________________
क्वासौ तपस्यभिनिवेशः, क्व सा भोगोनामुपर्यरुचिः, क्व तद्यौवनानुशासनम्, सर्वथा निष्फला प्रज्ञा, निर्गुणो धर्मशास्त्राभ्यासः, निरर्थकः संस्कारः, निरुपकारको गुरूपदेशविवेकः, निष्प्रयोजना प्रबुद्धता, निःकारणं ज्ञानम् यदत्र भवादृशा अपि रागाभिषङ्गैः कलुषीक्रियन्ते । प्रमादैश्चाभिभूयन्ते । कथं करतलाद्गलितामपहृतामक्षमालामपि न लक्षयसि । अहो विगतचेतनत्वमपंहतानामेवम् । इदमपि तावप्रियमाणमनयानार्यया निवार्यतां हृदयम्' इत्येवमभिधीयमानश्च तेन किंचिदुपजातलज्ज इव प्रत्यवादीत् - 'सखे कपिञ्जल, किं मामन्यथा संभावयसि । नाहमेवमस्या दुर्विनीतकन्यकाया मर्षयाम्यक्षमालाग्रहणापराधमिमम्' इत्यभिधायालीककोपकान्तेन प्रयत्नविरचितभीषणभ्रुकुटिभूषणेन चुम्बनाभिलाषस्फुरिताधरेण मुखेन्दुना मामवदत्- 'चञ्चले, प्रदेशादस्मादिमामक्षमालामदत्त्वा पदात्पदमपि न गन्तव्यम्'
***********
निवेश आग्रहः क्व । तथा भोगानां विषयाणामुपरि साऽरुचिरस्पृहा क्व । तथा तदनिर्वचनीयस्वरूपं यौवनस्य तारुण्यस्यानुशासनं नियन्त्रणं क्व । सर्वथेति । सर्वथा सर्वप्रकारेण प्रज्ञा प्रतिभा निष्फला निष्प्रयोजना । निर्गुण इति । धर्मशास्त्राणां स्मृत्यादीनामभ्यासो भूयोभूयस्तदभ्यसनं स एव निर्गुणः । जाड्यापहारलक्षणगुणरहितइत्यर्थः । निरर्थकेति । संस्कारो ब्राहाण्यापादनविधिः स एव निरर्थकः । यदुद्दिश्य क्रियते तदनाप्तेः । निरुपेति । गुरूपदेशायो विवेकः पृथगात्मता स निरुपकारकः । निरर्थक इत्यर्थः । निरिति । प्रबुद्धता प्रेक्षावत्ता निःप्रयोजना निर्हेतुका । निरिति । ज्ञानं श्रुतादि निःकारणं निर्निमित्तकम् । यदत्रेति । यदिति हेत्वर्थे । अत्रेति । अस्मिन्नवसरे रागाभिषङ्गैरिच्छाभिष्वङ्गर्भवादृशा अपि त्वत्सदृशा अपि कलुषीक्रियन्ते मलिनीक्रियन्ते । प्रमादैश्चेति । प्रमादैर्विषयादिभिरभिभूयन्ते पराभूयन्ते । चकारः समुच्चयार्थः । तदेव दर्शयति - कथमिति । करतलाद्धस्ततलाद्गलितां च्युतां तथा तयापहृतां गृहीतामक्षमालामपि कथं लक्षयसि कथं न जानासि । अहो इत्याश्चर्ये । अपहतानां कामपिडितानामेवं पूर्वोक्तप्रदर्शितरीत्या विगतचेतनत्वं नष्टचेतनत्वम् । इदमिति । तावदादाविदमपि हृदयं चित्तमनयानार्यया ह्रियमाणमाकृष्यमाणं निवार्यता दूरीक्रियतामित्येवं तेन कपिञ्जलेनाभिंधीयमानः कथ्यमानः किंचिदीषदुपजाता प्रादुर्भूता लज्जा त्रपा यस्य स इव प्रत्यवादीत्प्रत्यवोचत् । सखे इति । हे सखे कपिञ्जल, किमिति प्रश्ने । मामन्यथा तन्मनस्कत्वेन संभावयसि संभावनाविषयीकरोषि परमेतस्यां मन्मनोविकृति स्ति, तथाक्षमालाग्रहणनिमित्तकरोषोऽप्यन्यथा मुनीनां समदर्शित्वं, न स्यादिति भावः । अथ चेत्कपिञ्जल, तव शङ्कितं मनस्तदेतस्या दुर्विनीतकन्यकाया इममक्षमालाग्रहणापराधं जपमालास्वीकरणागसं नाहं मर्षयामि सहिष्ये । इति पूर्वोक्तमभिधायोक्त्वा मुखेन्दुना वक्त्रलक्षणचन्द्रेण मामिति प्रत्यवोचत्प्रत्यब्रवीत् । अथ मुखेन्दुं विशेषयन्नाह - अलीकेति । अलीको मिथ्या न तु वास्तवः एवंविधो यः कोपः क्रोधस्तेन कान्तेन मनोहरेण । प्रयत्नेति । प्रयत्नेन बलात्कारेण । कोपाभावादिति भावः । विरचिता निर्मिता भीषणा भैरवा भ्रकुटिः सकोपभ्रूविकृतिः सैव भूषणं यस्मिन् । तेन । चुम्बनेति । चुम्बनं संबन्धविशेषस्तस्याभिलाष इच्छाविशेषस्तेन स्फुरितः कम्पितोऽधर ओष्ठो यस्मिन् । किमुवाचेत्याह - चञ्चलेति । हे चञ्चले, अस्मात्प्र- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० . 1 उचितानुचितपरिज्ञानरूपो यो गुणस्तेन रहित इत्यर्थ उचितः । एतत्पूर्वम् ‘एव' निवेशस्तु अनुचितः विपरीतार्थबोधकत्वात् । एवमग्रेपि । 2 स्वकर्तव्यात् स्खलनरूपैः । 3 'अहो विगतचेतनत्वम्, अपहृता नामेयम्' इत्यपि पाठः । इयं अक्षमाला तु अनया (कन्यया) अपहृता नाम बलाल्लुण्ठिता नाम, इदानीम्, अनार्ययाऽनया अपह्रियमाणं हृदयमपि निवारय । इति व्याख्या । एकस्य अपहरणे जाते संप्रति अपह्रियमाणस्य रक्षणावश्यकत्वात् ।
पाठा० - १ क्वा सा संयमिता क्व. २ सङ्गानाम्. ३ यत्र. ४ प्रमोदैः. ५ अपहृता नामेयम्. ६ अपहियमाण. ७ चपले.
(314
कादम्बरी।
कथायाम्