________________
मासदिवसेष्वेकदाहमम्बया सह मधुमासविस्तारितशोभं प्रोत्फुल्लनवनलिनकुमुदकुवलयकह्लारमिदमच्छोदं सरः स्नातुमभ्यपतम् । अत्र च स्नानार्थमागतया भगवत्या पार्वत्या तटशिलातलेषु विलिखितानि सभृङ्गिरिटीनि पासुनिमग्नकृशपदमण्डलानुमितमुनिजनप्रणामप्रदक्षिणानि त्र्यम्बकप्रतिबिम्बकानि वन्दमाना, भ्रमरभर ग्नगर्भकेसरजर्जरकुसुमोपहाररम्योऽयं लतामण्डपः, परभृतनखकोटिपाटितकुड्मलनालविवरविगलितमधुनिकरधारः सुपुष्पितोऽयं सहकारतरुः, उन्मदमयूरकुलकलकलभीतभुजङ्गमुक्ततला शिशिरेयं चन्दनवीथिका, विकचकुसुमपुञ्जपातसूचितवनदेवताप्रेखोलनशोभनेयं लतादोला, बहलकुसुमरजःपटलमग्नकलहंसपदलेखमतिरमणीयमिदं तीरतरुतलमिति स्निग्धमनोहरतरोद्देशदर्शनलोभाक्षिप्तहृदया सह सखीजनेन व्यचरम् ।
***********
यकेषु प्रमोदजनकेषु । अन्वयस्तु प्रागेवोक्तः । अथाच्छोदं सरो विशेषयन्नाह - मध्विति । मधुमासेन विस्तारिता विस्तारता नीता शोभा कान्तिर्यस्मिंस्तत् । प्रोत्फुल्लेति । प्रोत्फुल्लानि विकसितानि नवानि प्रत्यग्राणि यानि नलिनानि कमलानि, कुमुदानि कैरवाणि, कुवलयान्युत्पलानि, कलारं सौगन्धिकम्, एतानि विद्यन्ते यस्मिंस्तत् । अत्रेति । अस्मिन्स्थले स्नानार्थमाप्लवार्थमागतया प्राप्तया भगवत्या माहात्म्यवत्या पार्वत्या गौर्या । तटेति । तटं तीरं तस्मिन् यानि शिलातलानि तेषु विलिखितान्यलेखितानि यानि त्र्यम्बकस्य महादेवस्य प्रतिबिम्बकानि प्रतिच्छायानि तानि वन्दमाना नमस्कुर्वाणा । कीदृशानि । भृङ्गिरिटिर्गणविशेषस्तेन सहितानि तत्सहवर्तमानानि । पास्विति । पांसौ सिकतासमूहे निमग्नानि बुडितानि कृशपदमण्डलान्यस्थूलचरणप्रतिबिम्बानि तैरनुमितेऽनुमानविषयीकृते मुनिजनानामृषिवर्गाणां प्रणामप्रदक्षिणे नमस्कृतिपरिभ्रमणक्रिये येषु तानि । इतीति । स्निग्धः सघनोऽतएव सच्छायो मनोहरतरोऽतिशयेन चित्तहारी य उद्देशो वनैकप्रदेशस्तस्य दर्शनमवलोकनं तस्य लोभस्तृष्णा तेनाक्षिप्तं हृदयं स्वान्तं यस्याः सैवंविधाहं सह सखीजनेन वयस्याभिः सम व्यचरमभ्रमम् । इतिशब्दार्थं व्याख्यानयन्नाह - भ्रमरेति । भ्रमरभरेण मधुकरसमुदायेन भुग्नो भगुरो गर्भो मध्यभागो यस्यैवंभूतः । तथा केसरैः किञल्कैर्जर्जरः कुसुमानां पुष्पाणामुपहारः समूहस्तेन रम्यो मनोहरः । अयमित्यस्य प्रत्येकमभिसंबन्धः लतेति । लता व्रततिस्तस्या मण्डपो जनाश्रयः । परेति । परभृताः कोकिलास्तेषां नखकोट्या नखराग्रेण पाटितानि विदारितानि कुड्मलानां मुकुलाना नालानि काण्डास्तेषां विवराणि छिद्राणि तेभ्यो विगलिता विद्रुता मधुनिकरधारा रससमूहलेखा यस्मिन्नेवंभूतः सुपुष्पितोऽयं सहकारतरुराम्रवृक्षः । उन्मदेति । उन्मदा मदोन्मत्ता ये मयूराः केकिनस्तेषां कुलानि सजातीयसमूहास्तेषां कलकलः कोलाहलस्तेन भीतास्त्रस्ता ये भुजङ्गा भोगिनस्तैर्मुक्तं त्यक्तं तलं यस्या एतादृशी शिशिरा शीतलेयं चन्दनवीथिका मलयजखण्डश्रेणी । विकचेति । विकचो विकस्वरो यः कुसुमानां पुष्पाणां पुञ्जः समूहस्तेन सूचितं ज्ञापितं यद्वनदेवतारण्याधिष्ठात्री देवी तस्याः प्रेखोलनमान्दोलनं तेन शोभना मनोज्ञा इयं लतादोला वल्लीप्रेखा । बहलेति । बहलानि बहूनि यानि कुसुमरजांसि तेषां पटलं वृन्दं तस्मिन्मग्नानि यानि कलहंसपदानि कादम्बचरणानि तेषां लेखा वीथी यस्मिन्नेवंभूतमतिरमणीयमतिमनोहरमिदं तीरतरुतलं तटवृक्षाधोभागः । - - - - - - - - -- टिप्प० -1 प्रतिमूर्तीः इत्युचितम् । 2 कुसुमपुञ्जस्य यः पातस्तेन सूचितं यत् वनदेवतानां प्रेखोलनम्, इत्यन्वयो योग्यः ।
-
-
-
-
-
-
-
-
पाठा० -१ अभ्युपगमम्; अभ्यागमम्. २ पात्रमय. ३ भग्न. ४ जर्जरकुसुमोपहार; शाखान्तरनर्तकजर्जरकुसुमोपहार. ५ कुड्मलविवर. ६ मधुधारः. ७ मयूरकलकल; सकलमयूरकलकलः. ८ चन्द्रनवनवीथिका.
(298
IN कादम्बरी।
शायाम.) ammmmmmway कथायाम-)