SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ भयपलायितामिव कालिन्दीम, अतिबहलपिण्डालक्तकरसरागपल्लवितपादपङ्कजामचिरमृदितमहिषासुररुधिररक्तचरणामिव कात्यायनीम्, आलोहिताङ्गुलिप्रभापाटलितनखमयूखाम् अतिकठिनमणिकुट्टिमस्पर्शमसहमानां क्षितितले पल्लवभङ्गानिव निधाय संचरन्तीम्, आपिञ्जरेणोत्सर्पिणा नपुरमणीनां प्रभाजोलेन रञ्जितशरीरतया पावकेनेव भगवता रूप एव पक्षपातिता प्रजापतिमप्रमाणीकुर्वता जातिसंशोधनार्थमालिङ्गितदेहाम्, अनङ्गवारणशिरोनक्षत्रमालायमानेन रोमराजिलतालवालकेन शनादाम्ना परिर्गतजघनाम्, अतिस्थूलमुक्ताफलघटितेन शुचिना हारेण गुङ्गासोतसेव कालिन्दीशङ्कया कृतकण्ठग्रहाम्, शरदमिव विकसितपुण्डरीकलोचनाम्, - *********** वह्निस्तेन दह्यमानो ज्वाल्यमानो यो मदनो जरांभीरुस्तस्य धूमो दहनकेतुस्तेन मलिनीकृतां मालिन्यं प्राप्ताम् । पुनः कामिव । कालिन्दीमिति । कालिन्दी यमुना तामिव । यमुना विशेषयन्नाह - उन्मदेति । उन्मदस्य प्रबलगर्वस्य हलिनो बलभद्रस्य यद्धलं लागलं तेन यदाकर्षणमाकृष्टिस्तस्माद्यद्भयं साध्वसं तस्मात्पलायितां नष्टाम् । अतीति । अतिबहलोऽतिप्रचुरो यः पिण्डालक्तकः पिण्डीकृतो यावकस्तस्य रसो द्रवस्तस्य रागो रक्तिमा तेन पल्लवितं संजातकिसलयं पादपङ्कजं यस्याः सा तथा ताम् । कामिव । अचिरेति । अचिर तत्कालं मृदितो मर्दितो यो महिषासुरो दैत्यस्तस्य यद्रुधिरमाग्नेयं तेनारक्तौ लोहितौ चरणौ पादौ यस्या एवंविधां कात्यायनी दुर्गामिव । आलोहितेति । आलोहिता आरक्ता या अङ्गुलयः करशाखास्तासां प्रभा दीप्तिस्तया पाटलिताः श्वेतरक्तीकृता नखमयूखाः पुनर्भवदीप्तयो यस्याः सा तथा ताम् । यद्यपि नखानां स्वत एवारुण्यात्पाटलत्वमस्त्येव, तथापि मिथोमिश्रीभाव एव पाटलत्वं बोध्यम् । चरणयोः पल्लववर्णनप्रयोजनमाह - अतीति । अतिकठिनमतिकर्कशं यन्मणिकुट्टिम मणिबद्धभूस्तस्य स्पर्श संश्लेषमसहमानामक्षममानाम् । क्षितीति । क्षितितले धरणीतले पल्लवभङ्गानिव किसलयखण्डानिव निधाय स्थापयित्वा संचरन्तीं चलनं कुर्वतीमित्युत्प्रेक्षा । आलिङ्गित इति । आलिङ्गित आश्लिष्टो देहः शरीरं यस्याः सा तथा ताम् । केन । भगवता माहात्म्यवता पावकेन वह्निना । अथ पावक विशेषयन्नाह - रूपे सौन्दर्य एव पक्षपातिनानुरक्तचित्तेन प्रजापतिं ब्रह्माणमप्रमाणीकुर्वता । तदङ्गीकारादिति भावः । कया । आपिजरेति । आपिञ्जरेण पीतरक्तेन । 'पीतरक्तस्तु पिञ्जरः' इत्यभिधानचिन्तामणिः । उत्सर्पिणा सर्वतः प्रसारिणा नूपुरस्य हंसकस्य मणयो रत्नानि तेषां प्रभास्त्विषस्तासां जालेन समूहेन रञ्जितं यच्छरीरं तस्य भावस्तत्ता तया हेतुभूतया । एतेन नूपुरमणिप्रभावढ्योः परस्परमुपमानोपमेयभावः सूचितः । तदालिङ्गनप्रयोजनमाह - जातीति । विधात्रा चाण्डालजात्याक्रान्ता निर्मिता । सा च सर्वथाऽस्पृश्यैवाशुचित्वात् । अशुचिर्वह्निना शुचिः स्यादिति तदालिङ्गने प्रयोजनमिति भावः । रशनेति । रशना कटिमेखला सैव दाम बन्धनरज्जुस्तेन परिगतं समन्ताद् व्याप्तं जघनं कट्याः पुरोभागो यस्याः सा ताम् । 'कट्याः क्लीबे तु जघनं पुरः इत्यमरः । मेखलादाम विशेषयनाह - अनङ्गेति । अनङ्ग एव वारणो गजस्तस्य शिरसि शोभार्थं नक्षत्रमालावदाचरमाणेन । रोमेति । रोमराजिरेव लता वल्ली तस्या आलवालकेनावापेनेति रूपकम् । अतीति । अतिस्थूलानि यानि मुक्ताफलानि यानि तैर्घटितो निष्पादितस्तेन शुचिना विशदेन हारेण चतुःषष्टिलतेन । 'चतुःषष्टिलतो हारः' इत्यमरः । अत एव विशदत्वम् । गङ्गासोतसेव गङ्गाप्रवाहेणेव । चाण्डालकन्यकायाः श्यामत्वात् कालिन्दीशङ्कया यमुनाभ्रान्त्या कृतः कण्ठग्रहो गलसंश्लेषो यस्याः सा तथा ताम् । पुनः कामिव । शरदमिव घनात्ययमिव । उभयोः शब्दसाम्यं प्रदर्शयन्नाह - विकसितेति । विकसितानि पुण्डरीकाण्येव लोचनानि यस्याः सा तथेति विग्रहः । शरदि सर्वत्रापि कमलानामुन्निद्रत्वेन तथा संभवात् । पक्षे विकसितपुण्डरीकवल्लोचने यस्याः - टिप्प० -1 कामदेव इत्यर्थः । 2 क्षतजमित्यर्थः । 3 कठिनभूमिस्पर्शमसहमानश्चरणवेदनानिवारणार्थं यथा कोमलमास्तरणं निदधाति तथा लोहितनखप्रभा एव भूमौ नवपल्लवखण्डाः स्थापिता इत्याशयः । 4 ब्रह्मा अस्पृश्यजातावेनामुत्पादितवान् । अत एव विधातुरसंमतो रूपपक्षपाती वह्निः शोधनार्थं तामालिङ्गितवानित्याशयः । पाठा०-१ यमुनाम्. २ जालकेनानुरञ्जित. ३ रूपैकपक्षपातिना; रुपपक्षपातिना. ४ मेखला. ५ जघनस्थलाम्. ६ शुचिहारेण. 22 कादम्बरी। कथामुखे-)
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy