'आयुष्यमति, देवश्चित्ररथो देवी च मदिरा त्वां द्रष्टुमाह्वयते' इति । एवमभिहिता च गन्तुकामा ‘सखि, चन्द्रापीडः क्वास्ताम्' इति कादम्बरीमपृच्छत् । असौ तु ननु पर्याप्तमेवानेकस्त्रीहृदयसहसावस्थानमनेनेति मनसा विहस्य, प्रकाशमवदत् - 'सखि महाश्वेते, किं त्वमेवमभिदधासि । दर्शनादारभ्य शरीरस्योप्यहं न विभुः, किमुत भैवनस्य परिजनस्य वा । त्रासौ रोचते प्रियसखीहृदयाय वा तत्रायमास्ताम्' इति तच्छ्रुत्वा महाश्वेतावदत् - ‘अत्रैर्वै त्वत्प्रासादसमीपवर्तिनी प्रमदवने क्रीडापर्वतकमणिवेश्मन्यास्ताम्,' इत्यभिधाय गन्धर्वराजं द्रष्टुं ययौ । चन्द्रापीडोऽपि तँयैव सह - *********** त्वयान्येन वा त्वद्व्यतिरिक्तपुंसा लोलापि चपलापि प्रतारयितुं न शक्यते न पार्यते । एषेति । एतावतीर्वक्रोक्तीरेषापि बुध्यते जानाति । इ॒यमपि परिहासजल्पितानि जानात्येव । अस्या अपि राजकुलेन संपर्कः संबन्धस्तेन चतुरा चार्थयुक्ता मतिर्बुद्धिः । अतो विरम्यतां मन क्रियताम् । नर्मालापभाषणादिति शेषः । भुजंगाः कामिनस्तेषां भङ्गिभाषितानां वक्रोक्तीनामेषाऽभूमिरस्थानम् । इयमेव हि मञ्जुभाषिणी मनोज्ञालापिनी कोपप्रसादयोः कालं समयं कारणं निमित्तं प्रमाणं तद्व्यवस्थापकं पञ्चावयवं वाक्यं विषयं गोचरं प्रस्तावमवसरं च वेत्ति जानातीति । I अत्रान्तरे चेति । अस्मिन्समये कञ्चुक्यागात्य महाश्वेतामित्यवोचदित्यब्रवीत् । इतिशब्दवाच्यमाह - आयुष्मतीति । हे आयुष्म, देवः पूज्यश्चित्ररथाभिधो नृपो देवी च राज्ञी मदिराभिधा त्वां भवतीं द्रष्टुं विलोकयितुमाह्वयत आह्वानं करोति । एवंप्रकारेणाभिहितोक्ता संती गन्तुकामा इति कादम्बरीमपृच्छत् । इतीति किम् । हे सखि कादम्बरि, चन्द्रापीडः क्वास्तां क्व तिष्ठतु । असौ त्विति । असौ कादम्बरी मनसा विहस्येति प्रकाशं प्रकटमवदत् । इतिद्योत्यमाह - पर्याप्तेति । अनेनं कृत्वा पर्याप्तमेव परिपूर्णमेव । स्वेर्व्यां प्रकटयत्याह - अनेकेति । अनेका याः स्त्रियस्तासां हृदयानि चेतांसि तेषां सहस्रं तल्लक्षणमवस्थानमावासः । अवस्थानावस्थितिभावस्य समानत्वादेतन्मनोऽन्यासु लग्नमिति भावः । नवकपोलप्रतिबिम्बसंक्रान्तिवशात्प्रागेव दर्शितमित्यनुनयमाह - किं त्विति । त्वं किमभिदधासि किं कथयसि । दर्शनादारभ्यावलोकनात्प्रभृति शरीरस्यापि देहस्याप्यहं न विभुः । देहं धारयितुं न समर्थ इत्यर्थः । स भवनस्य परिजनस्य वा किमुत भण्यते । यत्रेति । यस्मिन्स्थलेऽसौ चन्द्रापीडः । पुनरार्यामाह - प्रियेति । प्रियसखीहृदयाय रोचते रुचिविषयीभवति तत्रायमास्तां तिष्ठतु । एतत्पूर्वोक्तं श्रुत्वाकर्ण्य महाश्चेतावददवोचत् । अत्रैव त्वत्प्रासादसमीपवर्तिनि प्रमदवनेऽन्तः पुरोपवने क्रीडापर्वतकस्य मणिवेश्मनि रत्ननिर्मितगृह आस्तां तिष्ठत्वित्यभिधायेत्युक्त्वा गन्धर्वराजं द्रष्टुं ययौ गतवती । चन्द्रापीडोऽपि तयैव महाश्वेतयैव सह निर्गत्य बहिरागत्य कादम्बर्या समादिष्टा या प्रतीहारी टिप्प० - 1 स्त्रीत्वेन अगभीरबुद्धिरपि । 2 वस्तुतस्तु - 'न पर्याप्तमनेकस्त्रीहृदयसहसावस्थानेन ?' इत्येव पाठः । स्त्रीहृदयसहसरूपेण अवस्थितिस्थानेन किम् न पर्याप्तम् ? अर्थात् हृदयसहसरूपं स्थानमस्य किं न यथेष्टं जातमिति काकुः । भावे प्रत्ययः । 3 समर्थेत्याशयः । पाटा० - १ न पर्याप्तमनेकस्त्रीदय सहसावस्थानेन. २ अप्ययमेव प्रभुः ३ भवनस्य ४ अस्मै ५ महाश्वेता तदत्रैव. ६ च ७ तया सहैव. (कादम्बर्या स्वविकारजा चिन्ता पूर्वभागः । 405 Page #419 -------------------------------------------------------------------------- ________________ निर्गत्य विनोदनार्थं वीणावादिनीभिश्च वेणुवाद्यनिपुणाभिश्च गीतकलाकुशलाभिश्च दुरोदरक्रीडारागिणीभिश्चाष्टापदपरिचयचतुराभिश्च चित्रकर्मकृतश्रमाभिश्च सुभाषितपाठिकाभिश्च कादम्बरीसमादिष्टप्रतीहारीप्रेषिताभिः कन्याभिरनुगम्यमानः पूर्वदृष्टेन केयूरकेणोपदिश्यमानमार्गः क्रीडापर्वतर्मणिमन्दिरमगात् । । गते च तस्मिन्गन्धर्वराजपुत्री विसर्म्य सकलसखीजनं परिजनं च परिमितपरिचारिकाभिरनुगम्यमाना प्रासादमारुरोह । तत्र च शयनीये निपत्य दूरस्थिताभिर्विनयनिभृताभिः परिचारिकाभिर्विनोद्यमाना कुतोऽपि प्रत्यागतचेतना चैकाकिनी तस्मिन्काले 'चपले, किमिदमारब्धम्' इति निगृहीतेव लज्जया, 'गन्धर्वराजपुत्रि, कथमेतद्युक्तम्' इत्युपालब्धेव विनयेन, 'अयमसावव्युत्पन्नो बालभावः क्व गतः' इत्युपहसितेव मुग्धतया, 'स्वैरिणि, मा कुरु यथेष्टमेकाकिन्यविनयम्' इत्यामन्त्रितेव कुमारभावेन, 'भीरु, नायं कुलकन्यकानां क्रमः' इति गर्हितेव महत्त्वेन, 'दुर्विनीते, रक्षाविनयम्' इति तर्जितेवाचारेण, 'मूढे, मदनेन लघुतां नीतासि' इत्यनुशासितेवाभिजात्येन, 'कुतस्तवेयं तरलहृदयता' इति धिकृतेव धैर्येण, ‘स्वच्छन्दचारिणि, अप्रमाणीकृताहं त्वया' इति निन्दितेव कुलस्थित्यातिगुर्वी लज्जामुवाह । *********** बाररक्षानियुक्ता तया प्रेषिताभिः प्रतीताभिर्वीणावादिनीभिर्वेणुवाद्य वंशवायं तत्र निपुणाभिर्दक्षाभिर्गीतं गानं तल्लक्षणा या कला विज्ञानं तत्र कुशलाभिर्दक्षाभिः । दुरोदरेति । दुरोदरक्रीडा द्यूतक्रीडा तस्यां राग अनुरागो विद्यते यासा ताभिः । अष्टापदः शारिफलं तत्र यः परिचयस्तस्मिंश्चतुराभिः । चित्रेति । चित्रकर्मालेख्यकर्मतत्र कृतो विहितः श्रमो याभिः । सुभाषितानि सूक्तानि तेषां पाठिकाभिः । एवंविधाभिः कन्यकाभिरनुगम्यमानः । अत्र कलानां भिन्नभिन्नाश्रयत्वसूचनार्थं चकारः । कीदृशो नृपश्चन्द्रापीडः । पूर्वदृष्टेन केयूरकेणोपदिश्यमानः प्रदर्यमानो मार्गः पन्था यस्य सः । क्रीडापर्वतमणिमन्दिरमगाद् गतवान् । भावशबलानि व्यञ्जयन्नाह - गते चेति । तस्मिंश्चन्द्रापीडे गते सति गन्धर्वराजपुत्री कादम्बरी सकलसखीजनं समग्रवयस्याजनं परिजन परिच्छदलोकं च विसर्ग्य गृहे गम्यतामित्यादिश्य परिमितपरिचारिकाभिः स्तोकपरिच्छदस्त्रीभिरनुगम्यमाना प्रासादो देवभूपानां गृहं तमारुरोहारूढवती । तत्र मणिमन्दिरे शयनीये शय्यायां निपत्य पतनं कृत्वा विरहव्याकुलचित्तत्वेन शयनाभावाद्दूरस्थिताभिर्दविष्ठदेशावस्थायिनिभिर्विनयनिभृताभिर्मर्यादावतीभिः एवंविधाभिः परिचारिकाभिर्विनोद्यमाना विनोदविषयीक्रियमाणा कुतोऽपि प्रत्यागता पश्चादागता चेतना यस्याः सा । चन्द्रापीडदर्शनान्मन्मथेन चैतन्यमपहृतं तत्प्रत्यागतमिति भावः । सैवंविधैकाकिनी तस्मिन्काले स्वात्मानं संबुध्याह - चपलेति । हे चपले चञ्चले, किमिदमारब्धं प्रस्तुतमिति लज्जया त्रपया निगृहीतेव निरुत्तरीकृतेव । हे गन्धर्वराजपुत्रि, कथमेतत्पूर्वोक्तं युक्तं न्याय्यमित्युपालब्धेव विनयेन । उपालम्भस्तिरस्कारविशेषः । अयमसौ अव्युत्पन्नो बालभावः शिशुभावः क्व गत इत्युपहसितेव हास्यगोचरीकृतेव मुग्धतया । हे स्वैरिणि स्वेच्छाचारिणि, एकाकिनी यथेष्टमविनयं मा कुर्वित्यामन्त्रितेव निमन्त्रितेव कुमारभावेन बालभावेन । हे भीरु, कुलकन्यकानामयं न क्रम इति गर्हितेव निन्दितेव महत्त्वेन गरिम्णा । दुर्विनीते, अविनयं रक्षेति तर्जितेवाचारेण । हे मूढे, मदनेन कंदर्पण लघुतां तुच्छतां नीतासि प्रापितासीत्यनुशासितेवानुशिक्षितेवाभिजात्येन भूमिकानुसारितया । कुतस्तवेयं तरलहृदयतेति धिकृतेव धैर्येण । हे स्वच्छन्दचारिणि, अहं त्वयाऽप्रमाणी - - - - - - - - - - -- टिप्प० -1 यौवनकालिकशृङ्गारविषयकभावानभिज्ञः । 2 आमन्त्रणपूर्वकमुपदिष्टेव, इत्यर्थः । 3 कौलीन्येन । पाठा० - १ विनोदार्थम्. २ गृहम्. ३ सकलं. ४ ततः. ५ अदूरस्थिताभिः. ६ विधृताभिः. ७ परिचयचतुराभिरुपास्यमानापि. ८ लघुतां नीतासि मदनेनेति शापितेव. ९ तरलता. (406 ( कादम्बरी ।। कथायाम् Page #420 -------------------------------------------------------------------------- ________________ समचिन्तयच्चैवम् - ‘अगणितसर्वशङ्कया तरलहृदयतां दर्शयन्त्याद्य मया किं कृतमिदं मोहोन्धया । तथा हि, अदृष्टपूर्वोऽयमिति साहसिकतया मया न शङ्कितम् । लघुहृदयां मामयं कलयिष्यतीति निर्हीकया नाकलितम् । कास्य चित्तवृत्तिरिति मया न परीक्षितम् । दर्शनानुकूलाहमस्य नेति वा तरेलया न कृतो विचारक्रमः । प्रत्याख्यानवैलक्ष्यान्न भीतम् । गुरुजनान्न त्रस्तम् । लोकापवादान्नोद्विग्नम् । तथा च महाश्वेतीतिदुःखितेति दाँक्षिण्यया नापेक्षितम् । आसन्नवर्तिसखीजनोऽप्युपलक्षयतीति मन्दया न लक्षितम् । पार्श्वस्थितः परिजनः पश्यतीति नष्टचेतनया न दृष्टम् । स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं विभावयेयुः, किमुतानुभूतमदनवृत्तान्ता महाश्वेता सकलकलाकुशलाः सख्यो वा राजकुलसंचारचतुरो वा नित्यमिङ्गितज्ञः परिजनः । ईदृशेष्वतिनिपुणतरदृष्टयोऽन्तःपुरदास्यः । सर्वथा हतास्मि मन्दपुण्या । मरणं मेऽद्य श्रेयो न लज्जाकरं जीवितम् । श्रुत्वैतद्वृत्तान्तं किं वक्ष्यत्यम्बा, तातो वा, गन्धर्वलोको वा । किं करोमि । कोऽत्र प्रतीकारः । केनोपायेन स्खलितमिदं प्रच्छादयामि । कस्य वा चापलमिदमेतेषां दुर्विनीतानामिन्द्रियाणां कथयामि । क्व वान 1 - *********** - कृतेति निन्दितेव कुलस्थित्यातिगुर्वीमतिमहतीं लज्जां त्रपामुवाह धारयामास । समिति । एवमग्रे वक्ष्यमाणं समचिन्तयदध्यायत् । एवंशब्दवाच्यमाह - अगणितेति । अगणिताः सर्वाः समग्राः शङ्का यया सा तया । किं कुर्वन्त्या । तरलहृदयतां चञ्चलचित्ततां दर्शयन्त्या प्रकाशयन्त्या अद्य मोहान्धया मयेदं किं कृतं किं विहितम् । तदेव दर्शयति तथा हीति । अदृष्टपूर्वोऽनवलोकितपूर्वोऽयं चन्द्रापीड इति साहसिकतया साहसयुक्तया मया न शङ्कितम् । तथा मां लघुह्रदयां तुच्छचित्तामयं कलयिष्यतीति निर्हीकया निर्लज्जया नाकलितम् । तथा कास्य चित्तवृत्तिरिति मया न परीक्षितं परीक्षा न कृता । तथा दर्शनानुकूला दर्शनयोग्याहमस्य नेति वा मया तरलया चपलया विचारक्रमो न कृतो न विहितः । तथा प्रत्याख्यानं प्रतिषेधस्तज्ञ्जनितं यद्वैर्लक्ष्यं तस्मान्न भीतं न त्रस्तम् । तथा गुरुजनात्पूज्यजनान्न त्रस्तं चकितम् । तथा लोकापवादाज्जनप्रवादान्नोद्विग्नं नोद्वेगं प्राप्तम् । तथा च महाश्वेतातिदुःखितेति दाक्षिण्यया गतानुकूलतया नापेक्षितमपेक्षा न कृता । तथासन्नवर्ती समीपवर्ती सखीजनोऽप्यालीजनोऽप्युपलक्षयति ज्ञास्यति । भविष्यति वर्तमानः । इति मन्दया मूर्खया न लक्षितं न ज्ञातम् । तथा पार्श्वस्थितः समीपस्थः परिजनं परिच्छदः पश्यत्यवलोकयतीति नष्टचेतनया मया न दृष्टम् । तथा स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं संभावयेयुः विभावनां कुर्युः । अनुभूतोऽनुभवं नीतो मदनवृत्तान्तो यया सैवंविधा महाश्वेता सकलकलाकुशलास्तस्याः सख्यो वयस्या वा राजकुले संचारः संचरणं तत्र चतुरोऽभिज्ञो नित्यमिङ्गितज्ञ इङ्गितं शरीरचेष्टा तदभिज्ञः परिजनो वा । ईदृशेषु कार्येष्वतिनिपुणतरा दृष्टयो यासां ता अन्तःपुरदास्यः । एतासां किमुत भण्यते । एताः पराभिप्रायं विदन्त्येवेति भावः । अतः सर्वथा मन्दपुण्याहं हतास्मि । मे मम मरणमद्य श्रेयः । लज्जाकरं त्रपाजनकं जीवितं न श्रेयः । एतद्वृत्तान्तमुदन्तं श्रुत्वाकर्ण्याम्बा माता, तातः पिता वा, गन्धर्वलोकः स्वजनवर्गो वा, किं वक्ष्यति कथयिष्यति । अहं किं करोमि किमनुतिष्ठामि । कोऽस्मिन्विषये प्रतीकारः प्रतिक्रिया । केनोपायेन प्रपञ्चेनेदं स्खलितं दुश्चेष्टितं प्रच्छादयाम्यावृणोमि । एतेषां दुर्विनीतानामिन्द्रियाणां करणानां चापलं चाञ्चल्यं कस्य वा कथयामि निवेदयामि । क्व वानेन टिप्प० - 1 लज्जा, वैयाकुली वा । 2 'निर्दाक्षिण्यया' दाक्षिण्य ( औदार्य) रहितया मया, इत्यर्थः । टिप्प० - १ अगणितसर्वशङ्काम्. २ मोहान्धया हताशया. ३ मां लोकः ४ मूढया. ५ तरलतया. ६ दुःखिता. ७ निर्दाक्षिण्यायाः ८ निपुणदृष्टय. ९ एतम्. कादम्बर्याः स्वविकारैर्मनश्चिन्ता पूर्वभागः । 407 Page #421 -------------------------------------------------------------------------- ________________ देग्धहृदया पञ्चबाणेन गच्छामि । तथा महाश्वेताव्यतिकरेण प्रतिज्ञा कृता, तथा प्रियसखीनां पुरो मन्त्रितम्, तथा केयूरकस्य हस्ते संदिष्टम्, न खलु जानामि मन्दभागिनी शठविधिना वा, उत्सन्नमन्मथेन वा, पूर्वकृतापुण्यसंचयेन वा, मृत्युहतकेन वा, अन्येन वा केनाप्ययमानीतो मम विप्रलम्भकश्चन्द्रापीडः । कोऽपि वा न कदाचिद्दृष्टः, नानुभूतः, न च श्रुतः, न चिन्तितः, नोटोक्षितः, मां विडम्बयितुमुपागतः । यस्य दर्शनमात्रेणैव संयम्य दत्तेव, इन्द्रियैः शरपञ्जरे निक्षिप्य समर्पितेव, मन्मथेन दासीकृत्योपनीतेव, अनुरागेण निर्यातितेव, गृहीतमूल्येन गुणगणेन विक्रीतेव, हृदयेनोर्पकरणीभूतास्मि । न मे कार्यं तेन चपलेन' इति क्षणमिव संकल्पमकरोत् । कृतसंकल्पा चान्तर्गतेन ‘मिथ्याविनीते, यदा मया न कृत्यम्, एष गच्छामि' इति हृदयोत्कम्पचलितेन परिहसितेव - ***** पञ्चबाणेन कंदर्पेण दग्धहृदया गच्छामि व्रजामि । तथा महाश्वेताया व्यतिकरेण वृत्तान्तेन मया प्रतिज्ञा संगरः कृता पत्युर्न सेवनीय इति तथापि प्रियसखीनामतिवल्लभवयस्यानां पुरः पुरतो मन्त्रितमालोचितम् । तथा केयूरकस्य हस्ते महाश्वेतायै संदिष्टं सदेशः प्रेषितः तत्रोत्तरभाव्यनर्थापरिज्ञाननिमित्तमित्याह - न खल्विति । न खलु निश्चयेनाहं मन्दभागिनी एतन्न जानामि नाकलयामि । किं तदित्याह - शति । शो मूर्खो यो विधिर्ब्रह्मा तेन वा, उत्सन्नो दृप्तो मन्मथः कंदर्पस्तेन वा, पूर्वं कृतो योऽपुण्यसंचयः पापभरस्तेन वा, मृत्युलक्षणो यो हतको हत्याकृत्तेन वा, अन्येनानिर्दिष्टनाम्ना केनापि वा मम विप्रलम्भको वियोगरूपोऽयं चन्द्रापीड आनीतः प्रापितः । पूर्वपरिचिन्तितं निरस्यन्नाह - कोऽपीति । कोऽप्ययं न कदाचिद्दृष्टः, नानुभूतः न च श्रुत आकर्णितः, न चिन्तितो ध्यातः, नोव्प्रेक्षितः पुनःपुनर्विलोकितो यन्मां विडम्बयितुं कदर्थनां कर्तुपागतः प्राप्तः । यस्येति । यस्य चन्द्रापीडस्य दर्शनमात्रेण कारणभूतेन हृदयेनं कर्तृभूतेन संयम्य बद्ध्वा दत्तेव समर्पितेवेन्द्रियैः करणैः करणभूतैः शरपञ्जरे काशघटितगृहे निक्षिप्य हृदयेन समर्पितेव । तथा मन्मथेन कंदर्पेण करणभूतेन दासीकृत्य हृदयेनोपनीतेव प्रापितेव । तथानुरागेण चन्द्रापीडविषयकेण कृत्वा हृदयेन निर्यातितेव निःसारितेव । तथा गृहीतमूल्येनात्तवेतनेन गुणगणेन करणभूतेन हृदयेन विक्रीतेव विक्रयीकृतेव । अतोऽहमुपकरणी भूतोपस्करभूतास्मि । यथा गृहोपकरणं यत्र तत्रोपयोगि न तथाहमित्यर्थः । भावशबलत्वं पोषयन्नाह - नेति । तेन चपलेन न मे कार्यं प्रयोजनमिति क्षणमिव क्षणसदृशं संकल्पमकरोदप्रणयत् । इयं निर्वेदावस्था । तामुपमर्द्यपुनरपि रतिभावावस्थामाह - कृतेति । कृतसंकल्पा च विहितसंकल्पा च । अन्तर्गतेनेति चन्द्रापीडेत्यादि त्रिष्वपि संबध्यते । त्रयाणामेव हृदये स्थितत्वात्परिहासप्रश्नाभिहितत्वान्नियुक्तानि । तान्येवाह - हृदयेति । हृदये य उत्कम्पो ग्लानि विशेषस्तेन चलितेन कम्पितेन चन्द्रापीडेन हे मिथ्याविनीते, यदि मया न कृत्यं तदैषोऽहं गच्छामि व्रजामीति कृत्वा परिहसितेव कृतहास्येव । तथा तस्य चन्द्रापीडस्य यः परित्यागस्तस्य सं - *** टिप्प - 1 सहृदयाः एवं किल मूलं पठेयुः - "मां विडम्बयितुमुपागतः, यस्य दर्शनमात्रेणैव संयम्य दत्तेवेन्द्रियैः, शरपञ्जरे निक्षिप्य समर्पितेव मन्मथेन, दासीकृत्योपनीतेवानुरागेण, गृहीतगुणपणेन विक्रीतेव हृदयेन, उपकरणीभूतास्मि । गुणरूपं पणम् (मूल्यम् ) गृहीत्वा हृदयेन विक्रीतेव । अत एव उपकरणीभूतास्मि विक्रेयद्रव्यीभूतास्मि इत्यर्थः । अन्यत्स्पष्टम् । 408 पाठा० - १ दग्धहृदयेन गृहीता गच्छामिः दग्धहृदेयन पञ्चबाणेन न खलु जानामि गृहीता गच्छामि. २ केयूरकहस्ते. ३ उपन्यस्तः; उपनतः ४ दर्शनमात्रकेण. ५ अनुरागेण गृहीतगुणगणेन विक्रीतेव. ६ अशरणीभूतास्मि. कादम्बरी | कथायाम् Page #422 -------------------------------------------------------------------------- ________________ चन्द्रापीडेन, तत्परित्यागसंकल्पसमकालप्रस्थितेन कण्ठलग्नेन पृष्टेव जीवितेन, ‘अविशेषज्ञ, पुनरपि प्रक्षालितलोचनया दृश्यतामसौ जनः, प्रत्याख्यानयोग्यो न वा' इति तत्कालागतेनाभिहितेव बाष्पेण, 'अपनयामि ते सहासुभिधैर्यावलेपमिति निर्भसिंतेव मनोभुवा, पुनरपि तथैव चन्द्रापीडाभिमुखहृदया बभूव । तदेवमस्तमितप्रतिसमाधानबलात्प्रेमावेशेनास्वतन्त्रीकृता परवशेवोत्थाय जालवातायनेन तमेव क्रीडापर्वतकमवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्विग्नेव स्मृत्या ददर्श, न चक्षुषा । अङ्गुलीगलितस्वेदपरामर्शभीतेव चिन्तया लिलेख, न चित्रतूलिकया । रोमाञ्चतिरोधानशङ्कितेव हृदयेनालिलिङ्ग, न वक्षसा । तत्संगमकालातिपातासहेव मनो गमाय नियुक्तवती, न परिजनम् । चन्द्रापीडोऽपि प्रविश्य स्वच्छन्दं कादम्बरीहृदयमिव द्वितीयं - *********** कल्पस्तदध्यवसायस्तत्समकालं प्रस्थितेन चलितेन कण्ठलग्नेन जीवितेन पृष्टेव प्रश्नविषयीकृतेव । अन्योऽपि यः प्रस्थानं करोति सोऽपि कण्ठे लगित्वा गच्छामीति प्रश्नपूर्वकं व्रजति । तत्कालागतेन तत्समयावच्छेदेन प्रादुर्भूतेन बाष्पेन नेत्राम्बुनेत्यभिहितेवेति कथितेव । इतिवाच्यमाह - अविशेषेति । हे अविशेषज्ञ, पुनरपि प्रक्षालितलोचनया त्वयासौ जनो दृश्यतामालोक्यताम् । न चाप्रत्याख्यानयोग्यो निराकरणयोग्यः । इतीति । इति मनोभुवा कंदर्पण निर्भसिंतेवाधिक्षिप्तेव । इतियोत्यमाह - अपेति । ते तवासुभिः प्राणैः सह धैर्यावलेपं धीरिमाहंकारमपनयामि दूरीकरोमि । पुनरपीति । तथैव पूर्वोक्तप्रकारेणैव चन्द्रापीडस्याभिमुखं हृदयं यस्या एवंभूता पुनरपि बभूव जज्ञे । उत्कण्ठातिशयेन रतिभावं पुनः मो(पो)षयन्नाह - तदेवमिति । तदेवं पूर्वोक्तप्रकारेणास्तमितमस्ततां प्राप्तं सत्समाधानं किमनेन चपलेन कार्यमित्यादि निर्वेदरूपं तदेव बलं तस्मात्प्रेमा चन्द्रापीडविषयकः स्मृतिरूपस्तस्यावेशेन प्रवेशेनास्वतन्त्रीकृता परायत्तीकृता परवशेव पराधीनेवोत्थायोत्थानं कृत्वा जालवातायनेन जालगवाक्षेण तमेव क्रीडापर्वतकमवलोकयन्ती पश्यन्त्यतिष्ठदासीत् । पुनर्भावानेवाह - तत्रस्थेति । तत्रस्था वातायनोपविष्टा सा तं चन्द्रापीडमानन्दजलेन हर्षाश्रुणा यद्व्यवधानं तेनोद्विग्नेवोद्वेगं प्राप्तेव स्मृत्यानुभवव्यतिरिक्तज्ञानेन ददर्शालोकयांचकार न चक्षुषा । अङ्गुलिभ्यो गलितो यः स्वेदस्तस्य परामर्शः संश्लेषस्तेन भीतेव त्रस्तेव चिन्तया लिलेख, न चित्तूलिकया । तदाकृतिं भावनया भावितवती, न कूर्चिकया लिखितवतीत्यर्थः । रोमाञ्च इति । रोमाञ्चो रोमोद्गमस्तेन तिरोधानमाच्छादनं तेन शङ्कितेव हृदयेन चित्तेनालिलिङ्गाश्लेषं कृतवती । वक्षसा भुजान्तरेण । तस्येति । तस्य चन्द्रापीडस्य यः संगमः संश्लेषस्तत्र कालातिपातः कालविलम्बस्तं सोढुमसहेवाशक्तेव गाय तदालिङ्गनाय मनो नियुक्तवती प्रेषितवती । न परिजनम् । अत्रायमभिप्रायः - आनन्दजलं व्यवधायकमिति न चक्षुषा तथादर्शनमित्युद्धेगः । अङ्गुलीगलितस्वेदेन चित्रतूलिकाविलिखनस्य विलोपो भयहेतुर्वक्षसालिङ्गनेन च रोमाञ्च एव व्यवधायक इति सर्वथा नानन्तरितालिङ्गनमिति शङ्काहेतुः । मनसः सत्वरगतिं मत्वा तस्य परिजनस्य तथात्वभावात्कालातिपातः । अत्र चानन्दजलादीनां स्मृत्यादीनां चातिशया व्यङ्ग्याः । नायिकामालम्ब्य भावशबलत्वमुक्त्वा नायकमाश्रित्य भावशबलत्वमाह - चन्द्रापीडोऽपीति । स्वच्छन्दं यत्कादम्बरीहृदयं तद्वदिव द्वितीयं मणिगृहं प्रविश्य शिलातल आस्तीर्णायां विस्तारितायामुभयतः पार्थद्वय - टिप्प० - 1 'तदेवमस्तमितप्रतिसमाधानबला बलात्प्रेमावे० इत्यपि पाठः । अस्तमितं प्रतिसमाधानबलं धैर्यावलम्बनसामर्थ्य यस्याः, अतएव प्रेमावेशेन बलात् अस्वतन्त्रीकृता, अत एव परवशेव उत्थाय, इति तदर्थः । 2 'गमागमाय' इत्यपि पाठः । चन्द्रापीडान्तिके यातायाताय मनो नियुयोज, मनसो द्रुतगामित्वात् । पाठा०.१ चन्द्रापीडेन तत्परित्याग. २ बलाबलात्. ३ पर्वतम्. ४ गमागमाय; गमनागमने. ५ स्वच्छम्. चन्द्रापीडस्य मनसि विचाराः पूर्वभागः। Page #423 -------------------------------------------------------------------------- ________________ मणिगृह शिलातलास्तीर्णायामुभयत उपर्युपरि निवेशितबहूपधानायां कुथायां निपत्य केयूरकेणोत्सङ्गेन गृहीतचरणयुगलस्ताभिर्यवादिष्टेषु भूमिभागेषुपविष्टाभिः कन्यकाभिः परिवृतो दोलायमानेन चेतसा चिन्तां विवेश । किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्याः सहभुव एते विलासा एवेदृशाः सकललोकहृदयहारिणः, आहोस्विदनाराधितप्रसन्नेन भगवता मकरकेतुना मयि नियुक्ता, येन मां सासेण सरागेणाकूणितत्रिभागेण हृदयान्तःपतत्स्मरशरकुसुमरजोरूषितेनेव चक्षुषा तिर्यग्विलोकयति । मद्विलोकिता च धवलेन स्मितालोकेन दुकूलेनेव लज्जयात्मानमावृणोति । मल्लज्जाविवर्तमानवदना च प्रतिबिम्बप्रवेशलोभेनेव कपोलदर्पणमपर्यति । मदवकाशदायिनो हृदयस्य प्रथमाविनयलेखामिव कररुहेण शयनाङ्के लिखति । मत्ताम्बूलवीटिकोपनयनखेदविधूतेन रक्तोत्पलभ्रमभ्रमरवृन्देन करतलेन स्विनं मुखमिव गृहीततमाल - *********** उपर्युपरि निवेशितानि स्थापितानि बहून्युपधानान्युच्छीर्षकाणि यस्यामेवंविधायां कुथायां प्रवेण्यां निपत्य केयूरकेणोत्सङ्गेन गृहीतमात्तं चरणयुगलमङ्घ्रियुग्मं यस्य सः, ताभिर्यथादिष्टेषु यथायोग्यं कथितेषु भूमिभागेषूपविष्टाभिः कन्यकाभिः परिवृत. सहितो दोलायमानेन कम्पमानेन चेतसा कृत्वा चिन्तां विवेश । चिन्तामग्नो बभूवेत्यर्थः । किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्याः सहभुवः स्वाभाविकाः सकललोकहृदयहारिण ईदृशा एते विलासा एव । आहोस्विद्वितर्के । अनाराधितश्चासौ प्रसनश्चैवंविधेन भगवता मकरकेतुनेति सावधारण तेन मकरकेतुनैव मयि कादम्बरी नियुक्ता नियोजिता, येन मन्मथनियोगेन सासेणासं रुधिरं तेन, सरागेण स्नेहयुक्तेनाकूणितो वक्रीकृतस्त्रिभागो यस्मिन् । हृदयेति । हृदयान्तः पतन्तो ये स्मरशराः कंदर्पबाणास्त एव कुसुमानि तेषां रजः परागस्तेन रूषितेनेव चक्षुषा नेत्रेण तिर्यग्विलोकयति । इदं चिन्ताधिरूढामधिकृत्योक्तम् । अन्यथा प्रासादाधिरूढायास्तस्या विलोकनासंभवात् । एवमन्यानपि तद्व्यापारान्स्वानुकूलानेव चिन्तयन्नाह - मदिति । मद्विलोकिता सती लज्जया धवलेन स्मितालोकेन शुभ्रत्वसाम्यादाह - दुकूलेति । दुकूलेनेवात्मानमावृणोत्याच्छादयति । प्रतिबिम्बमधिकृत्याह - मदिति । मल्लज्जया विवर्तमानं वदनं यस्या एवंविधापि प्रतिबिम्बस्य यः प्रवेशस्तस्य लोभेनेव कपोलदर्पणमर्पयति । मुखविवर्तनेऽपि कपोलस्य तदभिमुखत्वादिति भावः । नखकर्षणचेष्टामधिकृत्याह - मदिति । ममावकाशदायिनो हृदयस्य प्रथमामाद्यामविनयलेखामिव कररुहेण पुनर्भवेण शयनस्य पल्यङ्कस्याङ्क उत्सङ्गे लिखति । ताम्बूलप्रदानसमये तस्याः करकम्पक्रियामधिकृत्याह - ममेति । मम ताम्बूलवीटिकाया यदुपनयनं प्रापणं तस्माद्यः खेदः प्रयासस्तेन विधूतेन कम्पितेन, रक्तोत्पलं कोकनदं तस्य यो भ्रमस्तेन भ्रमद् भ्रमरवृन्दं मधुकरपटलं यस्मिनेतादृशेन करतलेन गृहीततमालपल्लवेन(नेव) । भ्रमराणां तत्सादृश्यादिति भावः । मदिति । मद्विलोकनात्प्रेरणा स्विन्नं मुखमिव वीजयति । टिप्प० - 1 कादम्बर्या एते विलासाः सहजाः सकललोकहृदयहारिणः, उत मकरकेतुना नियुक्ताः, इत्यन्वयः । 2 मन्दहास्यप्रभया दुकूलेनेव आत्मानमाच्छादयति । 3 कपोल एव दर्पणः । परावर्तितवदनापि मम प्रतिबिम्बपतनलोभेन निजकपोलमभिमुखीकरोतीत्यर्थः । 4 शयनीयस्य मध्यभागे कामाकूतवशायो नखैरुल्लेखस्तत्र कल्पयति यत् मह्यमवकाशदायिनो हृदयस्य अविनयरेखामिव कर्षति । 5 रक्तोत्पलभ्रमेण पतन्तो भ्रमरा यस्मिन्त्रीदृशेन अत एव गृहीततमालपल्लवेनेव करेण, दानपरिश्रमेण स्वित्रं मुखं वीजयतीव । श्रमवशाद्विधुते हस्ते मुखवीजनस्य, भ्रमरपाते तमालपल्लवस्य चेत्युत्प्रेक्षाद्वयम् । करे रक्तोत्पलभ्रम इति भ्रान्तिरिति त्रयाणां संकरः । पाठा० - १ उत्सङ्गे. २ कृणित. ३ लोभभ्रान्तभ्रमर. ४ खिनं. (410) कादम्बरी। कथायाम् Page #424 -------------------------------------------------------------------------- ________________ पल्लवेनेव वीजयति । पुनश्चाचिन्तयत् - 'प्रायेण मानुष्यकसुलभा लघुता मिथ्यासंकल्पसहसैरेवं मां विप्रलभते, लुप्तविवेको यौवनमदो मदयति, मदनो वा । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । स्नेहलवोऽपि वारिणेव यौवनमदेन दूरं विस्तीर्यते । स्वयमुत्पादितानेकचिन्ताशताकुला कविमतिरिव तरलता न किंचिनोत्प्रेक्षते । निपुणमैदनगृहीता चित्रवर्तिकेव तरुणचित्तवृत्तिर्न किंचिन्नालिखति । संजातरूपाभिमाना कुलटेवात्मसंभावना न क्वचिनात्मानमर्पयति । स्वप्न इवानुभूतमपि मनोरथो दर्शयति । इन्द्रजालपिच्छिकेवासंभाव्यमपि प्रत्याशा पुरः स्थापयति । भूयश्च चिन्तितवान् - 'किमनेन वृथैव मनसा खेदितेन, यदि सत्यमेवेयं धवलेक्षणा मय्येवंजातचित्तवृत्तिस्तदा नचिरात्स एवैनामप्रार्थितानुकूलो मन्मथः प्रकटीकरिष्यति । स एवास्य संशयस्य छेत्ता भविष्यति' इत्यवधार्योत्थायोपविश्य च ताभिः कन्यकाभिः सहाक्षर्गेयैश्च, विपञ्चिवाद्यैश्च, पाणविकैश्च, स्वरसदेहविवादैश्च, तैस्तैरालापैः सुकुमारैः कलाविलासैः क्रीडन्नासाचक्रे । मुहूर्तं च स्थित्वा निर्गम्योपवनालोकनकुतूहलाक्षिप्तचित्तः क्रीडापर्वतशिखरमारुरोह । *********** पुनरिति । पुनरचिन्तयच्चिन्तितवान् । किं तदित्याह - प्रायेणेति । प्रायेण बाहुल्येन मानुष्यके भवे सुलभा सुप्रापा लघुता मिथ्या मुधा संकल्पसहसैमनोरथसहसैरेवं पूर्वोक्तप्रकारेण । मामित्यात्मनिर्देशः । विप्रलभते वञ्चयतीत्यर्थः । तथा लुप्तो विवेको येनैतादृशो यौवनमदस्तारुण्यगर्यो मदयति मदं जनयति । एवं मदनोऽपि । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । अल्पापि योषिता चित्तविकृतिर्बहुत्वेन जानातीत्यर्थः । स्नेहलवोऽपि प्रीतिलेशोऽपि वारिणेव यौवनमदेन दूरं विस्तीर्यते दूरं नीयते । स्वयमिति । स्वयमात्मनोत्पादिता अनेकेषामभिलषणीयवस्तूनां चिन्तास्तत्तद्विषयकमनोवृत्तयस्तासां शतं तेनाकुला व्याकुला तरलता तृष्णाविशेषः किंचिन्न नोप्रेक्षतेऽभिलषते अपि तु सर्वमेवोत्प्रेक्षत इति भावः । केव कविमतिरिव । सापि स्वयमुत्पादितानेकेषां वर्णनीयानां या चिन्ता स्मृतिस्तस्याः शतं तेनाकुला व्याप्ता सती किंचिन्न नोटप्रेक्षते । अपि तु सर्वमेवोत्प्रेक्षालंकारविषयीकरोतीत्यर्थः । निपुणेति । निपुणोऽभिज्ञो यो मदनः कंदर्पस्तेन गृहीता स्वीकृता तरुणचित्तवृत्तिचित्रवर्तिकेव किंचिन्न नालिखति । अपि तु सर्वमेवालिखतीत्यर्थः । संजातेति । संजातं रूपस्य सौन्दर्यस्याभिमानोऽहंकारो यस्या एवंविधात्मसंभावना कुलटेव क्वचिन्न नात्मानमर्पयति । अपि तु सर्वत्रात्मानं दत्त इत्यर्थः । स्वप्न इवानुभूतमपि मनोरथो दर्शयति । प्रत्याशा दुराशेन्द्रजालपिच्छिकेवासंभाव्यमपि पुरोऽग्रे स्थापयति प्रतिष्ठितं करोति । भूयश्चेति । पुनरप्यन्यच्चिन्तितवान् । धृतिमाह - किमनेनेति । अनेन पूर्वोदन्तेन वृथैव मुधैव मनसा खेदितेन किम्, यदि सत्यमेव धवलेक्षणा कादम्बरी मय्येवं जातचित्तवृत्तिस्तदा नचिरात्स्तोककालेनाप्रार्थित एवानुकूलो दाक्षिण्यवान्मन्मथः स एवैनां चित्तवृत्तिं प्रकटीकरिष्यति । स एवेति । स एव कंदर्प एव । अस्येति । अस्याश्चित्तवृत्तिर्मयि वर्तते न वेत्येवंरूपस्यास्य संशयस्य छेत्ता दूरीकर्ता भविष्यति । इत्यवधार्य निश्चयं कृत्वोत्थायोपविश्य च ताभिः पूर्वोक्ताभिः कन्यकाभिः सहाक्षैः पाशकैर्गेयैर्गानैश्च । विपञ्ची वाद्य येषां तैश्च । पणवो वादिनविशेषो विद्यते येषां ते पाणविकास्तैश्च । स्वराणां षड्जादीनां ये सदेहास्तेषां विवादैश्च सुभाषितानि सूक्तानि तेषां गोष्ठीभिश्च । अन्यैश्च पूर्वोक्तव्यतिरिक्तैस्तैस्तैरालापैश्च सुकुमारैः कलाविलासैः क्रीडन्क्रीडां कुर्वनासाचक्रेऽधितस्थौ । मुहूर्तं च स्थित्वा तत्रावस्थान विधाय तदन्तरं निर्गम्य बहिरागत्योपवनस्यालोकनं तस्य कुतूहलं कौतुकं तेनाक्षिप्तं चित्तं यस्य सः क्रीडापर्वतशिखरमारुरोहारूढवान् । टिप्प० -1 अल्पामपि विकृति बहुतरां जानातीत्यर्थः । 2 आत्मश्लाघा । 3 अननुभूतमपीत्यपि पाठः । स्वप्न इव यूनां मनोरथः अननुभूतमपि द्रव्यादिकं नायिकानुरागादिकं च दर्शयतीत्यर्थः । पाठा० - १ एवमायास्य माम्. २ विसार्यते. ३ मन्मथ. ४ अननुभूतम्. ५ पर्वतक. - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - चन्द्रापीडस्य मनसि विचाराः पूर्वभागः । 411) Page #425 -------------------------------------------------------------------------- ________________ कादम्बरी तु तं दृष्ट्वा चिरयतीति महाचेतायाः किल वर्विलोकयितुं विमुच्यतां गवाक्षमित्युक्त्वानङ्गक्षिप्तचित्ता सौधस्योपरितनं शिखरमारुरोह । तत्र च विरलपरिजना, सकलशशिमण्डलपाण्डूरेणातपत्रेण हेमदण्डेन निवार्यमाणातपा, चतुर्भिर्वालव्यजनैश्च फेनशुचिभिरुद्धूयमानैरुपवीज्यमाना, शिरसि कुसुमगन्धलुब्धेन भ्रमता भ्रमरकुलेन दिवापि नीलावगुण्ठनेनेव चन्द्रापीडाभिसरणवेषमभ्यस्यन्ती, मुहुचामरशिखां समासज्य, मुहुश्छत्रदण्डमवलम्ब्य, मुहुस्तमालिकास्कन्धे करौ विन्यस्य, मुहुर्मदैलेखां परिष्वज्य, मुहुः परिजनान्तरितसकलदेहा नेत्रत्रिभागेणावलोक्य, मुहुरावलितत्रिवलीवलया परिवृत्य, मुहुः प्रतीहारीवेत्रलताशिखरे कपोलं निधाय, मुहुर्निश्चलकरविधृतामधरपल्लवे वीटिकां निवेश्य, मुहुरुद्गीर्णोत्पलप्रहारपलायमानपरिजनानुसरणदत्तकतिपयपदा विहस्य तं विलोकयन्ती, तेन च विलोक्यमाना, महान्तमपि कालमतिक्रान्तं नाज्ञासीत् । आरुह्य च प्रतीहार्या निवेदितमहाश्वेताप्रत्यागमना तस्मादवततार । स्नानादिषु मन्दादरापि महाश्वेतानुरोधेन दिवसव्यापारमकरोत् । *********** कादम्बरी तु तं चन्द्रापीडं दृष्ट्वा विलोक्य चिरयति विलम्बते इति महाश्वेतायाः किल वर्म मार्गमवलोकयितुं वीक्षितुं गवाक्षं वातायनं विमुच्यतामुद्धाट्यतामित्युक्त्वानङ्गक्षिप्तचित्ता सौधस्योपरितनं शिखरमारुरोहारूढवती । तत्र चेति । तस्मिन्स्थले । इतः कादम्बरी विशेषयन्नाह - विरलेति । विरलः स्वल्पः परिजनो यस्याः सा । सकलेति । सकलं समग्रं यच्छशिमण्डलं चन्द्रबिम्बं तद्वत्पाण्डुरेण. श्वेतेन हेमदण्डेन सुवर्णदण्डेनातपत्रेण छत्रेण निवार्यमाणो दूरीक्रियमाण आतपो यस्याः सा । उद्भूयमानैः कम्पमानैः फेनः कफस्तद्वच्छुचिभिनिर्मलैश्चतुर्भिर्वालव्यजनैश्चामरैश्चौपवीज्यमाना । शिरसीति । शिरसि मस्तके कुसुमानां पुष्पाणां गन्धस्तत्र लुब्धेन गर्धेन भ्रमरकुलेन मधुकरवृन्देन भ्रमता पर्यटता । दिवापि भ्रमरकुलस्य नीलत्वात्तत्साम्येनाह - नीलेति । नीलं यदवगुण्ठनं शिरोवेष्टनं तेनेव । अभिसारिकावेषमधिकृत्याह - चन्द्रेति । चन्द्रापीडस्याभिसरणं तत्र यो वेषस्तमभ्यस्यन्त्यभ्यासं कुर्वन्ती उत्कण्ठिताचेष्टितान्याह - मुहुरिति । मुहुः क्षणमा चामरशिखां वालव्यजनप्रान्तं समासज्यालम्ब्य । मुहुश्छत्रदण्डमवलम्व्यालम्बनीकृत्य । मुहुस्तमालिकास्कन्धे करौ हस्तौ विन्यस्य । संस्थाप्य । मुहुर्मदलेखां परिष्वज्याक्षिप्य । मुहुः परिजनेनान्तरितो व्यवहितः सकलदेहो यस्या एवंविधा सती नेत्रत्रिभागेणावलोक्य निरीक्ष्य । महरावलितं त्रिवल्या वलयं मण्डलं यस्याः सा परिखत्य परावर्तनं कृत्वा । महः प्रतीहारी द्वाररक्षानियक्ता स्त्री तस्या वेत्रलता यष्टिविशेषस्तस्याः, शिखरे प्रान्ते कपोलं गल्लात्परप्रदेशं निधाय । मुहुर्निश्चलो निष्कम्पो यः करो हस्तस्तेन विधृतां वीटिकामधरपल्लव ओष्ठकिसलये निवेश्य स्थापयित्वा । मुहुरुद्गीर्णं क्षिप्तं यदुत्पलं तस्य प्रहारस्तेन पलायमानो यः परिजनस्तस्मिन्ननुसरणं तत्र दत्तानि कतिपयपदानि यया सा विहस्य हास्यं कृत्वा तं विलोकयन्ती तेन च चन्द्रापीडेन विलोक्यमानातिक्रान्तं व्यतीतं महान्तमपि कालं समयं नाज्ञासीन ज्ञातवती । इताश्चारुह्य चारोहणं कृत्वैव प्रतीहार्या द्वारपालिकया निवेदितं ज्ञापितं महाश्वेताप्रत्यागमनं यया सैवंविधा तस्मात्सौधादवततारोत्तीर्णा । स्नानादिषु मन्दादरापि शिथिलोद्यमापि महाश्वेतानुरोधेन दिवसव्यापार दिनकृत्यमकरोद्व्यदधात् । चन्द्रापीडोऽपि तस्मात्क्रीडापर्वतशिखरा - टिप्प० - 1 महाश्वेतामार्गदर्शनार्थं गवाक्षोद्धाटने आज्ञापिते पुनः सौधपृष्टारोहणस्याप्रसक्तत्वात् । तस्मात् - तं (क्रीडापर्वतकस्थं चन्द्रापीडम्) दृष्ट्वा 'महाश्वेता चिरयति' इति तस्या आगमनमार्गमवलोकयितुम् (सोयं व्याजः,वास्तवे तु चन्द्रापीडदर्शनार्थम्) 'विमुच्य तं गवाक्षम् अधिष्ठितं गवाक्षं त्यक्त्वा प्रासादस्य शिखरमासरोह । इति पाठः, तदर्थश्च । पाठा० - १ तातम्. २ अवलोकयितुमुद्यता. ३ विमुच्य तं गवाक्षमनङ्ग. ४ तलं कैलासशिखरमिव गौर्यारोह. ५ शशि. ६ विरचितहेमदण्डेन. ७ वेषाभ्यासं कुर्वती मुहुः, वेषाभ्यासमिव कुर्वती कैलासशिखर इब गौरी मुहुः. ८ मदलेखां सखीम्. ९ त्रिभागेण मुहुः. १० विनिवेश्य. ११ उद्गीर्णकर्णोत्पल; उद्भूर्णकर्णोत्पल. - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - 412 कादम्बरी। कथायाम् Page #426 -------------------------------------------------------------------------- ________________ चन्द्रापीडोऽपि तस्मादवतीर्य प्रथमविसर्जितेनेव कादम्बरीपरिजनेन निर्वर्तितस्नानविधिनिरुपहतशिलार्चिताभिमतदैवतः क्रीडापर्वतक एव सर्वमाहारादिकमहःकर्म चक्रे । क्रमेण च कृताहारः क्रीडापर्वतकप्राग्भागभाजि, मनोहारिणि, हारीतहरिते, हरिणरोमन्थफेनशीकरासारे, सीरायुधहलभयनिश्चलकालिन्दीजलत्विषि, तरुणीचरणालक्तकरसशोणशोचिषि, कुसुमरजःसिकतिलतले, लतामण्डपोपगूढे, शिखण्डिताण्डवसंगीतगृहे, मरकतशिलातल उपविष्टो दृष्टवान्सहसैवातिबहलधाम्ना धवनालोकेन जलेनेव निर्वाप्यमाणं दिवसम्, मृणालँवलयेनेव पीयमानमातपम्, क्षीरोदेनेव प्लाव्यमानां महीम्, चन्दनरसवर्षेणेव सिच्यमानान्दिगन्तान्, सुधयेव विलिप्यमानमम्बरतलम् । आसीच्चास्य मनसि - ‘किमुखलु भगवानोषधिपतिरकाण्ड एव शीतांशुरुदितो भवेत्, उत यन्त्रविक्षेपविशीर्यमाण - *********** दवतीर्योत्तीर्य प्रथमविसर्जितेनेवायप्रहितेनेव कादम्बरीजनेन निर्वर्तितो विहितः स्नानविधिर्यस्य सः । निरुपहताखण्डा या शिला तस्यामचिंता पूजितांभिमतदेवता येन सः क्रीडापर्वतक एव सर्वमाहारादिकमहःकर्म चक्रे । क्रमेणेति । क्रमेणानुक्रमेण कृत आहारो भोजनं येन सः मरकतशिलातल उपविष्ट आसीनोऽतिबहलं धाम तेजो यस्मिन्नेवंविधेन धवलेन शुभ्रणालोकेन जलेनेव निर्वाप्यमाणं विलुप्यमानं दिवसं दृष्टवानित्यन्वयः । मरकतशिलातलं विशेषयन्नाह - क्रीडेति । क्रीडापर्वतकस्य प्राग्भागभाजि पूर्वप्रदेशवर्तिनि मनोहारिणि चित्तक्षोभजनके । मरकतानां नीलत्वादाह - हारीतेति । हारीतः पक्षिविशेषो मृदङ्कुरस्तबद्धरिते नीले । हरिणेति । हरिणानां मृगाणां यो रोमन्थश्चर्वितस्य चर्वणं तस्य फेनः कफस्तस्य शीकराणां वातास्तविपुषामासारो वेगवान्वर्षो यस्मिन् । सीरेति । सीरायुधो रामो हलं सीरं तस्माद्यद्भयं तेन निश्चला कालिन्दी यमुना तस्या जलं पानीयं तद्वत्त्विट् कान्तियस्मिन् । तरुणीति । तरुणीनां मानिनीनां यश्चरणालक्तकः पादरञ्जनार्थं यावकरसस्तेन शोणा रक्ता शोचिः कान्तिर्यस्मिन् । कुसुमानां पुष्पाणां रजो धूलिस्तेन सिकतिलं सिकतायुक्तं तलं यस्मिन् । लतामण्डपैरुपगूढ़े व्याप्ते । शिखण्डितेति । शिखण्डिनां मयूराणां यत्ताण्डवं नृत्यं तस्य संगीतगृहं तस्मिन् । अथ चातपं सूर्यालोकं दृष्टवान् । कीदृशम् । मृणालवलयेनेव पीयमानमास्वाद्यमानम् । नायं सूर्यस्यातपः किंतु मृणालवलयस्येत्यर्थः । पुनर्महीं वसुधां दृष्टवान् । कीदृशीम् । क्षीरोदेनेव क्षीरसमुद्रेणेव प्लाव्यमानां वाह्यमानाम् । पुनर्दिगन्तरान्दृष्टवान् । कीदृशान् चन्दनरसवर्षेणेव सिच्यमानानभिषेकविषयीक्रियमाणान् । तदनन्तरमम्बरतलं व्योमतलं दृष्टवान् । कीदृशम् । सुधया गृहधवलीकरणद्रव्येन विलिप्यमानं विलेपनविषयीक्रियमाणम् । आसीच्चेति । अस्य चन्द्रापीडस्य मनस्येवमासीत् । खलु निश्चयेन । किमु भगवानोषधिपतिः शीतांशुश्चन्द्रोऽकाण्ड एवाप्रस्ताव एवोदितो भवेदुद्गतः स्यात् । उत यन्त्रस्य विक्षेपः प्रपातस्तेन विशीर्यमाणानि - - - - - - - - - - - - - - - टिप्प० - 1 'प्रथमविसर्जितेनैव कादम्बरीपरिजनेन' इत्यपि पाठः । पूर्वतः प्रेरितेन कादम्बरीपरिजनेन निर्वर्तितः स्नानव्यापारो यस्य सः, इत्यर्थः । 2 अन्तर्गतीक्रियमाणम् । 3 मरकतशिलातलोपविष्टश्चन्द्रापीडः अकस्मात् गगनधरण्यादिषु परितो व्याप्तमद्भुतं धवलिमानमपश्यत् येन हि अकाण्डे चन्द्रोदयादेराशङ्काऽस्य समभवदिति प्रघट्टकस्यास्य सारः (कादम्बर्या प्रेषितस्य हारस्यायं प्रकाश इति कविना कृतो भूमिकातिशयः ।) - - - - - - - - - - - - - - - - - - - पाठा० - १ निवर्तित. २ हरिणी. ३ समुपविष्टः. ४ वनेनेव; धवलेन. ५ दिगन्तरान्. ६ भगवानौषधिपतिः; केतकीगर्भपत्रपाण्डुरो भगवानोषधिपतिः. कादम्बरीप्रहितमदलेखाऽऽगमनम् । पूर्वभागः । Page #427 -------------------------------------------------------------------------- ________________ पाण्डुरधारासहसाणि धारागृहाणि मुक्तानि, आहोस्विदनिलविकीर्यमाणासीकरधवलितभुवनाम्बरसिन्धुः कुतूहलाद्धरातलमवतीर्णा' इति । 'आलोकानुसारप्रहितचक्षुरद्राक्षीदनल्पकन्यकाकदम्बपरिवृतां ध्रियमाणधवलातपत्रामुद्भूयमानचामरद्वयां कादम्बरी प्रतीहार्या वामपाणिना वेत्रलतागर्भेणार्द्रवस्त्रशकलावच्छन्नमुखं चन्दनानुलेपनसनाथं नालिकेरसमुद्गकमुद्वहन्त्या दक्षिणकरेण दत्तहस्तावलम्बाम्, केयूरकेण च निःश्वासहार्ये निर्मोकशुचिनी धौते कल्पलतादुकूले दधता निवेद्यमानमार्गाम्, मालतीकुसुमदामाधिष्ठितकरतलया च तमालिकयानुगम्यमानामागच्छन्तीं मदलेखाम्, तस्याश्च समीपे तरलिकाम्, तया च सितांशुकोपच्छदे पटलके गृहीतं धवलताकारणमिव क्षीरोदस्य, सहभुवमिव चन्द्रमसः, मृणालदण्डमिव नारायणनाभिपुण्डरीकस्य, मन्दरक्षोभविक्षिप्तमिवामृ - *********** विशरारुतां प्राप्यमाणानि पाण्डुरधाराणां सहसाणि येष्वेवंविधानि धारागृहाणि मुक्तानि । आहोस्विदिति वितर्के । अनिलेन वायुना विकीर्यमाणा विक्षिप्यमाणा ये सीकरा वातास्तवारीणि तैर्धवलितं शुभ्रीकृतं भुवनं यया सैवंविधाम्बरसिन्धुर्गङ्गा कुतूहलाद्धरातलं पृथ्वीतलमवतीर्णागता। आलोकस्यानुसारेण प्रहितं प्रेषितं चक्षुर्येनैवंभूतश्चन्द्रापीडः कादम्बरीम्, अथ चागच्छती मदलेखाम्, अथ च तस्याः समीपे तरलिकाम्, तया च सिताशुकं श्वेतवस्त्रमुपच्छदं यस्मिन्नेतादृशे पटलके पात्रविशेषे गृहीतं हारं चाद्राक्षीत् । अथ कादम्बरी विशिनष्टि - अनल्पेति । अनल्पा बढ्यो याः कन्यकाः कुमार्यस्तासां कदम्बः समूहस्तेन परिवृता सहिताम् । ध्रियमाणेति । ध्रियमाणं धवलं शुभ्रमातपत्रं छत्रं यस्याः सा ताम् । उद्भूयमानं वीज्यमानं चामरद्वयं यस्याः सा ताम् । प्रतीहार्या द्वारागतजननिवेदनकारिण्या । वामेति । वेत्रलता गर्थे मध्ये यस्यैवंविधेन वामपाणिनापसव्यहस्तेन कृत्वा यद्वस्त्रं तस्य शकलं खण्डं तेनावच्छन्नमाच्छादितं मुखं यस्यैवंभूतं चन्दनस्यानुलेपनेन सनाथं सहितं नालिकेरसमुद्गकं श्रीफलमध्यवर्तिगोलकमुद्वहन्त्या दक्षिणेन करेणापसव्यपाणिना दत्तो हस्ताबलम्बो यस्याः सा ताम् । केयूरकेणेति । निःश्वासेन श्वासवातेन हार्ये हर्तुं योग्ये निर्मोकः कञ्चुकस्तद्वच्छुचिनी निर्मले धौते क्षालिते कल्पलतादुकूले दधता धारयतैवंविधेन केयूरकेण च निवेद्यमानो मार्गो यस्याः सा ताम् । अथ मदलेखां विशेषयन्नाह - मालतीति । मालती जाती तस्याः कुसुमानि पुष्पाणि तेषां दाम् सक् तेन अधिष्ठितं अधिश्रितं करतलं यस्या एतादृश्या तमालिकया भुजिष्ययानुगम्यमानाम् । अथ हारस्य धेतत्वप्रकर्षमाश्रित्योत्प्रेक्षते - धवलतेति । क्षीरोदस्य क्षीरसमुद्रस्य या धवलता शुभ्रता तस्याः कारणमिव निमित्तमिव । एतेन क्षीरोदस्य स्वाभाविकी धवलता न, किं तु तद्भवलताया हेतुरेवायम् । क्षीरोदस्य हारगर्भत्वस्य वक्ष्यमाणत्वादन्तर्गतस्य हारस्येत्यर्थः । चन्द्रमसः शशिनः सहभुवमिव सहसमुत्पन्नमिव । नारायणेति । नारायणो विष्णुस्तस्य नाभिपुण्डरीकस्य तुन्दकूपिकासिताम्भोजस्य मृणालदण्डमिव । मन्दरो मेरुस्तस्य क्षोभेण विक्षिप्तं दूरीकृतममृतस्य पीयूषस्य फेनपिण्डो - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पाण्डुरवर्णानां जलधाराणाम् । 