________________
शान्तात्मनि दूरीकृतसुरतव्यतिकरेऽस्मिञ्जने मां निक्षिपता किमिदमनार्येणासदृशमारब्धं मनसिजेन । एवं च नामातिमूढ़ हृदयमङ्गनाजनस्य, यदनुरागविषययोग्यतामपि विचारयितुं नालम् । क्वेदमतिभास्वर धाम तेजसा च, क्व च प्राकृतजनाभिनन्दितानि मन्मथपरस्पन्दितानि । नियतमयं मामेवं मकरलाञ्छनेन विडम्ब्यमानामुपहसति मनसा । चित्रं चेदं यदहमेवभवगच्छन्त्यपि न शक्नोम्यात्मनो विकारमुपसंहर्तुम् । अन्या अपि कन्यकास्त्रपां विहाय स्वयमुपयाताः पतीन्, अन्या अप्यनेन दुर्विनीतेन मन्मथेनोन्मत्तता नीता नार्यः, न पुनरहमेका यथा । कथमनेन क्षणेनाकारमात्रालोकनाकुलीभूतमेवमस्वतन्त्रतामुपैत्यन्तःकरणम् । कालो गुणाश्च दुर्निवारतामारोपयन्ति मदनस्य सर्वथा । यावदेव सचेतनास्मि, यावदेव च न परिस्फुटमनेन विभाव्यते मे मदनदुश्चेष्टितलाघवमेतत्, तावदेवास्मात्प्रदेशा -
***********
मनसि मच्चित्त इदमासीद्धभूव । तदेव प्रकटयन्नाह -शान्तात्मनीति । अनार्येण दुष्टेन मनसिजेन कंदर्पण शान्तात्मनि दूरीकृतो दूरोज्झितः सुरतव्यतिकरो मैथुनवृत्तान्तो येनैवंभूते जनेऽस्मिन्मां निक्षिपता निक्षेपं कुर्वतासदृशमसाधुजनोचितमारब्धं प्रारब्धं पूर्वोक्तप्रकारेण । नामेति कोमलामन्त्रणे । अङ्गनाजनस्य स्त्रीजनस्यातिमूढमतिमुग्धं हृदयं चित्तम् । यदिति । हेत्वर्थे । अनुरागविषययोग्यतामप्यस्मिन्स्थलेऽनुरागो युक्तः, अस्मिन्स्थले न युक्तः, इति विषयविभागमपि विचारयितुं नालं समर्थम् । वैराग्यतपःसिद्धियुक्ते मुनिजने प्रमदाजनानुस्मरणप्रयासो वृथेत्यर्थः । अतो हेतोरस्मात्प्रदेशादपसर्पणं दूरीभवनं श्रेय इति प्रत्येकवाक्यपरिसमाप्तौ बोद्धव्यम् । क्वेति महदन्तरे । तेजसां तपसा चातिभास्वरमतिशोभनं क्वेदं धाम गृहम् । प्राकृतेति । प्राकृतजनैर्नीचजनैरभिनन्दितान्यनुमोदितानि मन्मथपराणि मनोभवप्रतिपाद्यानि स्पन्दितानि चेष्टितानि क्व । नियतमिति । नियतं निश्चितं मकरलाञ्छनेन कंदर्पणैवं पूर्वोक्तप्रकारेण विडम्बमानां कदर्यमानां मामयं मुनिर्मनसा चित्तेनोपहसत्युपहासं करोति । चित्रमिति । इदमग्रे वक्ष्यमाणं चित्रमाश्चर्यम् । तदेव प्रदर्शयन्नाह - यदिति । यद्यस्मात्कारणादहमेवं पूर्वोक्तप्रकारेणावगच्छन्त्यपि जानन्त्यप्यात्मनः स्वस्य विकारं विकृतिमुपसंहर्तुं दूरीकर्तुं न शक्नोमि न समर्था भवामि । पुनर्विचारणान्तरमाह - अन्या इति । मत्सहचरीषु मध्ये याः काश्चनातिकामुकास्त्रपां लज्जां विहाय त्यक्त्वा स्वयमात्मनान्यान्पतीनुपयाताः स्वयमेवोपगताः । यास्त नोपयातास्तासां मध्येऽन्या मव्यतिरिक्ता नार्योऽनेन दर्विनीतेन शकलेन मन्मथेन कंदर्पणोन्मत्तता सविकारता तथा न नीता यथाहमेका । अनेनेति । अनेन क्षणेन मुनिकुमारदर्शनाविर्भूतमदनावेशलक्षणेनोन्मत्तता प्रापिता । तदेव स्पष्टीकुर्वन्नाह -
आकारेति । आकारमात्रस्याकृतिमात्रस्यालोकनं वीक्षणं तेनाकुलीभूतं व्याकुलीकृतमन्तःकरणमन्तरिन्द्रियमेवं पूर्वोक्तप्रकारेणास्वतन्त्रता पराधीनतामुपैति प्राप्नोति । काल इति । कालो विवेककालो गुणाः कुलीनत्वादयश्च मदनस्य सर्वथा सर्वप्रकारेण दुःखेन निवारयितुं शक्यो दुर्निवारस्तस्य भावस्तत्ता तामारोपयन्ति व्यवस्थापयन्ति । अतो हेतोरपीति पूर्ववत् । पुनर्विचारणान्तरमाह - यावदिति । यावदेव यावत्कालमहं सचेतना चैतन्ययुक्तास्मि । यावदेवेति पूर्ववत् । मे ममैतन्मददुश्चेष्टितलाघवमनेन मुनिना विभाव्यते न निश्चीयते । तावदेवेति । तावत्कालमस्मात्प्रदेशादपस - - - - - - - - - - - - - - - टिप्प० - 1 'मन्मथपरिस्पन्दितानि इत्यपि पाठः । कामचेष्टितानि इति तदर्थः । 2 एतत्सर्वं प्रत्यक्षतो वर्तमानमित्यर्थ उचितः । 3 कथंपदं सर्वथा परित्यजति टीकाकृत् । तस्मात् - "अनेन क्षणेन आकारमात्रालोकनव्याकुलीभूतम् (अर्थात् क्षणमात्रं दर्शनमात्रेण विह्वलीभूतम्) अन्तःकरणं कथं पराधीनतामुपैति इति चित्रम्" इति पूर्वानुषङ्गेण व्याख्यातव्यम् । 4 वसन्तादिः, गुणाः सौन्दर्यादयश्चमदनस्य अप्रतीकार्यतामारोपयन्ति इति व्याख्यानमुचितम् ।
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० -१ परिस्पन्दितानि. २ अपहाय.
(306
कादम्बरी।
कथायाम