________________
प्रतीकार इति सर्वं नाज्ञासिषम् । केवलमारुह्य कुमारीपुरप्रासादं विसय॑ च सखीजनं द्वारि निवारिताशेषपरिजनप्रवेशा, सर्वव्यापारानुत्सृज्यैकाकिनी मणिजालगवाक्षनिक्षिप्तमुखी, तामेव दिशं तत्सनाथतया प्रसाधितामिवं महारत्ननिधानाधिष्ठितामिव अमृतरससारसागरपूरप्लावितामिव पूर्णचन्द्रोदयालंकृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्तमनिलमपि वनकुसुमपरिमलमपि शकुनिध्वनिमपि तद्वार्ता प्रष्टुमीहमाना, तबल्लभतया तपःक्लेशायापि स्पृह्यन्ती, तत्प्रीत्येव गृहीतमौनव्रता, स्मरजनितपक्षपाता च तत्परिग्रहान्मुनिवेषस्याग्राम्यतां तदास्पदतया यौवनस्य चारुतां तच्छ्रवणसंपर्कात्पारिजातकुसुमस्य मनोहरतां तनिवासात्सुरलोकस्य रम्यतां तद्रूपसंपदा कुसुमायुधस्य दुर्जयतामध्यारोपयन्ती, दूरस्थस्यापि कमलिनीव -
***********
प्रतीकारः प्रतिक्रिया । अथ विरहेण विप्रलम्भपुष्टिं प्रदर्शयन्नाह - केवलेति । केवलमन्यनिरपेक्षम् । कुमारीणां पुर इति । पदैकदेशे पदसमुदायोपचारादन्तःपुरप्रासादमवरोधगृहमारुह्यारोहणं कृत्वा सखीजनं आलीजनं विसM दूरीकृत्य द्वारि प्रतोल्यां निवारितो निषिद्धोऽशेषः समग्रः परिजनस्य परिच्छदस्य प्रवेश आगमनं यया सा । तथा सर्वव्यापारान्समग्रकृत्यान्युत्सृज्य विमुच्यैकाकिन्यद्वितीया मणिनिर्मितानि जालानि यस्मिनेवभूतो यो गवाक्षो वातायनस्तत्र निक्षिप्तं स्थापितं मुखमाननं यया सैवंभूता । तामेव मुनिकुमारकाधिष्ठितां दिशं ककुभमीक्षमाणा विलोकमाना । अथ तद्वस्तुजन्यसंतोषजनकत्वसाम्येन तामेव दिशमुत्प्रेक्षते - तत्सनाथेति । तत्सहिततयेत्यर्थः । प्रसाधितामिव । भूषितामिव । महान्ति रत्नानि यस्मिन्नेवंभूतं यन्निधानं कुनाभिस्तेनाधिष्ठितामाश्रितामिव अमृतरसेन पीयूषरसेन सारः प्रधानो यः सागरः समुद्रस्तस्य पूरः प्लवस्तेन प्लावितामिवाकीर्णामिव । पूर्णः समग्रो यश्चन्द्रः शशाङ्कस्तस्योदय उद्गमस्तेनालंकृतामिव भूषितामिव । दर्शनेऽवलोकने सुभगां मनोहराम् । कामाभिभूतस्य चेतनाचेतनसाधारण्यं प्रदर्शयन्नाह - तस्मादिति । तस्मान्मुनिकुमारकाधिष्ठिताद्दिगन्तरादागच्छन्तमायान्तमनिलमपि, तथा वनकुसुमपरिमलमप्यरण्यपुष्पगन्धमपि, तथा शकुनिध्वनिमपि पतत्रिरुतमपि तस्य पुण्डरीकस्य वार्ता प्रवृत्तिं प्रष्टुं प्रश्नविषयीकर्तुमीहमाना वाञ्छमाना तस्य मुनेर्वल्लभतया तपःक्लेशायापि स्पृहयन्ती वाञ्छन्ती । अपिशब्दः प्रातिकूल्यं निराकरोति । तदायत्ततया प्रतिकूलमप्यनुकूलम्, अनुकूलमपि न स्वतः, किंतु तदायत्तत्वादित्याह - स्मरेणेति । मुनित्वेन ज्ञातेऽपि स्मरेण कंदर्पण जनितो विहितः पक्षपातोऽङ्गीकारो यस्यां सा तथा तस्य मुनेः प्रीत्या स्नेहेन गृहीतमात्तं मौनव्रतं यया सा, तेन मुनिना परिग्रहः स्वीकारस्तस्मान्मुनिवेषस्य तापसनेपथ्यस्याग्राम्यतां साधुताम् । स एवास्पदं यस्य तस्य भावस्तत्ता तया यौवनस्य तारुण्यस्य चारुतां मनोहरताम् । तस्य मुनेर्यः श्रवणसंपर्कः कर्णसंबन्धस्तस्मात्पारिजातकुसुमस्य कल्पतरुपुष्पस्य मनोहरतां मञ्जुलताम् । तस्य मुनेर्निवासस्तस्मात्सुरलोकस्य देवलोकस्य रम्यतां चारुताम् । तस्य मुनेर्या रूपसंपत्सौन्दर्यसमृद्धिस्तया कुसुमायुधस्य दुर्जयतां दुर्जेयतामध्यारोपयन्त्यध्यारोप कुर्वती । दूरस्थस्यापि दविष्ठस्यापि तस्यैव मुनिकुमारस्याभिमुखी संमुखी । कस्य केव । सवितुः सूर्यस्य कमलिनीव नलिनीव । तथा चन्द्रमसः कुमुदबान्धवस्य सागरवेलेव समुद्रस्याम्भसो वृद्धिरिव । तथा -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 निधिः । 2 वास्तवे तु 'अमृतरससागरपूर' इत्येव पाठः । सारपदस्याऽर्थापोषकत्वात् । 3 वाञ्छन्तीत्यर्थः । 4 तस्मात् - तस्य प्रीत्येव गृहीतमौनव्रता अर्थात्तूष्णीमवस्थिता, इति पृथग्विशेषणम् । स्मरजनितपक्षपाता चेति हेतुग विशेषणम् । अर्थात् स्मरेण तत्संबन्धिषु वस्तुषु पक्षपातो जनितः, अत एव तस्य (पुण्डरीकस्य) परिग्रहणात् (हतोः) मुनिवेषस्य अन्येषां दृष्टौ ग्राम्यत्वेपि अग्राम्यताम् (अध्यारोपयन्ती), एवं यौवनस्य चारुतामित्यादि ।
पाठा० - १ इव कुसुमितामिव महारत्न. २ अमृतरससागरप्लाविताम्. ३ दूरतः स्थितस्य; दूरस्था.
316
कादम्बरी।
कथायाम्