2 जलयन्त्र ('महारा' इति भाषा) गृहाणि । 3 हारोपहरणाय न स्वयं कादम्बर्यागच्छत्, न चेदमनुरूपमपि । हारपरिचये प्रोच्यते - 'गन्धर्वराजेनापि कादम्ब (दत्तः) । अपि कादम्बरी स्वयमेवं वदेत् ? अस्तु. वाचयतां स्पष्टमग्रे भवेद्यत् सतरलिका मदलेखैवानुप्रेषिताऽत्र । तस्मात् - 'कादम्बरीप्रतीहार्या' इत्येव पाठः । वेत्रलतागर्भेण वामपाणिना नारिकेलसमुद्गकमुदहन्त्या कादम्बरीप्रतिहार्या दत्तहस्तावलम्बामित्यर्थः । 4 मदलेखां विशिनष्टीति बोध्यम् । पाठा० - १ पारदरसधाराः, जलधाराः. २ सिन्धुर्धरातलमवतीर्णा कुतूहलाच्चालोक. ३ कादम्बरीप्रतीहार्या. ४ नारिकेल. (414 कादम्बरी। कथायाम् Page #428 -------------------------------------------------------------------------- ________________ तफेनपिण्डनिकरम्, वासुकिनिर्मोकमिव मन्थनश्रमोज्झितम्, हासमिव श्रियः कुलगृहवियोगगलितम्, मन्दरमथनविखण्डिताशेषशशिकलाखण्डसंचयमिव संहृतम्, प्रतिमागततारागणमिव जलनिधिजलादुद्धृतम्, दिग्गजकरसीकरासारमिव पुँजीभूतम्, नक्षत्रमालाभरणमिव मदनद्विपस्य, शेरच्छकलैरिव कल्पितम्, कादम्बरीरूपवशीकृतमुनिजनहृदयैरिव निर्मितम्, गुरुमिव सर्वरनानाम्, यशोराशिमिवैकत्र घटितं सर्वसागराणाम्, प्रतिपक्षमिव चन्द्रमसः, जीवितमिव ज्योत्स्निकायाः, लक्ष्मीहृदयमिव नलिनीदलगलज्जलबिन्दुविलासतरलम्, उत्कण्ठितमिव मृणालवलयधवलकरम्, शरच्छशिनमिव घनमुक्तांशुनिवहधवलितदिङ्मुखम्, मन्दाकिनीमिव सुरयुवतिकुचपरिमलवाहिनम्, प्रभावर्षिणमतितारं हारम् । दृष्ट्वा चायमस्य चन्द्रापीड - *********** डिण्डीरपिण्डस्तस्य निकरमिव । मन्थनेति । मन्थनस्य श्रमः खेदस्तेनोज्झितं त्यक्तं वासुकिर्नागराजस्तस्य निर्मोकमिव कञ्चुकमिव । कुलेति । कुलगृहं पितृगृहं तस्य यो वियोगो भर्तृगृह आगमनं तस्मिन्नवसरे गलितं सस्तं हासमिव । दृश्यते हि पितृगृहाद्भर्तृगृहे व्रजन्त्याः पितृवात्सल्यवशाद्धासो गलितो भवति किं पुनरुद्धग एव भवतीति । मन्दरमथनेन विखण्डिता या अशेषाः समग्राः शशिकलास्तासां संहृतं खण्डसंचयमिव । जलनिधिजलादुद्धृतं प्रतिमागतं प्रतिरूपागतं तारागणमिव नक्षत्रसमूहमिव पुजीभूतम् । दिगिति । दिग्गजादिग्दन्तिनस्तेषां कराः शुण्डादण्डास्तेषां सीकराणां सारमिव रहस्यमिव । मदनेति । मदनद्विपस्य कंदर्पहस्तिनो नक्षत्रमालासंज्ञितमाभरणमिव विभूषणमिव । शरदिति । शरद्धनात्ययस्तस्य शकलैरिव खण्डैरिव कल्पितं निर्मितं हृदयनिर्मलत्वात् । तदभिप्रायेणाह - कादमिति । कादम्बरी राजसुता तस्या रूपं सौन्दर्यं तेन वशीकृतानि यानि मुनिजनहृदयानि तैर्निर्मितमिव । सर्वरत्नानां समग्रमणीनां गुरुमिव श्रेष्ठमिव । सर्वसागराणां समग्रसमुद्राणामेकत्र घटितं यशोराशिमिव । चन्द्रमसः शशिनः प्रतिपक्षमिव । ज्योत्स्निकायाश्चन्द्रिकाया जीवितमिव । नलिनीति । नलिनी पद्मिनी तस्या दलानि पत्राणि तेभ्यो गलन्तः क्षरन्तो ये जलबिन्दवस्तेषां विलासस्तद्वत्तरलं चञ्चलम्, उत्कण्ठितं लक्ष्मीहृदयमिव । मृणालेति । मृणालानि बिसानि तेषां वलयं तद्वद्धवलाः करा यस्य स तम् । घनमुक्तो योऽशुनिवहः किरणसमूहस्तेन धवलितं दिङ्मुखं येनैवंभूतं शरच्छशिनमिव । सुरयुवतिकुचानां यः परिमल आमोदस्तद्वाहिनं मन्दाकिनीमिवैतादृशं प्रभावर्षिणमतितारमतिमनोहरं हारम् । दृष्ट्वा चेति । दृष्ट्वा विलोक्य चन्द्रापीडः । चन्द्रेति । चन्द्रातपद्युतिवद् द्युतिर्यस्यै - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'हासमिव श्रियः कुलगृह०' इत्यपि पाठः । लक्ष्मीहासत्वेनैवोत्प्रेक्षणेऽतिशयात् । 2 सप्तविंशतिमौक्तिकैः कृता माला । 3 लक्ष्मीहृदयमिवेत्यादयश्चतसः श्लेषोत्थापिता उपमाः, अत एवार्थद्वयम् । अतः सर्वासामप्युपमानामनुक्तोऽर्थो निम्ने सूच्यते । लक्ष्मीहृद० - नलिनीदलगलज्जलबिन्दुविलास इव विलासः (दीप्तिः) यस्य ईदृशः तरलः (मध्यमणिः) यस्य तम् (हारम्) । पक्षे टीकायां स्पष्टम् । उत्कण्ठितमिव मृणाल० - उत्सुकम् (विरहिणम्) इव मृणालवलयेन धवलौ करौ (संतापशान्त्यर्थम्) यस्य तम् । पक्षे टीकायाम् । शशिनमिव० - घनो निबिडो यो मुक्तानां (मौक्तिकानाम्) अंशुनिवहस्तेन धवलितदिङ्मुखम् (हारम्) । पक्षे टीकायाम् । 'मन्दाकिनीप्रवाहमिव' इति पाठः । धारणात्परिमलवाहिनम् (हारम्) । अवगाहनाच्च मन्दाकिनीप्रवाहम् । पाठा० - १ हासमिव श्रियः. २ प्रतिमातारा. ३ दिग्गजशीकरासरपुञ्जीभूतम्. ४ पुजीकृतम्. ५ शरन्मेषशकलैः. ६ ज्योत्स्नायाः. ७ मन्दाकिनीप्रवाहम्. (कादम्बरीप्रहितहारदर्शनम् ।। पूर्वभागः । (415) Page #429 -------------------------------------------------------------------------- ________________ श्चन्द्रातपद्युतिर्मुखो धवलिम्नः कारणमिति मनसा निश्चित्य दूरादेव प्रत्युत्थानादिना समुचितोपचारक्रमेण मदलेखामापतन्तीं जग्राह । सा तु तस्मिन्नेव मरकतग्रावणि मुहूर्तमुपविश्य स्वयमुत्थाय तेन चन्दनाङ्गरागेणानुलिप्य ते च द्वे दुकूले परिधाप्य तैश्च मालतीकुसुमदामभिरारचितशेखरं कृत्वा तं हारमादाय चन्द्रापीडमुवाच - 'कुमार, तवेर्यमपहस्तिताहंकारकान्ता पेशलता प्रीतिर्परवशं जनं कमिव न कारयति । प्रश्रय एव ते ददात्यवकाशमेवंविधानाम् । अनया चाकृत्या कस्यासि न जीवितस्वामी । अनेन चाकारणाविष्कृतवात्सल्येन चरितेन कस्य न बन्धुत्वमध्यारोपयसि । एषा च ते प्रकृतिमधुरा व्यवहृतिः कस्य न वँयस्यतामुत्पादयति । कस्य वा न समाश्वासयन्त्यमी स्वभावसुकुमारवृत्तयो भवद्गुणाः । त्वन्मूर्तिरेवात्रोपालम्भमर्हति, या प्रथमदर्शन एव विश्रम्भमुपजनयति । इतरथा हि त्वद्विधे सकलभुवनप्रथितमहिम्नि प्रयुज्यमानं सर्वमेवानुचितमिवाभाति । तथा हि- संभाषणमप्यधः करणमिवापतति । आदरोऽपि प्रभुताभिमानमिवानुमापयति । स्तुतिरप्यात्मो - *********** वंविधं मुखं यस्य सः । धवलिम्नो विशेषणं वा । पूर्वोपवर्णितमयं हार इवास्य धवलिम्नः कारणमिति मनसा निश्चित्यं दूरादेव प्रत्युत्थानादिना समुचितेन योग्येनोपचारक्रमेणापतन्तीमागच्छन्तीं मदलेखां जग्राह प्रत्युद्गमेन तामासादितवान् । सा त्विति । सा तु मदलेखा तस्मिन्नेव मरकतग्रावण्यश्मगर्भशिलायां मुहूर्तं क्षणमात्रमुपविश्यावस्थानं कृत्वा स्वयमात्मनोत्थाय तेन चन्दनाङ्गरागेण मलयजविलेपनेनानुलिप्य ते च पूर्वोक्ते द्वे दुकूले परिधाप्य तैश्च मालतीकुसुमदामभिर्जातीपुष्पसग्भिरारचितशेखरं विरचितावतंसं कृत्वा तं हारमादाय गृहीत्वा चन्द्रापीडमुवाचोक्तवती । किमुवाचेत्याह - कुमारेति । हे कुमार हे चन्द्रापीड, तवेयमपहस्ति दूरीकृतोऽहंकारो ययैवंविधा कान्ता मनोहरा पेशलता सुन्दरता कमिव प्रीतिपरवशं जनं न कारयति । ते तव प्रश्रय एव विनय एवावकाशमवगाहं ददात्येवंविधानां पुरुषाणाम् । अनया चाकृत्याकारविशेषेण त्वं कस्य जीवितस्वामी नासि । अपि तु सर्वेषामित्यर्थः । अनेन चाकारणेनानिमित्तेनाविष्कृतं प्रकटीकृतं यद्वात्सल्यं हितं यस्मिन्नेवंविधेन चरितेन समाचरणेन कस्य बन्धुत्वं नाध्यारोपयसि । एषा च ते तव प्रकृत्या स्वभावेन मधुरा मिष्टा व्यवहृतिर्व्यापारः कस्य न वयस्यतां मित्रतामुत्पादयति । स्वभावेन सुकुमारा वृत्तिर्येषामेवंविधा भवद्गुणाः कस्य न समाश्वासयन्ति समाश्वासनां कुर्वन्ति । त्वदिति । अत्रार्थे त्वन्मूर्तिरेवोपलैम्भमनुभवमर्हति साक्षात्कारयोग्या भवति । या प्रथमदर्शन एव प्रथमावलोकन एव विश्रम्भं विश्वासमुपजनयति । अतस्त्वद्विधे त्वत्सदृशे पुरुषे सकलभुवने प्रथितः प्रख्यातो महिमा माहात्म्यं यस्मिन्नेव प्रयुज्यमानं कथ्यमानं सर्वमनुचितमिवायोग्यमिवाभाति । तदेव दर्शयति - तथा हीति । संभाषणमपि जल्पनमप्यधःकरणमिवापतति । अनुचितेन सर्वोचितस्य संभाषणमनुचितमेव करोतीति न्यायादिति भावः । आदर इति । आवरोऽपि बहुमानोऽपि प्रभुताया ऐश्वर्यस्याभिमानमिवानुमापयति ज्ञापयति । स्तुतिरपि नुतिरप्यात्मन उत्सेक टिप्प० - 1 ‘चन्द्रातपद्युतिमुषो धवलिम्नः' इति पाठः । अयं हारः चन्द्रातपद्युतिं मुष्णाति तादृशस्य अस्य धवलिम्नः कारणमिति तदर्थः । 2 प्रीतिकरणे भवन्मूर्तिः (भवदाकृतिः) एव उपालम्भं प्रतिक्षेपवचनम् (ओलंभा, उलहना, इति भाषा) अर्हतीत्यर्थः । पाठा० १ मुषो. २ समुचितेन. ३ आयान्तीम्. ४ प्रतिजग्राह ५ अपहसित. ६ परवशं किमिव. ७ स्यताम् ८ कं. ९ समावासयन्ति. १० उपलम्भम्. 416 - कादम्बरी । कथायाम् Page #430 -------------------------------------------------------------------------- ________________ 1 सेकमिव सूचयति । उपचारोऽपि चपलतामिव प्रकाशयति । प्रीतिरप्यनात्मज्ञतामिव ज्ञापयति । विज्ञापनापि प्रागल्भ्यमिव जायते । सेवापि चापलमिव दृश्यते । दानमपि परिभव इव भवति । अपि च स्वयं गृहीतहृदयाय किं दीयते । जीवितेश्वराय किं प्रतिपाद्यते । प्रथमकृतागमनमहोपकारस्य का ते प्रत्युपक्रिया । दर्शनदत्तजीवितफलस्य सफलमागमनं केन ते क्रियते । प्रणयितां चानेन व्यपदेशेन दर्शयति कादम्बरी, न विभवम् । अप्रतिपाद्या हि परस्वता सज्जनविभवानाम् । आस्तां तावद्विभवः, भवादृशस्य दास्यमप्यङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते । दत्त्वात्मानमपि वञ्चिता न भवति । जीवितमप्यर्पयित्वा न पश्चात्तप्यते । प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती महत्ता सताम् । न च तादृशी भवति याचमानानां यादृशी ददतां लज्जा । यत्तु सत्यममुना व्यतिकरेण कृतापराधमिव *********** उत्कर्षस्तमिव सूचयति । उपचारोऽप्यभ्युत्थानादिरूपोऽपि चपलतामिव प्रकाशयति प्रकटीकरोति । प्रीतिरपि स्नेहोऽप्यनात्मज्ञतां स्वस्वरूपानभिज्ञतां ज्ञापयति । विज्ञापनापि विज्ञप्तिरपि प्रागल्भ्यमिव पाण्डित्यमिव जायते । सेवापि सपर्यापि चापलमिव दृश्यते । दानमपि परिभव इव पराभव इव भवति । प्रथितमहिमवत्त्वादितिभावः । अपि चेति युक्त्यन्तरे, स्वयं गृहीतं हृदयं येनैवंविधाय किं दीयते । अथ च जीवितेश्वराय किं प्रतिप्राद्यते किं कथ्यते । अयं भावः - हृदयाधीनं जीवितं, हृदयं चेद् गृहीतं तदा जीवितेश्वर एव जातः । एवं सति तस्मै जीविताभिधानं किं वस्तु नेयम् । सर्वेषां वस्तूनां जीवितार्थत्वात् । एतदपरं किं प्रतिपाद्यम् । प्रतिपाद्यानां जीवितावधित्वात् । प्रथमं कृतं यदागमनं तदेव महोपकारो यस्यैवंविधस्य ते भवतः का प्रत्युपक्रिया । न कापीत्यर्थः । दर्शनेन दत्तं जीवितफलं येनैवंविधस्य ते तव सफलमागमनं केन क्रियते । अयं भावः - सर्वापेक्षयोत्कृष्टं जीवितफलं त्वयैव दत्तम् । इतः परं त्वत्सदृशमस्माकं किमपि नास्ति, येन त्वदागमनसाफल्यं क्रियते कादम्बर्यनेन व्यपदेशेन हारानयनमिषेण प्रणयितां स्नेहवत्तां त्वयि दर्शयति । न विभवमैश्वर्यम् । तवैतादृशं वस्तु नास्ति यादृशं मम वर्तत इत्येवम् । नन्वत्युत्तममुक्ताकलापस्य स्वविभवत्वप्रदर्शने कोऽयमस्वरस इत्यत आह- अप्रतीति । हीति निश्चितम् । सज्जनल्लिभवानां परस्वता स्वीयपरकीयभावोऽप्रतिपाद्या वर्तते । सतां प्रवृत्तेः परोपकारनिमित्तकत्वेन तद्विभवस्यापि तथात्वादिति भावः । अथ यद्यपरितोषस्तदा विभवो हारादिरूपः स्वोत्कर्षहेतुस्तावदास्तां तिष्ठतु । किं तु भवादृशस्य दास्यमङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते नाकृत्यविधायिनीति व्यपदिश्यते । दत्त्वेति । आत्मानमपि दत्त्वा त्वदधीनं कृत्वा वञ्चिता न भवति न स्यात् । जीवितमप्यर्पयित्वा न पश्चात्तप्यते न प्रश्चात्तापं करोति । (यत्) सतां सत्पुरुषाणां महत्ता गुरुता प्रणेयो विद्यते यस्मिन्नेवंभूतो यो जनस्तस्य प्रत्याख्यानं निराकरणं तत्र पराङ्मुखी प्रणयिजनाभीष्टप्रदाननिराकरणशीला न भवतीत्यर्थः । तत्र हेतुमाह - दाक्षिण्येति । दाक्षिण्यमनुकूलता तस्याः परवती । तदधीनेत्यर्थः दाक्षिण्यं लज्जाधीनं स्यादित्यत आह- न चेति । ददतां वितरणं कुर्वतां यादृशी लज्जा त्रपा स्यात्तादृशी याचमानानां नीचानां च न स्यात् । यत्त्विति । तु पुनरर्थे । यत्पूर्वोक्तं तत्सत्यम् । ततः किमित्य अमुनेति । अमुना व्यतिकरेण त्वदागमनसंबन्धेन त्वयि कृतापराधं विहिताग - पूर्वभागः । टिप्प० - 1 सतां महत्त्वं तद्वर्तते यद्धि प्रणयिजनानां (द्रव्योपहारदानस्य ) प्रत्याख्याने प्रतिषेधने पराङ्मुखम्, अर्थात् न कदाचित् प्रत्याख्यानं कुर्वन्ति; यतो हि दाक्षिण्यस्वाधीना सा महत्ता । 2 याचकानां तु पूर्वमेव लाघवस्वीकारान्न सा । अत एव अमुना हारसमर्पणव्यतिकरेण कृतापराधमिवात्मानं जानाति, यत्त्वत्स्वरूपयोग्यदानाऽभावेति दातृत्वं स्वीकृतमिति । पाठा० १ ज्ञायते. २ गृह्यते. ३ परवशा. कादम्बरीप्रहितोपहारसमर्पणम् - 417 Page #431 -------------------------------------------------------------------------- ________________ त्वय्यात्मानमवगच्छति कादम्बरी । तदयममृतमथनसमुद्भूतानां सर्वरत्नानामेकेशेष इति शेषनामा हारोऽमुनैव हेतुना बहुमतो भगवताम्भसांपत्या गृहमुपागताय प्रचेतसे दत्तः । पाशभृतापि गन्धर्वराजाय, गन्धर्वराजेनापि कादम्बयें, तयापि त्वद्वपुरस्यानुरूपमाभरणस्येति विभावयन्त्या नभःस्थलमेवोचितं सुधास्नुतो धाम्नो न धरेत्यवधार्यानुप्रेषितः । यद्यपि गुणगणाभरणभूषिताङ्गयष्टयो भवादृशाः क्लेशहेतुमितरजनबहुमतमाभरणभारमङ्गेषु नारोपयन्ति, तथापि कादम्बरीप्रीतिरत्र कारणम् । किं न कृतमुरसि शिलाशकलं कौस्तुभाभिधानं लक्ष्म्याः सहजमिति बहुमानमाविष्कुर्वता भगवता शाङ्गपाणिना । न च नारायणोऽत्रभवन्तमतिरिच्यते । नापि कौस्तुभमणिरणुनापि गुणलवेन शेषमतिशेते । न चापि कादम्बरीमाकारानुकृतिकलयाप्यल्पीयस्या लक्ष्मीरनुगन्तुमलम् । अतोऽर्हतीयमिमं बहुमानं त्वत्तः । न चाभूमिरेषा प्रतीप्रसरस्य । नियतं च भवता लग्नप्रणया महाश्वेतोपालम्भसहसैः खेदयित्वा स्वात्मानमुत्स - *********** वात्मानं कादम्बर्यवगच्छति जानाति । तदयममृतमथनात्समुद्भूतानां प्रकटितानां सर्वरत्नानामेकशेषोऽवशिष्टोऽतः शेषनामायं हारोऽमुनैव हेतुनैकशेषत्वेनाम्भसापत्या भगवता समुद्रेण बहुमतो गृहमुपागताय प्राप्ताय प्रचेतसे वरुणाय दत्तोऽर्पितः । पाशभृतापि वरुणेनापि गन्धर्वराजाय दत्तः । गन्धर्वराजेनापि कादम्बर्यै दत्तः । तयाप्यस्याभरणस्य त्वद्धपुस्त्वदीयं शरीरमनुरूपं योग्यमिति विभावयन्त्या मनसि विभावनां कुर्वन्त्या । एतस्मिन्नर्थे दृष्टान्तं प्रदर्शयन्नाह - नभ इति । सुधास्नुतश्चन्द्रस्य धाम्नस्तेजसो नभस्थलमेवोचितं योग्यं धरा पृथ्वीत्यवधार्य निश्चित्यानुप्रेषितोऽनुप्रहितः । यद्यपीति । यद्यपि भवादृशा भवत्सदृशाः पुरुषा गुणाः शौर्यादयस्तेषां गणाः समुदायास्त एवाभरणानि तैर्भूषिता शोभिताङ्गयष्टिर्येषां ते तथा क्लेशहेतुः परिश्रमकारणमितरजनाः प्राकृतजनास्तैर्बहुमतमादरपूर्वकं स्वीकृतमाभरणभारं विभूषणवीवधमङ्गेषु हस्तपादादिषु नारोपयन्ति न स्थापयन्ति । तथापीति । यद्यप्येवमस्ति तथापि कादम्बरीप्रीतिरत्र हारधारणे कारणं नियामकम् । प्रीत्यान्यैरपि तथा कृतमित्याह - किं न कृतमिति । लक्ष्म्याः श्रियः सहज सार्धं समुत्पन्नमिति कृत्वा बहुमान सत्कारमाविष्कुर्वता प्रकटीकुर्वता भगवता शाङ्गपाणिना कौस्तुभाभिधानं शिलाशकलमुरसि किं न कृतं किं न विहितम् । न च नारायणस्तथा करोतु नाम । अहं तु तादृशो न भवामीत्यत आह - न चेति । नारायणः कृष्णोऽत्रभवन्तं त्वां न चातिरिच्यते नाधिको भवति । तथा च स्वानुरक्तप्रीतिसंरक्षणस्वभावसाम्येन त्वमपि स एवेत्यर्थः न च हारोऽपि कौस्तुभापेक्षया न्यून इत्याह - नापीति । कौस्तुभमणिरणुनापि गुणलवेन शेष शेषनामानं हारं नाप्यतिशेतेऽतिशयितो न भवति, एवं लक्ष्मीसादृश्यं कादम्बर्यामानयति - न चेति । लक्ष्मीः पद्माकारस्यानुकृतिरनुकरणं तस्य कलांशस्तयाप्यल्पीयस्यापि कादम्बरीमनुगन्तुं सादृश्यं कर्तुं नालं न समर्था । अतो हेतोरियं त्वत्तो भवत इयं बहुमानमर्हति योग्या भवति । नचेयं प्रीतिर्न भवतीत्याह - न च प्रीतिप्रसरस्य प्रीत्युत्कर्षस्यैषाऽभूमिरस्थानम्, अपि तु स्थानमेव । वैपरीत्ये बाधकमाह - नियतेति । नियतं निश्चितं भवता त्वया लग्नः प्रणयः स्नेहो यस्यां एवंविधा महाश्वेता उपालम्भसहसैः खेदयित्वा खेदमुत्पाद्य स्वात्मानं - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'नभःस्थलमेवोचितं सुधासूतेः (चन्द्रस्य) धाम' इति पाठः; प्रमाणं च सहृदयाः । 2 एषा (कादम्बरी) प्रीतिप्रसरस्य अपात्रं न अपि तु पात्रमेवेत्यर्थः । 3 'त्वया भग्नप्रणया (भग्नः प्रणयो यस्याः ईदृशी कादम्बरी) महातामुपालम्भसहसैः (ईदृशेन अदक्षिणेन त्वया सद्भावो विहितः, अत्र चानीतः इति) खेदयित्वा आत्मानं नियतमुत्सक्ष्यति' इत्युचितः पाठः । पाठा० - १ उद्धृतानाम्. २ एकः शेष. ३ लब्धनामा. ४ सुधासूते(म. ५ निजगुण. ६ शाङ्गिणा. ७ नापि. ८ महावेताम्. ९ आत्मानम्. . (418 A Y कादम्बरी) C कथायाम-) Page #432 -------------------------------------------------------------------------- ________________ क्ष्यति । अतएव महाश्वेता तरलिकामपीमं हारमादाय त्वत्सकाशं प्रेषितवती । तयापि कुमारस्य संदिष्टमेव - ‘न खलु महाभागेन मनसापि कार्यः कादम्बर्याः प्रथमप्रणयप्रसरभङ्गः' इत्युक्त्वा च ताराचक्रमिव चामीकराचलस्य तटे तं तस्य वक्षःस्थले बबन्ध । चन्द्रापीडस्तु विस्मयमानः प्रत्यवादीत् - 'मदलेखे, किमुच्यते । निपुणासि, जानासि ग्राहयितुम् । उत्तरावकाशमपहरन्त्या कृतं वचसि कौशलम् । अयि मुग्धे, के वयमात्मनः, के वा वयं ग्रहणाग्रहणस्य वा । आगता खल्वियमस्तं कथा । सौजन्यशालिनीभिर्भवतीभिरुपकरणीकृतोऽयं जनो यथेष्टमिष्टेष्वनिष्टेषु वा व्यापारेषु विनियुज्यताम् । अतिदक्षिणायाः खलु देव्याः कादम्बर्या निर्दाक्षिण्या गुणा न कंचिन्न दासीकुर्वन्ती त्युक्त्वा च कादम्बरीसंबद्धाभिरेव कथाभिः सुचिरं स्थित्वा विसर्जयांबभूव मदलेखाम् । अनतिदूरं गतायां च तस्यां क्रीडापर्वतगतमुदयगिरिगतमिव चन्द्रमसं चन्दनदुकूलहारधवलं चन्द्रापीडं द्रष्टुं समुत्सारितवेत्रच्छत्रचामरचिह्ना निषिद्धाशेषपरिजना तमालिकाद्वितीया - *********** निजात्मानमुत्सक्ष्यति त्यक्ष्यति । अतएवातो हेतोर्महाश्वेतेमं हारमादाय गृहीत्वा त्वत्सकाशं भवत्समीपं तरलिका प्रेषितवती प्रहितवती । तयापि महाश्वेतयापि कुमारस्य संदिष्टं कथितमेव । महाभागेन सत्पुरुषेण त्वया कादम्बर्याः प्रथमप्रणयप्रसरभङ्गो मनसापि न कार्यो न विधेयः । कायवाग्भ्यां तु सर्वथा निषेध एव सूचितः । इत्युक्त्वेत्यभिधाय चामीकराचलस्य मेरोस्तटे ताराचक्रमिव नक्षत्रसमूहमिव तं हार तस्य वक्षस्थले बबन्ध । चन्द्रापीडस्तु विस्मयमानो विस्मयं कुर्वाणः प्रत्यवादीत्प्रत्यवोचत् । हे मदलेखे, त्वया किमुच्यते । त्वं निपुणासि पण्डितासि । अत एव ग्राहयितुं स्वीकारयितुं जानासि । उत्तरस्य प्रतिवचसोऽवकाशं प्रवेशयोग्यतामपहरन्त्या दूरीकुर्वन्त्या वचसि वाग्व्यापारे कौशलं पाण्डित्यं कृतम् । अयीति कोमलामन्त्रणे । हे मुग्धे, आत्मनो भवदपेक्षया के वयम् । युष्माकं देवयोनित्वादिति भावः । अथ च के वा वयं ग्रहणाग्रहणस्य वा । आगता खलु निश्चितम् इयमस्तं कथा । सौजन्यशालिनीभिः सुजनताशोभिनीभिर्भवतीभिरुपकरणीकृतोऽयं जनो यथेष्टमिष्टेष्वनिष्टेषु वा व्यापारेषु विनियुज्यतां प्रेर्यताम् । खलु निश्चितम् । अतिदक्षिणाया अत्युदारायाः । 'दक्षिणे सरलोदारौ' इति कोशः । कादम्बर्या निर्दाक्षिण्याः सर्वत्र भ्रमणशीला गुणाः कंचित्पुरुषं न दासीकुर्वन्ति । अपि तु सर्वानेव । इत्युक्त्वा चेत्यभिधाय च कादम्बरीसंबद्धाभिरेव कथाभिः सुचिरं स्थित्वा तां मदलेखां विसर्जयांबभूव गृहे गमनायानुज्ञापितवान् । तदनन्तरं तस्यां मदलेखायामनतिदूरं गतायां नातिदूरं प्राप्तायां चित्ररथसुता कादम्बरी पुनरपि द्वितीयवारमपि तदेव सौधशिखरमारुरोहारूढा । अत्र सौधशिखरं विशेषयन्नाह - क्रीडेति । क्रीडार्थं यः पर्वतः शैलस्तत्र गतम् । कमिव । उदयगिरिरुदयाचलस्तत्र गतमिव चन्द्रमसम् । चन्दनं मलयजम्, दुकुलं क्षोमम्, हारः शेषाभिधानः, एतैर्धवलं शुभ्रं चन्द्रापीडं द्रष्टुं वीक्षितुं समुत्सारितानि दूरीकृतानि वेत्रच्छत्रचामरचिह्नानि यया सा । निषिद्धो वर्जितोऽशेषः समग्रः परिजनः परिच्छदो - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 आत्मनः के वयम् ? वयमात्मनोपि न प्रभवः, किमुतान्यस्येत्यर्थः । 2 अत एव - 'निर्दाक्षिण्यमपि इति पाठः । कादम्बर्या गुणा निर्दाक्षिण्यम् (अनुदारमपि, मादृशम्) अपि के न दासीकुर्वन्ति, अपि तु सर्वमेवेत्यर्थः । पाठा० - १ महाश्वेतया. २ तरलिका. ३ अनुप्रेषिता. ४ उच्यते. ५ कथयितुम्. ६ ग्रहणस्याग्रहणस्य. ७ गता. ८ अनिविष्टेषु. ९ निर्दाक्षिण्यमपि. १० अनतिचिरम्. ११ पर्वतक. १२ उदयगताम्. १३ उत्सारित. १४ परिजनानुगमना. कादम्बरीप्रहितोपहारसमर्पणम् पूर्वभागः । 1419) Page #433 -------------------------------------------------------------------------- ________________ चित्ररथसुता पुनरपि तदेव सौधशिखरमारुरोह । तत्रस्था च पुनस्तथैव विविधविलासतरङ्गितैर्विकारिविलोकितैर्जहारास्य मनः । तथाहि मुहुर्मुहुनितम्बबिम्बन्यस्तवामहस्तपल्लवा प्रावृतांशुकानुसारप्रसारितदक्षिणकरा निश्चलतारका लिखितेव, मुहुर्तृम्भिकारम्भदत्तोत्तानकरतलतया तेद्गोत्रस्खलनभिया निरुद्धवदनेव, मुहुरंशुकपल्लवताडितनिःश्वासामोदलुब्धमधुकरमुखरतया प्रस्तुताबानेव, मुहुरनिलगलितांशुकसंभ्रमद्विगुणीकृतभुजयुगलप्रावृतपयोधरतया दत्तालिङ्गनसंज्ञेव, मुहुः केशपाशाकृष्टकुसुमपूरिताञ्जलिसमाघ्राणलीलया कृतनमस्कारेव, मुहुरुभयतर्जनिभ्रमितमुक्ताप्रालँम्बतया निवेदितहृदयोत्कलिकोद्गमेव, मुहुरुपहारकुसुमस्खलनविधुतकरतलतया कथितकुसुमायुधशरप्रहारवेदनेव, मुहुर्गलितरशनानिगडपतितचरणतया संयम्यार्पितेव मन्मथेन, मुहुश्चलितोरुविधृतशिथिलदुकूला, क्षितितलदोलायमानांशुकैकदेशाच्छा - *********** यया सा । तमालिका एव द्वितीया यस्याः सा च । तत्रस्था च सौधशिखरगता च पुनस्तथैव पूर्वोक्तरीत्यैव विविधा अनेकप्रकारा ये विलासा भ्रूसमुद्भवास्तैस्तरङ्गितैर्विकारिविलोकितैरस्य चन्द्रापीडस्य मनो जहार हृतवती । तदेव दर्शयति - तथा हीति । मुहुर्मुहुरवारं नितम्बबिम्बे आरोहबिम्बे न्यस्तः स्थापितो वामहस्तपल्लवो यया सा । प्रावृतं परिधानीकृतं यदंशुकं तदनुसारेण प्रसारितो दक्षिणकरो यया सा । निश्चलेति । निश्चला स्थिरा तारका कनीनिका यस्याः सा । अत एव लिखितेव चित्रितेव । मुहुरिति । जृम्भिकारम्भे जृम्भायाः प्रारम्भे दत्तं यदुत्तानं करतलं तस्य भावस्तत्ता तया । तया चन्द्रापीडस्य गोत्रमभिधानं तस्य स्खलनं तस्माद्या भीःभीतिस्तया निरुद्धवदनेन । मुहुरिति । अंशुकपल्लवेन ताडितो यो निःश्वासामोदस्तत्र लुब्धा ये मधुकरा भ्रमरास्तैर्मुखरो वाचालस्तस्य भावस्तत्ता तया प्रस्तुतं प्रारब्धमाह्वानं यया सैविधेव । मुहुरिति । अनिलेन गलितानि यान्यंशुकान्युत्तरीयाणि तेषां संभ्रमो विलासस्तेन द्विगुणीकृतं यद्भुजयुगलं तदेव प्रावृतमुत्तरीयं ययोः पयोधरयोस्तयोर्भावस्तत्ता तया दत्तालिङ्गनसंज्ञा संकेतो यया सैवंविधेव । मुहुरिति । केशपाशादाकृष्टानि यानि कुसुमानि तेन पूरितो योऽञ्जलिस्तस्य समाघ्राणलीलया कृत्वा कृतनमस्कारे विहितप्रणामेव । पुनः करयोरलीकप्रदेशाभिमुखीकरणेन तदुत्प्रेक्षा । मुहुरिति । उभयतर्जनीभ्रमितो यो मुक्ताप्रालम्बो मुक्तालता तस्य भावस्तत्ता तया निवेदितो ज्ञापितो हृदयस्योत्कलिका हल्लेखा तस्या उद्गमः प्रादुर्भावो यया सैवंविधेव । यथा हारो मया भ्राम्यते तथोत्कलिकया मच्चित्तमिति भावः । मुहुरिति । उपहारस्योपचारस्य यानि कुसुमानि तेभ्यः स्खलनेन विधुतं कम्पितं यत्करतलं तस्य भावस्तत्ता तया कथिता कुसुमायुधो मदनस्तस्य शरप्रहारवेदना पीडा यया सैवंभूतेव । मुहुरिति । गलिता सस्ता या रशना कटिमेखला सैव निगडोऽन्दुकस्तत्र पतितौ यौ चरणौ तयोर्भावस्तत्ता तया संयम्य बद्ध्वा मन्मथेनार्पितेव । मुहुरिति । चलि - - टिप्प० - 1 वायुनाऽपसारितो योऽशुकस्तदनुसारेण तत्सज्जीकरणव्याजेनेत्यर्थः । 2 मदनजागरणेन या जृम्भा जाता तत्र व्यात्तमुखस्य पिधानार्थं यो हस्त आवरणीकृतः स मन्ये प्रेमवशाच्चन्द्रापीडस्य नामनिःसरणभयेन मुखस्यावरणीकृत इत्याशयः । 3 अंशुकपल्लवेन ताडिताः निःश्वाससौरभलुब्धा ये मधुकरास्तैर्मुखरतया शब्दायमानतया, इत्यर्थो वाच्यः । 4 अंशुकानां किमु भारो धृतस्तया ! अस्तु. अनिलेन गलिते अंशुके संभ्रमवशाद् द्विगुणीकृतेन भुजयुगलेन एकस्योत्तरं द्वितीयेन भुजेन प्रावृतौ पयोधरौ यया अर्थाद् भुजद्वयवेष्टितकुचा । 5 अञ्जल्युपरि आघ्राणाय नमिते शिरसि नमस्कारचेष्टा जातेत्याशयः । 6 उत्कलिका उत्कण्ठा । - - - - - - - - - - - - - - - - - पाठा० - १ तरङ्गिभिः. २ विलोकितैः; विकारिभिर्विलोकितैः. ३ मुहुः. ४ असमावृत. ५ गोत्रस्खलनभयनिरुद्धवदनेव. ६ संभ्रमद्विगुणितभुजलतावृतपयोधरतया; संवरणसंभ्रमद्विगुणीकृतभुजयुगलप्रावृतपयोधरतया. ७ प्रलम्ब. ८ करतया. ९ निबिड. १० नियमित. ११ मुहुर्मुहुर्विचलित. 420 । कादम्बरी । कथायाम् Page #434 -------------------------------------------------------------------------- ________________ दितकुचा, चकितपरिवर्तनत्रुट्यत्रिवलीलता, समस्तचिकुरकलापसंकलनाकुलकेरतला, कटाक्षक्षेपधवलीकृतकर्णोत्पलं विलक्ष्यमाणस्मितसुधाधूलिधूसरितकपोलं साचीकृत्य वदनमनेकरसंभङ्गिभङ्गुरं विलोकयन्ती, तावदवतस्थे यावदुपसंहतालोको लोहितो दिवसो बभूव । अथ हृदयस्थितकमलिनीरागेणेव रज्यमाने राजीवजीवितेश्वरे सकललोकचक्रवालचक्रवर्तिनि भगवति पूष्णि, क्रमेण च दिनपरिलम्बनरोषरक्ताभिः कामिनीदृष्टिभिरिव संक्रामितशोणिम्नि व्योम्नि, संहृतशोचिषि जाते जरठहारीतहरितवाजिनि, रविविरहमीलितसरोजसंहतिषु हरितायमानेषु कमलवनेषु, श्वेतायमानेषु कुमुदखण्डेषु, लोहितायमानेषु दिङ्मुखेषु, - *********** ताभ्यामूरुभ्यां यथाकथंचिद्विधृतमपि शिथिलं दुकूलं यस्याः सा । क्षितितले दोलायमानोंऽशुकस्योत्तरीयस्यैकदेशस्तेनाच्छादितौ कुचौ यया सा । चकितं ससंभ्रमं यत्परिवर्तनं तेन त्रुट्यन्ती त्रिवलीलता यस्याः सा । समस्ताः समग्रा ये चिकुराः कुन्तलास्तेषां कलापः समूहस्तस्य संकलनं स्वकीयस्थले स्थापनं तेनाकुलं व्याक्षिप्तं करतलं यस्याः सा । किं कुर्वती । वदनं मुखं साचीकृत्य वक्रीकृत्यानेके रसास्तेषां भङ्गी रचनाविशेषस्तेन भङ्गुरं वक्रं यथा स्यात्तथा विलोकयन्ती । अथ वदनं विशेषयन्नाह - कटाक्षेति । कटाक्षाणां क्षेपस्तेन धवलीकृतं कर्णोत्पलं यस्मिन् । विलक्ष्यमाणं यस्मितं तदेव सुधा तस्या धूलिस्तया धूसरितौ कपोलौ यस्मिन् । तावदवतस्थे यावदुपसंहत एकीभूत आलोको यस्मिन्नेवंविधो लोहितो रक्तो दिवसो बभूव । एतेन संध्यासमयो जात इति ज्ञापितम् ।। अथ प्रदोषसमयं वर्णयन्नाह - अथेति । जातायामदर्शनक्षमायां वेलायां कादम्बरी सौधशिखरात्क्रीडापर्वतकनितम्बाच्च चन्द्रापीडोsवततारेत्यन्वयः । कस्मिन्सति । रागेणानुरज्यमाने सति रक्ततां प्राप्यमाणे सति । रक्तत्वसाम्यादाह - हृदयस्थितो यः कमलिनीरागस्तेनेव राजीवानां कमलानां जीवितं तस्यैश्वरः स्वामी तस्मिन्सकलः समग्रो यो लोकस्तस्य चक्रवालं मण्डलं तस्य चक्रवर्तिनि सार्वभौमे भगवति माहात्म्यवति । जरठः परिणत एवंविधो यो हारीतो मृदङ्कुरस्तद्वद्धरिता नीला वाजिनो यस्य स तस्मिन् । पुनः कीदृशे । संहृतशोचिष्यात्तदीधितौ एवंविधे पूष्णि सूर्ये जाते सति । तथा क्रमेण च परिपाट्या दिनस्य सूर्यस्य परिलम्बनमस्तसमयस्तेन रोषो नायको दत्तसंकेतोऽद्यापि नागत इत्येवंरूपस्तेन रक्ताभिः कामिनीदृष्टिभिरिव संक्रामितः शोणिमा रक्तिमा यस्मिन्नेवंविधे व्योम्न्याकाशे सति । पुनः केषु । रविरिति । रविः सूर्यस्तस्य विरहो वियोगस्तेन मीलिताः संकुचिता याः सरोजसंहतयः कमलराजयस्तासु । पुनः केषु । कमलवनेषु नलिनखण्डेषु हरितायमानेषु नीलायमानेषु सत्सु । तथा कुमुदखण्डेषु कैरववनेषु चेतायमानेषु गौरवदाचरमाणेषु । प्रफुल्लितत्वादिति भावः । तथा लोहितायमानेषु रक्तायमानेषु दिङ्मुखेषु सत्सु । तथा नीलायमाने हरितायमाने शर्वरीमुखे प्रदोषे । - - - - - - - - - - - टिप्प० - 1 विभ्रमवशादुत्तरीयांशुकः स्वस्थानादपसृत्य भूमौ लम्बितः पुनश्च सविलासं स्वस्थानं स्थापितस्तेनाच्छादितकुचा । 2 'विलक्षस्मित' इत्युचितः पाठः । सलज्जं यस्मितमित्यर्थः । 3 अत्र राजीवजीवितेश्वरे सकल ....... चक्रवर्तिनि भगवति पूष्णि (सूर्य) कमलिनीरागेणेव रज्यमाने सति (स्वाभाविके रक्तवर्णे कमलिन्यनुरागस्योत्प्रेक्षा) । इति पृथगन्वयः । संक्रामितशोणिम्नि व्योम्नि, इति पृथक् । जरठहारीतहरितवाजिनि (सूर्य) संहृतशोचिषि संकोचितप्रकाशे जाते सति, इति पृथक् । 4 रविविरहेण मीलिताः सरोजसंहतयो येषु ईदृशेषु कमलवनेषु हरितायमानेषु सत्सु इत्यर्थः । पाठा० - १ असंसस्त. २ करकमला. ३ कर्णोत्पल. ४ विलक्ष्यमाणस्मितधूलिधूसरकपोलम्; विलक्षस्मितसुधाधूलिधूसरितैककपोला; विलक्ष्यस्मितसुधाधूलिधूसरितकपोलम्, विलक्ष्य चास्मितसुधाधूलिधूसरितकपोलम्. ५ साचीकृत. ६ भ्रूभङ्गि. ७ उपसंहृत. ८ सकलचक्रवाकचक्रवालचित्तवर्तिनि. ९ उष्णदीधितो. १० जनित. ११ कमलवनेषु निजसुहृदमृतमूर्तिसमालोकनाशया हर्षप्रकर्षसंदर्शितस्मितेष्विवोन्मुखेषु धवलायमानेषु कुमुदखण्डेषु. सन्ध्यावर्णनम् पूर्वभागः ।। Page #435 -------------------------------------------------------------------------- ________________ नीलायमाने शर्वरीमुखे, शनैःशनैश्च पुनर्दिनश्रीसमागमाशाभिरिवानुरागिणीभिः सहैव दीधितिभिरदर्शनतामुपगते भगवति गभस्तिमालिनि, तत्कालविजृम्भितेन च कादम्बरीहृदयरोगसागरेणेवापूरिते संध्यारागेण जीवलोके, कुसुमायुधानलदह्यमानहृदयसहस्त्रधूम इव जनितमानिनीनयनवारिणि विस्तीर्यमाणे तरुणतमालत्विषि तिमिरे, दिक्करिकरोंवकीर्णसीकरासार इव श्वेतायमानतारागणे गंगने, जातायां चादर्शनक्षमायां वेलायां सौधशिखरादवततार कादम्बरी क्रीडापर्वतकनितम्बाच्च चन्द्रापीडः । ततोऽचिरादिव गृहीतपादः प्रसाद्यमान इव कुमुदिनीभिः, कलुषमुखीः कुपिता इव प्रसादयनाशाः, प्रबोधाशङ्कयेव परिहरन्सुप्ताः कमलिनीः, लाञ्छनच्छलेन निशामिव हृदयेन समुदहन, रोहिणीचरणताडनलग्नमलक्तकरसमिवोदयरागं दधानः, तिमिरनीलाम्बरां दिवमभिसारिकामिवोपसर्पन्, अतिवल्लभतया विकिरन्निव सौभाग्यमुदगाद्भगवानीक्षणोत्सवः सुधासूतिः । उच्छ्रिते च कुसुमायुधाधिराज्यैकातपत्रे कुमुदिनीवधूवरे विभावरीविलासदन्तपत्रे श्वेतभानौ धवलितदिशि, - *********** शनैःशनैः पुनर्दिनश्रियां यः समागमस्तस्याशाभिरिवानुरागिणीभिर्दीधितिभिः सह भगवति गभस्तिमालिनि सूर्येऽदर्शनतामदृश्यतामुपगते प्राप्ते सति । पुनः संध्यारागेण जीवलोक आपूरिते सति । केनेव । तत्कालविजृम्भितेन तदात्वप्रसृतेन कादम्बर्या हृदयरागस्तलक्षणो यः सागरः समुद्रस्तेनेव । पुनः कस्मिन् । विस्तीर्यमाणे विस्तारं प्राप्यमाणे । तरुणो नवीनो यस्तमालस्तापिच्छः तस्य त्विडिव त्विट् यस्मिन्नेवंविधे तिमिरेऽन्धकारे सति । तस्य नीलत्वेन साम्यादाह - कुसुमेति । कुसुमायुध एवानलो वह्निस्तेन दह्यमानं ज्वलमानं यद्धृदयसहसं तस्य धूम इव । कीदृशे । जनितमुत्पादितं मानिनीनां नयनेषु वारि येन तस्मिन् । अद्यापि पतिगृह नागत इति दुःखेन मानिनीनयनेष्यश्रुसद्भाव इत्यर्थः । एतेन धूमसादृश्यं ध्वनितम् । दिगिति । दिक्करिणां दिग्गजानां ये कराः शुण्डादण्डास्तैरवकीर्णोऽवध्वस्तो यः सीकरासारस्तस्मिन्निव श्वेतायमाने दीप्यमाने तारागणे नक्षत्रसमूहे गगने व्योम्नि जाते सति । अन्वयस्तु प्रागुक्तः । ततस्तदनन्तरमचिरादिव स्तोककालेनेव सुधासूतिश्चन्द्र उदगादुदयं प्राप्तवान् । गृहीतेति । गृहीताः पादा यस्य सः । प्रसाद्यमान इव । काभिः । कुमुदिनीभिः कैरविणीभिः । कलुषमुखीः कुपिता इव आशा दिशः प्रसादयन्प्रसन्नीकुर्वन् । सुप्तानां कमलिनीनां प्रबोधो मा भूदित्याशङ्कया परिहरंस्त्यजन् । लाञ्छनच्छलेनाङ्कमिषेण निशामिव हृदयेन समुद्रहन्धारयन् । पुनः किं कुर्वाणः । उदयरागं दधानः । कमिव । रोहिण्याचरणेन रतिकलहेन यत्ताडनं तेन लग्नं अलक्तकरसमिव पानकद्रवमिव । तिमिरमेव नीलमम्बरं वस्त्रमेतादृशीं दिवं नीलावगुण्ठनसाम्यादभिसारिकामिवोपसर्पन्गच्छन् । अतिवल्लभस्य भावोऽतिवल्लभता तया सौभाग्यं विकिरनिव विक्षिपन्निव । कीदृशः भगवान्माहात्म्यवान् । पुनः किंविशिष्टः । ईक्षणानां नेत्राणामुत्सव इव । उच्छ्रिते च वृद्धि प्राप्ते च कुसुमायुधः कंदर्पस्तस्याधिराज्यं साम्राज्यं तस्य एकमद्वितीयमातपत्रं तस्मिन् । कुमुदिनी कैरविणी सैव वधूस्तस्या वरः प्राणनाथस्तस्मिन् । पाण्डुरत्वसाम्येनाह - विभावरीति । विभावयस्त्रियामाया विलासार्थं दन्तपत्रं कर्णाभरणं तस्मिञ्श्वेताः शुभ्रा भानवः किरणा यस्मिन् । धवलिताः शुभ्रीकृता दिशो येन स तस्मिन् । चन्द्रालोकेन - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 चेतायमानास्तारागणा यस्मिन्नित्यर्थः । 2 यावकद्रवमिवेत्युचितम् । 3 लोकानामतिप्रीतिपात्रतया तेषु सौभाग्यं प्रीतिं वर्षन्निव । 4 एवं विशिष्टे श्वेतभानौ उदिते सतीत्यन्वयः । पाठा० - १ तत्कालनिनर्तिषोपात्तभुजसहस्त्रविस्तारितसर्वपुरस्कृतगजचर्मणेव नीलायमाने. २ रागरस. ३ चक्रवाकहृदय. ४ नयनासारवारिणि. ५ आकीर्ण. ६ गगने जाते. ७ नचिरात्. ८ नीलाम्बरवराम. ९ उदिते. 422 कादम्बरी। कथायाम् Page #436 -------------------------------------------------------------------------- ________________ दन्तादिवोत्कीर्णे भुवने, चन्द्रापीडश्चन्द्रातपनिरन्तरतयैव कुमुदमय्या इव गृहकुमुदिन्याः कल्लोलधौतसुधाधवलसोपाने तनुतरङ्गतालवृन्तवातवाहिनि सुप्तहसमिथुने विरहवाचालचक्रवाकयुगले तीरे, कुमुददलावलीभिः पर्यन्तलिखितपत्रलतादन्तुरमवदातसिन्दुवारदामोपहारं हरिचन्दनरसैः प्रक्षालितं कादम्बरीपरिजनोपदिष्टं मुक्ताशिलापट्ट चन्द्रशीतलमधिशिश्ये । तत्रस्थस्य चास्याऽऽगत्याकथयत्केयूरकः ‘देवी कादम्बरी देवं द्रष्टुमागता' इति । अथ चन्द्रापीडः ससंभ्रममुत्थायागच्छन्तीम्, अल्पसखीजनपरिवृताम्, अपनीताशेषराजचिह्नाम्, इतरामिवैकावलीमात्राभरणाम्, अच्छाच्छेन चन्दनरसेन धवलीकृततनुलताम्, एककर्णावसक्तदन्तपत्राम्, इन्दुकलाकलिकाकोमलं कर्णपूरीकृतं कुमुददलं दधानाम्, ज्योत्स्नाशुचिनी कल्पद्रुमदुकूले बिभ्रतीम्, तत्कालरमणीयेन वेषेण साक्षादिव चन्द्रोदयदेवताम्, मदलेखया दत्तहस्तावलम्बां कादम्बरीमपश्यत् । आगत्य च सा प्रीतिपेशलतां दर्शयन्ती प्राकृते परिजनोचिते भूतले समुपाविशत् । चन्द्रापीडोऽपि 'कुमार, अध्यास्यतां शिलातलमेव - *********** भुवनस्य व्याप्तत्वादाह - दन्तेति । दन्तादिवोत्कीर्णे भुवने विष्टपे जाते सति । चन्द्रापीडश्चन्द्रातपस्य चन्द्रालोकस्य निरन्तरता सर्वस्मिनभिव्याप्तिस्तया हेतुभूतया । एवं विरलकुमुदवत्या अपि । गृहकुमुदिन्याः कुमुदमय्याः कुमुदप्रकर्षवत्या इव ये कल्लोलाः श्चेतिमोत्कर्षास्तै|तं निर्मलीकृतं सुधया धवलं सोपानं यस्मिन् । तनवः सूक्ष्मा ये तरङ्गाः कल्लोलास्त एव वातहेतुत्वात्तालवृन्तानि व्यजनानि तेषां वातं वहत्येवंशीलं तस्मिन् । सुप्तानि हंसानां मिथुनानि यस्मिन् । विरहेण वियोगेन वाचालानि मुखराणि चक्रवाकयुगलानि यस्मिन्नेवंविधे तीरे । गृहदीर्घिकाया इति शेषः । कुमुदानां कैरवाणां दलावलीभिः पत्रश्रेणिभिः पर्यन्ते प्रान्ते लिखिताः पत्रलताः पत्रभङ्ग्यस्ताभिर्दन्तुरम् । तद्वदवदातानि सिन्दुवारदामानि निर्गण्डीस्त्रजस्तेषामपहारो यस्मिंस्तबद्धरिचन्दनं गोशीर्षचन्दनं तस्य रसैः प्रक्षालितं धौतम । कादम्बर्याः परिजनः परिच्छदस्तेनोपदिष्टं कथितं मुक्तावद्धवलं शुभ्रं शिलापट्ट चन्द्रेण शीतलमधिशिश्ये । शयनं चकारेत्यर्थः । तत्रस्थस्यास्य चन्द्राइस्य केयूरक आगत्येत्यकथयत् । इतिशब्दद्योत्यमाह - कादम्बरीति । कादम्बरी देवी देवं भवन्तं द्रष्टुमागता । अथेति । तत्कथनानन्तरं ससंभ्रममुत्थाय स चन्द्रापीडः कादम्बरीमपश्यत् । अथ कादम्बरी विशेषयन्नाह - आगच्छन्तीमिति । आगच्छन्तीमायान्तीम् । अल्पेति । अल्पः स्तोको यः सखीजनस्तेन परिवृताम् । अपनीतं दूरीकृतमशेष समग्रं राजचिह्न यया सा ताम् । अतएवेतरामिव पूर्वव्यावर्णितस्वरूपाऽभिन्नामिवैकावलीमात्रमाभरणं विभूषणं यस्याः सा ताम् । अच्छं चाच्छं चाच्छाच्छं तेन । अतिनिर्मलेनेत्यर्थः । एतादृशेन चन्दनरसेन धवलीकृता तनुलता यया सा ताम् । एककर्णेऽवसक्तं क्षिप्तं दन्तपत्रं यया सा ताम् । तथाविधदेशाचाग्वादिति भावः । पुनः किं कुर्वाणाम् । कर्णपूरीकृतं कुमुददलं कैरवपत्रं दधानाम् । कीदृशम् । इन्दुकला चन्द्रकला सैव कलिका तद्वत्कोमलं गुकुमारम् । पुनः किं कुर्वन्तीम् । ज्योत्स्नावच्छुचिनी पवित्रे कल्पद्रुमस्य दुकूले बिभ्रतीं दधानाम् । तत्कालरमणीयेन तत्समयमनोहरण वपेण नेपथ्येन साक्षाच्चन्द्रोदयदेवतामिव । मदलेखया दत्तो हस्तावलम्बः करावलम्बो यस्याः सा ताम् । अन्वयस्तु प्रागुक्तः । आगत्य च प्रीतिपेशलतां स्नेहसुन्दरतां दर्शयन्ती प्रकटयन्ती प्राकृते नीचे परिजनस्य सेवकजनस्योचिते योग्ये भूतले - टिप्प० - 1 विरलकुमुदापि गृहकुमुदिनी (सरसी) चन्द्रातपव्याप्ततया कुमुदमयी जाता, चन्द्रिकैव कुमुदस्थानीया जातेत्यर्थः । ईदृश्या गृहकुमुदिन्याः कल्लोलधौत० इत्यादिविशेषिते तीरे शिलापट्ट चन्द्रापीडोऽधिशिश्ये इति योजना । 2 'प्राकृतेव' इत्यपि पाठः । साधारणस्त्रीव, इति तदर्थः । स्थानस्य प्राकृतमिति विशेषणं तु न रोचते विदुषे । - - - - - - - - - - - - - पाठा० - १ दन्तिदन्ताम्. २ कुमुद इव. ३ धूत. ४ पत्रलतादन्तुरम्; दन्तपत्रलतम्. ५ प्राकृतेव. काद०चन्द्रापी० प्रीतिवर्धक उपचारः पूर्वभागः । 