________________
विलासानुपदिशति, अन्यथा विविधरसासङ्गललितेष्वीदृशेषु व्यतिकरेष्वप्रविष्टबुद्धेरस्य जनस्य कुत इयमेन भ्यस्ताकृती रतिरसनिःस्यन्दमिव क्षरन्ती, अमृतमिव वर्षन्ती, मदमुकुलितेव, खेदालसेव, निद्राजडेव, आनन्दभरमन्थरतरैत्तारसंचारिणी, अनिभृतभ्रूलतोल्लासिनी दृष्टिः । कुतश्चेदमतिनैपुण्यम्, यच्चक्षुषैवानक्षरमेवमन्तर्गतो हृदयाभिलाषः कथ्यते' । प्राप्तप्रसरा चोपसृत्य तं द्वितीयमस्य सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छम् - 'भगवान्किमभिधानः । कस्य वायं तपोधनस्य युवा । किंनाम्नश्च तरोरियमवतंसीकृता कुसुममञ्जरी । जनयति हि मे मनसि महत्कौतुकमस्याः समुत्सर्पन्नसाधारणसौरभोऽयमनाघ्रातपूर्वो गन्धः' इति । स तु मामीषद्विहस्याब्रवीत् - 'बाले, किमनेन पृष्टेन प्रयोजनम् । अथ कौतुकमावेदयामि । श्रूयताम् -
अस्ति त्रिभुवनप्रख्यातकीर्तिरत्युदारतया सुरासुरसिद्धवृन्दवन्दितचरणयुगलो महा
-
माह - अन्यथेति । विविधा अनेके ये रसाः शृङ्गारादयस्तेषामासङ्गः संश्लेषस्तेन ललितेषु मनोहरेष्वीदृशेषु व्यतिकरेषु संबन्धेष्व प्रविष्टा प्रवेशमप्राप्ता बुद्धिः प्रतिभा यस्य स तथा तस्यैवंभूतस्यास्य मुनिजनस्येयं दृष्टिः कुतः स्यात् । अथ च दृष्टिं विशिनष्टि - अनेति । अनभ्यस्तापरिचिताकृतिराकारो यया सा तथा । रतिरसः शृङ्गाररसस्तस्य निःस्यन्दं सारं क्षरन्तीव सवन्तीव । अमृतं पीयूषं वर्षन्तीव वृष्टिं कुर्वन्तीव । मदो मुन्मोहसंभेदस्तेन मुकुलितेव कुड्मलितेव । खेदः श्रमस्तेनालसेव मन्थरेव । निद्रा प्रमीला तया जडेव स्तम्भिते । आनन्देति । आनन्दस्य प्रमोदस्य यो भरस्तेन मन्थरालसा, एवंविधा तरन्ती तारा कनीनिका यस्मिन्नेतादृशः संचारो विद्यते यस्याः सा तथा । अनीति । अनिभृता चञ्चला या भ्रूलता तस्या उल्लासो विद्यते यस्याः सा तथा । कुत इति । इदमतिनैपुण्यमतिशयेन दक्षत्वं कुतः स्यात् । तदेव व्यनक्ति - यदिति । यद्यस्मात्कारणादन्तर्गतो हृदयाभिलाषश्चित्ताभिप्रायोऽनक्षरं यथा स्यात्तथा चक्षुषैव नेत्रेणैव कथ्यत उच्यते । प्राप्त इति । तादृशविचारणया कुमारस्य सविकारं हृदयमिति निश्चित्य प्राप्तः प्रसरोऽवकाशो यया सैवं विधेवोपसृत्य समीपं समागत्यास्य मुनिकुमारस्य तं द्वितीयं सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छमवोचम् । किं तदित्याह - भगवानिति । किमभिधान भगवान् । कस्य तपोधनस्यायं युवा । इयं किंनाम्नः किमभिधानस्य तरोर्वृक्षस्य कुसुममञ्जर्यवतंसीकृतोत्तंसीकृता । अस्या मञ्जर्याः समुत्सर्पन्प्रसरन्नसाधारणं सौरभं यस्मिन्नेवंविधोऽनाघ्रातपूर्वो नासिकयाऽगृहीतपूर्वोऽयं गन्धो मे मम मनसि चित्ते महत्कौतुकं महदाश्चर्यं जनयति निष्पादयति । स त्विति । स मां प्रतीषद्विहस्य किंचित्स्मितं कृत्वाब्रवीदवोचत् । बाले इति । हे बाले हे कुमारिके, अनेन पृष्टेन किं प्रयोजनं कोऽर्थः । अथेति । चेद्यद्यर्थे । कौतुकमाश्चर्यं तदावेदयामि कथयामि श्रूयतामाकर्ण्यताम् ।
***********
अस्तीति । नामेति कोमलामन्त्रणे । दिव्यलोकनिवासी स्वर्गलोकवसनशीलः श्वेतकेतुर्महामुनिरस्ति । त्रिभुवनेति । त्रिभुवने त्रिविष्टपे प्रख्याता विख्याता कीर्तिर्यशो यस्य स तथा । अत्युदारेति । अत्युदारतयात्युकृष्टतया । सुरेति । सुरा देवाः, असुराः दैत्याः, सिद्धा योगमन्त्रादिसामर्थ्ययुक्तास्तेषां वृन्दं
-
(पुण्डरीकजन्मवृत्तान्तः)
टिप्प० - 1 आनन्दभरमन्थरतरत्तारं यथा स्यात्तथा संचरति इति आनन्द सञ्चारिणी, इति स्पष्टोर्थः । 2 'भगवन् !' इति संबोधनमेवात्र मधुरमिति विदन्तु विदः । 3 अत्रापि (कस्य चाऽयं तपोधनश्युवा) इति पाठो रमणीयः । अयं तपोधनयुवा कस्य पुत्र इति तदर्थः ।
पाठा० - १ कुत इवेयम्. २ अनभ्यस्ता जाता. ३ तरलतर. ४ लतालासिनी. ५ वा. ६ तपोधनयुवा. ७ अनेनावतंसी. ८ खलु सकलत्रिभुवनप्रख्यात.
पूर्वभागः ।
309