________________
इति । तच्च श्रुत्वार्हमात्मकण्ठादुन्मुच्य मकरध्वजलास्यारम्भलीलापुष्पाञ्जलिमेकावलीम् 'भगवन्, गृह्यतामक्षमाला' इति मन्मुखासक्तदृष्टेः शून्यहृदयस्यास्य प्रसारिते पाणौ निधाय स्वेदसलिलस्नातापि पुनः स्नातुमवातरम् । उत्थाय च कथमपि प्रयत्नेन निम्नगेव प्रतीपं नीयमाना सखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनमयासिषम् ।
गत्वा च प्रविश्य कन्यान्तःपुरं ततः प्रभृति तद्विरहविधुरा किमागतास्मि, किं तत्रैव स्थितास्मि, किमेकाकिन्यस्मि, किं परिवृतास्मि, किं तूष्णीमस्मि, किं प्रस्तुतालापास्मि, किं जागर्मि, किं सुप्तास्मि, किं रोदिमि, किं न रोदिमि, किं दुःखमिदम्, किं सातमिदम्, किमुत्कण्ठेयम्, किं व्याधिरयम्, किं व्यसनमिदम्, किमुत्सवोऽयम्, किं दिवस एषः, किं निशेयम्, कानि रम्याणि, कान्यरम्याणीति सर्वं नावागच्छम् । अविज्ञातमदनवृत्तान्ता च क्व गच्छामि, किं करोमि, किं शृणोमि, किं पश्यामि, किमालपामि, कस्य कथयामि, कोऽस्य -
देशादिमामक्षमालामदत्त्वासमर्प्य पदात्पदमपि न गन्तव्यम् । तच्चेति । तत्पूर्वोक्तं श्रुत्वाकर्ण्यात्मकण्ठात्स्वकीयनिगरणादहं मकरध्वजस्य कंदर्पस्य लास्यारम्भलीला नाट्यप्रारम्भक्रीडा तस्यां पुष्पाञ्जलिरेवंभूतामेकावलीं मुक्ताप्रालम्बमक्षमालेति कृत्वा हे भगवन्, गृह्यतामुपादीयतां इति अस्य मुनेः प्रसारिते विस्तारिते पाणौ तां निधाय (स) स्थाप्य स्वेदसलिलेन श्रमवारिणा स्नातापि कृतस्नानापि पुनः पुनः स्नातुमवातरमवतीर्णवती । अथ मुनिं विशेषयन्नाह - शून्येति । शून्यं हृदयं चेतो यस्य स तथा तस्य । तत्र हेतुमाह - मन्मुखेति । मदानने आसक्ता लग्ना दृष्टिर्यस्य स तथा तस्य । उत्थायेति । उत्थानं कृत्वा कथमपि महता प्रयत्नेन सखीजनेन वयस्याजनेन बलाद्धाप्रतीपं पश्चान्नीयमाना प्राप्यमाणा । तत्र दृष्टान्तमाह - निम्नगेति । यथा निम्नगा नदी महाप्रयत्नेनैव पश्चान्नीयते, एवंविधाहमम्बया जनन्या सह सार्धं तमेव मुनिकुमारकं चिन्तयन्ती ध्यायती । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः । तदुक्तम् - 'अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः' इति । स्वभवनं निजसद्मायासिषमागतवती ।
***********
गत्वेति । गत्यैत्य । स्वभवनमिति शेषः । कन्यान्तःपुरं कन्यावरोधं प्रविश्य प्रवेशं कृत्वा । चकारः पुनरर्थकः । ततः प्रभृति तद्दिना - दारभ्य तस्य पुण्डरीकस्य विरहेण वियोगेन विधुरा व्याकुला सत्यहमिति सर्वं नावागच्छं नावागममिति दूरेणान्वयः । इतिशब्दार्थमाह - किमागतेति । किमिति सर्वत्र वितर्कार्थे । अहमागतास्मि गृहं समायातास्मि किमिति पूर्ववत् । तत्रैवाच्छोदसरस्तीरे स्थितास्मि । किमेकाकिन्यसहायास्मि । किं परिवृता परिवारान्वितास्मि । किं तूष्णीमस्मि । किं प्रस्तुतः आलापः संलापो ययैवंविधास्मि । किं जागर्मि निद्राक्ष - ययुक्तास्मि । किं सुप्तास्मि कृतनिद्रास्मि । किं रोदिमि । किं न रोदिमि । किं दुःखमिदम् । किं सातमिदं सौख्यमिदम् । किमुत्कण्ठेयम् । किमयं व्याधिरामयः । किमिदं व्यसर्नमस्यासक्तिः । किमयमुत्सवो महः । किमेष दिवसो दिनम् । किमियं निशा रात्रिः । कानि वस्तू रम्याणि शोभनानि । कानि च तद्विपरीतानि । अरम्याणीत्यर्थः । अवीति । अविज्ञातोऽनाकलितो मदनस्य कंदर्पस्य वृत्तान्त उदन्तो यया सैवंभूताहमिति सर्वं नाज्ञासिषं न ज्ञानवती । इतिशब्दार्थमाह- क्वेति । क्व गच्छामि व्रजामि । किं करोम्यनुतिष्ठामि । किं श्रृणोम्याकर्णयामि । किं पश्यामि विलोकयामि । किमालपामि किं वदामि । कस्य कथयामि निवेदयामि । कोऽस्य
टिप्प०- 1 टीकाकारेण स्वाभ्यस्तमुपात्तम् । वास्तवे तु 'सुखमिदम्' इत्येव पदशय्यानुकूलः पाठः । 2 व्यसनं विपत् इत्येव व्याख्योचिता ।
पाठा० - १ आत्मकण्ठान्मकर. २ प्रस्नत ३ सुखम्
( विरहातुरा महाश्वेता
पूर्वभागः ।
-
315