________________
लोदरप्रविष्टमिव ज्र्ज्वलनज्वालाकलापमध्यस्थितमिव विभाव्यमानम्, उन्मिषन्त्या बहुलबहुललया दीपिकालोकपिङ्गलया देहप्रभया कपिलीकृतकाननं कनकमयमिव तं प्रदेशं कुर्वाणम्, रोचनारसलुलितप्रतिसरसमानसुंकुमारपिङ्गलजटम्, पुण्यपताकायमानया सरस्वतीसमागमोत्कण्ठाकृतचन्दनरेखयेव भस्मललाटिकया बालपुलिनरेखयेव गङ्गाप्रवाहमुद्धासमानम्, अनेकशापभृकुटिभवनतोरणेन भ्रूलताद्वयेन विराजितम्, अत्यायततया लोचनमयीं मालामिव ग्रथितामुद्धहन्तम्, सर्वहरिणैरिव दत्तलोचनशोभासंविभागम्, आयतोत्तुङ्गघ्राणवंशम्, अप्राप्तहृदयप्रवेशेन नवयौवनरागेणेव सर्वात्मना पाटलीकृताधररुचकम्, अनुद्भिन्नश्मेश्रुत्वादनासादितमधुकरावलीवलयपरिक्षेपविलासमिव बालकमलमाननं दधानम्, अनङ्गका
*****
I
दिवसस्य निदाघवासरस्य यो दिवसकरः सूर्यस्तस्य मण्डलं बिम्बं तस्योदरं मध्यभागस्तत्र प्रविष्टमिव । ज्वलनेति । ज्वलनस्य वह्नेर्यो ज्वालाकलापोऽर्चिषां समूहस्तस्य मध्यस्थितमिवान्तर्गतमिव विभाव्यमानं ज्ञायमानम् । देहेति । देहप्रभया शरीरकान्त्या कपिलीकृतं पिङ्गलीकृतं काननं वनं येन स तम् । अथ देहप्रभां विशेषयन्नाह - उन्मिषेति । उन्मिषन्त्या विकसन्त्या । बहुला च बहुला च बहुलबहुला तया । दीपिकेति । दीपिकायाः प्रसिद्धाया य आलोकः प्रकाशस्तद्वत्पिङ्गलया पिञ्जरया । पुनर्मुनिकुमारं विशेषयन्नाह - कनकेति । कनकमयमिव सुवर्णमयमिव तं प्रदेशं कुर्वाणां विदधानम् । रोचनेति । रोचना गोरोचना तस्या रसो द्रवस्तेन लुलित एकीभूतो यः प्रतिसरो हस्तसूत्रं तत्समना सदृशी सुकुमारा सुकोमला पिङ्गला पिञ्जरा च जटा सटा यस्य स तम् । भस्मेति । भस्म विभूतिस्तस्य ललाटिका पुण्ड्रविशेषस्तयोद्धासमानमुट्याबल्येन दीप्यमानम् । अतिश्वेतत्वसाम्येनाह - पुण्येति । पुण्यस्य धर्मस्य पताकायमानया वैजयन्तीवदाचरमाणया । रेखामधिकृत्याह - सरेति । सरस्वत्या भारत्या यः समागमः संगमस्तज्जनिता या उत्कण्टोत्कलिकाता कृ विहिता चन्दनरेखा मलयजरेखा तयेव । अन्यस्यागमने गृहधवलीकरणं सरस्वत्यास्तु मुखमेव निवासो निलयोऽतस्तदुपरि चन्दनलेखाकरणमिति भावः । कयेव कमित्याकाङ्क्षायामाह - बालेति । बालं सूक्ष्मं यत्पुलिनं जलोज्झितं तीरं तस्य रेखा लेखा तयेवोद्भाव्यमानं ज्ञाप्यमानं गङ्गाप्रवाहमिव स्वर्धुनीवेणीमिव । अनेकेति । अनेकानामसंख्यानां शापभृकुटीनां यद्भवनं गृहं तस्य तोरणेन बहिद्वरिणैवंविधेन भ्रूलताद्वयेन । विराजितं शोभितम् । एतेन सर्वेषां शापप्रदाने क्षम इति ध्वनितम् । अतीति । अत्यायततयातिविस्तीर्णतया लोचनमयीं नेत्रमयी ग्रथितां गुम्फितां मालामिव जपमालिकामिवोद्वहन्तम् । सर्वेति । सर्वहरिणैः समग्रमृगैरिव दत्तो लोचनशोभायाः संविभागो यस्मै तम् । आयत इति । आयतो विस्तीर्ण उत्तुङ्ग उच्चैस्तरो प्राणवंशो यस्य स तम् । अप्राप्त इति । अप्राप्तोऽनुपलब्धो हृदये चित् प्रवेशो येनैवंविधेन नवं प्रत्यग्रं यद्यौवनं तारुण्यं तस्य रागेणेव सर्वात्मना सर्वप्रकारेण पाटलीकृतः श्वेतरक्तीकृतोऽधर एव रुचकं बीजपूरो यस्य स तम) 'रुचकंतु बीज निष्के मोर्चले' इत्येनेकार्थ) यह अध एवं चक्रं ग्रत) 'उच स्वस्तिकद्रव्ये' इति विश्वः । पुनः किं कुर्वाणम् । दधानम् । किम् । आननं मुखम् । अन्विति । अनुद्भिन्नान्यप्रकटितानि यस्य तस्य भावस्तत्त्वं तस्मात् । अनासादीति । अनासादितोऽप्राप्तो मधुकरावल्या भृङ्गपङ्क्त्या वलयाकारेण यः परिक्षेपः परिवेष्टनं तल्लक्षणो विलासो येनैवंभूतं बालकमलमिव नवीननलिनमिव । अनङ्गेति । अनङ्गस्य कंदर्पस्य यत्कार्मुकं -
300
****
टिप्पo - 1 रक्त इत्यर्थः । 2 जटासु बहुत्वमुचितम् । 3 बहुमानसूचनाय गृहे चतुष्क ('चौक') रङ्गवल्लीत्यादिकरणं भवतीत्यर्थो बोध्यः । 4 धिक् । अनेके ये शापाः तेषां कृते भ्रुकुटि: भ्रूसंकोच एव भवनं तस्य तोरणेन ( द्वारवर्तिधनुराकारकाष्ठविशेषरूपेण) । 5 विसारित्वात् सजमिव ।
पाठा० - १ ज्वलनम्; ज्वलदनल; ज्वलज्ज्वलन. २ सुकुमारजटम्. ३ उद्भाव्यमानम्. ४ अनुद्भूत. ५ श्मश्रुराजित्वात्. ६ कार्मुकगुणेन.
कादम्बरी |
कथायाम्