SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ सुलभः कुसुनायुधः कुसुमसमयमद इव मधुकरी परवशामकरोदुच्छसितैः सह । विस्मृतनिमेषेण किंचिदामुकुलितपक्ष्मणा जिगिततरलतरतारशारोदरेण दक्षिणेन चक्षुषा सस्पृहमापिबन्तीव, किमपि याचमानेव, ‘त्वदायत्तास्मि' इति वदन्तीव, अभिमुखं हृदयमर्पयन्तीव, सर्वात्मनानुप्रविशन्तीव, तन्मयतामिव गन्तुमीहमाना, 'मनोभवाभिभूतां त्रायस्व' इति शरणमिवोपयान्ती, 'देही हृदयेऽवकाशम्' इत्यर्थितामिव दर्शयन्ती, 'हाहा, किमिदमसांप्रतमतिहेपणमकुलकुमारीजनोचितमिदं मया प्रस्तुतम्' इति जानानाप्यप्रभवन्ती करणानाम्, स्तम्भितेव, लिखितेव, उत्कीर्णेव, संयतेव, मूर्छितेव, केनापि विधृतेव, निस्पन्दसकलावयवा तत्कालाविभूतेनावष्टम्भेन, अकथितशिक्षितेनानाख्येयेन, स्वसवेद्येन केवलम्, न विभाव्यते किं तद्रूपसंपदा, किं मनसा, किं मनसिजेन, किमभिनवयौवनेन, किमनुरागेणेवोपदिश्यमानं, *********** सस्पृहं साभिलाषं यथा स्यात्तथापिबन्त्यत्यादरेण विलोकयन्तीव । अत्यादरेण विलोकनं पानमुच्यते । अथ चक्षुर्विलोकयन्नाह - विस्मृतेति । विस्मृतो विस्मृति प्राप्तो निमेषो निमीलनं यस्य तत्तथा तेन । किंचिदिति । किंचिदीषदामुकुलितमाकुड्मलितं पक्ष्म नेत्ररोम यस्मिंस्तत्तथा तेन । जिाितेति । जिहिता कुटिलिता । तरलतरातिचञ्चला तारा कनीनिका यस्मिन्नेवभूतं शारं कल्मषमुदरं मध्यभागो यस्येति चेति द्वन्द्वः । अथ च प्रकारान्तरेण तामेव विशेषयन्नाह - किमपीति । किमप्यनिर्वचनीयस्वरूपं याचमानेव प्रार्थ्यमानेव । याचनाकरितादृशाकारवत्त्वात्तदुपमानम् । त्वदिति । त्वदायत्ता त्वदधीनाहमस्मीति वदन्तीव ब्रुवन्तीव । एतेनावलोकने सातिशयत्वं सूचितम् । अभीति । अभिमुखं संमुखं हृदयं स्वान्तमर्पयन्तीव वितरणं कुर्वन्तीव । मुनीनां व्यामोहजननादिति भावः । सर्वेति । सर्वात्मना सर्वप्रकारेणानुप्रविशन्तीवानुप्रवेशं कुर्वन्तीव । तन्मयेति । तन्मयतां तद्रूपतां गन्तुं प्राप्तुमीहमानेव स्पृहमानेव । मनोभवेनेति । मनोभवेन कंदर्पणाभिभूतां पराभूतां त्रायस्व पाहीति हेतोः शरणं त्राणमुपयान्तीव गच्छन्तीव । देहीति । हृदये चित्तेऽवकाशं प्रवेशं देहीत्यथितां याचकता दर्शयन्तीवावलोकनं कारयन्तीव । विरोधिना विवेकेनाप्यभिवय॑मानाह - हाहेति । हाहा इति खेदे । किमिदमसांप्रतमयुक्तमतिहेपणमतिलज्जाकरमकुलोद्भवो यो कुमारीजनस्तस्योचितं योग्यम् । कुलवत्यास्तु सर्वथा नोचितमिति भावः । इदमेतादृशं कर्म मया प्रस्तुतं प्रारब्धमिति जानानाप्येतादृशज्ञानवत्यपि करणानामिन्द्रियाणामवरोधनेऽप्रभवन्त्यसमर्था । व्यामोहं प्रतिपादयन्नाह - स्तम्भितेव जडीकृतेव, लिखितेव चित्रितेव, उत्कीर्णेवोत्कोरितेव, संयतेव संदानितेव, मूर्छितेव मूर्छा प्राप्तेव, केनाप्यनिर्वचनीयस्वरूपेण विधृतेव गृहीतेव तत्कालाविर्भूतेन तदात्वप्रादुर्भूतेनावष्टम्भेन व्यामोहातिशयेन निस्पन्दा निश्चेष्टाः सकलावयवा यस्याः सैवंभूता सती कथंकथमिति महता कष्टेन तं मुनिकुमारकमतिचिरं बहुकालं व्यालोकयमद्राक्षमिति दूरेणान्वयः । प्रस्तुतस्य दोषरूपतया तन्निदानं दुर्जेयमिति निरूपयन्नाह - अकथितेति । यदनुचितं प्रस्तुतं कर्म तत्केन निमित्तेनोपदिश्यमानमुपदेशविषयीक्रियमाणमिति न विभाव्यते न निश्चीयत इत्यन्वयः । अनिश्चयं प्रदर्शयबाह - किं तद्रूपेति । किमिति वितर्के । तस्य मुनिकुमारस्य रूपसंपदा सौन्दर्यसमृध्या । किं मनसा चित्तेन । किं वा मनसिजेन कंदर्पण । किं वाभिनवयौवनेन प्रत्यग्रतारुण्येन । किं वानुरागेणान्तर्गतप्रीत्या । किमन्येनैव पूर्वोक्तभिन्नेनैव केनापि प्रकारेण । किमिति सर्वत्र वितर्कार्थः । तर्हि स्वसंवेद्येन स्वमात्रसाक्षिणा अनुभवेनैव विभाव्यतामित्यत आह - स्वसंवेद्येनेति । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 प्रकाशयन्तीव । 2 तत्कालाविभूतेन अकथितशिक्षितेन अनाख्येयेन (आकस्मिकतया किंस्वरूप इति निर्वक्तुमशक्येन) अत एव स्वसंवेद्येन अवष्टम्भेन सात्त्विकविकारविशेषेण केवलं तममचिरं व्यलोकयमिति योजना । एवं 'किमनुरागेणेवोपदिश्यमानम्' इति टीकाकारधृतः पाठोपि एतत्पक्षे परिवर्तते । किन्तु - 'उपदिश्यमाना' इति पाठान्तरः स्वीक्रियते । 'न विभाव्यते वक्ष्यमाणानां मध्ये केन उपदिश्यमाना अहं तमतिचिरं व्यलोकयम् इति तद्योजना। पाठा० - १ कुसुमासवगदः. २ किमयम्. ३ विधृतेव. ४ कान्त्या. ५ उपदिश्यमाना. lllllllll 304 कादम्बरी। - कथायाम्-)
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy