________________
लेखमसृणितंचरणनखचक्रस्य प्रणयप्रसुप्तगन्धर्वकामिनीकपोलपत्रलतालाञ्छितभुजतरुशिखरस्य पादपीठीकृतलक्ष्मीकरकमलस्य गन्धर्वाधिपतेर्हंसस्य दुहिता महाश्वेता नाम गन्धर्वाधिवासं हेमकूटाचलमभिप्रस्थिता' इति, कथिते च मया किमपि चिन्तयन्मुहूर्तमिव तूष्णीं स्थित्वा विगतनिमेषेण चक्षुषा चिरमभिवीक्षमाणो मां सानुनयमर्थितामिव दर्शयन्पुनराह - 'बालिके, कल्याणिनी तवाविसंवादिन्यचपला बालभावेऽप्याकृतिरियम् । तत्करोषि मे वचनमेकमभ्यर्थ्यमाना' इति । ततो मया सविनयमुपरचिताञ्जलिपुटया दर्शितादरमभिहितः - 'भगवन्, कस्मादेवमभिधत्से । काहम् । महात्मानः सकलत्रिभुवनपूजनीयास्त्वादृशाः पुण्यैर्विना निखिलकल्मषापहारिणीमस्मद्विधेषु दृष्टिमपि न पातयन्ति, किं पुनराज्ञाम् । तद्विश्रब्धमादिश्यतां कर्तव्यम् । अनुगृह्यतामयं जनः' इति । एवमुक्तश्च मया सस्नेहया सखीमिवोपकारिणीमिव प्राणप्रदामिव दृष्ट्या मामभिनन्द्य निकटवर्तिनस्तमालपादपात्पल्लवमादाय निष्पीड्य ·
-
***********
मय्यस्तासां शिखराण्यग्राणि तेभ्यो य उल्लेखः संघर्षस्तेन मसृणितं श्लक्ष्णीकृतं चरणयोर्नखचक्रं पुनर्भवसमूहो यस्य स तथा तस्य । प्रणयेति । प्रणयेन स्नेहेन प्रसुप्ताः कृतनिद्रा या गन्धर्वकामिन्यस्तासां कपोलपत्रलताभिर्लाञ्छितं चिह्नितं भुजा एव तरवो वृक्षास्तेषां शिखरमग्रं यस्य स तथा तस्य । अनेन सुरतविशेषो द्योतितः । पादेति । पादपीठीकृतं पदासनीकृतं लक्ष्म्याः श्रियः करकमलं यस्य स तथा तस्य । एतेन दानशौण्डत्वं सूचितम् । तस्या यथार्थमभिधानमाह नामेति कोमलामन्त्रणे । महाश्वेता इति । सांप्रतं क्व गतेति तदाशयमभिप्रेत्याह - गन्धर्वेति । गन्धर्वाणामधिवासो यस्मिन्नेवंभूतं हेमकूटाचलमभिप्रस्थिता । तदभिमुखं चलितेत्यर्थः । इति मया कथित उक्ते सति किमप्यनाकलनीयं चिन्तयन्ध्यायन्मुहूर्तमिव घटिकाद्वयसदृशमिव । अत्रापीवशब्दः सदृशार्थः । तूष्णीं जोषं स्थित्वा विगतनिमेषेण मेषोन्मेषरहितेन चक्षुषा नेत्रेण चिरं चिरकालं यावदभिसंमुखं वीक्षमाणो मां प्रति सानुनयं सस्नेहमर्थितामिव मार्गणसदृशतामिव दर्शयन्पुनर्द्वितीयवारमित्याह । उवाचेत्यर्थः । इतिवाच्यमाह - बालिके इति । हे बालिके, कल्याणिनी कल्याणं श्रेयो विद्यते यस्याः यस्यां वा सैवंभूताविसंवादिन्यव्यभिचारिणी । 'यत्राकृतिस्तत्र गुणा भवन्ति' इत्युक्तेः । बालभावेऽपि बालस्वभावेऽप्यचपला स्थिरा तवेयमाकृतिराकारः । तदिति हेत्वर्थे । अभ्यर्थ्यमाना प्रार्थ्यमानैकं मे मम वचनं करोषि प्रणयसि । तत इति । ततोऽनन्तरं सविनयं सप्रश्रयमुपरचितं बद्धमज्ञ्जलिपुटं ययैवंभूतया मया दर्शितादरं यथा स्यात्तथेत्यभिहित उक्तः । इतिशब्दवाच्यमाह - भगवन्निति । हे भगवन् हे स्वामिन्, कस्मात्केन हेतुनैवं पूर्वोक्तप्रकारेणाभिधत्से कथयसि । काहं बालव्यजनधारिणी । सकलत्रिभुवनपूजनीयाः समग्रविश्वार्चनीया महात्मानस्त्वादृशा भवादृशाः क्व । पुण्यैर्विना धर्मव्यतिरेकेणास्मद्विधेष्वस्मादृशेषु निखिलकल्मषापहारिणीं दृष्टिं न पातयन्ति चक्षुषा नावलोकयन्ति । किं पुनराज्ञामादेशप्रदानम् । दूरापास्तमिति भावः । तत्तस्माद्धेतोर्विश्रब्धं सविश्वासं कर्तव्यं कृत्यमादिश्यतामादेशं दीयताम् । अथ चायं मल्लक्षणो जनोऽनुगृह्यतामनुग्रहविषयीक्रियताम् । एवं पूर्वोक्तप्रकारेण सस्नेहया सप्रेमयाँ मयोक्तश्च स मुनिः सखीमिव वयस्यामिवोपकारिणीमिवोपकृतिकर्त्रीमिव प्राणप्रदामिव जीवितदानीमिव मां दृशा चक्षुषाभिनन्द्य प्रमोदं जनयित्वैव निकटवर्तिनः समीपस्थात्तमालपादपात्तापिच्छवृक्षात्पल्लवं किसलयमादाय गृहीत्वा तटशिलातले तीरप्रस्तरे निष्पीड्य संमर्द्य तेन निष्पीडनोद्भूतेन गन्धगजा गन्धेभास्तेषां मदो
-
टिप्पo - 1 भुजौ एवेति द्विवचनं योग्यम् । 2 पूर्वार्जितसुकृतैर्विना इति व्याख्योचिता । 3 'सस्नेहया दृष्ट्या मामभिनन्य' इति योजना । अपरिचितायाः स्नेहप्रकाशनं त्वस्वाभाविकमेव ।
पाठा० - १ नखचरण. २ हेमकूटमचलम् ३ निपातयन्ति.
318
-
कादम्बरी |
कथायाम्