________________
मञ्जरीगौरम्, मधुमासमिव कुसुमधवलतिलकभूतिविभूषितमुखम्, आत्मानुरूपेण सवयसापरेण देवतार्चनकुसुमान्युच्चिन्वता तापसकुमारेणानुगतम्, अतिमनोहरम्, स्नानार्थमागतं मुनिकुमारकमपश्यम् । तेन च कर्णावतंसीकृतां वसन्तदर्शनानन्दितायाः स्मितप्रभामिव वनश्रियः, मलयमारुंतागमनार्थलाजाञ्जलिमिव मधुमासस्य, यौवनलीलामिव कुसुमलक्ष्म्याः , सुरतपरिश्रमस्वेदजलकणजालकावलीमिव रतेः, ध्वजचिह्नचामरपिच्छिकामिव मनोभवगजस्य, मधुकरकामुकाभिसारिकाम्, कृत्तिकातारास्तबकानुकारिणीम्, अमृतबिन्दुनिस्यन्दिनीम्, अदृष्टपूर्वां कुसुममञ्जरीमद्राक्षम् ।
'अस्याः परिभूतान्यकुसुमामोदो नन्वयं परिमलः' इति मनसा निश्चित्य तं तपोधनयुवानमीक्षमाणाहमचिन्तयम् - 'अहो रूपातिशयनिष्पादनोपकरणकोशस्याक्षीणता विधातुः, यत्त्रिं -
***********
या प्रियङ्गमञ्जरी फलिनीवल्लरी तद्वद्गौरं शुभ्रवर्णम् । पक्षे प्रियङ्गमञ्जर्या गौरम् । मध्विति । मधुमासो वसन्तमासस्तमिव । उभयोः साम्यमाह - कुसुमेति । कुसुमं पुष्पं तद्वद्धवला शुभ्रा या तिलकार्थं भूतिभस्म तया विभूषितमलंकृतं मुखमाननं यस्य स तम् । पक्षे कुसुमैर्धवला शुभ्रा ये तिलका वृक्षविशेषास्तेषां भूत्या समृद्ध्या विभूषितं मुखमग्रभागो यस्येति बहुव्रीहिः । वसन्तप्रारम्भ एव तिलकवृक्षाणां पुष्पोद्गमसंभवादिति भावः । अन्वयस्तु प्रागेवोक्तः । अथ प्रकारान्तरेण तमेव मुनिकुमारकं विशेषयन्नाह - आत्मेति । आत्मरूपेणात्मसदृशेन सवयसा मित्रेण परेण भिनेन देवतानामर्चनं पूजनं तदर्थं कुसुमानि पुष्पाण्युच्चिन्वतावचयं कुर्वता एवंविधेन तापसकुमारेण परिणाजकबालकेनानुगतं सहितम् । अतीति । अतिमनोहरमतिरुचिरम् । स्नानेनेति । स्नानार्थमाप्लवनार्थमागतं प्राप्तम् । तेनेति । चकारः पुनरर्थकः । तेन कुमारेण कर्णावतंसीकृतां श्रवणशेखरीकृतां कुसुममञ्जरीमद्राक्षमपश्यमित्यन्वयः । कामिव । वसन्तस्य दर्शनेनावलोकनेनानन्दितायाः प्रमुदिताया वनश्रियः काननलक्ष्म्याः स्मितं हास्यं तस्य प्रभामिव । मलयेति । मधुमासस्य वसन्तमासस्य मलयमारुतो मलयानिलस्तस्य आगमनार्थमागमनिमित्तं लाजाञ्जलिमिवाक्षताञ्जलिमिव । यौवनेति । कुसुमलक्ष्म्याः पुष्पश्रियो यौवनलीलामिव तारुण्यक्रीडामिव । सुरतेति । रतेः कामस्त्रियः सुरतं मैथुनं तस्य परिश्रमः खेदस्तस्माद्यत्स्वेदजलं तस्य कणाः पृषतास्तेषां जालक समूहस्तस्यावलीमिव पङ्क्तिमिव । ध्वजेति । मनोभवगजस्य मदनहस्तिनो ध्वजो वैजयन्ती तस्य चिह्नभूता चामरपिच्छिका तामिव । मधुकरेति । मधुकरा भ्रमरास्त एव कामुकाः कामाभिलाषिणस्तेषामभिसारिकां कामिजनानयनकर्तीम्, संकेतितस्थलगामिनी वा । कृत्तिकेति । कृत्तिकाग्निदेवता तस्यास्ताराणां स्तबको गुच्छकस्तस्यानुकारिणीम् । तत्सदृशीमित्यर्थः । अत्र केशानामतिकृष्णत्वेन मञ्जाश्च शुक्लत्वेनैतदुपमानद्वयमिति भावः । अमृतेति । अमृतं पीयूषं तस्य बिन्दवः कणास्तेषां निस्यन्दिनी साविणीम् । अदृष्टेति । अदृष्टपूर्वामनवलोकितपूर्वाम् । अन्वयस्तु प्रागेवोक्तः । ।
अस्याः परीति । ननु वितर्के । अस्या मञ्जर्या अयं परिमलः । परीति । परिभूतोऽभिभूतोऽन्यकुसुमानां स्वेतरपुष्पाणामामोदः परिमलो येन सः इति मनसा स्वान्तेन निश्चित्य निर्णीय तं तपोधनयुवानमृषिकुमारकमीक्षमाणा वीक्षमाणाहमचिन्तयमध्यायम् । अहो इति । अहो इत्याश्चर्ये । विधातुब्रह्मणो रूपातिशयस्य सौन्दर्यातिशयस्य निष्पादने निर्माणे य उपकरणकोश उपस्करभाण्डागारस्तस्याक्षीणताऽक्षयत्वम् । 'कौशलम्' इति पाठे तु निष्पादने यदुपकरणं व्यापारविशेषस्तत्र कौशलं दक्षता तस्याक्षीणतातादवस्थ्यमिति भावः । अतिशयपदव्यङ्ग्यमाह - यत्रिभुवनेति । यदिति हेत्वर्थे ।
पाठा० - १ कुपित. २ आगमनार्थम्. ३ कौशलस्य. ४ यदत्रिभुवना.
(302
कादम्बरी।
कथायाम्