________________
तटशिलातले तेन गन्धगजमदसुरभिपरिमलेन रसेनोत्तरीयवल्कलैकदेशाधिपाट्य पट्टिकां स्वहस्तकमलकनिष्ठिकानखशिखरेणाभिलिख्य ‘इयं पत्रिका त्वया तस्यै कन्यकायै प्रच्छन्नमेकाकिन्यै देया' इत्यभिधायार्पितवान् । इत्युक्त्वा च सा ताम्बूलभाजनादाकृष्य तामदर्शयत् । अहं तु तेन तत्संबन्धिनालापेन शब्दमयेनापि स्पर्शसुखमिवान्तर्जनयता श्रोत्रविषयेणापि रोमोद्गमानुमितसर्वाङ्गानुप्रवेशेन मदनावेशमन्त्रेणेवावेश्यमाना तस्याः करतलादादाय तां वल्कलपत्रिका तस्यामिमामभिलिखितामार्यामपश्यम् -
'दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥' अनया च मे दृष्टया दिङ्मोहभ्रान्त्येव प्रणष्टवर्त्मनः, बहुलनिशयेवान्धस्य, जिह्वोच्छित्त्येव मूकस्य, इन्द्रजालिकपिच्छिकयेवातत्त्वदर्शिनः, ज्वरप्रलापप्रवृत्त्येवासंबद्धभाषिणः, दुष्टनि -
***********
दानं तद्वत्सुरभिः सुगन्धः परिमलो यस्यैवंविधेन रसेनोत्तरीयं यद्वल्कलं तस्यैकदेशादेकप्रदेशात्पट्टिका प्रसिद्धां विपाट्य द्वैधीकृत्य स्वकीय आत्मीयो यो हस्तः पाणिः स एव कमलं नलिनं तस्य कनिष्ठिका कनीनिका तस्या नखशिखरेण नखराग्रेणेयं पत्रिकाभिलिख्य लिपीकृत्येत्यभिधाययेत्युक्त्वार्पितवान्दत्तवान् । इतिशब्दाभिधेयमाह - त्वयेति । त्वया भवत्या तस्यै कन्यकायै महाचेतायै एकाकिन्यै अद्वितीयायै प्रच्छन्नं गुप्तं देयार्पणीया । अथ सा च ताम्बूलकरङ्कवाहिनी तरलिका ताम्बूलभाजनात् तां पत्रिकामाकृष्य निष्कास्यादर्शयत् दर्शितवती । अहं त्विति । तु पुनरर्थकः । अहमित्यात्मनिर्देशः । तस्यास्तरलिकायाः करतलाद्धस्ततलात्तां वल्कलपत्रिकामादाय गृहीत्वा तस्यामिमामभिलिखितामार्यामपश्यमद्राक्षमित्यन्वयः । कीदृश्यहम् । आवेश्यमानावेशविषयीक्रियमाणा । केन । तस्य पुण्डरीकस्य संबन्धिना संबद्धेनालापेन । संलापेन । किं कुर्वता । शब्दमयेन शब्दात्मकेनापि स्पर्शसुखमिव संश्लेषसातसदृशमिवान्तर्मध्ये जनयता उत्पादयता । अत्रापिशब्दो विरोधयोतनार्थः । श्रोत्रविषयेणापि कर्णगोचरेणापि रोमोद्गमेन पुलकेनानुमितोऽनुमितिविषयीकृतः सर्वाङ्गेष्वनुप्रवेशो यस्य स तेन । अत्रापिशब्दः पूर्ववत् । वैक्लव्यसादृश्यादाह - मदनावेशमन्त्रेणेव मदनस्य कंदर्पस्यावेशः प्रवेशस्तदुत्पादकमन्त्रेणेव । अथ तामार्यामाह - दूरमिति । मानसे मनसि जन्म यस्यैवंभूतो मनोरथोऽभिलाषो मुक्तालतयैकावल्या विप्रलोभ्यमानो लोभं प्राप्यमाणो दर्शिताशा फलप्राप्तिर्यस्यैवंभूतस्त्वया नीतः तवैव समीपे तिष्ठति । त्वामेव विषयीकरोतीति भावः । मानसजन्मत्वसाम्यादुत्प्रेक्षते - हंस इवेति । यथा मानसजन्मा हंसो मुक्तावन्निर्मला या लता व्रतत्यस्ताभिः प्रकर्षेण लोभ्यमानो दर्शिताशा गमनार्थं दिग्यस्यैवंभूतोऽन्यत्र नीयते । अथ लतां विशेषयन्नाह - बिसेति । बिसं मृणालं तद्वच्छुभ्रया धवलयेत्युभयोर्विशेषणम् । अनयेति । अनया पत्रिकया मे मम दृष्टया विलोकितया सत्या स्मरातुरस्य मदनातुरस्य मे मम मनसो दोषविकारस्योपचयः पुष्टिः सुतरामत्यर्थमक्रियत व्यधीयतेत्यन्वयः । अत्रार्थ उपमानान्तराणि प्रदर्शयन्नाह - दिगिति । दिङ्मोहभ्रान्त्या करणभूतया प्रणष्टवर्मन उत्पथगामिन इव । बहुलेति । बहुलनिशया कृष्णपक्षरात्र्यान्धस्येव गताक्षस्येव । जिह्वेति । जिह्वोच्छित्त्या रसनाकर्तनया मूकस्येव । इन्द्रेति । इन्द्रजालिकस्य मायिकस्य या पिच्छिका यया लोकानां दृग्बन्धः क्रियते, तया अतत्त्वदर्शिन - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 इदमप्यप्रसिद्धत्वाद् नावीन्यवद् । 2 अत एव-बिसवत् सितया मुक्तामालया विशेषरूपेण लोभ प्रापितः, दर्शिता आशा (मनोरथपूर्तेः आशंसा) यस्मै सः ईदृशो मानसजन्मा कामदेवः, हंस इव त्वया दूरं नीतः । हंसोऽपि-बिसवत् श्वेतया मुक्तानां लतया लतावल्लम्बाकारया पङ्क्त्या विशेषेण भक्षणलोभ प्रापितः दर्शिता स्वेन सह नयनार्थमभीष्टा दिक् (दिशा) यस्मै सः, मानसे (तदाख्यसरोवरे) जन्म यस्य सः दूरे स्वनिवासाद्विप्रकर्षं प्रापित इति सारार्थः ।
(पुण्डरीकस्य प्रवृत्तिनिवेदनम्
पूर्वभागः ।)
1319)