________________
सवितुः सागरवेलेव चन्द्रमसः मयूरीव जलधरस्य तस्यैवाभिमुखी, तथैव तां तद्विरहातुरजीवितोद्गमरक्षावलीमिवाक्षावली कण्ठेनोद्वहन्ती, तथैव च तया प्रस्तुततद्रहस्यालापयेव कर्णलग्नया पारिजातमञ्जा तथैव च तेन तत्करतलस्पर्शसुखजन्मना कदम्बमुकुलकर्णपूरायमाणेन रोमाञ्चजालेन कण्टकितैककपोलफलका निष्पन्दमतिष्ठम् ।
अथ ताम्बूलकरकवाहिनी मदीया तरलिका नाम मयैव सहागता स्नातमासीत् । सा च पश्चाच्चिरादिवागत्य तथावस्थितां शनैःशनैर्मामवादीत् - 'भर्तृदारिके, यौ तौ तापसकुमारको दिव्याकारावस्माभिरच्छोदसरस्तीरे दृष्टौ, तयोरेको येन भर्तृदुहितुरियं कर्णावतंसीकृता सुरतरुमञ्जरी स तस्माद्वितीयादात्मनो रक्षन्दर्शनमतिनिभृतपदः कुसुमितलतासंतानगहनान्तरेणोपसृत्य मामागच्छन्तीं पृष्ठतो भर्तृदारिकामुद्दिश्याप्राक्षीत् - 'बालिके, केयं कन्यका, कस्य वापत्यम्, किमभिधाना, क्व वा गच्छति' इति । मयोक्तम् - 'एषा खलु भगवतः श्वेतभानोरंशुसंभूतायामप्सरसि गौर्यां समुत्पन्ना देवस्य सकलगन्धर्वमुकुटमणिशलाकाशिखरो -
***********
जलधरस्य मेघस्य मयूरीव नीलकण्ठपत्नीव । तथैवेति । यथा तेन कुमारेण कण्ठे न्यस्ता तथैव, तस्य विरहेण वियोगेनातुरं पीडित यज्जीवितं प्राणितं तस्योद्गमो निर्गमस्तस्य रक्षावलीमिवाक्षावली जपमालां कण्ठेन निगरणेनोद्वहन्ती धारयन्ती । तथैवेति । तथैव पूर्वोक्तप्रकारेण तया कर्णलग्नया श्रवणप्राप्तया प्रस्तुतः प्रारब्धस्तस्या(स्य)रहस्यलापो ययैवंविधयैव पारिजातमञ्जर्या । तथैव च तेन पूर्वोक्तप्रकारेण तस्य यत्करतलस्पर्शस्तस्माद्यत्सुखं सातं तेन जन्मोत्पत्तिर्यस्यैवंभूतेन कदम्बस्य नीपस्य मुकुलं कुड्मलं तस्य कर्णपूरायमाणेन कर्णपूरवदाचरमाणेन रोमाञ्चजालेन रोमहर्षणसमूहेन कण्टकितं कण्टकवदाचरितमेकमद्वितीयं कपोलफलकं यस्याः सा तथा निष्पन्दं निश्चलमतिष्ठं स्थितवती ।
अथेत्यानन्तर्ये । मदीया तरलिका । नामेति कोमलामन्त्रणे । ताम्बूलकरङ्कवाहिनी मयैव सह स्नातुमाप्लवं कर्तुमागता समायातासीत् । सा चेति । सा ताम्बूलकरङ्कवाहिनी पश्चान्मद्गृहागमनानन्तरं चिरादिव चिरसदृशादिवागत्यैत्य तथावस्थिताम् । विरहातुरामित्यर्थः । मां शनैः शनैर्मन्दं मन्दमवादीदवोचत् । किमुवाचेत्याह - भत्रिति । हे भर्तृदारिके हे राजपुत्रि । ताविति । एकः पुण्डरीकस्तत्सहानुगतश्च कपिजल इमौ द्वौ तापसकुमारको दिव्याकारौ मनोहराकृती अस्माभिरच्छोदसरस्तीरे यौ दृष्टाववलोकिती, तयोर्मध्य एकः । कपिञ्जलं निराकुर्वन्नाह - येनेति । येन कुमारकेण भर्तृदुहितुर्भवत्या इयं सुरतरुमञ्जरी पारिजातवल्लरी कर्णावतंसीकृता श्रवणोत्तंसीकृता । स इति । स मुनिः पुण्डरीकस्तस्मात्कपिञ्जलादात्मनः स्वस्य दर्शनं वीक्षणं रक्षन्गोपयन्नतिनिभृतान्यतिनिश्चलानि पदानि यस्यैवंभूतः । कुसुमिताः पुष्पिता या लता वल्लयस्तासां संतानं परम्परा तेन गहनं निबिडं यदन्तरं विचालं तेन मामागच्छन्तीं पृष्ठतः पश्चाद्भाग उपसृत्य समीपमागत्य भर्तृदारिकामुदिश्याश्रित्येत्यप्राक्षीप्रश्नमकार्षीत् किं प्रश्नं कृतवानित्याह - बालिके इति । हे बालिके हे कन्यके, केयं कन्यका । कस्या वापत्यं प्रजा । किमभिधाना किंनाम्नी । क्व वा गच्छति व्रजति । त्वया किमुक्तमित्याह - मयेति । मयेत्युक्तं कथितम् । इतिवक्तव्यमाह - एषेति । एषा खलु निश्चयेन भगवतः श्वेतभानोर्गन्धर्वाधिपतेरंशुसंभूतायां सोममयूखसंभूतायामप्सरसि गौर्यां समुत्पन्ना संजाता गन्धर्वाधिपतेर्हसस्य दुहितात्मजा । अथ हंस विशिनष्टि - सकलेति । सकलाः समग्रा ये गन्धर्वा देवगायनास्तेषां मुकुटेषु मणिदृढबन्धार्थं शलाकाः स्वर्ण - टिप्प० - 1 निर्गच्छतो जीवस्य रक्षणार्थम् अभिमन्त्रितां मालामिव । 2 चन्द्रस्य । पाठा० - १ सुरतरुकुसुममञ्जरी. २ अंशुभूतायाम्; अंशभूतायाम्.
(पुण्डरीकस्य प्रवृत्तिनिवेदनम् ।
पूर्वभागः ।