________________
एकस्मिंश्च प्रदेशे झटिति वनानिलेनोपनीतम् निर्भरविकसितेऽपि काननेऽभिभूतान्यकुसुमपरिमलं विसर्पन्तम्, अतिसुरभितयानुलिम्पन्तमिव तर्पयन्तमिव पूरयन्तमिव घ्राणेन्द्रियम्, अहमहमिकया मधुकरकुलैरनुबध्यमानम्, अनाघ्रातपूर्वम्, अमानुषलोकोचितं कुसुमगन्धमभ्यजिघ्रम् । कुतोऽयमित्युपारूढकुतूहला चाहं मुकुलितलोचना तेन कुसुमगन्धेन मधुकरीवावकृष्यमाणा कौतुकतरलाभ्यधिकतरोपजातमणिनूपुरझङ्काराकृष्टसरःकलहंसानि कतिचित्पदानि गत्वा हरहुताशनेन्धनीकृतमदनशोकविधुरं वसन्तमिव तपस्यन्तम्, अखिलमण्डलप्राप्त्यर्थमीशानशिरःशशाङ्कमिव धृतव्रतम्, अयुग्मलोचनं वशीकर्तुकामं काममिव सनियमम्, अतितेजस्वितया प्रचलतडिल्लतापञ्जरमध्यगतमिव ग्रीष्मदिवसदिवसकरमण्ड -
***********
. एकस्मिश्चेति । एकस्मिन्प्रदेशे कुसुमगन्धं पुष्पजनमनोहारिणमभ्यजिघ्रं घ्राणविषयतामनयम् । अथ च गन्धं विशेषयन्नाह - झटिति शीघ्र वनानिलेनारण्यपवनेनोपनीतमानीतम्, निर्भर नितान्तं विकसिते विकस्वरे कानने वनेऽपि सति । अभीति । अभिभूत आत्तगन्धोऽन्यकुसुमानां विजातीयसजातीयप्रसूनानां परिमलो येन स तम् । अस्मिन्नर्थे हेतु प्रदर्शयन्नाह - अतीति । अतिसुरभेर्भावस्तत्ता तया । एतस्मादुत्कृष्टः कोऽपि परिमलो नास्तीति भावः । पुनः किं कुर्वन्तम् । विसर्पन्तम् प्रसरन्तम् । अथ गन्धाधिक्यं प्रदर्शयन्नाह - व्राणेति । ध्राणेन्द्रियं विकूणिकाकरणमनुलिम्पन्तमिव दृढसंबन्धं कुर्वन्तमिव । तर्पयन्तमिव तृप्तिं जनयन्तमिव । पूरयन्तमिव परिपूर्णीकुर्वन्तमिव । अहमिति । मिथो यो गर्वः साहमहमिका तया मधुकरकुलैर्धमरसमूहैरनुबध्यमानमनुरुध्यमानम् । अनाध्रातपूर्वमनाजिध्रितपूर्वम् । अमानुष इति । अमानुषलोको देवलोकस्तस्योचितं योग्यम् । अन्वयस्तु प्रागेवोक्तः । कुत इति । कस्मात्प्रदेशादयं गन्ध इत्युपारूढं प्रादुर्भूत कुतूहलं कौतुकं यस्याः सैवंविधाहं स्नानार्थमागतं मुनिकुमारकं तापसपुत्रमपश्यमद्राक्षमित्यन्वयः । अथैतस्या विशेषणानि - मुकुलितेति । मुकुलिते कुड्मलिते लोचने नेत्रे यस्याः सा । तेनेति । तेन पूर्वोक्तेन कुसुमगन्धेन पुष्पामोदेन मधुकरीवदनवकृष्यमाणा बलात्कारेण नीयमाना । कौतुकेति । कौतुकेन कुतूहलेन तरला कम्पा । किं कृत्वा । कतिचित्कियन्ति पदानि गत्वा । अथ पदानि विशेषयन्नाह - अभ्यधिकेति । त्वरितगमनादभ्यधिकतरः पूर्वस्मादतिशायी य उपजात उत्पन्नो मणिनपुराणां रत्नखचिततुलाकोटीना झङ्कारः शब्दविशेषस्तेनाकृष्टा आकर्षिताः सरःकलहंसाः कासारकादम्बा यैस्तानि । इतो मुनिकुमारं विशेषयन्नाह - हरेति । हरेणेश्वरेण हुताशने नेत्रसमुत्थिते वह्नाविन्धनीकृतो यो मदनः कामस्तस्य शोकः खेदस्तेन विधुरं व्याकुलमतएव तपस्यन्तं तपस्यां कुर्वन्तं वसन्तमिव सुरभिमासमिव । इयं च सुरभिगन्धसाम्यादुत्प्रेक्षा । अखिलमिति । अखिलं समग्रं यन्मण्डलं भूमण्डलं षोडशकलात्मकं च तस्य प्राप्तिरुपलब्धिस्तदर्थं धृतं व्रतं नियमो येनैवंभूतमीशानशिरःशशाङ्कमिवेश्वरोत्तमाङ्गचन्द्रमिव । रूपातिशयसाम्येनाह - अयुग्मलोचनमीश्वर वशीकर्तुकाम सनियम काममिव । अतीति । अतितेजो विद्यते यस्यासावतितेजस्वी तस्या भावस्तत्ता तया प्रचला चञ्चला तडिल्लता विद्युल्लता तस्याः पञ्जरं पक्षिरक्षणस्थलं तस्य मध्यगतमिव । ग्रीष्मेति । ग्रीष्म -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पुष्पगन्धं जनमनोहारिणमित्यर्थः । 2 अभिभूताः अन्येषां कुसुमानां परिमलाः (अतिशोभना गन्धाः) येन तमित्यर्थः । 3 द्रवपदार्थवत् सर्वावयवेषु व्याप्नुवन्तमिवेत्याशयः। 4 अनुगम्यमानमित्यर्थः । 5 केषाञ्चनाऽर्धदग्धानां मते न पत्र श्लेषो येनार्थद्वयम् । शिरःशशाङ्कः कलामात्रः, अत एव स पूर्णमण्डलप्राप्त्यर्थं तपस्यतीवेत्युत्प्रेक्षा । एतन्मते मण्डलस्य एक एवार्थः प्रकृतः ।
पाठा० - १ अथैकस्मिन्. २ मधुकरावकृष्यमाणा; मधुकरीवाकृष्यमाणा. ३ नूपुरमणि. ४ हरनयनहुताशन. ५ विधुर. ६ प्रचलिततडिल्लतापञ्जरगतमिव. ७ दिवस. ८ दिनकर.
(पुण्डरीकः
पूर्वभागः ।
299