________________
गृहगमनकालः । तत्क्रियतां मज्जनविधिः । इति । अहं तु तेन तस्या वचनेन नवग्रहा करिणीव प्रथमाङ्कुशपातेनानिच्छया कथंकथमपि समाकृष्यमाणा तन्मुखालावण्यामृतपङ्कमग्नामिव कपोलपुलककण्टकजालकलग्नामिव मदनशरशलाकाकीलितामिव सौभाग्यगुणस्यूतामिव अतिकृच्छ्रेण दृष्टिं समाकृष्य स्नातुमुदचलम् । उच्चलितायां य मयि द्वितीयो मुनिदारकस्तथाविधस्तस्य धैर्यस्खलितमालोक्य किंचित्प्रकटितप्रणयकोप इवावादीत् - 'सखे पुण्डरीक, नैतदनुरूपं भवतः । क्षुद्रजनक्षुण्ण एष मार्गः । धैर्यधना हि साधवः । किं यः कश्चन प्राकृत इव विक्लवीभवन्तमात्मानं न रुणसि । कुतस्तवापूर्वोऽयमायेन्द्रियोपप्लवः, येनास्येवं कृतः । क्व ते तधैर्यम्, क्वासाविन्द्रियजयः, क्व तद्वशित्वम्, चेतसः क्व सा प्रशान्तिः, क्व तत्कुलक्रमागतं ब्रह्मचर्यम्, क्व सा सर्वविषयनिरुत्सुकता, क्व ते गुरूपदेशाः, क्व तानि श्रुतानि, क्व ता वैराग्यबुद्धयः, क्व तदुपभोगविद्वेषित्वम्, क्व सा सुखपराङ्मुखता, -
***********
अथ च गृहगमनकालः सद्मव्रजनसमयः प्रत्यासीदति विघ्नितो भवति । अतो मज्जनविधिः स्नानविधिः क्रियतां विधीयताम् । अहं त्विति । अहं तस्याश्छत्रधारिण्यास्तेन वचनेन प्रथमाङ्कुशपातेनायसृणिप्रहारेण नवः प्रत्यग्रो यस्या एवंविधा करिणी हस्तिनी तद्वदिव कथंकथमपि महता कष्टेनानिच्छयानीहया समाकृष्यमाणा दृष्टिं चक्षुरतिकृच्छ्रेणातिकष्टेन समाकृष्य स्नातुमुदचलमुव्रजम् । कीदृशीमिव । लावण्यामृतमेव पङ्कः कर्दमस्तत्र मग्नामिव । कपोलेति । कपोलयोः पुलकलक्षणा ये कण्टकास्तेषां जालकं तत्र लग्नामिव । मदनेति। मदनस्य कंदर्पस्य शरा बाणास्तेषां शलाका ईषिकास्ताभिः कीलितामिव यन्त्रितामिव । सौभाग्येति । सुभगस्य भावः सौभाग्यं तल्लक्षणो यो गुणस्तेन स्यूतामिवान्योन्यश्लिष्टामिव । उच्चलितायामिति । मय्युच्चलितायां प्रचलितायां सत्याम् । चकारः समुच्चयार्थः । द्वितीयः कपिजलो मुनिदारकस्तथाविधस्तादृशस्तस्य पुण्डरीकस्य धैर्यस्खलितं सत्त्वस्खलनामालोक्य वीक्ष्य किंचिदीषत्प्रकटित आविष्कृतः प्रणयकोपः स्नेहकोपो येन तत्सदृश इवावादीदवोचत् । रोषोक्तावतीव वैरस्यं स्यादिति भावः । किं तदित्याह - सखे इति । हे सखे पुण्डरीक, भवतस्तव नैतदनुरूपं योग्यम् । क्षुद्रजना नीचलोकास्तैः क्षुण्ण आचीर्ण एष मार्गः पन्थाः । भवत इत्यत्रापि संबध्यते । हि यस्मात्कारणात्साधवो मुनयो धैर्यमेव धनं द्रव्यं येषामेवंविधा भवन्ति । यः कश्चनानिर्दिष्टाभिधानः प्राकृतः पामरस्तद्वदिव विक्लवीभवन्तं विह्वलीभवन्तमात्मानं क्षेत्रज्ञं किं न रुणत्सि किं न निरोधं करोषि । अपूर्वोऽननुभूत आधः प्रथम इन्द्रियोपप्लवः करणोपद्रवोऽयं प्रत्यक्षोपलभ्यमानस्तव भवतः कुतः । किंनिमित्तक इत्यर्थः । येनेति । येनेन्द्रियोपप्लवेनैवं कृतः शिथिलतां नीतोऽसि । त्वमिति शेषः । तदेव दर्शयत्राह - क्वेत्यादि । ते तव तद्धैर्यं क्व । तथेन्द्रियाणां करणानामसौ जयो निरोधः क्व । तथा तदनिर्वचनीयस्वरूपं वशित्वं स्वतन्त्रत्वं क्व । तथा चेतसश्चित्तस्य सा प्रशान्तिः क्व । तथा तत्कुलक्रमागतं कुलपरिपाट्यागतं ब्रह्मचर्यं कामविरतिः क्व । तथा सा सर्वविषयेषु समग्रेन्द्रियार्थेषु निरुत्सुकता निरुत्साहता क्व । तथा गुरूणां हिताहितोपदेशदेष्ट्रणामुपदेशा हितशिक्षाः क्व । तथा तानि पूर्वोक्तानि श्रुतानि ज्ञानानि क्व । तथा ताः सर्वाधिका वैराग्यं विरक्तता तस्या बुद्धयः प्रतिभाः क्व । तथा तासामङ्गनानां स्त्रीणामुपभोगः पुनःपुनरासेवनं तस्मिन्विद्वेषित्वं वैरित्वं क्व । तथा सखात्सौख्यात्पराङमखता पराचीनता क्व । तथा तपसि व्रतविशेषेऽसावभि -
-- - - - - - - - - टिप्प०-1 प्रत्यासनः निकटगतः अर्थात् उपस्थित इत्याशयः । 2 अक्षराणि च्युतानीति प्रतीयते । नवः ग्रहः ग्रहणं (बन्धने आनयनम्) यस्याः सा इत्यर्थः । 3 'तथाविधम्' इति पाटेन 'तादृशं धैर्यस्खलितम्' इति योजनमेव ग्रन्थानुकूलम् । 4 'अय' इत्येवोचितम्, अपूर्वपदेन पौनरुक्त्यात् ।
पाठा० -१ आकृष्य. २ तथाविधम्. ३ अय. ४ केन.
पुण्डरीकाय कपिञ्जलोपदेशः
पूर्वभागः ।
313