________________
दानमप्यमदम्, अत्यन्तशुद्धस्वभावमपि कृष्णचरितम्, अकरमपि हस्तस्थितभुवनतलं राजानमद्राक्षीत् । आलोक्य च सा दूरस्थितैव प्रचलितरत्नवलयेन रक्तकुवलयदलकोमलेन पाणिना जर्जरितमुखभागां वेणुलतामादाय नरपतिप्रतिबोधनार्थं संकृत्सभाकुट्टिममाजघान, येन सकलमेव तेंद्राजकमेकपदे वनकरियूथमिव तालशब्देन युगपदावलितवदनमवनिपालमुखादाकृष्य चक्षुस्तदभिमुखमासीत् । अवनिपतिस्तु ‘दूरादालोकय' इत्यभिधाय प्रतीहार्या निर्दिश्यमानां तां वयःपरिणाम भ्रशिरसा रक्तराजीवनेत्रापाङ्गेनानवरतकृतव्यायामतया यौवनापगमेऽप्यशिथिलशरीरसंधिना सत्यपि मातङ्गत्वे नातिनृशंसाकृतिनानुगृहीतार्यवेषण शुभ्रवाससा पुरुषेणाधिष्ठितपुरोभागाम्, -
***********
मित्यर्थः । 'दानं गजमदे त्यागे पालनच्छेदशुद्धिषु' इति विश्वः । अत्यन्तेति । अत्यन्तमतिशयेन शुद्धो निर्मलः स्वभावः प्रकृतिर्यस्यैवभूतमपि कृष्णं श्याम चरितमाचारो यस्येति विरोधः । परिहारपक्षे कृष्णः केशवोऽर्जुनो वा तद्वच्चरितं यस्येत्यर्थः । 'कृष्णस्तु केशवे । व्यासेऽर्जुने कोकिले च' इति विश्वः । अकरमिति । न विद्यते करो हस्तो यस्यैवंभूतमपि हस्ते करे स्थितं भुवनतलं यस्येति विरोधः । तत्परिहारपक्षे न विद्यते करो दण्डो यस्येति विग्रहः । 'बलिः करो भागधेयः' इति कोशः । __ आलोक्य चेति । राजनमालोक्य वीक्ष्य सा चाण्डालकन्यका सहसैव नृपसंनिधौ गमनमनभिज्ञलक्षणमिति दूरस्थितैव दविष्टप्रदेशस्थैव वेणुलतां वंशयष्टिमादाय गृहीत्वा । नरेति । नरपते राज्ञः प्रतिबोधनं संमुखीकरणं तदर्थं सभाकुट्टिमं परिषद्बद्धभूमि सकृदेकवारं पाणिना हस्तेनाजघान ताडयामास । अथ पाणिं विशेषयन्नाह - प्रचलितमिति । प्रचलितं प्रकम्पितं रनवलयं मणिखचितकणं यस्मात्स तथ तेन । रक्तमिति । रक्तं यत्कुवलयं कुवेलें तस्य दलानि पत्राणि तद्वत्कोमलेन सुकुमारेण । अनेन लक्षणोपेतत्वं हस्तस्य सूचितम् । वेणुयष्टिं विशेषयन्नाह - जर्जरितेति । जर्जरितो जर्जरीभूतो मुखभागोऽग्रभागो यस्यां सा तथा ताम् । अग्रभागदलनाच्छब्दविशेषो जायत इति प्रसिद्धेः । येनेति । येन ध्वनिना सकलमेव तद्राजकं राजसमूहः । युगपदिति । युगपत्समकालमावलितं परावर्तितं वदनं मुख येनैवंभूतं तदभिमुखं तस्याः संमुखमासीदभवत् । किं कृत्वा । आकृष्याकर्षणं कृत्वा । कस्मात् । अवनिपालमुखाद्राजवदनात् । किम् । चक्षुर्नेत्रम् । तत्रोपमानम् । किमिव । वनकरिणामरण्यहस्तिनां यूथमिव समूहमिव । केन । तालशब्देन तालो वाद्यविशेषस्तस्य शब्देन तदुत्थध्वनिना एकपद एककालम् । एकश्रेणीभूतत्वमात्रे दृष्टान्तः । । अवनीति । अवनिपती राजा तु तामनिमिषे निमेषोन्मेषवर्जिते लोचने यस्यैवंभूतो ददर्शेत्यन्वयः । कथंभूता ताम् । निर्दिश्यमाना लोचनविषयीक्रियमाणाम् । कया । प्रतिहार्या द्वाररक्षानियुक्तया । किं कृत्वा । अभिधाय कथयित्वा । किम् । दूरादालोकयेति दूरादेव प्रेक्षस्वेति । राज्ञ इति शेषः । इतश्चाण्डालकन्यका विशेषयन्नाह - अधीति । अधिष्ठित आश्रितः पुरोभागो यस्याः सा तथा ताम् । केन । पुरुषेण पुंसा । तमेव पुरुषं विशेषयन्नाह - वय इति । वयसः परिणामेन वार्धक्येन शुभ्रं श्वेतम् । आधाराधेययोरभेदोपचारात् । शिरो मौलिर्यस्य स तथा तेन । रक्तेति । रक्तं लोहितं यद्राजीवं कमलं तद्वन्नेत्रापाङ्गौ लोचनप्रान्तौ यस्य स तथा तेन । अनवरतेति । अनवरतं निरन्तरं कृतो विहितो व्यायामः परिश्रमः (येन सः) तस्य भावस्तत्ता तया यौवनापगमेऽपि तारुण्यनिवृत्तावपि न शिथिलाः श्लथाः । शरीरस्य संधयो धातूनामस्थ्यादीनां च बन्धा यस्य स तथा तेन । सत्यपीति । सत्यपि विद्यमानेऽपि मातङ्गत्वे चाण्डालत्वे नातिनृशंसातिराकृतिराकारो यस्य स तथा तेन । अन्विति । अनुगृहीतः स्वीकृत आर्यस्य सभ्यस्य वेषो नेपथ्यं येन स तथा तेन । शुभ्रमिति । शुभ्रं श्वेतं वासो वस्त्रं यस्य स तथा तेन । पुनस्तां किं क्रियमाणाम् । अनुग - टिप्प० - 1 कमलमित्यर्थः । 2 तालशब्देन वनकरियूथमिवेति राजसमूहस्योपमानम् ।
पाठा० - १ अतिशुद्ध. २ सकलभुवन. ३ प्रबोधनार्थम् ४ असकृत्. ५ राजन्यक. ६ तेन वेणुलताध्वनिना युगपत्. ७ पाण्डुर. ८ ईक्षणा. ९ धवल.
20
कादम्बरी।
कथामुखे-)