423 Page #437 -------------------------------------------------------------------------- ________________ इत्यसकृदनुबध्यमानोऽपि मदलेखया भूमिमेवाभजत । सर्वासु चासीनासु तासु मुहूर्तमिव स्थित्वा वक्तुमुपचक्रमे चन्द्रापीडः - ‘देवि, दृष्टिमात्रप्रीते दासजने संभाषणादिकस्यापि प्रसादस्य नास्त्यवकाशः, किमुतैतावतोऽनुग्रहस्य । न खलु चिन्तयन्नपि निपुणं तमात्मनो गुणलवमवलोकयामि, यस्यायमनुरूपोऽनुग्रहातिरेकः । अतिसरला तवेयमपगताभिमानमधुरा च सुजनता यदभिनवसेवकजनेऽप्येवमनुरुध्यते । प्रायेण मामुपचारहार्यमदक्षिणं देवी मन्यते । धन्यः खलु परिजनः, ते यस्योपरि नियन्त्रणा स्यात् । आज्ञासंविभागकरणोचिते भृत्यजने क इवादरः । परोपकारोपकरणं शरीरम्, तृणलवलघु च जीवितम् । अपत्रपे त्वत्प्रतिपत्तिभिरुपायनीकर्तुमागतायास्ते वयमेते शरीरमिदमेतज्जीवितमेतानीन्द्रियाणि एतेषामन्यतरदारोपय परिग्रहेण गरीयस्त्वम्' इति । अथैवंवादिनोऽस्य वचनमाक्षिप्य मदलेखा सस्मितमवादीत् - 'कुमार, भवतु । अतियन्त्रणया खिद्यते खलु सखी कादम्बरी । किमर्थं चैवमुच्यते । सर्वमिदमन्तरेणापि वचन - *********** पृथिव्यां समुपाविशत्समुपविष्टः । चन्द्रापीडोऽपि हे कुमार, शिलातलमेवाध्यास्यतामिति मदलेखयाऽसकृद्वारंवारमनुबध्यमानोऽपि कथ्यमानोऽपि भूमिमेव वसुधामेवाभजताश्रितवान् । सर्वासु तास्वासीनासूपविष्टासु सत्सु मुहूर्तमिव स्थित्वा चन्द्रापीडो वक्तुं कथयितुमुपचक्रम उपक्रमं कृतवान् । किं तदित्याह - देवीति । हे देवि, दृष्टिमात्रेण प्रीते दासजने संभाषणादिकस्य जल्पनप्रभृतिकस्य प्रसादस्यानुग्रहस्यावकाशोऽवगाहो नास्ति । दृष्टिमात्रसमुद्भूतप्रीत्या तावन्मम हृदयं भृतं यावदस्य प्रवेशो नास्तीत्यर्थः । एतावतोऽनुग्रहस्य किमुत भण्यते । सर्वथा प्रवेशो नास्तीत्यर्थः । न खल्विति । निपुणं यथा स्यात्तथा चिन्तयन्नपि विचारयन्नप्यात्मनो गुणलवमवलोकयामि पश्यामि । यस्य गुणलवस्यायमनुरूपो योग्योऽनुग्रहातिरेकः प्रसादोत्कर्षः । अतिसरलाऽतिऋज्वी तवेयमपगतो दूरीभूतो योऽभिमानोऽहंकारस्तेन मधुरा मिष्टा सुजनता सौजन्यम् । अत्रार्थे हेतुं प्रदर्शयन्नाह - यदिति । यदभिनवे सेवकजनेऽपि नूतनभृत्येऽप्येवमनुरुध्यतेऽनुग्रहविषयीक्रियते । प्रायेणेति । प्रायेण बाहुल्येनोपचारेण बाह्यविनयेन हार्यं वशीकर्तुं योग्यमत एवादक्षिणमनुदारं मां देवी मन्यते जानाति । खलु निश्चयेन । स एव परिजनो धन्यः कृतपुण्यः, यस्योपरि ते तव नियन्त्रणाज्ञा स्यात् । आज्ञालक्षणो यः संविभागो विभज्य किंचिदर्पणं तस्य करणं तत्रोचिते योग्ये भृत्यजने क इवादरो बहुमानाधिक्यम् । परेति । परस्य य उपकार उपकृतिस्तस्योपकरणं साधकं शरीरं तृणस्यार्जुनस्य यो लवो लेशस्तबल्लघु च जीवितम् । अत आगतायास्ते तव त्वत्प्रतिपत्तिभिस्त्वद्भक्तिभिरुपायनीकर्तुमुपढौकनीकर्तुमहमपत्रपे लज्जे । एते वयम्, इदं शरीरम्, एतज्जीवितम्, एतानीन्द्रियाणि, एतेषां मध्यादन्यतरत्परिग्रहेण स्वीकारेण कृत्वा गरीयस्त्वमारोपय स्थापयेति । अन्यस्योपायनस्याभावात् । इदमेव तत्रोपायनम् । अथैवंवादिनोऽस्य चन्द्रापीडस्य वचनमाक्षिप्य निराकृत्य मदलेखा सस्मितमवादीदवोचत् । हे कुमार, भवतु यत्त्वयोक्तं तत्तथैवास्तु । परमतियन्त्रणयातिकथनेन खलु निश्चयेन । कादम्बरी खिद्यते खेदं प्राप्नोति । अतः किमर्थं चैवमुच्यते कथ्यते । वचनमन्तरेणापि कथनं विनैव सर्वमिदं पूर्वोक्तमनया कादम्बर्या परिगृहीत - - - - - - - - - - - - - - - - टिप्प० - 1 एवमनुरोधः (प्रीत्युपचारः) क्रियते । 2 शरीरस्य स्वभावत एव अन्योपयोगित्वाज्जीवितस्य लघुत्वेन च, आगतां त्वां प्रति भक्तिभिः एतयोरुपायने अहं लज्जे इत्याशयः । 3 पतित्वेन मनसि स्वीकृतो भवानिति गढं ध्वन्यते । पाठा० - १ अथ सर्वासु चासीनासु मुहूर्तमिव. २ दृष्टिपातमात्र. ३ प्रायेण च. ४ शरीरकम्. ५ अपि त्रपे तव प्रतिपत्तावुपायनीकर्तुम् अत्र ये त्वत्प्रतिपत्तिभिरुपायनीकर्तुम्. ६ एवमागतायाः. ७ अन्यतरम्. 424 कादम्बरी। AMAN कथायाम् Page #438 -------------------------------------------------------------------------- ________________ मनया परिगृहीतम्, किं पुनरमुनोपचारफल्गुना वचसा सदेहदोलामारोप्यते' इति । स्थित्वा च कंचित्कालं कृतप्रस्तावा 'कथं राजा तारापीडः, कथं देवी विलासवती, कथमार्यः शुकनासः, कीदृशी चोज्जयिनी, कियत्यध्वनि सा च, कीदृग्भारतं वर्षम्, रमणीयो वा मर्त्यलोकः' इत्यशेषं पप्रच्छ । एवंविधाभिश्च कथाभिः सुचिरं स्थित्वोत्थाय कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं समादिश्य परिजनं च शयनसौधशिखरमारुरोह । तत्र च सितदुकूलवितानतलास्तीर्ण शयनीयमलंचकार । चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निरभिमानतामभिरूपतामतिगम्भीरतां च कादम्बर्याः निष्कारणवत्सलतां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां च किंपुरुषदेशस्य मनसा भावयन्केयूरकेण संवाह्यमानचरणः क्षणादिव क्षणदां क्षपितवान् । अथ क्रमेण कादम्बरीदर्शनजागरखिन्नः स्वप्नुमिव तालतमालतालीकदलीकन्दलिनी प्रेविरलकल्लोलानिलशीतलां वेलावनराजिमवततार तारापतिः । अभ्यर्णविरहविधुरस्य च कामिनीजनस्य निःश्वसितैरिवोष्णैानिमनीयत चन्द्रिका । चन्द्रापीडविलोकनारूढमदनेव - *********** मात्तम् । किं पुनरमुनोपचारेण फल्गुना निरर्थकेन वचसा किं वचनव्यापारेण संदेहदोलामारोप्यते । मन इति शेषः । इत्युक्तप्रकारेण कंचित्कालं स्थित्वा विलम्ब्य च कृतो विहितः अर्थात्प्रश्नस्य प्रस्तावोऽवसरो यया सैवंविधा सतीत्यशेषं समग्रं पप्रच्छापृच्छत् । इतिशब्दयोत्यमाह - कथमिति । कथं केन प्रकारेण राजा तारापीडः । देवी विलासवती कथम् । कथं आर्यः शुकनासः । कीदृशी चौज्जयिनी विशाला । सा चोजयिनीतः कियत्यध्वनि मार्गे । कीदृग्भारतं वर्षं क्षेत्रम् । रमणीयो वा मनोहरो वा मर्त्यलोको मनुष्यलोकः । एवमिति । एवंविधाभिरेवंप्रकाराभिः कथाभिर्वार्ताभिः सुचिरं बहुकालं स्थित्वावस्थानं कृत्वोत्थाय कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं परिजनं च समादिश्यादेशं दत्त्वा शयनयोग्यं यत्सौधशिखरं तदारुरोहारूढवती । तत्रेति । तत्र तस्मिन्सौधतले सितं शुभ्रं यदुकूलं दुगूलं तस्य वितानं चन्द्रोदयस्तस्य तलमधोभागस्तत्रास्तीर्णं स्थापितं शयनीयं शय्यामलंचकारालंकृतवती । चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निरभिमानतां निर्गर्वतामभिरूपतां विचक्षणतामतिगम्भीरतां च कादम्बर्याः निष्कारणवत्सलतां च निर्हेतुकहितकारितां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां मनोहरतां च किंपुरुषदेशस्य मनसा भावयश्चिन्तयन्केयूरकेण संवाह्यमानौ लाल्यमानौ चरणौ पादौ यस्यैवंभूतः क्षणादिव क्षणमात्रेणेव क्षणदां त्रियामां क्षपितवान्क्षयं नीतवान् । इदानीं रात्रिशेषं चन्द्रास्तं सूर्योदयं च वर्णयश्चन्द्रापीडकर्तव्यतामाह - अथेति । क्षणदाक्षयानन्तरं कादम्बर्या यत् दर्शनं अवलोकन तेन जागरणं तेन खिन्नो रीणः स्वप्नुमिव शयनं कर्तुमिव तारापतिश्चन्द्रः । वेलेति । वेलाम्भसां वृद्धिस्तस्या वनराजि कान्तारश्रेणिमवततारावतीर्णवान् । अथ वनराजिं वर्णयन्नाह - तालेति । तालस्तालवृक्षः, तमालस्तापिच्छः, ताली वृक्षविशेषः, कदली रम्भा, आसां कन्दैलो विद्यते यस्यां सा ताम् । प्रविरलेति । प्रविरलाः स्तोका ये कल्लोलास्तरंगास्तेषामनिलो वायुस्तेन शीतलां सुशीताम् । अभ्यर्णेति । अभ्यर्णस्तत्कालीनो यो विरहो वियोगस्तेन विधुरस्य दुःखितस्य कामिनीजनस्योष्णैनिःश्वसितैनिःश्वासैरिव म्लानिं मलिनतां चन्द्रिका चन्द्रगोलिकानीयत प्राप्यत । चन्द्रेति । चन्द्रापीडविलोकनेन आरूढः प्राप्तो मदनो - - - - - - - - - - - - - - टिप्प० - 1 इतः कियहूरे वर्तत इति तात्पर्यम् । 2 समूहः । 3 रात्रिसमाप्त्या कामिनोविच्छेदो जात इत्याशयः। पाठा०.१ प्रजागर. २ अविरल. (काद०चन्द्रापी० प्रीतिवर्धक उपचारः पूर्वभागः । 425 Page #439 -------------------------------------------------------------------------- ________________ कुमुददलोपनीतनिशा पङ्कजेषु निपपात लक्ष्मीः । क्षणदापगमे च स्मृत्वा कामिनीकर्णोत्पलप्रेहारानुत्कण्ठितेष्विव क्षामतां व्रजत्सु पाण्डुतनुषु गृहप्रदीपेषु, अनवरतशरक्षेपखिन्नानङ्गनिःश्वासविभ्रमेषु व॑हत्सु लेताकुसुमपरिमलेषु प्रभातमातरिश्वसु, सुमन्दरलतागृहगहनानि च भियेव भजन्तीष्वरुणोदयोपप्लविनीषु तारकासु, क्रमेण च समुद्गते चक्रवाकहृदयनिवासलग्नानुरागमिव लोहितं मण्डलमुदहति सवितरि, शिलातलादुत्थाय चन्द्रापीडः प्रक्षालितमुखकमलः कृतसंध्यानमस्कृतिर्गृहीतताम्बूलः ‘केयूरक, विलोकय देवी कादम्बरी प्रबुद्धा न वा, क्व वा तिष्ठति' इत्यवोचत् । गतप्रतिनिवृत्तेन च तेन 'देव, मन्दरप्रासादस्याधस्तादङ्गणसौधवेदिकायां महाश्वेतया सहावतिष्ठते' इत्यावेदिते गन्धर्वराजतनयामालोकयितुमाजगाम । ददर्श च धवलभस्मललाटिकाभिरक्षमालापरिवर्तनप्रचलकरतलाभिः पाशुपतव्रतधौरिणीभिर्धातुरागारुणाम्बराभिश्च परि - *********** यस्या एवंभूतेव । आरूढमदनतायास्तु शीतलस्थानावस्थितिः प्रजागरश्च स्यादित्याशयेनाह - कुमुदेति । कुमुददलानां कैरवपत्राणां उदरे मध्ये नीता परिकलिता निशा रात्रिर्यया सा । तेषां विकसितत्वात् । तदनन्तरमेव पङ्कजेषु कमलेषु लक्ष्मीनिपपात । क्षणदेति । क्षणदाया निशाया अपगमे कामिनीनां रते याकर्णोत्पलप्रहारान् अथ वान्यानपि क्रीडाविलासान्स्मृत्वा स्मरणं कृत्वा पुनर्द्रष्टुमुत्कण्ठितेष्विवात एवोत्कण्ठापरिपूर्त्या क्षामतां कृशतां व्रजत्सु गच्छत्सु तत एव पाण्डुतनुषु गृहदीपकेषु सत्सु । अनवरतेति । अनवरतं निरन्तरं यः शरक्षेपो बाणप्रक्षेपस्तेन खिन्नो रीणो योऽनङ्गः कंदर्पस्तस्य निःश्वासास्तेषां विभ्रमेषु, लता वल्यस्तासां कुसुमानां पुष्पाणां परिमलो येष्वेवंविधेषु प्रभातमातरिश्वसु प्रत्यूषसमीरेषु वहत्सु । अरुणोदयेन उपप्लव उपद्रवो विद्यते यासामेवंविधासु तारकासु तारासु भियेव भीत्येव सुमन्दरो मेरुस्तस्य लता वीरुधस्ता इव (एव) गृहास्तेषां गहनान्यरण्यानि च भजन्तीष्वाश्रयन्तीषु । क्रमेण परिपाट्या चक्रवाको रथाङ्गाह्वयस्तस्य । हृदयं तेन सह निवासस्तत्र लग्नोऽनुरागो यस्यैवंविधमिव लोहितं मण्डलं बिम्बमुदहति धारयति सवितरि सूर्ये च समुद्गत उदिते सति । शिलातलादुत्थाय प्रक्षालितं मुखकमलं येन सः, कृता संध्याया नमस्कृतिर्येन सः, गृहीतं भक्षितं ताम्बूलं येन सः, हे केयूरक, विलोकय देवी कादम्बरी प्रबुद्धा न वा । क्व वा तिष्ठतीत्यवोचत् । गतप्रतिनिवृत्तेन च तेन केयूरकेण हे देव, मन्दरप्रासादस्याधस्तादङ्गणं तत्र यत्सौधं तस्य वेदिकायां महाश्वेतया सहावतिष्ठते इत्यावेदिते कथिते सति गन्धर्वराजतनयामालोकयितुं वीक्षितुमाजगाम । तदनन्तरं महाश्वेता कादम्बरी च ददर्शावलोकयामास । अथ महाश्वेता विशिनष्टि - साक्षादिति । साक्षान्मन्त्रदेवताभिरिव पब्रिाजिकाभिस्तापसीभिरूपास्यमानाम् । ता विशिनष्टि - धवलेति । धवल शुभ्रं यद्भस्म भूतिस्तस्य ललाटिका यासां ताभिः । अक्षेति । अक्षमाला जपमालास्तासां परिवर्तनं तेन प्रचलानि कम्प्राणि करतलानि यासा ताभिः । पशुपतेरीश्वरस्येदं पाशुपतं यव्रतं नियमविशेषस्तद्धारयन्तीत्येवंशीलास्ताभिर्धातुरागेण गैरिकेणारुणान्यम्बराणि यासां ताभिः । परिणता ये तालफलास्तेषां वल्कलानि तान्येव लोहितानि रक्तानि वस्त्राणि यासा - - टिप्प. - 1 रतार्थमपनीयमाने वस्त्रे प्रदीपोपशमार्थ कामिन्यः कर्णोत्पलं तदुपरि क्षिपन्ति, तं स्मृत्वा पुनस्तादृशप्रहारप्राप्त्यर्थमुत्कण्ठा प्रदीपानामित्याशयः । 2 कंदपनिःश्वासानां विभ्रमा इव विभ्रमाः (विलासाः) येषां तादृशेषु । कामनिःश्वासायितेष्विति यावत् । 3 परिणतं यत्तालफलं तस्य यद्वल्कलं (त्वक्) तद्वत् लोहितानि । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ स्मृतकामिनीकर्णोत्पलप्रहारेषु. २ प्रहाराणाम्. ३ वासगृह. ४ भ्रमत्सु. ५ तरुलता. ६ आमोदिषु. ७ मन्दरगिरिलता. ८ समुद्गतचक्रवाक. ९ आलोहितम्. १० अवतिष्ठति. ११. भस्मकृत्. १२ मालिका. १३ चारिणीभिः. 426 कादम्बरी । कथायाम् Page #440 -------------------------------------------------------------------------- ________________ वाजिकाभिः, परिणततालफलवल्कललोहितवस्त्राभिश्च रक्तपटव्रतवाहिनीभिः सितवसननिबिडनिबद्धस्तनपरिकराभिश्च धेतपटव्यजनाभिर्जटाजिनवल्कलाषाढधारिणीभिर्वणिचिह्नाभिस्तापसीभिः, साक्षादिव मन्त्रदेवताभिः पठन्तीभिर्भगेवतस्त्र्यम्बकस्याम्बिकायाः कार्तिकेयस्य विश्रवणस्य कृष्णस्यार्यविलोकितेश्वरस्याहतो विरिञ्चस्य पुण्याः स्तुतीरुपास्यमानाम्, अन्तःपुराभ्यर्हिताश्च सादरं नमस्कारैराभाषणैरभ्युत्थानैरासन्नवेत्रासनदानैश्च गन्धर्वराजबान्धववृद्धाः समानयन्ती महाश्वेताम्, पृष्ठतश्च समुपविष्टेन किंनरमिथुनेन मधुकरमधुराभ्यां वंशाभ्यां दत्ते ताने कलगिरा गायन्त्या नारदहिव्या पठ्यमाने च सर्वमङ्गलमहीयसि महाभारते दत्तावधानां पुरो धृते च दर्पणे ताम्बूलरागबद्धकृष्णिकान्धकारिताभ्यन्तरं दशनज्योत्स्नासिक्तमुत्सृष्टमधूच्छिष्टपट्टपाण्डुरमधरं विलोकयन्ती शैवलतृष्णया कर्णपूरशिरीषप्रेषितोत्तानवि - *********** ताभिः । रक्तेति । रक्तो यः पटस्तस्य यव्रतं तद्वाहिनीभिस्तनिर्वाहकारिणीभिः । अथ तापसी विशिनष्टि - सितेति । सितवसनेन श्वेतवस्त्रेण निबिडं यथा स्यात्तथा निबद्धः स्तनपरिकरः कुचाभोगो याभिः । श्वेतपटस्य व्यजनानि तालवृन्तानि यासां ताभिः । जटेति । जटाः सटाः, अजिनं मृगचर्म, वल्कलं चोचम्, आषाढः पालाशः, एतान्धारयन्तीत्येवंशीलास्ताभिः । वर्णी ब्रह्मचारी तस्य चिह्न यासां ताभिः । किं कुर्वन्तीभिरेताभिः । पठन्तीभिरुच्चारयन्तीभिः । काः । भगवतस्त्र्यम्बकस्येश्वरस्य, अम्बिकाया गौर्याः कार्तिकेयस्य स्कन्दस्य विश्रवणस्य विश्रवसः, कृष्णस्य जिनस्य, आर्यविलोकितेश्वरस्य बौद्धस्य, अर्हतस्तीर्थंकरस्य, विरिञ्चस्य ब्रह्मणः, पुण्याः पवित्राः स्तुतीनुतीः । पुनः किं कुर्वन्तीम् । अन्तःपुरेऽभ्यर्हिताः श्रेष्ठा गन्धर्वराजस्य बान्धवाः स्वजनास्तेषां वृद्धाः स्थविराः सादरं सत्कारपूर्वकं नमस्कारैः प्रणामैराभाषणैर्जल्पनैरभ्युत्थानैरुत्तिष्ठनैरासने समीपे वेत्रासनस्यासन्या दानैश्च कृत्वा समानयन्ती सत्कारं कुर्वन्ती महाश्वेताम् । पुनः कीदृशी कादम्बरीम् । पृष्ठतः समुपविष्टेन पश्चाद्भागस्थितेन किंनरमिथुनेन किंपुरुषयुग्मेन मधुकरवन्मधुराभ्यां वंशाभ्यामुपाङ्गाभ्यां ताने स्वरे दत्ते सति । नारदो देवब्रह्मा तस्य दुहित्र्या पुत्र्या मद्राभिधानया कलगिरा मनोज्ञवाण्या गायन्त्या गानं कुर्वन्त्या । पठ्यमाने गानद्वारा कथ्यमाने च सर्वमङ्गलैः समग्रश्रेयोभिर्महीयसि महाभारते दत्तावधानां न्यस्तचित्ताम् । पुनः किं कुर्वन्तीम् । पुरो धृतेऽग्रे स्थापिते दर्पणेऽधरं दन्तच्छदं विलोकयन्तीं पश्यन्तीम् । अथाधरं विशेषयन्नाह - ताम्बूलेति । ताम्बूलं नागवल्लीदलं तस्य रागस्तेन बद्धा या कृष्णिका श्यामता तयान्धकारितमन्धकारवदाचरितमभ्यन्तरं मध्यभागो यस्य तत् । दशनेति । दशनानां दन्तानां या ज्योत्स्ना चन्द्रिका तया सिक्तं सिञ्चितम् । उत्सृष्टेति । उत्सृष्टमुज्झितं मधु क्षौद्रं येनैवंविधो य उच्छिष्टपट्टो मदनैपिण्डस्तद्वत्पाण्डुरं श्वेतरक्तम् । बद्धेति । बद्धमण्डलं यथा स्यात्तथा भ्रमता भ्रमणं कुर्वता भवनकलहंसेन गृहकलहंसेन प्रभातकालीनो यः शशी चन्द्रस्तेनेव क्रियमाणा विधीयमाना गमनसमये प्रणामयुक्ता प्रदक्षिणा यस्याः सा ताम् । कलहंसान्विशेषयन्नाह - शैवलेति । शैवलं शैवालं तस्य तृष्णया गर्थेन कर्णपूरीकृतं यच्छिरीषपुष्पं तस्मिन्प्रेषित उत्तान ऊर्ध्वमुखे - - - - - - - - - - - - - - - टिप्प० . 1 कृष्णस्य - वासुदेवस्य । 2 उत्थानैरित्येव भवति, न उत्तिष्ठनैरिति बोध्यं छात्रैः । 3 वेणुभ्याम्, 'बंसी इति भाषा । 4 'मोम' इति ख्यातस्य पिण्डः । 5 भवनकलहंसेन क्रियमाणाः गमनं प्रणामः प्रदक्षिणाश्च यस्यास्ताम् । हंसः समीपे गमनं प्रणाम प्रदक्षिणां च कृत्वा कर्णपूरशिरीषं याचत इत्यर्थः । 6 कलहंसमित्येकवचनमेव योग्यम् । पाठा० - १ मौजीवल्कल. २ शौद्धोदने. ३ विष्टरश्रवसो जिनस्यार्य. ४ अर्हतो वैश्वदेवस्य मार्तण्डस्य. ५ दर्शनागतगन्धर्व. ६ मिथुनकेन. ७ मधुराभ्याम्. ८ स्थानके ताले. ९ नारददुहित्रा च सावित्र्या. १० पुरोविधृते परिजनेन. ११ मणिदर्पणे. १२ उत्सृष्ट. १३ पाटलम्. (चन्द्रापीडस्य कादम्बर्युपगमनम् पूर्वभागः । Page #441 -------------------------------------------------------------------------- ________________ लोचनेन बद्धमण्डलं भ्रमता भवनकलहंसेन प्रभातशशिनेव क्रियमाणगमनप्रणामप्रदक्षिणा कादम्बरी च समुपसृत्य कृतनमस्कारस्तस्यामेव वेदिकायां विन्यस्तमासनं भेजे । स्थित्वा च कंचित्कालं महाश्वेताया वदनं विलोक्य स्फुरितकपोलोदरं मन्दस्मितमकरोत् । असौ तु तावतैव विदिताभिप्राया कादम्बरीमब्रवीत् - 'सखी, भवत्या गुणैश्चन्द्रापीडश्चन्द्रकान्त इव चन्द्रमयूखैरार्दीकृतो न शक्नोति वक्तुम् । जिगमिषति खलु कुमारः । पृष्ठतो दुःखमविदितवृत्तान्तं राजचक्रमास्ते । अपि च युवयोर्दूरस्थितयोरपि स्थितेयमिदानी कमलिनीकमलबान्धवयोरिव कुमुदिनीकुमुदनाथयोरिव प्रीतिराप्रलयात् । अतोऽभ्यनुजानातु भवती' इति । अथ कादम्बरी 'सखी, महाश्वेते, स्वाधीनोऽयं सपरिजनो जनः कुमारस्य स्व इवान्तरात्मा । क इवात्रानुरोधः' इत्यभिधाय गन्धर्वकुमारानाहूय ‘प्रापयत कुमारं स्वां भूमिम्' इत्यादिदेश । चन्द्रापीडोऽप्युत्थाय प्रणम्य प्रथम महाश्वेता ततः कादम्बरी तस्याश्च प्रेमस्निग्धेन चक्षुषा मनसा च गृह्यमाणः 'देवि, किं ब्रवीमि । बहुभाषिणे न श्रद्दधाति लोकः । स्मर्तव्योऽस्मि परिजनकथासु' इत्यभिधाय कन्यकान्तःपुरान्निर्जगाम । कादम्बरीऽशेषः कन्यका - *********** विलोचने नेत्रे यस्य स तेनैवंविधां कादम्बरी च । समुपसृत्य निकटे गत्वा कृतो नमस्कारो येनैवंभूतो यस्यां सा समुपविष्टास्ति तस्यामेव वेदिकायां विन्यस्तं स्थापितमासनं विष्टरं भेजेऽभजत् । तत्र कंचित्कालं स्थित्वा स्थितिं विधाय महाश्वेताया वदनं विलोक्य निरीक्ष्य स्फुरितं चलितं कपोलयोरुदरं मध्यप्रदेशो यस्मिनेतादृशं मन्दस्मितमीषद्धास्यमकरोत् । असौ महाश्वेता तु तावतैव स्मितमात्रेणैव विदितो ज्ञातोऽभिप्रायो यया सैवंविधा सती कादम्बरीमित्यब्रवीत् । इतिशब्दद्योत्यमाह - सखीति । हे सखि आलि, भवत्या गुणैः कारणभूतैश्चन्द्रापीडश्चन्द्रमयूखैः शशिकिरणैश्चन्द्रकान्त इव चन्द्रोपल इवार्टीकृतो वक्तुं कथयितुं न शक्नोति न समर्थो भवति । खलु निश्चयेन कुमारो जिगमिषति विचलिष्यति । पृष्ठतो मद्गमनानन्तरमविदितवृत्तान्तमज्ञातोदन्तमतएव दुःखं दुःखिंतराजचक्र नृपसमूह आस्ते वर्तते । अपि चेति युक्त्यन्तरे । युवयोः कादम्बरीचन्द्रापीडयो(रस्थितयोरपीदानीं सांप्रतं कमलिनीकमलबान्धवयोरिव पद्मिनीसूर्ययोरिव कुमुदिनीकुमुदनाथयोरिव कैरविणीचन्द्रमसोरिव प्रीतिः स्नेह आ प्रलयात्प्रलयं मर्यादीकृत्य आकल्पान्तादियं स्थिता । अतो हेतोर्भवत्यभ्यनुजानातु । गमनाज्ञां ददात्वित्यर्थः । अथेति । एतच्छ्रवणानन्तरं कादम्बरी गन्धर्वकुमारानाहूयाह्वानं कृत्वेत्यादिदेशेत्यादिष्टवती । इतिशब्दवाच्यमाह - कुमारेति । कुमार चन्द्रापीडं स्वां भूमिं प्रापयत आपयत यूयम् । किं कृत्वा । इत्यभिधायेत्युक्त्वा । इतिशब्दार्थमाह - हे सखि महाश्वेते, अयं मल्लक्षणः सपरिवारो जनः कुमारस्य स्वान्तरात्मेव स्वाधीनः स्ववशः । अतः कोऽत्रानुरोधः संकोचः । चन्द्रापीडोऽप्युत्थायोत्थानं कृत्वा प्रथममादौ महाश्वेतां प्रणम्य नमस्कृत्य ततस्तदनन्तरं कादम्बरी प्रणम्य नमस्कृत्य तस्याः कादम्बर्याः प्रेमस्निग्धेन स्नेहचिक्कणेन चक्षुषा नेत्रेण मनसा च गृह्यमाण इत्यभिधायोक्त्वा कन्यकान्तःपुरान्निर्जगाम निर्गतो बभूव । इतिशब्दार्थमाह - देवीति । हे देवि कादम्बरि, किं ब्रवीमि किं कथयामि । 'ब्रुवते हि फलेन साधवो न तु शब्देन' इति न्यायात् । अत्र हेतुमाह-यतो बहुभाषिणे वाचालाय लोको जनो न श्रद्दधाति न विश्वसिति । अत उपसंहरति - परीति । परिजनकथासु निजसेवकवार्तासु स्मर्तव्यः स्मरणीयोऽस्मि । अहमिति शेषः । तदन्तरं कादम्बरी - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 गन्तुमिच्छति । 2 राजचक्र दुःखमास्ते दुःखाकुलं यथा स्यात्तथा वर्तते । 3 वशीक्रियमाण इत्यर्थः । पाठा० - १ सुधावेदिकायाम्. २ अनुजानातु. ३ सखि स्वाधीनः. ४ वर्जमशेषकन्यकाजनः; वर्जमशेषस्तु कन्याजनः. 428 कादम्बरी । कथायाम् Page #442 -------------------------------------------------------------------------- ________________ जो गुणगौरवाकृष्टः परवश इव तं व्रजन्तमाबहिस्तोरणादनुवव्राज । निवृत्ते च कन्यकाजने केयूरकेणोपनीतं वाजिनमारुह्य गन्धर्वकुमारकैस्तैरनुगम्यमानो हेमकूटाट्प्रवृत्तो गन्तुम् । गच्छतश्चास्य चित्ररथतनया न केवलमन्तः, 1 बहिरप सैव सर्वाशानिबन्धनमासीत् । तथा हि तन्मयेन मानसेनासह्यविरहदुःखानुशयलग्नामिव पृष्ठतः, कृतमार्गगमननिरोधामिव पुरस्तात्, वियोगाकुलहृदयोत्कलिकोवेशात्क्षिप्तामिव नभसि सम्यगालोकयितुं वदनम्, विरहातुरमानसामिवास्थितामुरःस्थले, तामेव ददर्श । क्रमेण च प्राप्य महाश्वेताश्रममच्छोदसरस्तीरे संनिविष्टमिन्द्रायुधखुरपुटानुसारेणैवागतमात्मस्कन्धावारमपश्यत् । निवर्तिताशेषगन्धर्वकुमारश्च सानन्देन सकुतूहलेन सविस्मयेन च स्कन्धावारवर्तिना जनेन प्रणम्यमानः स्वभवनं विवेश । समानिताशेषराजलोकश्च वैशम्पायनेन पत्रलेखया च सह ' एवं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः, ' इत्यनयैव कथया प्रायो दिवसमनैषीत् । कादम्बरीरूपदर्शनविद्विष्टेव नास्य पूरे प्रीतिमकरोद्राजलक्ष्मीः । तामेव च - वर्जोऽशेषः समग्रः कन्यकाजनो गुणगौरवेणाकृष्ट आकर्षितः परवश इव परायत्त इव तं चन्द्रापीडं व्रजन्तं गच्छन्तमाबहिस्तोरणाद्बहिर्द्वारं मर्यादी कृत्यानुवब्राज पृष्ठतो जगाम । तदनन्तरं निवृत्ते च पश्चाद्वलिते च कन्यकाजने केयूरकेणोपनीतमानीतं वाजिनमारुह्यारोहणं कृत्वा तैः पूर्वोक्तैर्गन्धर्वकुमारकैरनुगम्यमानो हेमकूटाद्गन्तुं प्रवृत्तः । गच्छतो व्रजतोऽस्य चन्द्रापीडस्य चित्ररथतनया कादम्बरी न केवलमन्तर्बहिरपि सैव कादम्बरी सर्वाशानिबन्धनं समग्राभिलाषाणां कारणमासीद्बभूव । एतदेव दर्शयति - तथा हीति । तन्मयेन कादम्बरीमयेन मानसेन चित्तेन कृत्वासह्यं न सोढुं शक्यं यद्विरहदुःखं तस्यानुशयः संतापस्तेन पृष्ठतो लग्नामिव पुरस्तादग्रे कृतो मार्गगमनस्य निरोधो यया सैवंविधामिव, वियोगेन विरहेणाकुलं यद्धृदयं चित्तं तस्मिन्नुत्कलिका हृल्लेखस्तस्या आवेशात्प्रवेशात्सम्यग्वदनमालोकयितुं वीक्षितुं भ व्योम्नि क्षिप्तामिव पर्यस्तामिव । विरहेण वियोगेनातुरं पीडयितुं ( पीडितम् ) मानसं यस्या एवंविधामिवोरःस्थलेऽवस्थिताम् । तामेव कादम्बरीमेव ददर्शेक्षांचक्रे । क्रमेण परिपाट्या च महाश्वेताश्रमं प्राप्यासाद्याच्छोदसरस्तीरे संनिविष्टं स्थापितमिन्द्रायुधखुपुटानुसारेणैवागतं प्राप्तमात्मनः स्वस्य स्कन्धावारं सैन्यनिवेशमपश्यदैक्षत । निवर्तितेति । निवर्तिताः पश्चाद्वलिताअशेषाः समग्रा गन्धर्वकुमारा येनैवंभूतश्च सानन्देन सप्रमोदेन । सैव प्रभुदर्शनादिति भावः । सकुतूहलेन कौतुकसहितेन । अत्यद्भुतगन्धर्वजनदर्शनात् । सविस्मयेन साश्चर्येण । तादृशमुक्ताप्रालम्बदर्शनात् । एवंविधेन च स्कन्धावारवर्तिना जनेन प्रणम्यमानो नमस्क्रियमाणः स्वभवनं स्वगृहं विवेश प्रवेशं कृतवान् । संमानितः संस्तुतोऽशेषः समग्रो राजलोको येनैवंभूतश्च वैशम्पायनेन पत्रलेखया च सहैवं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः, इत्यनयैव कथया वार्तया प्रायो बाहुल्येन दिवसं वासरमनैषीत् । परिपूर्णीचकारेत्यर्थः । कादम्बर्या रूपदर्शनं तेन विद्विष्टेव विद्वेषं प्राप्तेव राजलक्ष्मीर्नास्य पुरेऽस्य - टिप्प० - 1 गमनस्य पश्चात् यद्वियोगदुःखं तस्यानुशयात्पृष्ठतो लग्नाम् (इति पृष्ठनिरोधः पृथक् ), तन्मयेन मानसेन कृताग्रगमननिरोधाम् (इति संमुखतो निरोधः पृथक्), तन्मयमानसेन उत्कण्ठावेशात् नभसि क्षिप्तामिव (इति उपरितोनिरोधः पृथक् ), आत्मनः (कादम्बर्याः) मुखं सम्यग् दर्शयितुं आत्मनो वक्षसि स्थिताम् (पृथक्) । 2 बाणशब्दशय्यायां 'पुर' शब्दस्य शरीरमर्थः स्यात् ? अस्तु 'पुरेव' इत्युचितः पाठः । राजलक्ष्मीः पुरेव पूर्वमिव नास्य प्रीतिमकरोत्, कादम्बरीद्वेषात् । एतेन राजलक्ष्म्याः सपत्नीभावसूचनेन चन्द्रापीडस्य प्रभावातिशयो ध्वन्यते । पाठा० - १ अधिरुह्य. २ आवेशोत्क्षिप्ताम्; आवेशविक्षिप्ताम्. ३ तामेव मृगलोचनाम् ४ संभावितप्रत्यक्षीकृतराजलोकः, संमानितराजलोकः. ५ द्विष्टयेव. चन्द्रापीडस्य गृहप्रस्थानम् पूर्वभागः । 429 Page #443 -------------------------------------------------------------------------- ________________ धवलेक्षणामाबद्धरणरणकेन चेतसा चिन्तयतो जाग्रत एवास्य जगाम रात्रिः । अपरेद्युश्च समुत्थिते भगवति रवावास्थानमण्डपगतस्तद्गतेनैव मनसा सहसैव प्रतीहारेण सह संप्रविशन्तं केयूरकं ददर्श । दूरादेव च क्षितितलस्पर्शिना मौलिना कृतपादपतनम् 'एह्येहि' इत्युक्त्वा प्रथममपाङ्गविसर्पिणा चक्षुषा, ततो हृदयेन, ततो रोमोद्गमेन, पश्चाद्धजाभ्यां प्रधावितः पैथि तर्मोलिलिङ्ग गाढम् । उपावेशयच्चैनमात्मनः समीप एव । पप्रच्छ च स्मितसुधाधवलीकृताक्षरं क्षरत्प्रीतिद्रवमयमिव वचनमादृतः - 'केयूरक, कथय कुशलिनी देवी ससखीजना सपरिजना कादम्बरी भगवती महाश्वेता च ?' इति । असौ तु तेन राजसूनोः प्रीतिप्रकर्षजन्मना स्मितेनैव स्नपित इवानुलिप्त इव सद्य एवापगताध्वखेदः प्रणम्यादृततरमवोचत् - 'अद्य कुशलिनी, यामेवं देवः पृच्छति ।' इत्यभिधायापनीर्यार्द्रवस्त्रावगुण्ठितं बिससूत्रसंयतमुखमार्द्रचन्दनपङ्कन्यस्तबालमृणालवलयमुद्रं नलिनीपत्रपुटमदर्शयत् । उद्घाट्य च तत्र कादम्बरीप्रहितान्यभिज्ञानान्यदर्शयत् । तद्यथा - मरकतहरिन्ति व्यपनीतत्वञ्चि चारुमञ्जरीभाञ्जि क्षीरीणि पूगीफलानि, शुककामिनीकपोलपाण्डूनि ताम्बूलीदलानि, हरचन्द्रखण्डस्थूलशकलं च कर्पूरम्, अतिबहल - *********** शरीरे । 'घनो बन्धः पुरं पिण्डः' इति कोशः । प्रीतिमकरोत् । तामेव धवलेक्षणां कादम्बरीमाबद्धरणरणकेन निबद्धौत्कण्ठ्येन चेतसा चिन्तयतो ध्यायतो जाग्रत एव अस्य चन्द्रापीडस्य रात्रिर्जगाम । अपरेद्युश्चेति । अपरस्मिन्दिने भगवति रवौ समुत्थिते सति तद्गतेनैव कादम्बरीगतेनैव मनसास्थानमण्डपगतः सहसैवातर्कित एव प्रतीहारेण सह संप्रविशन्तं केयूरकं ददर्शाद्राक्षीत् । दूरादेवेति । दूरादेव दर्शनमात्रादेव क्षितितलं स्पृशतीत्येवंशीलेन मौलिना मस्तकेन कृतं पादपतनं येन तम्, एह्येहीत्युक्त्वेत्यभिधाय । इदं प्रीत्यतिशयनिवेदकम् । प्रथममादावपाङ्गविसर्पिणा नेत्रप्रान्तचारिणा चक्षुषा नेत्रेण ततस्तदनन्तरं हृदयेन स्वान्तेन, ततस्तदनन्तरं रोमोद्गमेन रोमाञ्चोद्भवेन, ततः पश्चाद्भुजाभ्यां बाहुभ्यां प्रधावित उच्चलितः प्रथितं विख्यातं गाढमत्यर्थमालिलिङ्गोपगूहितवान् । एनं केयूरकं आत्मनः समीप एव आत्मीयासनाभ्यर्ण एवोपावेशयदस्थापयच्च । पुनः स्मितसुधाधवलीकृतान्यक्षराणि यस्मिंस्तत्क्षरत्स्त्रवद्यः प्रीतिद्रवस्तन्मयमिव तन्निर्मितमिवैतादृशं वचनमादृत आदरवान्पप्रच्छ । प्रश्नं चकारेत्यर्थः । किं तदित्याह - केयूरकेति । हे केयूरक, कथय ब्रूहि । कुशलिनी क्षेमवती देवी ससखीजना सपरिजना कादम्बरी वर्तते । तथा महाश्वेता भगवती । च । असौ त्विति । असौ केयूरकस्तु तेनानिर्वचनीयेन राजसूनोश्चन्द्रापीडस्य प्रीत्याः प्रकर्षस्तस्माज्जन्मोत्पत्तिर्यस्यैवंभूतेन स्मितेनैव स्नपित इव स्नानं कारित इव, अनुलिप्त एव विलिप्त इव सद्य एव तत्कालमेवापगतोऽध्वखेदः पथ (थि) श्रमो यस्य स प्रणम्य नमस्कृत्यादृततरमत्यादरपूर्वकमवोचदब्रवीत् । अद्य कुशलिनी सा वर्तते, यामेवं देवः पृच्छतीत्यभिधायेत्युक्त्वापनीय दूरीकृत्यार्द्रवस्त्रेण स्तिमितांशुकेनावगुण्ठितमाच्छादितं बिससूत्रेण मृणालतन्तुना संयतं बद्धं मुखं यस्य तत् । आर्द्रचन्दनपङ्को न्यस्तो यस्मिन्नेतादृशं बालमृणालवलयं नवीनतन्तुलकटकं तस्य मुद्रा यस्मिन्नेतादृशं नलिनीपत्रपुटमदर्शयदीक्षणविषयमकारयत् । उद्घाट्योन्मुद्य तत्र तस्मिन्कादम्बरीप्रहितानि राजपुत्रीप्रेषितान्यभिज्ञानानि चिह्नान्यदर्शयदवलोकनमकारयत् । तदेव दर्शयति - तद्यथेति । मरकतमश्मगर्भं तद्वद्धरिन्ति नीलानि व्यपनीतत्वञ्चि दूरीकृतत्वग्भागानि चार्वी या मञ्जरी तद्भाञ्जि क्षीण क्षीरयुक्तान्येतादृशानि पूगीफलानि क्रमुकफलानि । तथा शुककामिनी कीरपत्नी तस्याः कपोलौ तद्वत्पाण्डूनि श्वेतानि ताम्बूटिप्प० - 1 आर्द्रे चन्दनपङ्के न्यस्ता बाणमृणालवलयस्य मुद्रा (चिह्नम्, अन्यो नोद्घाटयितुं शक्नुयादिति) यस्मिन् तदित्यर्थः । पाटा० - १ सा. २ प्रविशन्तम् ३ निभृतम्: प्रसृतम् ४ तमालिलिङ्ग ५ समुपावेशयत्. ६ वस्त्रकर्पट. 430 कादम्बरी | कथायाम् Page #444 -------------------------------------------------------------------------- ________________ मृगमदामोदमनोहरं च मलयजविलेपनम् । अब्रवीच्च - 'चूडामणिचुम्बिना कोमलाङ्गुलिविनिर्गतलोहितांशुजालेनाजलिना देवमर्चयति देवी कादम्बरी, महाश्वेता च सकण्ठग्रहेण कुशलवचसा, पर्यस्तशिखण्डमाणिक्यज्योत्स्नास्नपितललाटेन च नमस्कारेण मदलेखा, क्षितितलघटितसीमन्तकरिकाकोटिकोणेन सकलकन्यालोकश्च, सचरणरजःस्पर्शेन च पादप्रणामेन तमालिका । संदिष्टं च तव महाश्वेतया - 'धन्याखलु ते येषां न गतोऽसि चक्षुषोरेविषयम् । तथा नाम समक्षं भवतस्ते तुहिनशीतलाश्चन्द्रमया इव गुणा विरहे विवस्वन्मया इव वृत्ताः । स्पृहयन्ति खलु जनाः कथमपि दैवोपपादितायामृतोत्पत्तिवासरायेवातीतदिवसाय । त्वया वियुक्तं निवृत्तमहोत्सवालसमिव वर्तते गन्धर्वराजनगरम् । जानासि च मां कृतसकलपरित्यागाम्, तथाप्यकारणपक्षपातिनं भवन्तं द्रष्टुमिच्छत्यनिच्छन्त्या अपि मे बलादिव हृदयम् । अपि च बलवदस्वस्थशरीरा कादम्बरी । स्मरति च स्मेराननं स्मरकल्पं त्वाम् । अतःपुनरा - *********** लीदलानि नागवल्लीपत्राणि । तथा हरस्येश्वरस्य यश्चन्द्रखण्डस्तद्वत्स्थूलं शकलं खण्डं यस्यैतादृशं कर्पूरं हिमवालुका । तथातिबहलोऽतिनिबिडो यो मृगमदामोदः कस्तूरीपरिमलस्तेन मनोहरं रुचिरं यन्मलयजविलेपनं चन्दनाङ्गरागः । एतद्दर्शनानन्तरमब्रवीदवोचत् । चकारः समुच्चयार्थः । कादम्बरी देव्यञ्जलिना बद्धपाणिपुटेन देवं भगवन्तमर्चयति पूजयति । अथाञ्जलिं विशिनष्टि - चूडेति । चूडामणिः शिरोमणिस्तच्चुम्बिना तत्पर्शिना कोमलाङ्गुलिभ्यो मृदुकरशाखाभ्यो विनिर्गमो यस्यैवंभूतं लोहितं रक्तमंशुजालं किरणसमूहो यस्मिन्स तेन । महाश्वेता च सकण्ठग्रहेण निगरणसहितेन कुशलवचसा मङ्गलवाक्येन देवमर्चयतीत्यस्य सर्वत्र संबन्धः । तथा मदलेखा नमस्कारेण प्रणामेन । कीदृशेन । पर्यस्तेति । पर्यस्तं पतितं यच्छिखण्डमाणिक्यं शिखारत्नं तस्य ज्योत्स्ना कान्तिस्तया स्नपितं क्षालितं ललाटमलिक यस्मिन्स तेन । सकलकन्यालोकश्च क्षितितले घटितो लग्नः सीमन्तः केशवेशवम॑ तस्य मकरिकाभरणविशेषस्तस्याः कोटेरग्रभागस्य कोणोऽश्रिर्यस्मिन्नेवंविधेन चरणरजःस्पर्शेन सहवर्तमानेन पादप्रणामेन तमालिका । तथा तव महाश्वेतया संदिष्टं कथितं वर्तते । तदेव दर्शयति - धन्या इति । खलु निश्चयेन । ते धन्या जनाः यत्तदोर्नित्याभिसंबन्धादाह - येषामिति । येषां नृणां चक्षुषोनॆत्रयोरविषयमगोचरं न गतोऽसि । तथा नाम भवतः समक्षं तत्प्रत्यक्षं ते तव गुणा औदार्यादयस्तुहिनं हिमं तद्वच्छीतलाः सुशीताश्चन्द्रमया इव विरहे त्वद्वियोगे विवस्वन्मया इव दाहजनकत्वात्सूर्यमया इव वृत्ताः संपन्नाः । एतेन विरहाधिक्यं सूचितम् । खलु निश्चयेन जनास्तनगरनिवासिनो लोकाः कथमपि महता कष्टेन देवेन भाग्येनोपपादिताय विहितायामृतोत्पत्तिवासरायेव । यद्दिनेऽमृतं समुत्पन्न समुद्रादहिर्निर्गतं तस्मिन्दिने त्रिभुवन आनन्दः समभूत् । अतोऽमृतोत्पत्तिवासरोपमानम् । अतीतदिवसाय पूर्वं यद्दिने त्वया सह संबन्धःसमभूत्तद्वासराय स्पृहयन्ति वाञ्छयन्ति । त्वया वियुक्तं विरहितं, निवृत्तो दूरीभूतो यो महोतसवः क्षणस्तेनालसमिवालस्योपेतमिव गन्धर्वराजनगरं वर्तते समस्ति । कृत इति । कृतो विहितः सकलवस्तुनः परित्यागो ययैवंविधा मां महाश्वेतां च त्वं जानासि, तथाप्यकारणेनानिमित्तेन पक्षपातिनं साहाय्यकारिणं भवन्तं त्वां द्रष्टुं वीक्षितुमनिच्छन्त्या अप्यवाञ्छन्त्या अपि मे मम हृदयं बलादिव हठादिवेच्छति स्पृहयति । अपि चेति हेत्वन्तरे । बलवदतिशयेनास्वस्थं पीडायुक्तं शरीरं देहो यस्याः सैवंविधा कादम्बरी स्मेराननं विनिद्रमुखं - - - - - - टिप्प० - 1 येषां नेत्रयोर्गोचरं न गतोसि त एव धन्याः, येषां गतोसि ते तु तव वियोगेन तप्यन्त इत्यर्थः । - - - - - - - - - - - - - - - - - - - पाठा०.१ विवरविनिर्गत. २ विषयम्. ३ संवृत्ताः. ४ विनिवृत्त. ५ महोत्सवानन्दम्. कादम्बर्याः संवादप्रेषणम । पूर्वभागः।। 431 Page #445 -------------------------------------------------------------------------- ________________ गमनगौरवेणार्हसीमा गुणवदभिमानिनी कर्तुम् । उदारजनादरो हि बहुमानमारोपयत्यवश्यम् । सोढव्या चेयमस्मद्विधजनपरिचयकदर्थना कुमारेण । भवत्सुजनतैव जनयत्यनुचितसंदेशप्रागल्भ्यम् । एष देवस्य शयनीये विस्मृतः शेषो हारः' इत्युत्तरीयपटान्तसंयतं सूक्ष्मसूत्रविवरनिःसृतैरंशुसंतानैः संसूच्यमानं विमुच्य चामरग्राहिण्याः करे समर्पितवान् । अथ चन्द्रापीडः ‘महाश्वेताचरणाराधनतपःफलमिदं यदेवं परिजनेऽप्यनुस्मरणादिकं प्रसादभारमतिमहान्तमारोपयति देवी कादम्बरी' इत्युक्त्वा तत्सर्वं शिरसि कृत्वा स्वयमेव जग्राह । तेन च कादम्बर्याः कपोललावण्येनेव गलितेन, स्मितालोकेनेव रसतामुपनीतेन, हृदयेनेव द्रुतेन, गुणगणेनेव विस्यन्दितेन, स्पर्शवता ह्लादिना सुरभिणा च विलेपनेन विलिप्य तमेव कण्ठे हारमकरोत् । आगृहीतताम्बूलश्च मुहूर्तादिवोत्थाय वामबाहुना स्कन्धदेशेऽवलम्ब्य केयूरकमूर्ध्वस्थित एव कृतयथाक्रियमाणसंमानमुदितं प्रधानराजलोकं विसृज्य शनैः - *********** स्मरकल्पं कंदर्पतुल्यं त्वां स्मरति गोचरीकरोति अतो हेतोः पुनर्द्धितीयवारं यदागमनगौरवं तेन कृत्वेमां कादम्बरी गुणवत्स्वभिमानो विद्यते यस्या एवंविधां कर्तुमर्हसि योग्यो भवसि । हि निश्चितम् । उदारजनेष्वादरोऽवश्यं बहुमानं सत्कारमारोपयति । इयमस्मद्विधजनपरिचयजनिता या कदर्थना संकोचलक्षणा सा च कुमारेण सोढव्या सहनीया । सदेशानौचित्यदोषं परिहरन्नाह - भवदिति । भवतस्तव सुजनतैव सज्जनतैवानुचितोऽयोग्यो यः संदेशस्तत्र प्रागल्भ्यं पाण्डित्यं जनयति निष्पादयति । एष देवस्य शयनीये शय्यायां विस्मृतो विस्मरणं प्राप्तः शेषाभिधानो हार इत्युत्तरीयपटः संव्यानपटस्तस्यान्तेन प्रान्ताञ्चलेन संयतं बद्धं सूक्ष्मं यत्सूत्रं तेषां विवराणि रोकाणि तेभ्यो निःसृतैर्विनिर्गतैरंशुसंतानैः किरणसमूहैः संसूच्यमानमभिव्यज्यमानं चामरग्राहिण्याः करे विमुच्य समर्पितवान्प्रदत्तवान् । __ अथेति । हारप्रदानानन्तरं चन्द्रापीडस्तत्पूर्वप्रतिपादितं सर्वं शिरसि कृत्वा मस्तक आरोग्य स्वयमेवात्मनैव जग्राह गृहीतवान् । इतिशब्दार्थमाह - महाश्वेतेति । इदं महाश्वेतायाश्चरणयोराराधनं सेवनं तल्लक्षणं यत्तपस्तस्य फलं तस्माद्धेतोरेवममुना प्रकारेण परिजनेऽपि सत्यप्यनुस्मरणादिकमतिमहान्तं प्रसादभारमारोपयति देवी कादम्बरी । इत्युक्त्वेत्यभिधाय तत्पूर्वोक्तं शिरसि कृत्वा मस्तक आरोग्य जग्राह गृहीतवान् । तेनेति । तेनानिर्वचनीयस्वरूपेण स्पर्शवता ह्लादिना प्रमोदकारिणा सुरभिणा सुगन्धेन विलेपनेन विलिप्य कण्ठे तमेव हारमकरोदघटयत् । अथ श्वेतत्वसाम्याद्विलेपनमुत्प्रेक्षयन्नाह - कादम्बर्या इति । कादम्बर्या गलितेन च्युतेन कपोललावण्येन । (इव) च, तथा रसतामुपनीतेन द्रवतां प्रापितेन स्मितालोकेनेवादृष्टरदहास्यप्रकाशेनेव, द्रुतेन विलीनेन हृदयेनेव चित्तेनेव, विस्यन्दितेन प्रसवितेन गुणगणेनेव । अन्वयस्तु प्रागेवोक्तः । आगृहीतेति । आगृहीतं ताम्बूलं येन स तथा मुहूर्तादिवोत्थाय वामबाहुना केयूरकं स्कन्धदेशेऽवलम्ब्यालम्बनं विधायोर्ध्वस्थित एव कृतं विहितं यथाक्रियमाणं पूर्वपरम्परया विधीयमानं संमानं तेन मुदितं हर्षितमेवंविधं प्रधान प्रकृष्टं राजलोकं सामन्तादिसेवकवर्ग विसृज्य गृहे गम्यतामित्युक्त्वा शनैः शनैर्मन्दं मन्दं गन्धमादननामानं - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 आत्मानं गुणवन्तमभिमन्यते सा, चन्द्रापीडसदृशोपि ममान्तिकमागच्छतीति गुणवत्यहमित्यात्मन्यभिमान इत्याशयः । 2 अस्मद्विधानां गुणशून्यजनानां परिचयेन या कदर्थना (आत्मनोऽवमानः) सा सौजन्यवशात्कुमारेण सोढव्येत्यर्थः । 3 अनुपविष्ट एव, 'दण्डायमान एव' । पाटा० - १ हारः प्रहितः. २ अवलोकेन. ३ निःस्पन्दितेन. ४ समवलम्ब्य. 432 कादम्बरी । कथायाम् Page #446 -------------------------------------------------------------------------- ________________ शनैर्गन्धमादनं करिणं द्रष्टुमयासीत् । तत्र च स्थित्वा क्षणमिव तस्मै स्वयमेव निजनखांशुजालजटिल समृणालमिव शष्पकवलमवकीर्य वल्लभतुरगमन्दुराभिमुखः प्रतस्थे । गच्छंश्चोभयतः किंचित्किंचिदिव तिर्यग्वलितवदनः परिजनं विलोकयांबभूव । अथ चित्तज्ञैः प्रतीहारैः प्रतिषिद्धानगमने निखिले समत्सारिते परिजने केयरकद्वितीय एव मन्दरां प्रविवेश । उत्सारणभयसंभ्रान्तलोचनेषु प्रणम्यापसृतेषु मन्दुरापालेषु, इन्द्रायुधपृष्ठावगुण्ठनपटं किंचिदेकपाधै गलितं समीकुर्वनुत्सारयश्च कूणितनेत्रत्रिभागस्य दृष्टिनिरोधिनी कुङ्कुमकपिलां केसरसटां खुरधारणीविन्यस्तचरणो लीलामन्दं मन्दुरादारुदत्तदेहभरः सकुतूहलमुवाच - ‘केयूरक, कथय मनिर्गमादारभ्य को वा वृत्तान्तो गन्धर्वराजकुले, केन वा व्यापारेणावसरमतिनीतवती गन्धर्वराजपुत्री, किं वाकरोन्महाश्वेता, किमभाषत वा मदलेखा, के वाऽभवनालापाः, परिजनस्य भवता वा को व्यापार आसीत्, आसीद्धा काचिदस्मदाश्रयिणी कथा । केयूरकस्तु सर्वमाचचक्षे - 'देव, श्रूयताम् । निर्गते त्वयि हृदयसहसप्रयाणपटहकलकलमिव नूपुरनैवक्वणितेन कन्यकान्तःपुरे कुर्वन्ती देवी कादम्बरी सपरिजना सौधशिखरमारुह्य - *********** करिणं हस्तिनं द्रष्टुमीक्षितुमयासीदगमत् । तत्र चेति । गन्धमादनसमीपे क्षणमिव समयसदृशं स्थित्वा तस्मै हस्तिने स्वमेवात्मनैव निजमात्मीयं यत्रखानामशुजाल किरणपटलं तेन जटिलं व्याप्तम् । पाटलत्वसाम्यादाह - समृणालमिव बिसैः सहवर्तमानमिव शष्पकवलं तृणगुडेरकमवकीर्य पुरोऽवक्षिप्य वल्लभः प्रियो यस्तुरगोऽश्वस्तस्य मन्दुरा वाजिशाला तस्या अभिमुखः संमुखः प्रतस्थे चचाल । गच्छश्च 'ब्रजचोभयतो द्वयोः पार्श्वयोः किंचित्तिर्यक् साचि विवलितं वदनं यस्य सः । परिजनं परिच्छदलोक विलोकयांबभूवेक्षांचक्रे । अथेति । तन्निकटगमनानन्तरं चित्तज्ञैः प्रभोरभिप्रायविद्भिः प्रतीहारैर्द्वारपालैः प्रतिषिद्धं निवारितमनुगमनमनुयानं यस्यैवविधे निखिले समग्रे परिजने सेवकजने समुत्सारिते दूरीकृते सति केयूरक एव द्वितीयो यस्यैवंभूतश्चन्द्रापीडो मन्दुरा वाजिशाला प्रविवेश प्रवेशं चकार । उत्सारणं दूरीकरणं तस्माद्यद्भयं तेन संभ्रान्तानि त्रस्तानि लोचनानि येषां तेषु मन्दुरापालेषु प्रणम्यापसृतेषु दूरीभूतेषु सत्सु, इन्द्रायुधपृष्ठस्यावगुण्ठनपटमाच्छादनवस्त्रं किंचिदेकपाधै गलितं सस्तं समीकुर्वन्स्वस्थाने नयन्कूणितनेत्रत्रिभागस्येन्द्रायुधस्य दृष्टिनिरोधिनी दृष्टिवाधाकारिणी कुङ्कुमवत्कपिला पिङ्गला केसरसटां स्कन्धकेशश्रेणीमुत्सारयश्चोच्चैःकुर्वन्खुरधारिण्यां खुरबन्धनशङ्को विन्यस्तौ स्थापितो चरणौ येन सः लीलामन्दं यथा स्यात्तथा मन्दुरादारौ दत्तो देहभरो येन सः । सकुतूहलं सकौतुकं यथा स्यात्तथोवाचाब्रवीत् । हे केयूरक, कथय ब्रूहि मनिर्गमान्मदीयचलनादारभ्य गन्धर्वराजकुले को वा वृत्तान्त उदन्तः । केन व्यापारेणावसरं समयं गन्धर्वराजपुत्री कादम्बयंतिनीतवत्यतिक्रान्तवती । किं वा महाश्वेताकरोदन्वतिष्ठत् । वेति विकल्पार्थः सर्वत्र । मदलेखा किमभाषत किमवोचत् । के वालापा वचनव्यापारा अभवन् । परिजनस्य परिच्छदस्य भवतो वा को व्यापारो व्याकृ(पृ)तिरासीदभवत् । काचिदस्मदाश्रयिणी कथा यातासीत् । केयूरकस्तु सर्वं प्राणविषयीकृतमाचचक्षे कथयामास । देवेति । हे देव, श्रूयतामाकर्ण्यताम् । त्वयि निर्गते चरिते सति नपुराणा पादकटकानां नवक्वणितेनाभिनवशब्दितेन हृदयानां सहसाणि तेषां प्रयाणं प्रस्थानं तत्र यः पटहस्य कलकलः कोलाहलस्ताभव कन्यकान्तःपुरे कुर्वन्ती सृजन्ती देवी कादम्बरो सपरिजना सपरि - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -- - -- - - टिप्प० - 1 'कुर्वति' इति सप्तम्यन्त एव पाटः । कन्यकान्तःपुरे नूपुरनवक्वाणतेन हृदयसहसाणा यत्प्रयाणम् (गृह प्रत्यागच्छता त्वया सह प्रस्थानम् तस्य पटहकलकलमिव कुर्वति सति । नपुरशब्दा नासन्, मन्ये त्वया सह प्रस्थितानां कन्यकाहृदयसहसाणां प्रयाणे पटहध्वनय एवाभूवन्नित्याशयः । पाटा० - १ तुरङ्गम्. २ इन्द्रायुधस्य. ३ पार्श्व. ४ खुरवारणी; खुरधोरणी. ५ वासरम्. ६ चक्रक्वणितेन. ७ कुर्वति. कादम्बरीविषयकः प्रश्नः पर्वभागः । 