________________
आकुलाकुलकाकपक्षधारिणा कनकशलाकानिर्मितमप्यन्तर्गतशुकप्रभाश्यामायमानं मरकतमयमिव पञ्जरमुरहता चाण्डालदारकेणानुगम्यमानाम्, असुरगृहीतामृतापहरणकृतकपटपटुविलासिनीवेषस्य श्यामतया भगवतो हरेरिवानुकुर्वतीम्, संचारिणीमिवेन्द्रनीलमणिपुत्रिकाम्, गुल्फावलम्बिनीलकञ्चुकेनावच्छन्नशरीराम्, उपरिरक्तांशुकरचितावगुण्ठनाम्, नीलोत्पलस्थलीमिव निपतितसंध्यातपाम्, एककर्णावंसक्तदन्तपत्रप्रभाधवलितकपोलमण्डलाम्, उद्यदिन्दुकिरणच्छुरितमुखीमिव विभावरीम्, आकपिलगोरोचनारचिततिलकतृतीयलोचनामीशानरचितानुरचितकिरातवेषामिव भवानीम्, उरःस्थलनिवाससंक्रान्तनारायणदेहप्रभाश्यामलितामिव श्रियम्, कुपितहरहुताशनदह्यमानमदनधूममलिनीकृतामिव रतिम्, उन्मदहलिहलाकर्षण -
***********
म्यमानामनुव्रज्यमानाम् । केन । चाण्डालदारकेणान्त्यजसूनुना । तमेव विशिनष्टि - आकुलेति । आकुलाकुल इतस्ततः संलग्नो यः काकपक्षः शिखा तां धत्त इत्येवंशीलस्तथा तेन । 'सा बालानां काकपक्षः शिखण्डकशिखाण्डकौ इति कोशः । किं कुर्वता तेन । उद्घहता धारयता । किम् । पञ्जरं पक्षिरक्षणस्थलम् । अथ पञ्जरं विशेषयन्नाह - कनकेति । कनकस्य सुवर्णस्य याः शलाका इषीकास्ताभिर्निर्मितं रचितम् । कनकस्य पीतत्वादहिःपीतमपि तदन्तर्गतः शुकः कीरस्तस्य प्रभा कान्तिस्तया श्यामायमानं श्याममिव दृश्यमानम् । किमिव । मरकतमयमिव मरकतमश्मगर्भ तनिष्पन्नमिव । किं कुर्वतीम् । अनुकुर्वती सादृश्यमनुभवन्तीम् । कस्य । भगवत ऐश्वर्यवतो हरेरिव कृष्णस्येव । कया । श्यामतया । कृष्णत्वेनेत्यर्थः । कीदृशस्य हरेः । असुरेति । असुरैर्दैत्यैर्गृहीतं यदमृतं तस्य यदपहरणमपहृतिस्तत्र कृतो विहितो यः कपटेन कैतवेन पटुःप्रकटो विलासिनी मोहिनी स्त्री तस्या वेष आकृतिर्येन स तथा तस्य । तदुक्तम्-'हरिस्त्वामाराध्य प्रणतजन सौभाग्यजननी पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्' इति । पुनस्तामेव विशेषयन्नाह - संचारेति । संचारिणी संचरणशीला जङ्गमप्राणिरूपामिन्द्रनीलमणिपुत्रिकामिवेन्द्रमणिपाञ्चालिकामिव । गुल्फेति । गुल्फावलम्बी घुटिकावलम्बी यो नीलकञ्चुको हरित्कर्पासकस्तेनावच्छन्नमाच्छादितं शरीरं देहो यस्याः सा तथा ताम् । उपरीति । उपy+प्रदेशे रक्ताशुकस्य लोहितवाससो रचितं कृतमवगुण्ठनं मुखाच्छादनं यया सा तथा ताम् । पुनः प्रकारान्तरेण तामेव विशिनष्टि - नीलोत्पलेति । निपतित उपरिप्राप्तः संध्यासंबन्धी सायंकालसक्त आतपो धर्मो यस्यामेतादृशीं नीलानामुत्पलानां कुवलयाना स्थल्यकृत्रिमा तामिव । 'जानपद इति डीप् । एकेति । एकस्मिन्कर्णपर्यन्तेऽवसक्तं लग्नं यद्दन्तपत्रं कर्णाभरणविशेषस्तस्य या प्रभा कान्तिस्तया धवलितं शुभ्रीकृतं कपोलमण्डलं गल्लात्परप्रदेशो यस्याः सा तथा ताम् । अनेनावलोकनचातुरीविशेषः सूचितः । उद्यदिन्विति । उद्यत्रुदयमासादयन्य इन्दुश्चन्द्रस्तस्य किरणैर्दीधितिभिश्छुरितं ध्वान्तनिवृत्त्या सप्रकाशं मुखं यस्यास्तादृशीं विभावरी रात्रिमिव । एतेन रात्रिनायिकयोर्दन्तपत्रचन्द्रयोश्च साम्यं सूचितम् । आकपिलेति । आ ईषत्कपिलं पीतरक्तं यद् गोरोचनं गोपित्तं तेन रचितं निर्मित यत्तिलक पुण्ड्रं तदेव तृतीयं लोचनं यस्याः सा तथा ताम् । कामिव । ईशानेन महादेवेन रचितो विहितस्तदनु यो रचितः किरात्या भिल्लया वेषो नेपथ्यं यया सैवंभूता भवानी पार्वती तामिव । श्रियमिति । श्रियं लक्ष्मीमिव । अथ लक्ष्मी विशिनष्टि - उरःस्थलेति । उरःस्थले वक्षसि यो निवासो निवसनं तेन संक्रान्तः प्रतिबिम्बितो यो नारायणस्य श्रीकष्णस्य देहः शरीरं तस्य या प्रभा तया श्यामलितां श्यामतां प्राप्ताम् । एतेन लक्ष्मीचाण्डालकन्यकयोः साम्यं ध्वनितम् । रतिमिति । रतिः कामस्त्री तामिव । कीदृशीम् । कुपित इति । कुपितः क्रोधं प्राप्तो यो हर ईश्वरस्तस्य हुताशनस्तृतीयलोचनोद्गतो - टिप्प० - 1 हरिन्मणिः 'पत्रा' इति भाषायाम् । 2 किरणैः छुरितं रञ्जितं मुखं यस्या इत्याशयः ।।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ कपटविलासिनी. २ वेषश्यामलतया. ३ संचारिणीमिन्द्र. ४ पुत्रिकामिव. ५ आगुल्फावलम्बिना. ६ अवमुक्त. ७ इन्दुविम्बि. ८ ईशानरञ्जनानुरचित; ईशानुरचित; ईशानाचरितानुरचित. ९ श्यामलता. १० उन्मत्त. ११ हलापकर्षण. १२ कर्षणप्रपलायिताम्.
चाण्डालकन्यकावर्णनम्
। पूर्वभागः ।
121)