________________
द्रयेव विषविह्वलस्य, लोकायतिकविद्ययेवाधर्मरुचेः, मदिरयेवोन्मत्तस्य, दुष्टावेशक्रिययेव पिशाचग्रहस्य, दोषविकारोपचयः सुतरामक्रियत स्मरातुरस्य मे मनसः, येनाकुलीक्रियमाणा सरिदिव पूरेण विह्वलतामभ्यंगमम् । तां च द्वितीयदर्शनेन कृतमहापुण्यामिवानुभूतसुरलोकवासामिव, देवताधिष्ठितामिव, लब्धवरामिव, पीतामृतामिव, समासादितत्रैलोक्यराज्याभिषेकामिव मन्यमाना, सततसंनिहितामपि दुर्लभदर्शनामिवातिपरिचितामप्यपूर्वामिव सादरमाभाषमाणा पाविस्थितामपि सर्वलोकस्योपर्यवस्थितामिव पश्यन्ती, कपोलयोरेलकलताभगेषु च सोपग्रहं स्पृशन्ती, विपरीतमिव परिजनस्वामिसंबन्धमुपदर्शयन्ती, 'तरलिके, कथय कथं स त्वया दृष्टः, किमभिहितासि तेन, कियन्तं कालमवस्थितासि तत्र, कियदनुसरन -
***********
इव यथाजातस्येव । ज्वरेण तापेन यः प्रलापोऽसद्भाषणं तस्य प्रवृत्तिः प्रवर्तनं तस्या(या)संबद्धभाषिण इव कद्वदंस्येव । दुष्टेति । दुष्टनिद्रयानुचितप्रमीलया विषविह्वलस्येव विषार्तस्येव । निद्राया दुष्टत्वं च दोषजनकत्वादिति भावः । लोकेति । लोकायतिका नास्तिकास्तेषां विद्याया शास्त्रेणाधर्मरुचेरिव पापस्येव । मदिरेति । मदिरया गन्धोत्तमयोन्मत्तस्येव क्षीबस्येव । दुष्टेति । दुष्टो य आवेशोऽभिनिवेशस्तस्य क्रिया कर्म तया पिशाचग्रहस्येव ग्रथिलस्येव । येनेति । येन दोषोपचयेन आकुलीक्रियमाणा पूरेण जलवृद्ध्या सरिदिव तटिनीवाह विह्ललतां व्याकुलतामभ्यगममप्रापम् । तां चेति । तां तरलिकां पुनः पुनर्भूयोभूयोऽहमिति पर्यपृच्छमित्यप्राक्षमिति दूरेणान्वयः । इतिशब्दद्योत्यमाह - तरलिकेति । हे तरलिके, कथय निवेदय । स पुण्डरीकः कथं केन प्रकारेण त्वया दृष्टोऽवलोकितः किमभिहितासि कथितासि तेन पुण्डरीकेण । कियन्तं कालमवस्थितासि विलम्बितासि । तत्र तस्मिन्वने अस्माननुसरन्पृष्ठेऽनुव्रजन्कियत्पन्थानमसौ पुण्डरीक आगतः । कीदृश्यहम् । द्वितीयवारं मुनेर्दर्शनेनावलोकन कृतं महत्पुण्यं ययैतादृशीमिव । 'आन्महतः समानाधिकरणजातीययोः' इति महच्छब्दस्यात्वम् । अनुभूत इति । अनुभूतोऽनुभवविषयीकृतः सुरलोकवासः स्वर्गे निवासो यया तादृशीमिव । देवतयाधिष्ठिताश्रिता तादृशीमिव । लब्धेति । लब्धो वरो देवप्रसादो ययैतादृशीमिव । पीतमिति । पीतमास्वादितममृतं पीयूषं ययैवंभूतामिव । समेति । समासादितः प्राप्तस्त्रैलोक्यस्य राज्यमाधिपत्यं तस्याभिषेकोऽभिषिञ्चनं ययैवंविधामिव तां मन्यमाना चेतसि ज्ञायमाना । पुनरहं किं कुर्वाणा । सततमिति । सततं निरन्तरं संनिहितामपि पार्थवर्तिनीमपि दुर्लभं दुःप्रापं दर्शनमवलोकनं यस्या एवंविधामिवातिपरिचितामप्यतिसंस्तवगोचरीकृतामप्यपूर्वामिवाभिनवामिव सादरमाभाषमाणा जल्पमाना । पुनः किं कुर्वन्त्यहम् । पार्थे समीपेऽवस्थितामप्यासीनामपि सर्वलोकस्य समग्रविश्वस्योपर्यवस्थितामिव पश्यन्त्यवलोकयन्ती । कपोलयोर्गल्लात्परप्रदेशयोरलकलताभङ्गेषु सोपग्रहं सानुकूलं यथा स्यात्तथा स्पृशन्ती स्पर्श कुर्वन्ती । विपरीतमिति । मत्समीहितकरणात्त्वं तु स्वामिनी, अहं तु तव परिजनः, इति विपरीतः संबन्धः । तमिवोपदर्शयन्ती बहिर्वृत्त्या - - टिप्प० - 1 दुष्टा या आवेशक्रिया (जन्मसंबन्धिनाडीनक्षत्रेषु पापग्रहाणां प्रवेशकार्यम्) तया पिशाचग्रहस्येव (पिशाचेन ग्रहः ग्रहणं यस्य, पिशाचग्रस्तस्येव) । अयं भावः - पूर्वमेव पिशाचेन ग्रहणं तदुपरि यदि जन्मज्ञेषु पापग्रहाणां प्रवेशः स्यात्तर्हि भूयान् दोषोपचयः स्यात् । प्रोक्तं हि - 'ईहा देहार्थहानिः स्याज्जन्मक्ष उपतापिते । कर्मः कर्मणां हानिः पीडा मनसि मानसे ॥ इति । 2 'प्रापम्' इति बोध्यम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ दूरावेशक्रियया. २ अगमम्. ३ अलकताभङ्गेषु; अलकलतासङ्गेषु.
320
कादम्बरी।
कथायाम्