________________
भवितव्यतया च तस्य तस्य वस्तुनः, किं बहुना मम मन्दभाग्यदौरात्म्यादस्य चेदृशस्य क्लेशस्य विहितत्वात्तमपि मद्विकारापहृतधैर्यं प्रदीपमिव पवनस्तरलतामनयदनङ्गः ।
तदा तस्याप्यभिनवगतमदनं प्रत्युद्गच्छन्निव रोमोद्गमः प्रादुरभवत् । मत्सकाशमभिप्रस्थितस्य मनसो मार्गमिवोपदिशद्भिः पुरः प्रवृत्तं श्वासैः । वेर्षैथुगृहीता व्रतभङ्गभीतेवार्कम्पत करतलगताक्षमाली । द्वितीयेव कर्णावसक्तकुसुममञ्जरी कपोलतलासङ्गिनी समदृश्यत स्वेदसलिलसीकरजालिका । मँद्दर्शनप्रीतिविस्तारितस्य चोत्तानतारकस्य पुण्डरीकमयमिव तमुद्देशमुपदर्शयतो लोचनयुगलस्य विसर्पिभिरंशुसंतानैर्यदृच्छयाच्छोदसलिलमपहाय विकचकुवलयवनैरिव गगनतलसमुत्पतितैररुध्यन्त दश दिशः । तया तु तस्यातिप्रकटया विकृत्या द्विगुणीकृतमदनावेशा तत्क्षणमहमवर्णनयोग्यां कामप्यवस्थामन्वभवम् ।
इदं च मनस्यकरवम् - ‘अनेकसुरतसमागमलास्यलीलोपदेशोपाध्यायो मकरकेतुरेव -
***********
वितव्यतया तथाभाव्यतया । चकारः सर्वत्र समुच्चयार्थः । किमिति । किं बहूक्तेन । मम मन्दभाग्यं क्षीणभागधेयं तस्य दौरात्म्यादृष्टत्वेनास्य॑ मुनेरीदृशस्य क्लेशस्य विहितत्वात्कृतत्वात् । अन्वयस्तु प्रागेवोक्तः ।
तदेति । तस्मिन्काले तस्यापि मुनिकुमारस्याप्यभिनवो नूतन आगतो यो मदनः कंदर्पस्तं प्रत्युद्गच्छन्निव संमुखं व्रजन्निव रोमोद्गमो रोमाञ्चः प्रादुरभवत्प्रकटीबभूव । मदिति । मत्सकाशं मत्समीपमभिप्रस्थितस्य संमुखं चलितस्य मनसो हृदयस्य मार्गं पन्थानमुपदिशद्भिरिवोपदर्शयद्भिरिव श्वासैः श्वसितैः पुरोऽग्रे प्रवृत्तमग्रे प्रस्थितम् । वेपथुरिति । व्रतस्य नियमस्य भङ्गः खण्डनं तेन भीतेव त्रस्तैव वेपथुः कम्पस्तेन गृहीता करतलगता हस्तगताक्षमाला जपमालाकम्पताचलत । द्वितीयेति । कपोलतलासगिनी गल्लात्परप्रदेशाश्लेषिणी स्वेदसलिलस्य श्रमजलस्य सीकराः कणास्तेषां जालिका समदृश्यत समालोक्यत । द्वितीयान्या कर्णावक्तकुसुममञ्जरीव श्रवणसंलग्नपुष्पवल्लरीव । एते सात्त्विका भावाः प्रदर्शिताः । मद्दर्शनेति । मद्दर्शनमालोकनं तस्माट्प्रीतिः स्नेहस्तेन विस्तारितस्य प्रसारितस्य । उत्तानेति । उत्तानोर्ध्वमुखा तारका कनीनिका यस्य स तथा तस्य तमुद्देशं तं प्रदेशं पुण्डरीकमयं सिताम्भोजनिर्मितमिवोपदर्शयतोऽन्येभ्यो ज्ञापयतो लोचनयुगलस्य नेत्रयुग्मस्य विसर्पिभिः प्रसरणशीलैरंशुसंतानैः किरणसमूहैर्दश दिशोऽरुध्यन्त रुद्धाः । कमलसादृश्यादाह - यदृच्छयेति । यदृच्छया स्वेच्छयाच्छोदनाम्नः सरसः सलिलं पानीयमपहाय त्यक्त्वा गगनतलसमुत्पतितैराकाशतलोत्पातिभिर्विकचकुवलयवनैरिव विकस्वरोत्पलखण्डैरिव । एतेन नयनयोश्चाञ्चल्यमितस्ततोऽवलोकनं च ध्वनितम् । तु पुनरर्थकः । तस्य मुनिकुमारस्यातिप्रकटयातिस्पष्टया तया विकृत्या द्विगुणीकृतो द्विगुणतां नीतो मदनस्यावेशो यस्या एवंभूताहं तत्क्षणं तत्कालमवर्णनयोग्यामकथनीयां कामप्यवस्थां दशामन्वभवमनुभूतवती ।
इदमिति । मनसि चित्त इदं चाकरवमप्रैणयम् । अचिन्तयमित्यर्थः । अनेकेति । अनेकेऽसंख्याः सुरतं मैथुनं तस्य समागमः संबन्धः स एव लास्यलीला नृत्यक्रीडा तस्यामुपदेशाः शिक्षारूपास्तत्रोपाध्यायः पाठक एवंविधो मकरकेतुरेव कंदर्प एव विलासान्नेत्रविकारानुपदिशत्युपदेशं करोति । उक्तवैपरीत्ये बाधक -
टिप्प० -1 मुनिर्हि तत्पदेन निर्दिश्यते न इदंपदेन । तस्मात् - अस्य ईदृशस्य मम तपश्चरणात्मकवलेशस्य विधिविहितत्वात् इत्यर्थः । 2 एका पारिजातमञ्जरी कर्णे कृतैव । अत एव सेयं स्वेदसीकरजालिकारूपा द्वितीया इति उठप्रेक्षाशयः । 3 प्राणयमिति स्यात् ।
पाठा० - १ दर्शनापहृत. २ आगतं. ३ प्रत्युद्गतवान्. ४ वेपथुना. ५ अकम्पत गात्रयष्टिः. ६ माला च. ७ मदनप्रीति.
308
कादम्बरी |
कथायाम्