SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ मुकस्य गुणेनेव कुण्डलीकृतेन तपस्तटाककमलिनीमृणालेनेव यज्ञोपवीतेनालंकृतम्, एकेन सनालबकुलफलाकारं कमण्डलुमपरेण मकरकेतुविनाशशोकरुदिताया रतेरिव बाष्पजलबिन्दुभिरारचितां स्फटिकाक्षमालिकां करेण कलयन्तम्, अनेकविद्यापगासंगमावर्तनिभया नाभिमुद्रयोपशोभमानम्, अन्तर्ज्ञाननिराकृतस्य मोहान्धकारस्यापयानपदवीमिवाञ्जनरजोलेखाश्यामलां रोमराजिमुदरेण तनीयसीं बिभ्राणम्, आत्मतेजसा विजित्य सवितारं परिगृहीतेन परिवेषमण्डलेनेव मौजमेखलागुणेन परिक्षिप्तजघनभागम्, अभ्रगङ्गासोतोजलप्रक्षालितेन जरच्चकोरलोचनपुटपाटलकान्तिना मन्दारवल्कलेनोपपादिताम्बरप्रयोजनम्, अलंकारमिव ब्रह्मचर्यस्य, यौवनमिव धर्मस्य, विलासमिव सरस्वत्याः, स्वयंवरपतिमिव सर्वविद्यानाम्, संकेतस्थानमिव सर्वश्रुतीनाम्, निदाघकालमिव साषाढम्, हिमसमयकाननमिव स्फुटितप्रियङ्गु - *********** धनुस्तस्य कुण्डलीकृतेन गुणेनेव ज्ययेव । तप इति । तप एव तटाकः कासारस्तस्य कमलिनी मृणालिनी तस्या मृणालेनेव बिसेनैवभूतेन यज्ञोपवीतेन यज्ञसूत्रेणालंकृतं विभूषितम् । एकेनेति । एकेन करेण हस्तेन । सनालेति । सनालं यद्वकुलफलं केसरफलं तद्वदाकारो यस्यैवंभूतं कमण्डलुम् । अपरेण तदितरेण करेण । मकरेति । मकरकेतुः कंदर्पस्तस्य विनाशो नाशस्तस्माद्यः शोकस्तेन रुदितायाः कृताश्रुपाताया रतेर्मदनस्त्रियो बाष्पजलबिन्दुभिर्नेत्रवारिपृषद्भिरारचितामिव निर्मितामिव । स्फटिकाक्षमालिकां श्वेतजपमालिकां कलयन्तं दधानम् । अनेकेति । अनेकाश्च ता विद्याश्चानेकविद्याः । प्रसरणसाम्यात्ता एवापगा नद्यस्तासां संगमः संश्लेषस्तत्र य आवर्तः पयसा भ्रमस्तन्निभया तत्सदृशया नाभिमुद्रया तुन्दकूपिकयोपशोभमानं विराजमानम् । अन्तरिति । अन्तर्ज्ञानेन तत्त्वज्ञानेन निराकृतस्य दूरीकृतस्य मोहान्धकारस्याज्ञानतिमिरस्यापयानपदवीमिव निःसरणमार्गमिव । अञ्जनमिति । अञ्जनं कज्जलं तस्य रजः कणस्तस्य लेखा राजिस्तद्वच्छ्यामलां कृष्णामेतादृशीं तनीयसीमतितुच्छामुदरेण जठरेण रोमराजिं तनूरुहश्रेणिं बिभ्राणं दधानम् । आत्मेति । आत्मतेजसा स्वकीयकान्त्या सवितारं सूर्यं विजित्य पराभूय परिगृहीतेनात्तेन परिवेषमण्डलेनेव परिधिवलयेनेव । मौजेति । मुजस्तेजनस्तत्संबन्धिनी मौजी या मेखला रशना तस्या गुणेन दवरकेण परिक्षिप्तो वलयितो जघनभागोऽग्रप्रदेशो यस्य स तम् । अभ्रेति । अभ्रगङ्गा व्योमनदी तस्याः सोतः प्रवाहस्तस्य जलमम्भस्तेन प्रक्षालितेन धौतेन । जरदिति । जरञ्ज्यायान्यचकोरो विषसूचकस्तस्य लोचने नेत्रे तयोः पुटं तद्वत्पाटला चेतरक्ता कान्तिर्युतिर्यस्य स तेनैवंभूतेन मन्दारवल्कलेन देवतरुवल्केनोपपादितं विहितमम्बरप्रयोजनं वस्त्रकृत्यं येन स तम् । अलमिति । ब्रह्मचर्यस्य सर्वथा स्त्रीपरित्यागलक्षणस्यालंकारमिव भूषणमिव । धर्मेति । धर्मस्य सुकृतस्य यौवनमिव तारुण्यमिव । सर इति । सरस्वत्या भारत्या विलासमिव विभ्रममिव । स्वयमिति । सर्वविद्यानां समग्रकलानां स्वयंवरपतिर्भर्ता तमिव । एतेन सर्वाभिर्विद्याभिरयमागत्य वृतः, न त्वनेन विद्यार्थ प्रयत्नः कृतः इत्यावेदितम् । संकेतेति । सर्वश्रुतिनां समग्रशास्त्राणां संकेतस्य स्थान पदं तद्वदिव । अन्योऽपि जनः संकेतितं स्थानं गच्छति तद्वत्सर्वं श्रुतमेतस्मिन्समागतमिति भावः । निदाघेति । निदाघो ग्रीष्मकालस्तमिव । उभयोः सादृश्यं प्रदर्शयन्नाह - सेति । सहाषाढेन पलाशदण्डेन वर्तमानम् । 'पालाशो दण्ड आषाढः' इति कोशः । पक्ष आषाढः शुचिमासः । हिमेति । हिमसमयः शीतकालस्तस्मिन्काननं वनं तद्वदिव । उभयोः सादृश्यार्थमाह - स्फुटितेति । स्फुटिता प्रफुल्ला - टिप्प० - 1 वृद्धः, नेत्रारुण्यातिशयार्थम् । - - -- - - - - - - - - - - - - - - - - - - - - - -- - - - पाठा० - १ स्फटिफगुलिकाक्ष. २ अपनयन. ३ तनीयसी; तनीयसीम्. ४ आगृहीतेन. ५ सर्वश्रुतानाम्. (पुण्डरीकः । पूर्वभागः । 1301
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy