________________
चिताः सर्वाः क्रियाः कृत्वा तस्य पुण्डरीकसंभवतया तदेव पुण्डरीक इति नाम चक्रे । प्रतिपादितव्रतं च तमागृहीतसकलविद्याकलापमकार्षीत् । सोऽयम् । इयं च सुरासुरैर्मथ्यमानात्क्षीरसागरादुद्गतः पारिजातनामा पादपस्तस्य मञ्जरी । यथा चैषा व्रतविरुद्धमस्य श्रवणसंसर्गमासादितवती तदपि कथयामि । अद्य चतुर्दशीति भगवन्तमम्बिकापतिं कैलासगत मुपासितुममरलोकान्मया सह नन्दनवनसमीपेनायमनुसरनिर्गत्य साक्षान्मधुमासलक्ष्मीदत्तललितहस्तावलम्बया बकुलमालिकामेखलया कुसुमपल्लवग्रथिताभिराजानुलम्बिनीभिः कण्ठमालिकाभिर्निरन्तराच्छादितविग्रहया नवचूताङ्कुरकर्णपूरया पुष्पासवपानमत्तया वनदेवतया पारिजातकुसुममञ्जरीमिमामादाय प्रणम्याभिहितः - ‘भगवन्, सकलत्रिभुवनदर्शनाभिरामायास्तवाकृतेरस्याः सदृशोऽयमलंकारः क्रियताम् । इयमवतंसविलासदुर्ललितारोप्यतां श्रवणशिखरम् । व्रजतु सफलतां जन्म पारिजातस्य' इत्येवमभिदधानां चायमात्मरूपस्तुतिवादत्रपावनमितलोचनस्तामनादृत्यैव गन्तुं प्रवृत्तः । मया तु तामनुयान्तीमालोक्य 'को -
***********
कृत्वा विधाय । तस्येति । तस्य कुमारस्य पुण्डरीकं सिताम्भोजं तस्मात्संभव उत्पत्तिस्तस्य भावस्तत्ता तया तस्माद्धेतोरेव निश्चयेन पुण्डरीक इति नाम चक्रेऽभिधानं विदधे । कियत्कालानन्तरं स एव श्वेतकेतुः प्रतिपादितव्रतं दत्तदीक्षमागृहीतसकलविद्याकलापं च तं कुमारमकार्षीत्कृतवान् । स कुमारोऽयं पुरोवर्ती दृश्यमानः । इयं चेति । सुरासुरैर्मथ्यमानाद्विलोड्यमानाक्षीरसागराहुग्धाम्बुधेः पारिजातनामा पादपो वृक्ष उद्गतो निर्गतस्तस्येयं कर्णावतंसीकृता मञ्जरी । यथेति । येन प्रकारेणैषा मञ्जरी व्रतविरुद्ध नियमविरोध्यस्य श्रवणसंसर्ग कर्णसंबन्धमासादितवती प्राप्तवती तदपि वृत्तं कथयामि निवेदयामि । अयेति । चतुर्दशी शिवतिथिरिति हेतोरमरलोकात्स्वर्गलोकात्कैलासगतं रजताद्रिस्थितं भगवन्तं माहात्म्यवन्तमम्बिकापतिं गौरीनाथमुपासितुं सेवितुं मया सह मत्सार्धम् । प्राप्तौ द्योत्यायां 'क्रोशेन क्रोशं वानुवाकोऽधीतः' इतिवत् । नन्दनवनस्य समीपं समीपेन वानुसरन्गच्छनिर्गत्य स्वस्थानादहिरागत्य साक्षाद्वनदेवतयारण्याधिष्ठात्र्येमां मञ्जरीमादायगृहीत्वा प्रणम्य नमस्कृत्याभिहित उक्तः । अथ वनदेवतां विशिनष्टि - मध्विति । मधुमासो वसन्तमासस्तस्य लक्ष्मीः श्रीस्तया दत्तो ललितो मनोहरो हस्तस्तस्यावलम्बो यस्याः सा तया । बकुलेति । बकुलः केसरस्तस्य मालिका सक्सैव मेखला रशना यस्याः सा तया । कुसुमेति । कुसुमैश्च पल्लवैश्च ग्रथिताभिर्गुम्फिताभिराजानु आनलकीलं यावल्लम्बिनीभिः कण्ठमालिकाभिर्निगरणसग्भिनिरन्तरमाच्छादित आवृतो विग्रहो यस्याः सा तया । नवेति । नवः प्रत्यग्रो यश्चताङ्कुर आम्राङ्कुरस्तस्य कर्णपूरो यस्याः सा तया । पुष्पेति । पुष्पाणां कुसुमानां य आसवो माधवकस्तस्य पानं तेन मत्तया क्षीबया । किमभिहित इत्याशयेनाह - भगवन्निति । हे भगवन् स्वामिन, प्रसीद प्रसनो भव । सकलेति । सकलं समग्रं यत्रिभुवनं तस्य दर्शनेऽवलोकनेऽभिरामाया बन्धुराया अस्यास्तवाकृतेराकारस्य सदृशोऽनुरूपोऽलंकारः क्रियतां विधीयताम् । इयमिति । इयमवतंसविलास एव दुरधिगम दुर्ललितं क्रीडितं यस्याः सैवंविधा मञ्जरी श्रवणशिखरं कर्णप्रान्तमारोप्यतां स्थाप्यताम् । पारिजातस्य जन्मोत्पत्तिः सफलतां सार्थकतां व्रजतु गच्छतु । इत्येवं पूर्वोक्तप्रकारेणाभिदधानां कथयन्तीम् । अयमिति । पुण्डरीकः । आत्मेति । आत्मनो यद्रूपं सौन्दर्यं तस्य स्तुतिवादः प्रशंसनं तस्माद्या त्रपा लज्जा तयावनमिते नम्रीकृते लोचने नेत्रे येनैवंभूतस्तामनादृत्यैवानादरं कृत्वैव गन्तुं प्रवृत्तो गमनायोयतोऽभूत् । मयेति । तां वनदेवतामनुयान्तीमनुव्रजन्तीमालोक्य निरीक्ष्य हे सखे हे मित्र, अस्या - टिप्प० - 1 आगृहीतः शिक्षितः सकलविद्याकलापो येन तमित्यर्थः । 2 नित्यैव 'अपवर्गे तृतीया । 3 अवतंसविलासेन दुर्ललिता (धृष्टा, "सिर चढी' इति भाषा)।
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० -१ पारिजातकुसुम. २ नन्दनवन. ३ सुसदृशः, तु सदृशः. ४ प्रसादीक्रियताम्. ५ शिखरे. ६ विलोचन.
(पुण्डरीकजन्मवृत्तान्तः)
पूर्वभागः।