________________
दोषः सखे, क्रियतामस्याः प्रणयपरिग्रहः' इत्यभिधाय बलादियमनिच्छतोऽप्यस्य कर्णपूरीकृता । तदेतत्कात्स्येन योऽयम्, यस्य चायम्, या चेयम्, यथा चास्य श्रवणशिखरं समारूढा तत्सर्वमावेदितम् । इत्युक्तवति तस्मिन्स तपोधनयुवा किंचिदुपदर्शितस्मितो मामवादीत् - 'अयि कुतूहलिनि, किमनेन प्रश्नायासेन । यदि रुचितसुरभिपरिमला गृह्यतामियम्' इत्युक्त्वा समुपसृत्यात्मीयाच्छ्रवणादपनीय कलैरलिकुलक्वणितैः प्रारब्धरतिसमागमप्रार्थनामिव मदीये श्रवणपुटे तामकरोत् । मम तु तत्करतलस्पर्शलोभेन तत्क्षणमपरमिव पारिजातकुसुममवतंसस्थाने पुलकमासीत् । स च मत्कपोलस्पर्शसुखेन तरलीकृताङ्गुलिजालकात्करतलादक्षमाला लज्जया सह गलितामपि नाज्ञासीत् । अथाह तामसंप्राप्तामेव भूतलमक्षमालां गृहीत्वा सलीलं तद्भुजपाशसंदानितकण्ठग्रहसुखमिवानुभवन्ती दर्शितापूर्वहारलतालीला कण्ठाभरणतामनयम् । इत्थंभूते च व्यतिकरे छत्रग्राहिणी मामवोचत् - 'भर्तृदारिके, स्नाता देवी । प्रत्यासीदति -
***********
मञ्जाः को दोषः । प्रणयेन स्नेहेन परिग्रहः स्वीकारः क्रियतां विधीयतामिति मयाभिधायोक्त्वानिच्छतोऽप्यवाञ्छतोऽपीयं अस्य कर्णपूरीकृता श्रवणाभरणीकृता । तदिति । तस्माद्धेतोस्तदेतत्पृच्छाविषयीकृतं कात्स्न्येन साकल्येन मया सर्वमावेदितं कथितम् । तदेतत्किमित्यभिप्रायेणाह - योऽयमित्यादि । योऽयं कुमारः, येयं मञ्जरी, यथा येन प्रकारेणास्य श्रवणशिखरं कर्णप्रान्तं समारूढा प्राप्ता । इतीति । तस्मिन्मुनावित्युक्तवति कथितवति सति । स इति । स पुण्डरीकस्तपोधनयुवा किंचिदीषदुपदर्शितं स्मितमदृष्टरदं हास्यं येनैवंभूतो मामवादीप्रत्यवोचत् । अयीति संबोधने । अयि कुतूहलिनि, अनेन प्रश्नायासेन पृच्छापरिश्रमेण किम् । यदीति । यदि रुचितो रुचिविषयीभूतः सुरभिपरिमलो यस्या एवंविधेयं तदा गृह्यतां ग्रहणविषयीक्रियताम् । इति पूर्वोक्तमुक्त्वा समुपसृत्य समीपमागत्यात्मीयात्स्वकीयाच्छ्रवणात्कर्णादपनीय दूरीकृत्य मदीये श्रवणपुटे तां मञ्जरीमकरोदघटयत् । कलैरिति । कलैर्मनोज्ञैरलिकुलक्वणितैर्मधुकरकुलशब्दितैः । प्रारब्धेति । प्रारब्धा प्रस्तुता रतिसमागमस्य संभोगसमागमस्य प्रार्थना याचना ययैवंभूतामिव । एतेन स्वानुरक्तिः प्रदर्शिता । मम त्विति । मम तु । तु पुनरर्थकः । तस्य यत्करतलं तत्स्पर्शलोभेन तत्तृष्णयातत्क्षणमवतंसंस्थाने पुलकं अपरं पारिजातकुसुममिवासीत् । एतेन द्वितीयकर्णेऽपि तच्छोभा सूचिता । स चेति । स पुण्डरीको मत्कपोलस्पर्शसुखेन गल्लात्परप्रदेशाश्लेषसातेन तरलीकृतं कम्पनीकृतमगुलिजालकं यस्यैवंभूतात्करतलाद्धस्ततलालज्जया त्रपया सह गलितां च्युतामप्यक्षमालां जपमालां नाज्ञासीन्न ज्ञातवान् । तदनुरक्तं ज्ञात्वा तस्य पुण्डरीकस्य यो भुजपाशो बाहुपाशस्तेन संदानितः संयतो यः कण्ठग्रहः कण्ठालिङ्गनं तजनितं यत्सुखं तत्सदृशमिव । अत्रेवशब्दः सादृश्यार्थः । तदुक्तमलंकारशेखरे - 'भवन्तीवादिशब्दाश्च सादृश्यप्रतिपत्तये । अनुभवन्त्यनुभवविषयीकुर्वन्ती कण्ठाभरणतां निगरणभूषणतामनयमानीतवती । कीदृशीम् । दर्शिता प्रकटीकृतापूर्वहारलताया लीला यस्यां सा ताम् ।
इत्थमिति । इत्थंभूत एतादृशे व्यतिकरे परस्परानुरागातिशये छत्रग्राहिण्यातपत्रधारिणी मामवोचदब्रवीत् । किमुवाचेत्याह - भर्चिति । हे भर्तृदारिके हे राजपुत्री, स्नाता कृतस्नाना देवी त्वन्माता वर्तते । । टिप्प० -1 न खलु मजर्या दोषः प्रसक्तो यदेवमुच्येत । तस्मात् - 'को दोषः अर्थात् वनदेवताया अनुरोधस्वीकारे (मञ्जरीग्रहणे) को दोषः' इत्यर्थः । 2 अर्थात् कर्णे । 3 इयमप्यव्युत्पत्तिः । बाहुपाशेन संदानितो यः कण्ठस्तस्य ग्रहणसुखम् (तदालिङ्गनसुखम्) अनुभवन्तीव इत्यर्थ उचितः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा०.१ योऽयं या चेयम्. २ श्रवणशिखरे. ३ प्रश्नाशयेन. ४ गृह्यताम्. ५ हृदयम्.
1312
कादम्बरी।
कथायाम्