________________
स्मानसावागतः' इति पुनः पुनः पर्यपृच्छम् । अनयैव च कथया तया सह तस्मिन्नेव प्रासादे तथैव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवसमत्यवाहयम् ।
अथ मदीयेनेव हृदयेन कृतरागसंविभागे लोहितायति गगनतेलावलम्बिनि रविबिम्बे, सरागदिवसकरदर्शनानुरक्तायां कृतकमलशयनायामनङ्गातुरायामिव पाण्डुतां व्रजन्त्यामातपलक्ष्म्याम्, गैरिकगिरिसलिलप्रपातपाटलेषु कमलवनेभ्य उत्थाय वनगजयूथेष्विव पुञ्जीभवत्सु भास्करकिरणेषु, गगनावतारविश्रामलालसानां रविरथवाजिनां हर्षहेषारवप्रतिशब्दकेन सह विशति मेरुगिरिगह्वरं वासरे, मुकुलितरक्तपङ्कजपुटप्रविष्टमैधुकर्यावलीषु विरहम् -
***********
प्रकाशयन्ती । अन्वयस्तु प्रागेवोक्तः । अनयैवेति । अनयैव पूर्वोक्तयैव कथया वार्तया तया सह तरलिकया समं तस्मिन्नेव प्रासादे सौधे प्रतिषिद्धो निवारितोऽशेषपरिजनस्य प्रवेश आगमनं ययैवंभूता दिवसं दिनमत्येवायमत्यक्रामम् ।
अथेत्यानन्तर्ये । सा छत्रग्राहिण्यागत्याकथयदित्यग्रिमग्रन्थसंबन्धः । तत्र 'मदीय' इत्यारभ्य 'युगलेषु' इतिपर्यन्तं सत्यन्तैः सायंसमयवर्णनमाह - मदीयेति । मदीयेनेव हृदयेन कृतो रागस्य संविभागो यस्यैवंभूते लोहितायति लोहितवदाचरति गगनतलं व्योमतलं तत्रावलम्बिनि लम्बायमाने रविबिम्बे सूर्यर्बिम्बे सति । पुनः कस्याम् । आतपलक्ष्म्याम् । किंविशिष्टायाम् । सरागेति । राग आरुण्यं रतिश्च तेन सहवर्तमानो यो दिवसकरः सूर्यस्तस्य दर्शनेनावलोकनेन तस्मिन्वानुरक्ता तस्यामत एव कृतं कमलानां शयनं कमलेषु शयनं वा यया सा तस्याम् । आरुण्यवशादाह - अनङ्गेति । अनङ्गेन कंदर्पेणातुरायामिव पीडितायामिव पाण्डुतां श्वेततां व्रजन्त्यामिव । पुनः केषु । भास्करकिरणेषु रविभानुषु सत्सु । तानेव विशेषयन्नाह - गैरिको धातुमयो गिरिः पर्वतस्तस्य सलिलमम्भस्तस्मिनन्प्रपातः पतनं तेन पाटलेषु श्वेतरक्तेषु | कमलवनेभ्यो नलिनखण्डेभ्य उत्थायोत्थानं कृत्वा वनगजयूथेष्विवारण्यहस्तिसमूहेष्विव पुञ्जीभवत्स्वेकीभवत्सु । पुनः कस्मिन्सति । वासरे दिवसे मेरुगिरिगह्वरं निकुञ्जं विशति प्रविशति सति । कथं सह केनेत्यभिप्रायेणाह - गगनेति । गगन आकाशेऽवतारः परिभ्रमणं तस्माद्यो विश्रामो विश्रान्तिस्तस्मिल्लालसानां सस्पृहाणां रविरथवाजिनां सूर्यस्यन्दनाश्वानां हर्षः प्रमोदस्तेन हेषारवस्तस्य प्रतिशब्दकः प्रतिच्छन्दस्तेन सह । सार्धमित्यर्थः । तथा च रविकिरणानामधः स्थलं परित्यज्योर्ध्वगमनान्मध्यावस्थाचरणमाह - पद्मिनीष्विति । मुकुलितानि कुड्मलितानि यानि रक्तपङ्कजानि कोकनदानि तेषां पुटानि तत्र प्रविष्टाः कृतप्रवेशा मधुकरीणां भ्रमरीणामावल्यः श्रेण्यो यास्वेवंविधासु पद्मिनीषु नलिनीषु सत्सु । कृष्णत्वसाम्यादाह - विरहेति । विरहो वियोगः । रवेरिति शेषः । तेन या मूर्च्छा तयान्धकारितं संजातान्धकारं हृदयं यासामेवंविधास्विव । अत एव प्रारब्धं निमीलनं याभिस्तासु । पुनः केषु । रथाङ्गनाम्नां चक्रवाकानां युगलेषु घटमानेषु भिन्नतां प्राप्यमाणेषु । किं कृत्वा । परस्परहृदयान्यन्योन्यानुरागलक्षणान्या
टिप्प० - 1 अगमयमित्यर्थः णेरावश्यकत्वात् । 2 सूर्यबिम्बे कृतरागसंविभागे लोहितायति सति, गगनतलावलम्बिनि च सति इत्यर्थो योग्यः । एवमग्रिमवाक्येष्वपि । 3 वस्तुतस्तु 'सरागदिवसकरानुरक्तायाम्' इत्येव पाठः । 4 गैरिकाख्यो यो धातुविशेषस्तस्य गिरिर्गैरिकगिरिः । 5 वनगजा अपि गैरकसलिलप्रपातेन पाटलाः सन्तः सायमेकत्र पुञ्जीभवन्ति, सूर्यकिरणा अपि पाटलाः सन्तः सायं संकुचितावस्थतया पुञ्जीभवन्तीति द्वयोः साम्यादुपमा । 6 स्त्रीत्वं स्यात् ।
पाठा० - १ तलोपान्ताव. २ समुत्थाय ३ मधुकरावलीषु. ४ रविविरह.
महाश्वेताया विह्वलता
पूर्वभागः ।
321