________________
सेवार्थमागताभिरिव दिग्वधूभिर्वारविलासिनीभिः परिवृतम्, अमलमणिकुट्टिमसंक्रान्तसकलदेहप्रतिबिम्बतया पतिप्रेम्णा वसुंधरया हृदयेनेवोह्यमानम्, अशेषजनभोग्यतामुपनीतयाप्यसाधारणया राजलक्ष्म्या सैमालिङ्गितदेहम्, अपरिमितपरिवारजनमप्यद्वितीयम्, अनन्तगजतुरगसाधनमपि खड्गमात्रसहायम्, एकदेशस्थितमपि व्याप्तभुवनमण्डलम्, आसने स्थितमपि धनुषि निषण्णम्, उत्सादितद्विषदिन्धनमपि ज्वलातापानलम्, आयतलोचनमपि सूक्ष्मदर्शनम्, महादोषमपि सकलगुणाधिष्ठानम्, कुपतिमपि कलत्रवल्लभम्, अविरतप्रवृत्त -
*********** यस्य स तम् । अत्राभरणदीप्तिहरनेत्रोद्भववढ्यो राजमकरध्वजयोचोपमानोपमेयभावो दर्शितः । आसन्नेति । आसनवर्तिनीभिर्निकटस्थायिनीभिः सर्वतो विश्वतः सेवार्थं सपर्यार्थमागताभिः प्राप्ताभिरविलासिनीभिराङ्गनाभिः । काभिरिव । व्यापकत्वाद्दिश एव वध्वः स्त्रियो दिग्वध्वस्ताभिरिव । अत्र दिग्वधूवारविलासिन्योः साम्यं सूचितम् । ताभिः परिवृतं परिवेष्टितम् । अमलेति । अमलाः स्वच्छा ये मणयश्चन्द्रकान्नाद्यास्तेषां कुट्टिम बद्धभूस्तस्मिन्संक्रान्तं यत्सकलदेहप्रतिबिम्ब समग्रशरीरप्रतिच्छायस्तस्य भावस्तत्ता तया । हेत्वर्थे तृतीया । पतिः स्वामी तेस्य प्रेम प्रीतिस्तेन च वसुंधरया पृथिव्या हृदयेनेव स्वान्तेनेवोह्यमानं वहमानम् । अशेषेति । अशेषाः समग्रा ये जना लोकास्तेषां भोग्यतां भोग्योग्यतामुपनीतया प्राप्तयापि । सर्वसाधारणयेत्यर्थः । असाधारणया च तथा चान्येषामेतादृशी राजलक्ष्मी स्तीत्यपकर्षोत्कर्षाभ्यां साधारणासाधारणया च राजलक्ष्म्या समालिङ्गितमुपगृहितं देहं शरीरं यस्य स तथा तम् । अत्र विरोधाभासोऽलंकारः । साधारणासाधारणयोर्विरुद्धधर्मत्वात् । तत्परिहारपक्षेऽसाधारणया । सर्वोत्कृष्टयेत्यर्थः । अपरिमितेति । अपरिमितोऽसंख्येयः परिवारजनः परिच्छदजनो यस्य स तम् । एवं बहुजनत्वेऽप्यद्वितीयं न द्वितीयो जनो यस्येति विरोधः । तत्परिहारपक्षेऽद्वितीय इत्यस्य सर्वोत्कृष्ट इत्यर्थः । अनन्तेति । अनन्तान्यसंख्यानि गजा हस्तिनस्तुरगा. अधास्तेषां साधनान्युपकरणानि सहाया यस्य । 'निर्वर्तनोपकरणानुव्रज्यासु च साधनम्' इत्यमरः । एवं च बहुसहायवत्त्वेऽपि केवलं खड्गः खड्गमानं सहायो यस्येति विरोधः । तत्परिहारपक्षे खड्गमात्रसहायमित्यस्य युद्धे तदन्यानपेक्षत्वमित्यर्थः । एकदेशस्थितमिति । एकदेशः सभामण्डपादिः, जनपदो वा । तत्र स्थितमपि निषण्णमपि व्याप्त समाक्रान्तं भुवनमण्डलं जगन्मण्डलं येनेति विरोधः । परिहारपक्षे व्याप्तं ख्यातं भुवनमण्डले यमिति विग्रहः । विशेषेणाप्तं व्याप्तमिति वार्थः । 'व्याप्तं ख्याते समाक्रान्ते' इति विश्वः । आसने स्थितमिति । आसने भद्रासने स्थितमप्युपविष्टमपि धनुषि कार्मुक निषण्ण स्थितमिति विरोधः । परिहारपक्षे धनुःसंज्ञा तस्मिन्स्थितमित्यर्थः । नामश्रवणेन विपक्षाणां साक्षादागत इव इति भयोत्पत्तेः । 'धनुःसंज्ञा प्रियालद्रौ इति विश्वः । उत्सादितेति । उत्सादितं व्यापादितं द्विषन्त एवेन्धनमेधो येन । एवंभूतमपि ज्वलातापानलमिति विरोधः । परिहारपक्षे ज्वलदित्यस्य दीप्यदित्यर्थः । आयतेति । आयते विस्तीर्णे लोचने यस्यैवंभूतमपि सूक्ष्ममविपुलं दर्शनं लोचनं यस्येति विरोधः । परिहारपक्षे सूक्ष्ममध्यात्मविषयं दर्शनं ज्ञानं यस्येत्यर्थः । 'सूक्ष्म स्यात्कैतवेऽध्यात्मेऽप्यणौ इति विश्वः । 'दर्शन नयनस्वप्नबुद्धिधर्मोपलब्धिषु' इति विश्वः । महादोषमिति । महान्दोषो यस्मिन्नेवभूतमपि सकलगुणाधिष्ठानं समग्रगुणस्थानमिति विरोधः । परिहारपक्षे महती दोषा बाहुर्यस्येत्यर्थः । 'दोषा रात्रौ भुजेऽपि च' इति विश्वलोचनः । कुपतिमिति । कुत्सितश्चासौ पतिश्च कुपतिरेवंभूतमपि कलत्रवल्लभं स्त्रीजनप्रियमिति विरोधः । तत्परिहारपक्षे कुः पृथिवी तस्याः पतिः । स्वामीत्यर्थः । एतादृशस्तप्रियः । स्यादिति न विरोधः । अविरतमिति । अविरतं संततं प्रवृत्तं दानं यस्यैवंभूतमप्यमदं दानरहितमिति विरोधः । तत्परिहारस्त्वेवम् । अविरतं प्रवृत्तं दानं त्यागो यस्यैवंभूतमप्यमदम् । गर्वरहित -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
--
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 धार्यमाणमित्युचितम् । 2 धनुषि आस्थितं धनुषि विजयविश्वासिनमित्यर्थः ।
पाठा० - १ सेवासंगता. २ संक्रान्तप्रतिबिम्ब; संक्रान्तदेहप्रतिबिम्ब. ३ समालिङ्गितम्. ४ आसनस्थितम् आसनगतम्. ५ अशेषद्विषत्. ६ दर्शिनम्. ७ कलत्रचय.
शूद्रकवर्णनम्
- पूर्वभागः ।