433 Page #447 -------------------------------------------------------------------------- ________________ I तुरगधूलिरेखा धूसरं देवस्यैव गमनमार्गमालोकितवती । तिरोहितदर्शने च देवे मदलेखास्कन्धनिक्षिप्तमुखी प्रीत्या तं दिगन्तं दुग्धोदधिधवलैः प्लावयन्तीव दृष्टिपातैः सितातपत्रापदेशेन शशिनेर्ष्यया निवार्यमाणरविकिरणस्पर्शा सुचिरं तत्रैव स्थितवती । तस्माच्च कथमपि सखेदमवतीर्य क्षणमिवावेस्थानमण्डपे स्थित्वोत्थाय स्खलनभियेव निवेद्यमानोपहारकुसुमशब्दायमानैर्मधुकरैः, जलधाराधवलनखमयूखोन्मुखानामनुगलं गलद्भिर्वलयैः कण्ठबन्धानिवोपपादयन्ती केकारवोद्विग्ना भवनशिखण्डिनाम्, पदे पदे च कुसुमधवलान्करेण लैतापल्लवान्मनसा च देवस्य गुणगणानवलम्बमाना तमेव क्रीडापर्वतकमागतवती यत्र स्थितवान्देवः । तमुपेत्य च 'देवेनात्र मरकतशिलामकरिकाप्रणालप्रसवणसिच्यमानलैतामण्डपे सीकरिणि शिलातले स्थितम्, अत्र गन्धोदकपरिमललीनालिजालजटिलशिलाप्रदेशे स्नातम्, अत्र *********** च्छदा सौधशिखरं गृहाधित्यकामारुह्यारोहणं कृत्वा तुरगस्याश्वस्य धूलिरेखा रजः पङ्क्तिस्तया धूसरं मलिनं देवस्यैव भवत एव गमनमार्ग - मालोकितवती । तिरोहितमदृश्यीभूतं दर्शनं वीक्षणं यस्यैवंभूते चे देवे मदलेखायाः स्कन्धोंऽसस्तत्र निक्षिप्तं स्थापितं मुखमाननं यया सैवंविधा प्रीत्या स्नेहेन दुग्धोदधिः क्षीरोदधिस्तद्वद्धवलैः शुभ्रैर्दष्टिपातैस्तं दिगन्तं प्लावयन्तीव क्षालयन्तीव सितं शुभ्रं यच्चातपत्रं छत्र तस्यापदेशेन व्याजेन | शुक्लत्ववर्तुलत्वसाम्यादाह - शशीति । शशी चन्द्रस्तेनेर्ष्यया स्पर्धया निवार्यमाणो दूरीक्रियमाणो रविकिरणानां सूर्यकिरणानां स्पर्शो यस्याः सैवंभूता सती सुचिरं चिरकालं तत्रैव सौधशिखरे स्थितवत्यवस्थानं कृतवती । तस्माच्चसौधशिखरात्सखेदं यथा स्यात्तथावतीर्यावतरणं कृत्वा क्षणमिवावस्थानमण्डपे स्थित्वोत्थाय स्खलनभियेव पतनभयेनेवोपहारस्य कुसुमानि तेष्वासमन्ताच्छब्दायमानैः शब्दं कुर्वाणैर्मधुकरैर्भ्रमरैर्निवेद्यमानेव विज्ञप्तिविषयीक्रियमाणेव । जलधारावद्धवलानां शुभ्राणां नखमयूखानां पुनर्भवकान्तीनामुन्मुखानां संमुखानामनुगलं निगरणमनुलक्षीकृत्य गलद्भिः पतद्भिर्वलयैः कटकैः करणभूतैर्भवनशिखण्डिनां गृहमयूराणां केकारवेणोद्विग्नोद्वेगं प्राप्ता सती कण्ठबन्धानुपपादयन्तीव रचयन्तीव । करेण हस्तेन पदे पदे च कुसुमधवलान्पुष्पवच्छुभ्रांल्लतापल्लवान्चल्लीकिसलयान मनसा च देवस्य भवतो गुणगणान्गुणसमूहानवलम्बमानावलम्बनं कुर्वाणा तमेव पूर्वोक्तमेव क्रीडापर्वतकमागतवती । यत्रेति । यस्मिन्स्थले देवो भवान्पूर्वं स्थितवान् । तं क्रीडाचलमुपेत्यागत्य च, अत्र सीकरा विद्यन्ते यस्मिन्नेवंविधे शिलातले देवेन स्थितमासितम् । कीदृशे मरकतस्य शिला तस्या मकरिकाप्रणाली मकरमुखो जलमार्गस्तस्य प्रसवणेन सिच्यमानो लतामण्डपो यस्य ( यस्मिन्) तत्तस्मिन् | अत्रेति । अस्मिन्गन्धोदकस्य सुगन्धजलस्य यः परिमलस्तेन लीना लग्ना येऽलयो भ्रमरास्तैर्जटिलो व्याप्तः शिलाप्रदेशस्तस्मिन्स्नातं कृताप्लवम् । अत्रेति । अस्मिन्कुसुमानां धूल्या परागेण सिकतिले सिकतायुक्ते गिरिनदिकातटे 434 - - टिप्प० 1 सूर्येण सह चन्द्रस्य स्पर्धा 'त्वं कादम्बरीं यदि तापयेस्तर्ह्यहं त्वत्तापं निवार्य शीतलयेयम्' इति । अत एव सितातपत्रस्य तु व्याजमात्रं, शुक्लत्वप्रकाशशालित्वादिगुणैश्चन्द्र एव सः । अत एव तेन निवार्यमाणातपेत्यर्थः । छत्रस्यापह्नवात्कैतवापह्नुतिरलंकारः । 2 'निवेद्य मानोपहारकुसुमा' इत्युचितः पाटः । विरहविचित्ता सेयमुपहारकुसुमेषु स्खलिष्यतीति भयात् उपहारकुसुमोपरि शब्दायमानैर्मधुकरैः निवेद्यमानानि (स्वशब्देः सूच्यमानानि 'पुष्पाण्यत्र, न स्खलितव्यम्' इति) उपहारकुसुमानिं यस्यैः सा; इति तदर्थः । 3 भवद्विरहिता सा गृहशिखिनां दुःखिता भवतीति कष्टेषु वलययोजनेन तान्मूकीकर्तुमिच्छति परं वलयप्रदानसमये तस्या नखमयूखेषु जलधाराभ्रमेण तद्ग्रहणाय ते उन्मुखा भवन्ति । अत एव समर्पणसमय एव ते वलयास्तेषां कण्ठादधः पतन्ति इत्याशयः । नखमयूखेष्वित्यत्र भ्रान्तिमान् व्यङ्ग्यः । कण्ठबन्धानुपपादयन्तीवेत्युत्प्रेक्षा तु स्फुटैव । 4 धारयन्तीत्यर्थः । पाटा० १ करस्पशां. २ आस्थान. ३ अनुपलम्. ४ गृहलता. ५ हरितलता. कादम्बरी | कथायाम् Page #448 -------------------------------------------------------------------------- ________________ कुसुमधूलिसिकतिले गिरिनदिकातटे भगवानर्चितः शूलपाणिः, अत्र हेपितशशधररोचिषि स्फटिकशिलातले भुक्तम्, अत्र संक्रान्तचन्दनरसलाञ्छने मुक्ताशैलशिलापट्टे सुप्तम्' इति परिजनेन पुनरुक्तं निवेद्यमानानि देवस्यैव स्थानचिहानि पश्यन्ती क्षपितवती दिवसम् । दिवसावसाने च कथमपि महाश्वेताप्रयत्नादनभिमतमपि तस्मिन्नेव स्फटिकमणिशिलावेश्मन्याहारमकरोत् । अस्तमुपगते च भगवति, रवावुदिते चन्द्रमसि, तत्रैव कंचित्कालं स्थित्वा चन्द्रकान्तमयीव चन्द्रोदये प्रत्यार्दीकृततनुश्चन्द्रबिम्बप्रवेशभयेनेव करौ कपोलयोः कृत्वा किमपि चिन्तयन्ती मुकुलितेक्षणा क्षणमात्रं स्थित्वोत्थाय विमलनखनिपतितशशिप्रतिमाभरगुरूणीव कृच्छ्रादुत्क्षिपन्ती लीलामन्थरगमनपटूनि पदानि शय्यागृहमगात् । शयननिक्षिप्तगात्रयष्टिश्च ततःप्रभृति प्रबलया शिरोवेदनया विचेष्टमाना दारुणेन च दाहरूपिणा ज्वरेणाभिभूयमाना केनप्याधिना मङ्गलप्रदीपैः कुमुदाकरैश्चक्रवाकैश्च सार्धमनिमीलितलोचना दुःखदुःखेन क्षणदामनैषीत् । उषसि मामाहूय देवस्य वार्ताव्यतिकरोपालम्भाय सोपालम्भमादिष्टवती । *********** भगवाञ्शूलपाणिरर्चितः पूजितः । अत्रेति । अस्मिन्हेपिता लज्जिता शशधरस्य रोचिर्येन तस्मिन्स्फटिकशिलातले भुक्तम् । अत्रेति । अस्मिन्संक्रान्तः प्रतिबिम्बितो यश्चन्दनरसः स एव लाञ्छनं चिह्न यस्मिन्नेवंविधे मुक्ताशैलशिलापट्टे सुप्तमिति परिजनेन पार्श्ववर्तिसेवकलोकेन देवस्य भवत एव स्थानचिह्नानि । पुनरुक्तं पृथक्पृथनिवेदनादिति भावः । निवेद्यमानानि कथ्यमानानि पश्यन्ती विलोकयन्ती दिवसं वासरं क्षपितवती क्षयं नीतवती । दिवसावसाने च दिनप्रान्ते च कथमपि महता कष्टेन महाश्वेताप्रयत्नादनभिमतमप्यसमीहितमपि तस्मिन्नेव स्फटिकमणिशिलावेश्मन्याहारं भोजनमकरोदकल्पयत् । अस्तमिति । अस्तमुपगते प्राप्ते च भगवति माहात्म्यवति रवौ सूर्ये, चन्द्रमसि कुसुमबान्धव उदितं उदयं प्राप्ते सति, तत्रैव तस्मिन्प्रदेशे कंचित्कालं स्थित्वावस्थानं कृत्वा चन्द्रकान्तश्चन्द्रमणिस्तन्मयीव अतएव चन्द्रोदये प्रत्यार्दीकृता तनुर्यस्याः सा तथा चन्द्रबिम्बस्य यः प्रवेशस्तस्य भयं तेनेव कपोलयोः करौ कृत्वा किमपि चिन्तयन्ती ध्यायन्ती मुकुलितेक्षणा कुङ्मलितलोचना क्षणमात्र स्थित्वा तत उत्थाय । विमलेति । विमला निर्मला ये नखास्तेषु निपतिता याः शशिप्रतिमाश्चन्द्रप्रतिबिम्बानि तासां भरस्तेन गुरूणीव लीलामन्थरं यद्गमनं तत्र पनि पदानि चरणन्यासानि कृच्छ्रात्कष्टादुत्क्षिपन्त्युत्क्षेपं कुर्वन्ती शय्यागृह शयनसद्मागादगमत् । शयने तल्पे निक्षिप्ता स्थापिता गात्रयष्टिर्यया सैवंविधा च । ततःप्रभृति तद्दिनादारभ्य प्रबलया तीव्रया शिरोवेदनया विचेष्टमाना व्याकुलीक्रियमाणा दाहरूपिणा दारुणेन तीव्रेण च ज्वरेण तापेनाभिभूयमाना पराभूयमाना केनाप्याधिना मानसीव्यथया मङ्गलप्रदीपैः कुमुदाकरैश्चक्रवाकैश्च सार्धमनिमीलितेऽमुद्रिते लोचने यस्याः सा तथा । अथ कुमुदानां रात्री विकासाच्चक्रवाकाना च वियोगवशादनिमीलनमिति भावः । दुःखदुःखेन । अतिदुःखेनेति भावः । क्षणदां रात्रिमनैषीदयापयद् गमयामास । उषसि च प्रभाते ममाहूयाह्वानं कृत्वा देवस्य वार्ताव्यतिकरेण भवदृत्तान्तसमूहेन हेतुभूतेन उपालम्भीय सोपालम्भं यथा स्यात्तथादिष्टवती कथितवती । टिप्प० - 1 तत्कालादारभ्य । 2 'व्यतिकरोपलम्भाय' इत्युचितः पाठः, वृत्तान्तव्यापाप्राप्तये सोपालम्भं सप्रतिक्षेपम् ('उचितज्ञोऽपि संभावित-महोदारस्यातिथेः राजकुमारस्य कुशलप्रवृत्तिमानेतुं न गच्छसि इति) आदिष्टवतीति तदर्थः । - - - - - - - - - - - - - - - - - - - - - पाटा० - १ सिकताकदामलांगरि. २ नदीकाननतटे. ३ शिलापट्टशयनीये. ४ क्षिप्त. ५ व्याधिना. चन्द्रापीडस्य पुनः कादम्बरीभवने प्रयाणम् मागः । 435 Page #449 -------------------------------------------------------------------------- ________________ 1 चन्द्रापीडस्तदाकर्ण्य जिगमिषुः 'अश्वोऽश्वः' इति वदन्भवनान्निर्ययौ । आरोपितपर्याणं च त्वरिततुरगपरिचारकोपनीतमिन्द्रायुधमारुह्य, पश्चादारोप्य पत्रलेखाम्, स्कन्धावारे संस्थापयित्वा वैशम्पायनम्, अशेषपरिजनं निवर्त्य च, अन्यतुरगारूढेनैव केयूरकेणानुगम्यमानो हेमकूटं ययौ । आसाद्य च कादम्बरी भवनद्वारमवततार । अवतीर्य द्वारपालार्पिततुरङ्गः कादम्बरीप्रथमदर्शनकुतूहलिन्या च पत्रलेखया चानुगम्यमानः प्रविश्य 'क्व देवी कादम्बरी तिष्ठति' इति संमुखागतमन्यतमं वर्षधरमप्राक्षीत् । कृतप्रणामेन च तेन 'देव, मत्तमयूरस्य क्रीडापर्वतकस्याधस्तात्कमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्ते' इत्यावेदिते केयूरकेणोपदिश्यमानवर्त्मा प्रमदवनमध्येन गत्वा किंचिदध्वानम्, मरकतहरितानां कदलीवेनानां प्रभया शष्पीकृतरविकिरणं हरितायमानं दिवसं ददर्श । तेषां च मध्ये निरन्तरनलिनीदलच्छन्नं हिमगृहमपश्यत् । तस्माच्च निष्पतन्तमार्द्राशुकच्छलेनाच्छोदजलेनेव संवीतम्, बाहुलताविधृतैर्मृणालवलयैराभरणकैरिव धवलितावयवम्, आपाण्डुभिश्चैकश्रवणाश्रयैस्तौडङ्कीकृतैः केतकीगर्भदलैरुपहसितदन्तपत्रम्, आलिखितचन्दनललाटिकानि मुखारवि - 436 ** चन्द्रापीडस्तदाकर्ण्य श्रुत्वा जिगमिषुर्गन्तुमिच्छुरश्वोऽश्व इति वदन्ब्रुवन्भवनाद्गृहान्निर्ययौ निर्जगाम । आरोपितं स्थापितं पर्याणं पल्ययनं यस्मिन्नेतादृशं त्वरितं शीघ्रं तुरगपरिचारकेणोपनीतमानीतमिन्द्रायुधमारुह्यारोहणं कृत्वा पत्रलेखां पश्चात्पृष्ठभाग आरोप्य स्थापयित्वा स्कन्धावारे सैन्यवेशे वैशम्पायनं संस्थापयित्वा शेषपरिजनं समग्रपरिच्छदं निवर्त्य पश्चाद्व्याघुट्यान्यतुरगारूढेनैव केयूरकेणानुगम्यमानो हेमकूट ययो । कादम्बरीभवनद्वारमासाद्य प्राप्यावततारोत्तीर्णवांश्च । अश्वादिति शेषः । अवतीर्य च द्वारपालस्यार्पितस्तुरङ्गो येन स तथा कादम्बर्या प्रथमदर्शनं तत्र कुतूहलं विद्यते यस्या एवंविधया पत्रलेखयानुगम्यमानः प्रविश्य क्व देवी कादम्बरी तिष्ठतीति संमुखागतमन्यतमं वर्षधरं कञ्चुकिनमप्राक्षीत्पप्रच्छ । तेन कृतप्रणामेन चेत्यावेदिते कथिते सति । इतिशब्दद्योत्यमाह - देवेति । हे देव, मत्तमयूरकाभिधानस्य क्रीडापर्वतकस्याधस्तादधोभागवर्तिनि कमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्तेऽधितिष्ठति । 'उपान्चध्यावसः' इत्यधिकरणे द्वितीया । केयूरकेणोपदिश्यमानः प्रदर्श्यमानो वर्त्म मार्गो यस्य स तथा, प्रमदवनमध्येन किंचिदध्वानं मार्गं गत्वा मरकतबद्धरितानां नीलाना कदलीवनानां रम्भाकाननानां प्रभया कान्त्या शष्पीकृतानि बालतृणीकृतानि रविकिरणानि सूर्यरश्मयो यस्मिन्नत एव हरितायमानं नीलायमानं दिवसं दिनं ददर्शेक्षांचक्रे । तेषां च कदलीवनानां मध्ये निरन्तर नलिनीदलैः कमलिनीपत्रैश्छन्नमाच्छादितं हिमगृहमपश्यदैक्षत । तस्माच्च गृहान्निष्पतन्तं वहिर्गच्छन्तं कादम्वर्याः शरीरपरिचारकं परिजनमद्राक्षीद्दृष्टवान् । अथ तस्याः परिचारकं विशेषयन्नाह - आर्द्रेति । आर्द्र स्तिमितं यदंशुकं वस्त्रं तस्य च्छलेन श्वेताह्लादकत्वसाम्यादाह - अच्छोदेति । अच्छोदजलेनेव संवीतं रुद्धम् । 'संवीतं रुद्धमावृतम्' इति कोशः । वाहुलताविधृतैर्भुजलतास्थापितैर्मृणालवलयैस्तन्तुलकटकैराभरणकैरिव विभूषणैरिव धवलीकृताः शुभ्रीकृता अवयवा अपघा यस्य स तम् । आपाण्डुभिरीषच्छ्रेतैरेक श्रवण एवैककर्ण एवाश्रयोऽधिकरणं येषां तैस्ताङङ्कीकृतैस्ताडपत्रीकृतैरेवंविधैः केतकीगर्भदलैरुपइसितानि दन्तपत्राणि येन स तम् । पुनः किं कुर्वाणम् । दधानं विभ्राणम् । कानि मुखान्येवारविन्दानि कमलानि । कीदृशानि । आलिखिता टिप्प० 1 सोपसर्गत्वात् 'संस्थाप्य' इति पदयोजना व्याकरणसंगता । 2 रविकिरणा इत्यर्थः । 3 आवृतदेहमित्यर्थ उचितः । पाटा - १ अथ चन्द्रापीडः, २ वदन्पूर्ववृत्तचमत्कृतचेताः ३ त्वरितपरिचारक. ४ नृत्यमयूरस्य ५ दलानाम्. ६ ताटकीकृतः; तालङ्कीङ्कृतैः. - ** कादम्बरी | कथायाम् Page #450 -------------------------------------------------------------------------- ________________ न्दानि बद्धसौभाग्यपट्टानीव दधानम्, कृतचन्दनबिन्दुविशेषकांश्च दिवापि स्पर्शलोभस्थितेन्दुप्रतिबिम्बानिव कपोलानुद्वहन्तम्, अपहृताशेषशिरीषसौभाग्याभिः शैवलमञ्जरीभिः कृतकर्णपूरम्, कर्पूरधूलिधूसरेषु मलयजरसलवटुंलितेषु बकुलावलीवलयेषु स्तनेषु न्यस्तनलिनीपत्रप्रावरणम्, अनवरतचन्दनचर्चाप्रणयनपाण्डुरैः संतापरोषमृदितारक्तचन्द्रकरैरिव करैः कल्पितमृणालदण्डानि बिसतन्तुमयानि चामराणि बिभ्राणम्, उन्नालैश्च कमलैः कुमुदैः कुवलयैः किसलयैः कदलीदलैः कमलिनीपलाशैः कुसुमस्तबकैश्चातपत्रीकृतैर्निवारितातपम्, जलदेवतानामिव समूहम्, वरुणश्रियामिव समागमम्, शरदामिव समाजम्, सरसीनामिव गोष्ठीबन्धम्, शिशिरोपचारनिपुणं कादम्बर्याः शरीरपरिचारकं शरीरप्राय परिजनमद्राक्षीत् । तेन च प्रणम्यमानः पादनखपतनभयादिव त्वरितापसृतेन दीयमानमार्गश्चन्दनपङ्ककृ - *********** चन्दनस्य मलयजस्य ललाटिका पुण्ड्रविशेषो येषु तानि । विविधवर्णसाम्यावद्धसौभाग्यपट्टानीव । कृतेति । कृता विहिता चन्दनविन्दुभिविशेषका येषु तान् । 'चित्रं पुण्ड्रविशेषकाः' इति कोशः । दिवापि दिवसेऽपि स्पर्शलोभेन स्थित इन्दुप्रतिबिम्बो येष्वेवंविधानिव कपोलानुद्वहन्तम् । अपेति । अपहृतं दूरीकृतमशेष समग्रं शिरीषस्य वृक्षविशेषस्य सौभाग्यं याभिरेवंभूताभिः शैवलमञ्जरीभिर्जलशूकवल्लरीभिः कृतः कर्णर येन स तम् । स्तनेषु कुचेषु न्यस्तं स्थापितं नलिनीपत्राणां प्रावरणमुत्तरीयकं येन स तम् । अथ च स्तन विशेषयन्नाह - कर्पूरति । कर्पूरस्य घनसारस्य धूली रजस्तया धूसरेष्वीषत्पाण्डुषु, मलयजरसलवैश्चन्दनद्रवलेशैलुलितेष्वेकीभूतेषु । बकुलावलीना केसरराजीनां वलयानि येषु ते तथा तेषु । पुनः कीदृशम् । करैः करणभूतैश्चामराणि विभ्राणम् । कीदृशैः करैः । प्रियविरहेण संतापरोषाभ्यां मृदिता मर्दिता आरक्ता नवोदिताश्चन्द्रकरास्तैरिवानवरतं निरन्तरं चन्दनचर्चा तस्याः प्रणयन प्रापण तेन पाण्डुरैः । कीदृशानि चामराणि । कल्पित इति । कल्पितो विहितो मृणालानां दण्डो येषु तानि । पुनः किंविशिष्टानि । बिसानां तन्तवस्तन्मयानि तनिर्मितानि । उन्नालैः कमलैः, कुमुदैः कैरवैः, कुवलयैरुत्पलैः, किसलयैः पल्लवैः, कदलीदलै रम्भापत्रैः, कमलिनीप शशैः पद्मिनीपत्रैः । 'पत्रं पलाशं छदनम्' इति कोशः । कुसुमस्तवकैः पुष्पगुच्छैः । 'गुच्छस्तबकगुच्छकाः' इति कोशः । एतैश्चातपत्रीकृतेश्छत्रीकृतैर्निवारितो दूरीकृत आतपः सूर्यालोको यस्य स तम् । जलदेवतानां जलाधिष्ठात्रीणां समूहमिव । सर्वदा जलक्लिनदेहत्वादिति भावः । वरुणः प्रचेतास्तस्य श्रियां समागममेकीभवनमिव । वरुणस्यापि जलाधीशत्वेन तस्य श्रियामप्यतिशीतलत्वात्तदुपमानम् । शरदां घनात्ययानां समाजमिव परिषदमिव । तासामपि शीतलत्वात्तदुपमानम् । सरसीनां सरता गोप्टीवन्धमिव । एकत्रीभूयोपवेशनं गोष्ठीबन्धः । कीदृशम् । शिशिरोपचाराः शीतलोपचारास्तत्र निपुणं दक्षं शरीरप्रायमित्यन्तरं गत्वा चोक्तं कादम्बरीपरिजनमद्राक्षीदित्यन्वयस्तु प्रागेवोक्तः । इदानी समयोद्यानायुद्दीपनविभावान्वर्णयन्नाह - तेन चेति । तेन परिजनेन प्रणम्यमानो नमस्क्रियमाणः । कदलीतोरणानां तलेन प्रविश्य सर्वतो निसृष्टदृष्टिरिदं वक्ष्यमाणं सर्वं दृष्टवानित्यन्वयः । कीदृशः । प्रणामेन पादनखस्यैव कोमलत्वात्पतनं भविष्यतीति शङ्कया त्वरितमपसृतः परिजनस्तेन दीयमानो मार्गो यस्य सः । इतः कदलीतोरणं विशेषयन्नाह - चन्दनेति । चन्दनपङ्केन मलयजकर्दमेन कृता वेदिका येषाम् । टिप्प० - 1 कृताश्चन्दनबिन्दव एव विशेषकास्तिलका येषु तान् । अत एव दिवापि स्पर्शलोभेन स्थिता इन्दोश्चन्द्रस्य प्रतिविम्वा येषु तान (कपोलान्) । रात्रौ तु चन्द्रोदयादिन्दुप्रतिबिम्बाः संभवन्त्येव, परं चन्दनबिन्दवस्तथा प्रतीयन्ते यथा स्पर्शलोभवशादिनेऽपि चन्द्रस्य प्रतिविम्वाः स्थिता ईत्यर्थः । मण्डलाकाराणा चन्दनबिन्दूना चन्द्रविम्बेन साम्यादियमुत्प्रेक्षा । 2 चन्दनपङ्कन लिप्तीकृता वेदिकाः परिष्कृतभूमयः (बद्धतलभूमयः) येषां तेषाम् (तोरणानाम्) । पाठा० - १ पदानि. २ कपोलफलकाम्. ३ ललितेषु. ४ बकुलावलयिषु; कुवलयावलिषु; ललितकुवलयेपु. ५ पयोधरेषु. ६ प्रणय. ७ प्रकटिनचन्द्रकरः: मृदिनचन्द्रकरः . ८ शरीरपरिचारिकाप्रायम्. ९ पादतलः पादनखतपनदाह. कादम्बरीभवने शीतोपचारसज्जा पूर्वभागः । SA 437) Page #451 -------------------------------------------------------------------------- ________________ तवेदिकानां पुण्डरीककलिकाघटितघण्टिकानां विकसितसिन्दुवारकुसुममञ्जरीचामराणां लम्बितस्थूलमल्लिकामुकुलहाराणामाबद्धलवङ्गपल्लवचन्दनमालिकानां दोलायमानकुमुददामध्वजानां मृणालवेत्रहस्ताभिर्गृहीतरुचिरकुसुमाभरणाभिर्मधुलक्ष्मीप्रतिकृतिभिरिव द्वारपालिकाभिरधिष्ठितानां कदलीतोरणानां तलेन प्रविश्य सर्वतो निसृष्टदृष्टिदृष्टवान्क्वचिदुभयतटनिखाततमालपल्लवकृतवनलेखाः कुमुदधूलिवालुकापुलिनमालिनीश्चन्दनरसेन प्रवर्त्यमाना गृहनदिकाः, क्वचिनिचुलमञ्जरीरचितरक्तचामराणां जलार्द्रवितानकानां तलेषु सिन्द्रकुट्टिमेष्वास्तीर्यमाणानि रक्तपङ्कजशयनानि, क्वचिदेलारसेन सिच्यमानानि स्पर्शानुमेयरम्यभित्तीनि स्फटिकभवनानि, क्वचिच्छिरीषपक्ष्मकृतशाद्वलाना मृणालधारागृहाणां शिखरमारोप्यमाणानां धाराकदम्बधूलिधूसरितानि यन्त्रमयूरकाणां कदम्बकानि, क्वचित्सहकाररससिक्तैजम्बूपल्लवैराच्छाद्यमानाभ्यन्तराः पर्णशालाः, क्वचित्क्रीडितकृत्रिमकरिकलभयूथकाकुलीक्रियमाणाः काञ्चनक - *********** कलिकानां वाद्यघण्टिकानुकारादाह - पुण्डरीकेति । पुण्डरीकाणि सिताम्भोजानि तेषां कलिकाभिर्घटिता निर्मिता घण्टिकाः किङ्किण्यो येषाम् । विकसितानि विमुद्राणि सितानि सिन्दुवारस्य निर्गुण्ड्याः कुसुमानि तेषां मञ्जरीणां चामराण्यातपत्राणि येषाम् । लम्बिताः स्थूलमल्लिकामुकुलानां हारिणो हारा येषाम् । आबद्धा लवङ्गं देवकुसुमं तस्य पल्लवा येष्वेवंविधा चन्दनमालिका तोरणार्थे मङ्गल्यं दाम येषाम् । 'तोरणार्थे तुं मङ्गल्यं दाम चन्दनमालिका' इति कोशः । दोलेति । दोलायमानाः कम्पमानाः कुसुमदामध्वजा येषाम् । मृणालेति । मृणालानां तन्तुलानां वेत्रं हस्ते यासां ताभिर्गृहीतानि स्वीकृतानि रुचिराणि मनोहराणि कुसुमाभरणानि पुष्पविभूषणानि याभिः । मध्विति । मधुलक्ष्म्या वसन्तश्रियः प्रतिकृतिभिः प्रतिरूपाभिरेवंविधाभिरपालिकाभिरधिष्ठितानामाश्रितानाम् । सर्वं दृष्टवानिति पूर्वोक्तं स्पष्टीकुर्वनाह - क्वचिदिति । कस्मिंश्चिप्रदेश उभयतटे निखाता आरोपिता ये तमालपल्लवास्तापिच्छकिसलयास्तैः कृता वनलेखा काननवीथी यासा ताः । कुमुदानां धूलिः परागः सैव वालुका सिकता तस्याः पुलिनं जलोज्झित सैकतं मालत इत्येवंशीलाश्चन्दनरसेन मलयजद्रवेण प्रवर्त्यमाना विस्तार्यमाणा गृहनदिका भवनसरितः । क्वचिदिति । निचुलमञ्जरी हिज्जलवल्लरी तथा रचितानि रक्तचामराणि येषामेतादृशानां जलार्द्रवितानकानामम्भःक्लिनोल्लोचानां तलेषु सिन्दूर नागज तेन सहवर्तमानेषु कुट्टिमेष्वास्तीर्यमाणानि विस्तीर्यमाणानि रक्तपङ्कजशयनानि लोहितकमलशयनानि । क्वचिदिति । एला चन्द्रवाला तस्या रसेन सिच्यमानानि सेचनक्रियाविषयीक्रियमाणानि स्पर्शेन करसंस्पर्शनानुमेया अनुमातुं योग्या रम्या मनोहरा भित्तयः कुड्यानि येषामेवंविधानि स्फाटिकभवनानि । क्वचिदिति । कस्मिंश्चिप्रदेशे शिरीषः कपीतनस्तस्य पक्ष्मभिः कोमलकेसरैः कृतशाद्वलानां विहितशादहरितानां मृणालधारागृहाणां बिसयन्त्रसद्मनां शिखरं प्रान्तमारोप्यमाणानामुपरिष्टान्नीयमानानां धाराकादम्बानां धूलिभी रजोभिधूसरितानि यन्त्रगृहवर्तिमयूरकाणां कदम्बकानि मण्डलानि । क्वचिदिति । सह - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 यासु इति स्त्रीत्वं वाच्यम् । यासु (चन्दनमालिकासु) लवङ्गपल्लवा आबद्धा ईदृश्यश्चन्दनमालिकाः (तोरणलम्बितानि पुष्पदामानि) येषु तेषाम् । 2 कुसुमदामान्येव ध्वजा येषाम् । 3 कुमुदानां धुलिरेव वालुका तस्याः (अर्थात्तनिर्मिता) पुलिनमाला सैकतश्रेणिर्यासां ता इति सरलोऽर्थः । 4 जलार्द्राणा चन्द्रातपानाम् 'चँदो वा । 5 स्फटिकानां पारदर्शकत्वात्तद्भित्तयो न द्रष्टुं शक्याः किन्तु स्पर्शानुमेयाः 6 यन्त्रात्मकमयूराणाम् (यन्त्रनिर्मितमयूराणाम् । मृणालयुक्तजलधारागृहाणां शिखरे (पुष्ठे) परिचारिकाभिर्यन्त्रमयूरा नीता ये हि जलधारासमूहानां क्षौदैर्धूसरिता इत्यर्थः । पाटा० - १ प्रकृतिभि. २ जलाद्रीकृत. ३ ससिन्दूर. ४ स्पर्शानुमेयभित्तीनि;, स्पर्शानुमेयरम्यस्थितिप्रदेशानि. ५ अभ्रः, अभ्रक. ६ धूसराणाम्; धूसरितानाम्. ७ तरुसक्तैः. 438 ( कादम्बरी । कथायाम् Page #452 -------------------------------------------------------------------------- ________________ मलिनिकाः, क्वचिद्गन्धोदककूपेषु बद्धकाञ्चनसुधापङ्ककामपीठेषु स्थूलबिसलतादण्डघटितारकाणि कृतकेतकदलद्रोणिकानि कुवलयावलीरज्जुभिग्रंथ्यमानानि पत्रपुटघटीयन्त्रकाणि, क्वचित्स्फटिकबलाकावलीवान्तवारिधारा लिखितेन्द्रायुधाः संचार्यमाणा मायामेघमालाः, क्वचिदुपान्तरूढयवाङ्कुराँसु तरतरुणमालतीकुड्मलदन्तुरिततरङ्गासु हरिचन्दनद्रववापिकासु शिशिरीक्रियमाणा हारयष्टीः, क्वचिन्मुक्ताफलक्षोदरचितालवालकानंनवरतस्थूलजलबिन्दुदुर्दिनमुत्सृजतो यन्त्रवृक्षकान्, क्वचिद्विधुतपक्षनिक्षिप्तसीकरानीतनीहारा भ्रमन्तीर्यन्त्रमयीः पत्रशकुनिश्रेणीः, क्वचिन्मधुकरकिङ्किणीपङ्क्तिपटुतराबध्यमानाः कुसुमदामदोलाः, क्वचिदुदरारूढनिर्गतोत्तोलनलिनीच्छदाच्छादितमुखान्प्रवेश्यमानाशीतकुम्भान्, क्वचिद्धटितकदलीगर्भस्तम्भ - *********** कारा आम्रास्तेषां रसैः सिक्तैः सिञ्चितैर्जम्बूपल्लवैराच्छाद्यमाना अभ्यन्तराः पर्णशाला उटजाः । क्वचिदिति । क्रीडितुं यत्कृत्रिमं निर्मितं करिकलभयूथक तेनाकुलीक्रियमाणाः काञ्चनकमलिनिकाः सुवर्णनलिन्यः । कप्रत्यये च सर्वत्र ह्रस्वत्वम् । गन्धोदकस्य सगन्धजलस्य कूपेषूदपानेषु । कीदृशेषु । बद्धः काञ्चनस्य सुवर्णस्य सुधा गृहधवलीकरणद्रव्यं तस्य पङ्कः कर्दमस्तेन काममत्यर्थं पीठं येषु, स्थूलो यो बिसलताया दण्डस्तेन घटिता अरका येषु, कृतानि केतकदलानां द्रोणिकानि भाजनविशेषाणि येषु, कुवलयानामुत्पलानामावल्यः पङ्क्तयस्ता एव रज्जवस्तैग्रंथ्यमानानि बध्यमानान्येवंविधानि पत्रपुटलक्षणानि घटीयन्त्रकाण्युद्धाटकानि । क्वचिदिति । स्फटिकस्य बलाका बिसकण्ठिकास्तासामावलीभिर्वान्ता मुक्ता वारिधारा जलधारा यासु, लिखितानीन्द्रायुधानि शक्रचापानि यासु, एवंविधाः संचार्यमाणाः प्रेर्यमाणा मायामेघमालाः कृत्रिमजल(द)पङ्क्तयः । क्वचिदिति । उपान्ते समीपे रूढा यवाङ्कुरा यासु, तरन्ति तरुणमालतीकुड्मलानि तैर्दन्तुरितास्तरंगाः कल्लोला यासु, हरिचन्दनस्य तैलपर्णिकस्य द्रवस्तस्य वापिकासु क्षुद्रपिकासु शिशिरीक्रियमाणाः शीतलीक्रियमाणा हारयष्टीर्मुक्ताकलापान् । एतेन विरहाधिक्यं वर्णितम् । क्वचिदिति । मुक्ताफलं रसोद्भवं तस्य क्षोदेन चूर्णेन रचितं निर्मितमालवालकमावापस्थानकं येषां ताननवरतं निरन्तरं स्थूला जलबिन्दवस्तेषां दुर्दिनमुत्सृजत उत्प्राबल्येन मुञ्चतः कुर्वतः एवं विधान्यन्त्रवृक्षकान्कृत्रिममहीरुहान् । क्वचिदिति । विधुताः कम्पिता ये पक्षास्तैर्निक्षिप्ता ये सीकरास्तैरानीतो नीहारो हिमं याभिस्ता भ्रमन्तीभ्रंमणं कुर्वन्तीः । एवंविधा यन्त्रमयीः पत्रशकुनिश्रेणीः । क्वचिदिति । मधुकरा भ्रमरा एव किङ्किण्यः क्षुद्रघण्टिकास्तासां पङ्क्तिः श्रेणी तया पटुंतरं स्पष्टं यथा स्यात्तथा बाध्यमाना निरुध्यमाना कुसुमदामदोलाः पुष्पस्त्रक्प्रेङ्खाः । क्वचिदिति । उदरे मध्य आरूढा निर्गता उद्गताः सुवर्णकलशादुत्तालोर्ध्वमुखी या नलिनी तस्याश्छदानि दलानि तैराच्छादितं पिहितं मुखं येषां तान्प्रवेश्यमानान्गृहान्तीयमानाशातकुम्भान् । क्वचिदिति । घटिता कदलीगर्भस्तम्भा एव - - टिप्प० -1 चक्रान्तर्गतानि काष्ठनिर्मितान्यवयवानि, 'अरा' इति भाषा 1 2 'कृतकानि इत्युचितः पाठः । कृत्रिमाणि केतकदलानि (केतकपत्राणि) एव जलद्रोणिका जलाधारविशेषा येषु तानि । शिशिरोपचारवर्णनेऽस्मिन् सुगन्धिजलभृताः कूपा अपि तथा कृता येषामुपरि पत्रपुटरूपान् घटान् वहन्ति यन्त्राणि ('अरहट'), जलाधारा अपि केतकपत्रैः कृतानीत्याद्यर्थो बोध्यः । निर्माणकौशलेनैव परिचाल्यमानाः । 4 'क्वचिन्मधुकरकिङ्किणीपङ्क्तिपटुतररवा वध्यमानाः' इत्युचितः पाठः । मधुकरा एव किङ्किण्यास्तासां पङ्क्तेः पटुतरो रवः (शब्दः) यासु ताः । परिचारिकाभिर्बध्यमानाः (कुसुमदामनिर्मिता दोलाः) । 5 'शातकुम्भकुम्भान्' इत्युचितः पाठः । शातकुम्भस्य सुवर्णस्य कलशान, येषामुदरेषु नलिन्यः उत्पन्नास्ततश्च मुखेभ्यो बहिः उन्नालास्ता निर्गताः, तत्पत्रैः कुम्भमुखमाच्छन्नम् । शैत्यार्थं शोभार्थं च वृक्षाधारविशेषः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाटा० - १ घटितदण्डारकाणि. २ कृतक; कनक. ३ जलद्रोणिकानि. ४ कमलपत्रपुट. ५ बलाकावलीः. ६ प्ररूढ. ७ पाण्डुयवाफुरसु. ८ सितरक्त. ९ अनवरतचन्दनरसस्थूल. १० पत्रवृक्षकान्. ११ पटुरवबोध्यमानाः; पटुतररवाबोध्यमानाः. १२ उन्नाल. १३ शातकुम्भकुम्भान्. कादम्बरीभवने शीतोपचारसज्जा पूर्वभागः । 439 Page #453 -------------------------------------------------------------------------- ________________ दण्डानि बध्यमानानि चारुवंशाकृतीनि कुसुमस्तबकातपत्राणि, क्वचित्करमृदितकर्पूरपल्लवरसेनाधिवास्यमानानि बिसतन्तुमयान्यंशुकानि, क्वचिल्लवलीफलद्रवेणार्टीक्रियमाणास्तृणशूकमञ्जरीकर्णपूरान्, कचिदम्भोजिनीदलव्यजनै :ज्यमानानुपलभाजनभाजः शीतोषधिरसानन्यांश्चैवंप्रकाराशिशिरोपचारोपकरणकल्पनाव्यापारान्परिजनेन कृतान्क्रियमाणांश्च वीक्षमाणो हिमगृहकस्य मध्यभाग हृदयमिव हिमवतः, जलक्रीडागृहमिव प्रचेतसः, जन्मभूमिमिव सर्वचन्द्रकलानाम्, कुलगृहमिव सर्वचन्दनवनदेवतानाम्, प्रभवमिव सर्वचन्द्रमणीनाम्, निवासमिव सर्वमाघमासयामिनीनाम्, संकेतसदनमिव सर्वप्रावृषाम्, ग्रीष्मोष्मापनोदोद्देशमिव सर्वनिम्नगानाम्, वडवानलसंतापापनोदननिवासमिव सर्वसागराणाम्, वैद्युतदहनदाहप्रतीकारस्थानमिव सर्वजलधराणाम्, इन्दुविरहदुःसहदिवसातिवाहनस्थानमिव कुमुदिनीनाम्, हरहुताशननिर्वापणक्षेत्रमिव मकरध्वजस्य, दिनकरकरैरपि सर्वतो जलयन्त्रधारासहस्त्रसमुत्सारितैरतिशीतस्पर्शभयनिवृत्तैरिव परिहृतम्, अनिलैरपि कदम्बकेसरोत्करवाहिभिः कण्टकितैरिवानुगतम्, कदलीवनैरपि पवनचलितदलैर्जाड्यजनितवेपथुभिरिव परि - *********** दण्डा येष्वेवंविधानि बध्यमानानि चारुर्मनोहरो यो वंशो वेणुस्तद्वदाकृतिराकारो येषां तानि कुसुमस्तबकान्येवातपत्राणि छत्राणि । क्वचिदिति । करेण मृदितो यः कर्पूरपल्लवस्तस्य रसेनाधिवास्यमानानि सुगन्धीक्रियमाणानि बिसतन्तुमयानि तन्तुलतन्तुनिर्मितान्यंशुकानि वस्त्राणि । क्वचिदिति । लवली वल्लीविशेषस्तस्याः फलद्रवेणार्टीक्रियमाणान् । तृणानां शूकं किंशारुस्तस्य मञ्जर्य एव कर्णपूरान्कर्णा- . भरणानि । क्वचिदिति । अम्भोजिनी कमलिनी तस्या दलान्येव व्यजनानि तालवृन्तानि तैर्वीज्यमानानुपलभाजनभाजो दृपत्पावस्थिनाशीतोषधिरसान्, अन्याश्चैवप्रकाराशिशिरोपचारोपकरणकल्पनाव्यापारान्परिजनेन परिच्छदेन कृतान्चिहितान् क्रियमाणांश्च विधीयमानाच वीक्षमाणो हिमवतो गौरीगुरोर्हृदयमिव स्वान्तमिव, प्रचेतसो वरुणस्य जलक्रीडागृहमिव, सर्वाः समग्रा याश्चन्द्रकलास्तासां जन्मभूमिमिव. सर्वं यच्चन्दनवनं गन्धसारकाननं तस्य देवतानामधिष्ठात्रीणां कुलगृहमिव पितृसञव; सर्वचन्द्रमणयश्चन्द्रकान्तायास्तेषां प्रभवमिवोत्पत्तिमिव, सर्वे ये माघमासास्तपोमासास्तेषां यामिनीनां रात्रीणां निवासमिव वसतिस्थलमिव, सर्वप्रावृषां समग्रतपात्ययानां संकेतसदनमिव, सर्वनिम्नगाना समस्ततटिनीना ग्रीष्मस्योष्णागमस्य ऊष्मा तापस्तस्यापनोदो दूरीकरणं तस्योद्देशमिव प्रदेशमिव, सर्वसागराणां समस्तसमुद्राणां वडवानलो वाडवस्तस्य यः संतापस्तस्यापनोदना दूरीकरणं तस्या निवासमिव वसतिमिव, सर्वजलधराणां समग्रमेघानां वैद्युतो यो दहन इरमदस्तेन दाहस्तस्य प्रतीकारस्थानमिव प्रतिक्रियागृहमिव, कुमुदिनीना कैरविणीनामिन्दुविरहेण दुःसहमसह्यं दिवसस्यातिवाहनमुल्लङ्घन तस्य स्थानमिव, मकरध्वजस्य कंदर्पस्य हरस्येश्वरस्य यो हुताशनस्तृतीयनेत्रजो वह्निस्तस्य निर्वापणं निर्यातनं तस्य क्षेत्रमिव स्थानमिव, दिनकरस्य सूर्यस्य करैरपि सर्वतः समन्ताज्जलयन्त्रधारासहसाणि तैः समुत्सारितैर्दूरीकृतैरतिशयेन यः शीतः स्पर्शः तस्माद्यद्भयं तेन निवृत्तैरिव परिहृतं परित्यक्तम् । अनिलैरपि पवनरैपि कदम्बस्य कादम्वस्य यः केसरोत्करस्तद्वाहिभिरत एव कण्टकितैरिवं रोमाञ्चितैरिवानुगत सहितम् । कदलीवनैरपि रम्भाकाननैरपि पवनेन चलितानि कम्पितानि दलानि येषां तैरत एव जाड्येन जनितो - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पवनानामपि शैत्यं प्रतीतमभूदत एव तेपि रोमाञ्चमवहन्नित्युत्प्रेक्षाशयः । - - - - - - - - - - - - - - - - - - पाटा० - १ मकरध्वजस्व सदनमिव बनदेवतानाम. (440AMARA N कादम्बरी | NITIATI VITATIN कथायाम-) Page #454 -------------------------------------------------------------------------- ________________ बारितम्, अलिभिरपि कुसुमामोदमदमुखरैराबद्धदन्तवीणैरिव वाचालितम्, लताभिरपि मधुकरपटलजटिलाभिर्गृहीतनीलप्रावरणकाभिरिव विराजितमाससाद । क्रमेण च तत्रान्तर्बहिश्चातिबहलेन पिण्डहार्येणेवोपलिप्यमानोऽतिशीतलेन स्पर्शेनाऽमन्यतात्मनो मनश्चन्द्रमयं कुमुदमयानीन्द्रियाणि ज्योत्स्नामयान्यङ्गानि मृणालिकामयीं धियम् । अगणयच्च हारमयानर्ककिरणांश्चन्दनमयमातपं कर्पूरमयं पवनमुदकमयं कालं तुषारमयं त्रिभुवनम् ।। एवंविधस्य च तस्यैकदेशे सखीकदम्बकपरिवृताम्, अशेषसरित्परिवारामिव भगवतीं गङ्गां हिमवतो गृहाचलगताम्, कुल्याभ्रमिभ्रमितेन कर्पूररसस्त्रोतसा कृतपरिवेषाया मृणालदण्डमण्डपिकायास्तले कुसुमशयनमधिशयानाम्, हाराङ्गदवलयरसनानूपुरैर्मृणालमयैर्निगडेरिव संयतामीjया मन्मथेन, चन्दनधवले स्पृष्टामिव ललाटे शशलाञ्छनेन, बाष्पवारिवाहिनि चुम्बितामिव चक्षुषि वरुणेन, वर्धितनिःश्वासमरुति द॑ष्टामिव मुखे मातरिश्चना, संतापप्रतप्ते - *********** वेपथुः कम्पो येषामेतादृशैरिव परिवारितम् । अलिभिरपि भ्रमरैरपि कुसुमानामामोदः परिमलस्तज्जनितो मदस्तेन मुखरैर्वाचालैरत एवाबद्धा दन्तवीणा यैरेवंविधैरिव वाचालितं मुखरितम् । लताभिरपि वल्लीभिरपि मधुकराणां पटलं तेन जटिलाभिर्व्याप्ताभिर्गृहीतं स्वीकृतं नील प्रावरणं प्रच्छादनं याभिरेवंविधाभिरिव विराजितं शोभितमेतादृशं हिमगृहकस्य मध्यभागमाससाद प्राप्तवान् । क्रमेणेति । क्रमेण परिपाट्यान्तर्बहिश्चातिशीतलेन स्पर्शेनोपलिप्यमानः । ननु मूर्तव्यतिरेकेणोपदिग्धक्रिया न संभवतीत्याशयेनाह - अतीति । अतिवहलेनातिदृढेन पिण्डहार्येणेव पिण्डरूपेणाहर्तुं शक्यं पिण्डहार्यं तेनेव, एतेनातिशीतलस्पर्शस्य बाहुल्य तया हस्तग्राह्यत्वं सूचितम् । तथातिशीतलेन स्पर्शनात्मनः स्वस्य मनश्चितं चन्द्रमयममन्यताऽजानात् । तथा कुमुदमयानि कैरवमयानीन्द्रियाणि करणानि, ज्योत्स्नामयानि चन्द्रिकामयान्यङ्गानि हस्तपादादीनि, मृणालिकामयीं बिसमयीं धियं बुद्धिम् । अमन्यतेत्यस्य सर्वत्र संबन्धः । तथाकिरणान्सूर्यकरान् । शुभ्रत्वायतत्वसाम्यादाह - हारमयान्मुक्ताप्रालम्बमयानगणयत् । अग्रेऽप्येतस्य संबन्धः । आतपं सूर्यालोकं चन्दनमयं मलयजमयम् । अतिशीतलत्वादिति भावः । तथा पवनं समीरं कर्पूरमयं घनसारमयम् । तद्गन्धयुक्तत्वात् । तथा कालं समयमुदकमयं जलमयम् । त्रिभुवनं त्रिविष्टपं तुषारमयं हिममयम् । अतिशीतलस्य शेषाधिवशात्किरणरूपतया सत्त्वेऽपि हाररूपतयागणयदित्यर्थः । ___ एवंविधस्य तस्य हिमगृहस्य एकदेश एकस्मिन्प्रदेशे सखीकदम्बकेन वयस्यासमूहेन परिवृताम् । अशेषसरित्परिवारां समग्रतटिनीपरिच्छदा हिमवतः पर्वतात् गृहाचलगतां गृहशिलागतां भगवतीं गङ्गामिव जाह्नवीमिव, विरहजनितपाण्डुरत्वसाम्यात्तदुपमानम् । अन्यासां च नद्युपमानम् । कुल्या सारणी तस्याभ्रमिभ्रमण तया भ्रमितेन कर्पूररससोतसा घनसारद्रवप्रवाहेण कृतो विहितः परिवेषः परिधिर्यस्या एवंविधाया मृणालदण्डमण्डपिकाया बिसदण्डमण्डपस्य तलेऽधोभागे कुसुमशयनं पुष्पशय्यामधिशयानां कृतस्वापाम् । हारेति । हारो मुक्ताप्रालम्बः, अङ्गदं बाहुकटकम्, वलयं कङ्कणम्, रसना काञ्ची, नूपुराणि पादकटकानि, एतैर्मृणालमयैर्बिसमयैर्निगडैरिवान्दुकैरिवर्ण्यया स्पर्धया मन्मथेन कंदर्पण संयतां बद्धाम्, चन्दनेन धवले शुभ्रीकृते ललाटेऽलिके शशलाञ्छनेन चन्द्रेण स्पृष्टामिवालिङ्गितामिव । शुभ्रत्ववक्रत्वसाम्याच्चन्द्रोपमानम् । बाष्पवारि नेत्राम्बु तद्वाहिनि चक्षुषि नेत्रे वरुणेन प्रचेतसा चुम्वितामिव । जलच्युतिसाम्यावरुणेनेत्युक्तम् । वर्धितो वृद्धिं प्राप्तो निःश्वासमरुदेतनवायुर्यस्मिन्नेवंविधे मुखे । वायुबाहुल्यादाह - मातरिश्वना वायुना दष्टामिव भक्षितामिव । संतापः संज्चर - - - - - - - - - -- - - - - - - - - - - - टिप्प० -1 शैत्यातिशयेन मुखवेपथुसमये उपर्यधोभागदन्तानां परस्परसंघट्टनजनितः शब्दो दन्तवीणा । 2 'गुहातलगताम्' इत्युचितः पाठः । हिमवतः हिमाचलस्य गुहातलस्थितां भगवतीं गङ्गामिव, इति स्फुटोऽर्थः । 3 चन्दनस्य चन्द्र उपमानमित्याशयः । पाटा० -१ निरन्तरमधुकर. २ नीहारमयान्. ३ गुहातलगताम्; महीतले पतिताम्. ४ दृष्टाम्. (कादम्बरीभवने शीतोपचाराः पूर्वभागः । 1A1 Page #455 -------------------------------------------------------------------------- ________________ ष्वध्यासितामिवाङ्गेष्वनङ्गेन, कंदर्पदाहदीपिते गृहीतामिव हृदये हुतभुजा, स्वेदिनि परिष्वक्तामिव वपुषि जलेन, दैवतैरपि विलुप्यमानसौभाग्यामिव सर्वशः, हृदयेन सह प्रियतमसमीपोपगतैरभैरुपजनितदौर्बल्याम्, आश्यानचन्दनपाण्डुरं च रोमाञ्चमनवरतहारस्पर्शलग्नं मुक्ताफलकिरणपुञ्जमिवोद्वहन्तीं स्वेदसीकरिणी च कपोलपालीम्, पक्षपवनेन वीजयद्भिरनुकम्प्यमानामिवावतंसमधुकरैः, अवतंसमधुकररवदहनदग्धमिव श्रोत्रमपाङ्गनिर्गतेनाथुस्त्रोतसा सिञ्चन्तीम्, अतिप्रवृत्तस्य चाश्रुणो निर्वाहप्रणालिकामिव कर्पूरकेतकीकलिकां कर्णे कलयन्तीम्, आयतश्चासविधुतितरलितेन च संतापभयपलायमानेन देहप्रभावितानेनेवांशुकेन विमुच्यमानकुचकलशाम्, आपतत्प्रचलचामरप्रतिबिम्बं च कुचकलशयुगलं प्रियान्तिकगमनौत्सुक्यकृतपक्षमिव करतलेन निरुन्धन्तीम्, मुहुर्मुहुर्भुजलतया तुषारशिलाशालभञ्जिकामालिङ्गन्तीम्, मुहुः कपोलफलकेन कर्पूरपुत्रिकामाश्लिष्यन्तीम्, मुहुश्चरणारविन्देन चन्दन - *********** स्तेन प्रतप्तेषूष्णेष्वङ्गेष्वनङ्गेन कंदर्पणाध्यासितामाश्रितामिव । कुत्रचित् ‘पतङ्गेन' इति पाठः । तत्र पतङ्ग सूर्यस्तापजनकत्वात् । तदाश्रितामित्यर्थः । कंदर्पदाहदीपिते मदनदाहज्वलिते हृदये । दाहजनकत्वसाम्यादाह - हुतभुजेति । हुतभुजा वह्निना गृहीतामिव स्वीकृतामिव । स्वेदिनि प्रस्वेदवति वपुषि जलेन नीरेण परिष्वक्तामिवाश्लिष्टामिव । एतेन स्वेदबाहुल्यं सूचितम् । दैवतैरप्यदृष्टैरपि सर्वशः सर्वप्रकारेण विलुप्यमानं लोपमाप्यमान सौभाग्यं यस्याः सा तामिव । हृदयेन चित्तेन सह सार्धं प्रियतमसमीपं प्राणप्रियनिकटमिवोपगतैरङ्गैः कृत्वोपजनितं विहितं दौर्बल्यं कृशत्वं यस्या एतादृशीम् । आश्यानमिति । आश्यानं शुष्कं यच्चन्दनं मलयजं तेन पाण्डुरं शुभं रोमाञ्चं चानवरतं निरन्तरं हारस्पर्शेन लग्नं मिलितं मुक्ताफलानां किरणा दीधितयस्तेषां पुञ्जः समूहस्तमिवोद्वहन्तीं धारयन्तीम् । अत्र चन्दनधवलीकृतस्य रोमोद्गमस्य मुक्ताकिरणसमूहोपमानम् । तथा स्वेदस्य धर्मजलस्य सीकरा विद्यन्ते यस्यामेतादृशीं कपोलपालीमुदहन्तीम् । चकारः समुच्चयार्थः । अवेति । अवतंस उत्तंसस्तस्य मधुकरैर्भमरैः पक्षपवनेन वीजयद्भिरनुकम्प्यमानामिवानुकम्पाविषयीक्रियमाणामिव । अवतंसमधुकराणा रवः शब्दः स एव दाहकत्वाइँहनो वह्निस्तेन दग्धमिव ज्वलितमिव । श्रोत्रं श्रवणमपाङ्गनिर्गतेनाक्षिवाह्यायातेनाश्रुस्त्रोतसा नेत्रजलप्रवाहेण करणभूतेन सिञ्चन्तीं सेक कुर्वन्तीम् । अतिप्रवृत्तस्यातिप्रसृतस्याश्रुणो नेत्रजलस्य निर्वाहार्थं सुखेन गमनार्थ प्रणालिकामिव जलमार्गमिव कर्पूरकेतकीकलिका कर्पूरेषूक्ता या केतकी तस्याः कलिका कोरकः तां कर्णे कलयन्ती कलना कुर्वन्तीं धारयन्तीम् । आयतो विस्तीर्णो यः श्वासः श्वसितं तस्माद्या विधुतिः कम्पस्तेन तरलितेन कम्पितेन संतापभयात्पलायमानेन धावता । अतिशुभ्रत्वसचिक्वणत्वसाम्यादाह - देहेति । देहप्रभावितानेनेव शरीरदीप्तिसमूहेनेवांशुकेन वस्त्रेण विमुच्यमानौ कुचावेव कलशौ यस्याः सा ताम् । आपतत्प्रचलचामरयोः प्रतिबिम्ब यस्मिन्नेतादृशं कुचकलशयुगलं प्रियस्य वल्लभस्यान्तिक समीपं तत्र गमने याने यदौत्सुक्य रणरणकता तेन कृताः पक्षा येनैतादृशमिव करतलेन निरुन्धन्ती निरोधं कुर्वन्तीम् । मुहुर्मुहुर्भुजलतया बाहुवल्ल्या तुषारशिला तस्याः शालभञ्जिका पाञ्चालिकामालिङ्गन्तीमाश्लेषं कुर्वन्तीम् । मुहुः कपोलफलकेन कर्पूरपुत्रिकां घनसारपाञ्चालिकामाश्लिष्यन्तीमालिगन्तीम् । महश्चरणारविन्देनाघ्रिकमलेन चन्दनपकस्य मलयजकर्दमस्य प्रतियातनां प्रतिमाम । 'प्रतिमा यातनाविधिः । छायः . -- -- - - - - - - - -- - - - - -- - टिप्प० - 1 सौन्दर्यमुग्धत्वाद्देवा अपि तस्या भर्तृप्रियत्वम् ('सुहाग') न्यूनीकृत्य आत्मनि तदासक्ति कामयन्त इत्याशयः । 2 दूरगमनश्रमेण दौर्बल्यं भवत्येवेत्याशयः । 3 विरहोद्दीपनेन ईत्यर्थः । 