________________
छान्धकारितहृदयास्विव प्रारब्धनिमीलनासु पद्मिनीषु, ग्रासीकृतसामान्यभृणाललताविवरसंक्रामितानीव परस्परहृदयान्यादाय विघटमानेषु रथाङ्गनाम्नां युगलेषु सा छत्रग्राहिण्यागत्याकथयत्- ‘भर्तृदारिके, तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति । कथयति चाक्षमालामुपयाचितुमागतोऽस्मि' इति । अहं तु मुनिकुमारनामग्रहणादेव स्थानस्थितापि गतेव द्वारदेशं समुपजाततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनम् ‘गच्छ । प्रवेश्यताम्' इत्यादिश्य प्राहिणवम् । अथ मुहूर्तादिव तं तस्य रूपस्येव यौवनम्, यौवनस्येव मकरकेतनम्, मकरकेतनस्येव वसन्तसमयम्, वसन्तसमयस्येव दक्षिणानिलमनुरूपं सखायं मुनिकुमारक कपिञ्जलनामानं जराधलितस्य कञ्चुकिनोऽनुमार्गेण चन्द्रातपस्येव बालातपमँनुयायिनमपश्यम् । अन्तिकमुपागतस्य चास्य पर्याकुलमिव सविषादमिव शून्यमिवार्थिनर्मिवानुपरताभिप्रेतमाकारमलक्षयम् । उत्थाय च कृतप्रणामा सादरं स्वयमासनमुपाहरम् । उपविष्टस्य च बलादनिच्छतोऽपि -
***********
दाय गृहीत्वेत्यर्थः । रक्तत्वसाम्यादुप्रेक्षामाह - ग्रासीति । ग्रासीकृतार्धजग्धा याः सामान्यमृणाललता बिसलतास्तासा विवराणि छिद्राणि तेषु संक्रामितानीव क्षिप्तानीव । किं कथितवतीत्याशयेनाह - भर्तृ इति । हे भर्तृदारिके हे राजसुते, तयोर्मुनिकुमारयोरिति निर्धारणे षष्ठी । अन्यतर एकः कश्चिद्वारि प्रतोल्यां तिष्ठति स्थितोऽस्तीति । कथयति वक्ति च । तदेवाह - अक्षनालेति । अक्षमाला जपमालामुपयाचितुं प्रार्थितुमागतः प्राप्तोस्मि । अहं त्विति । मुनिकुमारस्य नामग्रहणादेवाभिधानमात्रश्रवणादेव । उत्कण्ठातिशयमाह - स्थानेति । स्थानस्थितापि स्वस्थानस्थापि द्वारदेशं गतेव प्रतोलीप्रदेशं प्राप्तेव, समुपजाता समुत्पन्ना तस्य पुण्डरीकस्यागमने आशङ्कारेका यस्या एवंभूता सत्यन्यतमं कञ्चुकिनं सौविदल्लं समाहूयाह्वानं कृत्वा गच्छ व्रज, सः प्रवेश्यता मध्ये प्रवेश कार्यतामिति शेषः । इति पूर्वोक्तमादिश्य कथयिस्वा-प्राहिणवं प्रेषितवती । अथेति । तत्प्रेषणानन्तरं मुहूर्तामिव । अत्रेवशब्दः सदृशार्थः । मुहूर्तसदृशादित्यर्थः । तदुक्तमलंकारशेखरे - 'इवाद्यैः प्रतिमानायैः समानार्थेनिभादिभिः । बन्धबोरांदिवंशायः(?) सादृश्यप्रतिपत्तयः' इति । तमिति । तस्य पुण्डरीकस्यानुरूपं सखायं मित्रम् । अनुरूपमित्रसंबन्धप्रदर्शनार्थमुपमानान्तराण्याह - रूपस्येति । रूपस्य सौन्दर्यस्य यौवनमिव तारुण्यमिव । यौवनस्य तारुण्यस्य मकरकेतनमिव कंदर्पमिव । मकरकेतनस्य वसन्तसमयमिव सुरभिकालमिव । वसन्तसमयस्य दक्षिणानिलमिवापाचीपवनमिव मुनिकुमारकं तापसबालकं कपिजलनामानं जरा विससा तया धवलितस्य शुभ्रीकृतस्य कञ्चुकिनः सौविदल्लस्यानुमार्गेण पश्चाद्भागेन चन्द्रातपस्य शीतांशुप्रकाशस्यानुयायिनं पश्चाद्गामिन बालातपमिव तमपश्यमवालोकयम् । एतेन कञ्चुकिकपिञ्जलयोस्तत्समीपावधि सहागमनेऽपि वैलक्षण्यं योतितम् । अन्तिकमिति । अन्तिक समीपमुपागतस्य प्राप्तस्य चास्य कपिजलस्य पर्याकुलमिवात्यन्तव्याकुलमिव सविषादमिव सखेदमिव शून्यमिव नष्टचैतन्यमिवार्थिनमिव मार्गणमिवानुपैरतमपरिपूर्णमभिप्रेतं वाञ्छितं यस्मिन्नेतादृशमाकारमाकृतिमलक्षयमाकलयम् । उत्थाय च कृतः प्रणामो नमस्कारो ययैवंभूताह -
-- - - - - - - - - टिप्प० - 1 ग्रासीकृतया सामान्यया एकया (अर्थात् एकैव मृणाललता द्वाभ्यामपि चञ्चुपुटेन उभयप्रान्ते धृता) मृणाललतया (का) विवरेण निजछिद्गपथेन (करणेन) संक्रामितानीव । इत्यर्थः । 2 'बन्धु-चोरादवंश्याद्यैः' इति पाठः स्यात् संभवितः । 3 वास्तेव तु - ‘अन्तर्गताकूलम्' अन्तर्गतम् आकृतम् अभिप्रायविशेषो यस्य तम् अर्थात् तस्याकार ईदृशो दृश्यते स्म यथा कश्चिदभिप्रायोऽस्य प्रकटनीयो वर्तते परं न तं स बहिः प्रकाशयतीति ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० -१ समागत्य. २ ऋषिकुमारकम्. ३ धवलस्य. ४ आगच्छन्तम्. ५ उपगतस्य. ६ अन्तर्गताकृतम्.
322
कादम्बरी ।
कथायामू