________________
दपसर्पणं श्रेयः । कदाचिदनभिमतस्मरविकारदर्शनकुपितोऽयं शापाभिज्ञां करोति माम् । 'अदूरकोपा हि मुनिजनप्रकृतिः' इत्यवधार्यापसर्पणाभिलाषिण्यहमभवम् । अशेषजनपूजनीया चेयं जातिरितिकृत्वा तद्वदनाकृष्टदृष्टिप्रसरम्, अचलितपक्ष्ममालम्, अदृष्टभूतलम्, उल्लसितकर्णपल्लवोन्मुक्तकपोलमण्डलम्, आलोलालकलतालसत्कुसुमावतंसम्, अंसदेशदोलायितमणिकुण्डलमस्मै प्रणाममकरवम् ।
अथ कृतप्रणामायामैपि दुर्लङ्घ्यशासनतया मैनोभुवः, मदजननतया च मधुमासस्य, अतिरमणीयतया च तस्य प्रदेशस्य, अविनयबहुलतया चाभिनवयौवनस्य, चञ्चलप्रकृतितया चेन्द्रियाणाम्, दुर्निवारतया च विषयाभिलाषाणाम्, चपलतया च मनोवृत्तेः, तथा -
***********
र्पणं दूरीभवनं श्रेयः कल्याणकृदिति भावः । अन्यथा बाधकमाह - कदाचिदिति । संभावनायामनभिमतोऽनभीष्टो यः स्मरविकारो मनोभवविकृतिस्तस्य दर्शनेनावलोकनेन कुपितः कोपं प्राप्तो मां शापस्याभिज्ञामाद्यज्ञानविषयम् । 'अभिज्ञा ज्ञानमाद्यं स्यात्' इति कोशः । करोति प्रणयति मुनीनां कोपः कुत इत्याशयेनाह - अदूरेति । हि निश्चितम् । मुनिजनप्रकृतिस्तापसलोकस्वभावोऽदूरे समीपे कोपो यस्या एवंविधा स्यादित्यवधार्य निश्चित्याहमपसर्पणेऽभिलाषः स्पृहा यस्या एवंभूताभवं जज्ञे । अशेषेति । अशेषैः समग्रैर्जनैः पूजनीयार्च - नीयेयं जातिः । न तु कोपनीयेति भावः । इतिकृत्वास्मै प्रणामं नमस्कारमकरवमसृजम् । अथ नमस्कारं विशेषयन्नाह - तद्वदति । तद्वदनान्मुनिमुखादाकृष्ट आकर्षितो दृष्टिप्रसरो यस्मिंस्तत् । क्रियाविशेषणं वा । अनेन भावातिशयो द्योतितः । एवमग्रेऽपि ज्ञेयम् । अचलितेति । अचलिताऽकम्पिता पक्ष्मणां नेत्ररोम्णां माला पङ्क्तिर्यस्मिन् । अदृष्टेति । अदृष्टमवीक्षितं भूतलं पृथ्वीतलं यस्मिन् । उल्लसितेति । उल्लेसिता उल्लासं प्राप्ताः कर्णपल्लवाः श्रवणकिसलयानि तैरुन्मुक्तं त्यक्तं कपोलमण्डलं यस्मिन् । आलोलेति । आलोला चपलालकलता केशराजिस्तस्यां लसत्कुसुमावतंसो यस्मिन् । अंसेति । अंसदेशे स्कन्धप्रदेशे दोलायितं मणिकुण्डलं यस्मिन् । अन्वयस्तु प्रागेवोक्तः ।
अथेति । मद्विकारेणापहृतं दूरीकृतं धैर्यं यस्यैवंभूतं मुनिकुमारकं कृतप्रणामायामपि तस्यां तमपि पवनः प्रदीपमिवानङ्गः कंदर्पस्तरलतां चञ्चलतामनयत् । तत्र हेतुमाह - दुर्लङ्घ्येति । मनोभुवो मदनस्य दुर्लङ्घयं दुर्लङ्घनीयं शासनमाज्ञा यस्य तस्य भावस्तत्ता तया । मधुमासस्य वसन्तमासस्य मदजननतया मदोत्पादकत्वेन च । तस्य पूर्वोक्तस्य प्रदेशस्यातिरमणीयतयातिमनोहरतया । अभीति । अभिनवं नूतनं ययौवनं तारुण्यं तस्याविनयः शठता तद्बहुलतया तद्बाहुल्यतया । इन्द्रियेति । इन्द्रियाणां करणानां चञ्चलप्रकृतितया लोलस्वभावतया । विषयेति । विषया इन्द्रियार्थास्तेषामभिलाषा अध्यवसायास्तेषां दुर्निवारतया दुःखेन दूरीकर्तुं शक्यतया । मनोवृत्तेश्चित्तवृत्तेश्चपलतया चञ्चलतया । तस्य तस्य वस्तुनस्तत्तत्पदार्थस्य तथा भवति भ -
टिप्प० - 1 शापस्य परिचितां अर्थात् अभिसंपातदुःखभोगिनीं मां करोति । यद्ययं कुपितः स्यात्तर्हिशापः कीदृशो भवति इति मां स्फुटमनुभावयेदित्याशयः । 2 ‘ईषदुल्लसित' इत्येव ग्रन्थशय्यानुकूलः पाठः । 3 'कृतप्रणामायां मयि' इति पाठं विना ग्रन्थ एव न संगच्छते । मयि कृतप्रणामायां सत्यां कामस्य दुर्लङ्मयशासनत्वादिभिर्हेतुभिः पवनः प्रदीपमिव अनङ्गः तमपि ( मुनिकुमारमपि ) तरलतामनयत् । इति च तद्योजना । 4 इदमप्यसंगतत्वादधिकमेव ।
पाटा० - १ ईषदुल्लसित २ मयि ३ भगवतो मनोभुवः.
( महाश्वेतादर्शने पुण्डरीकावस्था
पूर्वभागः ।
307