4 कर्पूरवत् (शुभ्रा) केतकीकलिका, कर्पूरवासिता केतकीकलिका वा । - - - - - - - - - - - - पाटा० - १ जलदेन. २ अवतंसकुसुम. 442 कादम्बरी । कथायाम Page #456 -------------------------------------------------------------------------- ________________ पङ्कप्रतियातनामामृशन्तीम्, स्तनसंक्रान्तेनात्ममुखेनापि कुतूहलिनेव परिवृत्य विलोक्यमानाम्, कर्णपूरपल्लवेनापि स्वप्रतिबिम्बशायिना सोत्कण्ठेनेव चुम्ब्यमानकपोलफलकाम्, हारैरपि मुक्तात्मभिर्मदनपरवशैरिव प्रसारितकरैरालिङ्ग्यमानाम्, मणिदर्पणमुरसि निहितं विमोदितव्यमेतदिति जीवितस्पर्शमयं शपथं शशिनमिव कारयन्तीम्, करिणीमिव संमुखागतप्रमदवनगन्धवारणप्रसारितकराम्, प्रस्थिताभीवानभीष्टदक्षिणवातमृगागमनाम्, मदनाभिषेकवेदिकामिव कमलावृतचन्दनधवलपयोधरकलशावष्टब्धपाम्, आकाशकमलिनीमिव - *********** छन्दः कायो रूपं बिम्बं मानकृती अपि' इति कोशः । आमृशन्ती परामर्श कुर्वन्तीम् । स्तनेति । स्तनयोः कुचयोः संक्रान्तेन प्रतिबिम्बितेनात्ममुखेनापि स्वकीयवदनेनापि कुतूहलिनेव कौतुकिनेव परिवृत्य । उत्तानीकृत्येत्यर्थः । विलोक्यमानां वीक्ष्यमाणाम् । एतेन सौन्दर्यातिशयः सूचितः । एवं कर्णपूरपल्लवेनापि स्वप्रतिबिम्बरूपेण शायिना शयनकारिणा । एतेनायतत्वं सूचितम् । सोत्कण्ठेनेव सोत्कलिकेनेव चुम्व्यमानं चुम्बनविषयीक्रियमाणं कपोलफलकं यस्याः सा ताम् । हारैरपि मुक्ताकलापैरपि मुक्तात्मभिर्मुक्तास्वरूपैर्मदनपरवशैरिवानङ्गायत्तैरिव प्रसारितकरैविस्तारितपाणिभिरालिङ्ग्यमानामाश्लिष्यमाणाम् । अत्र मुक्तात्मभिरालिङ्ग्यमानामित्यनेन तस्या अभिनवं सौभाग्यं वर्णितम् । उरसि निहितं वक्षसि स्थापितं मणिदर्पण रत्नादर्शम् । वर्तुलत्वतादृशद्युतिमत्त्वसाधात् । जीवितस्य स्पर्शो दानं तन्मयं शशिनमिव चन्द्रमिव । ‘स्पर्शी वर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि' इति कोशः । इति शपथं कारयन्तीम् । इति शब्दद्योत्यमाह - विनोदेति । अद्य त्वया विनोदितव्यम् । अन्यस्तु शशी शोकप्रदः, त्वया तु विनोदितव्यमेतदिति भावः । अत एव जीवितस्पर्शमयमिति विशेषणम् । करिणीति । हस्तिनीमिव । उभयोः शब्देन साम्यं प्रदर्शयन्नाह - संमुखेति । संमुखागतो यः प्रमदवनगन्धस्तस्य वारणं दूरीकरणं तत्र प्रसारितौ करौ यया सा । विरहाकुलितत्वेन प्रमदवनस्य गन्धस्य दुःखदायित्वात्तनिवारणं युक्तमेवेति भावः । पक्षे संमुखागतः प्रमदो मदोत्कटो वनगन्धवारणो वनप्रभवो गन्धहस्ती तं प्रति प्रीत्या प्रसारितः करः शुण्डा यया सा ताम् । प्रस्थितामिव चलितामिव । उभयसाम्यं प्रदर्शयन्नाह - अनभीष्टेति । अनभीष्टमनीप्सितं दक्षिणो यो वातः स एव शीघ्रगामित्वान्मगो हरिणस्तस्यागमन यस्याः सा ताम् । विरहिण्या दक्षिणो वायुरतीवदुःखदो भवतीति सर्वत्र प्रसिद्धम् । पक्षेऽनभीष्टो दक्षिणो वामतोऽपसव्यगो वातमृगो वातप्रमीर्यस्याः सा ताम् । स्त्रीणां प्रयाणे दक्षिणो मृगोऽपशकुनमिति वसन्तराजादौ प्रसिद्धम् । मदनेति । मदनस्य कंदर्पस्याभिषेकार्थ वेदिका संस्कता भूमिस्तामिव । उभयोः साम्यमाह - कमलेति । कमलया शोभयावतौ चन्दनेन धवलौ पयोधरावेव कचावेव पीनत्ववर्तलत्वसाम्यात्कलशौ ताभ्यामवष्टब्धावाश्रितौ पार्थो यस्याः । आकाशेति । आकाशं व्योम तस्य कमलिनी पद्मिनी तामिव । उभयोः साम्यमाह - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 मुक्त आत्मा येषा जीवन्मुक्तैरपि मदनपरवशैरिति विरोधः । मुक्ताः मौक्तिकानि आत्मा स्वरूपं येषामिति विरोधपरिहारः । 2 एवमर्थे 'विनोदयितव्यम्' इति स्यात् । अतः 'नोदितव्यमय' इति पाठः । विरहोद्दीपकेन त्वया अद्य न उदेतव्यमिति चन्द्रं शपथं कारयन्तीमिति तदर्थः । शपथश्च जीवनस्पशरूप इति भावः । अन्यत्स्पष्टप्रायम् । 3 अत्र अनभीष्टं दक्षिणवातस्य मलयवायोः मृगस्य (मृगमदसौरभस्य, लक्षणया) च आगमनं यस्या इति व्याख्यातव्यम् । 4 शैत्यार्थं कमलदलैरावृतौ चन्दनधवलौ यौ पयोधररूपौ कलशौ ताभ्यामाक्रान्तपामिति (नायिकापक्षे), माङ्गल्यार्थं कमलैराच्छादितमुखाश्चन्दनधवलीकृता ये पयोभृताः कलशास्तैराक्रान्तपार्श्वभूमिभागामिति (वेदिकापक्षे) । पाटा० - १ आस्पृशन्तीम्. २ स्वप्रतिबिम्बपल्लवशायिना. ३ नोदेतव्यमयेति. ४ त्वयाय. ५ जीवनस्य समय शशिनम् जीवनस्पर्शसमय शशिनम्. उत्कण्ठिता कादम्बरी पूर्वभागः ।) 443 Page #457 -------------------------------------------------------------------------- ________________ स्वच्छाम्बरतलदृश्यमानमृणालकोमलोरुमूलाम्, कुसुमचापलेखामिव मदनारोपितगुणकोटिकान्ततराम्, मधुमासदेवतामिव शिशिरहारिणीम्, मधुकरीमिव कुसुममार्गणाकुलाम्, चन्दनविलेपनामनङ्गरागिणीं च बोलां मन्मथजननी च मृणालिनीमभ्यर्थिततुषारस्पर्शा च कादम्बरी व्यलोकयत् । अथ सा यथादर्शनमागत्यागत्य चन्द्रापीडागमनमावेदयन्तं परिजनमुत्तरलतारकेण चक्षुषा विलोक्य 'कथय । किं सत्यमागतो दृष्टस्त्वया । कियत्यध्वनि क्वासौ' इति प्रतिमुखं निक्षिप्तनामाक्षरं पप्रच्छ । प्रवर्धमानधवलिम्ना चक्षुषा दृष्ट्वा च संमुखमापतन्तं तं दूरादेव वरारोहा, नवग्रहा करिणीवोरुस्तम्भविधृता, विचेष्टमानाङ्गी, कुसुमशयनपरिमलोपगतैः परवशामुखरै - *********** स्वच्छेति । स्वच्छं निर्मलं यदम्बरं वस्त्रं तस्य तलमधोभागस्तत्र दृश्यमानं विलोक्यमानं मृणालवत्कोमलमूरुमूलं सक्थिमूलं यस्याः सा ताम् । पक्षे स्वच्छं रजोरहितं यदम्बरतलं व्योमतलं तत्र दृश्यमानं मृणाललक्षणं कोमलं सुकुमारमुरु विस्तीर्णं मूलं बुध्नो यस्याः । कुसुमेति । कुसुमचापः पुष्पधनुस्तस्य लेखामिव । उभयसाम्यमाविःकर्तुमाह - मदनेति । मदनेन यौवनावस्थयारोपिता स्थापिता या गणकोटिस्तया कान्ततरां मनोज्ञतराम । पक्षे मदनेन कंदर्पणारोपितोऽधिज्यीकतो गणकोटिौर्वीप्रान्तस्तया कान्ततराम । मध्विति । मधुमासो वसन्तमासस्तस्य देवतामिवाधिष्ठात्रीमिव । उभयसादृश्यमाह - शिशिरेति । शिशिरेण शीतलोपचारेण हारिणी रुचिराम् । पक्षे शिशिरस्य ऋतुविशेषस्यापहारिणीम् । शिशिरापगमे हि मधुमासः प्रवर्तते । मधुकरीमिव भ्रमरीमिव । उभयसादृश्यमाह - कुसुमेति । कुसुमान्येव विरहवशान्मार्गणा वाणास्तैराकुलाम् । पक्षे कुसुमानां मार्गणमन्वेषणं तेनाकुलां व्यग्राम् । अथ च चन्दनस्य विलेपनमङ्गरागो यस्या एवंविधामपि न विद्यतेऽङ्गरागो यस्यामिति विरोधः । तत्परिहारस्तु - अनङ्गः कंदर्पस्तस्मिन्रागिणीमनुरागवतीमित्यर्थात् । वालामनाविष्कृतमन्मथाम्, अथ च मन्मथजननीमिति विरोधः । तत्परिहारस्तु - बालामनुद्वाहितामित्यर्थात् । मृणालिनीम्, अथ चाभ्यर्थितो वाञ्छितस्तुषारस्पर्शो ययेति विरोधः । कमलिन्यास्तुषारस्पर्शः सर्वथानिष्ट इति लोके प्रसिद्धम् । तत्परिहारस्तु - विरहतापोपशान्त्यर्थं मृणालं विद्यते यस्या इत्यर्थात् । एवंविधा कादम्बरी व्यलोकयदपश्यत् । ___ अथ सा कादम्बरी यथादर्शनं यथावसरमागत्यागत्य चन्द्रापीडस्यागमनमावेदयन्तं कथयन्तं परिजनमुत्प्रावल्येन तरला चञ्चला तारका यस्मिन्नेतादृशेन चक्षुषा विलोक्य वीक्ष्य प्रतिमुखं निक्षिप्तानि स्थापितानि नामाक्षराणि यथा स्यात्तथा । प्रत्येक प्रत्येक नाम गृहीत्वेत्यर्थः । इति पप्रच्छेत्यप्राक्षीत् । इतियोत्यमाह - कथयेति । कथय ब्रूहि । किं सत्यमागतस्त्वया दृष्टः । कियत्यध्वनि । क्वासौ चन्द्रापीडः । तदनन्तरं प्रवर्धमानः प्रतिदिनमुपचीयमानो धवलस्य भावो धवलिमा यस्मिन्नेतादृशेन चक्षुषा नेत्रेण संमुखमापतन्तमागच्छन्तं तं दृष्ट्वा विलोक्य च कुसुमशयनादुत्तस्थावुत्थिता बभूवेत्यन्वयः । अथ कादम्बर्या विशेषणानि - वरेति । वरः श्रेष्ठ आरोहो नितम्बो यस्याः सा । 'नितम्बारोही स्त्रीकट्याः पश्चाजघनपार्श्वतः' इति कोशः । उवविव स्तम्भौ ताभ्यां विधृता धृता । केव । नवः प्रत्यग्रो ग्रहो ग्रहणं यस्या एवंविधा करिणीव हस्तिनीव । सापि उरुर्विस्तीर्णो यः स्तम्भस्तत्र विधृता बद्धा स्यात् । विचेष्टमानानि चेष्टाविशेषणं प्राप्यमाणान्यङ्गानि यस्याः कुसुमशयनस्य - टिप्प० - 1 गुणः आरोप्यते, न तु कोटिः । अत एव, आरोपितः गुणो ययोः ईदृशीभ्यां कोटिभ्याम् (प्रान्ताभ्याम्) कान्ततरा, इति व्याख्यातव्यम् । 2 दर्शनमनतिक्रम्य यथादर्शनम्, यस्यां यस्यामवस्थायां दृष्टस्ता तामवस्थामित्याशयः । 3 ऊोः स्तम्भेन सात्त्विकभावजातेन निश्चलत्वेन विधृता निस्पन्दा, इत्यर्थः । पाटा०-१ कुसुमचापचापलेखाम्. २ कान्ताम्. ३ तारकेण कथय. ४ कथं सम्यक्. ५ निक्षिप्तनानाक्षरम्; निक्षिप्तेन चक्षुषानक्षरम्. ६ वर्धमान. (444 कादम्बरी। कथाया: ܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠܠ Page #458 -------------------------------------------------------------------------- ________________ मधुकरकुलैरिवाच्छाद्यमाना, संभ्रमच्युतोत्तरीयका हारकिरणानुरसि कर्तुमिच्छन्ती, मणिकुट्टिमनिहितेन वामकरतलेन हस्तावलम्बनं निजप्रतिमामिव याचमाना, सस्तकेशकलापसंयमनश्रमितेन गलत्स्वेदसलिलेन दक्षिणकरेण समभ्युक्ष्येवात्मानमर्पयन्ती, चलितत्रिकताम्रत्रिवलीतरङ्गितरोमराजितया निष्पीड्यमानेव सर्वरसाननङ्गेन, अन्तःप्रविष्टललाटिकाचन्दनरसमिश्रमिव चक्षुषा क्षरन्ती शिशिरमानन्दजलम्, आनन्दवारिबिन्दुवेणिकया चलितावतंसधूलिधूसरं प्रियप्रतिमाप्रवेशलोभेनेव कपोलफलकं प्रक्षालयन्ती, ललाटिकाचन्दनभरेणेव किंचिदधोमुखी, तत्क्षणमपाङ्गभागयुजिततारकया तन्मुखलग्नयेव दीर्घया दृष्ट्याकृष्यमाणा कुसुमशयनादुत्तस्थौ । *********** परिमलस्तेनोपनतैः प्राप्तैरत एव परवशैरासमन्तान्मुखरैर्वाचालैरेवंविधर्मधुकरकुलैर्धमरसमूहैराच्छाद्यमानेव । संभ्रमेण सहसा च्युतमुत्तरीयक प्रावरणं वस्त्रं यस्याः सैवंभूता सती हारकिरणानुरसि कर्तुमिच्छन्ती वाञ्छन्ती । एतेन हारकिरणोत्तरीयांशुकयोरतिस्वच्छत्वसाम्या दो न ज्ञात इति भावः । मणिकुट्टिमे निहितेन स्थापितेन वामकरतलेन निजप्रतिमा प्रति हस्तावलम्बनं याचमानेव प्रार्थमानेव । एतेन स्वतः स्वशरीरधारणे न क्षमेति प्रदर्शितम् । सस्तो यः केशकलापोऽलकसमूहस्तस्य संयमनं बन्धनं तेन श्रमितेन श्रमं प्राप्तेन गलत्स्वेदसलिलेन क्षरद्धर्मवारिणा दक्षिणकरेण समभ्युक्ष्य । यस्यकस्यचिदर्पणं क्रियते तत्तु करेण प्रोक्षितस्यैवेत्यर्थः । आत्मानमर्पयन्त्यर्पणं कुर्वन्ती । चलितं यत्त्रिकं वंशाधरस्तस्य ताम्रा स्वच्छा या त्रिवली तया तरङ्गिता रोमराजिस्तस्या भावस्तत्ता तया हेतुभूतयानङ्गेन कंदर्पण सर्वरसानिष्पीड्यमानेव मर्यमानेव । एतेन चलितत्रिकस्य पीडनयन्त्रसाम्यता प्रदर्शिता । किं कुर्वती । चक्षुषा नेत्रेण शिशिरं शीतलमानन्दजलं क्षरन्ती सवन्ती । शिशिरत्वे हेतुं प्रदर्शयन्नाह - अन्तरिति । अन्तःप्रविष्टो यो ललाटिकाचन्दनरसस्तेन मिश्रमिव संपृक्तमिव । पुनः किं कुर्वन्ती । आनन्दवारिणो बिन्दवो विपुषस्तेषां वेणिकया प्रवाहेण । 'धारा वेणी रयश्च सः' इत्यमरः । चलितः स्वस्थानाच्च्युतो योऽवतंसस्तस्य धूलिः परागस्तेन धूसरं मलिनं कपोलफलकं प्रियप्रतिमाप्रवेशलोभेन प्राणप्रियप्रतिबिम्बसंक्रान्तितृष्णयेव प्रक्षालयन्ती धावनं कुर्वन्ती । ललाटिकाया यश्चन्दनभरस्तेनेव किंचिदधोमुख्यवाङ्मुखी, तत्क्षणमपाङ्गभागोऽक्षिबाह्यान्तःप्रदेशस्तत्र युञ्जिता प्रेरिता तारका कनीनिका ययैवंविधया तस्य चन्द्रापीडस्य मुखमाननं तत्र लग्नयेव दीर्घया दृष्ट्याकृष्यमाणाकर्षणं क्रियमाणा । अन्वयस्तु प्रागेवोक्तः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'परवशा' स्तम्भाख्यसात्त्विकभावेन स्वयमुत्थातुमसमर्था । अतएव मधुकरैः उत्थाप्यमानेव, इत्यर्थः । एवं च 'उत्थाप्यमाना' इत्युचितः पाटः । 2 चलितं यत् त्रिक पृष्टवंशस्य अधरास्थि, तेन ताम्यन्ती या त्रिवली (उदरस्थरेखात्रयम्) तया तरङ्गिता रोमराजियस्यास्तद्भावस्तत्ता, तया । 3 युञ्जितेति मलिनीभूतः प्रयोगः, अत एव योजितेति पदयोजना संभाव्यते । तत्क्षणम् (चन्द्रापीडदर्शनक्षणे) अपाङ्गभागे पुजिता (सर्वां शक्ति गृहीत्वा पुञ्जभावेन स्थिता) तारका यस्यामीदृश्या; तन्मुख(चन्द्रापीडमुख)लग्नया अत एव दीर्घया दृष्ट्या (चक्षुषा) आकृष्यमाणेव । दृष्टिस्तन्मुखे दृढसंबद्धा पुनश्च आकृष्यमाणा अत एव सा दीर्घाभूता । पाठा० - १ जालैः. २ उत्थाप्यमाना. ३ उत्तरीयांशुका. ४ वलित. ५ तरङ्गिणी. ६ रसम्; रसमिश्रान्. ७ चक्षुाम्. ८ च चलित; घटित. ९ पुञ्जित. उत्कण्ठिता कादम्बरी पूर्वभागः । 445 Page #459 -------------------------------------------------------------------------- ________________ चन्द्रापीडस्तु समुपसृत्य पूर्ववदेव तां महाश्वेताप्रणामपुरःसरं दर्शितविनयः प्रणनाम । कृतप्रतिप्रणामायां च तस्या पुनस्तस्मिन्नेव कुसुमशयने उपविष्टायां प्रतीहोर्योपनीतां जाम्बूनदमयीमासन्दिका रोचिष्णुरत्नप्रत्युप्तपादां पादेनैवोत्सार्य क्षितावेवोपाविशत् । अथ केयूरकः 'देवि, देवस्य चन्द्रापीडस्य प्रसादभूमिरेषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनी' इत्यभिधाय पत्रलेखामदर्शयत् । अथ कादम्बरी दृष्ट्वा ताम् 'अहो, मानुषीषु पक्षपातः प्रजापतेः' इति चिन्तयांबभूव । कृतप्रणामां च तां सादरम् ‘एोहि' इत्यभिधायात्मनः समीपं सुकुतूहलपरिजनदृश्यमानां पृष्ठतः समुपावेशयत् । दर्शनादेवोपारूढप्रीत्यतिशया च मुहुर्मुहुरेना सोपग्रहं करकिसलयेन पस्पर्श । चन्द्रापीडस्तु सपदि कृतसकलागमनोचितोपचारस्तदवस्था चित्ररथतनयामालोक्याचिन्तयत् - 'अतिदुर्विदग्धं हि मे हृदयमद्यापि न श्रद्दधाति । भवतु । पृच्छामि तावदेनाम्' इति निपुणालापेनातिप्रकाशमब्रवीत् - 'देवि, जानामि कामरतिं निमित्तीकृत्य प्रवृत्तोऽयम - *********** तदनन्तरं चन्द्रापीडस्तु समुपसृत्योपसर्पणं कृत्वा पूर्ववदेव महाश्वेताप्रणामपुरःसरं तां कादम्बरी दर्शितविनयः प्रणनाम नमश्चक्रे । तदनन्तरं कृतो विहितः प्रतिप्रणामोऽनुनमस्कारो ययैवंविधायां च तस्यां पुनस्तस्मिन्नेव कुसुमशयन उपविष्टायामासेदुष्यां प्रतीहार्या द्वारपालिकयोपनीतामानीता जाम्बूनदमयीमासन्दिका वेत्रासनम् । 'स्यावेत्रासनमासन्दी' इत्यभिधानकोशः । कीदृशैः । रोचिष्णुरत्नैः प्रत्युप्ताः पादा यस्याः सा तां पादेनैव चरणेनैवोत्सार्य दूरीकृत्य क्षितावेव पृथिव्यामेवोपाविशदुपविष्टः । अथेति । उपवेशनानन्तरं केयूरको हे देवि, देवस्य पूज्यस्य चन्द्रापीडस्य प्रसादभूमिः प्रसन्नताधरित्र्येषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनीत्यभिधायेत्युक्त्वा पत्रलेखामदर्शयद् दृग्विषयतामप्रापयत । अथेति । दृग्विषयीकरणानन्तरं कादम्बरी तां दृष्ट्वा विलोक्य चिन्तयांबभूवेति चिन्तितवती । इतिशब्दद्योत्यमाह - अहो इति । प्रजापतेर्विधातुरहो मानुषीषु पक्षपातोऽङ्गीकारः । कृतः प्रणामो नमस्कारो ययैवं भूता च सादरं सबहुमानं एहि एहि इत्यभिधायात्मनः समीपे स्वकीयनिकटे सह कुतूहलेन वर्तमानो यः परिजनः परिवारजनस्तेन दृश्यमानां विलोक्यमानां पृष्ठतः समुपादेशयनिवेशितवती । अथ दर्शनादेव विलोकनादेवोपारूढः प्रादूर्भूतः प्रीतेरतिशय आधिक्यं यस्यां (स्याः) सा मुहुर्मुहुर्वारंवारमेनां पत्रलेखा सोपग्रह सानुकूलनं करकिसलयेन पाणिपल्लवेन पस्पर्श स्पर्श चकार । चन्द्रापीडस्तु सपदि शीघ्र कृतो विहितः सकलः समग्र आगमनस्यागमने वोचितो योग्य उपचारो विनयो येन स तदवस्था विरहविक्लवां चित्ररथतनयां कादम्बरीमालोक्य वीक्ष्याचिन्तयदध्यायत् । हीति निश्चितम् । मे मम हृदयं चेतोऽतिदुर्विदग्धमतिजडं यदद्यापि न श्रद्दधाति न निश्चयं करोति । इयमीदृश्यवस्था किं कामात्, अन्यप्रियनिमित्ताद्वेति प्रकारान्तरस्यासंभवात् । कामनिमित्तकत्वेऽवगतेऽपि विपरीतसंभावनेति दुर्विदग्धपदव्यङ्ग्यम्, अत एव निश्चयानुरोधेनाह - भवत्विति । कामनिमित्तक एवास्तु, परं तावदादावेनां पृच्छामीति कृत्वा निपुणालापेन नातिप्रकाशं नातिस्पष्टमब्रवीदवोचत् । हे देवि कादम्बरि, अहं जानामि कामनिर्वचनीयस्वरूपामरतिं निमित्ती - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 सस्नेहम् । 2 वस्तुतस्तु 'पृच्छामि तावदेनां निपुणालापेनेति' अचिन्तयदित्यस्य कर्मभूतो वाक्यार्थः । निपुणालापेन चतुरजनोचितालापेन (व्यङ्ग्यार्थपूर्णेनेत्यर्थः) एना पृच्छामीति नायकोऽचिन्तयन्मनसि । तदनन्तरं 'प्रकाशमब्रवीत् इति पाठः । अर्थः स्पष्टः । - - - पाटा० - १ समुपविष्टायाम्. २ समुपनीताम्. ३ सकुतूहलं परिजनेन दृश्यमानाम्. ४ मुहुः. ५ इति प्रकाशं वाचम्. ६ जानासि. ७ अविरलसंतापतीव्रः. प [446 IV कादम्बरी । N O कथायाम् Mak११५६२६६२५।। Page #460 -------------------------------------------------------------------------- ________________ विचलसंतापतन्त्रो व्याधिः । सुतनु, सत्यं न तथा त्वामेष व्यथयति यथास्मान् । इच्छामि देहंदानेनापि स्वस्थामत्रभवतीं कर्तुम् । उत्कम्पिनीमनुकम्पमानस्य कुसुमेषु पीडया पतितामवेक्षमाणस्य पततीव मे हृदयम् । अनङ्गदे तनुभूते ते भुजलते गाँढसंतापतया च दृष्ट्या वहसि स्थलकमलिनीमिव रक्ततामरसाम् । दुःखितायां च त्वयि परिजनोऽपि चानवरतकृताश्रुबि - *********** कृत्यायमविचलो यः संतापस्तस्य तन्त्र आधीन एवंविधोऽपि व्याधिः प्रवृत्तः । हे सुतनु हे कादम्बरि, सत्यमिदं नौपचारिक वचः, त्वामेष व्याधिर्न तथा व्यथयति पीडयति यथास्मान् । देहदानेनाप्यत्रभवती पूज्यां स्वस्थां सज्जा कर्तुमिच्छाम्यभिलषामि । उत्कम्पिनी त्वां प्रत्यनुकम्पमानस्यानुकम्पां कुर्वाणस्य कुसुमेषु कंदर्पस्तस्य पीडया पतितां सस्तामवेक्षमाणस्य पश्यतो मे मम हृदयं चेतः पततीव । कादम्बर्या विरहकाऱ्या प्रकटयन्नाह - अनङ्गदे इति । गाढसंतापतया तनुभूते ते भुजलते अनङ्गदे बाहुभूषणवर्जिते दृष्ट्या कृत्वा रक्ततामरसां स्थलकमलिनीमिव त्वं वहसि । अत्र कृशभुजलतयोम॒णालसाम्यम्, नेत्रयो रक्ततामरससाम्यमिति भावः । त्वयि दुःखितायां सत्या परिजनोऽप्यनवरतं निरन्तरं कृतो योऽश्रुबिन्दुपातस्तेन वर्तते प्रवृत्तो भवती - टिप्प० - 1 वाक्संदर्भस्यास्य व्यङ्गयोऽर्थः प्रकाश्यते । काम् (अनिर्वचनीयाम्) अरतिं निमित्तीकृत्येति प्रकटोऽर्थः । कामरति मदनानुरागमिति व्यङ्गयोऽर्थः । देहदानेन शरीरावसानं कृत्वापि त्वां सुस्था कर्तुमिच्छामीति प्रकटोऽर्थः । रतिकाले देहार्पणेनेति व्यङ्ग्योऽर्थः । अत्र 'सुतनु इति संबोधनमपि रतकालिक सर्वावयवसौन्दर्यं हृदयाकर्षकमभिव्यनक्ति । उत्कम्पिनी व्याधिवशादत्यन्तकम्पवतीं त्वाम् अनु (लक्ष्यीकृत्य) कम्पमानस्य तव कम्पं दृष्ट्वा कम्पयुक्तस्येत्यर्थः । तथा पीडया कुसुमेषु पुष्पेषु पतितां शयितामवलोकमानस्य मे हृदयं पततीव तव कष्टं दृष्ट्वा बहिर्निर्गच्छतीव । इति प्रकटोऽर्थः । उत्कम्पिनी प्रबलकामोदयात्कम्प (सात्त्विकभाव)वतीं त्वाम् अनुकम्पमानस्य रमणद्वारा दयापात्रं कर्तुमिच्छतः, कुसुमेषु(काम)पीडया पतितां शिथिलतनुम् अवेक्षमाणस्य मे हृदय पततीव रमणाय धावतीवेति व्यङ्गयोर्थः । अनङ्गदे इत्यादेः प्रकटोर्थो यथाकथंचित्प्रकटीकृत एव । हे अनङ्गदे (कामवर्धिके !) ते भुजलते कामपीडया तनु (कृशी) भूते, गाढसंतापया दृष्ट्या च स्थले (पद्मिनीचित्रिणीत्यादिनायिकाकीर्णस्थले) कमलिनी पद्मिनीनायिकारूपमात्मानं वहसीव, ररहिताम्, रमणरूपशृङ्गारप्रयोजनरहिताम्) रक्तता अनुरक्तता वहसीव । तीव्रमदनसंतापसूचिकया दृष्ट्या पद्मिनीभूतस्यात्मनो रमणफलवञ्चितं मदनानुरागं सूचयसीवेति व्यङ्गयोर्थः । 2 अत्र 'अश्रुबिन्दुपातेन वर्तते मुक्ताभरणता । गृहाण स्वयंवरार्हाणि मङ्गलप्रसाधनानि । सकुसुमशिलीमुखा हि शोभते नवा लता' इति पाठः । टीकासाहाय्येन प्रकटोर्थो ज्ञायेत । अश्रुविन्दुपातेन तासु (सखीषु) मुक्तानामाभरणयुक्तता, अर्थात् अश्रुद्वारा मुक्ताभूषणभूषिताः सन्तीति । व्यङ्गयोर्थेस्तु तव दुःखेन परिजने व्यक्तभूषणता (निराभरणता), अत एव त्वं स्वयंवर(विवाह)योग्यानि मङ्गलाभरणानि गृहाण, नवा लता नास्ति वालता (शैशवम्) यत्र सा नवालता (अर्थात् युवतिः, श्लेषे बवयोरभेदः) सकुसुमशिलीमुखा कुसुमशिलीमुखेन (पुष्पशरेण, कामेन) सहिता शोभते, न पुनः कामेन रहिता । इति द्वयोः पाठयोस्तारतम्य सहृदयैस्तुलनीयम् । पाठा० - १ तामय व्यथयति तथा माम्. २ देहप्रदानेन. ३ अनङ्गतनुभूते; अनङ्गदेवतनुभूते. ४ गाढसंतापया. ५ दुःखितायामपि त्वयि; अपि चानवरत. ६ परिजनेऽपि वा. द्वयो सभङ्गि भाषणम् पूर्वभागः । 447 Page #461 -------------------------------------------------------------------------- ________________ न्दुपातेन वर्तते । मुक्ताभरणतां गृहाण । स्वयंवरार्हाणि प्रसाधनानि । कुसुमशिलीमुखान्तर्हिता शोभते यथा लता' इति । अथ कादम्बरी बालतया स्वभावमुग्धापि कंदर्पेणोपदिष्टयेव प्रज्ञया तमशेषमस्याव्यक्तव्याहारसूचितमर्थं मनसा जगाह । मनोरथानां तु तावतीं भूमिमसंभावयन्ती शालीनतां चावलम्बमाना तूष्णीमेवासीत् । केवलमुत्पादितान्यव्यपदेशा तत्क्षणं तमाननामोदमघुकरपटलान्धकारितं मुखं द्रष्टुमिव स्मितालोकमकरोत् । ततो मदलेखा प्रत्यवादीत् 'कुमार, किं कथयामि । दारुणोऽयमकथनीयः खलु संतापः । अपि च कुमारभावोपेतायाः किमिवास्या यन्त्र संतापाय । तथा हि । मृणालिन्याः शिशिरकिसलयमपि हुताशनायते । ज्योत्स्नाप्यातपायते । ननुं किसलयतालवृन्तवातैर्मनसि जायमानं किं न पश्यति भवान्खेदम् । धीरत्वमेव प्राणसंधारणहेतुरस्याः' इति । कादम्बरी तु हृदयेन तमेव मदलेखालाप *********** त्यर्थः । एतेनाश्रुपातस्य नैरन्तर्यं सूचितम् । मुक्तानामाभरणानि तेषां भावे मुक्ताभरणता तां गृहाण स्वीकुरु । स्वयमात्मना वराणि प्रधानान्यर्हाणि योग्यानि प्रसाधनानि प्रतिकर्माणि । कुर्विति क्रियाध्याहारः । कुसुमानि पुष्पाणि, शिलीमुखा भ्रमराः; ताभ्यामन्तर्हिताच्छादिता यथा लता वल्ली शोभते राजते तथा त्वमपीति भावः । शुक्लत्वसाम्यान्मुक्तानां कुसुमसाम्यम्, नेत्राञ्जनस्य कृष्णत्वसाम्याद्भ्रमरसाम्यमिति भावः । - अथेति । तदनन्तरं कादम्बरी बालतया शिशुतया स्वभावेन मुग्धापि सरलाशयापि कंदर्पेण मदनेनोपदिष्टयेव दर्शितयेव प्रज्ञा शे समग्रमव्यक्तव्याहारोऽस्फुटभाषितं तेन सूचितं ज्ञापितमुपभोगविषयकं रहः संगमरूपं वार्थं मनसा जग्राह गृहीतवती । मनोरथानां त्वभिलाषाणां तु तावतीं भूमिं संगमरूपलक्षणामसंभावयन्त्यवितर्कयन्ती शालीनेतां दृष्टतां चावलम्बमाना । 'दृष्टेः शालीनशारदी' इति कोशः । तूष्णीमेवासीत् । केवलमुत्पादितोऽन्यव्यपदेशो मिषं ययैवंभूता तत्क्षणमाननस्यामोदस्तस्माद्यन्मधुकरपटलं तेनान्धकारितमन्धकारवदाचरितं मुखमाननं द्रष्टुमिव स्मितालोकं स्मितलक्षणमालोकं प्रकाशमकरोत् । स्मितेन दन्तज्योत्स्नाया बहिर्निर्गमेन प्रकाशसंभवात् । ततो मदलेखा प्रत्यवादीत् । कुमार, किं कथयामि किं ब्रवीमि । अयं दारुणस्तीव्रोऽकथनीयो वक्तुमशक्यः खलु निश्चयेन संतापः । अपि चेति युक्त्यन्तरे । कुमारभावोपेताया अस्याः किमिव यन्न संतापाय भवति । तदेव दर्शयति तथा हीति । मृणालिन्याः कमलिन्याः शिशिरकिसलयमपि हुताशनायते वह्निवदाचरति । ज्योत्स्नापि चन्द्रिकाप्यातपायते सूर्यालोकायते । नन्विति वितर्के । किसलयानि पल्लवास्त एव तालवृन्तानि तेषां वातैः पवनैर्मनसि जायमानं खेदं भवान्कि न पश्यति । अतोऽस्याः कादम्बर्या धीरत्वमेव प्राणसंधारणे जीवितधारणे हेतुर्निमिमिति । कादम्बरी तु हृदयेन तमेव पूर्वोक्तमेव मदलेखालापं मदलेखाजल्पितमस्य चन्द्रापीडस्य प्रत्युत्तरीचकार । प्रतिवचः प्रादादित्यर्थः । . टिप्प० 1 शालीनपदस्य अधृष्टः (विनीतः ) इत्यर्थः, 'स्यादधृष्टे तु शालीनः' इत्यमरः । 2 अस्मिन्नर्थे 'तमाननामोद' इति 'तम्' अनन्वितं भवति । वस्तुतस्तु 'मुखम्' इति नास्त्येव । मधुकरपटलान्धकारितं तम् (चन्द्रापीडम् ) द्रष्टुमिव स्मितालोकमकरोदिति पाठेऽस्मिन्स्पष्टोऽर्थः । 3 कुमारभावोपेतायाः ( कौमार्ययुक्ततया सुकुमारायाः) अस्याः सर्व संतापायेति प्रकटोऽर्थः । कुमारे (अर्थात् त्वयि ) भावोपेताया अनुरक्तायाः अथवा कुत्सितो मारो यस्मादीदृशे त्वयि किं वा कुत्सितो यो मारः तस्य भावोपेताया आवेशक्रियां प्राप्तायाः अस्याः विरहोद्दीपकतया सर्वमपि वस्तुजातं तापायेति व्यङ्ग्योर्थः । 4 हे धीर ! त्वमेव संप्रति अस्याः प्राणसंधारणे हेतुः, त्वां प्राप्यैव सेयं जीवितुं शक्नुयादिति गूढोऽर्थः । पाठा० - १ मङ्गलप्रसाधनानि २ सकुसुमशिलीमुखा हि शोभते नवा लता. ३ सुकुमार. ४ ननु किसलय. ५ पश्यसि. ६ कादम्बरीहृदयेन. 448 कादम्बरी | कथायाम् Page #462 -------------------------------------------------------------------------- ________________ मस्य प्रत्युत्तरीचकार । चन्द्रापीडोऽप्युभयथाघटमानार्थतया सदेहदोलारूढेनैव चेतसा महाश्वेतया सह प्रीत्युपचयचतुराभिः कथाभिर्महान्तं कालं स्थित्वा तथैव महता यत्नेन मोचयित्वात्मानं स्कन्धावारगमनाय कादम्बरीभवनान्निर्ययौ । निर्गतं च तुरङ्गममारुरुक्षन्तं पश्चादागत्य केयूरकोऽभिहितवान् - "देव, मदलेखा विज्ञापयति - 'देवी कादम्बरी खलु प्रथमदर्शनजनितप्रीतिः पत्रलेखां निवर्त्यमानामिच्छति, पश्चाद्यास्यति' इति श्रुत्वा देवः प्रमाणम् ।" इत्याकर्ण्य चन्द्रापीडः 'केयूरक, धन्या स्पृहणीया च पत्रलेखा, यामेवमनुबध्नाति दुर्लभो देवीप्रसादः । प्रवेश्यताम् । इत्यभिधाय पुनः स्कन्धावारमेवाजगाम । प्रविशन्नेव पितुः समीपादागतमभिज्ञाततरमालेखहारकमद्राक्षीत् । धृततुरङ्गमश्च प्रीतिविस्फारितेन चक्षुषा दूरादेवापृच्छत् - 'अङ्ग, कच्चित्कुशली तातः सह सर्वेण परिजनेन ? अम्बा च सर्वान्तःपुरैः? इति । अथासावुपसृत्य प्रणामानन्तरम् ‘देव, यथाज्ञापयसि' इत्यभिधाय लेखद्वितयमर्पयांबभूव । युवराजस्तु शिरसि कृत्वा स्वयमेव च तदुन्मुच्य क्रमशः पपाठ - _ 'स्वस्त्युज्जयिनीतः सकलराजन्यशिखण्डशेखरीकृतचरणारविन्दः परममाहेश्वरी महाराजाधिराजो देवस्तारापीडः सर्वसंपदामायतनं चन्द्रापीडमुदञ्चच्चारुचूडामणिमरीचिचक्र - *********** एतत्कृतो मम विरहो मत्कृतश्चास्या इत्युभयथाघटमानार्थतया विरहतापः सोढुं शक्यो न वेति सदेहदोलारूढेनैव चेतसा महाश्वेतया सह प्रीत्युपचयो रसपुष्टिस्तत्र चतुराभिर्दक्षाभिः कथाभिर्वार्ताभिर्महान्तं कालं च स्थित्वावस्थानं कृत्वा तथैव पूर्वप्रकारेणैव महता यत्नेनात्मानं मोचयित्वा स्वस्य मुक्ति विधाय स्कन्धावारगमनाय स्वसैन्यनिवेशगमनाय । 'स्कन्धावारोऽस्य तु स्थितिः' इति कोशः । चन्द्रापीडोऽपि कादम्बरीभवनानिर्ययौ निर्जगाम । निर्गतं च तुरङ्गममश्चमारुरुक्षन्तमारोढुमिच्छन्तं पश्चादागत्यैत्य केयूरकोऽभिहितवान् । किं तदित्याह - देवेति । हे देव, मदलेखा विज्ञापयति विज्ञप्तिं करोति । एतदेव दर्शयति - देवेति । खलु निश्चयेन देवी कादम्बरी प्रथमदर्शनेन जनिता प्रीतिर्यस्या एवंभूता पत्रलेखां निवर्त्यमानामिच्छति समीहते । पञ्चायास्यति गमिष्यति । इति श्रुत्वा देवः प्रमाणम् । इत्याकर्ण्य चन्द्रापीडः प्रवेश्यतां गृहीत्वा गम्यतामित्यभिधायेत्युक्त्वा पुनः स्कन्धावारमेवाजगाम । इति शब्दद्योत्यमाह - केयूरकेति । हे केयूरक, धन्या स्पृहणीया च पत्रलेखा यां पत्रलेखां दुर्लभो दुःप्रापो देवीप्रसादः कादम्बरी प्रसन्नता एवं अनुबध्नात्यनुबन्धं करोति । स्कन्धावार प्रविशन्नेव पितुः समीपाजनकपादिभिज्ञाततरमतिशयेन ज्ञातपूर्वमासमन्ताल्लेखहारकमुदन्तहारकमद्राक्षीत् । धृततुरङ्गश्च स्थापिताश्वश्च प्रीत्या स्नेहेन विस्फारितेन विस्तीर्णीकृतेन चक्षुषा दूरादेवापृच्छत् । हे अङ्ग । कञ्चिदिति प्रश्ने । तातः पिता कुशली वर्तते । सर्वेण परिजनेन सह । तथा सर्वान्तःपुरेः सहाम्बा माता च कुशलिनीति । अथेति प्रश्नानन्तरमसावुपसृत्योपसरणं कृत्वा प्रणामानन्तरं नमस्कृतेरनु हे देव, यथाज्ञापयसि यथा कथयसि तथास्तीति भावः । इत्यभिधाय लेखद्वितयमर्पयांबभूवार्पितवान् । युवराजस्तु चन्द्रापीडस्तु शिरसि कृत्वा मस्तके निधाय स्वयमेवात्मनैव तल्लेखद्वयमुन्मुच्योन्मुद्य क्रमशः पपाठ पठितवान् । किं तदित्याह - स्वस्तीति । स्वस्ति यथा स्यात्तथोज्जयिनीतो विशालातः सकलराजन्यानां समग्रभूपानां शिखण्डैश्चूडाभिः शेखरीकृत चरणारविन्दं यस्य स परममाहेश्वरोत्युत्कृष्टशैवो महाराजाधिराजो महतां राज्ञामधीशस्तारापीडः सर्वसंपदा समग्रसमृद्धीनामायतनं गृहमेवंभूत चन्द्रापीडमुदञ्चदुल्लसच्चारु मनोहारि यच्चूडामणि - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'कुमारभाव' शब्दस्य कौमार्यं स्वस्मिन्ननुरागश्चेति प्रकारद्वयेन घटिततया । 2 आलेखहारकः पत्रवाहकः । - - - - - - - - - पाटा० - १ मधुरालापगर्भाभिः कथाभिः. २ निजस्कन्धावार. ३ अभिजगाम; जगाम. ४ अभिजाततरम्. (स्कन्धावारे तारापीडस्य पत्रप्राप्तिः पूर्वभागः । 449 Page #463 -------------------------------------------------------------------------- ________________ चुम्बिन्युत्तमाङ्गे चुम्बन्नन्दयति । कुशलिन्यः प्रजाः । किं नु कियानपि कालो भवतो दृष्टस्य गतः । बलवदुत्कण्ठितं नो हृदयम् । देवी च सहान्तःपुरैानिमुपनीता । अंतो लेखवाचनविरतिरेव प्रेयाणकारणतां नेर्तव्या' इति । शुकनासप्रेषिते द्वितीयेऽप्यमुमेवार्थं लिखितमवाचयत् । अस्मिन्नेवावसरे समुपसृत्य वैशम्पायनोऽपि लेखद्वितयमपरमात्मीयमस्मादभिन्नार्थमेवादर्शयत् । अथ 'यथाज्ञापयति तातः' इत्युक्त्वा तथैव च तुरगाधिरूढः प्रयाणपटहमदापयत् । समीपे स्थितं च महताश्चीयेन परिवृत महाबलाधिकृतं बलाहकपुत्र मेघनादनामानमादिदेश - "भवता पत्रलेखया सहागन्तव्यम् । नियतं च केयूरकस्तामादायैतावती भूमिमागमिष्यतीति, तन्मुखेन विज्ञाप्या प्रणम्य देवी कादम्बरी - 'नन्वियं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकृतिमानां येषामकाण्डविसंवादिन्यः प्रीतयो न गणयन्ति निष्कारणवत्सलताम् । एवं गच्छता मयात्मनो नीतः स्नेहः कपटकूटजालिक - *********** मरीचिचक्रं शिरोमणिदीप्तिपटलं तञ्चुम्बिन्युत्तमाङ्गे शिरसि चुम्बंधुम्बनं कुर्वनन्दयति प्रमोदयति । प्रजाः प्रकृतयः कुशलिन्यो मङ्गलवत्यः सन्ति । किं न्विति । किं नु भवतो दृष्टस्य कियानपि कालः समयो गतो व्यतीतः तेन नोऽस्माकं बलवत्युत्कण्ठोत्कलिका जाता यस्मिन्नेतादृशं हृदयमस्ति । देवी च तवाम्बा सहान्तःपुरैम्लानिमुपनीता प्रापिता । अत्र सहान्तःपुररित्यनेनोपमातरोऽपि त्वां समीहन्त इति सौजन्यातिशयः सूचितः । अतो हेतोर्लेखवाचनस्य विरतिरेवावसानमेव प्रयाणकारणतां प्रस्थाननिमित्ततां नेतव्या प्रापणीया । शुकनासेन प्रेषिते द्वितीयेऽपि लेखेऽमुमेवार्थं लिखितं लिपीकृतमवाचयदपठत् । अस्मिन्नेवावसरे समये समुपसृत्य समीपमागत्य वैशम्पायनोऽप्यपरमात्मीयं लेखद्वितयमस्मात्स्वकीयलेखादभिन्नार्थमेकाभिधेयमेव, अदर्शयद्दर्शितवान् । अथेति । तद्वाचनानन्तरं यथाज्ञापयति यथाज्ञां दत्ते तातः पिता । इत्युक्त्वा तथैव पूर्ववदेव तुरगाधिरूढः प्रयाणपटहं प्रयाणभेरीमदापयद्दापितवान् । समीपे स्थितं महताश्चीयेन बलेन परिवृतं महाबलं सैन्यं तत्राधिकृतं नियुक्तं बलाहकस्य पुत्र मेघनादनामानमादिदेशादिष्टवान् । भवता त्वया पत्रलेखया सहागन्तव्यं समेतव्यम् । नियतं निश्चित केयूरकस्तां पत्रलेखामादाय गृहीत्वैतावती भूमिमागमिष्यतीति तन्मुखेन केयूरकमुखेन प्रणम्य देवी कादम्बरी विज्ञाप्या विज्ञप्तिविषयीकरणीया । नन्विति वितर्के । तेषां मर्त्यांना या निरनुरोधा निर्गतः कस्याप्यनुरोधः स्वकार्यप्रतिबन्धो यस्या, निर्गतः परिचयः संख्यानुवृत्तिर्यस्याम् । दुर्ग्रहेति । दुर्दुष्टो ग्रह आग्रहो हठो यस्यामेवंविधा प्रकृतिः स्वभावः सा प्रकृतिस्त्रिभुवननिन्दनीया स्यात् यत्तदोर्नित्याभिसंबन्धाद्येषां मर्त्यानामकाण्डेऽप्रस्तावे विसंवादिन्यो व्यभिचारिण्यः प्रीतयो निष्कारणवत्सलतां निर्निमित्तहितकारितां न गणयन्ति न मनस्यानयन्ति । एवममुना प्रकारेण गच्छता व्रजता मयात्मनः स्नेहः स्वकीया प्रीतिः कपट कैतवं तस्य कूटजालिका मिथ्याप्रपञ्चस्तद्रूपतां नीतः प्रापितः । भक्तिराराध्यत्वेन ज्ञानं वा साप्यलीका मिथ्या या - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'किन्तु इत्युचितः पाठः । 'सर्वं कुशलं किन्तु...' इति तदर्थः । 2 वाचनावसानं न कारणम्, अतः 'प्रयाणकालताम्' इत्युचितः पाठः । 3 इति शब्दोत्र नोचितः। 4 परिज्ञानम् । 5 कपटः (कपटकारी) यः कुटजालिकः असत्यव्यवहारवान् तद्धावस्ताम् । पाठा० - १ भवतोत्कृष्टस्य गतः; भवतो गतस्य. २ देवीसमेतं नो हृदयम्. ३ यतस्ततः. ४ अविरतिरेव. ५ प्रयाणकालताम; प्रयाणकालता. ६ कल्याणिना नेतव्या. ७ अवादयत्. ८ समीपस्थितम्, समीपावस्थितम्. ९ महता श्वेताश्चीयेन. 450 कादम्बरी । कथायाम Page #464 -------------------------------------------------------------------------- ________________ ताम्, प्रापिता भक्तिरलीककाकुकरणकुशलताम्, पातितमुपचारमात्रमधुरं धूर्ततायामात्मार्पणम्, प्रकटितं वाङ्मनसयोभिन्नार्थत्वम् । आस्तां तावदात्मा । अस्थानाहितप्रसादा दिव्ययोग्या देव्यपि वक्तव्यतां नीता । जनयन्ति हि पाश्चाद्वैलक्ष्यमभूमिपातिता व्यर्थाः प्रसादामृतदृष्टयो महताम् । न खलु तथा देवी प्रति प्रबललज्जातिभारमन्थरं मे हृदयं यथा महाश्वेतां प्रति । नियतमेनामलीकाध्यारोपणवर्णितास्मद्गुणसंभारामस्थानपक्षपातिनीमसकृदुपालप्स्यते देवी । तत्कि करोमि ? गरीयसी गुरोराज्ञा प्रभवति देहमात्रकस्य । हृदयेन हेमकूटनिवासव्यसनिना लिखितं जन्मान्तरसहसस्य दास्यपत्रं देव्या हस्ते न दत्तमस्याः । दविकगौल्मिकेनेव देवीप्रसादेन गन्तुं सर्वथा गतोऽस्मि पितुरादेशादुज्जयिनीम् । प्रसङ्गतो - *********** काकुर्वक्रोक्तिस्तस्याः करणे कुशलता दक्षता प्रापिता । उपचारो बाह्यविनयस्तन्मात्रेण मधुरं मिष्टमात्मार्पणं भवदीयोऽहमिति स्वस्यार्पण धूर्ततायां पातितं क्षिप्तम् । वाङ्मनसयोरिति । 'अचतुर-' इत्यादिना निपातः । भिन्नार्थत्वं विसंवादित्वं प्रकटितमाविष्कृतम् । तावदादावात्मास्तां तिष्ठतु । ममेति शेषः । अस्थानेऽयोग्य आहितः स्थापितः प्रसादो ययात एवाह - दिव्यानां योग्योचितैवंविधा देव्यपि कादम्बर्यपि दूरदेशागतेन चन्द्रापीडेन कारणं विना कथं सख्यं प्राप्तेति वक्तव्यतां वचनीयता नीता प्रापिता । मयेति शेषः । हि यस्माकारणादभूमिपातिता अस्थानपातिता व्यर्था निष्फलाः प्रसादामृतदृष्टयः प्रसन्नतापीयूषदृशः पश्चान्महतां वैलेक्ष्यं जनयन्त्युत्पादयन्ति । स्थानविशेषे प्रीतिविशेष प्रदर्शयन्नाह - न खल्विति । खलु निश्चये । न तथा देवी प्रति कादम्बरी प्रति प्रबला प्रकृष्टा या लज्जा त्रपा तस्या अतिभारोऽतिवीवधस्तेन मन्थरमलसं मे मम हृदयं चेतो यथा महाश्वेतां प्रति वर्तते । नियतं निश्चितमलीकाध्यारोपेण वर्णितः स्तुतोऽस्मद्गुणसंभारो यया तामस्थानेऽनुचितस्थले पक्षपातो विद्यते यस्या एवंविधामेनां महाश्वेता देवी कादम्बर्यसकृद्वारंवारमुपालप्स्यते । उपालम्भं दास्यतीत्यर्थः । तत्किं करोमि । कोप्युपायो नास्तीत्यर्थः । अस्मिन्नर्थे हेतुं प्रदर्शयन्नाह - गरीयसीति । देहमात्रकस्य शरीरमात्रचारिणो गुरोराज्ञा निदेशो गरीयसी गरिष्ठा प्रभवति जायते । हेमेति । हेमकूटे निवासस्तव्यसनिना हृदयेन चित्तेन जन्मान्तरसहसस्य दास्यपत्रं लिखितमस्या देव्या हस्तेन दत्तम् । पितुराशाजनकनियोगादुज्जयिनीं गन्तुं सर्वथाहं गतोऽस्मि । केन । देवीप्रसादेन । कादम्बर्या महात्म्येनेत्यर्थः । देवयोनित्वात्तस्या इति भावः । केनेव । दविकगौल्मिकेनेव वनेचरसमूहेनेव । सोऽपि देवी उपोदकी तदनुरोधेनैव - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 लज्जा । 2 अत्रत्य इतरपरम्परागतमत्र विलिख्य आवश्यकोर्थः सूच्यते । 'हृदयेन तु हेमकूटनिवासव्यसनिना लिखितं. जन्मान्तरसहसस्य दास्यपत्रं देव्याः । न दत्तमस्याटविकस्य गौल्मिकेनेव देवीप्रसादेन गन्तुम्, सर्वथा गतोस्मि पितुरादेशादुज्जविनीम् । प्रसङ्गतोऽसज्जनकथाकीर्तनेषु स्मर्तव्यश्चन्द्रापीडचण्डालः । मा चैवं मंस्था... इति पाठः । टीका - तर्हि किं देवीं (कादम्बरीम) सर्वथा विस्मृतवानेव, अत आह - गुरोः (पितुः) आज्ञा देहमात्रकस्य केवलं देहस्य प्रभवति, तज्जनितत्वात् । अत एव हि कुत्सासूचकः कप्रत्ययः । अतः केवलं देहमुज्जयिनी नयामि । हृदयस्य तु हेमकूटनिवासो व्यसनतया परिणतः । अत एतादृशेन हृदयेन तु (कत्रा) नास्यैव जन्मनः कृते, अपि तु जन्मान्तत्सहसस्य दास्यपत्रं लिखित्वा देव्याः समीपे दत्तम् (अतो हृदयं तनिकटे स्थास्यति) । विस्मरणाभावे अन्यदपि कारणमाह - गौल्मिकेन सेनाधिकृतेन आटविकस्य वनचरस्येव, देव्याः (कादम्बर्याः) प्रसादेन अस्य (अर्थात मद्रपस्य जनस्य) गन्तुं न दत्तम्, सेनाध्यक्षो यथा चपलं वनेचरं नियमयति तथा देव्या अनुग्रहो मामपीत्यर्थः । किन्तु केवलं पितुरादेशाद्देमात्रेणोज्जयिनीं गतोस्मि । पाठा० - १ पातितमुपचारमधुरम्; प्रकाशितमुपचारमात्रमधुरम्. २ धूर्ततयात्मार्पणम्. ३ वृष्टयः. ४ देवमात्रस्य, हि देवमात्रकस्य. ५ देव्या न दत्तमस्याटविकस्य गौल्मिकेनेव. ६ असंगत. चन्द्रापीडस्योज्जयिनीप्रस्थानम् पूर्वभागः । Page #465 -------------------------------------------------------------------------- ________________ जनकथाकीर्तनेषु स्मर्तव्यः खलु चन्द्रापीडः । चण्डालो मा चैवं मंस्थाः, यथा जीवन्पुनर्देवीचरणारविन्दवन्दनानन्दमननुभूय स्थास्यति चन्द्रापीड इति । महाश्वेतायाश्च सप्रदक्षिणं शिरसा पादौ वन्दनीयौ । मदलेखायाश्च कथनीयः प्रणामपूर्वमशिथिलः कण्ठग्रहः । गाढमालिङ्गनीया च तमालिका । अस्मद्वचनादशेषः प्रष्टव्यः कुशलं कादम्बरीपरिजनः, रचिताञ्जलिना च भगवानामन्त्रणीयो हेमकूटः' इति । एवमादिश्य तम्, 'सुहृदादिसाधनमक्लेशयता शनैः शनैर्गन्तव्यम्' इत्युक्त्वा वैशम्पायनं स्कन्धावारभरे न्ययुङ्क्त । स्वयमपि च तथारूढ एव गमनहेलाहर्षहेषारवकम्पितकैलासेन खुरताण्डवखण्डितभुवा कान्तकुन्तलतावनवाहिना तरूणतुरगप्रायेणाचसैन्येनानुगम्यमानस्तमेव लेखहारक पर्याणलग्नमभिनवकादम्बरीवियोगशून्येनापि हृदयेनोज्जयिनीमार्गं पृच्छन्प्रतस्थे । क्रमेण चातिप्रवृद्धप्रकाण्डपादपप्रायया, मालिनीलतामण्डपैर्मण्डलिततरुखण्डया, वनगज - *********** गच्छति । तथा प्रसङ्गतो जनकथा सौव(सेव्य) सेवककथा तस्यां कीर्तनेषु नामोच्चारणेषु खलु निश्चयेन चन्द्रापीडः स्मर्तव्यः स्मरणीयः । अयं चण्डालः कृतघ्नत्वादेवं मा मंस्था मा जानीयाः । यथा जीवन्पुनश्चन्द्रापीडो देव्याः कादम्बर्याश्चरणारविन्दस्याङ्घ्रिपद्मस्य वन्दनं नमस्करणं तस्माद्य आनन्दः प्रमोदस्तमननुभूयानुभवविषयीकृत्य स्थास्यति । अत्र काकुः । न स्थास्यतीत्यर्थः । इति महाश्वेतायाश्च सप्रदक्षिणं प्रदक्षिणासहितं यथा स्यात्तथा शिरसा मस्तकेन पादौ वन्दनीयौ नमस्करणीयौ । तथा मदलेखायाश्च प्रणामो नमस्कारस्तत्पूर्वकमशिथिलः कण्ठग्रहः कथनीयो वाच्यः । तथा गाढमत्यर्थमालिङ्गनीया परिरम्भणीया च तमालिका । अशेषः समग्रः कादम्बरीपरिजनोऽस्मद्वचनात्कु. शलं श्रेयः प्रष्टव्यः । रचिताञ्जलिना च त्वया भगवान्हेमकूटः ना(आ)मन्त्रणीय आमन्त्रणीय इति पूर्वोक्तया दिशादिश्यादेशं दत्त्वा न मेघनादम्, सुहृदादिसाधनं मित्रादिसैन्यमक्लेशयता खेदयता त्वया शनैः शनैर्गन्तव्यमित्युक्त्वा वैशम्पायनं स्कन्धावारभरे न्ययुक्त नियोजितवान् । स्वयमपि च तथा पूर्वोक्तप्रकारेणारूढ एव गमनलक्षणा या हेला तया हर्षः तस्य हेषारवस्तेन कम्पितः कैलासो येन । खुरेति । खुरताण्डवेन खण्डिता भूर्येन स तेन । कान्तेति । कान्ता मनोहरा ये कुन्ता भल्लाः सरलत्वसाम्यात्त एव लतास्तासां वनं तद्वाहिना । तरुण इति । तरुणा नव्यास्तुरगाः प्रायेण बाहुल्येन यस्मिन्नेवंविधेनाश्चसैन्येनानुगम्यमानस्तमेव पूर्वोक्तमेव लेखहारकं पर्याणं पल्ययनं तत्र लग्नम् । अभीति । अभिनवः प्रत्यग्रो यः कादम्बरीवियोगस्तेन शून्येनापि हृदयेनोज्जयिनीमार्ग पृच्छन्प्रतस्थे चचाल । क्रमेण चेति । स चन्द्रापीडः क्रमेण परिपाट्या शून्ययाऽटव्या दिवसं गत्वा वासरमतिक्रम्य । परीति । परिणतं रक्तं रविबिम्ब यस्मिन्नेवभूते वासरे सायंसमयेऽटवीक्षेत्रैर्विरलीकृतो यो वनप्रदेशस्तस्मिन् । चिरेति । चिरप्ररुढस्य । बहुकालीनस्येत्यर्थः । रक्तचन्दनतरोः पत्राङ्गवृक्षस्योपरि महान्तं रक्तध्वजं पुरत एव ददर्शेत्यन्वयः । इतोऽटव्या विशेषणानि - अतीति । अतिप्रवृद्धोऽतिवृद्धिं प्राप्तः प्रकाण्डः स्कन्धो येषामेतादृशाः पादपा वृक्षाः प्रायो बाहुल्येन यस्यां सा तया । मालीति । मालिनीसंज्ञिता या लता वल्लयस्तासां मण्डपैर्मण्डलिताश्चक्रवालितास्तरुखण्डा वृक्षसमूहा यस्यां सा तया । वनेति । वनस्य यो गजपति!