________________
मुनिर्दिव्यलोकनिवासी घेतकेतु म । तस्य च भगवतः सुरलोकसुन्दरीहृदयानन्दकरम्, अशेषत्रिभुवनसुन्दरम्, अतिशयितनलकूबरं रूपमासीत् । स कदाचिद्देवतार्चनकमलान्युद्धर्तुमैरावतमदजलबिन्दुबद्धचन्द्रकशतखचितजलां हरहसितसितसोतसं मन्दाकिनीमवततार । अवतरन्तं च तं तदा कमलवनेषु संततसंनिहिता विकचसहसपत्रपुण्डरीकोपविष्टा देवी लक्ष्मीर्ददर्श । तस्यास्तु तमवलोकयन्त्याः प्रेममदैमुकुलितेनानन्दबाष्पभरतरङ्गतरलतारेण लोचनयुगलेन रूपमास्वादयन्त्या जृम्भिकारम्भमन्थरमुखविन्यस्तहस्तपल्लवाया मन्मथविकृतं मन आसीत् । आलोकनमात्रेण च समासादितसुरतसमागमसुखायास्तस्मिन्नेवासनीकृते पुण्डरीके कृतार्थतासीत् । तस्माच्च कुमारः समुदपादि । ततस्तमुत्सङ्ग आदाय सा 'भगवन् गृहाण तवायमात्मजः' इत्युक्त्वा तस्मै श्वेतकेतवे ददौ । असावपि बालजनो -
***********
समूहस्तेन वन्दितं नमस्कृतं चरणयुगलं पादयुग्मं यस्य स तथा । तस्येति । तस्य चेतकेतोर्भगवतः । सुरेति । सुरलोकस्य याः सुन्दर्यः स्त्रियस्तासां हृदयानि चित्तानि तेषामानन्दकर प्रमोदोत्पादकम् । अशेषेति । अशेष यत्रिभुवनं त्रिविष्टपं तस्मात्सुन्दरं हृद्यम् । अतीति । नलकूबरात्कुबेरपुत्रादतिशयितमतिशयितनलकूबरम् । 'सुतोऽस्य नलकूबरः' इति कोशः । 'क्वचिदमाद्यन्तस्य परत्वम् इति नलकूबरस्य परप्रयोगः । अतिशयितोऽतिक्रान्तो नलकूबरो येनेति बहुव्रीहिर्वा । नलकूबररूपापेक्षयात्युत्कृष्टरूपमित्यर्थः । एवंविधं रूपं सौन्दर्यमासीदभूत् । स इति । कदाचित्कस्मिंश्चित्समये स श्वेतकेतुर्देवतानामर्चनं पूजनं तदर्थं कमलानि नलिनान्युद्धर्तुमुत्पाटयितुं मन्दाकिनी स्वधुनीमवततारावतीर्णवान् । अथ मन्दाकिनी विशेषयन्नाह - ऐरावतेति । ऐरावतो हस्तिमल्लस्तस्य मदजलं दानवारि तस्य बिन्दवः पृषतास्तैर्बद्धं यच्चन्द्रकशतं मेचकशतं तेन खचितं व्याप्तं जलं यस्यां सा तथा ताम् । हरेति । हरः शंभुस्तस्य हसितं स्मितं तद्वत्सितं शुभ्रं सोतः
हो यस्याः सा ताम । अवेति । तदा तस्मिन्कालेऽवतरन्तमम्बरादागच्छन्तं श्वेतकेतं मनिं कमलवनेष नलिनखण्डेष संततं निरन्तर संनिहिता समीपवर्तिनी विकचानि विकस्वराणि सहसपत्राणि यस्मिन्नेवभतं पण्डरीक सिताम्भोज तत्रोपविष्टासीना लक्ष्मीर्देवी ददर्श दृष्टवती । तस्या इति । तस्या लक्ष्म्यास्तं मुनिमवलोकयन्त्या ईक्षणं कुर्वन्त्याः । तु पुनरर्थकः । मन्मथेन कंदर्पण विकृतं सविकारं मन
मासीदभत । अथ लक्ष्मी विशेषयन्नाह - प्रेमेति । प्रेममदः प्रीतिमदस्तेन मकलितेन कड़मलितेन । आनन्देति । आनन्देन प्रमोदेन यो बाष्पभरो हर्षनेत्राम्बसमहः स एव तरङगः कल्लोलस्तेन तरला कम्पमाना तारा कनीनिका यस्मिन्नेवंविधेन लोचनयगलेन नेत्रयग्मेन रूपं सौन्दर्यमास्वादयन्त्याः पिबन्त्याः । जम्भिकेति । जम्भिका जम्भणं तस्या आरम्भ आरम्भणं तेन यन्मन्थरं मुखं तस्मिन्विन्यस्तः स्थापितो हस्तपल्लवो यया सा तस्याः । आलोकनेति । आलोकनमात्रेण केवलं निरीक्षणेनैव समासादितं प्राप्तं सुरतसमागमसुखं मैथुनसंगमसातं यया सा तस्याः । तस्मिन्नेवासनीकृते विष्टरतां नीते पुण्डरीके कृतार्थता सफलतासीत् । तस्मात्पुण्डरीकात्कुमारः समुदपाद्युत्पन्नः । तत इति । ततः कुमारोत्पत्तेरनन्तरं तं कुमारकमुत्सङ्गे क्रोड आदाय गृहीत्वा सा लक्ष्मीः हे भगवन् हे स्वामिन्, गृहाणायं तवात्मजस्त्वदङ्गज इत्युक्त्वा प्रतिपाद्य तस्मै श्वेतकेतवे तं कुमारकं ददौ दत्तवती । असावपि श्वेतकेतुरपि बालजनोचिताः शिशुजनयोग्याः सर्वाः क्रियाः प्रसवनादिकाः -
टिप्प० - 1 विविधवर्णं जाज्वल्यमानं वर्तुलाकारं चिह्नवृन्दम् (तैलादिबिन्दोः पतने यद्धि जलस्तरोपरि भवति) 1 2 रमणस्य सफलता बीजपातो जात इत्याशयः । 3 सप्तमीपाठे श्रवणयोर्विसन्धिता प्रतीयत इति 'उत्सङ्गेनादाय' इति गन्थोचितः । 4 तत्तुं जातमेव, अत एव नामकर्मादिका इत्युचितम् ।
पाठा०.१ सुरासुरलोक. २ संनिहिता. ३ प्रेमममन्द. ४ उत्सङ्गे.
(310
कादम्बरी ।
कथायाम्