________________
किमन्येनैव वा केनापि प्रकारेण, अहं न जानामि कथंकथमिति तमतिचिरं व्यलोकयम् ।
उत्क्षिप्य नीयमानेव तत्समीपमिन्द्रियैः, पुरस्तादाकृष्यमाणेव हृदयेन, पृष्ठतः प्रेर्यमाणेव पुष्पधन्वना कथमपि मुक्तप्रयत्नमात्मानमधारयम् । अनन्तरं च मेऽन्तर्मदनेनावकाशमिव दातुमाहितसंताना निरीयुः श्वासमरुतः । साभिलाष हृदयमाख्यातुकाममिव स्फुरितमुखमभूत्कुचयुगलम् । स्वेदैलवलेखाक्षालितेवागलल्लज्जा । मकरध्वजनिशितशरनिपातत्रस्तेवाकम्पत गात्रयष्टिः । तद्रूपातिशयं द्रष्टुमिव कुतूहलादालिङ्गनलालसेभ्योऽङ्गेभ्यो निरगाद्रोमाञ्चजालकम् । अशेषतः स्वेदाम्भसा धौतश्चरणयुगलादिव हृदयमविशद्रागः । आसीच्च मम मनसि -
***********
स्वानुभवेत्यर्थः । तस्मिन्ननुभवेऽप्रमाणत्वं निराकरोति - अकथितेति । न कथितं शिक्षितं वा यस्मिन्नेवंभूतेन । कथिते शिक्षिते ह्यर्थेऽसंभावना विपरीतभावना चोत्पद्यते । तर्हि स्वसंवेद्येन स्वमात्रसाक्षिणा शब्दजन्य एवानुभवो भवतु, तथा संभावनात्मकेन तेन कथं निर्णय इत्यत आह - अनाख्यायेति । स्वमात्रसाक्षिणा तेनाप्यहं न जानामीति संबन्धः । अन्वयस्तु प्रागेवोक्तः ।
मुनिकुमारदर्शनानन्तरमुत्कण्ठाधृत्यादीनि वक्तुं प्रथममुत्कण्ठातिशयमाह - उत्क्षिप्येति । तदुक्तम् - 'दर्शनस्पर्शनालापैर्व्यक्तास्ते सहकारिणः' इति । इन्द्रियैः करणैरुत्क्षिप्योत्पाट्य तत्समीपं मुनिसविधं नीयमाना प्राप्यमाणेव । हृदयेन स्वान्तेन पुरस्तादग्र आकृष्यमाणेव । पुष्पधन्वना मकरध्वजेन पृष्ठतः प्रेर्यमाणा नोद्यमानेव । धृतिमाह - कथमपीति । एतादृश्यहं कथमपि महता क्लेशेन मुक्तप्रयत्न यथा स्यात्तथात्मानमपि प्राणिनमप्यधारयं धारितवती । निरोधश्च धृतिकार्यम् । चिन्तामाह - अनन्तरमिति । चिन्तावशात्कुत्रचिदेकान्ते सचिन्तस्तिष्ठति । एवं सति मे ममान्तरभ्यन्तरे मदनेनावकाशं दातुमाहितसंतानरचितपरम्परा श्वासमरुतः श्वसितवायवो निरीयुनिष्कासिताः । तथा च श्वासावष्टम्भेन संकोचात्तन्निर्गमे सावकाशमिति भावः । अभिलाषमाह - सेति । साभिलाषमभिलाषायुक्तं हृदयं मन आख्यातुकाममिव वक्तुकाममिव कुचयुगलं स्तनयुग्मं स्फुरितमुखं स्यन्दिताननमभूद्धभूव । स्वेदेति । स्वेदः श्रमोत्थं वारि तस्य लवलेखाभिः क्षालितेव धौतेव लज्जा त्रपागलदसवत् । अत्र मुखस्फुरणमभिलाषकार्य स्वेदः श्रमकार्यं लज्जाच्युतिश्चोन्मादकार्यमिति यथाक्रम ज्ञेयम् । त्रासमाह - मकरेति । मकरध्वजस्य कंदर्पस्य ये निशितास्तीक्ष्णाः शरा बाणास्तेषां निकरः समूहस्तस्य निपातः पतनं तेन त्रस्तेव भीतेव गात्रयष्टिदेहयष्टिरकम्पत चकम्पे । कम्पस्त्रासकार्यम् । एवमग्रेऽपि रोमाञ्चनिर्गमसात्त्विकभावं प्रतिपादयन्नाह - तद्रूपेति । तस्य मुने रूपातिशयं सौन्दर्योत्कर्षं द्रष्टुमिव वीक्षितुमिव कुतूहलात्कौतुकादालिङ्गनमुपगृहनं तत्र लालसेभ्यः सस्पृहेभ्योऽङ्गेभ्यो हस्तपादादिभ्यो रोमाञ्चजालकं रोमहर्षणसमूहो निरगानिर्गतं बभूव । स्थायिभावं प्रदर्शयन्नाह - अशेषत इति । स्वेदाम्भसा श्रमोत्थवारिणा चरणयुगलादमियुग्मादशेषतः सामस्त्येन धौतः क्षालितो रागो रतिरारुण्यं च हृदयमिवाविशत्प्रवेशमकरोत् । आसीच्चेति । मे मम - टिप्प० - 1 मे अन्तः (अभ्यन्तरे) अवकाशं दातुम् (तस्य मुनिकुमारस्य निवासस्थानं संपादयितु) मदनेन आहितसंतानाः कृतविस्ताराः श्वासमारुता निर्जग्मुः । एकस्य निर्गमे अन्यस्यावकाशम् ।
-
-
-
-
-
-
-
-
-
पाठा० - १ अप्यात्मानम् आत्मानमपि. २ तन्मदनेन; ह्यन्तर्मदनेन. ३ स्वेदसलिललव.
तदर्शने महाश्वेताया अवस्था
पूर्वभागः ।
305