थनाथस्तेन पातिता भग्ना ये पादपा वृक्षास्तेषां परिहारो वर्जन तन्निमित्तकप्रतिबन्धवशाद्वक्रीकृतो मार्गः पन्था - पाठा० - १ असज्जन. २ चन्द्रापीडचण्डालः. ३ सुहृदापि साधनम्. ४ आगन्तव्यम्. ५ भूमण्डलेन. ६ वार्ताम्. 452 कादम्बरी। कथायाम् TOS Page #466 -------------------------------------------------------------------------- ________________ पतिपातितपादपपरिहारवक्रीकृतमार्गया, जनजनिततृणपर्णकाष्ठकोटिकूटप्रकटितवीरंपुरुषघातस्थानया, महापादपमूलोत्कीर्णकान्तारदुर्गया, तृषितपथिकखण्डितदलोज्झितामलकीफलनिकरया, विकसितकैरञ्जमञ्जरीरजोविच्छुरिततटैस्तट तरूबद्धपर्टेंच्चरकर्पटध्वजचिह्नैरिष्टिकास्थित शुष्कपल्लवविष्टरानुमितपथिकविश्रामैर्विश्रान्तकार्पटिर्कंविस्फोटितधूलिधूसरकिसलयलाञ्छितोपकण्ठैः पत्रसंकरासुरभीकृताशिशिरपङ्किलविवर्णास्वादुजलैर्व्रततिग्रन्थिग्रथितपर्णपुटतृणपूली चिह्नानुमेयैर्जरत्कान्तारकूपैरसुलभसलिलतयानभिलषितोद्देशया, मधुबिन्दुस्यन्दिसिन्दुवारवनराजिरजोधूसरिततीराभिश्च कुञ्जकलताजालकैर्जटिलीकृतसैकताभिरध्वगोत्खातवालुकाकूप - *********** यस्यां सा तया । जनेनेति । जनेन लोकेन जनितं निष्पादितं यत्तृणं पर्णकाष्ठानां कोटी तस्याः कूटं शिखरं तादृशचिह्नेन प्रकटितं वीरपुरुषाणां घातस्थानं यस्यां सा तया । सांप्रतमपि तथा कुर्वन्तीति सर्वलोके प्रसिद्धम् । महेति । महापादपानामुच्चैस्तरवृक्षाणां मूलीनि प्रसिद्धान्युत्कीर्णानि यस्मिन्नेवंभूतं कान्तारं वनं तदेव विषमत्वाद्दुर्गं यस्यां सा तया । कान्तारं विशेषरूपम्, अटवी तु सामान्यरूपेति न पुनरुक्तदोषः । तृषितेति । तृषिताः पिपासिता ये पथिकजनास्तैः खण्डितानि द्वैधीकृतानि दलानि पत्राणि येषामेवंविधान्युज्झितानि रसास्वादानन्तरं त्यक्तान्यामलकीफलानि तेषां निकरः समूहो यस्यां सा तया । जरमिति । जरन्तो जीर्णा ये कान्तारकूपास्तैः कृत्वा न सुलभं सलिलं जलं यस्यां तस्या भावस्तत्ता तयानभिलषितो नेप्सितः । पान्थेनेति शेषः । उद्देशः प्रदेशो यस्याः सा तया । अथ कान्तारकूपान्विशिनष्टि - विकसितेति । विकसिता विनिद्रा ये करञ्जा नक्तमालास्तेषां मञ्जर्यस्तासां रजोभिः परागैर्विच्छुरितानि धूसरितानि तटानि कूपोपकण्ठा येषां तैः । तटेति । तटतरुषु कूपोपकण्ठसमुद्भववृक्षेषु बद्धाः पटैच्चरैश्चोरैः कर्पटध्वजः स एव कूपाभिव्यञ्जकं चिह्नं येषां तैः । इष्टिकेति । इष्टिकाः स्थिता येषु, शुष्कपल्लवविष्टराः संस्तारकास्तैरनुमिताः पथिकानां विश्रामा येषु तैः । विश्रान्तेति । विश्रान्ताः स्थिता ये कार्पटिकास्तैर्विस्फोटिता दूरीकृता या धूली रजस्तया धूसराणि मलिनानि किसलयानि पल्लवास्तैर्लाञ्छितश्चिह्नित उपकण्ठो येषां तैः । पत्रेति । पत्रसंकरैः पर्णसमूहैरसुरभीकृतान्यत एवाशिशिराण्यशीतलानि पङ्किलानि कर्दमयुक्तानि विवर्णान्यशुभवर्णान्यस्वादूनि स्वादु (द) रहितानि जलानि येषां तैः । व्रततीति । व्रततीनां वल्लीनां ग्रन्थिभिर्ग्रथिताः पर्णपुटर्युक्तास्तृणपूल्यस्ता एव चिह्नानि तैरनुमातुं योग्यैः । शुष्केति । शुष्का गिरीणां नद्य एव नदिकाः । स्वार्थे कः । 'केऽणः' इति ह्रस्वः । ताभिर्विषमीकृतं स्थपुटीकृतमन्तरालं मध्यं यस्याः सा तया । अथ नदिका विशेषयन्नाह - मध्विति । मधुबिन्दुस्यन्दीनि यानि सिन्दुवारवनानि निर्गुण्डीकाननानि तेषां राजिः पङ्क्तिस्तस्या रजः परागस्तेन धूसरितानि तीराणि तटानि यासां ताभिः । कुञ्जकेति । कुञ्जकलताः प्रसिद्धास्तासां जालकैर्जटिलीकृतानि सैकतानि जलोज्झितपुलिनानि यासां ताभिः । अध्वगैरिति । अध्वगैः पथिकैरुत्खाताः खनिता वालुकासु कूपका विदारकास्तेषूपलभ्यमानं प्राप्यमाणं कलुषं - I टिप्प० - 1 तृण-पर्ण-काष्ठानां कोटिसंख्यका ये कूटाः तैः प्रकटितं वीरपुरुषाणामपि घातस्थानं यस्यां सा । वीरायिता अपि पान्थजनाः हिंसजन्तुभ्यो निजरक्षणार्थं तृणकाष्ठादीनां कूटं कृत्वा तन्मध्ये प्रविश्य निशि निवसन्तीति भयङ्करत्वं सूच्यते । 2 'मूलेषु उत्कीर्णाः निस्तक्ष्य निर्मिताः कान्तारदुर्गा वनदुर्गामूर्तयो यस्याम्' इति केचित् । 3 बद्धा ये पटच्चराणां जीर्णवस्त्राणां कर्पटा वस्त्रखण्डास्त एव ध्वजचिह्नं येषामित्यर्थः । 'पटच्चरं जीर्णवस्त्र' मित्यमरः । 4 इष्टकासु स्थिता ये शुष्कपल्लवानां विष्टराः (उपवेशनार्थमास्तरणानि ) तैः अनुमिताः । 5 तृषिताः पथिका रज्ज्याः पात्रस्य चाभावे, तृणैर्गुरुभारां पूलीं निर्माय तत्र च पत्रपुटकं दृढमाधाय दीर्घलताभिर्बद्ध्वा पत्रपुटकैर्जलमुदञ्चन्तीति युक्तिः । 6 उच्चावचीकृतम्, प्रावृड्जलप्रवाहे तलदेशो नतोन्नतो भवतीत्यर्थः । 7 क्षुद्रकुञ्जरूपेण जटिलीभूता लताः । पाठा० - १ पथया. २ वीरपुरुषहृदयघात. ३ कपिकच्छूच्छुरितमञ्जरी. ४ जरत्कर्पट. ५ इष्टकास्थित, इष्टकचित. ६ प्रस्फोटितचरण; प्रस्फुटित. ७ तृणपुली; तृणोलुपपुलाक... ८ अनुमितप्रमेयैः ९ कुब्जक. (मार्गे शून्याटवी पूर्वभागः । 453 Page #467 -------------------------------------------------------------------------- ________________ कोपलभ्यमानकलुषस्वल्पसलिलाभिः शुष्कगिरिनदिकाभिर्विषमीकृतान्तरालया, कुक्कुटकुलकौलेयकरटितानुमीयमानगुल्मगहनग्रामटिकया, शून्यया दिवसमटव्या गत्वा, पेरिणतरविबिम्बे बिम्बारुणातपविसरे वासरे, निः शाखीकृतकदम्ब - शाल्मलीपलाशबहुलैः शिखरशेषैकपल्लवविडम्बितातपत्रैः पादपैरूर्ध्वस्थितप्ररोहस्थूलस्थाणुमूलग्रन्थिजटिलैश्च हरितालकपिलपक्ववेणुविटैपरचितवृतिभिर्मृगभयकृततृणपुरुषकैर्विपाकपाण्डुभिः फैलिनैः प्रियङ्गुप्रायैरटवीक्षेत्रैर्विरलीकृतवनप्रदेशे चित्रप्ररूढस्य रक्तचन्दनतरोरुपरि बद्धम्, सरसपिशितपिण्डनिभैरलक्तकैरभिनवशोणितारुणेन रक्तचन्दनरसेन चार्द्रम्, जिह्वालतालोहिनी भी रक्तपताकाभिः केशकलापकान्तिना च कृष्णचामरावचूलेन प्रत्यग्रविशसितानां जीवानामिवावयवैरुपचितदण्डमण्डनम्, - *********** मलिनं स्वल्पं स्तोकं सलिलं जलं यासु ताभिः । कुक्कुटेति । कुक्कुटकुलं ताम्रचूडवंशः, कौलेयकाः श्वानः तेषां रटितं शब्दितं तेनानुमीयमाना संभाव्यमाना गुल्मगहने ग्रामटिका क्षुद्रग्रामो यस्यां सा तया । अथ वासरं विशिनष्टि - बिम्बेति । बिम्बसंबन्धि योऽरुणो रक्त आतपः सूर्यालोकस्तस्य विसरः समूहो यस्मिन् । 'समुदायराशिविसखाताः कलापो व्रजः' इति कोशः । तथैवंविधैः पादपैरटवीक्षेत्रैश्च विरलीकृतोऽनिबिडीकृतो यो वनप्रदेशो वनैकदेशस्तस्मिन् । अथ पादपान्विशिनष्टि - निःशाखीति । निःशाखीकृता निःशालीकृताः । वनेचरैरिति शेषः । एवंविधाः कदम्बा नीपाः शाल्मल्यो वृक्षविशेषाः, पलाशा ब्रह्मपादपा बहुला बाहुल्येन येषु तैः । अनेन सरलत्वाद्दण्डरूपत्वं सूचितम् । शिखरेति । शिखरं वृक्षाग्रं तत्र शेषोऽवैशिष्ट एकः पल्लवः किसलयं तेन विडम्बितान्यातपत्राणि छत्राणि यैः । अथ क्षेत्राणि विशेषयन्नाह - ऊर्ध्वेति । ऊर्ध्वस्थिताः प्ररोहा नवीनाङ्कुरौः स्थूलाः स्थाणवः शङ्कवश्च तेषां मूलग्रन्थिभिरङ्घ्रिग्रन्थिभिर्जटिलैर्व्याप्तैः । हरितालं नटमण्डनं तद्वत्कपिलाः पिङ्गला ये पक्ववेणुविपाः परिणतवंशवृक्षास्तेषां रचिता वृतिः सुगहना येषां तैः । मृगेति ! मृगा हरिणास्तेभ्यो भयं भीतिस्तस्मात्कृतास्तृणपुरुषाश्चञ्चापुरुषा येषु तैः । विपाकेति । विपाकेन परिणत्या पाण्डुभिः पाण्डुरैः । फालनः फलवद्भिः । ‘फलवान्फलिनः फली' इति कोशः । प्रियङ्गुः श्यामा प्रायो बाहुल्येन येषु तैः । सरसेति । सरसोऽशुष्को यः पिशितपिण्डा मांसपिण्डस्तस्य निभैः सदृशैरलक्तकैर्यावकैः । तथाभिनवं प्रत्यग्रं यच्छोणितं रक्तं तद्वदरुणेन लोहितेन रक्तचन्दनं पत्राङ्गं तस्य रसेन चार्यं समुन्नम् । जिह्वेति । जिह्वा एंव लता तद्बल्लोहिनी भी रक्ताभी रक्तापताकाभिर्लोहितवैजयन्तीभिः । केशेति । केशकलापवत्कान्तिर्यस्यैवंभूतेन कृष्णचामरस्य श्यामवालव्यजनस्यावचूलेनाधोमुखकूर्चकेन, प्रत्यग्रं तत्कालं विशसितानां हतानां जीवानामवयवैरपघनैरिवोर्ष I टिप्प० - 1 वासरे, बिम्बफलवत् अरुण आतपविसरो यस्मिन् एवंविधे सति । 2 शेषा एकैके (अर्थात् विरलीभूताः, गुच्छकीभूताः ) ये पल्लवाः तैर्विडम्बितानि । कदम्बादीनामेकपत्रेणातपत्रत्वं न सिध्यति । 3 ऊर्ध्वस्थिता नवीनाङ्कुरा येषां ते तादृशा ये स्थूलाः स्थाणवः निःशाखास्तरुस्तम्बाः तेषां मूलग्रथिभिः । 4 शाखाः । 5 तेषां भयाय (मृगाः रक्षापुरुषवान् ज्ञात्वा भयेन नागच्छेयुरिति ) । 6 जिह्वा लता इव तद्वल्लोहिनीभिरिती उपमितसमास एवोचितः, जिह्वाप्राधान्ये एव तासां लोहितत्वं वक्तुं शक्यम् । 7 जीवानामवयवैः उपरचितं दण्डस्य (केतुदण्डस्य) मण्डनं भूषणं यस्य तमिव, इत्येवम् 'इव' शब्दस्यान्चयो योग्यः, पताकानां जिह्वातुल्यत्वात् कृष्णचामरस्य केशसदृशत्वादित्याशयः । पाठा० - १ ग्रामया; ग्रामटिकया. २ परिणते रविबिम्बे ३ संध्यारुणा. ४ निः शाखीकृतैः ५ ऊर्ध्वकृतप्ररोहस्थूलस्थितस्थाणुमूलग्रन्थिजटिलैः; अर्धोद्धृतप्ररोहन्मूलस्थूलस्थाणुग्रन्थिजटिलैः ६ बिटपिदलरचित; विटपदलविरचित; विटपपटलरचित. ७ फलितैः ८ दूरत एवाचिरप्ररूढस्य ९ रक्तचन्दनस्य तरोः १० आर्द्रजिह्वा. 454 कादम्बरी | कथायाम् Page #468 -------------------------------------------------------------------------- ________________ 'परिणतवराटकघटितबुद्बुदार्धचन्द्रखण्डखचितम् सुतमहिषरक्षणावतीर्णदिनकरावतारितशशिनेव विराजितशिखरम्, दोलायितश्रृङ्गसङ्गिलोहश्रृङ्खलावलम्बमानघर्घररवघोरघण्टया च घटितकेसरिसटारुंचिरचामरया काञ्चनत्रिशूलिकया लिखितनभस्तलम्, इतस्ततः पथिकपुरुषोपहारमार्गमिवालोकयन्तम्, महान्तं रक्तध्वजं दूरत एव ददर्श । तदभिमुखश्च किंचिदध्वानं गत्वा केतकीसूचिखण्डपाण्डुरेण वनद्विरददन्तर्केवाटेन परिवृताम्, लोहतोरणेन नवारक्तचामरावलिपरिकरां कालायसदर्पणमण्डलमालां शबरमुखमालामिव कपिलकेशभीषणां बिभ्राणेन सनाथीकृततद्वारदेशाम्, अभिमुखप्रतिष्ठितेन च विनिहितरक्तचन्दनहस्तकतया रुधिरारुणयमकरतलास्फालितेनेव शोर्णितनवलोभलोलशिवाविलि - *** चितो व्याप्तो यो दण्डः स एव मण्डनं यस्य स तम् । परीति । परिणताः पक्वा ये वराटकाः कपर्दकास्तेषां (तैः) घटिता निर्मिता ये बुद्बुदाः स्थासका अर्धचन्द्राकृतिखण्डाश्च तैः खचितं व्याप्तम् । वर्तुलत्ववक्रत्वसाम्यादुत्प्रेक्षते - सुतेति । सुतो यमस्तस्य महिषो रक्ताक्षस्तस्य रक्षणं त्राणं तदर्थमवतीर्णो यो दिनकरः सूर्यस्तेनावतारितो यः शशी तेनेव विराजितं शोभितं शिखरमग्रभागो यस्य स तम् । दोलेति । दोलायिता या शृङ्गसङ्गिनी लोहश्रृङ्खला तत्रावलम्बमाना घर्घररवा काहलस्वरा घोरा भीषणा घण्टा यस्यां सा तया । घटितेति । घटिता या केसरिसटा तदुचिराणि मनोहराणि चामराणि यस्यामेवंविधया काञ्चनत्रिशूलिकया लिखितं नभस्तलं येन स तम् । इतस्तत इति । इतस्ततः पथिकपुरुषाणामध्वनीनपुंसामुपहारमार्गमिव बलिपन्थानमिवालोकयन्तं पश्यन्तम् । अन्वयस्तु प्रागेवोक्तः । I तदिति । तस्याभिमुखस्तत्संमुखः किंचिदध्वानं मार्गं गत्वाऽकारणक्रोधादयो द्रविडधर्मास्तद्वता जरीयसा पुरुषेणाधिष्ठितामाश्रितां चण्डिकामपश्यदित्यन्वयः । अथ चण्डिकां विशिनष्टि - केतकीति । केतक्या या सूचिस्त्रिपत्रकम् । 'त्रिपत्रकः सूचिरित्यभिधीयते' इत्यमरः । तस्य खण्डास्तद्वत्पाण्डुरेण शुभ्रेण, वनद्विरदा अरण्यहस्तिनस्तेषां दन्ता रदनास्तेषां कपाटेन लोकभाषया कटहरेण दन्तनिर्मितकपाटेन वा चतुर्दिक्षु परिवृताम् । आवृतामित्यर्थः । लोहिते । लोहमयं यत्तोरणं तेन सनाथीकृतो द्वारदेशो यस्यास्ताम् । किं कुर्वता तोरणेन । बिभ्राणेन दधता । काम् । कालायसं लोहविशेषस्तस्य यानि दर्पणमण्डलानि तन्मयी या माला वन्दनमाला ताम् । कीदृशम् । नवेति । नवानि यान्यारक्तचामराणि तेषामावलिः पङ्क्तिः सैव परिकरो यस्याम् । अत्र कालायसदर्पणस्यातिश्यामत्वाच्चामरस्यातिरक्तत्वाच्च तत्साम्येनोत्प्रेक्षते - शबरेति । कपिलकेशभीषणां शबरमुखमालामिव । तेषां तु मुखानि श्यामानि, केशाश्च पिङ्गाः । अत उपमानोपमेयसाम्यम् । अभीति । अभिमुखं संमुखम् । चण्डिकाया इति शेषः । प्रतिष्ठितेन स्थापितेन लोहमहिषेणाध्यासिताश्रिताञ्जनशिलावेदिका यस्याः सा ताम् । विनीति । विनिहिता दत्ता ये रक्तचन्दनहस्तकास्तेषां भावस्तत्ता तया रुधिरेणारुणं यद्यमकरतलं युग्मपाणितलं तेनास्फालितेनेव, लोचनयोरतिलौहित्यवशाद्रुधिरभ्रमेणाह - शोणितेति । शोणितस्य रुधिरस्य नवः प्रत्यग्रो लोभस्तेन लोला या शिवा जम्बुकप्रिया तया - टिप्प० - 1 वस्तुतस्तु बुद्बुदवत् ( बुद्बुदसमानः पीनो मध्यभागो यस्य) यः अर्धचन्द्रखण्डः (अर्धचन्द्राकारं भूषणम्) तेन खचितम् । चन्द्रखण्डे एकत्वमेवोचितं यतो ह्यग्रे उत्प्रेक्षते - सुतमहिषस्य रक्षणार्थमवतीर्णेन दिनकरेण स्वसहचरश्चन्द्रोप्यवतारित इति । चण्डिकागृहे प्रत्यहं पशुबलयो दीयन्ते तदर्थं यमः संनिहितः । एवं बलिव्याकुलतायां पशुबुद्ध्या मा केनचित् यममहिषो विहन्यतामिति सुतस्नेहेन सूर्योऽवतीर्ण इत्युप्रेक्षाशयः । 2 त्रिशूलिकाया एव एकं श्रृङ्गम् तद्वद्धा । 3 घटितं संयोजितं केसरिसटावत् चामरं यत्र तया । मौलिकलशलम्बिते त्रिशूले चामरोपि लम्ब्यते । 4 'शोणितलवलोभ' इत्येव कवेरभीष्टः पाठः । शोणितलव (लेश) स्य लोभ इति तदर्थः । पाठा० - १ परिणद्ध; हाटकघटितबुद्बुद्पुटार्धचन्द्र. २ लोहश्रृङ्खलमाला. ३ केतकीसूचितखण्डपाण्डुना च. ४ कपाटेन. ५ रुक्तचन्दननिहित. ६ शोणितलवलोभ; शोणितलोभ. ७ शिवालिह्यमान. रक्तध्वजस्य दर्शनम् पूर्वभागः । 455 Page #469 -------------------------------------------------------------------------- ________________ ह्यमानलोहितलोचनेन लोहमहिषेणाध्यासिताञ्जनशिलावेदिकाम्, क्वचिद्रक्तोत्पलैः शबरनिपातितानां वनमहिषाणामिव लोचनैः क्वचिदंगस्तिकुड्मलैः केसरिणामिव करजैः क्वचित्किंशुककुसुमकुड्मलैः शार्दूलानामिव सरुधिरैर्नखरैः कृतपुण्यपुष्पप्रकराम्, अन्यत्राङ्कुरितामिव कुटिलहरिणविषाणकोटिकूटैः पल्लवितामिव सरसजिह्वाच्छेदशतैः कुसुमितामिव रक्तनयनसहजैः फलितामिव मुण्डमण्डलैः उपहारहिंसां दर्शयन्तीम्, शाखान्तरालनिलीनरक्तकुक्कुटकुलैः श्वभयादकालदर्शितकुसुमस्तबकैरिव रक्ताशोकविटपैविभूषिताङ्गणाम्, बलिरुधिरपानतृष्णया समागतैश्च वेतालैरिव तालैर्दीयमानफलमुण्डोपहाराम्, शङ्काज्वरकम्पितैरिव कदलिकावनैर्भयोत्कण्टकितैरिव श्रीफलतरुखण्डैस्त्रासोर्ध्वकेशैरिव खजूरवनैः समन्ताद्गहनीकृताम्, वनकरिकुम्भविदलितरक्तमुक्ताफलानि रुधिरारुणानि बलिसिक्थलुब्धमुग्धकृकवाकुग्रस्तमुक्तानि विकिरद्भिरम्बिकापरिग्रहदुर्ललितैः क्रीडद्भिः केसरिकिशोरकैरशून्योद्देशाम्, प्रभूतरुधिरदर्शनोद्भूतमूर्छाप - *********** विलिह्यमाने आस्वाद्यमाने लोहिते लोचने नेत्रे यस्य स तेन । क्वचिदिति । कस्मिंश्चित्प्रदेशे शबरनिपातितानां भिल्लव्यापादितानां वनमहिषाणां लोचनैरिव नेत्रैरिव रक्तोत्पलैः कोकनदैः । क्वचित्केसरिणां कण्ठीरवाणां करजैर्नखैरिवागस्तिकुड्मलैर्मुनिवृक्षमुकुलैः । क्वचिदिति । क्वचिच्छार्दूलानां द्वीपिनां सरुधिरैर्नखरैरिव किंशुको ब्रह्मपादपस्तस्य कुसुमकुड्मलैः कृतो विहितः पुण्यः पवित्रः पुष्पप्रकरो यस्यां सा ताम् । अन्यत्रेति । अन्यस्मिन्स्थले कुटिलानि वक्राणि हरिणविषाणानि मृगश्रृङ्गाणि तेषां कोटयस्तासां कूटैः समूहैरङ्कुरितामिव प्ररोहितामिव । सरसेति । सरसा या जिह्वा रसनास्तासां छेदशतैः पल्लवितामिव किसलयितामिव । रक्तेति । रक्तानि नयनसहसाणि तैः कुसुमितामिव पुष्पितामिव । मुण्डमण्डलैः फलितामिव संजातफलामिव । उपेति । उपहारहिंसां बलिप्रमथनं दर्शयन्ती प्रकटयन्तीम् । चण्डिकायाः संमुखवेदिकां वर्णयित्वाङ्गणं वर्णयन्नाह - शाखेति । श्वभयात्कौलेयकभीतेः शाखान्तराले शाखाविचाले निलीनानि मध्यप्रविष्टानि यानि रत्ककुक्कुटकुलानि लोहितताम्रचूडपटलानि येष्वेवंविधैरकाले दर्शितकुसुमस्तबकैरिव रक्ताशोकविटपैलॊहितकङ्केल्लिवृक्षैर्विभूषितं शोभितमङ्गणमजिरं यस्याः सा ताम् । बलेरुपहारस्य रुधिरपानं रक्तास्वादनं तस्य तृष्णया गर्धेन समागतैः. तालैः । उच्चत्वसाम्येनाह - वेतालैरिति । तालफलाना मस्तकसाम्येनाह - दीयमानेति । दीयमानानि फलान्येव मुण्डानि शिरांसि तान्येवोपहारो बलिय॑स्यै सा लकावने कम्पातिशयं बिल्वखण्डे कण्टकातिशयं खर्जरीवन ऊर्ध्वपत्रातिशयं व्यजयितमत्प्रेक्षते -शङकेति । शङ्का पशुवधदर्शनजनिता तस्या यो ज्वरस्तापस्तेन कम्पितैरिव कदलिकावनै रम्भाकाननैः, भयेन भीत्योत्कण्टकितैरिव संजातरोमाञ्चैरिव श्रीफलतरुखण्डैः त्रासेन भयेनोर्ध्वं केशा येषामेवंविधैरिव खर्जूरवनैः समन्ताद् गहनीकृताम् । सर्वतो व्याप्तामित्यर्थः । पुनः प्रकारान्तरेण तामेव विशेषयन्नाह - वनेति । वनकरिणा काननहस्तिनां कुम्भेभ्यो विदलितानि विनिर्गतानि रक्तमुक्ताफलानि । कीदृशानि । रुधिरेण रक्तेनारुणानि लोहितानि । पुनः कीदृशानि । बलिसिक्थेषूपहारकणेषु लुब्धा आसक्ता मुग्धा ये कृकवाकवस्ताम्रचूडास्तैः पूर्वं ग्रस्तानि गृहीतानि पश्चान्मुक्तानि तानि विकिरद्भिरितस्ततो विक्षिपद्भिः । अम्बिकायाः भैरव्याः परिग्रहेण स्वीकारेण दुर्दुष्टं ललितं चेष्टितं येषां तैः क्रीडद्भिः क्रीडां कुर्वद्भिः केसरिकिशोरकैर्नखरायुधबालकैरशून्य उद्देशः प्रदेशो यस्याः सा ताम् । - - - - - - - - - - - - - - - - -- -- टिप्प० - 1 रुधिरपानतृष्णयासमागतैस्तालैरित्यन्चयोऽशुद्धः । ...समागतैर्वेतालैरिव तालैरित्युचितम् । 2 रुधिराक्ततया पूर्वं गृह्णद्भिस्ततो मासाद्यभावात्परित्यजद्भिरित्याशयः । 3 चण्डिकायाः । पाठा० - १ लोहित. २ अगस्त्यतरुकुमलैः; अगस्तिकुसुमकुड्मलैः. ३ प्रकरोपहाराम्. ४ निरन्तरनिलीन. ५ तृष्णासमागतैः. ६ खजूर खर्जुर. ७ विदलितवनकरिकुलकुम्भविदलितमुक्ताफलानि. ८ नवरुधिरारुणबलि. (456 कादम्बरी। कथायाम Page #470 -------------------------------------------------------------------------- ________________ तितेनेव प्रतिबिम्बितेनास्तताम्रेण सवित्रान्तरीकृतैः क्षतजप्रवाहैः पिच्छिलीकृताजिराम्, अवलम्बमानदीपैधूमरक्तांशुकेन ग्रथितशिखिगलवॅलयावलिना पिष्टेपाण्डुरितघनघण्टामालाभारिणा त्रापुषसिंहमुखमध्यस्थितस्थूललोहकण्टकं दत्तदन्तदण्डार्गलं गॅलत्पीतनीललोहितर्दर्पणस्फुरितबुद्बुदमालं कपाटपटेंद्वयं दधानेन गर्भगृहद्वारदेशेन दीप्यमानाम्, अन्तःपिण्डिकापीठपातिभिश्च सर्वपशुजीवितैरिव शरणमुपागतैरलेक्तकपटैरविरहितचरणमूलाम्, पतितकृष्णचामरप्रतिबि - *********** एतेन सिंहबाहुल्यं वर्णितम् । तद्वर्णनाच्च महाविपिनवासित्वं व्यङ्ग्यम् । क्षतजानि रुधिराणि तेषां प्रवाहैरोधैः पिच्छिलीकृतं विजिलीकृतमजिरमङ्गणं यस्याः सा ताम् । कीदृशैः क्षतजप्रवाहैः । प्रतीति । प्रतिबिम्बितेन संक्रान्तेनास्तताम्रेणास्तसमयरक्तेन सवित्री सूर्येणान्तरीकृतैर्व्यवधानीकृतैः । पतनसाम्येनाह - प्रभूतेति । प्रभूतं भूयिष्ठं युद्रुधिरं रक्तं तस्य दर्शनमवलोकनं तेनोद्भूता संजाता या मूर्च्छा तया पतितेनेव सस्तेनेव । गर्भेति । गर्भगृहमपवरकस्तस्य द्वारदेशेन प्रतीहारप्रदेशेन दीप (य) मानां शोभमानाम् । अथ द्वारदेशं विशेषयन्नाह अवलम्बेति । अवलम्बमना ये दीपा गृहमणयस्तेषां धूमै रक्तानि रञ्जितान्यंशुकानि यस्मिन् । एतेन दीपकबाहुल्यं वर्णितम् । अवलम्बमाना दीपा धूमा उत्क्षिप्यमाणकृष्णागुरुसंबन्धिनो रक्तांशुकानि च यस्मिन्निति वा । द्वारदेशातिशयवर्णनमेतत् । ग्रथितेति । ग्रथिता गुम्फिताः शिखिनो मयूरास्तेषां गलवलयानां निगरणकण्टकानामावलयः श्रेणयो यस्मिन्स तेन । पिष्टेति । डु धूसरवर्णा घना निबिडा या घण्टास्तासां माला श्रेणिस्तां बिभर्तीत्येवंशीलेन भारिणा । किं कुर्वता द्वारदेशेन । दधानेन बिभ्रता । किम् । कपाटस्याररस्य पटद्वयम् । तदेव विशिनष्टि - त्रापुषेति । त्रापुषः श्वेतरूप्यनिर्मितो यः सिंहो हर्यक्षस्तस्य मुखमध्यस्थितं स्थूलं लोहकण्टकं यस्मिन् । दत्ता दन्तदण्डस्यार्गला यस्मिन् । गलदिति । गलैन्तः सवन्तः पीतनीललोहिता इति त्रयोपादानं विविधवर्णोपलक्षणम् । तेषां दर्पणेभ्यः स्फुरिता विद्योतिता बुद्बुदाकृतयो द्युतिपुञ्जास्तेषां माला यस्मिन् । पुनः कीदृशम् । अन्तरिति । अलक्तकपटैर्यावकरसरक्तवस्त्रैरविरहितं चरणयोर्मूलं यस्याः सा ताम् । चरणमूलेऽपि रक्तवस्त्राणि शोभातिशयार्थं ध्रियन्ते । तत्र हिंसितपशुजीवितानां रुधिरसंबन्धवशाद्रक्तपटारुण्यसाम्येनोत्प्रेक्षते । अन्तर्मध्यवर्तिनी या पिण्डिका तस्याः पीठं तत्र पातिभिः पतनशीलैः आरुण्यव्यञ्जकमुक्त्वा चरणमूलसंबन्धनियामकमाह - शरणेति । शरणमुपागतैः सर्वपशुजीवितैरिव । रुधिरस्यापि जीवितेन सह गमनादुपमानोपमेयभावः । पतितेति । पतितानि कृष्णचामराणां प्रतिबिम्बानि येष्वेवंविधानां परशुः परश्वधः, पट्टिशः शस्त्रविशेषः, एतत्प्रभृतीनां जीवविशसनशस्त्राणाम् । नीलातिशय टिप्प० 1 'ताम्रतरीकृतै' रिति रुचिरः पाठः । क्षतजप्रवाहाः पूर्वमेव रक्तवर्णाः, ततस्तु अस्तकालिकसूर्यप्रभया अत्यन्तमरुणीकृता इति तदाशयः । 2 दीपा न अवलम्बन्ते अपि तु वस्त्राणि, तस्मात् अवलम्बमानानि दीपधूमै रञ्जितान्यंशुकानि यस्मिन्निति वक्तव्यम् । 3 पिष्टेन पाण्डुरिताः ( पित्तलघण्टाः ) । 4 घनां घण्टामालां बिभर्ति तच्छीलेन घनघण्टामालभारिणा । 'इष्टकेषीकेत्यनेन' ह्रस्वः । तस्मात् 'मालभारिणा' इत्यपि पाठो युक्तः । 5 'लसत्पीतनीले' त्यादिरेव पाठो युक्तः । लसत्सु संमुखे शोभमानेषु पीतनील- लोहितवर्णेषु दर्पणेषु स्फुरिता ( प्रतिबिम्बिता ) बुबुदमाला बुबुदसमानाकारलोहशङ्कु श्रेणिर्यस्मिन् तत् । कपाटद्वये ये लोहकीलका जाटितास्ते 'जगन्मोहन' (निजमन्दिरस्याग्रभागः) स्थदर्पणेषु प्रतिविम्बिता इत्याशयः । 6 वेदिः तत्र यत्पीठम् मूर्तिस्थापनाय सिंहासनम् । 7 कृष्णानां चामराणां तेषु प्रतिबिम्बः पतितः, अत एव शिरश्छेदे सति लग्नं केशजालं येषु ईदृशानि दृश्यन्ते शस्त्राणि । पाटा० - १ ताम्रतरीकृतै २ क्षतजजल ३ दीपधूपधूसर. ४ वलयाबलम्बिना. ५ पिष्टपिण्डपाण्डुरित. ६ मालाधारिणा; मालभारिणा. ७ लोहकण्टकदत्तदन्तदण्डार्गलगलत्पीत. ८ लसत्. ९ तर्पण. १० पट्टा; पट्टक. ११ पट्ट. १२ अलक्तकपुटैः, अलक्तकरसरक्त पटैः. चण्डिकावर्णनम् पूर्वभागः । 457 Page #471 -------------------------------------------------------------------------- ________________ म्बानां च शिरश्छेदलग्नकेशजालकानामिव परशुपट्टिशप्रभृतीनां जीवविशसनशस्त्राणां प्रभाभिर्बद्धबहलान्धकारतया पातालगृहवासिनीमिवोपलक्ष्यमाणाम्, रक्तचन्दनखचितस्फुरत्फलपल्लवकलितैश्च बिल्वपत्रदामभिर्बालकमुण्डप्रालम्बैरिव कृतमण्डनाम्, शोणितताम्रकदम्बस्तबककृतार्चनैश्च पशूपहारपटहपटुरटितरसोल्लसितरोमाञ्चैरिवाङ्गैः क्रूरतामुद्वहन्तीम्, चारुचामीकरपट्टप्रावृतेन च ललाटेन शबरसुन्दरीरचितसिन्दूरतिलकबिन्दुना दाडिमकुसुमकर्णपूरप्रभासेकलोहितायमानकपोलभित्तिना रुधिरताम्बूलारुणिताधरपुटेन भृकुटिकुटिलबभ्रुणा रक्तनयनेन मुखेन कुसुम्भपाटलितदुकूलकलितया च देहलतया महाकालाभिसारिकावेशविभ्रमं बिभ्रतीम्, संपिण्डितनीलगुग्गुलधूपधूमारुणीकृताभिश्च प्रचलन्तीभिर्गर्भगृहदीपिकालताभिर - *********** वशादाह - शिरश्छेदेति । शिरश्छेदानन्तरं लग्नं केशानां जालक समूहो येष्वेतादृशानामिव प्रभाभिः कान्तिभिर्बद्धो बहलो निबिडो योऽन्धकारस्तस्य भावस्तत्ता तया पातालगृहवासिनीमिवोपलक्ष्यमाणां दृश्यमानाम् । रक्तेति । रक्तचन्दनेन पत्राङ्गेन खचिता व्याप्ताः स्फुरन्तो दीप्यमाना ये फलपल्लवास्यैः (स्तैः) कलितैः सहितैर्बिल्वाः श्रीफलास्तेषां पत्रदामभिः । वर्तृलत्वसाम्यादाह - बालकेति । बालकाः शिशवस्तेषां मुण्डानां शिरसां प्रालम्बैरिव ऋजुलम्बिपुष्पदामभिरिव कृतं मण्डनं यया सा ताम् । स्वाभाविकं तुं कदम्बकेसरं कपिशमत आह - शोणितेति । शोणितेन ताम्रा रक्ता ये कदम्बस्तबका नीपगुच्छकास्तैः कृतमर्चनं पूजनं येषां तैरङ्गैर्हस्तपादादिभिः । शोणितरक्तनीपगुच्छस्य रोमोद्गमसादृश्यं वर्णयन्नाह - पशूपहारेति । पशूनामुपहारे बलिविधाने पटहानां दुन्दुभीनां यत्पटुरटितं स्पष्टशब्दितं तेन यो रसः । श्रोतुरिति शेषः । तेनोल्लसिता उल्लासं प्राप्ता रोमाञ्चा रोमहर्षणानि येषां तैरिव क्रूरता रौद्रतामुदहन्तीं धारयन्तीम् । एतदर्थस्पष्टीकरणाय हेतूनाह - चार्विति । चारुर्मनोहरो यश्चामीकरपट्टः सुवर्णपट्टस्तेन प्रावृतेनाच्छादितेन ललाटेनालीकेन । कीदृशेन । शबरेति । शबरसुन्दरीभिर्भिल्लवनिताभी रचिता विहिताः । सिन्दूरस्य नागजस्य तिलकबिन्दवो यस्मिंस्तत्तेन । तथा मुखेन वदनेन । अथ मुखं विशिनष्टि - दाडिमेति । दाडिमः करकस्तस्य कुसुमं पुष्पं तस्य कर्णपूरं तस्य प्रभा कान्तिस्तस्याः सेकः संपर्कस्तेन लोहितायमाना कपोलभित्तिर्यस्मिंस्तत्तेन । रुधिरेति । रुधिरपानलक्षणं यत्ताम्बूलं तेनारुणितोऽधरपुटो यस्मिंस्तत्तेन । भृकुटीति । भृकुटिभ्रुकुटिस्तया कुटिले वक्र बभ्रुणी यस्मिंस्तत्तेन । रक्तेति । रक्ते लोहिते नयने नेत्रे यस्मिंस्तत्तेन । पुनः कया । देहलतया । सरलत्वाल्लतासाम्यम् । यद्वा एतेन सौकुमार्यातिशयो वर्णितः । कीदृश्या । कुसुम्भेन कमलोत्तरेण पाटलितं श्वेतरक्तीभूतं यहुकूलं क्षौमं तेन कलितया सहितया देहलतया । महाकालो रुद्रस्तस्याभिसारिकाया वेषविभ्रम नेपथ्यविलासं बिभ्रतीं धारयन्तीम् । संपिण्डितेति । संपिण्डितः पुजीकृतो यो नीलगुग्गुलुः पलंकषस्तस्य - टिप्प० - 1 बिल्वपत्राणां मालासु मध्ये मध्ये रक्तचन्दनरञ्जितानि बिल्बफलान्यपि प्रोतानि, अत एवं प्रतीयते यद् बालकमुण्डानां माला परिहिता स्यादित्याशयः । 2 'भूकुटिकुटिलबभ्रुनयनेन' इत्यपि केषाञ्चन विदुषां परम्परारूढः पाठः । भ्रूभङ्गेन कुटिले, बभ्रुणी पिङ्गलवणे च नयने यस्मिन् इति तदर्थः । 3 गुग्गुलु - धूपधूमेन अरुणवर्णीकृता गर्भगृहस्य दीपिकालताः (दीपशिखा वायुवशाल्लम्बाकारा भवन्ति, अत एव लतायिताः ता अङ्गुलय इव दृश्यन्त इत्युत्प्रेक्षा) वायुवशात्कम्पन्ते ताश्चैवमुत्प्रेक्ष्यन्ते यत् शोणितलवलोहिताभिरङ्गलिभिर्वनमहिषं तर्जयतीव भगवती चण्डिका । तर्जन हि कम्पमानाभिरङ्गलिभिर्भवत्येव । दोषश्च वनमहिषस्य - त्रिशुलदण्डे स्व(महिष) कण्ठपीठस्य कण्ड्यनमिति सर्वस्याशयः । नीलस्यापि गुग्गुलुधुपयोधूमस्य दीपिकाभिः संयोगे अरुणवर्णो जायते, संयोगवैचित्र्यात, । चूर्णहरिद्रयोः संयोगे यथाऽरुणवर्णः । - - - - - - - - - - - - - - पाठा० -१ कलापानाम्. २ असिपरशु. ३ बहलबद्ध. ४ पातालगुहा. ५ स्फुरत्फलक. ६ बिल्वदामभिः. ७ कृतमण्डलाम. ८ आताम्र. ९ अविरतपशूपहारपटहपटुरचितरसोत्तम्भितरोमाञ्चैः. १० दाडिमी. ११ भ्रकुटिकुटिलभ्रुणा रक्तनयनेन; भ्रकुटिकुटिलबभ्रुनयनेन. १२ पाटलितमुखदुकूल. IN (458 कादम्बरी । कथायाम् Page #472 -------------------------------------------------------------------------- ________________ गुलीभिरिव महिषासुरशोणितलवालोहिनीभिः स्कन्धपीठकण्डूयनचलितत्रिशूलदण्डकृतापराधं वनमहिषमिव तर्जयन्तीम्, प्रेबलकूर्चधरैश्छागैरपि धृतव्रतैरिव स्फुरदधरपुटैराखुभिरपि जपपरैरिव कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयनैरिव ज्वलितलोहितमूर्धरत्नरश्मिभिः कृष्णसर्वैरपि शिरोधृतमणिदीपकैरिवाराध्यमानान्, सर्वतः कठोरवायसगणेन च रटत स्तुतिपरेणेव स्तूयमानाम्, स्थूलस्थूलैः शिरोजालकैगधागोलिकाकृकलासकुलैरिव दग्धस्थाण्वाशङ्कया समारूढैर्गवाक्षितेन, अलक्ष्मीसमुत्खातलक्षणस्थानैरिव विस्फोटकव्रणबिन्दुभिः कल्माषित सकलशरीरेण, कर्णावतंससंस्थापितया च चूडया रुद्राक्षमालिकामिव दधानेन, अम्बिकापादपतनश्यामललाटवर्धमानबुद्बुदेन, कुंवादिदत्तसिद्धाञ्जनदानस्फोटितैकलोचनतया त्रिकालमि - ** धूपधूमस्तेनारुणीकृताभी रक्तीकृताभिः प्रचलन्तीभिर्गर्भगृहस्यापवरकस्य दीपिकालताभिर्दशेन्धनवल्लीभिः । अत एव किंचिदारक्त कृष्णतया तत्साम्यप्रदर्शनार्थमाह - अङ्गुलीति । कीदृशीभिः । महिषासुरो दैत्यस्तस्य शोणितं तस्य लवस्तेनालोहिनीभिर्वनमहिषमरण्यरक्ताक्षं तर्जयन्तीं न्यक्कुर्वन्तीम् । कीदृशम् । स्कन्धपीठस्य यत्कण्डूयनं तेन चलितः कम्पितो यस्त्रिशूलदण्डः स एव कृतोऽपराधो येनैवंभूतम् । सजातीयकृतमहिषापराधाद्वनमहिषस्याप्यपराधः । प्रबलेति । प्रबलानि प्रकृष्टानि कूर्चानि चिबुकाधः स्थलवर्तिरोमाणि धरन्तीति धरैश्छागैरपि बस्तैरपि धृतव्रतैरिव स्वीकृतनियमैरिवाखुभिरप्युन्दुरैरपि स्फुरन्त्यधरपुटानि येषां तैः । जातिस्वभावोऽयम् । अतएव जपपरैरिव जापतत्परैरिव । कृष्णेति । कृष्णाजिनेन श्यामचर्मणा प्रवृतमङ्गं येषां तैः कुरङ्गैरपि सारङ्गैरपि प्रतिशर्यनैरिव प्रतितल्पैरिव । ज्वलितेति । . ज्वलिता दीप्यमाना लोहिता रक्ता मूर्धनि शिरसि रत्नानां मणीनां रश्मयो रोचिषो येषां तैरेवंविधैः कृष्णसर्वैरपि भुजङ्गैरपि शिरोधृतमणिदीपकैरिव मस्तकन्यस्तग्रहमणिभिरिव । एतैराराध्यमानामुपास्यमानाम् । सर्वत इति । सर्वतः समन्ताद्रटता शब्दं कुर्वता कठोरवायसगणेन सकृत्प्रासमूहेन च स्तुतिपरेण स्तूयमानां नूयमानाम् । अथ द्राविडधार्मिकं विशेषयन्नाह - स्थूल इति । स्थूलानि स्थूलानि च स्थूलस्थूलानि तैः शिरजालकैर्नाडीसमूहैर्गवाक्षितेन सर्वत्र जालकमयीभूतेन । तत्र शिराजालकस्य पीनस्थूलरूपतया तत्साम्येनाह - गोधेति । नीलत्वसाम्यात् । दग्धो ज्वलितो यः स्थाणुः कीलकस्तस्याशङ्कारेका तया गोधा प्रसिद्धा, गोलिका पल्ली, कृकलासः सरटः एतेषां कुलैरिव समूहैरिव समारूढैराश्रितैः । अलक्ष्मीति । अलक्ष्म्या अश्रिया समुत्खातानि मूलत उन्मूलितानि यानि लक्षणानि सामुद्रकशास्त्रोक्तानि तेषां स्थानैरिव, विस्फोटकाः प्रसिद्धास्तेषां व्रणबिन्दुभिः कल्माषितं चित्रितं सकलं समग्रं शरीरं यस्य स तेन । कर्णेति । कर्णावतंसे संस्थापितया न्यस्तया चूडया शिखया रुद्राक्षमालिकामिव दधानेन धारयता । अम्बिकेति । अम्बिकायाः पार्वत्याः पादपतनेन श्यामं कृष्णं यल्ललाटमलिकं तत्र वर्धमानो बुद्बुदः स्थासको यस्य स तेन । शरीरं कदर्यरूपमुक्त्वा तत्प्रसङ्गेनेन्द्रियाणां दन्तादीनां कदर्यत्वं कपटक्रियासाधनानां चातिशयत्वं व्यञ्जयन्पुनस्तमेव विशेषयन्नाह - कुवादीति । कुवादी मिथ्यावादी तेन दत्तं सिद्धाञ्जनं नेत्रौषधं तस्य दानं नेत्रयोः प्रक्षेपस्तेन स्फोटितं नाशितमेकं लोचनं यस्य तस्य भावस्तत्ता तया । त्रिकालमिति । टिप्प॰ - 1 ‘प्रतिशयितैरिव' इति पाठः । अभीष्टप्राप्तये दिनमासादिनियतं भोजनादिपरित्यागपूर्वं देवताग्रे शयनं 'प्रतिशयनम्' । कृष्णचर्मधारिणो मृगा अपि कृतप्रतिशयना इव । 2 स्थूणः (शाखापत्ररहितो वृक्षः) । 3 'वर्धमानार्बुदेन' इत्युचितः पाठः । श्यामे ललाटे घर्षणजन्यः 'अर्बुदः ' कृष्णवर्णः किणः ( शुष्कं व्रणचिह्नम् ) संजात इत्यर्थः । पाटा० - १ विरचिताङ्गुलीभिः २ प्रलम्ब. ३ प्रतिशायितैः ४ रुवता. ५ शिराजालैः ६ गोधागृहगोधिका; गोधारगोधिका ७ लक्ष्मी. ८ विस्फोट. ९ अर्बुदेन १० कुवादिक. ११ स्फुटित. चण्डिकावर्णनम् पूर्वभागः । 459 Page #473 -------------------------------------------------------------------------- ________________ तरलोचनाञ्जनदानादरश्लक्ष्णीकृतदारुशलाकेन, प्रत्यह कटुकालाबुस्वेदप्रारब्धदंतुरताप्रतीकारेण, कथंचिदस्थानदत्तेष्टकाप्रहारतया शुष्कैकभुजोपशान्तमर्दनव्यसनेन, उपर्युपर्यविश्रान्तकटुवर्तिप्रयोगवर्धिततिमिरेण, अश्मभेदसंगृहीतवराहदंष्ट्रेण, इङ्गदीकोषकृतौषधाञ्जनसंग्रहेण, सूचिस्यूतशिरासंकोचितवामकराङ्गुलिना, कौशेयककोशावरणक्षतिव्रणितचरणाङ्गुष्ठकेन, असम्यकृतरसायनानीताकालज्वरेण, जरां गतेनापि दक्षिणापथाधिराज्यवरप्रार्थनाकदर्थितदुर्गेण, दुःशिक्षितश्रवणादिष्टतिलकाबद्धविभवप्रत्याशेन, हरितपत्ररसाङ्गारमषीमलिनशम्बूकवाहिना, पट्टिकालिखितदुर्गास्तोत्रेण, धूमरक्तालक्तकाक्षरतालपत्रकुंहकतन्त्रमन्त्र - *********** त्रिकालं कालत्रये इतरस्मिन् एकस्मिल्लोचने यदजनदानं तदर्थमादर आग्रहस्तेन श्लक्ष्णीकृता दारुशलाका येन । पुनः पुनर्नेत्राञ्जनसंबन्धेन दारुशलाकापि श्लक्ष्णीकृतात्यन्तमृदुतामापादितेत्यर्थः । एतेन निरवधिकदेवानां प्रियता दर्शिता । प्रत्यहमिति । प्रत्यहं निरन्तर कटुक यदलाबु तुम्बीफलं तस्य यः स्वेदस्तनिःसृतं जलं तेन प्रारब्धा दन्तुरतोबतदन्तता तस्याः प्रतीकारश्चिकित्सा येन । आमवातजडीकृतदेहस्य तैलविशेषमर्दनानन्तरं कारजाग्नितप्तेष्टिकाना प्रहारः क्रियते । तमधिकृत्याह - अस्थानेति । यत्राग्नितप्तेष्टिकाप्रहार उक्तो नास्ति तस्मिन्नङ्गे, अत एवास्थाने दत्तो य इष्टिकाप्रहारस्तस्य भावस्तत्ता तया । शुष्केति । अचिकित्सित एकस्मिन्भुज उपशान्तं निष्ठाप्राप्त मर्दनव्यसनं यस्य स तेन । कुत्सिततैलप्रयोगवशाहीपालोके सत्यप्यन्धकार एवेत्यधिकृत्याह - उपर्युपरीति । उपर्युपर्यविश्रान्तं निरन्तरं कटुकवर्तिप्रयोगेण वर्धितं तिमिरं येन । अश्मेति । अश्मभेदार्थं प्रस्तरखण्डार्थं संगृहीता आत्ता वराहाणां वनक्रीडानां दंष्ट्रा येन । इङ्गुदीति । इगुदी तापसद्रुमस्तस्य कोषः फलं तन्मध्ये कृत औषधाञ्जनयोः संग्रहो येन । तत्र स्थापितस्यौषधाजनादेविशेषगुणकारित्वादि युक्तं । महासाहसिकत्वमप्याह - सूचीति । सूच्या सीवन्या स्यूता प्रोता या शिरा । प्रकोष्ठसंबन्धिनीति शेषः । तया संकोचं प्रापिता वामकराङ्गुल्यो येनैतादृशविकृताङ्गप्रदर्शनेन लोकानामद्भुतमिदमिति बुद्धिजननात्पुनरपि तदेवाह - कौशेयकेति । कौशेयकस्य कृमिकोशोत्थस्य कोशः कृमिगृह तस्यावरणमावेष्टनं तस्माद्या क्षतिः संघृष्टिस्तया व्रणितश्चरणाङ्गुष्ठो यस्य स तेन । असम्यगिति । न सम्यकृतमनभिज्ञत्वाद्रसायनं पारदकलङ्कादिकम् । बहुद्रव्यव्ययेनापि कार्यसिद्धेरभावात् । तेनानीतः प्रापितः कालज्वरो मरणपर्यवसायितापो यस्य स तेन । अनेन मुमूर्षोरपि वैराग्यं नोत्पद्यत इति लोभातिशयो व्यज्यते । जरेति । जरां गतेनापि विससा प्राप्तेनापि दक्षिणापथस्य यदधिराज्यमाधिपत्यं तस्य वरप्रार्थना तया कदर्थितोद्विग्नीकृता दुर्गा भवानी येन । दुःशिक्षितेति । दुर्दुष्ट शिक्षितं तस्य श्रवणादाकर्णनादिष्टेऽभिमतस्थानवर्तिनी तिलके कालके । 'तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः' इति कोशः । तस्मिन्नाबद्धा मनसि निश्चिता विभवस्यैश्वर्यस्य प्रत्याशा प्राप्तिवाञ्छा येन । हरितेति । हरितपत्राणां नीलपलाशानां रसेन कृत्वा योऽङ्गारस्य मषी मसी तया मलिनो यः शम्बूकः शङ्खस्तद्वाहिना । एतेन यत्किंचिल्लिखनव्यसनता सूचिता । पट्टिकेति । पट्टिकायां लिखितं लिपीकृतं दुर्गास्तोत्र यस्य येन वा स तेन । धूमेति । धूमवद्रक्तान्यलक्तस्य यावकस्याक्षराणि येष्वेवंविधानि तालपत्राणि - टिप्प० - 1 एक नेत्रं तु सिद्धाञ्जनाभासेन लुप्तमेव, उन्मीलिते द्वितीये लोचने तु शोभायै तन्त्रनियमाद्वा साधारणकज्जलम् (न तु सिद्धाञ्जनम्) इयद्दीयते येन प्रत्यहघर्षणात् दारुशलाका ('सलाई)पि श्लक्ष्णा जातेति सर्वस्याशयः । 2 आमवातकृतजाड्यवशादनेन अग्नितप्तेष्टकाप्रहारः प्रारब्धः, परं स ह्यस्थाने जातः । अत एव स हस्तः शुष्को जातः । अत एव वातो विनष्ट इति मत्वा अनेन तैलमर्दनाग्रहस्त्यक्त इत्याशयः । 3 नेत्ररोगविशेषः । आन्ध्यनाशाय कटुवर्तिप्रयोगः इयत्कृतो येन नेत्रमन्दत्वमधिकं जातमित्यर्थः । 4 'श्रमणाऽऽदिष्ट' इत्येव पाठः । दुःशिक्षितेन प्राप्तकुशिक्षण श्रमणेन संन्यासिविशेषेण आदिष्टे तिलके (सिद्धौषधिजनिते ललाटबिन्दौ) इति तदर्थः । 5 धूमेन रञ्जितानि अलक्तकलिखितान्यक्षराणि येषु । - - - - पाठा० - १ आरब्ध. २ कथचिच्छुष्क. ३ कोशक. ४ रक्षित. ५ श्रमण. ६ कृतकुहकतन्त्रयन्त्रमन्त्र. (460 कादम्बरी। कथायाम् Page #474 -------------------------------------------------------------------------- ________________ पुस्तिकासंग्राहिणा, जीर्णपाशुपेतोपदेशलिखितमहाकालमतेन, आविर्भूतनिधिवादव्याधिना, संजातधातुवादवायुना, लग्नासुरविवरप्रवेशपिशाचेन, प्रवृत्तयक्षकन्यकाकामित्वमनोरथव्यामोहेन, वर्धितान्तर्धानमेन्त्रसंग्रहेण, श्रीपर्वताश्चर्यवार्तासहस्त्राभिज्ञेन, असकृदभिमन्त्रितसिद्धार्थकार्हतिधावितैः पिशाचगृहीतकैः करतलतार्डेननिबिडीकृत श्रेवणपुटेन, अवमुक्तशैवाभिमानेन, दुर्गृहीतालाबुवीणावादनोद्वेजितपथिकपरिहृतेन, दिर्वैसमेव मशकक्वणितानुकारि कम्पितोत्तमाङ्गं गायता, स्वदेशभाषानिबद्ध भागीरथीभक्तिस्तोत्रनर्तकेन, गृहीततुरगब्रह्मचर्यतयान्यदेशागतोषितासु जरत्प्रर्व्रजितासु बहुकृत्वः संप्रयुक्तस्त्रीवशीकरणचूर्णेन, अतिरोषण ** - ** येषामेतादृशा ये कुहका ज ( जा ) लिकास्तेषां तन्त्रा औषधप्रयोगाः, मन्त्राः शाबरमन्त्राः, तेषां पुस्तिकास्तस्याः संग्राहिणा संग्रहकारिणा । जीर्णेति । जीर्णश्चिरकालीनो यः पाशुपतोपदेशो मनुष्यरुधिरेण होमप्रतिपादकशिक्षा तेन लिखितं लिपीकृतं महाकालमतमीश्वरमतं येन । एतेन केवलं वाममार्गोपदेष्टृत्वं सूचितम् । आविर्भूतेति । आविर्भूतः प्रकटीभूतः सर्वे मे मम निधय इति वादः स एव व्याधिर्यस्य स तेन । अत एवाह - संजातेति । संजातः समुत्पन्नो धातुवादस्य ताम्रादेः सुवर्णादिकरणस्य स एव वायुर्विक्रिया यस्य स तेन । लग्न इति । लग्नोऽसुराणां पातालवासिदेवानां विवरप्रवेशलक्षणः पिशाचो यस्य स तेन । प्रवृत्तेति । प्रवृत्तः प्रसृतो यक्षकन्यका गन्धर्वपुत्र्यस्तासां यः कामित्वमनोरथो भोगेच्छाविशेषस्तद्विषये व्यामोहो यस्य स तेन । वर्धितेति । वर्धितो वृद्धिं नीतोऽन्तर्धानमदृश्यता तस्मिन्क'र्तव्ये मन्त्रसंग्रहो यस्यैवंविधेन । श्रीपर्वतेति । श्रीपर्वतः श्रीशैलस्तस्याश्चर्यवार्ताश्चित्रकारिण्यः किंवदन्त्यस्तासां सहस्रं तस्मिन्नभिज्ञेन कुशलेन, तस्य शाम्भवत्वाद् द्रविडधार्मिकस्य जंगमत्वाच्चेति भावः । असकृदिति । असकृन्निरन्तरमभिमन्त्रिता ये सिद्धार्थकाः सर्षपास्तेषामाहतिः प्रक्षेपस्तया धावितैस्त्वरया प्रचलितैः पिशाचगृहीतैः पिशाचाविष्टैः करतलताडनेन हस्ततलास्फोटनेन निविडीकृतं दृढीकृतं श्रवणपुटं कर्णकोटरं यस्य स तेन । एतेन पिशाचावेशविद्यावत्त्वं सूचितम् । अवेति । अवैमुक्तस्त्यक्तः शैवाभिमानोऽहमेव शैवो नान्य इति भावो येन । दुरिति । दुःखेनं गृहीता यालाबुवीणा तस्या वादनेनोद्वेजिता उद्वेगं प्रापिता ये पथिका अध्वगास्तैः परिहृतेन त्यक्तेन । दिवसेति । दिवस एव न तु रात्रौ मशकानां क्वणितं शब्दितं तदनुकारि किमप्यनिर्वचनीयं कम्पितोत्तमाङ्गं यथा स्यात्तथा गाया गानं कुर्वता । स्वदेशेति । स्वदेशस्य सौवजनपदस्य या भाषा वाणी तया निबद्धं गुम्फितं यद्भागीरथी गङ्गा तस्या भक्तिस्तोत्रं तेन नर्तकेन नृत्यकारिणा । स्तोत्रं पठन्नेव नृत्यतीत्यर्थः । गृहीतेति । गृहीतं स्वीकृतं तुरगाणां ब्रह्मचर्यम् । प्रतिबन्धवशात् । न तु वैराग्येणेति । तस्य भावस्तत्ता तयान्येभ्यो देशेभ्यो जनपदेभ्य आगताः प्राप्ता उषिताश्च तासु जरन्त्योऽपि याः प्रव्रजिता आत्तव्रतास्तासु बहुकृत्वो बहुवारं संप्रयुक्तं स्त्रीवशीकरणस्य चूर्णं येन । एतेन महाकामुकत्वं सूचितम् । अतीति । अतिरोषणस्य भावा कदाचिद्दुर्न्यस्ता विषमस्थापिता याष्टपुष्पिका सोलिका तस्याः पातेनोत्पादितः क्रोधो यस्य स तेन । निःशङ्क - टिप्प० - 1 संजातो धातुवादः (ताम्रादीनां सुवर्णादिकरणव्यतिकरः) एव वायुरोगो यस्य । 2 चिपिटीकृतम् । 3 'अवमुक्त' इति पाठो न हिविवक्षासंगतः । 'अविमुक्त' इत्येव पाटः, न विमुक्तः न त्यक्तः अहंकारो येनेति तदर्थः । 5 दुर्गृहीता वादनकालिकग्रहणप्रकारं विरहस्य परिधृता । 