________________
भुवनाद्भुतरूपसंभारं भगवन्तं कुसुमायुधमुत्पाद्य तदाकारातिरिक्तरूपातिशयराशिरयमपरो मुनिर्मायामयो मकरकेतुरुत्पादितः । मन्ये च सकलजगन्नयनान्दकरं शशिबिम्ब विरचयता लक्ष्मीलीलावासभवनानि कमलानि सृजता ब्रह्मणैतदाननाकारकरणकौशल्याभ्यास एव कृतः, अन्यथा किमिव हि सदृशवस्तुविरचनायां कारणम् । अलीकं चेदं यथा किल सकलाः कलाः कलावतो बहुलपक्षे क्षीयमाणस्य सुषुम्नानाम्ना रश्मिना रविरापिबतीति, ताः खल्वस्य गभस्तयः समस्ता वपुरिदमाविशन्तीति । कुतोऽन्यथा रूपापहारिणि क्लेशबहुले तपसि वर्तमानस्येदं लावण्यम्' इति चिन्तयन्तीमेव मामविचारितगुणदोषविशेषो रूपैकपक्षपाती नवयौवन -
***********
त्रिभुवनात्त्रिविष्टपादद्भुतोऽतिशायी रूपसंभारः सौन्दर्यसमूहो यस्मिन्नेवंभूतं भगवन्तं कुसुमायुधं कंदर्पमुत्पाद्य निर्माय तदाकारात्कुसुमायुधाकृतेरतिरिक्तोऽधिको रूपाशितयः सौन्दर्योत्कर्षस्तस्य राशिः समूहो मायामयो मोहरूपो मकरकेतुरयमपरो मुनिरुत्पादितः । उत्तरोत्तरमतिशयवत्त्वादयं मकरकेतुस्तदपेक्षयाप्युत्कृष्ट इति भावः । उत्तरोत्तरमतिशयमेव भङ्ग्यन्तरेण निरूपयन्नाह - मन्ये इति । अहमिति मन्ये जाने । इतिशब्दार्थमाह - सकलेति । सकलं समग्रं यज्जगत्तस्य नयनानन्दकरं प्रमोदजनकमेतादृशं शशिबिम्बं चन्द्रमण्डलं विरचयता रचनां कुर्वता । लक्ष्म्याः पद्माया लीलावासभवनानि क्रीडानिवासस्थानान्येवंभूतानि कमलानि सरोजानि सृजता कुर्वता ब्रह्मणा हिरण्यगर्भेणैतस्य मुनिकुमारकस्याननं मुखं तस्याकार आकृतिस्तस्य करणं निर्माणं तत्र कौशलं चातुर्यं तदर्थमभ्यासः पौनःपुन्येन प्रवृत्तिरेव कृतो विहितः । एतत्समर्थयन्नाह - अन्यथेति । अन्यथोक्तवैपरीत्ये, सदृशवस्तुविरचनायां तुल्यपदार्थोत्पादने किमिव कारणं नियामकम् । न किमपीत्यर्थः । अतो ज्ञायतेऽभ्यासार्थमेतन्निर्माणमिति भावः । अलीकं चेति । अग्रे इति वक्ष्यमाणमिदमलीकं मिथ्या । इतिशब्दार्थमाह - यथेति । किलेत्याप्तवाक्ये । बहुलपक्षे कृष्णपक्षे क्षीयमाणस्य कृशतां प्राप्यमाणस्य कलावतश्चन्द्रस्य सकलाः समग्राः कलाः षोडशांशा रविः सूर्यः सुषुम्नानाम्ना रश्मिना नाडीविशेषेणापिबति पानं करोति । तर्हि किं सत्यमित्याशयेनाह - इतीति । ताः समग्रा गभस्तयः कान्तयोऽस्य मुनेरिदं वपुः शरीरमाविशन्ति प्रविशन्ति । तथा च 'यदेकस्मानिर्गमं तत्स्वाश्रयसदृशमुपयाति' इति न्यायेन बहुलपक्षेणोपक्षीयसाणाश्चन्द्रमसो निर्गता गभस्तयस्तपःक्लेशातिशयक्षीणे मुनौ संक्रान्ता इत्यर्थः । उक्तवैपरीत्ये दूषणमाह - कुत इति । अन्यथोक्तान्यथात्वे रूपं.सौन्दर्यं तस्यापहारिणि निराकारिणि । क्लेशः परिश्रमस्तेन बहुले दृढे । एवंविधे तपसि तपस्यायां वर्तमानस्य स्थितस्येदं लावण्यं सर्वोत्कृष्टं सौन्दर्यं कुतः स्यात् । कारणव्यतिरेकेण कार्यानुदयादिति भावः । इति चिन्तयन्तीमेवेति । ध्यायन्तीमेव मां कुसुमायुधोऽनङ्गो मधुकरी भ्रमरी कुसुमसमयमद इव वसन्तकालमद इवोच्छसितैनिःश्वसितैः सह परवशां अथ च कुसुमायुधं विशेषयन्नाह - अवीति । अविचारितोऽनालोचितो गुणदोषयोर्विशेषो बलाबलं येन स तथा । रूपेति । रूपस्य सौन्दर्यस्यैकोऽद्वितीयः पक्षपाती तत्पुष्टिकारी । नवेति । नवं प्रत्यग्रं यद्यौवनं तत्र सुलभः सुप्रापः । तारुण्य एव तदुत्पत्तिसंभवात् । पुनः किं कुर्वन्ती । दक्षिणेनापसव्येन चक्षुषा नेत्रेण - ------ टिप्प० - 1 पूर्वत्र अलीकत्वाऽसंबन्धेऽपि तत्संबन्धवर्णनात्, इह प्रवेशस्याऽसंबन्धेति च संबन्धवर्णनादतिशयोक्तिः । 2 कुसुमासवमद इवेत्यपि पाठः । कुसुमासवमदः पुष्पमधुपानजनिता मत्तता इति तदर्थः । 3 उच्छ्वसितैः सह परवशामकरोदिति योजनायाम् उच्छ्रसितानामपि परवशत्वं प्रतीयते, न च तथा । तस्मात् 'परवशामकरोत् अत्रैव वाक्यसमाप्तिः । 'उच्छ्रसितैः सह विस्मृतनिमेषेण इत्यादि पृथग् वाक्यम् । उच्छसितैः सह अर्थात् यथा निःश्वासाः प्रवृत्ताः तैः सह निमेषोऽपि नेत्रयोनिमीलनमपि मया विस्मृतं तदवस्थया पश्यन्तीति तदर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ रूपराशिः. २ मुनिमायामयः. ३ प्रजापतिना प्रथममेतत्. ४ विरचनायाः. ५ अमुष्य. ६ बिचिन्तयन्तीम्.
तददर्शने महाश्वेताया अवस्था
- पूर्वभागः।
303