5 द्रविडदेशस्य । पूर्वभागः । पाठा० - १ महापाशुपत. २ मन्त्रसाधनसंग्रहेण ३ प्रहतिप्रधावितैः ४ चिपिटीकृत. ५ श्रवणनासापुटेनाप्ययुक्त. ६ दिवसमशकक्वणितानुकारिणा स्वरेण ७ आगतासु. ८ प्रब्राजिकासु. (जरद्रविडधार्मिकवर्णनम् 461 Page #475 -------------------------------------------------------------------------- ________________ तया कदाचिद्दुर्न्यस्ताष्टेपुष्पिकापातोत्पादितक्रोधेन चण्डिकामपि मुखभङ्गिविकारैर्भृशमुपहसता, कैदाचिन्निवार्यमाणावासरुषिताध्वगारब्धबहुबाहुयुद्धपातभग्नपृष्ठकेन, कदाचित्कृतापराधबालकपलायनामर्षपश्चात्प्रधावितस्खलिताधोमुखनिपातोपलस्फुटितशिरःकपालभुग्नग्रीवेण, कदाचिज्जैनपदकृतनवागतपरमधार्मिकादरमत्सरोद्बद्धात्मना, निःसंस्कारतया यत्किंचनकारिणा, खञ्जतया मन्दं मन्दं संचारिणा, बधिरतया संज्ञाव्यवहारिणा, रात्र्यन्धतयादिवाविहारिणा, लम्बो - दरतया प्रभूताहारिणा, अनेकशः फलपातनकुपितवानरनखोल्लेखच्छिद्रितनासापुटेन, बहुशः कुसुमावचयचलितभ्रमरसहस्रदंशशीर्णीकृतशरीरेण, सहस्रशः शयनीकृतासंस्कृतशून्यदेवकुलकालसर्पदष्टेन, शतशः श्रीफलतरुशिखरच्युतिचूर्णितोत्तमाङ्गेन, असकृदुत्सन्नदेवमातृगृहवास्यृक्षनॅखजर्जरितकपोलेन, सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तखण्डख *********** त्वाच्चण्डिकामपि मुखभङ्गिविकारैर्भृशमत्यर्थमुपर्हसता हास्यं कुर्वता । कदाचिदिति । कदाचित्कस्मिंश्चित्समये निवार्यमाणो य आवासो निवासस्तेन रुषिताः क्रोधं प्राप्ता येऽध्वगाः पान्यास्तैरारब्धं यद्बहुबाहुयुद्धं तेन पातः पतनं तस्माद्भग्नं स्फुटितं पृष्ठकं यस्य स तेन । कदाचिदिति । कृतापराधा विहितागसो ये बालकाः स्तनंधयास्तेषां पलायनं तस्मादमर्षः क्रोधसंभवस्तेन पश्चात्पृष्ठे प्रधावितः सन्स्खलितस्तेनाधोमुखनिपातस्तेनोपलेऽश्मनि स्फुटितं स्फोट प्राप्तं शिरःकपालं भुग्ना वक्रा ग्रीवा च यस्य स तेन । कदाचिदिति । जनपदेनाधाराधेययोरैक्याज्ञ्जनपदस्थलोकेन कृतो नवागतपरमधार्मिकस्यादरस्तस्मिन्मत्सरस्तत्रोद्धद्ध आत्मा येन । निःसंस्कारेति । निर्गतो दूरीभूतो वर्णसंस्कारो यस्मिंस्तस्य भावस्तत्ता तया । यत्किंचनकारिणा । अविहितकृत्यकारिणेत्यर्थः । खञ्जेति । खञ्जतया खोडतया मन्दं मन्दं यथा स्यात्तथा संचारिणा संचरणशीलेन । बधिरेति । बधिरतयाऽकर्णतया संज्ञया हस्तचालनादिकया व्यवहारिणा व्यवहरणशीलेन । रात्र्येति । रात्र्यन्धतया रजन्यामनवीक्षकत्वेन दिवाविहारिणा दिवससंचारिणा । लम्बेति । लम्बोदरतयाप्रलम्बोदरतया प्रभूताहारिणा प्रचुरान्नभक्षकेण । अनेकश इति । अनेकोपायैर्वृक्षान्दोलनाद्युपायैः फलपातनं तेन कुपिताः कोपं प्राप्ता ये वानराः शाखामृगास्तेषां नखोल्लेखस्तेन छिद्रितं नासापुटं येन । बहुश इति । बहुशो बहुप्रकारेण कुसुमानां स्वभोगार्थमवचयश्श्रुण्टनं तेन चलिता भ्रमरा भृङ्गास्तेषां सहस्रं तस्य दंशा भक्षणानि तैः शीर्णीकृतं जीर्णीकृतं शरीरं यस्य स तेन । सहस्रश इति । सहस्रशः सहस्रवारं शयनीकृतान्यसंस्कृतान्यशोधितानि शून्यानि जनरहितानि देवकुलानि तेषु ये कालसर्पाः कृष्णनागास्तैर्दष्टेन भक्षितेन । शतश इति । श्रीफलतरुबिल्वतरुस्तस्य शिखरमग्रं तस्माच्युतिः पातः । फैलस्येति शेषः । तेन चूर्णितमुत्तमाङ्गं शिरो यस्य स तेन । असकृदिति । असकृद्वारंवारमुत्सन्नमुद्धसं यद्देवमातृगृहं तद्वासिनो ये ऋक्षा भल्लूकास्तेषां नखैर्जर्जरितौ कपोलौ यस्य स तेन । सर्वदेति । सर्वदा सर्वकालं वसन्तंक्रीडिना सुरभिक्रीडाकारिणा जनेनोत्क्षिप्ता या खण्डा भग्ना खट्वा पल्यङ्कस्तस्यामारोपिता स्थापिता या वृद्धा जीर्णा दासी कूटहारिका तया सह यो - टिप्पo - 1 अष्टानां पुष्पाणां समाहारः अष्टपुष्पी, अज्ञाता अष्टपुष्पी अष्टपुष्पिका ( 'क' प्रत्ययः) । अज्ञातानि यानि कानिचिदष्टौ पुष्पाणि चण्डिकायाः पीठे दुःप्रकारेण विहितानि । तानि पुष्पाणि दैवात्पतितानि, कौतुकाय केनचित्पातितानि वा । ततस्तदुपरि द्रविडस्य क्रोधश्चण्डिकाया उपरि भवति यत्त्वं पुष्पाण्यपि रक्षितुं नापारयः, अत एव मुखभङ्गिविकारैस्तामुपहसतीत्याशयः । 2 शिक्षा - सत्सङ्गादिजनितसाधुवासनाहीनत्वेन अकार्येष्वपि प्रवृत्तेनेत्युचि - तोर्थः । 3 फलादिग्रहणार्थमारूढस्य स्वस्यैव । लोलुपत्वातिशयस्य विवक्षणात् । 5 वसन्तक्रीडा 'होलिका' महोत्सवः । तत्र ह्येवंविधविरूपरूपकाणि ( ' वग') कौतुकभिर्निस्सार्यन्ते । पाठा० - १ आखुपुष्पिका. २ कदाचिन्निवार्यमाणावासिताध्वगारब्धबहुबाहुयुद्धपातभग्नपृष्ठेन कदाचिदनवरतभुजशिखरलोहिना शिरः कम्पनवक्रितग्रीवेण ३ जानपद. ४ असारीकृत. ५ क्षतज. 462 कादम्बरी | कथायाम् Page #476 -------------------------------------------------------------------------- ________________ ट्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन, अनेकायतनप्रतिशयितनिष्फलोत्थानेन, दौस्थित्यमपि विविधव्याधिपरिवृतं स्वकुटुम्बमिवोद्वहता, मूर्खतामपि बहुव्यसनानुगतां प्रसूतानेकापत्यामिव दर्शयता, क्रोधमप्यनेकदण्डाभिघातनिर्मितबहुगात्रगेण्डूकं फलितमिव प्रकाशयता, क्लेशमपि सर्वावयवचलितदीपिकादाहव्रणविभावितं बहमुखमिव प्रकटयता, परिभवमपि निष्कारणाकृष्टजनपददत्तपदाकृष्टिशतं प्रवाहमिव दधानेन, शुष्कवनलताविनिर्मितबृहत्कुसुमकरण्डकेन, वेणुलतारचितपुष्पपातनाङ्कुशिकेन, क्षणमप्यमुक्तकालकम्बलखण्डखोलेन जरद्रविडधार्मिकेणाधिष्ठितां चण्डिकामपश्यत् । तस्यामेव च वासमरचयत् । अथावतीर्य तुरगात्प्रविश्य भक्तिप्रवणेन चेतसा तां प्रणनाम । कृतप्रदक्षिणश्च पुनः - *********** विवाह उद्वाहस्तेन प्राप्तं विडम्बनं कदर्थनं यस्य स तेन । अनेकेति । अनेकेष्वायतनेषु चैत्येषु प्रतिशयितं किंचित्फलप्राप्तिबुझ्या स्वापः कृतस्तेन तस्माद्वा निष्फलमुत्थानं जागरणं यस्य स तेन । एतेन वार्धकेऽप्यत्यन्तमुद्योगः सूचितः । दुःस्थितेति । दुःस्थितस्य भावो दौःस्थित्यमप्यसदृत्तमपि विविधा अनेकप्रकारा ये व्याधयः पीडास्तैः परिवृतम् । अनेनासवृत्तपरम्परा सर्वदा वर्तमानैवेति सूचितम् । यथा व्याधिरपि व्याध्यन्तरेण परिवृतो वृद्धिमेव जनयति तद्दौःस्थित्यवृद्धिरेव सूचिता । अत एव तस्य विच्छेद एव नास्तीत्याह -स्वकुटुम्बेति । स्वकीयं कुटुम्बमिवात्मीयस्वजनमिवोद्वहतोद्वहनं कुर्वता । मूर्खतेति । मूर्खस्य भावो मूर्खता तामपि बहुभिर्व्यसनैरासक्तिभिरनुगता सहिताम् । अतएव मूर्खताया व्यसनजनकत्वादाह - प्रसूतेति । प्रसूतानि जनितान्यनेकान्यपत्यानि ययैवंविधामिव दर्शयतान्येभ्यः प्रकाशयता । क्रोधमिति । क्रोधं कोपमप्यनेके दण्डास्तेषां कलहावसरे योऽभिघातस्तैर्निर्मितो बहुगात्राणां गण्डूकः पिटको येन स तम् । अत एवाह - फलितमिव प्रकाशयताविष्कुर्वता । क्लेशमिति । क्लेशः परिश्रमस्तमपि सर्वेष्ववयवेषु ज्वलिता या दीपिकास्तासां दाह इव यो दाहस्तस्माद्यानि व्रणानि देहविकृतिरूपाणि तैर्विभावितं लक्षितम् । अतएव बहुच्छिद्रवत्त्वाद्बहुमुखमिव प्रकटयता प्रकाशयता । परीति । परिभवमपि तिरस्कारमपि निष्कारणं निष्प्रयोजनमाकृष्ट आकर्षितो यो जनस्य पदोऽमिस्तेन दत्तं पदाकृष्टिशतं चरणप्रहारशतं यस्मिन् । अविच्छिन्नगतिमत्त्वात्प्रवाहमिव दधानेन बिभ्रता । शुष्केति । शुष्का या वनलता तया विनिर्मितो निष्पादितो बृहत्कुसुमकरण्डः पुष्पसंस्थापनस्थलं येन । वेण्विति । वेणुलतया रचिताः पुष्पपातनार्थमङ्कुशिका येन । क्षणेति । क्षणमप्यमुक्तोऽत्यक्तः कालकम्बलखण्डस्य कृष्णरल्लकप्रदेशस्य खोलों येन । अन्वयस्तु प्रागेवोक्तः । तस्यामिति । तस्यामेव भूमौ वासं निवासमरचयद्रचितवान् । अथेति । तदनन्तरं तुरगादश्चादवतीर्य प्रविश्य च । चण्डिकायतनमिति शेषः । भक्तिप्रवणेन चेतसा तां प्रणनाम नमश्चक्रे । कृतेति । कृता विहिता प्रदक्षिणा येनैवंविधश्च पुनरपि प्रणम्य नमस्कारं कृत्वा प्र - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अनेकवारान् अभोजनं देवाग्रे शयनसाहसं कृतं किन्तु तनिष्फलमेव जातमित्यर्थः । 2 व्यसनान्येव मूर्खताया अपत्यानीत्युप्रेक्षाशयः । 3 बहुत्वमुचितं न ह्यनेकदण्डाभिघातैरेकगण्डकोत्पादने स्वारस्यम् । 'गात्रगण्डक' मित्येव च पाठः । गण्डका गात्रव्रण ('गूमडा') विशेषाः । गण्डका एव क्रोधस्य फलरूपा इत्युत्प्रेक्षातात्पर्यम् । 4 द्रविडोत्पीडितजनैस्तदङ्गेषु प्रज्वालिताः (दाहार्थम्) । 5 'आकृष्ट' इत्येव पाठ उचितः । निष्कारणम् आकृष्टः शापादिभिस्तिरस्कृतो यो जनस्तस्य । 6 शिरस्त्राणायितमावरणम्, 'खोळ' इति जयपुरग्रामभाषायाम् । 'खोलकः पाकवल्मीकपूगकोषशिरस्त्रके इति विश्वः । पाठा० - १ घात. २ गण्डकम्. ३ बहुसुखम्. ४ सप्रवाहमिव; शतसंप्रवाहमिव. ५ आमुक्त. ६ खण्डलोलेन. ७ आवासम्. ८ अरोचयत्. द्रविडधार्मिकपरिचयः पूर्वभागः । 463 Page #477 -------------------------------------------------------------------------- ________________ प्रणम्य प्रशान्तोद्देशदर्शनकुतूहलेन परिभ्रमन्नुच्चैरारटन्तमाक्रोशन्तं च कुपितं द्रविडधार्मिकमेकदेशे ददर्श । दृष्ट्वा च कादम्बरीविरहोत्कण्ठोद्वेगदूयमानोऽपि सुचिरं जहास । न्यवारयच्च तेन सार्धं प्रारब्धकलहानुपहसतः स्वसैनिकान् । उपसान्त्वनैश्च कथमपि प्रियालापशतानुनयैः प्रशममुपनीय क्रमेण जन्मभूमिं जातिं विद्यां च कलत्रमपत्यानि विभवं वयःप्रमाणं प्रव्रज्यायाश्च कारणं स्वयमेव पप्रच्छ । पृष्टश्चासाववर्णयदात्मानम् । अतीतस्वशौर्यरूपविभववर्णनवाचालेन तेन सुतरामरज्यत राजपुत्रः । विरहातुरहृदयस्य विनोदनतामिवागात् । उपजातपरिचयश्चास्मै ताम्बूलमदापयत् । अस्तमुपगते च भगवति सप्तसप्तौ, आवासितेषु यथासंपन्नपादपतलेषु राजसूनुषु, शाखावसक्तर्तपनीयपर्याणेषु क्षितितललुठनपांसुलसटावधूननानुमितोत्साहेषु गृहीतकतिपयशष्पकवलेषु पीतोदकेषु स्नानार्द्रपृष्ठतया विगतश्रमेषु पुरोनिखातकुन्तयष्टिषु संयतेषु वाजिषु, वाजिसमीपविरचितपर्णर्प्रस्तरे च दिवसगमनखिन्नपरि - *** ***** शान्तो य उद्देशस्तस्य दर्शनस्य यत्कुतूहलं तेन परिभ्रमन्नितस्ततः संचरन् । उच्चैरुच्चस्वरेणारटन्तं पूत्कुर्वन्तमाक्रोशन्तं च कुपितं द्रविडधार्मिकमेकदेश एकस्मिन्प्रदेशे ददर्शेक्षांचक्रे । दृष्ट्वा विलोक्य । कादम्बरीति । कादम्बर्या विरहे योत्कण्टा तज्ञ्जनितो य उद्वेगस्तेन दूयमानोऽपि पीड्यमानोऽपि सुचिरं चिरकालं यावज्जहास हास्यं चक्रे । न्यवारयच्च निवारणं कृतवांश्च । तेनेति । द्रविडधार्मिकेण सार्धं प्रारब्धकलहान्स्वसैनिकानुपहसतः । उपेति । उपसान्त्वनैः सामभिः प्रियालापानामिष्टवचनानां शतेनानुनयैरनुकूलनैश्च कथमपि महता कष्टेन प्रशमं शान्तभावमुपनीय प्राप्य जन्मभूमिमुत्पत्तिस्थलम्, जातिं ब्राह्मणत्वादिकाम्, विद्यां वेदाध्ययनादिरूपाम्, कलत्रं स्त्री, अपत्यानि पुत्रपुत्रीरूपाणि, विभवमैश्वर्यम्, वयः प्रमाणं वर्षपरिमाणम्, प्रव्रज्यायाश्च दीक्षायाश्च कारणं निदानम्, एतानि स्वयमेव पप्रच्छ प्रश्नविषयीचक्रे । पृष्टश्चासौ द्रविडधार्मिक आत्मानं स्वमवर्णयद्वर्णितवान् । अतीति । अतीतं व्यतिक्रान्तं यत्स्वकीयं शौर्यं पराक्रमः, रूपं सौन्दर्यम्, विभव ऐश्वर्यं, तेषां वर्णनं तत्र वाचालेन वाचाटेन तेन द्रविडधार्मिकेण राजपुत्रञ्चन्द्रापीडः सुतरामतिशयेनारज्यतानुरक्तो बभूव । विरहेति । विरहेणारं हृदयं यस्यैवंभूतस्य राज्ञो विनोदनस्य भावो विनोदनता तामिव सोऽगात् । राज्ञश्चित्तविश्रान्तिस्थान ( ग ) तां जगामेत्यर्थः । उपेति । उपजातः प्राप्तः परिचयो यस्यैवंविधोऽस्मै द्रविडधार्मिकाय ताम्बूलं नागवल्लीदलमदापयद्दापितवान् । अथ च भगवति सप्तसप्तौ सूर्येऽस्तमुपगते सति चन्द्रापीडः परिजनेन सेवकजनेनैकदेश एकत्रस्थले संयतस्य बद्धस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारेण निवेदितं ज्ञापितं शयनीयं तल्पमगादित्यन्वयः । केषु सत्सु । राजसूनुषु नृपपुत्रेषु यथासंपन्नाः पुष्पफलसमृद्धा ये पादपा वृक्षास्तेषां तलेष्वावासितेषु वसतिं प्रापितेषु सत्सु । पुनः केषु सत्सु । वाजिषु तुरङ्गमेषु संयतेषु बद्धेषु सत्सु । अथ वाजिविशेषणानि - शाखेति । शाखायामवसक्तान्यवलम्बितानि तपनीयस्य सुवर्णस्य पर्याणानि पल्ययनानि येषां तेषु । क्षितीति । क्षितितलं पृथ्वीतलं तत्र लुटनेन पांसुला याः सटाः केशसंहतयस्तासामवधूननेन कम्पेनानुमित उत्साहो येषां तेषु । गृहीतेति । गृहीताः कतिपये कियन्तः शष्पकवला बालतृणग्रासा यैस्तेषु । पीतान्युदकानि यैस्तेषु । स्नानेति । स्नानेनार्द्र पृष्ठं येषां तेषां भावस्तत्ता तया विगतो दूरीभूतः श्रमो येषां तेषु । पुर इति । पुरोनिखाता अग्रे स्थापिताः कुन्तयष्टयो येषां तेषु । पुनः कस्मिन्सति । वाजिसमीपेऽश्वसविधे विरचितः कल्पितः पर्णानां पत्राणां प्रस्तरः संस्तरो येन तस्मिन् । दिवसं यावद्गमनेन खिन्ना पदातिजनाः परिकल्पिताः प्रथमप्रहरक्रमेण संस्थापिता 464 टिप्प० - 1 यथा प्राप्ता इत्यर्थः । 2 'परिवर्तितयामिके' इत्युचितम् । गमनेन केचित्खिन्ना अत एवान्ये परिवर्तिता यामिका येन तस्मिन्निति तदर्थः । पाटा० - १ प्रशस्तदेवादर्शन. २ संरब्धः समारब्ध. ३ अतीतस्वसौन्दर्यरूपविभववर्णनावाचालेन. ४ तच्चरितं विनोदनताम् ५ अपनीत. ६ सस्तरे. ७ खित्रे. - कादम्बरी | कथायाम् Page #478 -------------------------------------------------------------------------- ________________ कल्पितयामिके सुषुप्सति सैनिकजने, कृतबहुपावकप्रभापीततमसि दिवस इव विराजमाने सेनानिवेशे चन्द्रापीडः परिजनेनैकदेशे संयतस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारनिवेदितं शयनीयमगात् । निषण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखासिका हृदयम् । अरतिगृहीतश्च विसर्जयांबभूव राजलोकम् । अतिवल्लभानपि नाललाप पार्श्वस्थान् । निमीलितलोचनो मुहुर्मुहुर्मनसा जगाम किंपुरुषविषयम् । अनन्यचेताः सस्मार हेमकूटस्य । निष्कारणबान्धवतीमचिन्तयन्महाश्वेतापादानाम् । जीवितफलमभिललाष पुनः पुनः कादम्बरीदर्शनम् । अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय । तमालिकां द्रष्टुमाचकाङ्क्ष । केयूरकागमनमुत्प्रेक्षत । हिमगृहकमपश्यत् । उष्णमायतं पुनरुक्तं निशश्वास । बबन्ध बान्धवेभ्यश्चाधिकां प्रीति शेषहारे । पश्चात्स्थितां पुण्यभागिनीममन्यत पत्रलेखाम् । एवं चानुपजातनिद्र एव तामनयन्निशाम् । उषसि चोत्थाय तस्य जरद्रविडधार्मिकस्यैच्छया निसृष्टैर्धनविसरैः पूरयित्वा मनोरथमभिमतमभिरमणीयेषु प्रदेशेषु निवसन्नत्परेवाहोभिरुज्जयिनीमा - *********** यामिका यस्मिन्नेवंविधे सैनिकजने सुषुप्सति स्वपितुमिच्छति सति । कृतो विहितो यो बहुपावकः प्रभूताग्निस्तस्य प्रभया पीतं तमो यस्मिन्नेवंविधे दिनावसाने दिवस इव विराजमाने सेनानिवेशे सति । निषण्णस्य चेति । अस्य चन्द्रापीडस्य निषण्णस्योपविष्टस्य तत्क्षणमेव दुःखमासतेऽस्यामिति दुःखासिका रतिर्हदयं पस्पर्श स्पृष्टवती । अरतीति । अरत्योद्वेगेन गृहीत आक्रान्तश्च राजलोक विसर्जयांबभूव शयनायानुज्ञा प्रदत्तवान् । अतीति । अतिवल्लभानप्यतिप्रियानपि पार्थस्थान्समीपवर्तिनो नाललाप न बभाषे । निमीलिते लोचने यस्यैवंभूतो मुहुर्मुहुः किंपुरुषविषयं मनसा चेतसा कृत्वा जगाम गतवान् । अनन्येति । न विद्यतेऽन्यस्मिन् चेतः । चित्तं यस्यैवंभूतो हेमकूटस्य सस्मार स्मरणं चकार । 'मातुः स्मरति' इतिवत् हेमकूटस्येति षष्ठी । निष्कारणेति । महाश्वेतापादानां निष्कारणबान्धवतां निर्हेतुकस्वजनतामचिन्तयत् । पुनःपुनरिवारं कादम्बरीदर्शनमभिललाष वाञ्छयामास । कीदृशम् । जीवितस्य फलमिव फलम् । अपगतेति । अपगतो दूरीभूतो योऽभिमानो गर्वस्तेन पेशलाय हृद्याय । 'पेशलं हृद्य सुन्दरम् इति कोशः । मदेति । मदलेखया सह यः परिचयः संस्तवस्तस्मै नितरां अस्पृहयत्स्पृहां चकार । तमालिका द्रष्टुं विलोकयितुमाचकाङ्क्षाभिललाष । केयूरकस्यागमनमुंप्रेक्षतोट्टङ्कयत । हिमगृहकमपश्यत् । उष्णमुष्णमायतं विस्तीर्णं पुनरुक्तं वारंवारं निशचास निश्वासान्मुमोच । बान्धवेभ्यः स्वजनेभ्योधिकां प्रीति शेषाभिधाने हारे बबन्ध बन्धितवान् । तदर्पितत्वेन तदुपरि रागाधिक्यमिति भावः । पश्चादिति । पश्चात्स्थितां पुण्यभागिनी पत्रलेखाममन्यत ज्ञातवान् । एवं चेति । एवममुना प्रकारेण अनुपजातानागता निद्रा प्रमीला यस्यैवंभूत एव निशां रात्रिमनयद्यापितवान् । उषसि च प्रभात उत्थाय तस्य पूर्वव्यावर्णितस्वरूपस्य जरद्रविडधार्मिकस्येच्छया निसृष्टैर्दत्तैर्धनविसरैर्द्रव्यसमूहैमनोरथमभिलाषं पूरयित्वाभिरमणीयेषु प्रदेशेषु निवसन्निवासं कुर्वनल्परहोभिरेव स्तोकैरेव दिनैरुज्जयिनीं विशा - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अरतिरिति स्यात् । वस्तुतस्तु दुःखस्य आसनम् आसिका अर्थात् दुःखप्राप्तिरित्यर्थः, 'पर्यायाहर्णोत्पत्तिषु ण्वुच् इति ण्वुच् । 2 तपस्वितया गौरववशात्पादशब्दयोगो बहुत्वं च । वस्तुतस्तु - 'प्रसादानाम् इत्युचित इव प्रतिभाति । 3 ववाञ्छेत्येवोचितम्, किमु स्वार्थे णिच् ? 4 स्वस्य दशया कादम्बर्या अपि दशां कल्पयित्वा तत् (काद०) द्वारा तत्प्रेषणं स्वमनसैव समभावयदित्यर्थः । पाटा० - १ प्रभाप्रणाशिततमसि दिवसायमाने सेनानिवेशे. २ हेमकूट; हेमकूटस्य रम्यताम्. ३ उत्कण्ठितोऽचिन्तयत्. ४ प्रसादानाम्. ५ जीवितमिव. ६ च मुहुर्निशवास. ७ स्वेच्छाविसृष्टः, ८ मनोरथानभिमतेष्वतिरमणीयेषु; मनोरथमभिमतेष्वतिरमणीयेषु. उज्जयिनीप्रवेशः पूर्वभागः ।। 465 Page #479 -------------------------------------------------------------------------- ________________ जगाम । आकस्मिकागमनप्रहृष्टसंभ्रान्तानां पौराणामर्घकमलानीव नमस्काराञ्जलिसहस्राणि प्रतीच्छन्नतर्कित एव विवेश नगरीम् । अहमहमिकया च प्रधावितानतिरभसहर्षविह्वलान्परिजनान् ‘दारि देव, चन्द्रापीडो वर्तते' इत्युपलभ्यास्य पिता निर्भरानन्दमन्दगमनो मन्दर इव क्षीरोदजलमुत्तरीयांशुकममलमागलितमाकर्षन्, प्रहर्षनेत्रजलबिन्दुवर्षी मुक्तमुक्ताफलासार इव कल्पपादपः, प्रत्यासन्नवर्तिभिर्जरापाण्डुमौलिभिश्चन्दनविलेपनैरनुपहतक्षौमधोरिभिः केयूरिभिरुष्णीषिभिः किरीटिभिः शेखरिभिर्बहुकैलासामिव बहुक्षीरोदामिव क्षितिं दर्शयद्भिः प्रतिपन्नासिवेत्रच्छत्रकेतुचामरैरनुगम्यमानो राजसहसैश्चरणाभ्यामेव प्रत्युजगाम । दृष्ट्वा च पितरं दूरादेवावतीर्य वाजिनश्चूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन ‘एोहि' इत्याहूँय पित्रा गाढमुपगूढः सुचिरं परिष्वज्य तत्कालसंनिहितानां च माननीयानां - *********** लामाजगामाययौ । आकस्मिकेति । आकस्मिकमसंभावितं यदागमनं तेन प्रहृष्टाः प्रमुदिताः संभ्रान्ताश्च ये पौरास्तेषामर्थकमलानीव नमस्काराञ्जलिसहस्राणि प्रतीच्छन्गृह्णनतर्कित एवासंभावित एव नगरीमुज्जयिनी विवेश प्रवेशं चकार । अहं पूर्वमहं पूर्वमित्यहमहमिका तया प्रधावितानुच्चलितानतिरभसेन जनितो यो हर्षः प्रमोदस्तेन विह्वलान्व्याकुलान्परिजनान्परिच्छदान्द्वारि द्वारदेशे हे देव, चन्द्रापीडो वर्तते इत्युपलभ्य प्राप्यास्य चन्द्रापीडस्य पिता तारापीडो निर्भरानन्देन निबिडप्रमोदेन मन्दं गमनं यस्यैवंभूतोऽमलं निर्मलमागलितमीषत्स्वस्थानाद् भ्रष्टमुत्तरीयांशुकमुपसंव्यानवस्त्रमाकर्षयन्स्वस्थानं नयन् । राज्ञो गौरत्वसाम्यादुत्तरीयांशुकस्य शुभ्रत्वसाम्यादाह - मन्दरेति । मन्दर इव मेरुरिव क्षीरोदजलम् । प्रहर्षेति । प्रहर्षात्प्रमोदान्नेत्रजलबिन्दू-वर्षतीत्येवंशीलः स तथा । जलबिन्दूनां शुचित्वे मुक्ताफलसाम्यमाह - मुक्तेति । मुक्तो मुक्ताफलानामासारो येनैवविध इव कल्पपादपो मन्दरतरुः । प्रत्यासन्नवर्तिभिर्जरा विससा तया पाण्डवः श्वेता मौलयो येषां तैश्चन्दनानां विलेपनान्यङ्गरागा येषां तैः । अन्विति । अनुपहतमच्छिन्नं यत्क्षौम दुकूलं तद्धारिभिः, केयूरमङ्गदं विद्यते येषां तैः, उष्णीषं पुष्पदाम विद्यते येषां तैः, किरीट कोटीरं विद्यते येषां तैः, शेखर आपीडो विद्यते येषां तैः । अत एव बहुकैलासामिव । शेखराणां शुभ्रत्वादिति भावः । बहुक्षीरोदामिव । क्षौमादीनामतिशुभ्रत्वेन क्षीरोदसादृश्यात् । इत्येतादशी क्षितिं वसधां दर्शयद्भिः । प्रतीति । प्रतिपन्नानि स्वीकतानि वेत्रच्छत्रकेतचामराणि यैरेवंविधै राजसहसैरनगम्यमानः चरणाभ्या पादाभ्यामेव प्रत्युज्जगामाभिमुखं प्रतस्थे । दृष्ट्वा च पितरं जनकं दूरादेव वाजिनोऽश्चादवतीर्य चूडामणिः शिरोमणिस्तस्य मरीचयः क्रान्तयस्ता मलति धारयतीत्येवंशीलेन मौलिना मस्तकेन महीं वसुधामगच्छत् । पञ्चाङ्ग प्रणाममकरोदित्यर्थः । अथेति । प्रणामानन्तरं प्रसारितभुजेन विस्तारितबाहुना पित्रा एहि एहि इत्याहूय गाढमत्यर्थमुपगूढ आलिङ्गितः सुचिरं बहुकालं परिष्वज्यालिङ्ग्य तस्मिन्काले संनिहितानां समीपगतानां च माननीयानां पूज्यानां कृतो विहितो नमस्कारो येनैवंभूतश्चन्द्रापीडः करे गृहीत्वा विला - टिप्प० - 1 'परिजनात्' इति अर्थसंगतः पाठः । परिजनात् उपलभ्य संवादं प्राप्य । 2 कल्पपादप इव इत्यन्वयो बोध्यः । 3 चूडामणेमरीचिमाला अस्त्यस्य तादृशेन, इत्येवार्थ उचितः। - - - - - - - - - - - - - - - - - - - - - - -- - - - - - - पाठा० - १ आविवेश. २ धारिभिर्हारिभिः. ३ चन्द्रापीडोऽपि दृष्ट्वा च. ४ आदरादाहूय. ५ सुचिरं गाढमुपगूढः. ६ माननीयानाममात्यानां महीपतीनां च क्रमेण. 466 7 कादम्बरी । कथायाम्- ) Page #480 -------------------------------------------------------------------------- ________________ कृतनमस्कारः करे गृहीत्वा विलासवतीभवनमनीयत राज्ञा । तयापि तथैव सर्वान्तःपुरपरिवारया प्रत्युद्गम्याभिनन्दितागमनः कृतागमनमङ्गलाचारो दिग्विजयसंबद्धाभिरेव कथाभिः कंचित्कालं स्थित्वा शुकनासं द्रष्टुमाययौ । तत्राप्यमुनैव क्रमेण सुचिरं स्थित्वा निवेद्य वैशम्पायनं स्कन्धावारवर्तिनं कुशलिनमालोक्य च मनोरमामागत्य विलासवतीभवन एव सर्वाः स्नानादिकाः परवश ईव क्रिया निरवर्तयत् । अपराह्ने निजमेव भवनमयासीत् । तत्र च रणरणकखिद्यमानमानसः कादम्बर्या विना न केवलमात्मानं स्वभवनमवन्तीनगरं वा सकलमेव महीमण्डलं शून्यममन्यत । ततो गन्धर्वराजपुत्रीवार्ताश्रवणोत्सुकश्च महोत्सवमिवेप्सितवरप्राप्तिकालमिवामृतोत्पत्तिसमयमिव पत्रलेखागमनं प्रत्यपालयत् । ततः कतिपयदिवसापगमे मेघनादः पत्रलेखामादायागच्छत्, उपानयच्चैनाम् । कृतनमस्कारां च दूरादेव स्मितेन प्रकाशितप्रीतिश्चन्द्रापीडः प्रकृतिवल्लभामपि कादम्बरीसकाशात्प्रसादलब्धापरसौभाग्यामिव वल्लभतरतामुपागतामुत्थायातिशयदर्शितादरमालिलिङ्ग पत्रलेखाम्, मेघनादं च प्रणतं पृष्ठे करकिसलयेन पस्पर्श । समुपविष्टश्चाब्रवीत् - 'पत्रलेखे, कथय तत्रभवत्या महाश्वेतायाः समदलेखाया देव्याः कादम्बर्याच कुशलम् । कुशली वा सक - *********** सवतीभवनं राज्ञानीयत प्राप्यत । तयापि विलासवत्यापि तथैव पूर्वोक्तरीत्यैव सर्वान्तःपुरस्य परिवारो यस्याः सा तया प्रत्युद्गम्याभिमुखमागत्याभिनन्दितं श्लाघितमागमनं यस्य सः । कृतो विहित आगमनस्य मङ्गलाचारः क्रियाविशेषो यस्य सः । दिशां विजयः स्वायत्तीकरणं तत्संबद्धाभिस्तद्विषयिकाभिः कथाभिर्वार्ताभिः कंचित्कालं मातुह स्थित्वा शुकनासं द्रष्टुं विलोकितुमाययावाजगाम । तत्राप्यमुनैव क्रमेण पूर्वोक्तन्यायेन सुचिरं बहुकालं स्थित्वा स्कन्धावारवर्तिनं कुशलिनं वैशम्पायनं निवेद्य विज्ञाप्यालोक्य निरीक्ष्य च मनोरमां वैशम्पायनजननीमागत्य विलासवतीभवन एव सर्वाः समग्राः स्नानादिकाः क्रियाः परवश इव परायत्त इव निरवर्तयन्निवर्तितवान् । अपराह्ने मध्याह्नात्परतो निजमात्मीयमेव भवनं कुमारोऽयासीदगात् तत्र च रणरणकेनोत्कण्ठया खिद्यमानं पीड्यमानं मानसं यस्यैवंविधः कादम्बर्या विना न केवलमात्मानं स्वभवनं स्वगृहमवन्तीनगरं सकलमेव महीमण्डलं शून्यममन्यतागण्यंत । ततस्तदनन्तरं गन्धर्वराजपुत्र्या या वार्ता किंवदन्ती तस्याः श्रवणमाकर्णनं तत्रोत्सुक उत्कण्ठितश्च महोत्सवमिवोत्सवमिवेप्सितोऽभिलषितो यो वरस्तस्य प्राप्तिकालो लब्धिसमयस्तमिवामृतस्य पीयूषस्योत्पत्तिसमयस्तमिव पत्रलेखागमनं प्रत्यपालयत्प्रत्यपेक्षांचक्रे । ततस्तदनन्तरं कतिपयदिवसापगमे कियत्कालातिक्रमे मेघनादः पत्रलेखामादाय गृहीत्वागच्छदाययौ । एनां पत्रलेखामुपानयच्च राज्ञः समीपे प्रापयच्च । कृतनमस्कारां च तां दूरादेव स्मितेनेषद्धसितेन च प्रकाशिताविष्कृता प्रीतिर्येनैवंभूतश्चन्द्रापीडः प्रकृत्या स्वभावेन वल्लभामपि कादम्बरीसकाशाप्रसादेन लब्धमपरं सौभाग्यं ययैवंविधामिवात एव वल्लभतरतामतिवल्लभतामुपागतां प्राप्तवतीमुत्थायातिशयदर्शितादरं यथा स्यात्तथा पत्रलेखामालिलिङ्गोपगृहनं चकार । मेघनादं च प्रणतं पृष्ठे करकिसलयेन हस्तपल्लवेन पस्पर्श स्पर्श चकार । तदनन्तरं समुपविष्टश्चेत्यब्रवीदित्यवोचत् । इतिशब्दद्योत्यमाह - पत्रलेखे इति । हे पत्रलेखे, कथय निवेदय तत्रभवत्याः पूज्याया महाश्वेताया मदलेखया सहवर्तमानाया देव्याः कादम्बर्याश्च कशलं वर्तते । कशली वा सकलः समस्त - टिप्प० -1 सर्वाण्यन्तःपुराणि परिवारो यस्य इत्यर्थो बोध्यः । 2 अगणयत् इति स्यात् । पाठा० - १ प्रत्युद्गम. २ एव. ३ कुमारभवनम्. ४ समुपविष्टां च; समुपविष्टा च ताम्. ५ कुशली वा बाह्यः सकलः; कुशलवानन्यः सकल. पत्रलेखाया आगमनम् । पूर्वभागः। 467 Page #481 -------------------------------------------------------------------------- ________________ लस्तमालिकाकेयूरकादिपरिजनः ?' इति । साब्रवीत् - 'देव, यथाज्ञापयसि भद्रम । त्वामर्चयति शेखरीकृताञ्जलिना ससखीजना सपरिजना देवी कादम्बरी' इति । एवमुक्तवतीं पत्रलेखामादाय मन्दिराभ्यन्तरं विसर्जितराजलोको विवेश। तत्र चोत्ताम्यता मनसा धारयितुमपारयन्कुतूहलमतिप्रीत्या दूरमुत्सारितपरिजनः प्रविश्यागारमचिरप्ररूढायाः स्थलकमलिन्याः पृथुभिरुन्नालैः पलाशैर्विरचितातपत्रकृत्याया अध्यास्य मध्यभागमन्यतरस्य मरकतपताकायमानस्य पैत्रमण्डपस्य तले चरणारविन्देन समुत्सार्य सुखप्रसुप्तं हंसमिथुनमुपविश्याप्राक्षीत् - 'पत्रलेखे, कँथय कथमसि स्थिता ? कियन्ति वा दिनानि ? कीदृशो वा देवीप्रसादः ? का वा गोष्ट्यः समभवन् ? कीदृश्यो वा कथाः समजायन्त ? को वातिशयेनास्मान्स्मरति ? कस्य वा गैरीयसि प्रीतिः ?' इति । एवं पृष्टा च व्यजिज्ञपत् - 'देव, दत्तावधानेन श्रूयताम्, यथास्थितास्मि, यावन्ति वा दिनानि, यादृशो वा देवीप्रसादः, यथा वा गोष्ट्यः सम I स्तमालिकाकेयूरकादिपरिजनः । साब्रवीदवोचत् । हे देव, यथाज्ञापयस्याज्ञां करोषि तथा भद्रं कुशलं वर्तते । शेखरीकृतो. योऽञ्जलिस्तेन कृत्वा ससखीजना सवयस्या सपरिजना सपरिच्छदा च देवी कादम्बरी त्वां भवन्तमर्चयति पूजयति । इत्येवमुक्तवतीं कथितवतीं पत्रलेखामादाय गृहीत्वा । विसर्जितेति । विसर्जितो राजलोको येनैवंभूतो मन्दिराभ्यन्तरं विवेश प्रविष्टवान् । तत्र चेति । तस्मिन्नेव स्थल उत्ताम्यता विरहेणोत्तपता मनसा चेतसा कुतूहलमाश्चर्यं धारयितुं सम्यक्तया ज्ञातुमपारयन्त्रशक्नुवन्, अतिप्रीत्यातिस्नेहेन दूरमुत्सारितो विसर्जितः परिजनो येनैवंभूतोऽगारं गृहं प्रविश्य प्रवेशं कृत्वा पृथुभिर्विस्तीर्णैरुन्नालैः पलाशैः पत्रैर्विरचितं विहितमातपत्रकृत्यं छत्रकार्यं ययैवंविधायाः स्थलकमलिन्या मध्यभागमध्यास्याश्रित्यान्यतरस्य पूर्वोक्तस्य भिन्नस्य मरकतस्याश्मगर्भस्य या पताका वैजयन्ती तद्वदाचरमाणस्य पत्रमण्डपस्य तले सुखप्रसुप्तं हंसमिथुनं चरणारविन्देन समुत्सार्य दूरीकृत्य तत्रोपविश्याप्राक्षीत्प्रश्नमकार्षीत् । हे पत्रलेखे, कथय प्रतिपादय । कथं केन प्रकारेण स्थितासि । कियन्ति वा दिनानि वासराणि । स्थितेति शेषः । कीदृशः, पूर्वस्मादधिको न्यूनो वा देव्याः कादम्बर्याः प्रसादः प्रसन्नता । का वा गोष्ठ्योऽन्योन्यसंलापाः समभवन्संजाताः । कीदृश्यो वा कथाः सखीनां वार्ताः समजायन्त समभवन् । को वातिशयेन बाहुल्येनास्मान्स्मरति स्मरणविषयीकरोति । कस्य वा गरीयसि महीयसि मयि विषये प्रीतिः स्नेहः । इत्येवमुना प्रकारेण पृष्टा प्रश्नविषयीकृता च व्यजिज्ञपन्यवेदयत् । तदेवाह - देवेति । हे देव, दत्तावधानेन चित्तैकाग्रेण श्रूयतामाकर्ण्यताम् । देव दर्शयति - यथेति । यावन्ति दिनान्यहं स्थितास्मि, यादृशो वा देवीप्रसादः, यथा गोष्ठ्यः समभवन्, यादृश्यश्च कथाः समजायन्त टिप्पo - 1 संवतुमशक्नुवन्नित्यर्थो वक्तव्यः । 2 चरित्रनेता चन्द्रापीडः स्वाननादेव स्वकीयां महत्तां प्रभाषेतेति सर्वथाऽसंभवितम्, 'सारस्वतावतार' इति बिरुदभूषितः टीकाकारमहर्षिरपि पामरोचितां तादृशीं वाणीं नायकमुखान्नाभिवाचयेत्, निश्चेऽयं लेखकदोषः, स च परिमार्जनीयः । अत्र 'गरियसि ' 'महियसि' इति 'मयि' पदस्य विशेषणत्वेन सप्तम्येकवाच्ये प्रकटिते; किन्तु द्वे अमुनी पदे 'प्रीतिः' इति पदस्य विशेषणत्वेन नियोजनादर्थसंगतिः दृश्यत अत एवाऽत्र 'गरीयसी' 'महीयसी' एवं स्त्रीत्वेन योज्ये पदे इमे । पाठा० - १ केयूरकादिः; केयूरकादिकः २ त्वामेव. ३ अजिर; अगाररूढायाः ४ उपरचित. ५ कृत्यस्य ६ शयनमण्डपस्य तालस्य तले. ७ आगते मयि कथय ८ यो वातिशयेन तव स्मरति यस्य वा त्वयि गरियसी प्रीतिरस्तीति. ९ मयि गरियसी. 468 कादम्बरी । कथायाम् Page #482 -------------------------------------------------------------------------- ________________ भवन, यादृश्यश्च कथाः समजायन्त । ततः खल्वागते देवे केयूरकेण सह प्रतिनिवृत्याहं तथैव कुसुमशयनीयसमीपे समुपाविशम् । अतिष्ठं च सुखं नवनवाननुभवन्ती देवीप्रसादान् । किं बहुना प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपल्लवम्, नामाक्षरेषु वाणी, प्रीतौ हृदयं देव्याः सकलमेव तं दिवसमभवत् । अपराह्ने च मामेवावलम्ब्य निष्क्रम्य हिमगृहकात्संचरन्ती यदृच्छया निषिद्धपरिजना वल्लभबालोद्यानं जगाम । तत्र च सुधाधवलां कालिन्दीजलतर ङ्गमय्येव मरकतसोपानमालया प्रमदवनवेदिकामध्यारोहत् । तस्यां च मणिस्तम्भावष्टम्भस्थिता स्थित्वा च मुहूर्तमिव हृदयेन सह दीर्घकालमवधार्य किमपि व्याहर्तुमिच्छन्ती निश्चलधृततारकेण निष्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयत् । विलोकयन्त्येव च कृतसंकल्पा मदनाग्नि प्रवेष्टुमिच्छन्ती सस्नाविव स्वेदाम्भःसोतसि । सोतसेव तरलीकृता समकम्पत । कम्पिताङ्गी च पतनभियेवागृह्यत विषादेन । अथ मया विदिताभिप्रायया तन्मुखविनिवेशितनिष्कम्पनयनदत्तावधानया 'आज्ञापय - *********** एतत्सर्वं श्रूयतामित्यनेनान्वितम् । तत इति । तस्मात्स्थानात्खलु निश्चयेन देवे त्वय्यागते सति केयूरकेण सह प्रतिनिवृत्य प्रश्चाद्गता तथैव पूर्वोक्तरीत्यैव कुसुमशयनीयसमीपे समुपाविशं समुपविष्टा । नवनवान्देवीप्रसादाननुभवन्त्यहं सुखमतिष्ठम् । किं बहुना जल्पितेन । प्रायेण बाहल्येन मम चक्षषि देवीचक्षरिति देवीपदं प्रत्येकमभिसंबध्यते । चक्षरित्यनेन संमखमद्विषयकप्रेक्षणातिशयः । वपषि वपरित्यवियोगातिशयः । करे करपल्लवमिति मद्विषयकः कश्चिच्चमत्कारातिशयः । नामाक्षरेषु वाणीत्यनेन प्रश्नातिशयः । प्रीतौ हृदयमिति रहस्यप्रीत्यतिशयश्च व्यज्यते । देव्याः पूर्वोक्तं सकलमेव तं दिवसमभवत् । अपराहणे च मामेवावलम्ब्यालम्बनीकृत्य हिमगृहकानिष्क्रम्य निर्गत्य यदृच्छया स्वेच्छया संचरन्ती व्रजन्ती निषिद्धपरिजना वल्लभं बालोद्यानं जगाम गतवती । तत्र चेति । तस्मिन्बालोद्याने सुधया पूर्वोक्तया धवलां शुभ्रां प्रमदवनवेदिकामध्यारोहदधिरोहणं कृतवती । मरकतस्य या सोपानमाला तया कालिन्दी यमुना तस्या जलतरङ्गाः प्रचुरा यस्या एवंविधवेव । तस्यां चेति । प्रमदवनवेदिकायां मणिस्तम्भलक्षणो योऽवष्टम्भस्तस्मिन्स्थिता तदाधारेणासेदुषी । विरहातिशयं व्यञ्जयन्नाह - स्थित्वा चेति । मुहूर्तमिव स्थित्वावस्थितिं कृत्वा हृदयेन मनसा सह दीर्घकालमवधार्य निश्चित्य किमपि व्याहर्तुं कथयितुमिच्छन्त्यभिलषन्ती निश्चलं धृता तारका कनीनिका यस्मिन्, निष्पन्दं निश्चलं पक्ष्म नेत्ररोम यस्मिन्नेवभूतेन चक्षुषा नेत्रेण मे मम मुखं सुचिरं बहुकालं व्यलोकयदपश्यत् । विलोकयन्त्येव पश्यन्त्येव कृतः संकल्पो यया सा । संकल्पकार्यमाह - मदनेति । मदन एवाग्निवह्निस्तं प्रवेष्टुं प्रवेशं कर्तुमिच्छन्ती वाञ्छन्ती । एतेन मदनदाहस्यासह्यतातिशयो द्योत्यते । अग्निप्रवेशस्य स्नानपूर्वकत्वादाह - सस्नाविवेति । स्वेदाम्भसो धर्मजलस्य सोतसि प्रवाहे सस्नाविव स्नानं कृतवतीव । एतेन स्वेदातिशयश्च व्यज्यते । सोतसा तरलीकृतेव समकम्पताचलत् । कम्पितमङ्गं यस्या एवंविधा च पतनभियेव विषादेनागृह्यतोपादीयत । अथेत्यानन्तर्ये । विदितो ज्ञातोऽभिप्रायो यस्याः सैवंविधया मया तस्या कादम्बर्या मुखे विनिवेशिते स्थापिते निष्कम्पे नयने ताभ्यां कृत्वा दत्तमवधानं यया सा तया 'देवि, मामाज्ञापयाज्ञां देही ति विज्ञापिते - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 कादम्बर्याः पुष्पशय्येत्यर्थः । 2 तस्मिन् समग्रेपि दिने, देव्या मय्येव एकचित्तताभवदित्याशयः । 3 एवंविधयेव सोपानमालया प्रमदवनवेदिकामध्यारोहदिति योजना। - - - - पाठा० - १ प्रतिनिवृत्ता. २ पल्लव. ३ आरुरोह. ४ मणिस्थूणावष्टम्भास्थिता. ५ आलोकयन्ती. ६ स्वेदाम्भःसोतसेव. (पत्रलेखातः कादम्बरीवृत्तश्रवणम् । पूर्वभागः । 1469) Page #483 -------------------------------------------------------------------------- ________________ इति विज्ञापिते निजावयवैरपि वेपथुमद्भिर्निवार्यमाणेव, रहस्यश्रवणलज्जयात्मप्रतिमामपि लिखितमणिकुट्टिमेन चरणा गुष्ठेनापक्रमायेवामृशन्ती, भवनकलहंसान्कुट्टिमोल्लेखमुखरितनपुरेण चरणारविन्देन विसर्जयन्ती, कर्णोत्पलमधुकरानपि स्विद्यद्वदनव्यजनीकृतेनांशुकपल्लवेनोत्सारयन्ती, ताम्बूलवीटिकाशकलमुत्कोचमिव दन्तखण्डितं शिखण्डिने ददती, वनदेवताश्रवणशकितेव मुहुर्मुहुरितस्ततो विलोकयन्ती, वक्तुकामापि न शक्नोति स्म किंचिदपि लज्जाकलितगद्गदा गदितुं प्रयत्नतोऽपि च सा निःशेषम् । ज्वलता मदनानलेनेव दग्धा, अजसं प्रवहता नयनोदकेनेवोढा, प्रविशद्भिदुःखैरिवाक्रान्ता, पतद्भिः कुसुमचापशरैरिव शंकलीकृता, निष्पतद्भिः श्वसितैरिव निर्वासिता, हृदयवर्तिभिश्चिन्ताशतैरिव विधृता, निःश्वास - *********** सति सा कादम्बरी वक्तुकामापि किंचिदपि न शक्नोति स्म न समर्था बभूव गदितुं वक्तुं प्रयत्नतोऽपि च सा निःशेष समग्रम् । अथेतः कादम्बरी विशेषयन्नाह - निजेति । वेपथुमद्भिः कम्पवद्भिर्निजावयवैरात्मीयापघनैर्निवार्यमाणेव । अन्योऽपि हस्तचालनादिना निवार्यते । रहस्येति । रहस्यस्य गुह्यस्य श्रवणमाकर्णनं तस्माया लज्जा त्रपा तयात्मप्रतिमामपि स्वकीयप्रतियातनामपि लिखितं कर्षितं मणिकुट्टिम येनैवंभूतेन चरणाङ्गुष्ठेनापक्रमायेव तनिवृत्तय इवामृशन्त्यामर्श कुर्वन्ती । भवनकलेति । कुट्टिमं बद्धभूमिकं तस्योल्लेखं उत्कर्षणं तेन मुखरितं वाचालं नूपुरं यस्यैवंभूतेन चरणारविन्देन भवनकलहंसानपि गृहकादम्बानपि विसर्जयन्ती मानसगमनायाज्ञां प्रयच्छन्ती । विरहवशासचिन्तायाः स्त्रियोऽङ्गुष्ठेन भूमिकर्षणं स्त्रीजातिस्वभावः । विसर्जयन्तीत्यनेन हंसापेक्षयापि गत्या शब्देन चरणारविन्दस्याधिक्यमिति व्यज्यते । कर्णेति । स्विद्यत्स्वेदं प्राप्नुवद्यद्वदनं मुखं तत्र व्यजनीकृतो योऽशुकपल्लवस्तेन कर्णोत्पलमधुकरानप्युत्सारयन्ती दूरीकुर्वन्ती । अनेन कर्णोत्पले सौगन्ध्यातिशयो द्योत्यते । ताम्बूलेति । ताम्बूलस्य नागवल्लीदलस्य वीटिका प्रसिद्धा तस्याः शकलं खण्डं दन्तखण्डितं रदनचर्वितमुत्कोचमिव लज्जामिव शिखण्डिने कलापिने ददंती प्रदानं कुर्वती । वनेति । वनस्यारण्यस्य देवताधिष्ठात्री तया श्रवणमाकर्णनं तेन शङ्कितेवेतस्ततश्चतुर्दिक्षु मुहुर्मुहुर्वारंवारं विलोकयन्ती पश्यन्ती । ज्वलतेति । दीप्तिमता मदनरूपोऽनलो वह्निस्तेन दग्धेव ज्वलितेव । अजसं निरन्तरं प्रवहता चलता नयनोदकेन नेत्राम्भसोढेव वाहितेव । प्रविशद्भिरिति । प्रविशद्भिः प्रवेशं कुर्वद्भिः । हृदय इति शेषः । एवंविधैर्दुःखैरसुखैराक्रान्तेव व्याप्तेव । पतद्भिरिवोपरिपतनं कुर्वद्भिः कुसुमचापः कन्दर्पस्तस्य शरैर्बाणैः शकलीकृतेव खण्डीकृतेव । निष्पतद्भिरिति । निष्पतद्भिर्बहिर्निर्गच्छद्भिः श्वसितैः वासैनिर्वासितेव हृदयाहूरीकृतेव । हृदयेति । हृदयवर्तिनिश्चिन्ताशतैर्विधृतेव रक्षितेव । निःश्वासेति । निःश्वासं वदनानिलं पिबन्ती - टिप्प० -1 'न शक्नोति स्म किञ्चिदपि लज्जाकलितगद्गदा गदितुम् । अत्रैव वाक्यपूर्तिः । नाऽऽवश्यकता विस्तरणस्य । 2 निजावयवैरपीति 'अपि' पदमतिशयव्यञ्जकम्, एवंविधे कण्टकाकीर्णे मार्गे अन्ये तु निवारयेरनेव, किंतु निजागैरपि सा निवार्यमाणेत्याशयः । 3 स्वप्रतिबिम्बमपि लज्जावशात् ततः पलायनायेव स्पृशन्तीत्याशयः । 4 रहस्यश्रवणलज्जयेत्यत्रापि संबद्ध्यते, ततश्च लज्जावशाभवनहंसानपि सशब्देन चरणेन ततो विसर्जयन्ती । चरणे नपुरशब्दो नास्ति मन्ये तस्मात्स्थानादपसरणस्यैव स शब्द इत्याशयः । एवं सर्वत्र 'लज्जया' इत्यस्य संबन्धो बोध्यः । 5 अपसरणार्थं गुप्तं द्रव्यदानम् 'रिश्वत' इति यवनभाषा । अन्योप्यर्थी स्वाभीष्टस्थानादपसर्तुं कस्मैचिद् द्रव्यं ददाति । - - - - - - - - - - - - - - - - - - - - - पाठा० . १ मत्प्रतिमाम्. २ संस्विद्यद्वदन; स्विद्यद्वदन. ३ व्यजनक्षिप्तेन. ४ उपवन. ५ लज्जाकुलितगद्गदतया. ६ चास्याः. ७ दग्ध्वा प्रवहता. ८ कीलिता. ९ आवृता. १० विश्वासपातिभिः. ___(470 कादम्बरी । कथायाम Page #484 -------------------------------------------------------------------------- ________________ पायिभिर्मधुकरकुलैरिव निपीता न प्रावर्तत वाणी । केवलं दुःखसहसगणनाय मुक्ताक्षमालिकामिव कल्पयन्ती गलद्भिरस्पृष्टकपोलस्थलैः शुचिभिरधोमुखी नयनजलबिन्दुभिर्दुर्दिनमदर्शयत् । तदा च तस्याः सकाशादशिक्षतेव लज्जापि लज्जालीलाम्, विनयोऽपि विनयातिशयम्, मुग्धतापि मुग्धताम्, वैदग्ध्यमपि वैदग्ध्यम्, भयमपि भीरुताम्, विभ्रमोऽपि विभ्रमिताम्, विषादोऽषि विषादिताम्, विलासोऽपि विलासम् । तथाभूता च 'देवि, किमिदम्' इति विज्ञापिता मया प्रमृज्य लोहितायमानोदरे लोचने दुःखप्रकर्षणात्मनः समुद्घन्धनायेव मृणालकोमलया बाहुलतया वेदिकाकुसुमपालिकाग्रथितकुसुममालामवलम्ब्य - *********** त्येवंशीला निःश्वासपायिनस्तैरेवंभूतैर्मधुकरकुलैर्धमरसमूहैर्निपीतेव पानविषयीकृतेव । अतोऽस्या वाणी वाङ् न प्रावर्तत न प्रवृत्ता बभूव, केवलं साऽधोमुख्यवाङ्मुखी दुःखानां सहसं तद्गणनाय पृथक्संख्यां कर्तुम् । शुचित्ववर्तुलत्वसाम्यादाह - मुक्तेति । मुक्तानामक्षमालिकां जपमालामिव कल्पयन्ती रचयन्ती । गलद्भिः सवद्भिरस्पृष्टमस्पर्शितं कपोलस्थलं अधोमुखत्वाद्गलात्परप्रदेशो यैरेवंविधैः शुचिभिर्नयनजलबिन्दुभिः कृत्वा दुर्दिनं मेघजं तमोऽदर्शयद्दर्शितवती । मया पृष्टा केवलं रुदनमेव चक्रे इति भावः । तदा चेति । तस्मिन्काले तस्याः कादम्बर्याः सकाशात्समीपाल्लज्जापि त्रपापि लज्जाया लीला स्वभावः संकोचरूपस्तामशिक्षत शिक्षितवती । अशिक्षतेत्यम्य सर्वत्र संबन्धः । तथा च स्वाश्रयं संकुचितं करोतीति लज्जास्वभावः । लज्जाया अपि चेल्लज्जास्वभावोऽभ्यस्तस्तर्हि लज्जाया संकोच एवेति न्यूनत्वमेव सूचितं भवति । तथा विनयोऽपि शरीरावनतिरूपोऽपि विनयातिशयमनधिकताम् । एतेन विनयस्यापि न्यूनत्वं सूचितम् । तथा मुग्धतापि विशेषावगत्यभावरूपापि मुग्धतामभावरूपाम् । एवं सति मुग्धताया अभाव एव प्रौढत्वं सिद्धम् । अभावाभावे भावरूपा विशेषावगतिः प्रौढता । वैदग्ध्यमपि भावाभिव्यञ्जकक्रियावृद्धिरूपमपि वैदग्ध्यमेव वर्तत इति सूचितम् । तथा भयमपि क्रियाभिनिवेशनिवृत्तिरूपमपि भीरुताम् । एतेन भयमपि निवृत्तं सोत्साहरूपं मनो जातमिति सूचितम् । तथा विभ्रमोऽपि चित्तपरिवृत्तिलक्षणोऽपि विभ्रमिताम् । एतेनात्यन्तचित्तास्थैर्य सूचितम् । तथा विषाद इष्टविषयेषु प्रातिकूल्यरूपोऽपि विषादिताम् । एतेनेष्टेष्वनुकूलतालक्षण उत्साह एव प्रसिद्ध इति ध्वनितम् । विलासोऽपि परव्यामोहनानुकूलव्यापाररूपोऽपि विलासम् । एतेन विचित्रैव चेष्टा स्वीकृतेति व्यज्यते । तथाभूता चेति । एवरूपा सा कादम्बरी हे देवि, किमिदमिति मया विज्ञापिता पृष्टा सती लोहितायमानमारक्तमुदरं मध्यं ययोरेवंविधे लोचने प्रमृज्य प्रमार्जन कृत्वा दुःखप्रकर्षेणात्मनः स्वस्य समुद्वन्धनायेव मृणालवत्कोमलया बाहुलतया कारणभूतया वेदिकाया या कुसुमपालिका तया ग्रथिता या कुसुममाला सक्तामवलम्ब्याश्रित्य - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पाठकमहाभागा विदन्त्वेतस्य रहस्यम् - 'गद्गदा गदितुम् अत्र पूर्ववाक्यसमाप्तिः । 'प्रयत्नतोपि चास्या निःशेषं ज्वलता' इत्यादि चाग्रिमवाक्यम् । अस्याः (कादम्बर्याः) वाणी निःशेषं संपूर्णावयवं यथा स्यात्तथा ज्वलता मदनानलेन दग्धा सती, प्रवहता नयनोदकेन ऊढा सती... प्रयत्नतोपि न प्रावर्तत इति तदर्थः । 2 लज्जाया लज्जा जाता, अर्थात् लज्जावशाल्लज्जा संकुचिताऽभवदित्यनेन न्यूना लज्जा जातेति सूच्यते । यदि लज्जा प्रबला स्यात्तदाऽन्ततोपि चन्द्रापीडप्रणयः कथं वाचा प्रकटीक्रियेत ? किन्तु विश्रम्भवशात्तस्या न्यूनत्वे सति प्रणयप्रकटनं बभूवेति तात्पर्यम् । वस्तुतस्तु - एतावत्कालं लज्जा स्वकार्यं संकुचितभावं न जानाति स्म । तस्याः सकाशात् शिक्षणोत्तरमेव तं प्रकटितवतीति तात्पर्यम् । पाठा० - १ लज्जापि लज्जा लीलापि लीला विनयोऽपि विनयोपदेशम्. (कादम्बरीवृत्तश्रवणम् । पूर्वभागः ।। 471) Page #485 -------------------------------------------------------------------------- ________________ समुन्नतैकभूलता मृत्युमार्गमिवालोकयन्ती दीर्घमुष्णं च निश्चसितवती । तद्दुःखकारणमुत्प्रेक्षमाणया च कथनाय पुनःपुनरनुबध्यमाना मया व्रीडया नखमुखविलिखितकेतकीदलानि लिखित्वेव वक्तव्यमर्पयन्ती विवक्षास्फुरिताधरा निवासमधुकरानिवोपांशु संदिशन्ती क्षितितलनिहितनिश्चलनयना सुचिरमतिष्ठत् । क्रमेण च भूयो मन्मुखे निधाय दृष्टिं पुनःपुनर्रथापूर्यमाणलोचनच्युतैर्मदनानलधूमधूसरां वाचमिव क्षालयन्ती बाष्पजलबिन्दुभिः, बाष्पजलबिन्दुव्याजेन च विलक्षस्मितस्फुरितैर्दशनांशुभिः साध्वसविस्मृतानपूर्वानभिधेयवर्णानिव ग्रथ्नती कथमपि व्याहाराभिमुखमात्मानमकरोत् । अब्रवीच्च माम् - 'पत्रलेखे, वल्लभतया तस्मिन्स्थाने न तातो नाम्बा न महाश्वेता न मदलेखा न जीवितम्, यत्र मे भवती दर्शनात्प्रभृति प्रियासि । न जाने, केनापि कारणेनापहस्तितसकलसखीजनं त्वयि विश्वसिति मे हृदयम् । कमपरमुपालभे । कस्य वान्यस्य - *********** समुन्नतैका भ्रूलता यया सैवंविधा मृत्युमार्गमिवालोकयन्ती पश्यन्ती दीर्घ लम्बायमानमुष्णं तप्तं न निश्वसितवती निश्वास मुक्तवती । तस्य विश्वासमोचनस्य दुःखस्य कारणं नियामकमुत्प्रेक्षमाणया ज्ञातुमिच्छया मया कथनाय पुनःपुनरनुबध्यमाना वीडया लज्जया नखमुखेन नखराग्रेण विलिखितानि केतकीदलानि । अक्षरसाम्येनाह - लिखित्वेव वक्तव्यमभिधेयमर्पयन्ती । वक्तुमिच्छा विवक्षा तया स्फुरितावधरौ यस्याः सा । अधरकम्पमिषादुत्प्रेक्षते - निश्वासेति । निश्वासमधुकरानुपांशु रहसि संदिशन्तीव कथयन्तीव क्षितितले निहिते स्थापिते निश्चले नयने यया सा सुचिरं चिरकालं यावदतिष्ठत्स्थिता । क्रमेण परिपाट्या भूयो मन्मुखे दृष्टिं निधाय स्थापयित्वा पुनःपुनरिवारम् । अथेत्यानन्तर्ये । आपूर्यमाणे लोचने ताभ्यां च्युतैर्गलितैबर्बाष्पजलबिन्दुभिर्मदनानलस्य यो धूमस्तद्वंद्धूसरां मलिनां वाचं वाचालतां क्षालयन्तीव । बाष्पेति । बाष्पजलबिन्दुव्याजेन विलक्षमभिनवं यत्स्मितं तेन स्फुरितैर्दीपितैर्दशनांशुभिर्दन्तमयूखैः साध्वसेन भयेन विस्मृतानपूर्वानभिधेयवर्णान्याच्याक्षरान्ग्रथ्नतीव । अत्र बाष्पबिन्दूनां वर्तुलतयाक्षरसाम्यं दशनांशूनां वितततया गुणसाम्येन ग्रन्थनमित्यर्थः । कथमपि महता कष्टेन व्याहाराभिमुखं भाषिताभिमुखमात्मानमकरोदन्वतिष्ठत् । मां प्रत्यब्रवीच्चावादीत् । हे पत्रलेखे, वल्लभस्य भावो वल्लभता तया तस्मिन्स्थाने न तातो न पिता, नाम्बा माता, न महाश्वेता न मदलेखा, न जीवितम् । यत्र स्थाने मे मम भवती दर्शनात्प्रभृत्यवलोकनादारभ्य प्रिया वल्लभासि । अहं न जाने नाकलयामि केनापि कारणेन हेतुनापहस्तितो दूरीकृतः सकलः समग्रः सखीजनो येनैवं मे मम हृदयं चेतस्त्वयि विषये विश्वसिति विश्वासं करोति । अपरं कमन्यं कमुपालभे । उपलाम्भं ददामीत्यर्थः । अ - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 स्वबुद्ध्या संभावयन्त्या (मया) इत्यर्थ उचितः । 2 यया सा, इति मन्ये स्यात् । 'नखमुखविलिखितकेतकीदला' इत्युचितः पाठः । नखमुखेन केतकीदलं तया लज्जास्वभावात्संघृष्टम्, तत्र कविरुत्प्रेक्षते स्ववक्तव्यं लिखित्वा अर्पयन्तीव । एवमधरस्फुरणेपि । 3 पुनः पुनरप्यापूर्यमाणेत्येव पाठः । 4 मदनानलधूमेन धूसरां मलिनाम् अस्पष्टा मित्येवार्थः । न हि वाणी मूर्ता यत्र मालिन्येनोपमा स्यात् । 5 विलक्षस्मितेन सलज्ज - मन्दहास्येनेत्यर्थः । पाठा० - १ मृत्युपाशमिवावलोकयन्ती. २ ततो दुःखकारणम् तदुःखम्. ३ केतकीदला. ४ अप्यापूर्यमाण. ५ लक्षः. ६ पूर्वाम्. ७ तस्मिन्स्थाने. 472 कादम्बरी। कथायाम् Page #486 -------------------------------------------------------------------------- ________________ कथयामि परिभवम् । केन वान्येन सह साधारणीकरोमि दुःखम् । दुःखभारमिममसह्यं निवेद्य भवत्यास्त्यक्ष्यामि जीवितम् । जीवितेनैव शपामि ते । स्वहृदयेनापि विदितवृत्तान्तेनामुना जिहेमि, किमुतापरहृदयेन । कथमिव मादृशी रजनिकरकिरणावदातं कौलीनेन कुलं कलङ्कयिष्यति । कुलक्रमागतां च लज्जां परित्यक्ष्यति । अकन्यकोचिते वा चापले चेतः प्रवर्तयिष्यति । साहं न संकल्पिता पित्रा, न दत्ता मात्रा, नानुमोदिता गुरुभिः, न किंचित्संदिशामि, न किंचित्प्रेषयामि, नाकारं दर्शयामि । कातरा चानाव बलादवलिप्तेन गुरुगर्हणीयतां नीता कुमारेण चन्द्रापीडेन । कथय महतां किमयमाचारः ? किं परिचयस्येदं फलम् ? यदेवमभिनवबिसकिसलयतन्तुसुकुमारं मे मनः परिभूयते । अपरिभवनीयो हि कुमारिकाजनो यूनाम् । प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । आदौ विनयादिक कुसुमेषुशराः खण्डयन्ति, पश्चान्मर्माणि । तदामन्त्रये भवतीं पुनर्जन्मान्तरसमागमाय । नहि मे त्वत्तोऽन्या प्रियतरा । प्राणपरित्यागप्रायश्चित्ताचरणेन प्रक्षालयाम्यात्मनः कलङ्कम् ।' इत्यभिधाय तूष्णीमभूत् । *********** न्यस्य कस्य वा परिभवं कथयामि निवेदयामि । केन वान्येन सह दुःखं साधारणीकरोमि । असह्यं सोढुमशक्यमिमं दुःखभारं भवत्या निवेद्य कथयित्वा जीवितं त्यक्ष्यामि दूरीकरिष्यामि । ते तव पुरस्ताज्जीवितेनैव शपामि शपथं करोमि । एतस्मादधिकः कोऽपि शपथो नास्तीति भावः । विदितवृत्तान्तेव ज्ञातस्वरूपेणामुना स्वहृदयेनापि जिहेमि लज्जां प्राप्नोमि । किमुतापरहृदयेन भण्यते । मादृशी स्त्री कथमिव रजनिकरश्चन्द्रस्तस्य किरणा गभस्तयस्तद्वदवदातं निर्मलं कुलं वंशः (तम्)कौलीनेन जनापवादेन कलङ्कयिष्यति मलिनयिष्यति । कुलक्रमागतां परम्परायातां च लज्जा त्रपा परित्यक्ष्यति परिहरिष्यति । अथवाऽकन्यकोचिते कन्यकाजनस्यानुचितेऽयोग्ये वा चापले चपलतायां चेतः प्रवर्तयिष्यति प्रवृत्तिं कारयिष्यति । साहं कादम्बरी न संकल्पिता पित्रा जनकेनोद्वाहार्थं न कस्यचित्संकल्पविषयीकृता । तथा न मात्राम्बया दत्तार्पिता । इदं सुष्टु कृतमित्येवंप्रकारेण गुरुभिर्वृद्धैः नानुमोदिता । न किंचित्संदिशामि कथयामि । न किंचितोषयामि प्रेषणं करोमि । नाकारं देहविकृतिं दर्शयामि प्रकटयामि । कातरा चानाथेवाहं बलाद्धठेनावलिप्तेन दर्पितेन कुमारेण चन्द्रापीडेन गुरुर्गुर्वी या गर्हणीयता निन्यता तां नीता प्रापिता । त्वं कथय निवेदय, महतां सत्पुरुषाणाम् । किमिति प्रश्ने । अयमाचारः कुलक्रमागतव्यवहारः ? किं वा परिचयस्य संस्तवस्येदं फलम्, यदेवप्रकारेणाभिनवो यो बिसकिसलयस्य तन्तुस्तद्वत्सुकुमारं कोमलं मे मम मनोऽनेन परिभूयते पराभवविषयीक्रियते । हि यस्मात्कारणात्कुमारिकाजनोऽपरिभवनीयो यूनां पराभवितुं न योग्यः । प्रायेणेति । प्रायेण बाहुल्येन प्रथमं मदनानलो लज्जा त्रपां दहति भस्मीकरोति । ततो हृदयं चेतो दहति । तथा कुसुमेषुः कंदर्पस्तस्य शरा आदौ प्रथमं विनयादिक खण्डयन्ति शकलीकुर्वन्ति । पश्चान्मर्माणि मर्मस्थानानि खण्डयन्ति । तदहं पुनर्जन्मान्तरे यः समागमः संबन्धस्तदर्थं भवतीमामन्त्रये आमन्त्रणं कुर्वे । मर्मविच्छेदेऽवश्यमरणसंभवादिति भावः । अत्रार्थे हेतुं प्रदर्शयन्नाह - न हीति । नहि मे मम त्वत्तोऽन्या प्रियतरा वल्लभतरा । प्राणपरित्यागलक्षणं यत्प्रायश्चित्तं तदाचरणेन तदासेवनेनात्मनः स्वस्य कलङ्क प्रक्षालयामि पवित्रीकरोमि । इत्यभिधायेत्युक्त्वा तूष्णीमभूत् । मौनं चकारेत्यर्थः । - - - - - - - - - टिप्प० - 1 गुरुभिर्महद्भिर्गर्हणीयतामित्यर्थ उचितः । - - - - - - - - - - - - - - पाठा० - १ असह्यमय. २ कालीनेन. ३ अन्यकन्यकोचिते; अन्यकन्यकाजनोचिते. ४ सा चाहमसंकल्पिता मात्रा पित्रा न दत्ता. ५ कातरेव; इतरेव. ६ अनाथेव नीचेव. ७ अवलिप्तेव. ८ गुर्वी गर्हणीयताम्. ९ अनभिभवनीयः; परिभवनीयः. (पत्रलेखातः कादम्बरीवृत्तश्रवणम् । पूर्वभागः । 473 Page #487 -------------------------------------------------------------------------- ________________ अहं तु यत्सत्यमविदितवृत्तान्यतया हीतेव भीतेव विलक्षेव विसंज्ञेव सविषादं विज्ञापितवती - 'देवि, श्रोतुमिच्छामि । आज्ञापय किं कृतं देवेन चन्द्रापीडेन ? को वापराधः समजनि ? केन वा खल्वविनयेन खेदितमखेदनीयं देव्याः कुमुदकोमलं मनः ? श्रुत्वा प्रथममुत्सृष्टजीवितायां मयि पश्चात्समुत्सष्यसि जीवितम्' इति । एवमभिहिता च पुनरवदत् - 'आवेदयामि ते । अवहिता श्रृणु । स्वप्नेषु प्रतिदिवसमागत्यागत्य मे रहस्यसदेशेषु निपुणधूर्तः पञ्जरशुकसारिका दूतीः करोति । सुप्तायाः श्रवणदन्तपत्रोदरेषु व्यर्थमनोरथमोहितमानसः संकेतस्थानानि लिखति । स्वेदप्रक्षालिताक्षरानपि निपतितसाञ्जनाश्रुबिन्दुपङ्क्तिकथितात्मावस्थानान्मनोहरान्समोहाशानुवर्तिनो मदलेखान्प्रेषयति । निजानुरागेण बलादरञ्जयदलक्त - *********** अहं तु यत्त्वं वदसि तत्सत्यमवितथमविदितवृत्तान्ततया ह्रीतेव लज्जितेव, भीतेव त्रस्तेव, विलक्षेवं वीक्षापनेव, विसंज्ञेव विगतचेतनेव, सविषादं यथा स्यात्तथा विज्ञापितवती । हे देवि कादम्बरि, श्रोतुं श्रवणविषयीकर्तुमिच्छाम्यभिलषामि । आज्ञापय प्रतिपादय । देवेन चन्द्रापीडेन किं कृतं किं विहितम् । को वापराध आगः समजनि समभूत् । खलु निश्चितम् । केन वाऽविनयेन देव्याः कादम्बर्या अखेदनीयं कुमुदवत्कोमलं सुकुमारं मनः खेदितं खेदं प्रापितम् । एतच्छ्रुत्वाकर्णाहं प्रथममुत्सृष्टजीवितायां त्यक्तप्राणितायां मयि सत्यां पश्चात्तदनन्तरं जीवितं त्वं समुत्सक्ष्यसि त्यक्ष्यसि । इत्येवं मयाभिहिता कथिता पुनर्भूयोऽवददवोचत् । आवेदयामि कथयामि ते तव । अवहिता दत्तावधाना त्वं श्रृण्वाकर्णय । स्वस्यैव विरहावस्थाविलासान्कुमाराध्यासवशात्तदनुबन्धित्वेन स्वप्नेषु पश्यन्नाह - स्वप्नेष्विति । स्वप्नेषु प्रतिदिवसं प्रत्यहमागत्यागत्य निपुणो धूर्तो मे मम रहस्यसदेशेषूपांशुसंदिष्टेषु । तत्र च कुमाराध्यासवशाच्छुकसारिकानां शब्दमधिकृत्याह - पञ्जरेति । पञ्जरस्थाः शुकाः कीराः सारिकाः पीतपादा दूतीः करोति । तन्मुखेनैव संदिष्टसदेशान्कथापयतीत्यर्थः । श्रवणदन्तपत्रयोर्मुद्रारेखामधिकृत्याह - सुप्ताया इति । सुप्तायाः श्रवणदन्तपत्राणामुदरेषु व्यर्थः संगमविषयो यो मनोरथोऽभिलाषस्तेन मोहितं मानसं यस्य सः । संकेतस्थानानि लिखति लिपीकरोति । कपोलयोः पत्रवल्लीलेखामधिकृत्याह - स्वेदेति । स्वेदेन धर्मवारिणा प्रक्षालितानि धौतानि अक्षराणि येषु तान् । निपतितेति । निपतिता ये साञ्जना अश्रुबिन्दवस्तेषां पङ्क्त्या कथितमात्मावस्थानं येषु तान्मनोहरान्संमोहानुवर्तिनः संमोहकारिणो मदनलेखान्प्रेषयति प्रेषणं करोति । स्वाभाविकचरणयोरारुण्यमधिकृत्याह - निजेति । निजानुरागेण बलाद्धठादा लक्तकरसेनेवाशुष्कयावकद्रवेणेव चरणावरञ्जयत् । नखानां स्वच्छतां व्यञ्जयस्तेषु - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'अविदितवृत्तान्ततया सत्यम् (निश्चितम्) लज्जितेव अहम्' इत्यर्थो न तु यत्त्वं वदसि तत्सत्यम् । 2 लज्जावशात्किंकर्तव्यविमूढेव । 3 'पश्यन्त्याह' इति मन्ये स्यात् । 4 श्रवणस्थे ये दन्तपत्रे (गजदन्तनिर्मितपत्राकारावलंकारौ) तयोः । 5 स्वेदेन अक्षराणि प्रक्षालितानि, तथापि विरहजातरोदनेन या साञ्जना अश्रुबिन्दुपङ्क्तिस्तया कथिता (सूचिता) आत्मावस्था (कामार्तदशा) येषु तान्, संमोहेन (चित्तभ्रमेण) या मत्संगमस्याऽऽशा तदनुसारिणः मदनलेखान् (प्रेमपत्राणि) प्रेषयतीत्यर्थः । 6 'निजानुरागेणेव बलाद्रजयत्यलक्तकरसेन चरणौ' इत्युचितः पाठः । सर्वत्र वर्तमानकालेनैव निर्देशात् । निजानु-रागवत् रक्तेन यावकेन इति तदर्थः । पाठा० - १ प्रतिदिनम्. २ निपुणो धूर्तः. ३ पञ्जरशुकं सारिकां च दूतीकरोति. ४ अश्रुबद्धः. ५ आत्मावस्थानम्. ६ निजानुरागेणेव. ७ रञ्जयन्; रञ्जयति. (474 कादम्बरी। कथायाम Page #488 -------------------------------------------------------------------------- ________________ करसेनेव चरणौ । अविनयनिश्चेतनो नखप्रतिबिम्बितमात्मानं बहु मन्यते । उपवनेष्वेकाकिन्या ग्रहणभयपलायमानायाः पल्लवलग्नांशुकदशाप्रतिहतगमनाया गृहीत्वेव सेखीभिरर्पिताया मिथ्याप्रगल्भः पराङ्मुखायाः परिष्वङ्गमाचरति । स्तनस्थले मे लिखपत्रलेखां कुटिलतामिवानृजुप्रकृतिः प्रकृतिमुग्धं मनः शिक्षयति । हृदयोत्कलिकातरङ्गवातैरिव शीतलैर्मुखमरुद्भिः श्रमजलशीकरतारकितावलीकचाटुकारः कपोलौ वीजयति । स्वेदसलिलशिथिलितग्रहणगलितोत्पलशून्येनापि करेण येवाङ्कुरानिव नखकिरणाशुद्धान्दुर्विदग्धः कर्णपूरीकरोति । वल्लभतरबालबकुलसेककालकवलीकृतान्सुरागण्डूषान्सकचंग्रहमसकृद्धृष्टो मां पाययति । भवनाशोकताडनोद्यतान्पादप्रहारान्दुर्बुद्धिविडम्बितः शिरसा प्रतीच्छति । मन्मथमूढमानसश्च - *********** प्रतिबिम्बमधिकृत्याह - अविनयेति । मां मुक्त्वा गत इत्यविनयस्तेन निश्चेतनो नखेषु प्रतिबिम्बितमात्मानं बहुमन्यते । अधिकं जानातीत्यर्थः । यद्यपि नखेषु यः कश्चन प्रतिबिम्बस्तथापि तदध्यासवशात्तस्यैवेत्यर्थः । उपवनेषु सर्वतः कोमलपल्लवानामाश्लेषमधिकृत्याह - उपवनेष्विति । उपवनेष्येकाकिन्या असहायायाः केनचित्पुरुषेण ग्रहणं तस्माद्यद्भयं तेन पलायमानाया गच्छन्त्याः पल्लवेषु लग्ना या अंशुकदशा तया प्रतिहतं गमनं यस्या अत एव पराङ्मुखायाः सखीभिर्गृहीत्वेवार्पिताया मिथ्याप्रगल्भो मिथ्यैव विदग्धचरितश्चन्द्रापीडः परिष्वङ्गमाचरत्यालिङ्गनं करोति । बहिरुपवनपल्लवाश्लेषमनुभूतम्, तदध्यासवशात्तत्कृताभिमतिमधिकृत्याह - स्तनेति । मे मम स्तनस्थले पत्रलेखां लिखन्ननृजुप्रकृतिः कुटिलस्वभावः कुटिलतामिव प्रकृतिमुग्धं मनः शिक्षयति । सस्वेदजलकणिकयोः कपोलयोर्व्यजनवातवीजितयोस्तदध्यासवशात्तत्कृताभिमतिमधिकृत्याह - हृदयेति । अलीकचाटुकारो मिथ्यैव चटुकृच्छ्रमजलशीकरैः श्वेतत्वसाम्येन तारकिताविव कपोलौ शीतलैर्मुखमरुद्भिर्वीजयति पवनं करोति । कीदृशैरिव । हृदये योत्कलिका रणरणकता सैवास्थिरत्वात्तरंगाः कल्लोलास्तेषां वातैरिव । स्वेदसलिलेन शिथिलीकृतं यदुत्पलं तत्संरक्षणार्थं न्यस्तं यत्करतलं तनखप्रभायां तत्कृतयवाङ्कुरकर्णपूरबुद्धिमधिकृत्याह - स्वेदेति । स दुर्विदग्धः । करेण शुद्धानखकिरणान्पाण्डुरत्वसाम्यायवाङ्कुरानिव कर्णपूरीकरोति । कीदृशेन करेण । स्वेदसलिलेन शिथिलितं तस्य ग्रहणे गलितं यदुत्पलं तेन शून्येनापि । अत्रापिशब्देन कर्णपूरीकृतोत्पलाभावेऽपि कर्णपूरकार्यं करोतीत्यर्थः । वल्लभतरेति । वल्लभतरा ये बालबकुला लघुकेसरास्तेषां सेककालस्तत्र कवलीकृतान्सुरागण्डूषान्मद्यचुलुकानसकृन्निरन्तरम् । अलीनां नीलत्वादाह - सकचेति । सकचग्रहं धृष्टो मां पाययति पानं कारयति । भवनाशोकेति । अशोकस्य गृहककैल्लिवृक्षस्य ताडनं तत्रोद्यतान्पादप्रहारांश्चरणाभिघातान्दुर्बुद्धया विडम्बितः शिरसोत्तमाङ्गेन प्रतीच्छति वाञ्छति । अत्र तदध्यासवशादशोकस्यापि तद्रूपत्वेन चिन्तनमित्यर्थः । विरहेण मूढतां प्रदर्शयन्नाह - मन्मथेति । मन्मथेन मूढं मानसं - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अत्र 'लतासखीभिः' इत्युचितः पाठः । केनचित्पुरुषेण ग्रहणं न, चन्द्रापीडेन ग्रहणभयात्पलायमानायाः पल्लवासक्ताञ्चलतया लतारूपाभिः सखीभिः गृहीत्वा दत्ताया इव लज्जावशाद्विवृत्तवदनाया मे आलिङ्गनं करोतीत्यर्थः । 2 तस्य कस्य ग्रहणे ? स्पष्टव्यमत्र । स्वेदसलिलेन श्लथीकृतं यद् ग्रहणं (धारणम् धारणसामर्थ्यम्), तेन गलितं यदुत्पलं तच्छून्येन (तद्रहितेन) अपि स्वकरेण यवाङ्कुरानिव शुद्धान् (केवलान्) स्वनखकिरणानेव कर्णपूरीकरोतीत्यर्थः । 3 बकुलसेककाले अयं चन्द्रापीडः स्वमुखेन मयगण्डुषान् कवलीकृत्य कचग्रहणपूर्वकं तान् मां बलात्पाययतीति तात्पर्यम् । - - - - - - - - - - पाठा० - १ रसेन. २ नखेषु प्रतिबिम्बितम्. ३ लतासखीभिः. ४ पराङ्मुखापरिष्वङ्गम्. ५ लताम्. ६ यवाङ्कुरविकरानि. ७ ख. ८ सकचग्रहमगणितचेष्टः पातुं प्रार्थयते. (कादम्बरीवृत्तश्रवणम् । पूर्वभागः । 475 Page #489 -------------------------------------------------------------------------- ________________ कथय हे पत्रलेखे, केन प्रकारेण निश्चेतनो निषिध्यते । प्रत्याख्यानमपीÜ संभावयति । आक्रोशमपि परिहास माकलयति । असंभाषणमपि मानं मन्यते । दोषसंकीर्तनमपि स्मरणोपायमवगच्छति । अवज्ञानमप्यनियन्त्रणं प्रणयमुत्प्रेक्षते । लोकापवादमपि यशो गणयति' इति । तामेवंवादिनीमाकर्ण्य प्रहर्षरसनिर्भरा मनस्यकरवम् - 'अहो चन्द्रापीडमुद्दिश्य सुदूरमाकृष्टा खल्वियं मकरकेतुना । यदि च सत्यमेव कादम्बरीव्याजेन साक्षान्मनोभवचित्तवृत्तिः प्रसन्ना देवस्य, ततः सहजैः सादरं संवर्धितैः प्रत्युपकृतमस्य गुणैः, यशसा धवलिताः ककुभः, यौवनेन रतिरससागरतरङ्गः पातिता रत्नवृष्टिः, यौवनविलासैलिखितं नाम शशिनि, सौभाग्येन प्रकाशिता निजश्रीः, लावण्येनैन्दवीभिरिव वृष्टममृतं कलाभिः । तथा च चिराल्लब्धः कालो मलयानिलेन, समासादितोऽवसरश्चन्द्रोदयेन, प्राप्तमनुरूपं फलं मधुमासकुसुमसमृद्ध्या, गतो मदिरारसदोषो गुणताम्, दर्शितं मुखं मन्मथयुगावतारेण इति । अथाह प्रकाशं विहस्याब्रवम् - 'देवि, यद्येवमुत्सृज कोपम् । प्रसीद । नार्हसि कामा - *********** यस्यैवंविधः । स्वव्यामोहं तत्रैवारोपयन्नाह - निश्चेतन इति । त्वं कथय केन प्रकारेण निषिध्यते प्रतिषिद्धोऽप्युत्कटरागवशाढ्येव तिष्ठति । प्रत्याख्यानेति । प्रत्याख्यानं निराकरणमीर्ष्यामसूयां संभावयति संभावनां करोति । आक्रोशमपि निष्ठुरोक्तिमपि परिहासं हास्यमात्रमाकलयति चिन्तयति । असंभाषणमप्यजल्पनमपि मानं मन्यते जानाति । दोषसंकीर्तनमपि स्मरणोपायत्वेनावगच्छति जानाति । अवज्ञानमप्यवगणनमपि स्नेहस्य चाटूनि नियन्त्रणानि तद्रहितमनियन्त्रणं प्रणयं स्नेहमुत्प्रेक्षते । लोकापवादमपि यशो गणयत्याकलयति । . इदं च सर्वं तद्विषयकोत्कटाध्यासवशाज्ज्ञेयम् । इत्येवंवादिनी तामाकर्ण्य प्रकृष्टो यो हर्षस्तल्लक्षणो यो रसस्तेन निर्भरा संपूर्णा मनस्येवमकरवमकल्पयम् । अहो इति । अहो इत्याश्चर्यम् । खलु निश्चितम् । चन्द्रापीडमुद्दिश्येयं कादम्बरी मकरकेतुना सुदूरमतिदूरमाकृष्टाकर्षिता । यदि च सत्यमेवावितथमेतदेव तदा देवस्य चन्द्रापीडस्योपरि मनोभवचित्तवृत्तिः कादम्बरीव्याजेन साक्षात्प्रसन्ना । तत इति । अस्य चन्द्रापीडस्य सहजैः स्वभावजनितैः सादर संवर्धितैर्वृद्धिं प्रापितैर्गुणैः प्रत्युपकृतं प्रत्युपकारः कृतः । यशसा कीर्त्या ककुभो दिशो धवलिताः शुभ्रिता । यौवनेति । यौवनेन तारुण्येन रतिरसः श्रृङ्गाररसः स एव सागरः समुद्रस्तस्य तरंगैः कल्लोलैः कृत्वा रत्नवृष्टिः पातिता । तथा यौवनविलासैस्तारुण्यविभ्रमैः शशिनि चन्द्रे चन्द्रापीडेति नाम लिखितम् । सौभाग्येति । सौभाग्येन सुभगतया निजा श्रीरात्मशोभा प्रकाशिता प्रकटीकृता । लावण्येति । लावण्येन चातुर्येणैन्दवीभिश्चन्द्रसंबन्धिनीभिः कलाभिरिवामृतं पीयूषं वृष्टम् । पीयूषवृष्टिः कृतेत्यर्थः । तथा मलयानिलेन मलयवायुना चिरादहुकालात्कालः प्रस्तावो लब्धः । तथा चन्द्रोदयेनावसरः समासादितः । तथा मधुमासः सुरभिमासस्तस्य कुसुमसमृद्ध्यानुरूपं योग्यं फलं प्राप्तम् । मदिरेति । मदिरा कापिशायनं तस्य रसदोषो गुणतां गतः । मन्मथयुगावतारेण मुखं दर्शितम् । कादम्बर्यनुकूलतायां सत्यामेतत्सर्वमनुकूलं जातमित्यर्थः। अथेति । तच्चिन्तनानन्तरं प्रकाशं प्रकटं विहस्याहमब्रवमवोचम् । हे देवि, यद्येवं तर्हि कोपमुत्सृज त्यज । टिप्प० - 1 यद्यस्मिन् वाक्य एवोद्देश्य-विधेयभावः पूर्येत तदा 'ततः' इत्यग्रिमवाक्यस्यासंबन्धः स्यात् । तस्मात् कादम्बरी व्याजीकृत्य (उद्दिश्य) मनोभवस्य चित्तवृत्तिर्यदि सत्यं प्रसन्ना, ततः सहजैः अस्य गुणैरुपकृतमित्यर्थः । पाठा० - १ एवं तदा. २ विलासैः. ३ प्राप्तमनुरूपफलम्; प्राप्तरूपं फलम्. ४ मदिरामद. ५ कामापराधे. - - - - - - - - - - - - 1476 कादम्बरी। कथायाम्-) Page #490 -------------------------------------------------------------------------- ________________ पराधैर्देवं दूषयितुम् । एतानि खलु कुसुमचापस्य चापलानि शठस्य, न देवस्य' इत्येवमुक्तवती मां पुनः सकुतूहला सा प्रत्यभाषत - 'योऽयं कामः कोऽपि वा, कथय कानि कान्यस्य रूपाणि' इति । तामहं व्यजिज्ञपम् - 'देवि, कुतोऽस्य रूपम् । अतनुरेष हुताशनः । तथाहि । अप्रकाशयज्वालावलीः संतापं जनयति, अप्रकटयन्धूमपटलमश्रु पातयति, अदर्शयन्भस्मरजोनिकरं पाण्डुतामाविर्भावयति । न च तद्भूतमेतावति त्रिभुवनेऽस्य शरशरव्यतां यन्न यातं याति यास्यति वा । को वोस्मान त्रसति । गृहीतकुसुमकार्मुको बाणैर्बलवन्तमपि विध्यति । अपि चानेनाधिष्ठितानां कामिनीनां पश्यन्तीनां चिन्ताप्रियमुखसहससंकटमम्बरतलम्, लिखन्तीनां दयिताकारानविस्तीर्णं महीमण्डलम्, गणयन्तीनां वल्लभगु - *********** प्रसीद प्रसन्ना भव । कामापराधैर्देवं दूषयितुं नार्हसि न योग्या भवसि । एतानीति । एतानि पूर्वोक्तानि खलु निश्चितं कुसुमचापस्य कंदर्पस्य चापलानि चेष्टितानि शठस्य, न देवस्य चन्द्रापीडस्य । इत्येवमुक्तवती मां पुनर्भूयः सुकुतूहला सकौतुका सा इति प्रत्यभाषत प्रत्यवोचत् । इतिशब्दद्योत्यमाह - योऽयमिति । कोऽपि वा योऽयं कामः, कथय प्रतिपादय, कानि कान्यस्य रूपाणि । ततोऽहं तां कादम्बरी व्यजिज्ञपं विज्ञप्तिमकरवम् । कुतोऽस्य रूपम् । एषोऽतनुर्महान्दृश्यमानवढेविलक्षणो हुताशनः । तदेव दर्शयति - तथाहीति । ज्वालावलीः शिखाश्रेणीरप्रकाशयन्नप्रकटीकुर्वन्संतापं जनयति । अप्रकटयन्नप्रकाशयन्धूमपटलमश्रु पातयत्यश्रुपातं करोति । अदर्शयन्नप्रकटयन्भस्मलक्षणं रजोनिकरं पाण्डुतां पाण्डुरतामाविर्भावयति प्रकटयति । एतावति त्रिभुवने तन्न भूतम् । यत्तदोर्नित्याभिसंबन्धादाह -यदिति । यदस्य मदनस्य शराणां बाणानां शरव्यतां वेध्यतां न यातं प्राप्तम् । न कोऽपि सांप्रतं शरव्यतां याति । कोऽप्यग्रे यास्यति । कोऽपि नास्मास्त्रसति । गृहीतेति । गृहीतमात्तं कुसुमानां कार्मुकं धनुर्येनैवंविधो मदनो बाणैः शरैर्बलवन्तमपि विध्यति । अपिचेति युक्त्यन्तरे । अनेनेति । अनेन कंदर्पणाधिष्ठितानामाश्रितानां कामिनीनां हृदयस्य हैसीयान्हासकृत्काल आपतति । अकस्मादागच्छतीत्यर्थः । अथ कामिनीनां विशेषणानि - किं कुर्वन्तीनाम् । चिन्ताजनितं यत्प्रियमुखसहसं तेन संकटं संकीर्णं यदम्बरतलं तत्पश्यन्तीनां विलोकयन्तीनाम् । दयितस्य भर्तुर्य आकार आकृतिस्तेनाविस्तीर्णं संकुचितं यन्महीमण्डलं तल्लिखन्तीनाम् । तथासंख्याननेकान्वल्लभगुणान्गणयन्तीनां गणना विदध - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -- - टिप्प० - 1 तद् भूतं न, स प्राणी नास्तीत्यर्थः । 2 अस्मात् को वा न त्रस्यति, अपि तु सर्वस्त्रस्यति । 3 ह्रसीयान् काल इति न सर्ववाक्यान्वयि । किञ्च 'चिन्तया प्रियमुखचन्द्रसहसाणि' इति पाठः । प्रियगतचिन्तया (चिन्तावशात्) प्रियमुखखचन्द्रसहसाणि पश्यन्तीनां कामिनीनां कृते अम्बरतलं संकटं संबाधं (मुखचन्द्रसहससंकीर्णतया) । 'लिखन्तीनां दयिताकारानविस्तीर्णं महीमण्डलम्,' (अनेनाधिष्ठितानाम् अत एव विनोदार्थं दयितस्य प्रतिकृतिर्लिखन्तीनाम् (कामिनीनाम् हृदये) महीमण्डलमविशालम्, यतो हि तच्चित्रिता दयिताऽऽकारास्तत्र न मान्ति ।) 'वल्लभगुणान् गणयन्तीनामल्पीयसी संख्या' (गुणगणनाकाले परार्धान्तापि संख्या अपर्याप्ता भवतीत्यर्थः ।) 'शृण्वतीनां प्रियतमकथामबहुभाषिणी सरस्वती', (प्रियतमकथां शृण्वतीनां कामिनीनां कृते वाग्देवतात्वेन प्रसिद्धापि सरस्वती न्यूनभाषिणी । अनन्तयापि कथया तासां श्रवणाशा न पूर्यत इत्यर्थः ।) 'ध्यायन्तीनां प्राणसमसमागमसुखानि ह्रसीयान् कालो हृदयस्यापतति (ध्यानवेलायां कालः सहसैव समाप्यत इत्यर्थः ।) पाठा० - १ खलु खलस्य. २ कामो वा; कामोऽपि. ३ प्रकाशयन्. ४ शरव्यताम्. ५ वास्य भ्रश्यति. ६ चिन्तया प्रिया. ७ चन्द्रसहसाणि. ८ वल्लभगुणानल्पीयसी संख्या. कादम्बरीवृत्तश्रवणम् पूर्वभागः । Page #491 -------------------------------------------------------------------------- ________________ णानसंख्यान, शुण्वन्तीनां प्रियतमकथामबहुभाषिणी सरस्वतीम्, ध्यायन्तीनां प्राणसमसमागमसुखानि ह्रसीयान्कालो हृदयस्यापतति' इति । एतदाकर्ण्य च क्षणं विचिन्त्य प्रत्यवादीत् - 'पत्रलेखे, यथा कथयसि तथा जनोऽयं कारितः कुमारे पक्षपातं पञ्चेषुणा । यान्यस्यैतानि रूपाणि समधिकानि वा तानि मयि वर्तन्ते । हृदयादव्यतिरिक्तासीदानी भवतीमेव पृच्छामि । उपदिश त्वं यदत्र मे सांप्रतम् । एवंविधानां वृत्तान्तानामनभिज्ञास्मि । अपि च मे गुरुजनवक्तव्यता नीताया नितरां लज्जिताया जीवितान्मरणमेव श्रेयः पश्यति हृदयम्' इति । एवंवादिनीं भूयस्तामहमेवमवोचम् - 'अलमलमिदानी देवी, किमनेनाकारणमरणानुबन्धेन । वरोरु, अनाराधितप्रसनेन कुसुमशरेण भगवता ते वरो दत्तः । का वात्र गुरुजनवक्तव्यता ? यदा खलु कन्यकां गुरुरिव पञ्चशरः संकल्पयति, मातेवानुमोदते, पितेवं ददाति, सखीवोत्कण्ठां जनयति, धात्रीव तरुणतायां रत्युपचारं शिक्षयति । किमि कथयामि ते याः स्वयं वृतवत्यः पतीन् । यदि च नैवम्, अनर्थक एव तर्हि धर्मशास्त्रोपदिष्टः स्वयंवरविधिः । *********** तीनाम् । तथा प्रियतमकथा अबहुभाषत इत्येवंशीलां सरस्वतीं श्रृणवन्तीनामाकर्णयन्तीनाम् । तथा प्राणसमस्य भर्तुर्यः समागमस्तस्य सुखानि ध्यायन्तीनां चिन्तयन्तीनाम् । इत्येतदाकर्ण्य च क्षणं विचिन्त्य प्रत्यवादीप्रत्यवोचत् । किं तदित्याह - पत्रलेखेति । हे पत्रलेखे, यथा त्वं कथयसि तथायं जनः पञ्चेषुणा कंदर्पण कुमारे पक्षपातं कारितः । तदेव स्पष्टीकरोति - यानीति । यानि त्वया कथितान्यस्य कंदर्पस्य रूपाणि तदपेक्षया समधिकानि मयि कादम्बर्या वर्तन्त इत्यर्थः । अतिनिगूढत्वं यन्मम हृदि वर्तते तदपि भवतीमेव पृच्छामीत्याशयेनाह - भवतीमिति । भवतीं त्वामेव वा पृच्छामि प्रश्नं करोमि । अत्रार्थे हेतुमाह - हृदयेति । इदानीं सांप्रतं मम हृदयात्त्वमव्यतिरिक्ताभिन्नासि । अत एव त्वां पृच्छामीत्यर्थः । ततो यदत्र मे मम सांप्रतं युक्तं तदुपदिश कथय । अत्र हेतुमाह - एवमिति । एवंविधानां पूर्वोद्दिष्टानां वृत्तान्तानामहमनभिज्ञास्म्यकुशला । तस्मात्त्वदीयोपदेशस्यैव प्रतीक्षा क्रियते । मम त्वेतदेव प्रतिभातमित्याह - गुरुजनेति । गुरुजनेन मातृपित्रादिजनेन वक्तव्यतां वचनीयता नीतायाः प्रापिताया नितरामत्यर्थः लज्जिताया मे मम मरणमेव श्रेय इति हृदयं चेतः पश्यति । जानातीत्यर्थः । इत्येवंवादिनीं भूयस्तामहमेवमवोचमब्रुवम् । हे देवि, अलमलं कृतम् । किमनेन व्यर्थेनाकारणमरणानुबन्धेन निष्प्रयोजनमृत्युप्रयासेन । वरेति । हे वरोरु, भगवता कसमशरेण ते तव वरो भर्ता दत्तः । भगवान्देव आराधित एव प्रसन्नः स्यात् । अयं तु न तथेत्याह - अनाराधितेति । अनाराधितप्रसन्नेन । कावेति । अत्र गुरुजने का वक्तव्यता का वचनीयता । यदेति । खलु निश्चितम् । यदा गुरुरिव पञ्चशरः कंदर्पः कन्यका संकल्पयति दानेच्छाविषयीकरोति । मातेव जननीवानुमोदते एतत्सुष्टु विहितमिति श्लाघते । पितेव जनक इव ददाति प्रयच्छति । सखीव वयस्येवोत्कण्ठामुत्कलिकां जनयत्युत्पादयती । धात्रीवोपमातेव तरुणतायां तारुण्यविषये रतिविषयको य उपचारो विभ्रमादिस्तं शिक्षयत्यभ्यासं कारयति । न च काश्चन स्वेच्छया पतिवरणं कुर्वन्तीत्याशयेनाह - या इति । याः पतीन्स्वयं वृतवत्यस्ता अपि कन्यकाः सन्ति । अतस्ते तव किमिव कथयामि किं ब्रवीमि । इदं त्वयापि समाचरणीयमिति ध्वनितम् । न चेदमाचरणीयमित्याशयेनाह - यदि चेति । यदीदं पत्युः स्वयंवरणं न कर्तव्यं तर्हि धर्मशास्त्रे स्मृत्यादावुपदिष्टः कथितः - टिप्प० -1 सन्तापजनकत्वादीनि (पूर्वोक्तानि)। 2 'भ्रातेव ददाति' इत्युचितः पाठः, गुरुरिवेतिपूर्वमुक्तत्वात् । 3 'कति वा कथयामि' इत्युचितः पाठः अन्यथा 'याः' इत्यस्य समन्वयो यथावन्न भवति । याः स्वयंवृतवत्यस्ताः कति कथयामि, बह्वयः सन्तीति तदर्थः । पाठा० -१ कुमारपक्षपातिना पञ्चशरेण. २ मे. ३ इदमपि च. ४ भ्रातेव. ५ तरुणतारत्युपचारम्. ६ कति च; कति वा. (478) कादम्बरी । कथायाम Page #492 -------------------------------------------------------------------------- ________________ तत्प्रसीद देवि, अलममुना मरणानुबन्धेन । शेपे ते पादपङ्कजस्पर्शेन । संदिश । प्रेषय माम् । यामि । आनयामि देवि, ते हृदयदयितम् ।। इत्येवमुक्ते मया प्रीतिद्रवाया दृष्ट्या पिबन्तीव मां निरुध्यमानैरपि मकरकेतुशरजर्जरिता भित्त्वेव लज्जा लब्धान्तरैर्निष्पतद्भिरनुरागविभ्रमैराकुलीक्रियमाणा, प्रियवचनश्रवणप्रीत्या च स्वेदाश्लिष्टमुक्षिप्य रोमाञ्चजालकेन दधतीवोत्तरीयांशुकम्, प्रेङ्खत्कुण्डलमाणिक्यपत्रमकरकोटिलग्नं च शशिकिरणमयं मरणपाशमिव मकरकेतुना निहितं कण्ठे हारमुन्मोचयन्ती, प्रहर्षविह्वलान्तःकरणापि कन्यकाजनसहजा लज्जामिवालम्ब्य शनैः शनैरवदत् - 'जानामि ते गरियसी प्रीतिम् । केवलमकठोरशिरीपुष्पमृदुप्रकृतेः कुतः प्रागल्भ्यमेतावन्नारीजनस्य, विशेषतो बालभावभाजः कुमारीलोकस्य । साहसकारिण्यस्ता याः स्वयं संदिशन्ति, समुपसर्पन्ति वा स्वयम्, साहसं संदिशन्ति । बाला जिहेमि । किं वा संदिशामि । अतिप्रियो - *********** स्वयंवरविधिरनर्थक एव निष्प्रयोजन एव । अतस्त्वं प्रसीद प्रसन्ना भव । हे देवि । अलमिति । अमुना मरणानुबन्धेनालं कृतम् । ते तव पादपङ्कजस्पर्शेन शपे शपथं कुर्वे । संदिशाज्ञापय । मां प्रेषय प्रेषणं कुरु । अहं यामि । ते हृदयदयितं देवं चन्द्रापीडमानयामि । त्वदन्तिक इति शेषः । ___ इत्येवं पूर्वोक्तप्रकारेण मयोक्ते कथिते सति सा कादम्बरी शनैरवदत् । अथ कादम्बरी विशेषयन्नाह - प्रीतीति । प्रीतिःस्नेहस्तस्य द्रवः पङ्कस्तेनायोन्नया दृष्ट्या मां पिबन्तीव पानं कुर्वन्तीव लज्जा त्रपां भित्त्वा भेदं कृत्वा निरुध्यमानैरपि संध्रियमाणैरपि लब्धान्तरैः प्राप्तावकाशैर्निष्पतद्भिर्बहिनिःसरद्भिरनुरागविभ्रमैरान्तरप्रीतिविलासैराकुलीक्रियमाणा व्याकुलतां नीयमाना । कीदृशी । मकरकेतुशरैः कंदर्पबाणैर्जर्जरिता । प्रियेति । प्रियं यद्वचनं तस्य श्रवणमाकर्णनं तस्माद्या प्रीतिस्तया यः स्वेदस्तेनाश्लिष्टम् । आईमित्यर्थः एवंविधमुत्तरीयांशुकमुपसंव्यानवस्त्रं रोमाञ्चजालकेन रोमोद्गमसमूहेनोत्क्षिप्योन्नतं कृत्वा दधती धारयन्ती । किंविशिष्टमुत्तरीयाँशुकम् । प्रेङ्खदिति । प्रेङ्खच्चञ्चद्यत्कुण्डलं कर्णभूषणं तस्य माणिक्यपत्रं तत्र या मकरकोटिस्तस्यां लग्नं विलग्नम् । पुनः किं कुर्वन्ती । कण्ठे गले हारं मुक्ताकलापमुन्मोचयन्ती । कीदृशं हारम् । शशिकिरणमयम् । अत्युज्ज्वलत्वाच्छशिप्रभाभिर्निष्पन्नमित्यर्थः । अत एव विरहमूर्छाजनकत्वान्मकरकेतुना निहितं स्थापितं मरणपाशमिव । प्रहर्षेति । प्रहर्षेण प्रमोदेन विह्वलमन्तःकरणं यस्याः सा । तथा कन्यकाजनस्य सहजा सहोत्पन्नां लज्जा त्रपामालम्ब्येवालम्बनीकृत्येव शनैःशनैर्मन्दं मन्दमवददवोचत् । ते तव मयि विषये गरीयसीं प्रीतिं स्नेहं जानामि । परं केवलमकठोरं सुकुमारं यच्छिरीषपुष्पं तद्वन्मृद्धी प्रकृतिर्यस्यैवंविधस्य नारीजनस्यैतावत्प्रागल्भ्यं कुतः स्यात् । तत्रापि बालभावभाजः कुमारीलोकस्य विशेषतस्तन्न स्यात् । कथं तर्हि रुक्मिण्यादेः श्रीकृष्णविषये रहः संदेशदूतप्रेषणादि वेत्यत आह - साहसेति । साहसकारिण्यो याः स्वयं संदिशन्ति सदेशं प्रेषयन्ति । स्वयं समुपसर्पन्ति समीपे गच्छन्ति । साहसं सत्त्ववृत्तिं संदिशन्ति कथयन्ति । मायाशक्तिवशाद्गृहीतशरीराः । तास्त्विति । दिव्या एवेत्यर्थः । अहं तु तथाविधा न भवामीत्यत आह - बाला इति । अहं बाला प्राप्तयौवना, अतो जिहेमि त्रपापन्ना भवामि । बालत्वात्किमपि न स्फुरतीत्याह - किं वेति पक्षान्तरे । किं संदिशामि किं कथयामि । प्रियसदेशविषयार्थस्य स्फुरणमेव प्रकटयति - अतीति । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०-1 द्वितीयान्तमिदं लज्जाया विशेषणम् । अत एव 'कीदृशी लज्जाम् ? कामबाणैर्जर्जरिताम् । अत एवा सा लज्जा भेदने सुकरेत्यर्थः । 2 प्रेत्कुण्डलेति नांशुकस्य विशेषणम्, अपि तु हारस्य । 3 'समुपसर्पन्ति वा । अत्रैव वाक्यसमाप्तिः । स्वयं संदिशन्ति' इति पूर्वमुक्तत्वात् अत्र 'स्वयं साहसं संदिशन्ती' इति प्रथमान्तपाठः । साहसरूपं स्वयं संदिशन्ती (सदेशं प्रेषयन्ती) बलाऽहं जिहेमि, इति संगतिः । पाठा० - १ शपामि ते. २ जर्जरिता. ३ मरणाय पाशमिव. ४ एव. ५ अवलम्ब्य. ६ पक्ष्म. ७ संदिशन्ती; दिशन्ती. (कादम्बरीवृत्तश्रवणम् पूर्वभागः ।। 470 479) Page #493 -------------------------------------------------------------------------- ________________ ऽसीति पौनरुक्त्यम्, तवाहं प्रियात्मेति जडप्रश्नः, त्वयि गरीयाननुराग इति वेश्यालापः, त्वया विना न जीवामीत्यनुभवविरोधः, परिभवति मामनङ्ग इत्यात्मदोषोपालम्भः, मनोभवेनाहं भवते दत्तेत्युपसर्पणोपायः, बलाद्धृतोऽसि मयेति बन्धकीधाष्यम्, अवश्यमागन्तव्यमिति सौभाग्यगर्वः, स्वयमागच्छामीति स्त्रीचापलम्, अनन्यरक्तोऽयं परिजन इति स्वभक्तिनिवेदनलाघवम्, प्रत्याख्यानशङ्कया न संदिशामीत्येप्रबुद्धबोधनम्, अनपेक्षितानुजीवितदुःखदारुणास्यामित्यतिप्रणयिता, ज्ञास्यसि मरणेन प्रीतिमित्यसंभाव्यम्' इति । *********** सर्वजनस्य प्रियत्वेऽनुभवसिद्धे त्वमतिप्रियोऽसीत्यग्निरुष्ण इतिवत्पुनरुक्तता । तवेति । तवाहं प्रियात्मा । प्रियो वल्लभ आत्मा यस्येति बहुव्रीहिः । इत्यपि जडस्य प्रश्नः । स्वविषयकप्रियत्वख्यापनाज्जडत्वमित्यर्थः । तदुक्तम् - ‘स्वरूपं वा प्रियो वापि वृत्तं पौरुषमेव वा । प्रकाशयन्स्वयं यस्तु स वै जडतरः स्मृतः' इति । त्वयि भवति गरीयाननुराग इत्यपि न, स्वकीयानां नायिकानां व्यङ्ग्यरूपतयैवानुरागप्रकाशनम् । सामान्यवनितानां तु वाच्यवृत्त्येवाह - वेश्येति । वेश्या गणिका तस्या आलापः, न तु कुलवत्याः । त्वयेति । त्वया विना भवद्व्यतिरेकेणाहं न जीवामि न प्राणान्धारयामि । इत्यपि अनुभवविरोधात् । जीवन्नपि न जीवामीति स्पष्ट एव विरोधः । परीति । मामनङ्गः कंदर्पः परिभवति पीडयति । इत्यपि न । आत्मनः कामुकत्वप्रकाशनेन कुलवधूनामनुचितदोषोपालम्भात् । मनोभवेति । मनोभवेन कंदर्पणाहं भवते दत्ता समर्पिता । इत्यपि न । कामुकत्वप्रकाशनरूपतया कुलस्त्रीणामनुचितोपसर्पणोपायत्वात् । बलादिति । बलाद्धठान्मया त्वं धृतोऽसि । इत्यपि न । तस्य बन्धकी कुलटा तस्या धाटरूपत्वात् । अवश्येति । अवश्यं निश्चितमागन्तव्यम् । इत्यपि न । अस्य स्वसौभाग्यगर्वरूपत्वात् । स्वयमागच्छामि । इत्यपि न । स्त्रीचापलत्वात् । अनन्येति । अयं प्रत्यक्षोपलभ्यमानः परिजनः सेवकजनोऽनन्यरक्तस्त्वय्येवानुरक्तः । इत्यपि न । स्वयं स्वभक्तिनिवेदनस्य लाघवत्वात् । प्रत्याख्यानेति । प्रत्याख्यानं निराकरणं तस्य शङ्कयारेकया संदिशामि न संदेशप्रेक्षणं करोमि । इत्यपि न । इदं हि प्रसुप्तसिंहोत्थापनवदंप्रबुद्धबोधनम् । अज्ञातज्ञापनमित्यर्थः । अनेति । अनपेक्षितमसमीहितं त्वद्गमनानन्तरमनुजीवितं यस्मिन्नेतादृशं यहुःखं तेन दारुणा भीषणाहं स्याम् । इत्यपि न । इयं ह्यतिप्रणयितात्युत्कटस्नेहवत्ता । ज्ञास्यसीति । मरणेन मृत्युना त्वं प्रीतिं ज्ञास्यसि अग्रेऽवबोधो भविष्यति । इत्यपि न । इदं हि असंभाव्यम् । तद्व्यतिरेकेणापि प्रीतेर्जायमानत्वादिति ॥ इति श्रीमत्तपोगणगगनाङ्गणगगनमणिभट्टारकसार्वभौमभट्टारकश्रीविजयसेनसूरीश्वराणां विजयराज्ये पातशाहश्रीअकब्बरप्रदापितोपाध्यायपदधारकश्रीशत्रुजयकरमो चनाद्यनेकसुकृतकारकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां ___कादम्बरीनिरन्तरव्याख्यायां प्रथमः परिच्छेदः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 कामुकतारूपस्य आत्मदोषस्य उपालम्भः निन्दा करणीया, न तु तनिवृत्तये सदेशप्रेषणमित्यर्थः । 2 स प्रत्याख्यानं नायावधि जानाति, 'प्रत्याख्यानशकया न संदिशामि' इति वाचिकप्रेषणे तु स्वयमेव तस्मै प्रत्याख्यानप्रबोधनमिति भावः । 3 एवंविधदुःखान्यनुभवन्त्या मन्दभाग्याया मे बह्नपेक्षितस्य मरणस्यैवासंभवादित्याशयः ।। पाठा० - १ प्रिया नेति. २ अनुरक्तः. ३ स्वयं भक्ति. ४ निवेदनालापलाघवम्. ५ बोधनम् उद्धतप्रतिबोधनम्. ६ अनुजीवि. ७ असंभाव्यम्; असंभाव्यमेव. 480 कादम्बरी। कथायाम् Page #494 -------------------------------------------------------------------------- ________________ | સર્વજ્ઞ ભગવંતો દ્વારા પ્રમાણિત થયેલાં અને ગણધરભગવંતો દ્વારા શબ્દસ્થ બનેલાં શ્રીઆગમસૂત્રો એ આપણા ‘સાધ્યગ્રંથો છે. સાધ્યગ્રંથોના વ્યાપક અધ્યયન દ્વારા જ જિનશાસનની શ્રમણસંસ્થાના પોતાનું આત્મિક સ્વાથ્ય ટકાવી શકે અને જિનશાસનના બાહા અત્યંતર સ્વાથ્યનું રક્ષણ કરી શકે. સાધ્યગ્રંથોની મંઝિલ સુધી પહોંચવા માટે સાધનગ્રંથોનું પણ સૂમેક્ષિકાપૂર્વકનું અધ્યયન કરવું પડે છે. (1) વ્યાકરણવિષયક ગ્રંથો... (ર) કાવ્યવિષયક ગ્રંથો... (3) પ્રાચીન નવ્યન્યાયના ગ્રંથો... (4) અને ઇતરદાર્શનિક ગ્રંથો.... આ બધાય ગ્રંથો આપણા માટે સાધન ગ્રંથો છે. જ્ઞાનાવરણીય કર્મનો વિશિષ્ટ ક્ષયોપશમ ધરાવનારા પુન્યાત્માઓ ઉપર્યુક્ત સાધનગ્રંથોના ઉંડા અભ્યાસ દ્વારા પોતાની મતિને ખૂબ તીણ બનાવી દે છે અને એ પછી તીક્ષ્ણ બનેલી એમની વિશિષ્ટ કક્ષાની મતિ સાધ્યગ્રંથોના પેટાળ સુધી પહોંચી એના રહસ્યોને સુગમ રીતે - વિવેચી શકવામાં સફળ બને છે. પૂજ્યપાદ, મુનિરાજ શ્રી હિતવર્ધનવિજયજી મહારાજના સમ્યગ ઉપદેશને ઝીલી લઇ જ્ઞાનદ્રવ્યની રાશિનો સદ્વ્યય કરી - અત્રે અમે એક સાધનગ્રંથનું પ્રકાશન કર્યું છે. સંસ્કૃત સાહિત્યના પાંચ મહાકાવ્યોમાં જેની ગણના થાય છે. એવા વાર' મહાકાવ્ય ઉપર જૈન ઉપાધ્યાય-અગલ દ્વારા વિનિર્મિત બનેલી 4બૃહત્કાય ટીકાનું આ નવતર પ્રકાશન ચતુર્વિધ શ્રી સંધ સમક્ષ પ્રસ્તુત કરીને હર્ષ ઉન્મેષ અને રોમાંચની લાગણી અનુભવીએ છીએ. કુસુમ અમૃત ટ્રસ્ટ શાંતિનગર, અલકાપુરી, વાપી (વેસ્ટ) - 396191. Tejas Printers - (1 MIT'.INPR /0 LANILESH